०१
अथाष्टमो ऽध्यायः
व्यवहारान् दिदृक्षुस् तु ब्राह्मणैः सह पार्थिवः ।
मन्त्रज्ञैर् मन्त्रिभिश् चैव विनीतः प्रविशेत् सभाम् ॥ ८.१ ॥
मेधातिथिः ...{Loading}...
प्रजानां पालनं राज्ञो वृत्तिर् विहिता । सा चात्र ।
-
शस्त्रास्त्रभृत्त्वं क्षत्रस्य वणिक्पशुकृषीर् विशः ।
-
आजीवनार्थं शूद्रस्य द्विजातीनां निषेवणम् ॥ (म्ध् १०.७९)
-
एवं नृपो वर्तमानो लोकानान् आप्नोत्य् अनुत्तमान् ॥ इति ।
तथा धर्मो वर्धते लोके । अन्येषाम् अपि वर्णानां क्षत्रियवृत्त्या जीविनाम् अस्त्य् एव राज्याधिकारः ।
-
यः कश्चित् सर्वलोकानाम् पालकश् च नृपः स्मृतः ।
-
कर्मनिष्ठा च विहिता लोकसाधारणे हिते ॥
परिपालनं च पीडापहारः । द्वयी च पीडा, दृष्टा अदृष्टा च । तत्र दुर्बलस्य बलीयसा धनहरणादिना बाध्यमाना दृष्टा पीडा । इतरस्य तु विध्यतिक्रमजनितेन प्रत्यवायेनामुत्रिकदुःखोत्पादनम् अदृष्टपीडा । प्रजा हि द्वेषमत्सरादिभिर् इतरेतरम् अयथावद् आचरन्ति, कुपथेन यान्ति, अदृष्टदोषेण बाध्येरन् । अतश् च राज्यनाशः । प्रजैश्वर्यं हि राज्यम् उच्यते । तासु विनश्यन्तीषु कस्य राज्यं स्यात् । व्यवहारादयो ऽतः ।शास्त्रदण्डेन व्यवस्थाप्यमाना न भयात् पृथक् प्रचलन्ति, तथा चोभयथापि रक्षिता भवन्ति । धनदण्डश् च राज्ञः, करशुल्कादि1 वा । एतदन्या2 धर्मिष्ठजीविका न भवतीति वृत्तिपरिक्षयाद् अपि राज्यावसादः । अतो राज्यस्थित्यर्थं व्यवहारदर्शनं कर्तव्यम् ।
- तद् इदानीम् उच्यते । व्यवहारश् चात्र वादिप्रतिवादिनोर् इतरेतराशनोद्धाराय3 वृत्तिर् उच्यते । अथ वा ऋणादानादयः पदार्था एव विप्रतिपत्तिविषयाः सन्तो विचारगोचरसमर्थतया कर्तव्या इति । दिदृक्षुर् इत्य् उक्त्वा “पश्येत् कर्याणि” (म्ध् ८.२) इति सामानाधिकरण्यम् । पुनश् च प्रत्यवमर्शः “तेषाम् अद्यम् ऋणादानम्” (म्ध् ८.४) इति । तान् पदार्थान् विचारयेद् इति संबन्धः । वक्ष्यमाणाधिकृतपुरुषाधिष्ठितः प्रदेशः सभा । प्रवेशस् तदभ्यन्तरभावः । किम् एक एव प्रविशेत् । नेत्य्4 आह ब्राह्मणैः सहेति । अथ मन्त्रज्ञैर् इति कस्य विशेषणम् । न तावन् मन्त्रिणः, मन्त्रित्वाद् एव सिद्धेः । न हि मन्त्रम् अजानानो मन्त्रीति शक्यते वक्तुम् । नापि ब्राह्मणानाम्, व्यवहारदर्शने ऽधिकृतानां तत्परिज्ञानम् अदृष्टाय5 स्यात् ।
- अत्रोच्यते । ब्राह्मणविशेषणम् एवैतत् । ते ह्य् अमन्त्रज्ञा6 भूत्वा निरपेक्षम् अवधारयन्तः स्युः । अन्यथा राज्ञो ऽनर्थम् आवहेयुः । तथा हि महामत्याश्रितः कश्चिज् जनपदेन व्यवहरन् सहसा जितो यदि न दण्ड्यते धनं वावष्टभ्य न दाप्यते, तदा समत्वेन व्यवहारदर्शनं न कृतं स्यात्, पक्षपातम् अशक्तिं वास्य जनपदा मन्येरन् । अथ दण्ड्यते, महामात्यक्षोभाद् अपि प्रकृतिविकृतं स्यात् । मन्त्रज्ञास् तु सन्तः संशयितारो यदि निर्णेतव्यस्य केनचिद् अपदेशेन प्रसङ्गरोधं कृत्वा रहसि राजानं परिबोधयन्ति “अनयोर् विवादिनोर् अयं जीयते ऽयं जयतीति, व्यवहारस् त्व् अस्माभिर् न तदानीम् एव निर्णीत इति स्वामी प्रमाणम्” । तत्र राजैवं विदित्वा महामात्यम् आदेशयति “त्वदीयो मनुष्यो जीयते, मम हनिर् मा भूद् इति संप्रति निर्णयो ऽवधीरितः । त्वम् एव तथा कुरु यथैष मनुष्यः संधीयते, बाधास्य व्यपनीयते” । ते मन्त्रिणो वादेयवाक्या मनुष्याणां सर्वेषाम् अनर्थ्यां च प्रवृत्तिं प्रतिबध्नन्ति ।
अन्ये तु काकाक्षिवद् उभयविशेषणम् अर्थबेदेन मन्त्रज्ञपदं मन्यन्ते । यदा मन्त्रिणो विशेष्यन्ते तत्तद्धातुतत्परिज्ञानं7 मन्त्रज्ञानम् । ब्राह्मणपक्षे तु कार्यार्थसमभावश् च । मन्त्रिब्राह्मणानां न प्रवेशमात्रम् एव, किं तर्हि निर्णयं “पश्येत्” (म्ध् ८.२) इत्य् उत्तरत्रवाक्याद्8 यथायोग्यम्,9 इतरथा अदृष्टाय प्रवेशः स्यात् । अतो नैकाकी निर्णयं कुर्यात्, किं तर्हि तैः सह निरूप्येति ।
विनीतः वाक्पाणिपादचापलरहितः । वेपतो ह्य् अनर्थः स्यात् । पार्थिवग्रहणान् न क्षत्रियस्यैवायम् उपदेशः, किं तर्ह्य् अन्यस्यापि पृथिव्याम् अधिपतेर् देशेश्वरस्य, न ह्य् अन्यथा10 राज्यम् अविचलितं भवतीति ॥ ८.१ ॥
तत्रासीनः स्थितो वापि पाणिम् उद्यम्य दक्षिणम् ।
विनीतवेषाभरणः पश्येत् कार्याणि कार्यिणाम् ॥ ८.२ ॥
मेधातिथिः ...{Loading}...
आसीनः धर्मासनोपविष्टः । स्थितः निषिद्धगतिर् अनुपविष्ट एव । स्थानासनयोश् च व्यवस्थितो विकल्पः कार्यविशेषापेक्षः । गरीयसि कार्ये बहुवक्तव्य उपविष्ट आसीनः, लघीयसि स्वल्पवक्तव्ये स्थितः । क्रममाणस्य सर्वथा प्रतिषेधः । स हि मार्गावलोकनपरो नार्थिप्रत्यर्थिनोर् निपुणतो वचनम् अवधारयेत् ।
अन्ये त्व् अदृष्टार्थं तथा मन्यन्ते । तपस्विब्राह्मणादिषु11 विवादिषु स्थितेषु स्थितः आसीनेष्व् आसीनः ।
पाणिम् उद्यम्येति । उत्तरपाणिम्12 उद्धृत्योत्थानं कृत्वेत्य् अर्थः । सूत्रकृतो ऽयं व्यतिक्रमः13 सर्वदा विहितत्वाद् व्यसनोपव्यानम् एतत् । तेनायम् अर्थः- हस्त उत्क्षेप्तव्यः, न पुनः समीपवर्तिनि संलग्नः कर्तव्यः । प्रश्ननिषेधावसरे च तेनाभिनेतव्यम्, न तु प्रव्याणादिना । अनेन व्यवहारदर्शनेन तात्पर्यं ख्यापितं भवति । प्रायेण हि पुरुषाः14 कार्येषु प्रयत्नवन्तो हस्तम् उद्यच्छन्ति । यथासुखोपविष्टं व्रजति कर्तारं ततश् च परिजने तद् एतद् राजा चित्तं15 न ददाति सभ्यैर् निर्भयैर् वयं जिता इति । पाणिग्रहणं बाहूपलक्षणार्थम् । केवलस्य हि हस्तस्य यावद् व्यवहारदर्शनं व्यापारणं पीडाकरम् । न चायम् अदृष्टार्थ उपदेशः ।
विनीतवेषाभरण इति । पूर्वश्लोके बाह्याभ्यन्तरेन्द्रियविषयावधानार्थो ऽभिहितः । अयं तावल् लोकानां16 शालीनतया सुखोपसर्पणार्थः17 । उद्धतवेषे18 हि रजनि19 तथाविधानाम् अप्रतिपत्तिः स्यात् । अत उद्धतवेषाभरणं20 न कथंचित् स्यात्21 । वेषः22 केशवसनविन्यासादिविशेषः । आभरणं कर्णिकादि । तत्र उद्धतवेष23 ऊर्ध्ववस्त्रो जवनरक्ताम्बरधारितेत्यादि । उद्धताभरणो24 दीप्तिमद्बहुरत्नालंकारो बहुहारश्25 च । स ह्य् आदित्य इव दुर्निरीक्ष्यः सामान्यजनानां विशेषतो ऽभियुक्तानाम् । पश्येद् इति सभाप्रवेशस्य प्रयोजनम् आह । पश्येद् विचक्षणः ।
- अयं च राज्ञो दर्शनापदेशो दण्डप्रणयने यथास्थानार्थप्रतिपादनपर्यन्तो भविष्यति । तात्पर्यं26 तस्यैव रक्षाधिकारः प्रयुक्तः स्यात् । ईदृशस्य च दर्शनस्यान्येषाम् असंभावनाद् अनधिकारः । सर्वेषां संशयच्छेदमात्रफलं27 तु व्यवहारदर्शनं प्रायश्चित्तोपदेशवद् विदुषो ब्राह्मणस्यास्त्य् एव । उक्तं हि “धर्मसंकटेषु ब्रूयात्” इति । तथैकवर्ग्याणां वाणिज्यकर्षकपशुपालप्रभृतीनां स्ववर्गसामयिकार्थविप्रतिपत्ताव् अन्यस्यां वोत्कृष्टनिर्णयाद् भूतिर्28 इति तथाविधव्यवहारदर्शने नियोगः । तथा हि पठितम् ।
-
कुलानि श्रेणयश् चैव गणाश् चाधिकृतो नृपः ।
-
प्रतिष्ठा व्यवहाराणां गुर्वेभ्यस् तूत्तरोत्तरम् ॥ इति । (न्स्म् मा १.७)
-
तत्र “कुलानि” बन्धुजनसमूहः । तैर् या व्यवस्था कृता ततो न विचलितव्यम् । अथ तत्र नाश्वस्युस्29 तवैते ऽधिकतरं संबन्धिन इति वदन्तस्30 ततः श्रेणिषु निवेदितव्यम् ।
- “श्रेणयः” समानव्यवहारजीविनो वणिक्प्रभृतयः । तेषां बन्धुभ्यो ऽधिकगुरुत्वम् । बान्धवा हि31 ज्ञातिधर्मभयाद् विचलितं न नियच्छन्ति । श्रेणयस् तु राजगमनेन श्रेणिधर्मो राजपुरुषप्रवेशात् परिभवनीयत्वेन नश्यतीति अविचलनार्थं प्रतिभूग्रहणपूर्वकं विचारयन्ति य एतस्माद् विचलति32 । परिषदि दण्डो दातव्यश् चलितुं वापि त्वया न देयम् इति ।
- “गणाः” गणशश् चारिणो गृहप्रासादादिकरा मठब्राह्मणादयश् च । ते स्वगणिनां व्यवहारं33 पश्येयुः । तत्राविचलार्थम्34 उपसदः कर्तव्याः । पूर्वे समानकर्मजीविन एकाकिनो ऽपि, इमे तु संभूयकारिण इति विशेषः । श्रेणिभ्यः संभूयकारितया विवादिनो भूमिज्ञत्वात् ।
-
अन्ये तु कुलानीति मध्यस्थपुरुषान् आहुः । ते हि कार्याभ्यन्तरा अश्रेणिकृता एव निर्णेतारः ।
-
“अधिकृतः”35 त्रैविद्यो विद्वाण् ब्राह्मणः । तस्य हि धर्मसंकटेषु प्रवक्तृत्वं विहितम् । तस्य पूर्वेभ्यो गुरुत्वं वैदुष्यात् । नृपस्यापि गुरुत्वम् अतिशयशक्तित्वाद् अतः स्वयं विदुषा नृपेण निर्णीते नास्त्य् एतत् ।
-
यो मन्येताजितो ऽस्मीति यो न्यायेनापि पराजितः । (य्ध् २.३०९)
-
द्विगुणं दण्डम् आस्थाय तत् कार्यं पुनर् उद्धरेत् ॥ (न्स्म् मा १.५६) इति ॥
-
अन्येषु करणेष्व् एतद् भवति । तत्र ह्य् अस्ति वचनावसरो नाधिकृतैः सम्यक् निर्णीतं राज्ञा तु विवेचिते किं वक्ष्यतीति ।
-
अर्थान्तरम् — नृपैर् “अधिकृतो” राजस्थानीयब्राह्मणः । तथान्यस्य गृहिणः स्वतन्त्रस् तु गृहे गृहीति स्वातन्त्र्यस्मरणाद् दण्डपर्यन्तो ऽस्त्य् एव व्यवहारः सुपरीक्षितो भवति, वासनाविनयार्थं श्रुतिग्राह्यप्रसक्तशिष्यसुताद्याः “अन्यत्र दण्डाच् छारीरात् पतनीयाच्36 च कर्मणः” इति । स्वल्पे ऽपराधे गृहस्थ एव राजायते । महति व्यतिक्रमे राजनिवेदनम् एवोचितम् इत्य् अस्यार्थः ।
अतश् च यत् कैश्चित् पश्येद् इति परिसंख्यार्थत्वम् आरोप्य ब्राह्मणादीनाम् अधिकार आशङ्कितः पुनश् च क्लेशेन समर्थितः, तद् अयुक्तम्, विषयभेदाद् अधिकारभेदात् । स्वविषयो हि राज्ञो दण्डावधिकः, ब्राह्मणादीनां निर्णयावधिः । अधिकारो ऽपि भिन्नः । राज्ञो राज्यस्थितिप्रयोजनम्, इतरेषां संसयच्छेदादेर् अपरोपकारकत्वम् । अतो नो वृत्तिसंकराशङ्कैव37 नास्ति । कार्यो विप्रतिपत्तिनिरासः । अर्थिनां विप्रतिपन्नयोर् हि साम्यं व्यवहारदर्शने राज्ञा कर्तव्यम् । नो चेत् संविदाने को राज्ञः स्वाधिगमे निरोधः । कायकशुद्धौ हि श्वानिरोधवान् इति वक्ष्यामः 38 ॥ ८.२ ॥
प्रत्यहं देशदृष्टैश् च शास्त्रदृष्टैश् च हेतुभिः ।
अष्टादशसु मार्गेषु निबद्धानि पृथक् पृथक् ॥ ८.३ ॥
मेधातिथिः ...{Loading}...
पूर्वेणार्धेन निर्णयहेतवः कथ्यन्ते । उत्तरेण विवादपदसंख्यानिर्देशः । “पश्येत्” इति पूर्वश्लोकाद् अनुषज्यते, “कार्याणि” इति च । प्रत्यहं पश्येत् कार्याणि प्रतिदिवसगमने39 व्यवहारनिर्णयः कर्तव्यः । हेतुभिर् इति । हेतुर् निर्णयसाधनम् । स च द्विविधः । प्रमाणरूपो व्यवस्थारूपश् च । तत्र प्रमाणरूपो ऽर्थनिर्णयहेतुः साक्ष्यादिः । व्यवस्थारूपो यतो ऽसत्ये वार्थनिश्चये व्यवहारः संतिष्ठते । यथा सत्यशपथ उभयानुमत एकः साक्षी यद्य् अर्थिप्रत्यर्थिभ्याम् अभ्युपगतप्रमाणभावः सभ्यैर् अपरीक्षितो ऽपि निर्णयहेतुतां प्रतिपद्यते । न त्व् अपरीक्षितस्य40 पुंसो वचनाद् असत्य् आप्तत्ववेदने ऽर्थनिश्चयः41 । प्राश्निकानाम् अभ्युपगमे ऽपि व्यवस्था हेतुर् भवति ।
- सा च व्यवस्था द्विविधा- साधारण्य् असाधारणी च । देशभेदाश्रयभेदात् सापि द्विविधा- अविरुद्धा विरुद्धा च । अविरुद्धा — यथा केषांचिद् दाक्षिणात्यानाम् अपुत्रा स्त्री भर्तर्य् उपरते सभास्थाणुम् उपारोहति, तम् उपारूढा अधिकृतैर् परीक्षिता42 कृतलक्षणा तत्क्षणान्तरं43 सपिण्डेषु ऋक्थं44 लभते । तथोदीचां लभ्यमानां कन्यां याचमानाय भोजनं यदि दीयते, तत “इयं तुभ्यं दत्ता” इत्य् अनुक्ते ऽपि प्रतिश्रुता भवति । विरुद्धा च — क्वचिद् देशे वसन्ते धान्यं युज्यते शरदि द्विगुणं प्रत्यादीयते । तथानुज्ञातभोग आधिर् द्विगुणे ऽपि तदुत्थधने प्रविष्ट आ मूलहिरण्यदानाद् भुज्यत एव । एषा हि “अशीतिभागं गृह्णीयात्” (म्ध् ८.१४०) “कुसीदवृद्धिर् द्वैगुण्यं नात्येति” (म्ध् ८.१५१) इति विरुद्धा ।
- तत्र भेदाश्रया देशदृष्टहेतुशब्देनाभिहिताः । शास्त्रदृष्टास् तु हेतवः शास्त्रे पठिताः । ते च केचन शास्त्रकारैः कल्पितव्यवस्थाः, केचिद् यथावस्त्ववस्थिता अनूदिताः45 । तत्र कल्पितव्यवस्था यथा- लेख्यं, यथोपभोगः, साक्षिणश् च । अनुमानं तु46 वस्तुनियतं “यथा नयत्य् असृक्पातैर् मृगस्य मृगयुः पदम्” (म्ध् ८.४४) इति । यद्य् अपि सर्वं लौकिकं न शास्त्रकारवचनात्47 प्रामाण्यं लभते,48 तथापि49 लौकिकम् एव, तस्मिन्50 क्वचिच् छास्त्रम् आश्रयितव्यम् । या च यदीदृशे51 चापराध इदं दिव्यं इयता च कालेन भोगः प्रमाणम् इति, लौकिकम् अपि तच् छास्त्रदृष्टम् इत्य् उक्तम् । तस्यां च व्यवस्थायां शास्त्रकाराणां मूले संभवति सा प्रमाणम् । या त्व् असंभवतन्मूला सा नादरणीया । यथा लेख्यकर्मपाठः-
-
उभयाभ्यर्थितेनैवं मया ह्य् अमुकसूनुना ।
-
लिखितं ह्य् अमुकेनैव लेखकस् तत्त्वतो लिखेत् ॥ इति । (य्ध् २.९१ )
यस्यादाव् एव लेखकः स्वनाम निवेशयेद् “इदं नामाहम् अमुष्यपुत्रो लिखामीदम्” इति, न कश्चिद् दोषः स्यत् । स ह्य् एवमर्थं नाम निवेशयति “अनेनेदं लिखितम्” इति लेखक उपलक्षितो52 यथा स्याद् । यदि ह्य् असौ लेखकः प्रमाणान्तरेण प्रत्ययितो भवति ततस् तल्लिखितं प्रमाणम् । यदि चासाव् आत्मानं स्वगोत्रनाम्ना नोपलक्षयेत्, ततः कस्य प्रत्ययितता प्रमाणान्तराद् अन्विष्यताम् । अथ तु लेख्यान्तरदर्शनेनान्येन वा हेतुना विशिष्टलेखक इति प्रत्यभिज्ञानं स्याद् अनुपलक्षितो ऽपि न कश्चिद् दोषः । तत्र यदि लेखको न लिखेत् “मयेदं लिखितम्” इति, भवेद् एव तादृशं लेख्यं परिपूर्णलक्षणम् । एषा च लेखकपरीक्षा तत्रोपयुज्यते । अत्र53 लेखकस्य साक्षित्वान्तर्भावो ऽन्येषां साक्षिणाम् अल्पत्वात् । यत्र त्व् अन्ये बहवः प्रत्ययिताः साक्षिणः स्वहस्तारूढाः सन्ति तत्र लेखकसंबन्धिनी प्रत्ययितता नोपयुज्यते । तथेयम् अपरा व्यवस्था ।
-
लिखितं लिखितेनैव साक्षिमच् चैव साक्षिभिः ।
-
साक्षिभ्यो लिखितं श्रेयो लिखितेन तु साक्षिणः ॥ (न्स्म् १.१२५)
नास्याम् अपि व्यवस्थायां किंचिन् निबन्धनम् अस्ति । तथा हि द्विविधं लेख्यम्- स्वहस्तकृतं परहस्तकृतं च । परहस्तकृतम् अपि द्विविधम्- स्वहस्तलेखकलिखितम् अधिकृतलेखकलिखितम् । तद् एतत् परहस्तकृतं सर्वप्रकारं साक्ष्यात्मकम् एव, तत्र “साक्षिभ्यो लिखितम्” इति भेदानुपपत्तेः । इदं हि तस्य लक्षणम्-
-
साक्षिणः स्वस्वहस्तेन पितृनामादिपूर्वकम् ।
-
तत्राहम् अमुकः साक्षी लिखेयुर् इति ते समम् ॥ (य्ध् २.८९) इति ।
नाप्य् एकहस्तलिखितस्य प्रामाण्यम् इष्यते, यथैकस्य साक्षित्वे । अथायं भेदहेतुः साक्षिणो हस्तारूढास् त एव लेख्यम् इति, नानेन विशेषेण श्रेयस्त्वं भवति । प्रत्ययितता हि श्रेयस्त्वे हेतुः । सा चोभयत्रापि परीक्ष्या । तस्माद् ईदृशे लेख्ये साक्षिद्वैध्यन्यायः- “बहुत्वं परिगृह्णीयात्” (म्ध् ८.७३) इति । अधिकृतत्वम् अपि न विशेषः । परीक्षितो ऽधिक्रियत इत्य् एतत् तत्राधिक्यम् । न च सर्वे राजाधिकृताः सुपरीक्षिता भवन्ति । यदि तु निरुपधिस्54 तादृसश् चेद् अत्यन्तगुणयोगात् स्याद् उपेयाद् एवासौ एक एव संवादकत्वम् । तथा हि राजाग्रहारशासनान्य् एककायस्थहस्तलिखितान्य् एव प्रमाणीभवन्ति । दातुः स्वाहस्तक्यं स्वयम् अभ्युपगमः “इयद् अस्मान् मया गृहीतम् इत्दं चास्मै दातव्यम्” इति । तत्र यदि पश्चात् ब्रूते “न गृहीतम्” इति तदा पूर्वनिबद्धं ब्रुवाणैर् जीयते । तत्र साक्षिणाम् अवसर एव नास्ति ।
- ननु च यदीयाल् लेख्याद् अभ्युपगतम् एतद् अनेनेत्य् अवगम्यते, उत्तरकालं च स एवाह “न गृहीतम्” इति, तत्रोभयोर् अभ्युपगमयोः केन हेतुना पूर्वेणोत्तरो55 बाध्येत न पुनर् उत्तरेण पूर्वः56 । तुल्यत्वाद् विरुद्धत्वसंशयः । ततश् च प्रमाणान्तरव्यापारणम् एव युक्तम् ।
- भवेद् एवं यदि तुल्यता स्यात् । “न गृहीतम्” इति ह्य् अभ्युपगमो लोभादिनापि संभवति । न त्व् अगृहीत्वानुन्मत्तो “गृहीतम्” इति ब्रूयात् । तत्रापि यदि ब्रूयात् “प्रतिदत्तम्” इति, लेख्यं तु न संपादितम्, असंनिधानात् प्रतिलेख्यं च न गृहीतं लेखकासंनिधानात् कार्यान्तरे ऽतिपातिनि त्वरावत्वान् नात्रास्त्य्57 एव प्रमाणान्तरस्य साक्ष्यादेर् अवसरः ।
- यद् अपि “लिखितं लिखितेन” इति नैषा परिभाषा वस्तुसामर्थ्यायाताम् अवगतिं बाधितुं शक्नोति । दृश्यन्ते हि धनिकहस्तगतलेख्यं58 क्रमेण संशोधयन्तो न च पृष्ठे संशोधितं धनम् अभिलिखन्ति- “अद्य तावद् इदं दत्तम्, प्रातर् अन्यद् आनीयैकीकृत्योपर्य् आरोपयिष्यामि, सर्वं वा कतिपयैर् अहोभिः संशोध्य लेख्यं पाटयिष्यामि” इति । नान्यवस्तुतो संबन्धः59 । धनिकेन चोपरुद्धस्यासंभवत्य् अंशमूललाभधने60 संशुद्धिभागमात्रे दीयमाने कुत अयं61 तत् प्रभवति “न ददाति यावत् प्रतिलेख्यं न दत्तम्” इति । यदि चैषा परिभाषा “लिखितं लिखितेनैव” इति तदा बलोपधिकृतत्वं62 कथं विचार्यताम् । न हि तत्र लेख्यान्तरसंभवः । तेन यथात्र सत्य् एव लेख्ये तन्निश्चयार्थं प्रमाणान्तरं63 व्यापार्यते तद्वद् अन्यत्रापि व्यापारणीयम् । यथा कश्चिद् आवेदयेत्- “अस्य64 प्रययं गत्वा लेख्यं मया कृतम् अनेनोक्तः सद्यः पुण्याहकारणम्65 इमां च धनमात्रां गृहाण,66 श्वस् ते सर्वं दातास्मीत्य्67 उक्त्वा सैव धनमात्रा दत्ता परिशिष्टं न दत्तम्” इति, तदास्त्य् एव साधकान्तरव्यापारणावसरः68 । तत्र यद्य् अधमर्णस्यास्मिन् प्रकारे साक्षिणः सन्ति तदाभिहिते लेख्य आभासीकृते69 श्वोदानम् उत्तमर्णेन साधनीयम् । अथ तयोर् अपि रहसि परिभाषेयम् अभूत् तदा दैव्याः क्रियाया अवसरः । अथ तु तस्याम् अपि व्यभिचरित्वाद् अनाश्वासः सत्यशपथेन व्यवस्था कार्या ।
- ननु एवं सति स्वहस्तलेख्यं प्रमाणान्तरसंवेदसापेक्षत्वाद् अप्रमाणम् एव । तत्र “विनापि साक्षिभिः सिध्येत्” (य्ध् २.९२) “स्वहस्तपरिचिह्नितम्”70 (य्ध् २.९६) इति विरोधः । अनेनैव न्यायेन प्रत्यक्षं दीयमानं द्रव्यं न पश्यति । केवलं तत्समक्षं गृहीत्वा परिभाष्यते “इयद् इदम् अस्मान् मया गृहीतम्” इति । ते ऽपि साक्षिणः स्युः । तत्रापि शक्यते वक्तुम् “अस्य प्रत्ययं गत्वा प्रपन्नो71 ऽहम्” इति ।
- उक्तम् अत्र न स्मृतिविरोधाद् वस्तुस्थितिर् आहन्तुं72 शक्यते । अपि च यत्रास्य वचनस्यावसरो नास्ति तत्र प्रमाणं73 भविष्यति । क्वचिन् नास्ति । यत्र चिरकालं तिष्ठति धनिकहस्ते लेख्यं यदि हि तेन74 धनं दत्तम्, तदा कथम् अनेन वा नाम न मार्गितं लेख्यं न त्याजितम् इति । न हि चिरकालम् उपेक्षा75 वस्तुनीदृशे76 संभवति । मिथ्यावादिता त्व् अस्यानुमीयते । तथा चोक्तम्-
- सद्यस् त्र्यहाद् वा कार्येषु बलं राज्ञो निवेदयेत् । इति ।
यत्र वा भोग्यबन्धो न च भोग आम्नातो ऽपहारकालस् तत्र विप्रतिपत्तौ विनापि साक्षिभिः स्वहस्तलेख्यं न ह्य् अधमर्णा वक्तुं लभन्ते “प्रीत्या त्वयैतद् उक्तं संप्रति त्यज” इति । न च पूर्वोक्तस्य वचनस्यावसरः । कृतं लेख्यं ततो दास्यामीत्य् उक्त्वा न दत्तम् इति । यदि न दत्तं कथं बन्धभोगो मर्षितः ।
-
ननु चैवं सति लेख्यसहायो भोगः प्रमाणं स्यात् । केवलस्य तु भोगस्य प्रामाण्यम् आमनन्ति । “लिखितं साक्षिणो भुक्तिः” (न्स्म् १.६५) इति ।
-
किम् इदं प्रत्युक्तं पर्यनुयुज्यामहे । विशिष्टकालो भोगः प्रमाणं न भोगमात्रम् । एवं हि पठ्यते “यत् किंचिद् दशवर्षाणि” (म्ध् ८.१४७), तथा “पश्यतो ऽब्रुवतो भूमेर् हानिर् विंशतिवार्षिकी” (य्ध् २.२४) इति ।
-
कस् तर्ह्य् अस्यार्थो “लिखितं लिखितेनैव” (न्स्म् १.१२५) इति ।
-
व्याख्यातम् अन्यैः । कर्तृविशेषसंशये ऽनेनैतल् लिखितं न वेति, लिखितेन निश्चिततत्कर्तृकेण निश्चीयते । यत् तु साक्षिसमक्षं तत्र कृताकृतसंदेहं साक्षिभिर् हरति77 । त एव तत्र प्रमाणम् । न तत्र तत्कृतलेख्यान्तरदर्शनम् उपयुज्यते । बुद्धिपूर्वेषु च ऋणादानादिषु केवलेभ्यः साक्षिभ्यो लिखितं श्रेयः । साक्षिणो हि विस्मरेयुर् अन्यतरेण वा संबन्धं गच्छेयुर् अन्यद् वा पातकस्यासाक्षित्वे हेतुम् आसादयेयुः । लेख्यं त्व् अभियोगवत आत्माधीनतया सुरक्षम् इति साक्षिभ्यः श्रेयस्त्वं तस्य । एतद् एवाह “लिखितेन तु साक्षिणः” (न्स्म् १.१२५) इति । स्वहस्तप्रतिष्ठेन विस्मृतम् अप्य् अर्थं वृत्तम् इति मन्यते । मृता वा साक्षिणस् तद्धस्तप्रत्यभिज्ञानेन78 प्रमाणीभवन्ति ।
व्याख्यानान्तराणि भर्तृयज्ञेनैव सम्यक् कृतानीति तत एवावगन्तव्यानि सर्वथा प्रमाणमूलानि । स्मृतिकारणव्यवस्थानुवर्तितव्येति79 । न च स्मृतेर् एव80 प्रमाणकल्पना युक्ता । न हि व्यवहारस्मृतिर् वेदमूला शक्यते वक्तुम्, सिद्धार्थरूपत्वात् प्रत्यक्षाद्यवगम्यत्वाज् जयपराजयप्रकाराणाम् । सिद्धो ह्य् अयम् अर्थः । एवं व्यवहारे जीयत इतरः, इतरो जयतीति । यद् अप्य्81 अत्र लिङ्गश्रुतिः सापि “हरीतकीं भक्षयेद् आरोग्यकामः” इतिवद् अवसेया । ईदृशेषु विधिस्वरूपेषु प्रत्ययेषु द्रव्यशुद्धेः प्रसङ्गेनार्थो विवेचित इति न पुनः प्रयतामहे ।
अष्टादशसु मार्गेषु । मार्गो82 विषयो विवादस्य । एतान् अर्थान् उद्दिश्य पुरुषाः प्रायेण विवदन्ते । निबद्धानि83 कार्याणि प्रयोजनान्य् अर्थसिद्धय इति यावत् । तान्य् उत्तरत्र दर्शयिष्यामः । पृथक् पृथक्, प्रादान्यम् एतेषाम् आह । एतानि प्रयेकं प्रयोजनानि84 न पुनः परस्परम् अन्तर्भवन्ति । यथान्यान्य् अनुषङ्गादिष्व् अन्तर्भवन्ति । नैवम् एतानि85 । अनुषक्तानि तु सहस्रशः सन्ति ॥ ८.३ ॥
तेषाम् आद्यम् ऋणादानं निक्षेपो ऽस्वामिविक्रयः ।
संभूय च समुत्थानं दत्तस्यानपकर्म च ॥ ८.४ ॥
मेधातिथिः ...{Loading}...
पाठक्रमापेक्षम् ऋणादानस्याद्यत्वं प्राथम्यम् । अथ वा मुख्यम् आद्यम् । अनेन हि वनवासिनो ऽपि स्पृश्यन्ते । ऋणादानानुषक्तम् अनृणादानम् एव च । यथा “ऋणं ते मया दत्तं शुद्धिलेख्यं प्रयच्छ” इत्यादि । नैतद् ऋणादानम्, अनुक्तं तु तत्रेति तद् व्यपदेश्यम् । तथा
-
ऋणं देयम् अदेयं च येन यत्र यथा च यत् ।
-
दानग्रहणधर्माश् च । (न्स्म् १.१) इति ।
तत्र देयम् ऋणं स्वकृतं पितृकृतं च यय च ऋक्थं हरेत् । अदेयं स्वक्र्तं द्विगुणाद् अधिकं पितृकृतं च द्यूतादिभागेनेति पुत्रण् भर्त्रा पित्रा चेति । तथा,
-
न स्त्री पतिकृतं दद्याद् ऋणं पुत्रकृतं तथा ।
-
अभ्युपेताद् ऋते यद् वा सह पत्या कृतं भवेत् ॥ (न्स्म् १.१३)
यद्य् अपि देयम् इत्य् अत्रैतद् अन्तर्भूतं तथापि द्यूतादिकृतं विशेषानपेक्षं स्वरूपतो देयम्, इदं तु कर्तृनियमाद् इति गोबलीवर्दवद् भवति चेद् भेदो यावद् इति द्वैगुण्यपर्यन्तं तत्रापि भेदः पूर्ववत् । “यत्र” इति पाठे देशकालग्रहणम् । यत्रैव गृहीतं तत्रैव देयम् । सत्यां धनिकेच्छायां देशान्तरे ऽपि । सति संभवे कालो ऽपि । शरद्य् अनिच्छेत्त्य् उक्तम्86 । “ग्रैष्मे वा सत्सु सस्येषु यदा वास्य धनागमं मन्येत” इति । “यथा” सति संभवे सर्वम् । असति कश्चिद् अंशो यावत् क्रमेण संशुद्धम् इति । सर्वभावेन87 परिक्षीणेन “कर्मणापि समम्” (म्ध् ८.१७७) इति । “दानग्रहणधर्माः” इति साक्षिलेख्यादयः ।
पारुष्ये दण्डवाचिके इति । दण्डश् च वाक् च दण्डवाचं “द्वन्द्वाच् चुदषहान्तात्” (पाण् ५.४.१०६) इति समासान्तस् तद् अस्यास्तीति “अत इनि ठनौ” (पान् ५.२.११५) इति ठन् । स्त्रीपुंधर्म इति । स्त्रीसहितः पुमान् इति शाकपार्थिवादिवत् समासः । स्त्री च पुमांश् चेति विग्रहे स्त्रीपुंसस्हर्म इति स्यात् ॥ ८.४–६ ॥
एषु स्थानेषु भूयिष्ठं विवादं चरतां नृणाम् ।
धर्मं शाश्वतम् आश्रित्य कुर्यात् कार्यविनिर्णयम् ॥ ८.८ ॥
मेधातिथिः ...{Loading}...
भूयिष्ठग्रहणं प्राधान्यख्यापनार्थम् । अन्ये ऽपि व्यवहारहेतवः सन्ति । यथा निवसनार्थं त्वया मे वेश्म दत्तम्, तत्र किम् इत्य् अर्वाग् वत्सराद् अन्यस्मै ददासीति । न चेदं दत्तानपकर्म, न ह्य् अत्र स्वत्वनिवृत्तिर् अस्ति, भोगानुज्ञामात्रं वसतः । तथा मदीयस्थण्डिलाभिमुखं त्वया वेश्मनि गवाक्षं कृतम् इति । धर्मं शाश्वतम् आश्रित्येति । अर्थकामाव् अशाश्वतौ । अथ वा शाश्वतो धर्म अनिदंप्रथमतो या व्यवस्था ताम् अनुपालयेत् । या त्व् इदानींतनैः प्रवर्तिता साशाश्वतत्वाद् अनादरणीया ॥ ८.८ ॥
यदा स्वयं न कुर्यात् तु नृपतिः कार्यदर्शनम् ।
तदा नियुञ्ज्याद् विद्वांसं ब्राह्मणं कार्यदर्शने ॥ ८.९ ॥
मेधातिथिः ...{Loading}...
-
अष्टादशपदाभिज्ञं प्राड्विवाकेति संज्ञितम् ।
-
आन्वीक्षिक्यां च कुशलं श्रुतिस्मृतिपरायणम् ॥
कुतश्चिद् अतिपातिकार्यान्तरव्यासङ्गाद् अपाटवाद् वा यदि स्वयं न पश्येत् तदा विद्वान् ब्राह्मणो नियोज्यः । विद्वत्ता च या व्यवहारविषया सा तदधिकारत एवार्थगृहीता । न हि यो यन् न जानाति स तत्राधिकारम् अर्हति । धर्मशास्त्रपरिज्ञानं तु रागद्वेषदोषेण विपरीतार्थावधारणनिवृत्त्यर्थम् उपयुज्यते । धर्मज्ञस् तु सतोर् अपि रागद्वेषयोः शास्त्रभयेन न88 विपर्येत्य् इत्य् उपयोगवद् धर्मशास्त्रपरिज्ञानम् । व्यवहारदर्शनं तु तदर्थगृहीतम् । येन विना न शक्यते व्यवहारनिर्णयः कर्तुम्, तद्विज्ञानं तदधिकाराक्षिप्तम् । यत् तु ज्ञात्वान्यथा क्रियते तन्निवृत्तिर् उपदेशान्तरविषया । वक्ष्यति चैवमर्थं यत्नान्तरम् अपि- “वेदविदस् त्रयः राज्ञश् च प्रकृतो विद्वान्” (म्ध् ८.११) इति । शास्त्रान्तरपरिज्ञानं तु व्यवहारे ऽधिक्रियमाणस्यादृष्टाय स्यात् । “नियोज्यो विद्वान् स्यात्” इति पठितव्यम् । नियुञ्ज्याद् इति, नियुञ्जीत “स्वराद्यन्तोपसृष्टात्” (पत् इ- २९०, ओन् पाण् १.३.६४) इति हि कातीया आत्मनेपदं स्मरन्ति ॥ ८.९ ॥
सो ऽस्य कार्याणि संपश्येत् सभ्यैर् एव त्रिभिर् वृतः ।
सभाम् एव प्रविश्याग्र्याम् आसीनः स्थित एव वा ॥ ८.१० ॥
मेधातिथिः ...{Loading}...
सभ्यैर् इति जातिविशेषानुपादाने ऽप्य् उत्तरत्र विप्रग्रहणात् (म्ध् ८.११), “ब्राह्मणैः सह” (म्ध् ८.१) इति च पूर्वत्र ब्राह्मणग्रहणात्, ब्राह्मणा एव विज्ञायन्ते । त्रिग्रहणं त्व् एकद्वयोः प्रतिषेधार्थम् । त्रिप्रभृतयस् त्व् इष्यन्त एव । साक्षिप्रकरणे चैतद् वक्ष्यामः । सभाम् एव प्रविश्याग्राम् इति । राजस्थानापत्त्या सभां प्रविश्य स्थानासनेषु89 तद्धर्मेषु पुनर्वचनं प्रदर्शनार्थं धर्मान्तरनिवृत्त्यर्थं वा । तेन राजस्थाने नोपविशति ॥ ८.१० ॥
यस्मिन् देशे निषीदन्ति विप्रा वेदविदस् त्रयः ।
राज्ञश् चाधिकृतो विद्वान् ब्रह्मणस् तां सभां विदुः ॥ ८.११ ॥
मेधातिथिः ...{Loading}...
उक्तं सभां प्रविश्य व्यवहारान् पश्येद् इति । सभाशब्दश् च लोके गृहप्रासादविशेषे वर्तते “मयेन निर्मिता दिव्या सभा हेमपरिष्कृता” इति । क्वचित् पुरुषविशेषसंघटिता सभेति तन्निवृत्त्यर्थं सभाया लक्षणम् आह । यत्र त्रयो ब्राह्मणा वेदविदः संनिधीयन्ते, राज्ञश् च संबन्धी प्रकृतो ऽधिकृतो विद्वान् इति । अथ वा प्रकृतो ऽनन्तरश्लोके संनिहितः । सेह सभाभिप्रेता । ब्रह्मग्रहणं स्तुत्यर्थम् । यथा ब्रह्मणः सभा निरवद्यैवम् इयम्90 अपीति ॥ ८.११ ॥
धर्मो विद्धस् त्व् अधर्मेण सभां यत्रोपतिष्ठते ।
शल्यं चास्य न कृन्तन्ति विद्धास् तत्र सभासदः ॥ ८.१२ ॥
मेधातिथिः ...{Loading}...
(अग्रे व्याख्यानम्।)
यत्र धर्मो ह्य् अधर्मेण सत्यं यत्रानृतेन च ।
हन्यते प्रेक्षमाणानां हतास् तत्र सभासदः ॥ ८.१४ ॥
मेधातिथिः ...{Loading}...
धर्मः91 शास्त्रन्यायदेशनियता व्यवस्था । सा चेद् अधर्मेण92 तद्व्यतिक्रमरूपेण हन्यते विनाश्यते ऽर्थिना प्रत्यर्थिना । तथा सत्यम् अनृतेन साक्षिभिर् हन्यते । प्राड्विवाकादयश् च प्रेक्षन्ते न तत्त्वम् उद्धरन्ति, ततस् ते हताः शवतुल्या भवन्तीति निन्द्यते । तस्मान् नार्थिप्रत्यर्थिनौ विपरीतम् आचरन्तौ सभासद्भिर् उपेक्ष्यौ, साक्षिणश् च । धर्माधर्मग्रहणेन सत्यानृतग्रहणेन वा सिद्धौ,93 श्लोकपूरणम् उभयोर् उपादानम् । अतो विषयभेदेन व्याख्यातम् ॥ ८.१४ ॥
धर्म एव हतो हन्ति धर्मो रक्षति रक्षितः ।
तस्माद् धर्मो न हन्तव्यो मा नो धर्मो हतो वधीत् ॥ ८.१५ ॥
मेधातिथिः ...{Loading}...
न भयाद् अन्यथादर्शनं कर्तव्यम्, यतो धर्मो व्यतिक्रान्तः सन् हन्ति, नो ऽर्थी94 तत्सहायो राजा वा । तथा धर्म एव पालितः सर्वतो भयम् अपनुदति । नापकर्तुम् अर्थ्यादयः95 क्रुद्धाः शक्नुवन्ति । तस्माद् एवंजानता,96 “सुखदुःखे धर्माधीने” इति, धर्मो न हन्तव्यः इति । यदि वयं धर्मं हन्मस् तदा सो ऽस्मान् सर्प इव रोषितः प्रतिहन्तीत्य् अतो धर्मो हतः सन् मा अस्मान् वधीद् इत्य् आत्मपरित्राणार्थं धर्मो रक्षितव्यः ॥ ८.१५ ॥
वृषो हि भगवान् धर्मस् तस्य यः कुरुते त्व् अलम् ।
वृषलं तं विदुर् देवास् तस्माद् धर्मं न लोपयेत् ॥ ८.१६ ॥
मेधातिथिः ...{Loading}...
वृषलशब्दनिर्वचनेन मिथ्यादर्शी निन्द्यते । न जातिवृषलो वृषलः, किं तर्हि, यो वृषस्य कामवर्षिणो धर्मस्य अलंकुरुते । निवृत्तिवचनः अलंशब्दः । स वृषल इत्य् एतम् अर्थम् देवाः प्रतिपन्नाः । मनुष्यास् तु यदि जातिशब्दम् एव मन्यन्ते, कामं मन्यन्ताम्, प्रमाणतरास् तु देवाः । ते चानेन प्रवृत्तिनिमित्तेन वृषलशब्दप्रोयोगं मन्यन्ते । देवग्रहणम् अर्थवादः । तस्मात् “श्राद्धकाले वृषलैर् न प्राप्तव्यम्”, “हन्तव्यो वृषलश् चौरः,” इत्याद्यासु क्रियासु मिथ्यादर्शी ब्राह्मण एव वृषलशब्देन ग्रहीतव्य इति । अतो वृषलत्वं मा प्रापम् इति धर्मं न लोपयेत्, न नाशयेद् इति । वृषलत्वाध्यारोपो निन्दा ॥ ८.१६ ॥
एक एव सुहृद् धर्मो निधने ऽप्य् अनुयाति यः ।
श्रीरेण समं नाशं सर्वम् अन्यद् धि गच्छति ॥ ८.१७ ॥
मेधातिथिः ...{Loading}...
भयाद् धर्मातिक्रमो न कर्तव्य इत्य् एतत् “धर्म एव हतो हन्ति” इत्य् अनेनोपदिष्टम्, स्नेहतो न कर्तव्य इत्य् अनेनोपदिश्यते । यत एकः सुहृद् धर्मः, तत्र स्नेहो भावनीयः । अन्यो ऽपि मनुष्यः सुहृत्97 कार्यम् अपेक्ष्य जहाति जीवनम् । यो ऽपि स्याद् अत्यन्तमित्रं तस्यापि सौहार्दम् आ निधनात् । धर्मस् तु मृतम् अपि पुरुषम् अन्वेति । अतो न सुहृदपेक्षया मिथ्यादर्शनम् उपेक्षा वा98 कर्तव्या ।
-
भार्या पुत्रो मित्रम् अर्थाश् च रिक्थम्
-
नश्यन्त्य् एते देहनाशे नरस्य ।
-
धर्मस् त्व् एको नैनम् उज्झत्य् अजस्रं
-
तस्माज् जह्यात् पुत्रदारान् न धर्मम् ॥
यद् अन्यद् धर्माद् भार्यादि, तत् सर्वं शरीरेण समं सह नाशं गच्छति । धर्माद् अन्यो मृतं न परित्रातुं कश्चित् समर्थ इत्य् अतः सुहृद्बान्धवानुरोधाद् अपि धर्मो न हातव्यः ॥ ८.१७ ॥
पादो धर्मस्य कर्तारं पादः साक्षिणम् ऋच्छति ।
पादः सभासदः सर्वान् पादो राजानम् ऋच्छति ॥ ८.१८ ॥
मेधातिथिः ...{Loading}...
न चैषा मनिषा कर्तव्या- “अर्थिना प्रत्यर्थिना वान्यतरस्य भूम्याद्य् अपह्रियते स एव भूम्यपहारदोषभाग् भविष्यति । वयं तु तदकारिणः किम् इति दोषवन्तः स्याम” यतस् तत् पापं चतुर्धा विभज्यते । अर्थवादश् चायम् । न ह्य् अन्यकृतस्यैनसो ऽन्यत्र गमनम् अस्ति । तेषाम् अपि मिथ्यादर्शननिषेधातिक्रमाद् उत्पद्यते पापं मिथ्यालम्बनम्, राज्ञः स्वयम् अपश्यतो ऽप्य् अधिकृतराजस्थानीयादिदोषाद् दोषवत्त्वम् । यदि वा99 राजाधिकृतो मिथ्याचरितेन ज्ञापितः, पराजितं दुष्टं न निगृह्णीते न च पुनः सम्यक् निर्णयं करोति, ततः सो ऽपि पापभाग् भवति । अधिकृतोपलक्षणार्थं वा राजग्रहणम् । यदा राजा स्वयं मिथ्या पश्यति तदा दुष्यति । यदा राजस्थानीयस् तदा तस्य दोष इत्य् अर्थः ॥ ८.१८ ॥
राजा भवत्य् अनेनास् तु मुच्यन्ते च सभासदः ।
एनो गच्छति कर्तारं निन्दार्हो यत्र निन्द्यते ॥ ८.१९ ॥
मेधातिथिः ...{Loading}...
एष एवार्थो विपर्ययेणोच्यते । यत्र दोषवान् दोषं गोपयितुं न लभते प्रकटीक्रियते तदीयो दोषः, तत्र सर्वं साधु संपद्यत इति । “यत्र धर्मः” (म्ध् ८.१४) इत्य् अत आरभ्य मिथ्यादर्शनोपेक्षणप्रतिषेधार्थं निन्दाप्रशंसाभ्यां शुभाशुभफलदर्शनार्था अर्थवादाः ॥ ८.१९ ॥
जातिमात्रोपजीवी वा कामं स्याद् ब्राह्मणब्रुवः ।
धर्मप्रवक्ता नृपतेर् न शूद्रः कथंचन ॥ ८.२० ॥
मेधातिथिः ...{Loading}...
उक्तं ब्राह्मणैः सह धर्मनिर्णयं कुर्यात्, मन्त्रिभिश् च मन्त्रज्ञैः । तत्र मन्त्रिणां जातेर् अविशेषितत्वाच् छूद्रा अपि सभां प्रविष्टा मन्त्रित्वाद् अनुज्ञातव्यवहारनिर्णयास् तद्रता धर्मव्यवस्थां कथंचित् संस्कृतबुद्धयो ब्रूयुः । न च सर्वत्र व्यवहारे स्मृतिशास्त्रपरिज्ञानम् उपयुज्यते, येन तदभावाद् अर्थलुप्तत्वाद् अनर्थकः शूद्रप्रतिषेध आशङ्क्येत । तथा हि जयपराजयकारणानि लौकिकप्रमाणवेद्यान्य् एव साक्ष्यादीनि, अयं साक्षी धार्मिको न चैतस्य केनचित् संबन्धेन संबन्धी । अयं त्व् असाक्ष्य् असकृद् दृष्टव्यभिचारत्वाद् इत्य् एवमादि शक्यते व्युत्पन्नबुद्धिना स्वयम् उत्प्रेक्षितुं न स्मृतिशास्त्रैकगोचरः100 । अतः प्राप्तस्य प्रतिषेधो ऽयं । न च मन्त्रित्वे पुरोहितवज् जातिनियमः । तथा हि “तैः सार्धं चिन्तयेत्” (म्ध् ७.५६) इत्य् उक्त्वा ततो ब्राह्मणेन सह चिन्तयेद् इति (म्ध् ७.५८) । तेनायम् अर्थो यद्य् अपि कथंचिच् छूद्रो न्यायलेशात् समधिगच्छेत् तथापि राजाधिकरणे विवदतो मन्त्री निग्रहाधिकृतो वा न किंचित् प्रब्रूयात् । पूर्वश्लोकार्धः प्रतिषेधशेषतया101 व्याख्येयः । न हि जातिमात्रोपजीविनो वैदुष्यादिगुणरहितस्य धर्मप्रवक्तृत्वनियोगः शक्यो वक्तुं तस्यैव रूपपरीक्षायां “तस्माद् विषं भक्षय मा चास्य गृहे भुङ्क्था” इतिवत् प्रतिषेधशेषभूतम् इदम् अनुज्ञानं न पुनर् अनुज्ञानम् एव । अत एव कामम् इत्य् आह । कामशब्दप्रयोगे हि विधित्वं व्याहन्यते ।
अन्ये तु ब्रुवते । ब्राह्मणस्य प्रवक्तृत्वविधानात् तदा नियोज्यो विद्वान् स्याद् ब्राह्मण इति क्षत्रियादयस् त्रयो ऽपि वर्णा निषिद्धास् तत्रेह पुनः शूद्रप्रतिषेधो विद्वद्ब्राह्मणाभावे क्षत्रियवैशयोर् अभ्यनुज्ञानार्थ इति । शेषं समानम् ।
जातिमात्रम् उपजीवतीति मात्रशब्दो ऽवधारणे । ब्राह्मणजातिम् एव केवलाम् उपाश्रित्य जीवति नाध्ययनादीन् गुणविशेषान् निर्गुणत्वात् । ब्रुवशब्दः कुत्सायाम् ॥ ८.२० ॥
यस्य शूद्रस् तु कुरुते राज्ञो धर्मविवेचनम् ।
तस्य सीदति तद् राष्ट्रं पङ्के गौर् इव पश्यतः ॥ ८.२१ ॥
मेधातिथिः ...{Loading}...
पूर्वविधिशेषो ऽयम् अर्थवादः । यस्य राज्ञः शूद्रो धर्मविवेचनं धर्मनिर्णयं करोति, तस्य सीदति नश्यति राष्ट्रं प्रजाः, कर्दमे गौर् इव ॥ ८.२१ ॥
यद् राष्ट्रं शूद्रभूयिष्ठं नास्तिकाक्रान्तम् अद्विजम् ।
विनश्यत्य् आशु तत् कृत्स्नं दुर्भिक्षव्याधिपीडितम् ॥ ८.२२ ॥
मेधातिथिः ...{Loading}...
अयम् अपि पूर्ववद् अर्थवाद एव । प्रकरणाच् च शूद्रभूयिष्ठता विवादनिर्णये तु102 शूद्रविषया द्रष्टव्या । यत्र शूद्रा भूयांसो विवादनिर्णयकारास् तद् राष्ट्रम् आशु विनश्यति दुर्भिक्षव्याधिपीडाभिः । राष्ट्रनाशे च राष्ट्रपतेर् नाश इत्य् उक्तं भवति । नास्तिकाक्रान्तम् इति दृष्टान्तः । यथा नास्तिकैः परलोकापवादिभिर् लोकायतिकाद्यैर् आक्रान्तम् अधिष्ठितम् अतश् च
अद्विजम् । न हि नास्तिकानां ब्राह्मणादिभेदो यथार्थः संकीर्णत्वात् । तद् उक्तं वैद्यवणिग्व्यपदेशादिवद् ब्राह्मणादयः । यत्र वा धर्मसंकटे तु न द्विजाः प्रमाणीक्रियन्ते तद् अद्विजम् ॥ ८.२२ ॥
धर्मासनम् अधिष्ठाय संवीताङ्गः समाहितः ।
प्रणम्य लोकपालेभ्यः कार्यदर्शनम् आरभेत् ॥ ८.२३ ॥
मेधातिथिः ...{Loading}...
धर्मः प्रधानः यस्मिन्न् आसने भवति तद् धर्मासनम् । राजासने हि राज्यस्थित्यानुगुण्येनार्थम् एव प्रधानीकरोति न्यक्कृत्यापि धर्मम् । व्यवहारनिर्णये तु धर्मम् एव प्रधानं आश्रयेद् इत्य् अर्थः, न पुनर् आश्रयभेदो ऽनेन ज्ञाप्यते । संवीताङ्गः वस्त्रादिना स्थगितसरीरः । प्रणम्य लोकपालेभ्य इन्द्राद्यष्टौ लोकपालास् तान् नमस्कृत्य कार्यदर्शनम् आरभेतेत्य् अदृष्टार्थम् एतद् द्वयम् अङ्गसंवरणं लोकपालप्रणामश् च । समाहितः अनन्यचित्तः कार्यदर्शने । एवं हि दृष्टार्थं भवति । प्रणामविशेषणं वा समाहितग्रहणम् । यद्य् अप्य् अत्र किंचिद् उक्तम् एव प्रतिभाति तथापि पद्यग्रन्थत्वान् नातीव पौनरुक्त्यम् । लोकपालेभ्य इति चतुर्थी संप्रदाने । कथं । क्रियाग्रहणं संप्रदानसूत्रे चोदितम् “श्राद्धाय निगृह्णते” “पत्ये शेते” (पत् इ- ३३०) इत्याद्यर्थम् । न च क्रियाग्रहणं गृह्णात्यादिविषयम् एव, भाष्ये ऽनुक्तत्वात् ॥ ८.२३ ॥
अर्थानर्थाव् उभौ बुद्ध्वा धर्माधर्मौ च केवलौ ।
वर्णक्रमेण सर्वाणि पश्येत् कार्याणि कार्यिणाम् ॥ ८.२४ ॥
मेधातिथिः ...{Loading}...
धर्माधर्मव् एव केवलाव् अर्थानर्थौ- न गोहिरण्यादिलाभो ऽर्थस् तद्विपर्ययो वानर्थः । किं तर्हि, धर्म एवार्थो ऽनर्थश् चाधर्म इति बुद्ध्वा हृदि निश्चित्य कार्याणि पश्येत् । अथ वार्थानर्थाव् अपि बोद्धव्यौ धर्माधर्माव् अपि । धर्मस्य सारता बोद्धव्यार्थस्य फल्गुता । अथ वा यत्र महान् अनर्थः स्वल्पश् चाधर्मस् तत्रानर्थं परिहरेत् । शक्यो हि महतार्थेनेषद् अधर्मो दानप्रायश्चित्तादिना निराकर्तुम् । संनिपाते च व्यवहारिणां बहूनां वर्णक्रम आश्रयितव्यः । एष च दर्शने क्रमो वर्णानां यदा सर्वेषां103 तुल्यपीडा भवति । यदा त्व् अवरवर्णस्याप्य् आत्ययिकं कार्यं महद् वा तदा “यस्य चात्ययिका पीडा” इत्य् अनेन न्यायेन तद् एव प्रथमं पश्येत् न क्रमम् आद्रियेत । राज्यस्थित्यर्थो हि व्यवहारनिर्णय इत्य् उक्तम् अतो न यथाश्रुतम् आश्रयणीयम् ॥ ८.२४ ॥
बाह्यैर् विभावयेल् लिङ्गैर् भावम् अन्तर्गतं नृणाम् ।
स्वरवर्णेङ्गिताकारैश् चक्षुषा चेष्टितेन च ॥ ८.२५ ॥
मेधातिथिः ...{Loading}...
तथा चेदम् आह । अनुमानेनापि सत्यानृतवादिता व्यवहारतः साक्षिणां च निश्चेतव्या इति श्लोकार्थः । अतश् च स्वरादिग्रहणं प्रदर्शनार्थम् । तेन यन् निश्चितलिङ्गं104 तेन परिच्छिन्द्याद् इत्य् उक्तं भवति, न पुनः स्वरादिभिर् एव, सव्यभिचारित्वात् तेषाम् । अनुचितसभाप्रेवेशा हि महाप्रकृतिदर्शनेन सत्यकारिणो ऽपि स्वभावतो विक्रियन्ते । प्रगल्भास् तु संवृताकारा भवन्ति । स्वरश् च वर्णश् चेङ्गितं च स्वरवर्णेङ्गितानि, तेषाम् आकाराः स्वरवर्णेङ्गिताकाराः । आकारो विकारः । स्वाभाविकानां हि स्वरादीनाम् अन्यथात्वम् । तैर् विभावयेन् निश्चिनुयात् । भावम् अभिप्रायम् अन्तर्गतं मनुष्याणां विवादिसाक्ष्यादीनाम् । तत्र स्वरस्य विकारो वाचि गद्गदरुदितादि । वर्णस्य गात्ररूपविपर्ययादि । इङ्गितं स्वेदवेपथुरोमाञ्चादि । चक्षुषा संभ्रमक्रोधदृष्टिपातेन । चेष्टितेन हस्तनिक्षेपभ्रूविक्षेपादिना105 । स्वसंवेदम्106 चैतत्, यद् गूह्यमानम् अप्य् अभिप्रायं स्वरादयः प्रकाशयन्ति निपुणतो लक्ष्यमाणाः । यतः प्रसिद्धम् एतेषां गूड्ःआभिप्रायप्रकटनसामर्थ्यम् ॥ ८.२५ ॥
आकारैर् इङ्गितैर् गत्या चेष्टया भाषितेन च ।
नेत्रवक्त्रविकारैश् च गृह्यते ऽन्तर्गतं मनः ॥ ८.२६ ॥
मेधातिथिः ...{Loading}...
तथा हि, लोके107 दृष्टशक्तितानेन108 श्लोकेन स्वरादीनां पूर्वोक्तार्थाधिगमेन दर्शयतीत्य् अपौनरुक्त्यम् । तत्राक्रियन्ते विक्रयन्त इत्य् आकारा इङ्गितादयः । इङ्गितं व्याख्यातम् । व्यक्तिभेदाद् बहुवचनम् । गतिः पूर्वश्लोकाद् अत्राधिका । सा प्रस्खलन्ती स्वभावतो ऽन्यथाभूता । भाषीतं पौर्वापर्यविरुद्धं वचनम् । वक्त्रविकार आस्यविशेषादिः । शेषं पूर्वश्लोक एव व्याख्यातम् । एतैर् विकृतैर् अन्तर्गतं चित्तं लौकिकैर् अन्यत्रापि गृह्यत इति समासार्थः ॥ ८.२६ ॥
बालदायादिकं रिक्थं तावद् राजानुपालयेत् ।
यावत् स स्यात् समावृत्तो यावद् वातीतशैशवः ॥ ८.२७ ॥
मेधातिथिः ...{Loading}...
ननु च व्यवहारदर्शनं वक्तव्यतया प्रस्तुतम् । तत्र कः प्रसङ्गो बालधनरक्षायाः ।
उच्यते । विवादपदताम् एवैतद् विषयान् निवर्तयितुम् इदम् आरभ्यते109 । बालधनं राज्ञा स्वधनवत् परिपालनीयम् । अन्यथा पितृव्यादिबान्धवा मयेदं रक्षणीयं मयेदम् इति विवदेरन् । न चान्यः प्रसङ्गो ऽस्ति । आशङ्क्यमानव्यवहारवच् च । न केवलेषु राजधर्मेषूपदिश्यते अतो ऽस्मिन्न् एवावसरे वक्तव्यम्110 । बालो दायादो ऽस्य तद् इदं बालदायादिकम् । दायादः स्वाम्य् अत्रोच्यते । बालस्वामिकं धनं तावद् राजा रक्षेद् यावद् असौ समावृत्तः गुरुकुलात् प्रत्यागतः यावद् वातीतशैशवः अतिक्रान्तबालभावः । अयं च विकल्पः । यो गृहशैशवो भवति तदर्थम् अतीतशैशवम् उच्यते । यस् तु व्रतकः स निवृत्ते ऽपि शैशवे111 आ समावर्तनात् प्रतिपाल्यधनः स्यात् । अथ वा द्विजातीनां समावर्तनम् अवधिः, अन्येषां शैशवात्ययः ॥ ८.२७ ॥
वशापुत्रासु चैवं स्याद् रक्षणं निष्कुलासु च ।
पतिव्रतासु च स्त्रीषु विधवास्व् आतुरासु च ॥ ८.२८ ॥112
मेधातिथिः ...{Loading}...
यः कश्चिद् अनाथस् तस्य सर्वस्य धनं राजा यथावत् परिरक्षेत् । तथा चोदाहरणमात्रं वशादयः । एवं प्रजापालनम् अनुष्ठितं भवति । पूर्वस् तु श्लोकः कालनियमार्थः । वशा वन्ध्या । अपुत्रा असमर्थपुत्रा अविद्यमानपुत्रा दुर्गतपुत्रा वा । वशाश् चापुत्राश् चेति द्वन्द्वः ।
- ननु च वशाप्य् अपुत्रैव ।
सत्यम् । उभयोपादानं तु सत्य् अपि भर्तरि तस्याः संरक्षणार्थम् । तस्यां ह्य् अधिविन्नायां भर्ता निरपेक्षो भवति ।
निष्कुलाग्रहणं तासां विशेषणम् । यासां न कश्चिद् देवरपितृव्यमातुलादिः113 परिरक्षको ऽस्ति, स्त्रीत्वाच् च स्वयम् असमर्थाः, बान्धवास् तु मत्सरिणः, तासां एतद्114 उच्यते । बन्धुभिर् हि स्त्रीणां शीलशरीरधनानि रक्षितव्यानि । तद् उक्तम् ।
-
विनियोगो ऽस्ति रक्षासु भरणे च स ईश्वरः ।
-
परिक्षीणे पतिकुले निर्मनुष्ये निराश्रये ॥
-
तत्सपिण्डेषु वासत्सु पितृपक्षः प्रभुः स्त्रियाः ।
-
पक्षद्वयावसाने तु राजा भर्ता प्रभुः स्त्रियाः ॥ (न्स्म् १३.२७–२९)
-
या तु स्वयम् एव कथंचिच् छक्ता, न तत्र बान्धवानां व्यापारो ऽस्ति । अत एवाह- आतुरास्व् इति । असामर्थ्यम् एतेन लक्ष्यते ।
-
अन्यैस् त्व् आतुरभर्तृका आतुरा व्याख्याता । अविधवापि भर्तुर् असामर्थ्याद् राज्ञैव रक्ष्या स्याद् इति । निर्मनुष्याणाम् एतत् । कुलं बन्धुजातं यासां नास्ति ताः निष्कुलाः ।
अन्ये तु कुलटां निष्कुलाम् आहुः । तासाम् अपि वेशाद्युपार्जितं धनम् अपतितानां राज्ञा रक्ष्यम् । अस्मिंश् च पक्षे स्वतन्त्रनिष्कुलाग्रहणम् ।
पतिव्रतासु विधवासु । मृतभर्तृका विधवा । धव इति भर्तृनाम । तद्विरहिता विधवा । सा115 चेत् पतिव्रता भवति116 । तदा सा रक्ष्यधना117 । व्यभिचाररतानां तु स्त्रीधनानर्हत्वं स्मृत्यन्तरे पठ्यते-
-
अपकारक्रियायुक्ता निर्लज्जा चार्थनाशिका ।
-
व्यभिचाररता या च स्त्रीधनं न तु सार्हति ॥ इति ।
तस्यास् तु निष्काशनं विहितम् । निष्काशनं च प्रधानवेश्मनो बहिरवस्थापनम्, न तु निर्वासनम् एव । यतः पतितानाम् अपि तासां गृहान्तिके वासो भकाच्छादनमात्रदानं च विहितम्-
-
एवम् एव विधिं कुर्याद् योषित्सु पतितास्व् अपि ।
-
वस्त्रान्नपानं देयं च वसेयुश् च गृहान्तिके ॥ (म्ध् ८.१८७)
तेन यः कश्चित् स्त्रीणां निर्वासनविधिः “स्त्रीधनं द्रव्यसर्वस्वम्” इत्यादिषु श्रूयते, स एवंविषय एव द्रष्टव्यः । तथापि याद्वद् भिक्षोत्सर्पणादिना किंचिद् अर्जितं तद् अर्हत्य् एव, न बान्धवा अपहरेयुः । इह त्व् अस्मिन्न् एव निमित्ते आधिवेदनं विहितम्, न तु स्त्रीधनापहारः । तथा ह्य् आह-
-
मद्यपासाधुवृत्ता च प्रतिकूला च या भवेत् ।
-
व्याधिता चाधिवेत्तव्या हिंस्रार्थघ्नी च सर्वदा ॥ (म्ध् ९.८०)
अतश् च मानवस्मृतिबलेन च “स्त्रीधनं न तु सार्हति” इत्य् एषा स्मृतिर् एव व्याख्यायते । आधिवेदनिकं स्त्रीधनम् एषा नार्हति, नैतस्यै देयम् इत्य् अर्थः । यद् उक्तम्- “अधिविन्नस्त्रियै दद्याद् आधिवेदनिकं समम्” (य्ध् २.१५२) इति, न तु प्राग्दत्तम् अस्या अपहर्तव्यम् ।
-
वयं तु ब्रूमः । पुरुषद्वेषिण्या व्यभिचाररतायाश् च युक्त एवापहारः । यत इहाप्य् उक्तम्-
-
अतिक्रामेत् प्रमत्तं या मत्तं रोगार्तम् एव वा ।
-
स त्रीन् मासान् परित्याज्या विभूषणपरिच्छदा ॥ (म्ध् ९.७८)
भूषणपरिच्छदैर्118 वियुक्ता कर्तव्येत्य् अर्थः ॥ ८.२८ ॥
जीवन्तीनां तु तासां ये तद् धरेयुः स्वबान्धवाः ।
ताञ् छिष्याच् चौरदण्डेन धार्मिकः पृथिवीपतिः ॥ ८.२९ ॥
मेधातिथिः ...{Loading}...
बान्धवानां स्त्रीधनम् अपहरताम् अयं चोरदण्डः । ते हि बहुभिर् उपधाभिर् अपहरन्ति । अस्वतन्त्रैषा स्त्री किं ददाति किं वा भुङ्क्ते वयम् अत्र स्वामिन इति अचौराशङ्कया चोरदण्डो विधीयते । जीवन्तीनां तासां स्वबान्धवा देवरादयस् तद्धनं ये हरेयुस् ताञ् छिष्यात् पृथिवीपतिर् निगृह्णीयात् । चौरदण्डो119 वक्ष्यमाणः-
-
येन येन यथाङ्गेन स्तेनो नृषु विचेष्टते ।
-
छेत्तव्यं तत् तद् एवान्यत् तन् मनोर् अनुशासनम् ॥ इति । (म्ध् ८.३३४)
स्वबन्धुभ्यश् चैतद् विशेषेण राज्ञा रक्षितव्यम् । चौररक्षा तु स्वराष्ट्रविषया विहिता ॥ ८.२९ ॥
प्रनष्टस्वामिकं रिक्थं राजा त्र्यब्दं निधापयेत् ।
अर्वाक् त्र्यब्दाद् धरेत् स्वामी परेण नृपतिर् हरेत् ॥ ८.३० ॥
मेधातिथिः ...{Loading}...
यद् द्रव्यं स्वामिनो नष्टं प्रमादात् कथंचित् पथि गच्छतो भ्रष्टम्, अरण्ये कान्तारे वा स्थापयित्वारण्यपालैर् अन्यैर् वा राजपुरुषैर् लब्धं राजसकाशम् आनीतम्, तद् राज्ञा120 रक्षां कृत्वा राजद्वारे राजमार्गे वा प्रकाशं स्थापयितव्यम् । पटहघोषणेन वा कस्य किं हारितम् इति प्रकाशयितव्यम् । यतः प्रदेशाल् लब्धं तस्मिन्न् एव प्रदेशे रक्षिपुरुषाधिष्ठितं कर्तव्यम् । एवं त्रीणि वर्षाणि स्थापयितव्यम् । तत्र्आर्वाक् त्रिभ्यो वर्षेभ्यो यः कारणत आत्मीयं ज्ञापयेत् तस्योद्धृतवक्ष्यमाणषड्भागादिभागकं समर्पयितव्यम्, परतः स्वकोष्ठे प्रवेशनीयाम् इति ।
- प्रनष्टः स्वामी यस्य रिक्थस्य तत् प्रनष्टस्वामिकम् । प्रनष्टो ऽविज्ञातः । रिक्थं धनम् । त्रयाणाम् अब्दानां समाहारस् त्र्यब्दम् । त्रिवर्षवत् त्र्यब्दे ङीबभावः । अब्दशब्दः संवत्सरपर्यायः । निधापयेत् स्थापयेत् । अर्वाक् त्र्यब्दात् पूर्वं त्रिभ्यो वर्षेभ्यः, हरेत् स्वामी स्वीकुर्यात् । अर्वाक्शब्दो ऽवधौ दिग्देशादिकात् पूर्वम्121 आह ।
- अन्ये तु नृपतिर् हरेद् इति भोगानुज्ञानम् अपहारम् आहुः । न हि ऊर्ध्वम् अपि त्रिभ्यो वर्षेभ्यः परकीयस्य द्रव्यसापहारो युक्तः । तस्मात् त्रिभ्यो वर्षेभ्य ऊर्ध्वम् अनागच्छति स्वामिनि राज्ञा122 भोक्तव्यम् ।
- तैर्123 अयं श्लोकः कथं व्याख्यानीयः- “यत् किंचिद् दशवर्षाणि” (म्ध् ८.१४७) इति । यदि च परकीयस्यापहारो न युक्त इत्य् उच्यते भोगो ऽपि नैव युक्तः । परकीयं124 वस्त्रादिवद् भुज्यमानं नश्यत्य् एव । तत्रानपहारोपचारो युक्तः, भुक्तेर्125 एवापहारफलस्य सद्भावात् । गजतुरगादेस्126 तु कीदृशो भोग इति वाच्यम् । तस्मान् न यथाश्रुतार्थत्यागे कारणम् अस्ति । हरतिश् च गृह्णात्यर्थे असकृद् दृष्टप्रयोग ऋक्थं हरेद् इत्यादौ । तस्त्मात् परेण नृपतिर् हरेत् स्वीकुर्याद् इत्य् अयम् एवार्थः ॥ ८.३० ॥
कथं पुनः स्वामी प्रनष्टे धने स्वामित्वं ज्ञापयेत् । अत127 आह ।
ममेदम् इति यो ब्रूयात् सो ऽनुयोज्यो यथाविधि ।
संवाद्य रूपसंख्यादीन् स्वामी तद् द्रव्यम् अर्हति ॥ ८.३१ ॥
मेधातिथिः ...{Loading}...
यः कश्चिद् आगत्य “ममेदं स्वं द्रव्यम्” इति ब्रूयात्, सो ऽनुयोज्यो यथाविधि । अनुयोज्यः प्रष्टव्य इत्य् अर्थः । को ऽसाव् अनुयोगविधिः । “को भवान्, किं द्रव्यं हारितम्, किंरूपम्, किंपरिमाणम्, किंसंख्याकम्, संपतितम् अपतितं वा, यदि पतितं कस्मिन् देशे, तथा कुत आगमितं त्वया” इत्य् एवं पर्यनुयोगः कर्तव्यः । स यदि संवादयति रूपसंख्यादीन् । रूपं प्राणिवस्त्रादिविषयं शुक्लं वस्त्रं 128गौर् वेत्येवमादि । तथा संख्या दश गावो वा युगानि वा । आदिग्रहणाद् धस्तादिप्रमाणं सुवर्णादिपरिमाणं प्रकीर्णरूपकं वा । एतत् सर्वं संवादयति तदासौ स्वामी भवति । अतस् तद् द्रव्यम् अर्हति स्वीकर्तुम् । संवाद उच्यते- यादृशम् एकेन प्रमाणेन परिच्छिन्नं तादृशम् एव यद्य् अनेन129 परिच्छिद्यते । रूपसंख्यादिग्रहणं च प्रदर्शनार्थं स्वामित्वकारणानाम् अन्येषाम् अपि साक्ष्यादीनाम् ॥ ८.३१ ॥
अवेदयानो नष्टस्य देशं कालं च तत्त्वतः ।
वर्णं रूपं प्रमाणं च तत्समं दण्डम् अर्हति ॥ ८.३२ ॥
मेधातिथिः ...{Loading}...
मिथ्या प्रवर्तमानस्य दण्डो ऽयम् उच्यते । यो न ज्ञापयति नष्टस्य धनस्य देशं कालं च, अस्मिन् देशे काले वा हारितम्, तत्त्वतः परमार्थतह्ṁ वर्णं शुक्लादिकम्, रूपं पटी शाटकयुगं वेत्यादिकम् आकारम्, प्रमाणं पञ्चहस्तायामं सप्तहस्तमात्रं वा, अवेदयानः, तदा तत्समं यावति द्रव्ये मित्थ्याप्रवृत्तस् तत्तुल्यं दण्डम् अर्हति ॥ ८.३२ ॥
आददीताथ षड्भागं प्रनष्टाधिगतान् नृपः ।
दशमं द्वादशं वापि सतां धर्मम् अनुस्मरन् ॥ ८.३३ ॥
मेधातिथिः ...{Loading}...
आददीत गृह्णीयात् षष्ठं भागं दशमं द्वादशं वा प्रनष्टलब्धाद् द्रव्यात् । अवशिष्टं स्वामिने ऽर्पयेत् । तत्र प्रथमे वर्षे द्वादशो भागो द्वितीये दशमस् तृतीये षष्ठ इति । अथ वा रक्षाक्लेशक्षयापेक्षो भागविकल्पः । सतां धर्मम् अनुस्मरन् शिषानाम् एष समाचार इति जानानः ॥ ८.३३ ॥
प्रनष्टाधिगतं द्रव्यं तिष्ठेद् युक्तैर् अधिष्ठितम् ।
यांस् तत्र चौरान् गृह्णीयात् तान् राजेभेन घातयेत् ॥ ८.३४ ॥
ममायम् इति यो ब्रूयान् निधिं सत्येन मानवः ।
तस्याददीत षड्भागं राजा द्वादशम् एव वा ॥ ८.३५ ॥
मेधातिथिः ...{Loading}...
निखातायाम् भूमौ गुप्तं स्थापितं धनं निधिर् उच्यते । वर्षशतिका वर्षसहस्रिकाश् च निधयो भवन्ति । तत्र यदि भूमेर् विदार्यमाणायाः कथंचित् केनचिन् निधिर् आसाद्यते, स तु राजधनम् । तथा च गौतमः- “निध्यधिगमो राजधनम्” (ग्ध् १०.४३) इति । एतच् चास्मर्यमाणनिधातृके निधौ द्रष्टव्यम् । तस्याख्याता षष्ठं लबेतेत्य् उक्तम् । अयं तु श्लोको यत्राख्यातैव निधाता तत्पुरुषो वा पितृपितामहादिश् तद्विषयो द्रष्टव्यः । ममायं निधिर् इति यो ब्रूयात् सत्येन प्रमाणेन ज्ञापयेद् इत्य् अर्थः । तस्याददीत षड्भागम् इति । निश्चिते तत्स्वामिकत्वे राज्ञः षष्ठादिभागग्रहणम् । विकल्पश् चाख्यातृगुणापेक्षया ॥ ८.३५ ॥
विद्वांस् तु ब्राह्मणो दृष्ट्वा पूर्वोपनिहितं निधिम् ।
अशेषतो ऽप्य् आददीत सर्वस्याधिपतिर् हि सः ॥ ८.३७ ॥
मेधातिथिः ...{Loading}...
133विद्वान् ब्राह्मणः पूर्वैः पित्रादिभिर् उपहितं निधिं यदा पश्येत् तदा सर्वम् एव्आददीत, न राज्ञे पूर्वोक्तं भागं दद्यात् । अस्यार्थवादः- सर्वस्याधिपतिर् हि सः । तथा चोक्तम्- “सर्वं स्वं134 ब्राह्मणस्येदम्” (म्ध् १.१००) इति । एतच् च्आसेषतो ग्रहणं यो ब्राह्मणस्वामिक एव निधिः । यस् त्व् अविज्ञातस्वामिकः तस्मिन् विद्वद्ब्राह्मणदृष्टे135 ऽप्य् अस्त्य् एव राज्ञो भागः । यतो वक्ष्यति “निधीनां तु पुराणानाम्” (म्ध् ८.३९) इति ॥ ८.३७ ॥
M G: vijñeyaḥ brāhmaṇadṛṣṭo
All read: sarvasvaṃ
M G DK (1: 1956; 4: 1342) add at beginning: yadā
अनृतं तु वदन् दण्ड्यः स्ववित्तस्यांशम् अष्टमम् ।
तस्यैव वा निधानस्य संख्ययाल्पीयसीं कलाम् । ८.३६ ॥
मेधातिथिः ...{Loading}...
यस् तु मयायं निहितो मत्पूर्वजेन वेति136 प्रतिज्ञां न साधयति सो ऽसत्यवादी137 दण्ड्यः । यावत् तस्य वित्तम् अस्ति, ततो ऽष्टमं भागं तस्यैव वा निधानस्याल्पीयसीं कलां मात्रां भागम् इत्य् अर्थः । न तु तद् एव द्रव्यं सुवर्णादिकं दापयेत्, किं तु तत्परिमाणम् अन्यद् वा सममूल्यं यया धनमात्रया दण्डितो ऽवसादं न138 गच्छेद् विनयं वा ग्राह्येत । अनुबन्धादिविशेषापेक्षया पुरुषगुणापेक्षया च विकल्प आश्रयणीयः । आतिशायनिकात् पूर्वदण्डात् स्वल्पो दण्ड इति ज्ञापयति । तेन यस्य बहु वित्तं स्वल्पो निधिः, तत्र निध्यपेक्षां मात्राम् अष्टमांशम्139 अर्थाधीनां दण्ड्यः । सा ह्य् अल्पीयसी भवति ॥ ८.३६ ॥
यं तु पश्येन् निधिं राजा पुराणं निहितं क्षितौ ।
तस्माद् द्विजेभ्यो दत्वा ऽर्धम् अर्हं कोशे प्रवेशयेत् ॥ ८.३८ ॥
मेधातिथिः ...{Loading}...
यो राज्ञा स्वयं निधिर् अधिगतस् तस्मान् निधेर् अयं ब्राह्मणेभ्यो दाननियमो राज्ञः । कोशशब्देन वित्तसंचयस्थानम् उच्यते । पुराणं निहितं क्षिताव् इति निधिरूपानुवादः ॥ ८.३८ ॥
निधीनां तु पुराणानां धातूनाम् एव च क्षितौ ।
अर्धभाग् रक्षणाद् राजा भूमेर् अधिपतिर् हि सः ॥ ८.३९ ॥
मेधातिथिः ...{Loading}...
अन्येनापि दृष्टस्य निधे राज्ञा भागः पूर्वोक्तो ग्रहीतव्य इत्य् अस्य विधेर् अर्थवादो ऽयम्- निधीनां हि पुराणानाम् इति । धातूनाम् एव च क्षितौ- अयं त्व् अप्राप्तविधिः । सुवर्णरूप्यादिबीजम्140 मृदः सिन्दूरकालाञ्जनाद्याश् च धातवः । सुवर्णाद्याकरभूमीर् यः खनति, यो वा पर्वतादिषु गैरिकादिधातून् उपजीवति, तेनापि पूर्ववद् राज्ञे भागो दातव्यः । अर्धभाग् इति अर्धशब्दो ऽंशमात्रवचनः समासनिर्देशात्, यथा ग्रामार्धो नगरार्धम् इति । नपुंसकलिङ्गस् तु समप्रविभागः । इह तु समासे लिङ्गविशेषप्रतिपत्त्यभावात् पूर्वस्य141 चशब्दवशात्142 षड्दशद्वादशादेर् भागस्य प्रकृतत्वात् तद्वचनो विज्ञायते । अर्धं भजत एकदेशं गृह्णातीत्य् अर्थः । अत्र हेतुः, रक्षणाद् इति । यद्य् अपि क्षितौ निहितस्य केनचिद् अज्ञानान् न राजकीयरक्षोपयुज्यते, तथापि तस्य बलवतापहारः संभाव्यते । अतो ऽस्त्य् एव रक्षाया अर्थवत्त्वम् । एतदर्थम् एवाह- भूमेर् अधिपतिर् हि सः । प्रभुर् असौ भूमेः । तदीयायाश् च भुवो यल् लब्धं तत्र युक्तं तस्य भागदानम् ॥ ८.३९ ॥
दातव्यं सर्ववर्णेभ्यो राज्ञा चौरैर् हृतं धनम् ।
राजा तद् उपयुञ्जानश् चौरस्याप्नोति किल्बिषम् ॥ ८.४० ॥
मेधातिथिः ...{Loading}...
चौरैर् यन् नीतं किंचिद् धनं तद् राजा प्रत्याहृत्य नात्मन्य् उपयुञ्जीत । किं तर्हि, य एव मुषितास् तेभ्य एव प्रतिपादयितव्यम् । सर्वग्रहणेन च चण्डालेभ्यो ऽपि देयम् इति । “चौराहृतम्” इत्य् अन्यस्मिन् पाठे चौरैः आहृतम्143 इति विगृह्य साधनं “कृता” (पाण् २.१.३२) इति समासः । पाठान्तरे “चौरहृतम्” इति “तृतीया” (पाण् २.१.३०) इति योगविभागात् पूर्ववद् वा समासः । अयं त्व् अत्रार्थः- यच् चौरैर् हृतम् अशक्यप्रत्यानयनं तद् राज्ञा स्वकोशाद् दातव्यम् ।
उत्तरश्लोकार्ध144 एवं योजनीयः- राजा तद् उपयुञ्जान इति । अनेकार्थत्वाद् धातूनाम् उपपूर्वो युजिर् लक्षणया वाप्रतिपादन145 एव द्रष्टव्यः । यो ह्य् अन्यस्मै प्राप्तकालं धनं न ददाति, स्वप्रयोजनेषु विनियुङ्क्ते, तेन तदीयम् एव तदुपयुक्तं भवतीति युक्तम् उच्यते- राजा तद् उपयुञ्जानश् चौरस्याप्नोति किल्बिषम् । किल्बिषं146 पापम् ॥ ८.४० ॥
जातिजानपदान् धर्मान् श्रेणीधर्मांश् च धर्मवित् ।
समीक्ष्य कुलधर्मांश् च स्वधर्मं प्रतिपादयेत् ॥ ८.४१ ॥
मेधातिथिः ...{Loading}...
कुरुकापिशकाश्मीरादिदेशो नियतावधिः जनपदम् । तत्र भवा धर्मा जानपदाः । केचित्147 तत्र भवन्ति ये तद्देशव्यपदेशैर् अनुष्ठीयन्ते । अथ वा तन्निवासिनो जना मञ्चाः क्रोशन्तीतिवत् जनपदशब्देनाभिधीयन्ते । तेषाम् अनुष्ठेया जानपदाः । “तस्येदम्” (पाण् ४.३.१२९) इति तद्धितः । जातेर् जानपदा जातिजानपदा इति षष्ठीसमासः । जातिमात्रविषया देशधर्मा राज्ञा परिपालनीयाः । समीक्ष्य विचार्य — किम् आम्नायैर् विरुद्धा अथ न, तथा पीडाकराः कस्यचिद् उत न — एवं विचार्य, ये ऽविरुद्धाश् तान् प्रतिपादयेद् अनुष्टापयेद् इत्य् अर्थः । तथा च वक्ष्यति “सद्भिर् आचरितं यत् स्यात्” (म्ध् ८.४६) इति ।
- अथ वा जातयश् च ते जानपदाश् चेति विशेषणसमासः । जातिशब्देन च नित्यत्वं लक्ष्यते । प्रशंसामात्रं चैतत् देशधर्माणाम् । यथा जातिर् नित्या एवं148 देशधर्मा अपि शास्त्राविरुद्धा नित्याः । ते नित्यवद् अनुष्ठेया दृष्टार्था149 गोप्रचारोदकक्षरणादयः । यथा ग्रामीणा अत्र प्रदेशे गावो न चारणीया इति समयम् आश्रयन्ति कस्यचित् कार्यस्य सिद्ध्यर्थं तत्र यो व्यतिक्रामति स राज्ञा दण्ड्यः ।
- अथ वा जनपदे भवा जानपदा देशनिवासिन उच्यन्ते । जात्या जानपदा जातिजानपदाः । जातिर् जन्मोत्पत्तिर् इति यावत् । एतेन देशसंबन्धस्य150 पुरुषाणां नित्यता लक्ष्यते । ये तद्देशजास् तद्देशाभिजनास् तन्निवासिनश् च गृह्यन्ते, तेषां सर्वविशेषणविशिष्टानाम्151 अनिदंप्रथमतो जाता ये धर्मास् ते जातिजानपादशब्देनोच्यन्ते । “वृद्धाच् छः” (पाण् ४.२.११४) इति तद्धिते प्रसक्ते छान्दसत्वाद् अणेव कृतः ।
- अथ वाभेदोपचारात् पुरुषशब्दस् तत्संबन्धिषु धर्मेषु प्रयुक्तः । तेनायं152 देशनियमो धर्माणां स एवंविधात् पुरुषात् प्रतिद्रष्टव्यः । एते हि देशधर्मा म्लेच्छानां153 न पुनर् आर्याणाम् । ते154 हि तिर्यक्समानधर्माणो ऽन्यत्रानधिकृताः स्वसमाचारप्रसिद्धं धर्मम् अनुतिष्ठन्ति मातृविवाहादि155 । सो ऽयं156 सार्वभौमेन न157 निवारणीयः । स्वदेशाचारवतां तेषां जातिधर्मो ऽयं158 जनपदनिवासबन्धेनाभ्यनुज्ञानात्,159 आम्नायविरोधो160 ऽप्य् अत्र नास्ति । अधिकृतानां विरोधात् विरोधो न तिरश्चाम् ।
- ननु “अहिंसा सत्यम् अक्रोधः शौचम् इन्द्रियसंयमः” (म्ध् १०.६३) इति प्रतिलोमाधिकारेणैवोक्तम् । म्लेच्छाश् च प्रतिलोमा161 एव । तत्र यदि मातृविवाहे मूत्रोत्सर्गे चोदकशुद्ध्यभावे न दुष्यति, क इन्द्रियसंयमः कीदृशं वा शौचम् इति ।
- उक्तम् एतत् । आर्यावर्तमध्यवर्तिनाम्162 एते धर्माः शौचादयः । चातुर्वर्ण्ये तु तत्तद्देशनियमो163 धर्माणां नास्ति । केचिद् अदृष्टार्था देशधर्मा इति वक्ष्यामः ।
एककार्यापन्ना वणिक्कारुकुसीदिचातुरिकादयः164 । तेषां धर्माः श्रेणीधर्माः । यथा केचन वणिङ्महत्तरा वचनेन परिच्छिन्नं राज्ञो भागं प्रयच्छन्ति — “इमां वणिज्यां वयम् उपजीवाम एष ते राजभागो ऽस्माकं यावल् लाभो ऽस्तु न्यूनो ऽधिको वा” । तत्र राज्ञाभ्युपगते वणिज्ये लाभातिशयार्थं राष्ट्रविरोधिनीं चेतरेतरव्यवस्थां कुर्वन्ति — इदं द्रव्यम् इयन्तं कालम् अविक्रेयम्, अयं राज्ञो ऽपदेशेनार्थो165 दण्डः पतति, देवतोत्सवार्थो वा । तत्र यदि कश्चिद् व्यतिक्रामति स एवं श्रेणीधर्मव्यतिक्रामन् दण्ड्यः ।
कुलधर्मा इति । कुलं वंशः । तत्र प्रख्यातमहिम्ना पूर्वजेन धर्मः प्रवर्तितो भवति यो ऽस्मद्वंशजः कुतश्चन धनं लभेत स नादत्वा ब्राह्मणेभ्यो ऽन्यत्र विनियुञ्जीतेत्यादयो धर्माः । तथा, सति योग्यत्वे य एव पूर्वपुरुषाणां याजकाः कन्यादिसंप्रदानभूता वा त एव कार्याः166 । तदतिक्रामन् राज्ञो ऽनुष्ठापयितव्यः । एतेषां च सामवायिकत्वाद् अधर्मत्वशङ्कया पुनर्वचनम् । न चायं संविद्व्यतिक्रम इति वक्ष्यामः ॥ ८.४१ ॥
स्वानि कर्माणी कुर्वाणा दूरे सन्तो ऽपि मानवाः ।
प्रिया भवन्ति लोकस्य स्वे स्वे कर्मण्य् अवस्थिताः ॥ ८.४२ ॥
मेधातिथिः ...{Loading}...
पूर्वोक्तस्य जानपदादेर् धर्मस्य दृष्टादृष्टतानेन प्रदर्श्यते । स्वानि कर्माणि कुलस्थित्यनुरूपाणि ये कुर्वन्ति ते दूरस्था अपि प्रिया भवन्ति । सर्वस्यान्यो निकटवर्ती संसर्गातिशयात् प्रियो भवति । स्वकर्मकारी तु दूरस्थ एव प्रियः । स्वे स्वे कर्मण्य् अवस्थिता इत्य् अनेन परकर्माननुष्ठानम् आह । ये न परकर्माणि कुर्वन्ति ते सर्वस्य प्रिया भवन्तीति श्लोकार्थः ॥ ८.४२ ॥
नोत्पादयेत् स्वयं कार्यं राजा नाप्य् अस्य पूरुषः ।
न च प्रापितम् अन्येन ग्रसेनार्थं कथंचन ॥ ८.४३ ॥
मेधातिथिः ...{Loading}...
कार्यं विवादवस्तु । तद् राजा स्वयं न प्रवर्तयेत् । कस्यचिद् दूष्यस्योपघातार्थं धनिनो वा धनग्रहणार्थं न तदीयम् ऋणिकम् अन्यं वापराद्धम् उद्वेजयेत्- एष ते धारयति किम् इति ममाग्रतो नाकर्षसि, एतेन वा तावद् अपराद्धं यावद् अहम् एनं निपातयामि — इत्य् एवं राज्ञा न कर्तव्यम्, सत्य् अपि द्वेषे धनलोभे वा । न च प्रापितम् आवेदितम् अन्येनार्थिना ग्रसेत निगिरेन् नोपेक्षेतेति यावत् । अवधीरणायां निगिरेद् इति प्रयुज्यते । तत्समानार्थश् च ग्रसतिः । तथा च वक्तारो भवन्ति यावत् किंचिद् अस्योच्यते तत् सर्वं निगिरति न किंचिद् अयं प्रतिवक्ति ।
- अन्ये तूत्तरं श्लोकार्धम् एवं व्याचक्षते । न च प्रापितं व्यवहाराद् अन्येन प्रकारेण्आर्थं धनं ग्रसेत स्वीकुर्यात् । यदि हि राजा छललेशोद्देशिकया धनदण्डे प्रवर्तेत ततः परलोके दोषो द्रष्टव्यः । स्वराज्ये167 चोपघातः स्यात् ।
अथेदम् अपरं केषांचिद् व्याख्यानम् । नोत्पादयेत् स्वयं कार्यं राजा । साक्षाद् उपलभ्याप्य् अकार्यकारिणं न स्वयं किंचिद् ब्रूयात्, तस्य पराधीनेन यावद् व्यवहारेण नाकृष्टः । येन व्यवहारदर्शनम् एव पराजितस्य निग्रहाय भवति, न राजा । एतच् च ऋणादानादिष्व्168 एव द्रष्टव्यम् । ये तु स्तेनसाहसिकादयः कण्टकस्थानीयास् तान् राजा स्वयम् एवावगम्य गृह्णीयात् । शेषं समानम् ।
नाप्य् अस्य पूरुष इति अस्य राज्ञः पुरुषो ऽधिकारी मनुष्यः ॥ ८.४३ ॥
यथा नयत्य् असृक्पातैर् मृगस्य मृगयुः पदम् ।
नयेत् तथानुमानेन धर्मस्य नृपतिः पदम् ॥ ८.४४ ॥
मेधातिथिः ...{Loading}...
यद् उक्तं न स्वयं दृष्ट्वापि राजा सहसा कंचिद् आक्रमेत वा निगृह्णीयाद् यतः नर्मणाप्य् एतत् संभवति । कथं पुनर् एतद् अवगन्तव्यम्,169 किं परिहासकृतम् एतद् उत क्रोधाद्यनुबन्धकृतम् इति । अत आह अनुमानेन्ऐतज् ज्ञातव्यम् । यथा मृगयुर् मृगव्याधो विद्ध्वा मृगं नष्टं दृष्टिपथाद् अपक्रान्तं छिद्रनिसृतैर् असृक्पातैः स्रवद्भिः शोणितैः पदं मृगस्य नयत्य् आसादयत्य् एवं राजानुमानेन परोक्षे प्रत्यक्षे वार्थकारणं निश्चिनुयात् । धर्मश् च कृतव्यवहारविषयस् तत्त्वावगमः । उक्तस्याप्य् अनुमानस्य पुनर्वचनं स्मृतिदार्ढ्यार्थम् ॥ ८.४४ ॥
सत्यम् अर्थं च संपश्येद् आत्मानम् अथ साक्षिणम् ।
देशं रूपं च कालं च व्यवहारविधौ स्थितः ॥ ८.४५ ॥
मेधातिथिः ...{Loading}...
व्यवहारविधौ व्यवहारकर्मणि स्थितः प्रवृत्तो न केवलं व्यवहाराक्षराणि संपश्येद् यावद् एतद् अपरं सत्यादि ।
तत्र सत्यस्य दर्शनं — यद्य् अप्य् अर्थिप्रत्यर्थिनोर् अन्यतरेण शालीनतया परिपूर्णाक्षरं नाभिहितं तथापि यदि राजा प्रमाणान्तरतः पूर्वोक्ताद् वानुमानाद् एव कथंचिद् ईदृशो ऽयम् अर्थ इति निश्चेतुं पारयेत् तदा तद् आश्रयेन् नोपेक्षेत, अनेनैतन् न सर्वम् उक्तम् इति । तद् उक्तम्- “छलं निरस्य भूतेषु व्यवहारान् नयेन् नृपः” (य्ध् २.१९) इति ।
अर्थस्य दर्शनम् — अर्थशब्दो धनवचनः प्रयोजनवचनो वा । तत्र यदि महान्तम् अर्थम् आसादयेत् तदा त्यक्त्वाप्य् अन्यानि राजकार्याणि नोद्विजेत, व्यवहारेक्षणं कुर्याद् एव । अथ वा यदि कश्चिद् ब्रूयात् साक्षिभिर् अर्थ एतस्माद् गृहीतो ऽन्येन वा सभ्येन170 तत्र निरूपयितव्यं यद् एतद् व्यवहारपदं यदि स्वल्पं न संभवति धनग्रहणम् । अथ गुरु सभ्याः साक्षिणश् च दैन्यं गतास् तदा संभावनीयं प्रमाणान्तराच् च निश्चेतव्यम् ।
एतच् चात्मानं साक्षिणं कृत्वा गवेषणीयम् । एतद् उक्तं भवति । कण्टकशोधनन्यायेन चारैश् चारयेत् । अथ वात्मानं संपश्येद् आत्मनो ऽवस्थां संपश्येत् कोशक्षयं महाकोशतां वा । अस्मिन् पक्षे साक्षिण इति स्वतन्त्रं पदम् ।
देशस्य दर्शनम् — क्वचिद् अल्पो ऽप्य् अर्थो महत्त्वम् आसादयति, महान् अपि यो ऽन्यत्र स क्वचिल्171 लघु भवतीति । एतद् देशस्य दर्शनम् ।
एवं कालो ऽपि द्रष्टव्यः।
रूपं व्यवहारवस्तुस्वभावः । तस्य गुरुलघुतां पश्येद् इति ।
अन्यैश् तु व्याख्यातम् । सत्यार्थयोः सारफलतां पश्येद् आत्मानं साक्षिणं कृत्वा172 । एतद् उक्तं भवति । अर्थात् सत्यं गुरुत्वेन महाप्रयोजनत्वाद् उभयोर् लोकसाधनरूपतयाश्रयितव्यम् । अर्थस् त्यक्तव्यो ऽसारत्वात् । देशः स्वर्गादिः सत्यसमाश्रयप्राप्यः । कालश् चिरं तत्र वासः । रूपं सुरूपं सुन्दरं महोहरम् । एतद् एव विपरीतम्, सत्यत्यागेन केवलार्थसमाश्रयणात् ॥ ८.४५ ॥
सद्भिर् आचरितं यत् स्याद् धार्मिकैश् च द्विजातिभिः ।
तद् देशकुलजातीनाम् अविरुद्धं प्रकल्पयेत् ॥ ८.४६ ॥
मेधातिथिः ...{Loading}...
सन्तः प्रतिषिद्धवर्जकाः, धार्मिकाः विहितानुष्ठायिनः । यद्य् अप्य् एक एव शब्द उभयम् अर्थं प्रतिपादयितुं शक्नोति तथापि भेदोपानानाद् विषयविभागेनैवं व्याख्यायते । तैर् यद् आचरितम् अनुपलभ्यमानश्रुतिस्मृतिवाक्यं तद् देशकुलजातीनां प्रकल्पयेद् अनुष्ठापयेत् । अविरुद्धं श्रुतिस्मृतिभिर् उपलभ्यमानाभिः । यद् उक्तम् “जातिजानपदान् धर्मान्” (म्ध् ८.४१) इत्य् अत्र श्लोके देशकुलाद्याचारस्य प्रामाण्यम्, तस्यानेन विशेषः कथ्यते । आम्नायेनाविरोधे173 तत् प्रमाणम्, न विरोधे तत् प्रमाणम् । तेन दृष्टार्थान्य् अपि ग्रामदेशराजकार्याणि शास्त्राविरुद्धान्य् आदरणीयानि, न विरुद्धानि । यथा क्वचिद् देश ऋणिक आत्मानं विक्रय्य धनं दाप्यते । तच् च “कर्मणापि समम्” (म्ध् ८.१७७) इत्य् अनेन विरुद्धम् । अन्यच् च श्लोकेन दर्शितम् । अन्यस्य त्व् आचारस्य शिष्टसंबन्धितयैव प्रामाण्यम् उक्तम् “आचारश् चैव साधूनाम्” (म्ध् २.६) इति । न च तद्विरुद्धार्थसमाचरणेन साधुत्वम् उपपद्यते । तस्माद् यन् नादृष्टाय174 तद्विषयो ऽयम् उपदेशः ।
- अन्यस् त्व् आह । देशान्तरे धार्मिकैः सद्भिर् द्विजैर् यद् अविरुद्धं175 श्रुत्या स्मृत्यन्तरेण वाचर्यते तद् देशान्तरे ऽपि राजा प्रकल्पयेत् । यथा उद्वृषभयज्ञादय उदीच्येषु प्रसिद्धास् ते प्राच्यैर् दाक्षिणात्यैः प्रतीच्यैश् चानुष्ठेयाः । कुतः । आचाराद् धि स्मृतिर् अनुमातव्या, स्मृतेः श्रुतिः । सा च यद्य् एवम् अनुमीयते “उदीच्यैर् एतत् कर्तव्यम्” इति, तत्र तद्धितस्य बहुष्व् अर्थेषु स्मरणात् “तत्र जातः” (पाण् ४.३.२५), “तत्र भवः” (पाण् ४.३.५३), “तत आगतः” (पान् ४.३.७४), तम् अभिप्रस्थितः “शेषे” (पाण् ४.२.९२) इति चैतस्य लक्षणविकारोभयरूपत्वाद्176 अन्येष्व् अप्य् अर्थेषु प्रतिपदम् अनुपातेषु177 तद्धितस्मरणान् नास्त्य् उदीच्यो नाम, य उदीच्यशब्देन निवर्त्येत । ततश् च पुरुषमात्रेणैतत् कर्तव्यम् इत्य् आपतति, देशसमाख्याया नियतनिमित्तत्वाभावेनानियामकत्वात् । अथैवं वाक्यम् अनुमीयेत- “उदीच्यां जातेन तद्देशवासिना वा,” तद् अपि व्यभिचारि । तत्र जातो ऽपि178 नान्यत्र करोति, तन्निवास्य् अप्य् अन्यत्र जातो न करोत्य् एव । अथ “उदग्देशाभिजनस् तन्निवासी च” इति- अनित्यत्वाद्179 अभिजननिवासयोस् तद् अपि न युक्तम् एव । न हि जातिगुणगोत्राणीवाभिजननिवासौ नित्यौ । तस्मान् नित्यस्य180 कस्यचिद् अनुष्ठातॄणाम् अवछेदकस्यानुपपत्तेः सर्वविषया धर्माः । न देशधर्मा नाम केचन सन्ति । अनेनैव न्यायेन कुलधर्मा अपि ।
-
कथं तर्हि “देशधर्माः कुलधर्माः” इति च स्मृतिकारैर् भेदेन व्यपदिश्यन्ते ।
-
उक्तं दृष्टार्था नियता व्यवस्था । तत्र धर्मस् तस्य च नियम उपपद्यत इति उक्तम् । कुलं च गोत्रैकदेशः । यस् तु कृत्स्नगोत्रधर्मः, यथा “न वासिष्ठा वैश्वामित्रैः संबध्नीयुः”181 इति, स नित्यत्वाद् गोत्रव्यपदेशस्य नित्य एवेति182 विरम्यते ॥ ८.४६ ॥
यत् सर्वेषु व्यवहारपदेषु साधारणं तद् उक्तम् । विशेषविवक्षायाम् इदम् आह ।
अधमर्णार्थसिद्ध्यर्थम् उत्तमर्णेन चोदितः ।
दापयेद् धनिकस्यार्थम् अधमर्णाद् विभावितम् ॥ ८.४७ ॥
मेधातिथिः ...{Loading}...
“सोपचयं कालान्तरे दास्यामि” इति यो धनम् अन्यस्माद् गृह्णाति सो ऽधर्मर्णः । यस् तु “सोपचयं प्रत्यादास्यामि” इति प्रयुङ्क्ते स उत्तमर्णः । संबन्धिशब्धाव् एतौ । अधमर्णस्यार्थः । अर्थो धनं प्रकरणाद् यद् एवोत्तमर्णाय देयं तद् एवोच्यते । तस्य सिद्धिर् उत्तमर्णं प्रति निर्याणम्183 । द्वितीयो ऽर्थशब्दः प्रयोजनवचनः । अयं समुदायार्थः । उत्तमर्णेन यदा राजा चोदितो भवत्य् अधमर्णेन यो गृहीतो ऽर्थः स मे सिद्ध्यतु, दापयतु, भवान्, राजा त्व् अधमर्णात् तदा दापयेद् धनिकस्यार्थम् । धनम् अस्यास्तीति धनिकः । उत्तमर्ण एव च प्रसिद्ध्या धनिक उच्यते । दापयेद् इति संबन्धाच् चतुर्थी प्राप्ता । सा त्व् अपूर्णत्वात् संप्रदानभावस्य न कृता । यथा घ्नतः पृष्ठं ददाति, रजकस्य वस्त्रं ददातीति । न ह्य् अत्र मुख्यो ददात्यर्थः । इहाप्य् उभयोः स्वत्वस्य भावाद् उभयोः स्वत्वाभावाद् अपरिपूर्णो ददातीत्यर्थः ।
किम् उत्तमर्णवचनाद् एवासौ दापयितव्यः । नेत्य् आह- विभावितम् इति । यदा निश्चितेन प्रमाणेन धारयतीति प्रतिपद्यते । अथ वा विभावितः स्वयं प्रतिपन्नः । यतो विप्रतिपन्नस्य वक्ष्यति “अपह्नवे ऽधमर्णस्य” (म्ध् ८.५२) इति । कथं पुनः स्वयं प्रतिपन्नो विभावित इत्य् उच्यते । नैष दोषः । विस्मरणे स्वहस्तलेख्यादिना स्वयं प्रतिपन्नश् च भवति । विभावितश् चाप्रतिपन्नश् च जानानो ऽपि मिथ्याप्रतिपन्नः ॥ ८.४७ ॥
यैर् यैर् उपयैर् अर्थं स्वं प्राप्नुयाद् उत्तमर्णिकः ।
तैस् तैर् उपायैः संगृह्य दापयेद् अधमर्णिकम् ॥ ८.४८ ॥
मेधातिथिः ...{Loading}...
नेहाप्राप्तार्थाद् उत्तमर्णाद् राज्ञे भागं वक्ष्यत्य् अधर्मणाद् दण्डम् । तत्र स्वभागतृष्णया राजान उपायान्तरेण धनमार्गणं धनिकानां कारयेयुर् अतस् तन्निवृत्त्यर्थम् इदम् उच्यते । यैर् यैर् वक्ष्यमाणैर् उपायैः स्वधनं पूर्वप्रयुक्तम् उत्तमर्णो लभेत तैस् तैर् अधमर्णं दापयेत् । संगृह्य स्थिरीकृत्य । अनेनैवोपायेनैतस्माद् एतल् लभ्यत इत्य् एतन् निश्चित्येत्य् अर्थः । अथ वानुकूलम् उपसान्त्वनं संग्रहः184 । उत्तमर्ण एव उत्तमर्णिकः । उत्तमं च तद् ऋणं चोत्तमर्णम् । तद् अस्यास्तीत्य् उत्तमर्णिकः । “अत इनिठनौ” (पाण् ५.२.११५) इति रूपम् । एवम् इतराव् अपि । सर्वधनादिषु प्रक्षेप्तव्याव् अन्यत्र वीरपुरुषको ग्राम इतिवद् बहुव्रीहिणैव सामानाधिकरण्यस्य मत्वर्थे चोक्तार्थाविशेषेण समासः । मत्वरीयश् च दुर्लभः185 । वृद्धिलाभार्थं प्रयोगविषयं धनम् ऋणम् । द्वौ च तस्य संबन्धिनौ प्रयोक्ता ग्रहीता च । प्रयोजकस्य च तद् उत्तमं भवति । स्वतन्त्रो धनदाने प्रत्यादाने च । इतरस्य सोपचयदानाद् बह्वायामत्वाच् चाधमत्वम् । व्युत्पत्तिमात्रं त्व् एतत् । रूढ्यैव त्व् एतौ प्रयोक्तृग्रहीत्रोर् वाचकौ । के पुनस् तत्रोपाया इत्येतत्प्रदर्शनार्थ उत्तरश्लोकः ॥ ८.४८ ॥
धर्मेण व्यवहारेण छलेनाचरितेन च ।
प्रयुक्तं साधयेद् अर्थं पञ्चमेन बलेन च ॥ ८.४९ ॥
मेधातिथिः ...{Loading}...
तत्र धर्मस्कन्धकरीत्या स्तोकं स्तोकं ग्रहणम् — “इदम् अद्य, इदं श्व, इदं परश्वः, यथा कुटुम्बसंवाहो ऽस्यैवं वयम् अपि तव कुऋउम्बभूताः संविभागयोग्याः” — इत्यादि पठितप्रयोगो धर्मः । यस् तु निःस्वः स व्यवहारेण186 दापयितव्यः । अन्यत्र कर्णोदकवद् धनं दत्वा कृषिवाणिज्यादिना व्यवहारयितव्यम् । तत्रोत्पन्नं धनं तस्माद् ग्रहीतव्यम् । यस् तु व्यवहारो राजनिवेद्यस् तस्य सर्वोपायपरिक्षये योज्यत्वाद् बलग्रहणेन187 च गृहीतत्वात् । यस् तु साक्षान् न ददाति विद्यमानधनो ऽपि स छलेन दापयितव्यः । केनचिद् अपदेशेन विवाहोत्सवादिना कटकाद्याभरणं गृहीत्वा न दातव्यम्, यावद् अनेन तद् धनं न दत्तम् । आचरितम् अभोजनगृहद्वारोपवेशनादि । बलं राजाधिकरणोपस्थानम् । तत्र राजा साम्नाप्रयच्छन्तं निगृह्य च प्रपीड्य दापयतीति । न तु188 स्वगृहसंबन्धिधनादि बलम्, यतः “प्रकृतीनां बलं राजा” इति पठ्यते अस्मिन्न् एव प्रसङ्गे उशनसा ।
-
अन्ये तु राज्ञ एवायम् उपदेश इति वर्णयन्ति, राजधर्मप्रकरणात् । राजा ज्ञापित उपायैर् एनं दापयेत् पराजितं स्वयं प्रतिपन्नं च । न तु सहसावष्टभ्य सर्वस्वं धनिने प्रतिपादनीयः । यत उभयानुग्रहो राज्ञा कर्तव्यः । सर्वस्वदाने चाधर्मणस्य कुटुम्बोत्सादः स्यात् सो ऽपि न युक्तः । उक्तं हि-
-
नावसाद्य शनैर् दाप्यः काले काले यथोदयम् ।
-
ब्राह्मणस् तु विशेषेण धार्मिके सति राजनि ॥ इति ।
तस्मात् किंचन वृद्ध्या संदापनीयः । कुटुम्बाद् अधिकधनसंभवे सर्वं दापनीयः । सर्वासंभवे च “कर्मणापि समं कुर्यात्” (म्ध् ८.१७७) इति । अन्यस्मिन् व्याख्याने छलाचारौ राजानम् अज्ञापयित्वा न कार्यौ ॥ ८.४९ ॥
यः स्वयं साधयेद् अर्थम् उत्तमर्णो ऽधमर्णिकात् ।
न स राज्ञाभियोक्तव्यः स्वकं संसाधयन् धनम् ॥ ८.५० ॥
अर्थे ऽपव्ययमानं तु कारणेन191** विभावितम् ।**
दापयेद् धनिकस्यार्थं दण्डलेशं च शक्तितः ॥ ८.५१ ॥
मेधातिथिः ...{Loading}...
सत्य् अपि विभावके प्रमाणे यो न स्वयं प्रतिपद्यते न तस्य छलाद्युपायप्रयोगः कर्तव्यः । किं तर्हि राजैव तेन ज्ञपयितव्यः । तत्र राज्ञाकारिते ऽर्थे ऋणे ऽपव्ययमानम् अपह्नुवानम्, “नास्मै किंचन धारयमि” इति वदन्तं, कारणेन साक्षिलेख्यभुक्त्यात्मकेन विभावितं धारयामीति प्रतिपादितं दापयेद् उत्तमर्णाय धनम् । दण्डलेशं च स्वल्पं दण्डं दण्डमात्रम् इत्य् अर्थः । अन्यत्र दशमं भागं192 वक्ष्यति । यस् तु तावद् दातुम् अशक्तः सो ऽल्पम् अपि दशमाद् भागाद् दण्डं दापयितव्यः । अथ वा यः प्रमादात् कथंचिद् विस्मृत्यापजानीते तस्यायं यथाशक्ति दशमभागाल्पतो दण्डः । कारणं प्रमाणं त्रिविधम् । तद् अन्यैर् इह संभवतीति परिगणितम् । तथा चाहुः-
- यत्र न स्यात् कृतं पत्रं साक्षी चैव न विद्यते ।
न चोपलंभः पूर्वोक्तो दैवी तत्र क्रिया भवेत् ॥ इति ॥ ८.५१ ॥
अपह्नवे ऽधमर्णस्य देहीत्य् उक्तस्य संसदि ।
अभियोक्ता दिशेद् देशं कारणं193** वान्यद् उद्दिशेत् ॥ ८.५२ ॥**
मेधातिथिः ...{Loading}...
यदा राज्ञा प्राड्विवाकेन वा संसदि व्यवहाराधिकरणादिदेशे “देह्य्194 उत्तमर्णाय धनम्” इति उक्तस्यापह्नवो ऽपलापः195 अधर्मेण भवति, तद्आभियोक्ता196 धनस्य प्रयोक्तोत्तमर्णो197 दिशेद् देशं साक्षिणं प्रमाणभूतं निर्दिशेत् । अन्यद् वा कारणं लेख्यादि । देशशब्देन लक्षणया धनप्रयोगप्रदेशवर्तिनां साक्षिणाम् उपादानात्, कारणशब्दः198 सामान्यशब्दो ऽपि गोबलीवर्दवत् साक्षिव्यतिरिक्तं लेख्यादिकारणम्199 आचष्टे । ततश् च पाठान्तरम् “कारणं वा समुद्दिशेत्” इति । अस्याप्य् अयम् एवार्थः ।
अथ वायम् अन्यः पाठः “अभियुक्तो दिशेद् देशम्” इति । अयं वार्थः । यत्राधमर्णो देहीत्य् उक्तः प्रतिजानीते “सत्यम् एव धनं प्रतिदत्तं तु तत्” इति,200 यद् असाव् अभियोक्तासीत् स एवाभियुक्तः संवृतः । स चाभियुक्तः संदिशेद् देशम्- “कस्मिन् देशे त्वया मे पर्तिदत्तम्” । कालं च निर्दिशेत्, देशग्रहणस्य प्रदर्शनार्थत्वात् । कारणं201 वा समुद्दिशेत् । “अस्ति भो202 किं कारणं203 तव प्रतिपादने तत् समुद्दिश” इत्य् एवम् ब्रूयात् । अथ वा दिशेद् देश्यम्- यत् तस्मिन् काले नार्हं साक्ष्यादिप्रदर्शनं204 कारणं205 वेति । वाशब्दः चशद्बस्य स्थाने ॥ ८.५२ ॥
अदेशं206** यश् च दिशति निर्दिश्यापह्नुते च यः ।**
यश् चाधरोत्तरान् अर्थान् विगीतान् नावबुध्यते ॥ ८.५३ ॥
मेधातिथिः ...{Loading}...
उक्तम् एवाधर्मर्णे ऽपह्नुवाने धनिना राजा ज्ञापयितव्यः- “ईदृशी च ज्ञापना कर्तव्या । अस्मिन् देशे ऽस्मिन् काल इदं धनम् इयद् वैतेन मत्सकाशाद् गृहीतम्” । स च पृष्टो भावयति- “नैतस्मिन् देशे ऽहम् अभवं यो ऽनेन च ग्रहणकाल उपदिष्टः” तद् अदेशं दिशति207 । अथ वा देशसाक्षिणो व्याख्यातास् तान् साक्षिणो देशकालाव् असंभवतो निर्दिशति । निर्दिश्य देशादिकम् अपजानीते “नैतन् मया निर्दिष्टम्” इति । यश् चाधरोत्तरान् अर्थान् पौरस्त्यानौपरिष्टांश् च विगीतान् विरुद्धान् अभिहितान् नावबुध्यते । यद् वा पूर्वं वक्तव्यं तत् परस्माद् वक्ति यत् परतस् तत् पूर्वं क्रमभेदं च वचनगतम् आत्मनो नानुसंधत्ते । “हीनः स इति निर्दिशेत्” (म्ध् ८.५७) इति सर्वत्र क्रियानुषङ्गो भविष्यतीति ॥ ८.५३ ॥
अपदिश्यापदेश्यं च पुनर् यस् त्व् अपधावति ।
सम्यक् प्रणिहितं चार्थं पृष्टः सन् नाभिनन्दति ॥ ८.५४ ॥
मेधातिथिः ...{Loading}...
पूर्वेणार्धेनोक्तस्यार्थस्य निगमनम् । उत्तरेणानुक्तो ऽर्थ उच्यते । यद् उक्तम् “अदेशं यश् च दिशति निर्दिश्यापह्नुते च यः” (म्ध् ८.५३) इति स एवार्थः अपदिश्येत्य् अस्य । अदेश एव्आपदेशः । तम् अपदिश्य कथयित्वा पुनः पश्चाद् अपधावत्य् अपसरति “नैतौ देशकालौ मम निश्चितौ, यावत्सु देशकालो ऽवधारयति तावद् अयं मह्यम्” इति पश्चाद् ब्रवीति । सो ऽपि तस्माद् अर्थाद् धीयते ।
सम्यक् प्रणिहितं चार्थम् अनाकुलं निश्चितम् उक्तं यदा पृच्छ्यते, तदानेनोक्तं208 तत्र किं ब्रवीषि केन वा प्रमाणेन स्वपक्षं साधयसीति पृष्टो न संधत्ते209 कथान्तरं प्रसौति — “विचारावसानेन किल मे पराजयो भवतीति कालम् उपक्षिपमि” इति — तस्यापि पराजय एव । अथ वापदेशो व्याजस् तम् अपदिश्य्ओपन्यस्य यो ऽपसरति “अधुना मे महती पीडा समुत्पन्ना न शक्नोमि प्रतिवक्तुम्,” अलीकादिना वा प्रस्थितः सो ऽपि हीयते ॥ ८.५४ ॥
असंभाष्ये साक्षिभिश् च देशे संभाषते मिथः ।
निरुच्यमानं प्रश्नं च नेच्छेद् यश् चापि निष्पतेत् ॥ ८.५५ ॥
मेधातिथिः ...{Loading}...
असंभाषणार्हे देशे उपह्वरादौ साक्षिभिः सह संभाषत एकाकी तद्भेदाशङ्कया । निरुच्यमानं पृच्छ्यमानं निरूप्यमाणं वा प्रश्नं विचारवस्तु नेच्छति किंचिद् राजकार्यम् उद्दिश्य राजपुत्रामात्याद्यनुग्रहेण210 च काललाभं करोति । यश् चापि निष्पतेत् । वक्ष्यमाणम् एव क्रियापदं “स हीयते” (म्ध् ८.५६) इति । यद् एवोक्तम् “पुनर् यस् त्व् अपधावति” (म्ध् ८.५४) इति स एवार्थः “यश् चापि निष्पतेत्” इति । पुनर्वचने प्रयोजकम् उक्तम् । अत्यन्तपौनरुक्त्यं211 मा भूद् इति कश्चिद् विशेष आश्रयितव्यः ॥ ८.५५ ॥
ब्रूहीत्य् उक्तश् च न ब्रूयाद् उक्तं च न विभावयेत् ।
न च पूर्वापरं विद्यात् तस्माद् अर्थात् स हीयते ॥ ८.५६ ॥
मेधातिथिः ...{Loading}...
उक्तार्थ एव श्लोको ऽयं श्लोकान्तरैर् दृश्यते । पुनर्वचने च प्रयोजनम् उक्तम्- “बहुकृत्वो ऽपि पथ्यं वेदितव्यम्” इति । अक्षरार्थस् त्व् अर्थिना निःशेषिते पूर्वपक्षे प्रतिवादी “ब्रूह्य् अस्मिन् वस्तुनि” इति पृष्टो यदि न ब्रूयात्, पुनः पुनः पृच्छ्यमानो212 ऽपि । यो हि सम्यग् उत्तराभावान् मिथ्योत्तरवादित्वाद् अमुनैव मे पराजयो भवति तूष्णीभूतस्य तु मे संशय एव पराजये इत्य् अनया बुद्ध्या नोत्तरं ददाति, सो ऽपि जीयते । वक्ष्यति चात्र कालावच्छेदम् “न चेत् त्रिपक्षात् प्रब्रूयात्” (म्ध् ८.५८) इति । सद्यो ह्य् आकृष्टस्य पूर्वपक्षार्थानवबोधाद् उत्तराप्रतिपत्तेर् युक्तं कालहरणम् । अत्र च दिवसैः पञ्चभिर् दशभिर् द्वादशभिर् वा ईषद् ईषद् वदतस् त्रिपक्षसमाप्तिः, न त्व् इयन्तं कालं तूष्णीभाव एव । यश् चातो ऽधिकः कालः, “संस्थितो ऽपि कच्चित् संवत्सरं प्रतीक्षेताप्रतिभावायाम्213” (ग्ध् १३.२८) इति, न युक्तम् आदर्तुं यतो ऽप्रतिभा214 यदि215 प्रतीक्षाकारणम् सा चेत्216 संवत्सराद् ऊर्ध्वं भवतीति किम् इत्य् अकारणम् । न चैष नियमः केनचित् प्रकारेणावगम्यते217 ऽप्रतिभावतः218 संवत्सरेण प्रतिभा भवतीति । तस्मात् तावन्त्य् एवाहान्य् उपेक्षा युक्ता यावद्भिः पूर्वपक्षार्थावधारणं भवत्य् उत्तरं च प्रतिभाति । एतच् चामुकस्य मन्दधियो ऽप्य् एतावन् मात्रैर् अहोभिर् भवतीति नाधिकं कालम् उपेक्षणीयम् ।
-
पूर्वपाक्षिकस्य तु तद् अहर् एव स्वार्थविनिवेशनं युक्तम् । यत इदम् एष मे धारयतीदं वानेन ममापकृतम् इति निश्चितं तस्य भवति । स्वेच्छया ह्य् असौ प्रवर्तते । केवलं तस्मै स्वपक्षम् आवेदयते किम् इत्य् अनिश्चितः स्वार्थो भवति । उत्तरपाक्षिकस् त्व् अविदितसंबन्धस् तदानीम् एव राजपुरुषैर् आनीयमानः कथम् इव स्वपरपक्षौ निश्चिनुयात् । पक्षद्वयनिरूपणं हि तद् अस्य तदानीम् एवापतति । नान्यथोत्तरपाक्षिको भवति । तस्मात् पूर्वपाक्षिकस्य साध्ये वस्तुनि तदहःपूर्वपक्षसमाप्तिर् द्विदिवसलाभो वा । उभाव् अपि चैतौ पक्षौ स्मृत्यन्तरपरिगृहीतौ । तथा ह्य् आह-
-
सुनिश्चितबलाधानः पूर्वपक्षी भवेत् सदा ।
-
दशाहं द्वादशाहं वा स्वपक्षं परिशोधयेत् ॥ इति ।
तथेदम् अपरम् “ततो ऽर्थी लेखयेत् सद्यः प्रतिज्ञातार्थसाधनम्” (य्ध् २.७) ।
-
या तु संवत्सरपरीक्षा सा मूलासंभवाद् अप्रमाणम् । न हि व्यवहारस्मृताव् अष्टकादिवद् वेदमूलता शक्यते वक्तुम्, अकार्यरूपत्वाद् अर्थस्य । प्रमाणान्तरविषयत्वे च तदसंभवः प्रतिपादितः ।
-
एषापि त्रिपक्षोपेक्षा न सर्वत्र । यत् उक्तम्-
-
साहसस्तेयपारुष्यगोऽभिशापात्यये स्त्रियाम् ।
-
विवादयेत् सद्य एव कालो ऽन्यत्रेच्छया स्मृतः ॥ इति । (य्ध् २.१२)
-
साहसादौ हि चिरम् उपेक्ष्यमाणे ऽपरम् आराध्नुयात्219 । अतः सद्यो विवादो विधीयते । न चात्रास्मृत्यादयो220 ऽनुक्तहेतवः संभवन्ति । साहसादिकारणं हि तदानीम् एव राजानं वेदयेत् । तीव्रसंवेगता हि तत्र भवति । वस्त्राद्यपहारेण221 तदुपेक्षायां रागशङ्का222 भवति । साक्षिणस् तत्र यदृच्छया संनिहिता अपि भवन्ति । ते हि देशान्तरं गता नमजात्यादिभिर् न विज्ञायन्ते । ततः स्वाभाविकप्रमाणाभावः ।
- किं च ऋणादानादिषु कदाचिद् इतरेतरं संदधते । न तत्र राज्ञो हस्तप्रक्षेपः । प्रायेण223 च संशुद्धौ नानुस्मृतिर्224 उपयुज्यते तदा कियद् दत्तम् इति । साहसकारी तु राज्ञावश्यं निग्रहीतव्य इतरेण संधीयमानो ऽपि । तस्माद् ऋणादिषु कालहरणं साहसादिषु सद्य इति स्थितम् । तद् उक्तम्-
-
गहनत्वाद् विवादानाम् असामर्थ्यात् स्मृतेर् अपि ।
-
ऋणादिषु हरेत् कालं कामं तत्त्वबुभुत्सया ॥ (न्स्म् मा १.३८)
यदा संकुलः पूर्वपक्षो भवति तदा गहनत्वान् न शक्यते ग्रहीतुम् । अनाकुलो विलुप्तक्रमो ऽपि गृहीतः प्रतिवचनकाले महत्वान् न शक्यते सर्वेण स्मर्तुम् इति स्मृत्यन्तरस्यार्थः ।
उक्तं च न विभावयेत् । साध्यं वस्तु निर्दिश्य न साधयति साधनस्याभावात्, विपक्षे वा भावात् । न च पूर्वापरं विद्यात् । उक्तम् एतत् । तस्माद् अर्थाद् व्यवहारवस्तुनः स हीयते पराजितो भवतीत्य् अर्थः ॥ ८.५६ ॥
ज्ञातारः सन्ति मेत्य् उक्त्वा दिशेत्य् उक्तो दिशेन् न यः ।
धर्मस्थः कारणैर् एतैर् हीनं तम् इति निर्दिशेत् ॥ ८.५७ ॥
मेधातिथिः ...{Loading}...
ज्ञातारः साक्षिणः पुरुषा मम सन्तीत्य् उक्त्वा यदोच्यते कथ्यताम् इति तदा तूष्णीक आस्ते — न तान् देशनामजातिभिर् विशेषणैः कथयति — तदा एतैः प्रयेकं पूर्वम् उक्तैः कारणैर् इह हीनो ऽसौ व्यवहाराद् भ्रष्ट इति । धर्मस्थो धर्माधिकरणस्थः प्राड्विवाको निर्दिशेन् निश्चितं ब्रूयाज् जितो ऽयम् इति । यथैव विपक्षबाधकप्रमाणावृत्त्या225 पराजय एवं स्वपक्षसाधनाभावाद्226 अपि । अभावनिश्चयश् च पुनः पुनर् अवसरे ऽनुपन्यासात् कारणान्तरस्य चानुपन्यासे ऽभावाद् इति ।
ज्ञातार इति तृन्नन्तम् एव । तत्रेदम् इति द्वितीयान्तं युज्यते, “खलर्थत्ट्नाम्” (पाण् २.३.६९) इति षष्ठीनिषेधात् । हीनं तम् इति द्वितीयान्तः पाठः । इतिशब्दः प्रकारार्थो द्रष्टव्यः । एभिर् उक्तैः प्रकारैर् अन्यैश् चैवंविधैर् हीनं तन् निर्दिशेत् । यदा तु वाक्यार्थपरामर्शः तदा हीनो ऽसाव् इति पाठः । वाक्यार्थस्य कर्मत्वाद् द्वितीयाया अभावः ।
एते पराजयहेतवः । न त्व् आकारेङ्गितादिवद् व्यभिचारिणः227 । यो हि पुनः पुनर् विचारावसरे न संनिधीयते संनिहितो नोत्तरं प्रतिवक्ति228 तत्र निश्चितम् इदं भवति नास्य जयहेतुर् अस्तीति । यदि च सर्वदैवानुत्तरवादिनं न पराजयेद् राजा ततो व्यवस्थाभङ्ग आपद्यते । पौर्वापर्यानवबोधस्229 त्व् इङ्गितादिवद् द्रष्टव्यः । यः सर्वकालं वाग्मी प्रगल्भं प्रतिपत्तिमांस् तस्येङ्गितादयो ऽन्यथाभवन्तः पराजयहेतौ प्रमाणान्तरेणानिश्चिते ऽपि लिङ्गदर्शनस्थानीया उपोद्बलका भवन्ति ॥ ८.५७ ॥
अभियोक्ता न चेद् ब्रूयाद् बध्यो230** दण्ड्यश् च धर्मतः ।**
न चेत् त्रिपक्षात् प्रब्रूयाद् धर्मं प्रति पराजितः ॥ ८.५८ ॥
मेधातिथिः ...{Loading}...
अभियोक्ता अर्थी राज्ञान्तिकं कंचन231 पुरुषम् आहूय यदि व्यवहारपदं न कथयति, तदा निष्प्रयोजनाद् बध्यो232 दण्ड्यश् च । दण्डबन्धने दण्डपरिमाणे च गुणवत्तां प्रत्यर्थिन आह्वानेन च हानिम् अपेक्ष्य कल्पनीयानि । अतस् तदहर् एवार्थिना विवदितव्यम् । प्रत्यर्थी तु न चेत् त्रिपक्षाद् ब्रूयाद् इत्य् अर्थः — तदा नासौ दण्ड्यो बन्धयितव्यो वा । किं तर्हीयता कालेनोत्तरे सत्य् अपराजित एव । धर्मं प्रति । धर्मत एवायं पराजयो न छलम् इत्य् अर्थः । त्रिपक्षाद् इति पात्रादिषु द्रष्टव्यस् तेनेकाराभावः । अर्थतत्त्वम् अस्य लोकस्यास्माभिः प्राङ् निरूपितम् ॥ ८.५८ ॥
यो यावन् निह्नुवीतार्थं मिथ्या यावति वा वदेत् ।
तौ नृपेण ह्य् अधर्मज्ञौ दाप्यौ तद्द्विगुणं दमम् ॥ ८.५९ ॥
मेधातिथिः ...{Loading}...
येन पञ्चसहस्राणि दत्तानीति प्रमाणान्तरान् निश्चितम् — लेख्यादौ तु करणे दश233 समारोपितानि — प्रमाणान्तरं संवत्सराख्यम् इति निश्चित्येदम् अपश्यत् केवलेन लेख्यप्रमाणेन सर्वत्र प्रवर्तमानः — छलव्यवहारीति234 द्विगुणं दण्ड्यः235 । यस्य तु विस्मृत्याप्य् अन्यथाप्रवृत्तिर् आशङ्क्यते तस्य दशकं शतम् । एवम् इतरस्यापि । न तु सर्वापह्नवे दशभाग एकदेशापह्नवे द्विगुणम् इति । किं तु शाठ्याद् अन्यथाप्रतिपद्यमानौ द्विगुणं दण्ड्यौ । विस्मृतिदारिद्र्याभ्यां दण्डम् उत्तरम् । यो यावन्तम् अर्थम् अपह्नुवीत अपजानीते ऽधर्मर्णः — मिथ्या यावति236 विपरीतं धनं वदेद् उत्तर्मर्णः — तावत् ताव् उत्तमर्णाधमर्णाव् अधर्मज्ञौ । द्विगुणं दमम् । तद् इत्य् अपह्नूयमानधनपरामर्शः । यावद् अपह्नुतं ततो द्विगुणं दमो दण्डः । अधर्मज्ञग्रहणाच् च लिङ्गान् निश्चितछलविषयो ऽयं दण्ड इत्य् उक्तम् ॥ ८.५९ ॥
पृष्टो ऽपव्ययमानस् तु कृतावस्थो धनैषिणा ।
त्र्यवरैः साक्षिभिर् भाव्यो नृपब्राह्मणसंनिधौ ॥ ८.६० ॥
मेधातिथिः ...{Loading}...
यः कृतावस्थ आहूतो ऽभियुक्तो गृहीतप्रतिभूश् च राजसकाशे प्राड्विवाकेनान्यैर् वा पृच्छ्यते किम् अस्मै धारयसि नेति पृष्ठः सन्न् अपव्ययते ऽपह्नुते237 । धनैषिणा स्वधनं पूर्वप्रयुक्तम् आत्मनः साधयितुम् इच्छता । साक्षिभिर् भाव्यो विप्रतिपन्नः प्रतिपादयितव्यः । त्र्यवरैः । त्रय अवरे येषां तैस् त्र्यवरैः । अवरम् अपचयातिशयम् आह । यद्य् अत्यन्तं न्यूनास् तदा त्रयः स्युः । अन्यथा त्रिभ्य ऊर्ध्वम् । नृपब्राह्मणसंनिधाव् इति ।
- ननु च तेषाम् एव यैर् न्यायः प्रारब्धस् तत्र तत्संनिधान एव साक्षिप्रश्नः प्राप्तः । किम् अनेन नृपब्राह्मणसंनिधाव् इति ।
नैवम् । प्रमाणपुरुषप्रेषणेनापि साक्षिप्रश्न उपपद्यत इति । साक्षात् प्रष्टव्य इति पुनर्वचनम् ॥ ८.६० ॥
यादृशा धनिभिः कार्या व्यवहारेषु साक्षिणः ।
तादृशान् संप्रवक्ष्यामि यथा वाच्यम् ऋतं च तैः ॥ ८.६१ ॥
मेधातिथिः ...{Loading}...
साक्षिलक्षणोपन्यासः श्लोकः । यादृशाः साक्षिणो यज्जातीया यद्गुणयुक्ताश् च धनिभिर् उत्तमर्णैर् व्यवहारेषु धनप्रयोगादिषु कर्तव्यास् तादृशान् वक्ष्यमाणेन कथयिष्यामि । यथा च ऋतं सत्यं238 वाच्यं वक्तव्यं पृष्टैः सद्भिस् तैः, पूर्वाह्ण इत्यादि, तम् अपि प्रकारं वक्ष्यामीति ॥ ८.६१ ॥
गृहिणः पुत्रिणो मौलाः क्षत्रविट्शूद्रयोनय्ः ।
अर्थ्युक्ताः साक्ष्यम् अर्हन्ति न ये केचिद् अनापदि ॥ ८.६२ ॥
मेधातिथिः ...{Loading}...
कृतदारपरिग्रहा गृहिणः । गृहशब्दो दारेषु वर्तते । ते हि स्वकलत्रपरिभवभयान् न कूटम् आचरन्ति । आत्मनि केचिन् निरपेक्षा अपि भवन्ति239 । अन्यदेशान्तरगमनेनात्मानं रक्षयिष्याम इहैव च क्वचिद् गुप्ता भविष्यामो धनं मित्रं वार्जयाम इत्य् अनया बुद्ध्या अनृतम् अपि वदन्ति । कुटुम्बिनस् तु स्वकुटुम्बभयात् क्व वात्मानं न परिरक्षिष्याम इति दूरं कृत्वा कुटुम्बस्य सापेक्षतया राजदण्दभयान् नान्यथा प्रवर्तन्ते ।
पुत्रिण इति । पुत्रस्नेहात् पुत्रिणः । अपुत्रदारश् च साक्षिप्रश्नकाले साद्वाचारो ऽपि कदाचिन् न संनिहितो भवति । स हि नैकस्मिन् देशे आस्थानवान् भवति । एवं मौला अपि व्याख्येयाः । मौला जानपदास् तद्देशाभिजनाः । ते हि स्वजनज्ञातिमध्ये पापभीरुतया न मिथ्या वदन्ति । मूलं प्रतिष्ठा, सा येषाम् अस्ति ते मौलाः । अर्थकथनम् एतत् । तद्धितस् तु भावार्थ एव कर्तव्यः । यो हि यत्र भवः240 सो ऽपि तस्यास्तित्य् अविरुद्धम् ।
क्षत्रविट्शूद्रयोनयः । न ब्राह्मणः । सर्वदा ह्य् अस्याध्ययनाध्यापने विहिते, अन्वहं वाग्निहोत्रहोमः । तत्र दूरस्थे राजनि धर्मोपरोधो ऽस्य मा भूद् इत्य् असौ न कर्तव्यतयोपादीयते । यदृच्छयावगतार्थस् तु साक्ष्यन्तराभावे गरीयसि कार्ये मुख्यतमः स साक्षी । तथा च “ब्रूहीति ब्राह्मणं पृच्छेत्” (म्ध् ८.८८) इति साक्षिप्रश्नो भविष्यति । योनिशब्दः प्रत्येकम् अभिसंबध्यते । क्षत्रं241 योनिर् उत्पत्तिः कारणम् अस्यासौ क्षत्रयोनिः । क्षत्रियजातीय इत्य् अर्थः । क्षत्राद् वा योनिर् जन्मास्येति पञ्चमीति योगविभागात् समासो ऽप्य् उक्तः । अर्थिना यदोक्तं भवत्य् एते मम साक्षिणः तदा242 साक्षिकर्मणि योग्या भवन्ति । ये तु स्वयम् आगत्य साक्ष्यं ददति न ते साक्षिणः ।
अनापदि । आपत् साक्ष्यन्तराभाव इति केचित् । तद् अयुक्तम् । विसंवादकत्वम् असाक्षित्वे कारणम् । तत्संवादकान्तराभावे नापैति । न वयं ब्रूमः — प्रतिषिद्धसाक्षिभावा243 विद्यमानानृताभिधानहेतवो ऽर्थसंबन्द्यादयो वास्याम् अवस्थायां प्रतिप्रसूयन्ते — किं तर्हि येषां कदाचिद् आहूयमानानां धर्मविरोधो भवति श्रोत्रियादीनां तेषाम् अविद्यमानेष्व् अन्येष्व् अनुभूतार्थानाम् इदं प्रत्यनुज्ञानं न पुनर् अनृतानाम् ॥ ८.६२ ॥
आप्ताः सर्वेषु वर्णेषु कार्याः कार्येषु साक्षिणः ।
सर्वधर्मविदो ऽलुब्धा विपरीतांस् तु वर्जयेत् ॥ ८.६३ ॥
मेधातिथिः ...{Loading}...
आप्ता अविसंवादका यथादृष्टार्थवादिनः येषां लोको विप्रलम्भकत्वं न संभावयति, धर्मानुष्ठानपरा ये ख्याताः । सर्वधर्मविदः श्रौतं स्मार्तम् आचारनिरूढं च सर्वं धर्मम् — इह नरकः फलम् इह स्वर्ग इत्य् एवं निरवशेषम् — जानन्ति ते ह्य् अनृताभिधाने नरकं पश्यन्तो बिभ्यति । अलुब्धा उदारसत्वा न स्वल्पं धनं बहु मन्यन्ते । एकैकस्य समस्तानि दर्वाणि विशेषणानि, साक्षिक्रियायां गुणभूतत्वाद् गुणे च साहित्यस्य विवक्षितत्वात् । सर्वेषु वर्णेष्व् इति । सर्वकार्येषु244 न जातिनियमो ऽस्तीत्य् उक्तं भवति । यत् पुनर् जातिव्यवस्थावचनं तद् उपरिष्टाद् वक्ष्यामः । तद् एतद् उक्तं भवति । सर्वैः कार्यिभिः सर्वे वर्णा यथासंभवं साक्षिणः कर्तव्याः । कार्येषु ऋणादानादिषु । यथोक्तलक्षणात्245 विपरीतांस् तु वर्जयेत् । यद्य् अपि विशिष्टेष्व् अभिहितेषु तद्विपरीतानां प्रसङ्ग एव नास्ति तथापि लौकिको ऽयं पर्युदासः । प्रायेण हि लौकिका अन्यं विधायान्यं246 तद्विपरीतं निषेधयन्ति । तथा च भवन्ति वक्तारः — “क्रिया हि द्रव्यं विनयति नाद्रव्यम्” इति । किं चाविसंवादकत्वम्247 इह प्रधानं साक्षिलक्षणं तच् च न विधिमुखेन शक्यावसानम्, किं तु विसंवादकरणाभावमुखेन । न ह्य् अविसंवादकत्वं प्रत्यक्षदृश्यम् । तद् धि यथार्थाभिधानम् । श्रोत्रग्राह्ये च वस्तुनि कुतः प्रत्यक्षो यथार्थनिश्चयः । प्रत्यक्षत्वे हि नैव साक्ष्यवगमो ऽन्विष्यते । न च सर्वत्र परोक्षे वस्तुनि शब्दावगम्ये प्रमाणान्तरसंवादसंभवः । तस्माद् यानि भूयस्त्वेन मिथ्याभिधानकरणतया दृष्टानि तदभावनिश्चयेनाविसंवादकत्वम्248 अनुमीयते249 । अतस् तत्प्रदर्शनार्थो ऽयम् उपक्रमो विपरीतांस् तु वर्जयेद् इति ॥ ८.६३ ॥
नार्थसंबन्धिनो नाप्ता न सहाया न वैरिणः ।
न दृष्टदोषाः कर्तव्या न व्याध्यार्ता न दूषिताः ॥ ८.६४ ॥
मेधातिथिः ...{Loading}...
तानीमानि संभाव्यमानमिथ्याभिधानकरणत्वेन पठ्यन्ते । तत्र अर्थसंबन्धिन उत्तमर्णाधमर्णाद्याः । उत्तमर्णा ह्य् अधमर्णवचनेन पराजीयमानास् तदानीम् एव रोषावेशवशितः250 स्तम्भयन्ति धनं प्रयादतुम् अधमर्णम् । अतो ऽसौ251 संनिहितधनिकचित्तम् अनुवर्तमानः तदनुगुणं वक्तुं शक्नोति252 । तस्माद् असौ न साक्षी । उत्तमर्णो ऽपि निर्धने ऽधमर्णे व्यवहारजयाच् च धनप्राप्तौ मह्यम् अयं प्रतिदास्यतीत्य् अनया बुद्ध्या कदाचित् तत्पक्षानुगुणं वक्तीति सो ऽप्य् असाक्षी ।
अथ वार्थः प्रयोजनं यस्य साक्षिणो विवादिभ्यां किंचित् प्रयोजनं साध्यम्, तेन वा तयोः, स उपकारगन्धान् न साक्षी । यो वा व्यवहारगतेनार्थेन समानफलः । इत्य् एवंप्रकार्आर्थसंबन्धिनः ।
आप्ता मित्रबान्धवतया253 कार्याभ्यन्तराः पितृव्यमातुलादयः । सहायाः प्रतिभूप्रभृतयो । वैरिणः प्रसिद्धाः । दृष्टदोषा अन्यत्र कृतकौटसाक्ष्याः । अन्यद् वा प्रतिषिद्धम् आचरितवन्तः । व्याध्यार्ता रोगपीडिताः । न पुनर् ईषद्रोगिण इत्य् आर्तग्रहणम् । पीडितस्य हि क्रोधविस्मृत्यादयो मिथ्यावचने संभाव्यन्ते । दूषिताः पातकिनो ऽभ्यस्तोपपातकाश् च । दृष्टदोषग्रहणं तु तेषाम् एव कृतनिग्रहाणां परिग्रहार्थम् । ते हि राजभिर् धृतदण्डग्राहितविनयत्वान्254 न संप्रति दूषीता भवन्ति ॥ ८.६४ ॥
न साक्षी नृपतिः कार्यो न कारुककुशीलवौ ।
न श्रोत्रियो न लिङ्गस्थो न सङ्गेभ्यो विनिर्गतः ॥ ८.६५ ॥
मेधातिथिः ...{Loading}...
त्वं मे साक्षी भविष्यसीति व्यवहारकृता धनविसर्गादिकाले साक्षित्वे नृपतिर् नाध्येषितव्यः । तस्य हि सक्ष्यं ददतः पक्षपातम् आशङ्केरन् । प्रभुत्वाद् वा ददतो ऽन्यतरस्य कार्यनाशः । न च साक्षिधर्मेण प्रष्टुं युज्यते । तद्देशवासी च यद्य् अपि लेखादिना संवदयेत् तथापि साक्षिधर्मं सर्वं न कुर्याद् इति तदेशवासिनो राज्ञः साक्षिकरणप्रतिषेधः255 ।
कारुकादीनां स्वकार्योपरोधशङ्कया । संगत्या च ते जीवन्ति । स्वभावश् चैष जानपदानां यत् स्वयं निश्चितवन्तो ऽपि “जीवामहे वयम्” इति जिताः साक्षिकादिभ्यो रुष्यन्ति । ततश् च सार्वलौकिकी संगतिः कारुकादीनाम् उच्छिद्यते । किं च प्रकृतिपरिलघुत्वात् तेषां वृत्तेश्256 चलयितुम् अपि शक्यन्ते । तथा च पक्षपातं भजेरन् ।
श्रोत्रियस्य तु साक्षित्वे कर्तव्यता प्रतिषिध्यते राजवन् न पुनर् अप्रत्ययिततया257 । न हि श्रोत्रियत्वं प्रामाण्यं विहन्ति, जनयत्य् एव विशेषतः । न हि श्रोत्रियत्वं विसंवादहेतुतयोपलब्धम् । एवम् उत्तरत्रापि ।
कारुकाः शिल्पोपजीविनः सूपकारायस्कारादयः । कुशीलवाः नटनर्तकगायनाद्याः । श्रोत्रियो वेदपाठकः । यस् त्व् अध्ययनतत्परः स इह गृह्यते । अथ वा श्रोत्रियत्वं कर्मानुष्ठानोपलक्षणार्थम् । तेनानुष्ठानपरस्य तद्विरोधतया प्रतिषेधः । लिङ्गस्थो ब्रह्मचारी । परिव्राजकपाखण्डलिङ्गधारिणस् तु कुशास्त्रवर्तित्वाद् एवाप्राप्ताः । सङ्गेभ्यो विनिर्गता वेदसंन्यासिनो गृहस्थाः । सङ्गः अभ्यासतो258 विषयोपभोगः, दृष्टार्थकर्मारम्भो वा ॥ ८.६५ ॥
नाध्यधीनो न वक्तव्यो न दस्युर् न विकर्मकृत् ।
न वृद्धो न शुशुर् नैको नान्त्यो न विकलेन्द्रियः ॥ ८.६६ ॥
मेधातिथिः ...{Loading}...
अध्यधीनशब्दो ऽत्यन्तपरतन्त्रगर्भदासादौ रूढ्या वर्तते । अन्ये तु तुल्यसंहितत्वाद् “अध्याधीनः” इति पठन्ति । अध्याधीनो बन्धकीकृतः । वक्तव्यो ऽनुशास्यः शिष्यपुत्रादिः, आचार्याधीनत्वात् । अथ वा कुष्ठादिना कुत्सितकायः । दस्युः भृतिदासः वैतनिकः “स ह्य् उपादासयति” कर्माणीति नैरुक्ते निरुक्तः । तस्य च दिवसभृतत्वान् नात्यन्तपारतन्त्र्यम् अस्तीति पृथग् उपदेशः क्रियते । कर्मजीवनत्वापत्तौ तथाविधानां जीविकोच्छेदः, लघुवृत्तित्वाच् च लोभादिसंभवेनाप्रत्ययिततापि । चौरस्य तु शब्दान्तरोपादानान् न दस्युग्रहणेन ग्रहणम् । कठिणहृदयो वा दस्युः क्रूरचेष्टः । विकर्मकृच् छास्त्रविरुद्धं यः कर्म करोति । यथा ब्राह्मणः क्षत्रियवृत्तिं वैश्यो वेत्यादि । वृद्धो वयःपरिणामाद् असंस्मृतिः । शिशुर् बालो ऽप्राप्तव्यवहारः । एकः259 त्र्यवरग्रहणेनैकस्याप्राप्तेः प्रतिषेधो द्वयोः कस्यांचिद् अवस्थायाम् अभ्यनुज्ञानार्थः, यथा त्रिहस्ताचारोपत्रे260 । यद्य् अपि तत्र तृतीयलेखको न261 भवति तथापि लेखनमात्रस्य व्यापारो न साक्षित्व इति कस्यचिद् इयम् आशङ्का स्यात् । अन्त्यो बर्बरचण्डालादिः, स्ववर्गाद्262 अन्यत्र । शूद्रयोनित्वेन प्राप्तस्य प्रतिषेधः । विकलेन्द्रियो ऽन्धबधिरादिः, शरीरपीडयोपलब्धिर् विकलत्वाच् च ॥ ८.६६ ॥
नार्तो न मत्तो नोन्मत्तो न क्षुत्तृष्णोपपीडितः ।
न श्रमार्तो न कामार्तो न क्रुद्धो नापि तस्करः ॥ ८.६७ ॥
मेधातिथिः ...{Loading}...
आर्तो बन्धुधनादिनाशेन । मत्तो मद्यमदक्षीबः । अपस्मारगृहीत उन्मत्तः पिशाचकी । क्षुत्तृष्णोपपीडितो बुभुक्षापिपासाभ्यां व्यथितः । श्रमः कायचेष्टाधिक्येन दूराध्वगमनयुद्धादिनोत्पन्नस् तेन्आर्तः पीडितः । कामः स्त्रीसङ्गाभिलाषस् तेन्आर्तो विप्रलंभो ऽत्यन्तसंयोगो263 द्वाव् अपि तावत् प्रत्ययौ चित्तोपप्लवात् तत्साधने च विप्रलंभाशङ्कया च । क्रुद्धो ऽन्यस्मिन्न् अपि बहुतरक्रोधः । स हि क्रोधेन व्याप्तचित्तत्वान् न यावद् अनुभवति नाप्य् अनुभूतं स्मरति । तस्करश् चौरः । यद्य् अप्य् असौ विकर्मकृत् तथापि भेदोपादानाद् गोबलीवर्दन्यायो द्रष्टव्यः ॥ ८.६७ ॥
स्त्रीणां साक्ष्यं स्त्रियः कुर्युर् द्विजानां सदृशा द्विजाः ।
शूद्राश् च सन्तः शूद्राणाम् अन्त्यानाम् अन्त्ययोनयः ॥ ८.६८ ॥
मेधातिथिः ...{Loading}...
यत्र पुमांसाव् अर्थिप्रत्यर्थिनौ तत्र स्त्रीणां साक्ष्यं नास्ति । यत्र तु स्त्रिया सह पुंसः कार्यं स्त्रीणाम् एव चेतरेतरं स्वल्पम्, तत्र भवन्त्य् एव स्त्रियः साक्षिण्यः । न चायं नियमः स्त्रीणां स्त्रिय एव साक्ष्यं कुर्युर् न पुमांसः । केवलं पुंविषये व्यवहारे क्वचिद् एव स्त्रीणां साक्ष्यं यतो “अस्थिरत्वात्” (म्ध् ८.७७) इति हेतुर् उपात्तः । भवन्ति काश्चन स्त्रियो ब्रह्मवादिन्य इव सत्यवादिन्यः स्थिरबुद्धयश् च ।
द्विजानां सदृशा द्विजाः । यः प्रमाणतरो द्विजः स विसदृशं शङ्क्यमानप्रमाणभावम् अपि दिशन् साक्ष्ये न श्रद्धेयवचनो भवति । यतस् तथाभूतेन प्रमाणभूत एव द्रष्टव्यः । स हि तस्य सदृशः । सदृशानां हि समानदेशस्थानम्264 इतरेतरकार्यज्ञत्वं च संभाव्यते । इतरस्य तु तत्प्रदेशसंनिधिर् यत्नेन साध्यः । सदृशयोस् त्व् औचित्यात्265 सिद्ध एव । एवं हीनस्य हीनगुणो ऽपि सदृशाद् ग्रहीतव्यः । न तूत्कृष्टगुणो न ग्रहीतव्यः । सादृश्यं जात्या शिल्पादिना वा गुणेन क्रियया वा श्रुताध्ययनादिकया समानशीलतया च । एतच् च नातिमहति कार्ये द्रष्टव्यम् । न हि हीनगुणेषु प्रययितता निश्चीयते ।
अन्त्यानां चण्डालश्वपचादीनां तादृशा एव्आन्त्ययोनयः । अन्ते भवा अन्त्याः । सा योनिर् उत्पत्तिकारणं येषां इति विग्रहः । प्रदर्शनं चैतत् । ये समाना जातिशिल्पशीलादिभिस् तेषाम् इहानुक्तानाम् अपि वणिक्कारुकुशीलवादीनाम्, हेतोः समानत्वात् ॥ ८.६८ ॥
अनुभावी तु यः कश्चित् कुर्यात् साक्ष्यं विवादिनाम् ।
अन्तर्वेश्मन्य् अरण्ये वा शरीरस्यापि चात्यये ॥ ८.६९ ॥
मेधातिथिः ...{Loading}...
अन्तर्वेश्मनि यत् कार्यम् अतर्कितोपनतं वाग्दण्डपारुष्यसंग्रहस्तेयसाहसादिरूपम्, अरण्ये वा तादृशम् एव, शरीरे च पीड्यमाने तत्काले दस्युभिर् अन्यैर् वा यतः कुतश्चिद् गृहीतम्, यो वा धननिमित्तं प्रतिभूत्वेन स्थापितः, न च साक्षिणो लब्यन्ते न वा तावत्कालं प्रतिपालयन्ति,266 रहसि चोक्तो वार्थम् आददते अप्रकाशम् — तादृशे विषये यः कश्चिद् अनुभावी स साक्षित्वेन ग्रहीतव्यः । अनुभावी साक्षाद् द्रष्टा । यः कश्चिद् इति न जातिनियमः, सदृशं च तदा नास्तीत्य् आह ।
अन्तर्वेश्मनीति विरलजनोपलक्षणार्थम् । तेन शून्यदेवतायतनादीन्य् अपि विरलजनानि गृह्यन्ते । तथा चारण्यग्रहणम् अस्यैवार्थस्य प्रदर्शनार्थम् ।
अन्ये तु शरीरस्यापि चात्यय इत्य् अन्यथा व्याख्यानयन्ति । कार्यशरीरस्यातिपाते यः कश्चित् साक्षी । यत् कार्यम् अनुष्ठीयमानम् अतिपतत्य् उत्तरकालम् अशक्यानुष्ठानं तत्र साक्षिणां जातिलिङ्गवयःसादृश्यकसंबन्धाभावादिनियमो नास्ति । एतद् एवोत्तरेण दर्शयति ॥ ८.६९ ॥
स्त्रियाप्य् असंभवे कर्यं बालेण स्थविरेण वा ।
शिष्येण बन्धुना वापि दासेन भृतकेन वा ॥ ८.७० ॥
मेधातिथिः ...{Loading}...
स्त्रियेति लिङ्गव्यत्यय उक्तः । बालेन स्थविरेण वेति वयोव्यत्ययः । शिष्येणेत्यादिना संबन्धिनः प्रतिप्रसवः । एतच् च प्रदर्शनम् एवंविधानां नियमानां व्यभिचाराय । तेन जातिसादृश्ये267 ऽपि नाद्रियेते । सुहृद्वैरिदृष्टदोषादयस् तु नेष्यन्ते । येषां किंचिद् असत्याभिधानकरणत्वं दृष्टं नापि व्यापकं268 ते न प्रतिसूयन्ते । येषां तु बहुव्यापकं क्वचिद् एव गुणातिशयं चेति व्यभिचरेत् ततः क्वचिद् एव तत्साक्षिणः । उक्तं च ।
-
एकः सहस्राल् लभ्येत न सौहार्दान् न शात्रवात् ।
-
नार्थसंबन्धतो वापि पुरुषो ऽनृतम् आचरेत् ॥ इति ।
-
असंभवे ऽन्येषां साक्षिणां स्त्रियापि कार्यम् । किम् । साक्ष्यम् इति पूर्वश्लोकाद् अनुषज्यते । शिष्येणेति मौखस्रौवसंबन्धप्रदर्शनार्थम्269 एतत् । बन्धुनेति अहार्योत्पत्तिकायौनसंबन्धप्रतिप्रसवः270 । सत्य् अपि संबन्धत्वे यो नातिप्रत्यासन्नः स गृह्यते । तेन भ्रातृव्यमातुलश्वशुर्यादयो न साक्षिणः । तथाविधे हि बन्धुशब्दो रूढः । दासेनेति स्वस्वामिसंबन्ध उपलक्ष्यते । न स्वाम्य् उपाध्यायो याजकश् च सर्वंविधे विषये साक्षिणः । दासो गर्भदासः । भृतको वैतनिकः271 ।
- ननु चासामर्थ्याद् बालादयः साक्षित्वे निरस्ताः । न ह्य् एते साक्ष्यम् अवधारयितुं शक्नुवन्ति बुद्धेर् अस्थैर्यात् परिपाकादिभिर् दोषैस् तद् आपदि प्रतिप्रसूयमानसमञ्जसम् इति, न ह्य् आपदि शक्तिर् अस्याविर्भवति । यो हि ब्रूयात् “न वा272 नवौदनः पक्तव्यः; सत्य् अग्नौ तु पक्तव्यः” इति तादृग् एतत् स्यात् ।
नैष दोषः । एवम् अर्थम् एवोत्तरश्लोक आरभ्यते ॥ ८.७० ॥
बालवृद्धातुराणां च साक्ष्येषु वदतां मृषा ।
जानीयाद् अस्थिरां वाचम् उत्सिक्तमनसां तथा ॥ ८.७१ ॥
मेधातिथिः ...{Loading}...
अयम् अस्यार्थः । नेहात्यन्ताप्राप्तनिबद्धभ्रान्तबुद्धयो बालादयो गृह्यन्ते येनारभ्यो ऽर्थ उपदिष्टः स्यात् । किं तु ये शक्नुवन्त्य् अवधारयितुं न चातिस्थिरचेतसस् तेभ्यः अनुज्ञायन्ते । तेषां वचनम् अनुमानेन परीक्ष्यम् । यदि संबद्धं वदन्ति न च खलन्ति न शङ्क्यमानदोषेण केनचित् संगतास् ततः प्रमाणं । तद् आह तेषां मृषा वदताम् अस्थिरां वाचं जानीयात् । एतद् उक्तं भवति । वाचो ऽस्थैर्येण मृषात्वं निश्चिनुयात् । तत्र वाचो ऽस्थैर्यं पदानाम् इतरेतरम् असंगतिः, अस्फुटापरिपूर्णाक्षरत्वं च । एतच् च बालादीनाम् अवस्थोपलक्षणार्थम् । ये च वयसा व्याधिना वाप्य् अवस्थाम् इयतीं गता यद् अन्यद् विवक्षन्तो ऽन्यद् उच्चारयन्ति तच् चाव्यक्तं न ते साक्षिणः । एतत् प्रत्यक्षवेद्यम् असाक्षित्वकारणम् । अन्यत् तु रागद्वेषधनलोभादिसाधारणम् अनुमानतः परीक्ष्यम् । तच् चोक्तम् एव । उत्सिक्तचेतसः प्रकृत्यैवोपप्लुता अधीरधियः ॥ ८.७१ ॥
साहसेषु च सर्वेषु स्तेयसंग्रहणेषु च ।
वाग्दण्डयोश् च पारुष्ये न परीक्षेत साक्षिणः ॥ ८.७२ ॥
मेधातिथिः ...{Loading}...
सहो बलम्, तद् आश्रित्य यत् क्रियते तत् साहसम् । राजवाल्ल्भ्येन महापक्षतया स्वशरीरबलेन बलवदाश्रयेण वा यद् अकार्यकरणं तत् साहसम्, यथा273 वस्त्रपाटनाग्निदाहकेशछेदादि । अन्यत् प्रसिद्धम् । अत्र साक्षिणो न परीक्ष्याः । “गृहिणः पुत्रिणः” (म्ध् ८.६२) इत्य् एवमादिरूपपरीक्षात्र प्रतिषिध्यते । या तु व्यभिचारहेतुतया शङ्क्यते रागद्वेषधनलोभादिरूपा सा कर्तव्यैव । दृष्टमूलत्वाद् अस्याः स्मृतेर् इत्य् उक्तम् ॥ ८.७२ ॥
बहुत्वं परिगृह्णीयात् साक्षिद्वैधे नराधिपः ।
समेषु तु गुणोत्कृष्टान् गुणिद्वैधे द्विजोत्तमान् ॥ ८.७३ ॥
मेधातिथिः ...{Loading}...
यत्र भूमिभागादौ विप्रतिपत्तिर् द्वाभ्यां च भोगसाधनं साक्षिणो निर्दिष्टाः । ते अ केचिद् अर्थिनो भोगम् आहुर् अपरे प्रत्यर्थिनः । तत्र बहूनां वचनं ग्राह्यम् । समसंख्येषु तु ये गुणैर् उत्कृष्टा बहुगुणा इत्य् अर्थः । एकेन वा गुणेन दृष्टपुरुषार्थोपकारिणा274 सातिशयेन युक्ताः । गुणवतां समगुणानां भेदे जातिर् आदर्तव्या । सर्वसाम्ये शपथः । अन्यद् वा तत्समानम्275 ।
बहुत्वं परिगृह्णीयात् । बहूनां वचनं प्रमाणीकुर्यात् । द्वैधं परस्परविरुद्धार्थाभिधानम् ॥ ८.७३ ॥
समक्षदर्शनात् साक्ष्यं श्रवणाच् चैव सिध्यति ।
तत्र सत्यं ब्रुवन् साक्षी धर्मार्थाभ्यां न हीयते ॥ ८.७४ ॥
मेधातिथिः ...{Loading}...
ननु च "अनुभावी तु यः कश्चित्" (म्ध् ८.६९) इत्य् अनेनोक्तम् एवैतत्, कथं चान्यथासिद्धिर् आशङ्क्यते येनेदम् उच्यते दर्शनश्रवणाभ्यां साक्ष्यसिद्धिर् इति ।
अत्रोच्यते । साक्षी व्यवहरिष्यता कर्तव्यः “त्वं मे साक्षी भविष्यसि” इत्य् उक्तम् । तत्र य एवम् अनुक्तः276 स न प्राप्नोति । एवम् अर्थम् इदम् उच्यते । यस् तत्रे संनिहितः कथंचिद् अनुभविता त्वं स्मर्तुम् अर्हस्य् अवयोर् अमुम् अर्थम् इत्य् एवम् अनुक्ते ऽपि भवत्य् एव साक्षी । समक्षदर्शनात् साक्षाद् अनुभावाच् छ्रवणाच् च । समक्षशब्दानुषङ्गः कर्तव्यः । यत् कुतश्चिद् एकेन श्रूयते ततो ऽन्येन तत् परंपराश्रुतं तेन परंपराश्रावी न साक्षी । यथैतेनेदम् अकार्यं कृतम् इदम् अस्मै वा धारयतीति लोकप्रसिद्ध्यागतम्, न तु प्रमाणतः । तत्र समक्षदर्शनं साक्षाद् अनुभवनम् अर्थविषयम् ऋणप्रयोगदण्डपारुष्यादि साक्षाद् दृष्टं चक्षुर्व्यापारेण वाक्पारुष्यं तथेदम् अस्मान् मया गृहीतम् इत्य् एवमादिविषयं शब्दश्रवणम् । यद्य् अपि दृशिर् उपलब्धिमात्रवचनः तथापि277 वृत्तानुरोधितया श्रोत्रज्ञानं श्रवणं भेदेनोपात्तम् । एतावच् चात्र विवक्षितम् । प्रंआणतो येनानुभूतं स साक्षी । समक्षशब्दग्रहणं प्रमाणमात्रोपलक्षणार्थम् । तेनानुमानादिनाप्य् अनुभूतम् अनुभूतम् एव । अत आप्तागमाच् छ्रुतम् अप्रत्यक्षम् अपि प्रमाणम् । उत्तरस् तु श्लोकार्धो ऽनुवाद एव, सत्यवचनस्य विहितत्वात्, असत्यवादिनो धर्मार्थहानेश् च प्रमाणान्तरावगतत्वात् ॥ ८.७४ ॥
साक्षी दृष्टश्रुताद् अन्यद् विब्रुवन्न् आर्यसंसदि ।
अवाङ् नरकम् अभ्येति प्रेत्य स्वर्गाच् च हीयते ॥ ८.७५ ॥
मेधातिथिः ...{Loading}...
असत्याभिधाने साक्षिणां फलदर्शनार्थम् इदम् । दृष्टश्रुतशब्द उपलब्धिपर्याय इत्य् उक्तम् । तस्माद् अन्यद् अनुपलब्धम् । तच् चेद् ब्रवीति । आर्याः सभ्याः सम्यक्कारिणः । तेषां संसदि सभायाम् अवाङ् अधोमुखः नरकं278 यामं यातनास्थानं279 गच्छति । प्रेत्य मृत्वा स्वर्गाच् च हीयते भ्रश्यति । यद् अप्य् अनेन स्वर्गारोहणिकं कर्म कृतं तद् अपि कौटसाक्ष्यपापस्य गुरुत्वात् प्रतिबध्यते । न तु स्वर्गस्य कर्मणः पापेनान्येन नाशः । स्वफलविधित्वात् कर्मणाम् अन्यत्र प्रायश्चित्तेभ्यः ॥ ८.७५ ॥
यत्रानिबद्धो ऽपीक्षेत शृणुयाद् वापि किंचन ।
दृष्टस् तत्रापि तद् ब्रूयाद् यथादृष्टं यथाश्रुतम् ॥ ८.७६ ॥
मेधातिथिः ...{Loading}...
ननु चोक्तं "समक्षदर्शनात्" (म्ध् ८.७४) इत्य् अत्र यथाकथंचिदनुभूतवतो ऽनियुक्तस्यापि साक्ष्यम् अस्तीति । तत्र किम् अनेन "यत्रानिबद्धो ऽपि" इति । को वा विशेषः ।
उच्यते । लेख्यारूढस्य व्यापारविशेषाद्युक्तं साक्षित्वं न पुनर् अनारूढस्य । आरोहणस्यानर्थक्यप्रसङ्गाद् उभयोः साक्षित्वे280 । अत एताम् आशङ्काम् अपनेतुम् इदम् उच्यते । पूर्वस् तु श्लोको यत्रानुकाः281 साक्षिणः । अयं तु यत्र ससाक्षिकं लेख्यम् ।
अनिबद्धो लेक्यम् अनारूढो ऽपीत्य् अर्थः । ईक्षणश्रवणे व्याख्याते । शेषं सुबोधम् ॥ ८.७६ ॥
एको लुब्धस् त्व् असाक्षी282** स्याद् बह्व्यः शुच्यो ऽपि न स्त्रियः ।**
स्त्रीबुद्धेर् अस्थिरत्वात् तु दोषैश् चान्ये ऽपि ये वृताः ॥ ८.७७ ॥
मेधातिथिः ...{Loading}...
एकस्य पुनः प्रतिषेधो लोभादिरहितस्य प्रतिप्रसवार्थः । तेन सत्यवादितया निश्चित एको ऽपि साक्षी भवत्य् एव । स्त्रियस् तु न कथंचित् साक्ष्यम् अर्हन्त्य् अल्पा वा बह्व्यो वा । शुच्यो ऽपीति गुणवत्यो ऽपीत्य् अर्थः । अत्र हेतुः- स्त्रीबुद्धेर् अस्थिरत्वाद् इति । प्रकृतिर् एषा स्त्रीणां यद् बुद्धेश् चापलम् । गुणास् तु यत्नोपार्जिता अपि प्रमादालस्यादिना व्यपयन्त्य् अतः स्वाभाविकम् अस्थैर्यं तिष्ठेद् एव । यथामयाविनो घृतादिनोत्पन्ने ऽप्य् अग्नेः स्थैर्ये स्वल्पेनापि प्रमादे पुनः सहजामयावितानुवृत्तिः । अतो ऽनया शङ्कया गुणवतीष्व् अपि तासु नाश्वासः । यत् तु “स्त्रियाप्य् असंभवे कार्यम्” (म्ध् ८.७०) इति तद् यत्र तत्क्षणाद् एव पृच्छ्यन्ते । यत्रेयम् आशङ्का न भवति केनचिद् आसां संचलितं मन इति । यत्र तु कालव्यवधानं तत्र जीयमानेन कदाचिद् अनुकूल्यन्ते इति न क्वचित् साक्षिन्यः ।
दोषैश् चान्ये ऽपि ये वृताः । रोगादिभिर् दोषैर् ये स्त्रीभ्यो ऽन्ये ऽपि पुरुषा वृता आक्रान्ता भूयिष्ठदोषा इत्य् अर्थः । के पुनर् अमी दोषा नाम । उक्तं च । रागादयः शास्त्रप्रतिषिद्धाः शङ्क्यमानव्यभिचारहेतुभावाः । यद्य् अपि केवलेन स्वशब्देनैवोक्ता दोषाः तथाप्य् अनुक्तपरिग्रहार्थम् इदम् अपुनरुक्तम् । सामान्यविशेषाभिधानं हि सर्वत्र ग्रन्थकारा अनुमन्यन्ते ।
- अन्ये त्व् अकारप्रश्लेषेण “अलुब्धो ऽप्य् एको न साक्षी” किं पुनर् लुब्ध इत्य् एवम् आचक्षते । तथा च द्वयोर् अभ्यनुज्ञानं भवति ।
शुच्य इतीकारो दुर्लभो “वोतो गुणवचनात्” (पाण् ४.१.४४) इति विधानात् । “कृदिकारात्”283 इति केचित् समर्थयन्ते ॥ ८.७७ ॥
स्वभावेनैव यद् ब्रूयुस् तद् ग्राह्यं व्यावहारिकम् ।
अतो यद् अन्यद् विब्रूयुर् धर्मार्थं तद् अपार्थकम् ॥ ८.७८ ॥
मेधातिथिः ...{Loading}...
साक्षिणो यत् स्वभावेन व्यावहारिकं ब्रुवन्ति तद् ग्राह्यम् । यत् तु स्वभावाद् विचलितारुणया284 धर्मबुद्ध्या285 धर्मार्थं ब्रूयुस् तद् अपार्थकम् अग्राह्यम् इत्य् अर्थः । यद्यथादृष्टस्यार्थस्य286 वचनं तत् स्वभावतः । यत् त्व् अन्यथा “मा भूद् अस्य तपस्विनो मद्वचनेन बाधः” इत्य् अनया बुद्ध्या, तद् अपार्थकम् । यथा केनचिद् आवेदितं भवति “अनेनाह माक्रुष्टः” इति । तत्र परेणापह्नुतम् । साक्षिण आहुः- “सत्यम् आक्रुष्टः,287 नर्मणा288 न तु रोषेण”289 इति । तत्राकृउष्ट290 इत्य् एतत् साक्षिणां वचो ग्राह्यम् । नर्मेणेत्य्291 एतद् उत्तरवादिनानुक्तत्वाद् अपृष्टम् उक्तम् अपि न ग्राह्यम् ।
व्यावहारिकं व्यवहारगतम् । अपगतप्रयोजनम् अपार्थकम् ।
- अन्ये व्याचक्षते । यद् अप्रगल्भादिभिः स्खलितपदम् उदाहरन्ति न तावता तद् अनादेयं किं तु स्वभाव एषाम् उपलक्षितव्यो ऽनुमानेन- किम् अमी अप्रागल्भ्यात् स्खलन्ति उतासत्याभिधायितयेति ।
तत् तु प्राग् उक्तम् । न चाक्षरार्थ इत्य् उपेक्ष्यम् ॥ ८.७८ ॥
सभान्तः साक्षिणः प्राप्तान् अर्थिप्रत्यर्थिसंनिधौ ।
प्राड्विवाको ऽनुयुञ्जीत विधिनानेन सान्त्वयन् ॥ ८.७९ ॥
मेधातिथिः ...{Loading}...
सभायाम् अन्तः सभान्तः । शौण्डादित्वात् समासः (च्ड़्। पाण् २.१.४०) । व्यवहारदेशगता उभयोर् अर्थिप्रत्यर्थिनोः संनिधाने ऽनुयोक्तव्या वक्ष्यमाणेन विधिना । सान्त्वयन् अपरुषं ब्रुवन्292 । पारुष्येण हि प्राड्विवाकाद् बिभ्यतो ऽप्रकृतिस्था न293 सर्वं स्मरेयुः, संस्कारभ्रंशहेतुत्वाद् भयस्य । प्राड्विवाको राज्ञा व्यवहारदर्शनाधिकृतो रूढ्योच्यते । यद्य् अप्य् अवयवार्थो राजन्य् अपि संभवति। पृच्छति विविनक्तीति, तथापि294 भेदेन प्रयोगदर्शनम्- “अमात्यः प्राड्विवाको वा यः कुर्यात् कार्यम् अन्यथा” (म्ध् ९.२३४) इति । पृच्छतीति प्राट्, “क्विब्वचिप्रच्छिश्रिद्रुश्रुप्रुवां दीर्घो ऽसंप्रसारणं च” इति प्राट् । विशेषेण धर्मसंकटेषु विवेक्तीति विवाटः । “कृत्यल्युटो बहुलम्” (पाण् ३.३.११३) इति । कर्तरि घञ् । “चजोः कु घिण्ण्यतोः” (पाण् ७.३.५२) इति कुत्वम् । प्राट् चासौ विवाकश् च प्राड्विवाकः ॥ ८.७९ ॥
यद् द्वयोर् अनयोर् वेत्थ कार्ये ऽस्मिंश् चेष्टितं मिथः ।
तद् ब्रूत सर्वं सत्येन युष्माकं ह्य् अत्र साक्षिता ॥ ८.८० ॥
मेधातिथिः ...{Loading}...
यज् जानीथ अस्मिन् व्यवहारवस्तुनि अनयोर् मिथः प्रत्यक्षं295 रहसि वा चेष्टितं वृत्तं तत् सर्वं सत्येन तथ्येन ब्रूत कथयत । युष्माकं ह्य् अत्र साक्षिता भवताम् अत्र प्रामाण्यम् । युष्मद्वचनाधीने सत्यानृते । इत्य् अनेन प्रोत्साह्यन्ते । साक्षिभूता296 अस्मिन् कार्य इति सामान्यनिर्देशे ऽप्य् अखिलवस्तुश्रावणं सामर्थ्याद् द्रष्टव्यम् । न ह्य् अश्रुतविशेषाः प्रश्नविषयं वेदितुम् अर्हन्तीति ॥ ८.८० ॥
सत्यं साक्ष्ये ब्रुवन् साक्षी लोकान् प्राप्नोत्य् अनिन्दितान् ।
इह चानुत्तमां कीर्तिं वाग् एषा ब्रह्मपूजिता ॥ ८.८१ ॥
मेधातिथिः ...{Loading}...
इतः प्रभृति सत्यवचनार्थः साक्षिणाम् अनुयोगविधिः । सत्यं वदन् लोकान् स्वर्गादिलक्षणान् अनिन्दितान् अगर्हितान् अभिप्रेतफलभोगहेतून् लभते साक्षी । जातिवचनो वा लोकशब्दः । शुभे जन्मनि जायत इत्य् अर्थः । अस्मिंश् च जन्मनि कीर्तिः ख्यातिर् अनुत्तमा297 यस्या अन्यद् उत्तमं प्रकृष्टं नास्ति, तां लभते । साधुवादो जनेनास्मै दीयते । यस्माद् एषा च वाक् सत्या सरस्वती ब्रह्मणा प्रजापतिना पूजिता ॥ ८.८१ ॥
साक्ष्ये ऽनृतं वदन् पाशैर् बध्यते वारुणैर् भृशम् ।
विवशः शतम् आजातीस् तस्मात् साक्ष्यं वदेद् ऋतम् ॥ ८.८२ ॥
मेधातिथिः ...{Loading}...
पूर्वेण दृष्टादृष्टशुभाशुभप्रदर्शनेन सत्यवचने साक्षिणः प्रोत्साहिताः । अनेन विपरीताभिधाने दुःखोत्पत्तिदर्शनम् । सत्यवचनार्थम् एवैतत् । साक्षिणः कर्म साक्ष्यम् । तत्रासत्यं ब्रुवाणो वारुणैः पाशैर् बध्यते पीड्यते । भृशम् अत्यर्थम् । विवशः परतन्त्रीकृतः सर्वचेष्टासु वाक्चक्षुर्गतास्व् अपि । शतं यावज् जन्मनि वारुणाः पाशा घोराः सर्परज्जवो जलोदराणि वा । एतद्दोषपरिहारार्थं सत्यं वदेद् इति विधिः । आजातीर् इति नायं मर्यादाभिविध्योर् आङ् । तथा सति पञ्चमी स्यात् । तस्माद् उपसर्गो ऽयम् अनर्थकः, प्रलम्बत298 इतिवत्299 । द्वितीया चेयं आवृत्तिश् चात्र गम्यते । शतं जन्मान्य् आवर्तते उदरगृहीतः ॥ ८.८२ ॥
सत्येन पूयते साक्षी धर्मः सत्येन वर्धते ।
तस्मात् सत्यं हि वक्तव्यं सर्ववर्णेषु साक्षिभिः ॥ ८.८३ ॥
मेधातिथिः ...{Loading}...
पूयते शुद्ध्यत्य् अन्यस्माद् अपि पापान् मुच्यत इति यावत् । शेषं गतार्थम् ॥ ८.८३ ॥
आत्मैव ह्य् आत्मनः साक्षी गतिर् आत्मा तथात्मनः ।
मावमंस्थाः स्वम् आत्मानं नृणां साक्षिणम् उत्तमम् ॥ ८.८४ ॥
मेधातिथिः ...{Loading}...
एष एवार्थो विस्पष्टीक्रियते उत्तरेण श्लोकेन ॥ ८.८४ ॥
मन्यन्ते वै पापकृतो न कश्चित् पश्यतीति नः ।
तांस् तु देवाः प्रपश्यन्ति स्वस्यैवान्तरपूरुषः ॥ ८.८५ ॥
मेधातिथिः ...{Loading}...
नशब्दो व्यवहितः । पापकृतः कूटादिकारिण एवं जानते । न कश्चिद् अस्मान् पश्यतीति । इतिकारेण मन्यतेर् वाक्यार्थः कर्मेति प्रतिपाद्यते । न नः कश्चित् पश्यतीत्य् एष वाक्यार्थः । तांस् तु देवा वक्ष्यमाणाः पश्यन्ति । स्वस्यान्तरात्मा । तद् उक्तम् “आत्माइव ह्य् आत्मनः साक्षी” (म्ध् ८.८४) इति ।
-
ननु कः पुनर् अयं पापचारी, तस्य च को ऽन्यो द्रष्टा । यावतात्मैव कर्ता शुभाशुभानां चान्तरपुरुषो द्रष्टेति ।
-
सत्यम् । तस्यैव देवतात्वम् अध्यारोप्य भेदेन कर्मकर्तृव्यपदेशो ऽनृतनिवृत्त्यर्थः । देवतारूपं त्वं जानीषे300 । तात्त्विकम् आत्मीयम् आन्तरं रूपं शारीरम्, तथा बाह्यम् अनात्मीयम् असारम्, एतदुपभोगार्थं मा दुष्कृतं कार्षीर् इति प्रोत्साह्यते । अतो “मावमंस्थाः स्वम् आत्मानम्” मावज्ञासीर् “नृणां साक्षिणम् अनुत्तमम्” (म्ध् ८.८४) । अन्यो हि साक्षी अस्मिन्न् एव लोके, अयं तु मृतस्यापि साक्ष्यं ददाति । तस्माद् एतस्माद् भेतव्यम् । असत्यवादी301 कदाचिन् मन्यते- “आत्मान्तरं प्रतिपन्नस्य किम् एष मे द्रष्टापि करिष्यति” इति । तन् न । “गतिर् आत्मा तथात्मनः”302 (म्ध् ८.८४) । आत्मानम् अन्तरेणान्या गतिर् नास्ति । न हि द्वाव् आत्मानाव् एकस्य भवतः ।
- अन्ये तु मन्यन्ते परमात्मा साक्षी संसार्यात्मानो नियोज्या इति भेदः ॥ ८.८५ ॥
के पुनस् ते देवा रहस्य् अपि प्रच्छन्नं पापम् आचरन्तं ये पश्यन्ति, अत आह ।
द्यौर् भूमिर् आपो हृदयं चन्द्रार्काग्नियमानिलाः ।
रात्रिः संध्ये च धर्मश् च वृत्तज्ञाः सर्वदेहिनाम् ॥ ८.८६ ॥
मेधातिथिः ...{Loading}...
हृदयशब्देन हृदयायतनो लिङ्गपुरुष उच्यते । दिवादीनां303 द्रष्टृत्वम् अचेतनेषु चैतन्यम् आरोप्यते304 । दर्शनान्तरे तु महाभूतानि देवतात्मतया चेतनान्य् एव । तथा च305 पृथिवी भारावतरणाय ब्रह्माणम् उपागमद् इति वर्ण्यते । सर्वगतत्वात् तेषां न किंचिद् अप्रत्ययम् अस्तीति सर्वशरीरिणां वृत्तं शीलं चात्मनः कायगतं शुभम् अशुभं च जानते ॥ ८.८६ ॥
देवब्राह्मणसांनिध्ये साक्ष्यं पृच्छेद् ऋतं द्विजान् ।
उदङ्मुखान् प्राङ्मुखान् वा पूर्वाह्णे वै शुचिः शुचीन् ॥ ८.८७ ॥
मेधातिथिः ...{Loading}...
देवा दुर्गामार्तण्डादयः प्रतिमाकल्पिताः । शुचीन् कृतस्नानाचमनादिविधीन् । शुचिः प्रष्टा स्वयम् अपि तथाविध एव स्यात् । ऋतम् इति श्लोकपूरणार्थम् एव । प्रसिद्धम् अन्यत् ॥ ८.८७ ॥
ब्रूहीति ब्राह्मणं पृच्छेत् सत्यं ब्रूहीति पार्थिवम् ।
गोबीजकाञ्चनैर् वैश्यं शूद्रम् एभिस्306** तु पातकैः ॥ ८.८८ ॥**
मेधातिथिः ...{Loading}...
क्व पुनर् इयं तृतीया गोबीजकाञ्चनैर् इति । यदि तावत् पृच्छेद् इति क्रियासंबन्धात् करणम् उच्यते, तद् अनुपपन्नम् । शब्दो हि तत्र करणम्, नार्थः ।
नैष दोषः । यथा गवादीनि प्रश्नकरणत्वं प्रतिपद्यन्ते तथा व्याख्येयम् । पातकैर् इत्य् उभयशेषो विज्ञेयः- गोबीजकाञ्चनैः पातकैर् इति । तेनायम् अर्थो भवति । गोबीजकाञ्चनविषयैः पातकप्रदर्शनैः पृच्छेद् इति । “गां हृत्वा हत्वा वा यत् पातकं तद् भवति तव मिथ्या वदतः” इति प्रश्नवाक्यं पठितव्यम् । एवं वक्ष्यमाणैः पातकैः शूद्रं पृच्छेत् । पातकशब्दस् तु पातकप्रदर्शनार्थेष्व्307 अभिधानेषु द्रष्टव्यो मुख्यानां प्रश्नकरणत्वाभावाद् इत्य् उक्तम् ॥ ८.८८ ॥
ब्रह्मघ्नो ये स्मृता लोका ये च स्त्रीबालघातिनः ।
मित्रद्रुहः कृथघ्नस्य ते ते स्युर् ब्रुवतो मृषा ॥ ८.८९ ॥
मेधातिथिः ...{Loading}...
ब्राह्मणं हत्वा ये लोका नरकादिलक्षणाः प्राप्यन्ते तत्कारिभिस् ते तव भवन्ति मिथ्यावदतस् तस्मात् सत्यं ब्रूहीत्य् अनुयोगः । यश् च मित्रं द्रुह्यति ब्राह्मणादीन् दारसर्वस्वापहरणादिना308 नाशयति — यश् च कृतम् उपकारं विस्मृत्य तम् एवोपकर्तारम् अपकरोति — यत् तस्य कृतघ्नस्य309 परत्र दुःखं तद् अवाप्नोति ॥ ८.८९ ॥
जन्मप्रभृति यत् किंचित् पुण्यं भद्र त्वया कृतम् ।
तत् ते सर्वं शुनो गच्छेद् यदि ब्रूयास् त्वम् अन्यथा ॥ ८.९० ॥
एको ऽहम् अस्मीत्य् आत्मानं यस् त्वं कल्याण मन्यसे ।
नित्यं स्थितस् ते हृद्य् एष पुण्यपापेक्षिता मुनिः ॥ ८.९१ ॥
मेधातिथिः ...{Loading}...
पुण्यपापयोर् ईक्षिता द्रष्टा मुनिस् तूष्णींभूतः ॥ ९.९१ ॥
कः पुनर् असौ मुनिः । भयातिशयप्रदर्शनार्थम् आह ।
यमो वैवस्वतो देवो यस् तवैष हृदि स्थितः ।
तेन चेद् अविवादस् ते मा गङ्गां मा कुरून् गमः ॥ ८.९२ ॥
मेधातिथिः ...{Loading}...
य एष312 यमः सर्वप्राणिनां देहधनाद्युच्छेदकारी313 यातनाभिश् च निगृह्णीतेति श्रुतिपथम् आगतो भवतः, सो ऽयं तव हृदये वर्तते, न विप्रकृष्टः । स च314 कृतापराधम् अधुनैव यमयति315 । मा चैवं मनसि कृथाः- एष आत्मा मदीयो माम् उपेक्षिष्यत इति । न ह्य् एतस्य कश्चिद् आत्मीयः । तेन चेद् अविवादः स चेत् प्रसन्नः प्रत्ययितः316 किं गङ्गागमनेन स्नानार्थिनः पापशुद्धये, किं वा कुरुक्षेत्रगमने ऽस्ति प्रयोजनम् । यत्फलं पापप्रमोचनलक्षणं ततः प्राप्यते तद् इहैवाविसंवादिनि परमात्मनि । न हि पापकारिण आत्मा निर्विशङ्को भवति । किं मे ऽन्तः317 स्याद् एतेनेति । नास्तिकस्यापि किंकथिका कदाचित् भवत्य् एव । गङ्गानदी पावयन्ती । कुरुक्षेत्रं तु देश एव पावनः ॥ ८.९२ ॥
नग्नो मुण्डः कपाली च भिक्षार्थी क्षुत्पिपासितः ।
अन्धः शत्रुकुलं गच्छेद् यः साक्ष्यम् अनृतं वदेत् ॥ ८.९३ ॥
मेधातिथिः ...{Loading}...
कपालं शरावादिपात्रैकदेशः सुबोधम् ॥ ८.९३ ॥
अवाक्शिरास् तमस्य् अन्धे किल्बिषी नरकं व्रजेत् ।
यः प्रश्नं वितथं ब्रूयात् पृष्टः सन् धर्मनिश्चये ॥ ८.९४ ॥
मेधातिथिः ...{Loading}...
निमित्तं पृष्टो यो वितथम् असत्यं वक्ति स तेन किल्बिषेन पापेन गृहीत ऊर्ध्वपादो ऽधोमुखो महति गाढे तमसि नरकं यातनास्थानं तत्प्राप्नोतीत्य् अर्थः । अन्यस्मिंस् तमसि किंचिद् दृश्यते तत्र तु न किंचिद् एवेत्य् अन्ध्अग्रहणम् ॥ ८.९४ ॥
अन्धो मत्स्यान् इवाश्नाति स नरः कण्टकैः सह ।
यो भाषते ऽर्थवैकल्यम् अप्रत्यक्षं सभां गतः ॥ ८.९५ ॥
यस्य विद्वान् हि वदतः क्षेत्रज्ञो नातिशङ्कते ।
तस्मिन् न देवाः श्रेयांसं लोके ऽन्यं पुरुषं विदुः ॥ ८.९६ ॥
मेधातिथिः ...{Loading}...
यस्य वदतः साक्षिणो विद्वान् सत्यानृते जानानः क्षेत्रज्ञो ऽन्तर्यामी पुरुषो नातिशङ्कते किम् अयं सत्यं वक्ष्यत्य् अनृतं वेत्य् एवं नाशङ्कते, निश्चितम् एवैष सत्यं वक्तीति यस्यात्मा निर्विशङ्कः तस्मात् पुरुषान् नान्यं श्रेयांसं श्रेष्ठं प्रशस्ततमं पुरुषं देवा जानते ।
- कः पुनर् अयं वेदिता । कश् च ततो ऽन्य आशङ्किता । एक एव ह्य् आत्मा स्वप्रयत्नद्वारेण वाचम् ईरयन् वेदिता संपद्यते । स एव तद्धर्मेण किं कथं स्याद् इत्य् एवंरूपेणाशङ्काख्यानेन युज्यते । तत्र भेदानुपपत्तिः ।
सत्यम् एतत् । काल्पनिकेन भेदेनैवम् उक्तम् । यथा हन्त्य् आत्मानम् आत्मनेति ॥ ८.९६ ॥
यावतो बान्धवान् यस्मिन् हन्ति साक्ष्ये ऽनृतं वदन् ।
तावतः संख्यया तस्मिन् शृणु सौम्यानुपूर्वशः ॥ ८.९७ ॥
मेधातिथिः ...{Loading}...
द्रव्यविशेषानृताश्रयाः पापविशेषाः कूटसाक्षिण इत्य् एतत् प्रदर्शनार्थं प्रकरणम् आरभ्यते । तत्रायं श्लोकः संबोधनद्वारेणोपदिश्यमान320 आदरार्थः संपद्यते । यद् गुह्यं मिथ उपदिश्यते तद् यथाकथंचिद् भवतीत्य् अवधारितं ग्रहणं नातिगुरु इदं त्व् अतिमहाप्रयोजनम् अवहितैः श्रोतव्यम् इति ।
सौम्येति चैकवचनम् अनेकशिष्यसंनिधाने भृगाव् एव विवक्षितम् । यस्मिन् साक्ष्य इति व्यधिकरणसप्तमी । यस्मिन् द्रव्यभेदभिन्ने व्यवहारे यत् साक्ष्यं तत्र तन्निमित्तं यद् अनृतम् इत्य् एषा विषयसप्तमी । अपरा “यस्य च भावेन” (पाण् २.३.३७) इति । अथ वा द्रव्यभेदात् साक्ष्यभेदः, तत्र समानाधिकरण एव । तावत इति परिमाणे व्युत्पाद्यते । तत्र यत् प्रभूतनिमित्तम् अपि परिमाणं संभाव्यते, शिशून् स्त्रियो वृद्धान्321 इत्य् अतो322 विशिनष्टि- संख्ययेति । अनुपूर्वश इति सुखप्रतिपत्तये ऽनुपूर्वेण ह्य् अभिधीयमानं सुखेन प्रतीयते । आनुपूर्वी च संख्यागतात्राभिप्रेता । तस्या एव वक्ष्यमाणत्वात् “पञ्च पशु” इत्यादि" ॥ ८.९७ ॥
पञ्च पश्वनृते हन्ति दश हन्ति गवानृते ।
शतम् अश्वान्र्ते हन्ति सहस्रं पुरुषानृते ॥ ८.९८ ॥
मेधातिथिः ...{Loading}...
पशुनिमित्तम् अनृतम् । शाकपार्थिववत् समासः (पत् इ- ४०६) । पञ्चबान्धवांश् चानृतं हन्ति । ततश् च तेषां नरकपातनम् । मातापितरौ जायामिथुनं चापत्यम् इति पञ्च ।
-
कथं पुनर् अन्यकृतेनैनसान्यस्य फलम् ।
-
अन्यकृतेन पुण्यपापादिनान्यस्य स्वर्गनरकादिप्राप्तिः323 संसर्गाद् इति ब्रूमः । तैर् अयं परित्यज्यत इत्य् उक्तं भवति । अथ वा तैर् हतैर् यत् पापं तद् अस्य भवतीत्य् अघ्नन्न् अपि हन्तीत्य् उच्यते, अदृष्टकार्यतुल्यत्वात् ।
- अर्थवादश् चायं न तत्कार्योपदेशः । तत्कार्योपदेशे हि हिंसाप्रायश्चित्ती स्यात् । कौटसाक्ष्यप्रायश्चित्तम् एतद् भवति । उत्तरोत्तरसंख्यादिवृद्धिः प्रायश्चित्तगौरवार्था न पुनर् विवक्षितैव । तेनोत्तरोत्तरस्य गरीयः प्रायश्चित्तम् इत्य् उक्तं भवति ।
अयं पुरुषः कस्य दास इत्य् एवं संशये यद् अनृतं तत् पुरुषानृतम् उच्यते ॥ ८.९८ ॥
हन्ति जातान् अजातांश् च हिरण्यार्थे ऽनृतं वदन् ।
सर्वं भूम्यनृते हन्ति मा स्म भूम्यनृतं वदीः324** ॥ ८.९९ ॥**
मेधातिथिः ...{Loading}...
कथं पुनर् अजातानाम् असति संसर्गे परकीयेन संयोगो येनेदम् उच्यते हन्ति जातान् अजातांश् चेति ।
- उक्तम्, अर्थवादो ऽयम् इति । सर्वं भूम्यनृतं वदन्325 । मा वादीः भूमिसंबन्ध्य् असत्यम् । “स्मोत्तरे लङ् च” (पाण् ३.३.१७६) इति326 । मा वादीर् इत्यादरार्थम् अप्य् एतत्327 प्रत्यक्षं संबोधनम् ।
-
का पुनर् इयं भूमिर् नाम ।
-
यद् एतत् पृथिवीगोलकं पर्वतावष्टंभनं सागरावधि प्रसिद्धम् ।
-
नन्व्328 इयत्याः कः स्वामी, को वापहर्ता । न हि सार्वभौमः कश्चिद् अस्ति । तथा च गाथा भूमेः- “न मा मर्त्यः कश्चन दातुम् अर्हति” (श्ब् १३.७.१.१५) । न कश्चित् सार्वभौमो ऽस्तीत्य् अभिप्रायः । “विश्वकर्मन् भौवन मां दिदासिथ”329 विश्वकर्मन्330 भौमनेति पितृव्यपदेशेन स्वनाम्ना च राज्ञो आमन्त्रणं331 श्रुतम् । माम् असौ दातुम्332 इच्छतीति । उपमैंष्यति333 सलिलस्य मध्ये निमज्जे ऽहम्, सलिलस्य मध्यम् । एवं संकल्पं वृथा संकल्पितवति त्वयि सलिले मज्जामि । सलिलमज्जनेन नैष्फल्यम् अत्र दानसंकल्पस्याह । यथा सलिले निक्षिप्तं निष्फलम् एवम् एतद् अपीति । मृषैष कश्यपाय संगरः । तवैष संगरः प्रतिश्रवः प्रतिज्ञानं कश्यपाय ददामीति मोघो वध्यो ऽस्तु, सर्वसादारणाहं सर्वजनोपभोग्या । केवलं राजानो रक्षानिर्बन्धमात्रभाज इत्य् अभिप्रायः । अत एतावत्या भूमेर् न दानापहारसंभव इति कुतो विवादः ।
-
सत्यम् । यथैवायं भूमिशब्दो ऽत्र वर्तते एवं क्षेत्रग्रामस्थण्डिलादाव् अपि । तत्र च संभवत्य् एव स्वाम्यम् । प्रत्यक्षस्यैव दानापहाराव् इति न किंचिद् अनुपपन्नम् । अपहारश् चास्या यादृशेन रूपेण अपहारः गृहादेर् न वीरुद्विछेदः । अतश् च यः परकीये क्षेत्रे चक्रम्येत मृदो वा कश्चिद् आदद्यान् नासौ भूम्यपहारी स्यात् । मीमांसकैर् उक्तम् “न भूमिः स्यात् सर्वान् प्रत्यविशिष्टत्वात्” (प्म्स् ६.७.३) इति ।
-
एकदेशवचनं च भूमिशब्दम् अधिकृत्य भगवान् कृष्णद्वैपायनो दानधर्मेषु पठितवान्-
-
परैर् अप्य् अनुमन्तव्यो दानधर्मो नृपैर् भुवि ।
-
अक्षयो हि निधिर् ब्राह्मो विहितो ऽयं महीभृताम् ॥ इति ।
कृत्स्नगोलकाभिप्रायम् एव नादेयत्वं भूमेर् विश्वजिति मीमांसकर् उक्तम्- “न भूमिः स्यात् सर्वान् प्रत्यविशिष्टत्वात्” (प्म्स् ६.७.३) इति । सर्वान् पुरुषान् प्रतिचंक्रमनादियोग्यतयाविशिष्टा भूमिः स्वामीकर्तुम् अशक्या कथं दीयत इत्य् अर्थः । अस्मिंस् तु पक्षे ग्रामनगरादि विश्वजिति दातव्यम् ।
अन्ये तु पठन्ति “अन्तरेण सदः पत्नीशालं च दक्षिणा नयन्ति” इति भूमौ गुणविधेर् अस्यासंभवात् क्षेत्रादेर् अप्य् अत्र दानम् ।
वदन्न् इति चैकवचननिर्देशात् “शृणु सौम्य” (म्ध् ८.९७) इति साक्षिविषयम् एवैतत् संबोधनम्, न शिष्यविषयम् । “शूद्रम् एभिस् तु पातकैः” (म्ध् ८.८८) इत्य् अत आरभ्य, यावन्तो मधमपुरुषनिर्देशास् (म्ध् ८.९२) ते सर्वेषां पातकभूयस्त्वसमानाख्यातरूपाद्येकवाक्यत्वाच् छूद्रानुयोगार्थाः । “अन्धः शत्रुगृहं गच्छेत्” (म्ध् ८.९३) इत्य् अत आरभ्य, सर्वे साक्षिविषया अनुयोगाः । आख्यातवैरूप्येन प्रकरणस्य विच्छेदात्, मध्यमपुरुषे समानार्थक्रमत्वात्, कर्तव्यो गच्छेद् इति प्रथमपुरुषनिर्देशः पूर्वाधिकारनिवृत्त्यर्थः ॥ ८.९९ ॥
अप्सु भूमिवद् इत्य् आहुः स्त्रीणां भोगे च मैथुने ।
अब्जेषु चैव रत्नेषु सर्वेष्व् अश्ममयेषु च ॥ ८.१०० ॥
मेधातिथिः ...{Loading}...
कूपतडागादिस्थे महति जले स्वल्पे वा334 भूमिवद् दोषः । स्त्रीणां भोगे च मैथुनाख्ये- केनेयं स्त्री भुक्ता मैथुनधर्मेणेति । अब्जेषु रत्नेषु मनयो रत्नानि मुक्ताद्याः । अश्ममयेषु वैडूर्यादिषु । रत्नेष्व् इति संबध्यते । द्विविधान्य् एव रत्नानि जलजान्य् अश्ममयानि च । अतो रत्नग्रहण एव कर्तव्ये विशेषणद्वयोपादानं श्लोकपूरणार्थम् । अद्भ्यो जातान्य् अब्जानि । अश्मनो विकारा अश्ममयानि ॥ ८.१०० ॥
०२
एतान् दोषान् अवेक्ष्य त्वं सर्वान् अनृतभाषणे ।
यथाश्रुतं यथादृष्टं सर्वम् एवाञ्जसा वद ॥ ८.१०१ ॥
मेधातिथिः ...{Loading}...
ऊहापोहौ वर्जयित्वा यथादृष्टं यथाश्रुतं चादृष्टं1 तत्वेन ब्रूहि ॥ ८.१०१ ॥
गोरक्षकान् वाणिजकांस्2** तथा कारुकुशीलवान् ।**
प्रेष्यान् वार्धुषिकांश् चैव विप्रान् शूद्रवद् आचरेत् ॥ ८.१०२ ॥
मेधातिथिः ...{Loading}...
कारवः शिल्पिनस् तक्षायस्कारसूपकरादयः । कुशीलवा नर्तकगायनाद्याः । प्रेष्या जीविकार्थं परस्याज्ञाकारा दासा इति प्रसिद्धाः । वार्धुषिका वृद्ध्युपजीविनः । एते ब्राह्मणा अपि सन्तः प्रकरणात् साक्ष्ये शपथे च शूद्रवद् द्रष्टव्या न क्रियान्तरे । यथा शूद्रो न दानपुण्यादिना पृच्छ्यन्ते साक्ष्ये शपथे चाग्निहरणादिना शोध्यते तद्वद् एषो ऽपि शपथो यद्य् अपि पूर्वत्राप्रकृतः तथाप्य् उत्तरत्रानन्तर्याद् दोषवत्वात् प्रयतत्वात् प्रयतत्वे ऽप्य् आनन्तर्यस्य संबन्धहेतुत्वाद् वक्ष्यमाणस्यापि प्रत्यासत्त्या पूर्ववद् वयोसंनिपातात् शपथे ऽपि तुल्यम् ॥ ८.१०२ ॥
तद् वदन् धर्मतो ऽर्थेषु जानन्न् अप्य् अन्यथा नरः ।
न स्वर्गाच् च्यवते लोकाद् दैवीं वाचं वदन्ति ताम् ॥ ८.१०३ ॥
मेधातिथिः ...{Loading}...
तद् अन्यथापि जानन्न् अन्यथा वदन् न स्वर्गाद् भ्रश्यति । कूटम् अपि वदन् न दुष्यतीत्य् अर्थः । किं सर्वदैव । नेत्य् आह । धर्मतो ऽर्थेषु । धर्मेण दयादिना निमित्तेनार्थेषु व्यवहारेषु । धर्मस्य च निमित्तत्वम् उक्तम् उत्तरश्लोके दर्शयिष्यति । एतच् च न स्वमनीषिकयोच्यते । किं तर्ह्य् एतां वाचम् वदन्ति अस्मात् पूर्वे ऽपि स्मर्तारः3 । का पुनर् दैवी वाक् । ययास्मिन् निमित्ते ऽनृतं वदितव्यम् इत्य् एषा देवानां संबन्धिनी वाक् तां मन्वादयः श्रुत्वा वदन्तीति विशेषे ऽनृतप्रशंसा ।
अन्यैस् तु पूर्वविधिशेषतयायं श्लोको व्याख्यातः । तद् एतद् गोरक्षकादिष्व् अनुयोगवाक्येषु ब्राह्मणेषु भवितव्यम् । अन्यथा ब्राःमणेषु “सत्यं ब्रूहि” (म्ध् ८.८८) इति यथा ब्राह्मणा एते कथं शूद्रवद् अनुयोज्या इति तद्विदान् अपि न दुष्यतीति यतो मन्वादयः एवंविधां वाचं वदन्ति यथैते शूद्रवद् आचरणीया4 इति । ते च धर्माधर्मयोः प्रमाणम् । तैश् च सत्यं वदितव्यम् । तच् च यथाविहितं तत्र स एव धर्मो यत्र वानृतं तत्रानृताभिधानम् एव धर्म इति ॥ ८.१०३ ॥
शूद्रविट्क्षत्रविप्राणां यत्रर्तोक्तौ भवेद् वधः ।
तत्र वक्तव्यम् अनृतं तद् धि सत्याद् विशिष्यते ॥ ८.१०४ ॥
मेधातिथिः ...{Loading}...
तत्र नानृतं वदेद् इति यः प्रतिषेधस् तस्याशूद्रादिविषयतानेनोच्यते, न पुनर् अनृतवदनं विधीयते । तथा सति प्रतिषेधेनैकवाक्यता बाध्येत ।5
- का पुनर् अत्र निमित्तश्रुतिः । तत्रेति । तस्य वधविशेषणत्वान् न वधः, तस्यासतो निमित्तत्वानुपपत्तेः । अतश् च कृते वधे6 पश्चात् तद्विषयम् अतद्विषयं वानृतं वक्तव्यम् इत्य् अर्थ आपतति । तत्त्वनिष्ठम्7 ।
- ननु च यत्रेति व्यवहारवस्तु8 निर्दिश्यते, पुनर् तत्रेति तद् एव प्रतिनिर्दिश्यते । ततश् च यस्मिन् व्यवहारे पराजिताः सन्तो वधार्हा भवन्ति तस्य नानुपनन्नो निमित्तभावः ।
- अत्र वदन्ति । न चात्र वधर्हेष्व् अनृतम् इष्यते । यतो ऽननुरूपं पापीयसो9 जिवनम् इति । यस् त्व् अवधर्हो ऽवकाशात् पुरदास्यादिस्खलिताद् अनृताख्यापनाय राजानः10 स्वल्पाराधात् न घातयितीत्य् उपपत्तिः;11 राजत्वात्12 क्रोधदण्डस्य चाशास्त्रीयत्वाद् अस्थितपरिमाणतया निश्चयाभावो न तस्यापि निमित्तत्वोपपत्तिः । अतः प्रतिषेधशेषतैव न्याय्या ।
- गौतमीये त्व् अनृतविध्याशङ्कापि नास्ति । “नानृतवदने दोषो जिवनं चेत् तदधीनम्” (ग्ध् १३.२४) इत्य् एवमादिप्रतिषेधे सत्यानृतयोः कामचारप्रसङ्गे सत्यवचनेन वधे13 निमित्तभावः प्रतिपद्यमानो “न हिंस्यात् सर्वभूतानि” इति प्रतिषेधव्यतिकर्मभये14 चानृतं प्रतिपद्यत इति युक्तिमत् । तेनेदं15 कृतम्, न चेद् असौ पृष्ट आचष्टे, न पुनर् हन्ति, अघ्नंश् च कथं हिमादोषेणानुषज्यते ।
- अथ सत्य् अपि स्वातन्त्र्ये तद्वचनेन राज्ञा हन्यमानत्वात् तद्धेतुभावापत्त्या प्रयोजककर्तृत्वम् इति चेत्, न सर्वो हेतुः प्रयोजकः- धनेन कुलं विद्यया यश इति । भवति विद्यायशसोर्16 हेतुता17 प्रयोक्त्री । न18 चान्य एवायं लौकिकफलोत्पत्तियोग्यतालक्षणो19 हेतुभावः, अपि तु द्रव्यगुणाः । यत्रापि20 क्रिया श्रूयते अग्निना पाक इति, सापि स्वरूपेण सिद्धरूपाभिधानात् कृदन्तैर् भावस्य । अन्यश् चायं शास्त्रीयः कर्तृव्यापारस्य प्रयोजको हेतुर् न तु तत्प्रयोजकत्वम् एवम् इत्य् अर्थम् । यदि तावत् प्रेषणाध्येषणे आज्ञाप्रार्थनारूपे प्रयोजकत्वं शोषयते21 व्रीहीन् आतप इत्यादाव् अचेतनेषु णिजुत्पत्तिर् दुर्लभा ।
- ननु च परिहृतम् एतद्व्याख्यातृभिः, “मुख्योपचरितक्रिय” इति चेतनावद् वस्तूपचारे “भिक्षा वासयति” “कारीषो ऽध्यापयति” इति । न ह्य् अत्र चैतन्यकृत उपकारः, अपि तु निश्चितत्वात् तदन्यस्य प्रयोजकस्य । अध्ययनं ह्य् आचार्यकरणविधिप्रयुक्तं कुर्वाणस्य माणवकस्य शीतादिलक्षणं प्रतिबन्धकम् अनुवदति । कारीषे प्रयोजकत्वाध्यारोपः । प्रेरकत्वाद् धि प्रयोजकम् उच्यते । तच् चाचैतन्यस्य22 वायुजलादेर् अग्निकाष्ठादौ सुतरां दृश्यते । तदा विधिप्रयोजकस्तुतिप्रयोक्तृभिः प्रेषणाद्याभावाद् गौणार्थाः शब्दाः स्युः । अथैतत्स्थम् अर्थाचरणं प्रयोजकत्वं तच् च प्रयोजकस्य व्यापारानुगुणं प्रेषणादिव्यतिरिक्तक्रियान्तरावरणं संविधानाख्यम् । संविधान एव हि कारयतीत्य् उच्यते । यथा बुभुक्षमाणस्य कश्चित् पात्रम् आहरत्य् अन्यो भक्तम् उपनयति । कस्यचिद् वधप्रवृत्तस्य कश्चिद् आयुध्म् अर्पयत्य् अन्यो वध्यदोषाविष्करणेन मन्युम् उपदीपयति । एवंलक्षणः प्रेषित्रादिरूपरहितः सव्यापारः प्रयोज्यफलसिद्धाव् आनुकूल्यं प्रतिपद्यमानस् तत्समर्थाचरणपक्षे प्रयोजकः ।
-
अस्मिन् पक्षे कारीषोपाध्यायौ तुल्यौ प्राप्नुतः ।
-
अत्रापि यम् अन्तरेण क्रियाया अनिवृत्तिर् यस्य च कारकविशेषसंज्ञा न प्रवर्तेत स मुख्यः प्रयोजकः कर्ता । अध्यायितारं चान्तरेण कारीषो न शक्नोत्य् अध्ययनहेतुभावं प्रतिपत्तुम् । आचार्यस् तु तम् अन्तरेणापि शक्त एवेति गौणः कारीषः । यत्र च करणादिभावो23 निश्चितो24 हेतुमत्प्रत्ययदर्शनात् तत्रापि गौणार्थतैव । यथा कश्चित् स्वल्पेनापि प्रयोजनेन दूरं ग्रामं पुनः पुनर् गतवन्तं दृष्ट्वा ब्रवीति “अश्वो गमयति देवदत्तम्” इति । यत्र तु न कस्यचिद् आसत्तिविप्रकर्षाव् अन्तरङ्गबहिरङ्गभावो वा गम्यते तत्र यावन्तस् तदानुकूल्यं प्रतिपद्यन्ते सर्वे ते प्रयोजकाः ।
- ननु च कारकसंज्ञायाम् अन्तरङ्गयोगो नास्तीति को विशेषः कारीषोपाद्याययोः । स्वप्रक्रियैव सा तत्रभवताम् । न वस्त्वाश्रया । वस्त्वाश्रयौ च विधिप्रतिषेधौ । इदम् अपि तत्र पठ्यते- “विवक्षातः कारकाणि भवन्ति” इति । एवं च सति यत्राकर्तुर् एव कर्तृत्वं कश्चिद् विवक्षेत् तत्र कर्तृप्रत्ययविधिप्रतिषेधाव् अपि स्याताम् । यथा पातकपरिगणनायाम् अनुपठति “क्रविक्रयी संस्कर्ता चोपहर्ता च” (म्ध् ५.५१) इति । तस्माद् अन्वाख्यानसिद्ध्यर्था25 तावकी26 सा व्यवस्था न वस्त्वधिष्ठानम् अर्थम् अवस्कन्दति ।
- अत एव व्याख्यातृभिर् उक्तम्- समर्थाचरणं चेद् धेतुः हेतुमात्रे27 प्रसङ्गः । ततश् च यो ऽपि कस्मैचिद् भोजनं ददाति स चौदरिकतयातिसौहित्येन व्यापद्येत प्राप्तं तत्र दातुर् वधकर्तृत्वम् इति । न च तत्प्रयुक्तं भवति । क्रियान्तरेण ह्य् असौ निश्चितो भोजनाख्यप्रयोजको न वधो न वेर्ष्यादि28 कथंचिन् निमित्तं भवति । भवतु वा तन्निमित्तम्,29 प्रयोजकत्वाभावात् तु कर्तृत्वं नास्तीति ब्रूमः । यस्य तु भूमिसुवर्णापहारादिनापराध्येत स च तदपहारमन्युना कथंचिन् म्रियेत किं तत्रापहर्तुर् अपहारदोष एवोत वधे ऽपि30 निमित्तिभाव इति चिन्त्यम् ।
-
किम् अत्र चिन्त्यते । अव्यभिचारावगम्यत्वाद् धेतुहेतुमद्भावस्य न खड्गप्रहारभोजनविच्छेदादेर् इव भूम्यादिहरणस्य नियतनिमित्तत्वोपपत्तिः ।
-
को ऽयं नियमो ऽभिप्रेतः । यदि ह वा केचिन् म्रियन्ते केचिन् नेत्य् अनियतो नियमो भवति । पुरुषस्वभावभेदात् तद् एवौषधं श्लेष्मिकाय हितं31 विपरीतम् अन्यस्येति । सर्वेषाम् एव च भावानादेशकालस्वभावभेदसहकारिसापेक्षः32 शक्त्यन्तरप्रादुर्भावः । तद् एव लक्षणं पुरुषवित्तसंततिसापेक्षं पिपासाहेतुप्राण्यन्तरसापेक्ष्यं तद्विच्छेदहेतुर् इति । एवम् अत्यन्तामर्षिणो मन्युमतः स्वहरणपरिभवादि मरणाय कल्पते । किं तत्र शक्यो निमित्तभावो ऽपह्नोतुम् । पेशलमानसस्य तूपेक्षैव तत्र । ये पुनर् मन्युपरीता अनशनश्वभ्रपतनविषभक्षणादिनापराद्धारम्33 उद्द्यिश्य म्रियेरंस् तत्राप्य् एष एव न्यायः ।
- ननु चान्यस्यैव प्रसिद्धहेतुभावस्य विषभक्षणादेर् निमित्तस्य तत्र दर्शनान् न भूम्यादिहरणस्यापराधो हन्तृत्वम् आप्नुयात् । तेनोपजनितमन्युर्34 मरणहेतोः प्रवर्तत इति पारंपर्यतो निमित्तत्वम् इति चेत् । एवं सति पथ्योपदेशेनापि केचिद्35 उद्विजमाना आत्मानं व्यापादयन्ति, ततश् च तत्रोपदेष्टारो हन्तारः स्युः । तथा मत्सरिणः परद्रव्येष्व् ईर्ष्यया शुष्यन्ता36 धनिषु दोषम् आददीरन् । तथान्ये मूढमनसः प्रियान् पुत्रान् स्वामिनश् चानुम्रियन्ते, तत्र प्रियादीनाम् हन्तृतापत्तिः । अपरे च रूपवत्स्त्रीदर्शनेन परिफल्गुमनसो ऽसूयन्ते37 भज्यमानहृदयाश् च विवेकशून्यात्मानस्38 तत्र शीलवत्यः स्त्रियो दुष्येयुः । तद् एवेदम् आपतितं मृतस्य ब्रह्महत्येति ।
-
सत्यम् एवं यदि विधिप्रतिषेधविशेषो न स्यात् । विहितो हितोपदेशः प्रतिषिद्धं स्वहरणादि । तथा चाहुः ।
-
उपकारप्रवृत्तानां कथंचिद् चेद् विपर्ययः ।
-
न तत्र दोषः केषांचिद् भेषजाम् औषधी यथा ॥
अत्र न केवलं वैद्यादेर् आतुरोपकारार्थिनः प्रयुक्तौषधस्य कथंचिद् विपरीततयोपपत्ताव् अदोषः- किं तर्ह्य् अन्यस्यापि गवादेर् महति पङ्के निमग्नस्योद्धर्तृभुजाकर्षणाय यथाश्रमेण यदि व्यापत्तिर् न तत्रोद्धर्त्ता दुष्येद् इति कथितं भवति । एवं सर्वत्र ।
- यो ऽपि कस्मिंश्चित् स्वव्यापारानुष्ठानवति धनरूपातिशयसंपद्वति दृश्यमाने दन्दह्यते न तं प्रति कस्यचिच् छास्त्रार्थातिक्रमः । निश्चितो हि निमित्तभावः39 प्रतिषेधस्य विषयो भवितुम् अर्हति । न च प्राण्यन्तराश्रयिषु चैतसिकेषु40 धर्मेषु प्रतिक्षणम् अन्यथाभवत्सु स्वभावविशेषावसायः । न हि शक्यम् अवसादितुम् अयम् अस्या रूपसंपदा व्यापद्यत इति । न च निश्चिते प्रतिषेधविषये संभवत्य् अनिश्चितविषयता न्याय्या ।
- यत्र तर्हि कथंचिद् वर्णविपर्ययशरीरशोषणादिना कुतार्किकपरीता41 स्याद् अपि निमित्तावगतिस् तत्र किं भ्रंशयितुं शीलं संयुज्यतां कामिना,42 भवतु वा पुरुषघापिनीति43 ।
- नैतद् एवम् । न हीदृशी भवन्त्य् अपि निमित्तता प्रतिषेधस्य विषयः,44 विध्यन्तरविरोधात् । अस्ति ह्य् अत्र व्यभिचारप्रतिषेधविधिः । न वापि45 विध्यन्तरेणानवष्टब्धे विषये कृतावकाशा विधयो विरोधविध्यन्तरं विषयम् आस्कन्दितुम् अर्हन्ति । ये ऽपि मन्यन्ते रागलक्षणां प्रवृत्तिं शीलसंरक्षणोपदेशो निषेधति न शास्त्रलक्षणाम् । तेन महानुभावतया मास्य46 तपस्विनो जीवितम्47 उच्छेत्सीद् इति48 प्राणोज्जिहीर्षया मुमूर्षुणा संप्रयुज्यते नासौ व्यभिचारप्रतिषेधम् अतिक्रामेत् । यत् तु विध्यन्तरविषये न विध्यन्तरं प्रवर्तत इति नैवायं विध्यन्तरस्य विषयो रागलक्षणत्वात् ।
ननु च प्रवृत्ताव् अपि नैव शास्त्रम् अस्ति नियोगविधाव् इव व्यभिचारानुज्ञानस्मृत्यभावात्49 । अथाप्रवृत्तौ कामयेत मारणम् इति प्रतिषेधभयात् प्रवर्तते सो ऽपि प्रतिषेधो रागलक्षणाम् एव हिंसां प्रतिषेधयति । न चासौ रागतो न प्रवर्तते ऽपि तु प्रतिषेधभयात् । या तु परोपकारतः प्रवृत्तिः सापि प्रतिषेधविषयपरिहारेण । यो ऽपि किंचिद् याचेद्50 अयम् अहम् आत्मानं हन्मीति हन्यान् न तत्राप्रयच्छतो घातकत्वं व्यवहारोच्छेदप्रसङ्गात् ॥ ८.१०४ ॥
वाग्दैवत्यैश् च चरुभिर् यजेरंस् ते सरस्वतीम् ।
अनृतस्यैनसस् तस्य कुर्वाणा निष्कृतिं पराम् ॥ ८.१०५ ॥
मेधातिथिः ...{Loading}...
वाक् चासौ देवता च सा वाग्देवता । तदर्थं च चरवो वाग्दैवत्याः । तण्डुला नातिपक्वाश् चरवः । तैर् यजेरन्न् इति बहवचननिर्देशात्, चरुभिर् इति बहुवचनम् । न पुनर् एकैकशो बहवश् चरवो नापि संहतानां व्रात्यस्तोमवद् यागो “देवश् चेद् वर्षेद् बहवो ब्राह्मणा यजेरन्” (प्म्स् १०.६.४५) इति, तद् बहुवचनम् । न तु51 कपिञ्जलैश् च त्रिभिर् यजेरन्न् इतिवत्52 ।
- तद् एतद् ब्राह्मणाद्यनुग्रहार्थम् अनृतम् उक्तं भवति । अनृतम् एवैनः पापम् असत्याभिधानलक्षणा क्रिया । यथा धर्मक्रियावत एवं समानाधिकरणे षष्ठी । येषां तु क्रियाजन्यौ धर्माधर्मौ न क्रियैव, तन्मते ऽनृतस्य यद् एन इति वैय्यधिकरण्ये53 ऽनृतनिमित्तत्वाद् एनो ऽनृतम्, उपचारतः समानाधिकरणे एव । तस्य निष्कृतिः शोधनं पावनं प्रायश्चित्तम् इति यावत् । परा प्रकृष्टा ।
-
ननु च कुतो ऽत्र पापम्, यावतास्मिन् निमित्ते “नानृतवचने दोषः” (ग्ध् १३.२४) इत्य् उक्तम् ।
-
केचिद् आहुः “निवृत्तिस् तु महाफला” (म्ध् ५.५६) इति । अस्माच् छास्त्रात् तु यावज्जीवम् अनृतं मया न वक्तव्यम् इति येन संकल्पितं तस्य मिथ्यासंकल्पदोषो मा भूद् इति प्रायश्चित्तम् उच्यते । गेहदाहवधप्रतिषेधे54 ऽपि नैमित्तिकं विधानम् । एनसो निष्कृतिम्55 इत्य् अर्थवादः ।
- कथं तर्हि56 वाग्दैवत्यैः सरस्वतीम् यजेरन् । यदि वाग्देवता57 सरस्वती कथम् इज्यते58 । अथ वाक्सरस्वत्योर् एकत्वेनैवं देवताभावे शब्दावगम्यरूपत्वाद् देवताया भिन्नौ चेतौ वाक्सरस्वतीशब्दौ । यथाग्नये जुहोतीति चोदितेन ज्वलनाय कृशानवे वा स्वाहेति हूयते, वायवे निरूप्य जुहुयाद् वायुर् वै प्राण इत्य् उक्ते ऽपि न प्राणायेति हूयते ।
- सत्यम् । वाग् एव देवता । सामानाधिकर्ण्याद् देवतार्थे तद्धितः ।59 सरस्वतीम् इति60 द्वितीयान्निर्देशात् । न हि61 द्वितीयानिर्देश्या देवता । कर्मणि हि द्वितीया संप्रदानं च देवता, न कर्म ।
-
कथं तर्हि सरस्वतीपदान्वयः ।
-
अर्थवादो ऽयम् । अग्नये जुहोत्य् अग्निर् वै सर्वा देवता इति । वाग् एव सरस्वती । तयेष्टया सापीष्टा भवति । यागेन देवतावगम्यते ।
-
कथम् ।
-
अग्निर् यष्टव्यः प्रजापतिर् यष्टव्यस् तथाग्निं यजति यद् अग्निं यजतीत्यादि केचिद् आहुः । देवताः62 स्वतस्63 तत्र तत्र पूज्यन्ते । दैवतपूजावचनो ऽत्र यजिः । पूजा च पूज्यमानकर्मिका । तत्र युक्ता द्वितीया । तथा च देवता पूजनीयेत्यादि स्मर्यते ।
एतच् च न युक्तम् । अस्मिन् हि पक्षे देवतात्वम् अन्यतो मृग्यम् । तत्र64 यागसंप्रदानं देवतेति स्मरणविरोधः । एषा च स्मृतिर् बलीयसी, निरपेक्षत्वात् । पूर्वा देवता उद्देश्या65 ध्येया च । यस्यै देवतायै हविर् गृहीतं स्यात् तां मनसा ध्यायेद् इति तत्क्रियाकर्मत्वात् कर्मण्य् एषा द्वितीया ॥ ८.१०५ ॥
कूष्माण्डैर् वापि जुहुयाद् घृतम् अग्नौ यथाविधि ।
उद् इत्य् ऋचा वा वारुण्या तृचेनाब्दैवतेन वा ॥ ८.१०६ ॥
मेधातिथिः ...{Loading}...
कूमाण्डा नाम मन्त्रा यजुर्वेदे पठ्यन्ते । तैर् घृतम् अग्नौ जुहुयात् । जुहोतिश् च देवताम् उद्दिश्य द्रव्यस्य त्यागः । आघारविशेषणे तत्रेहाग्नाव् इत्य् अधिकरणनिर्देशान् मन्त्रवर्णिकी देवता वेदितव्या । येषु च मन्त्रेषु देवताविशेषलिङ्गं न दृश्यते — यथा “देवकृतस्यैनसो ऽवयजनम् असि” (व्स् ८.१३) इत्यादिषु — तत्र प्रजापतिर् देवतेति याज्ञिकाः । अथ वा यस्यान्यत्र देवतात्वं दृष्टं सेह संबन्धीति66 यावत् । तथा च निरुक्तकाराः- “अपि वा सा कामदेवता स्यात्” (निर् ७.४.५) इति । यद्य् अपि यान्यस्य हविषो देवता सान्यस्य न कदाचित् तथापि यजति श्रूयते द्रव्यं मन्त्राश् च ते ऽत्रासत्यां देवतायां67 जुहोतीति रूपं68 तद् उत्तरेण जुहुयाद् इति व्याख्येयम् । तच् चायुक्तम् । तथाभिक्षारयेद् इति वक्तव्यं स्यात् । वयं तु ब्रूमः- “देवकृतस्यैनसो ऽवयजनम् असि” इत्य् अत्र कर्मैवावयजनम् एवावयाजनम् इत्य् उच्यते । अतस् तद् देवता69 । सर्वत्र च मन्त्राभिधेयं वस्त्व् अस्त्व् इति न देवतायां मन्त्रवर्णाभावः ।
उद् इत्य् ऋचा वा वारुण्येति । “उद् उत्तमं वरुणपाशम् अस्मत्” (र्व् १.२४.१५) इति एषा ऋक् वरुणदेवता70 उद् इति प्रतीकेन तल् लक्ष्यते । वारुणीग्रहणं चान्यस्या “उ त्वा मदन्तु स्तोमा” (र्व् ८.६४.१) इत्य् उच्छब्दप्रतीकाया निवृत्त्यर्थम्71 । तृचेनाब्दैवतेन चेति72 । तद् एव73 देवतैव दैवतम्, आपो दैवतम् अस्य त्र्यृचस्य तेन “आपो हि ष्टा” (र्व् १०.९.१) इत्यादिना । अतश् चैकैकया74 एकैकाहुतिः प्रत्येकशब्दवत्,75 समस्तेन च76 समुदायाहुतिर् एकेति ।
घृतम् अग्नाव् इति सर्वत्रानुषङ्गः । यथाविधि । यादृशः शिष्टसमाचार इत्य् अर्थः । तेन च हविषः सत्त्वाद्77 अप्राप्तायाम् इतिकर्तव्यतायां परिसमूहनपर्युक्षणावेक्षणस्रुवहोमाद्येतावन्मात्रम् अनुजानाति । वाशब्दाद् वैकल्पिकाः सर्व एव ॥ ८.१०६ ॥
त्रिपक्षाद् अब्रुवन् साक्ष्यम् ऋणादिषु नरो ऽगदः ।
तद् ऋणं प्राप्नुयात् सर्वं दशबन्धं च सर्वतः ॥ ८.१०७ ॥
मेधातिथिः ...{Loading}...
पञ्चदशाहोरात्राणि पक्षः । त्रयाणां पक्षाणां समाहारः त्रिपक्षम् । “अकारान्तोत्तरपदो द्विगुः” (पत् इ- ४८०) इति स्त्रीत्वे प्राप्ते पात्रादिदर्शनात्78 प्रतिषेधः । यद्य् एवं त्रिपक्षीति न प्राप्नोति । छान्दसस् तत्र लिङ्गव्यत्ययः । ल्यब्लोपे कर्मणि पञ्चमी । त्रीन् पक्षान् यावद् अतीय यः साक्ष्यं न ददाति । अगदो ऽपीडितशरीरस् तद् ऋणं79** प्राप्नुयाद्** इत्य् अर्थः । दशबन्धं च । दशमं भागं दण्डनीयस् तस्माद् ऋणात् । ऋणादिषु इत्यादिग्रहणेन सर्वव्यवहारोपक्रमः । द्वितीयम् ऋणग्रहणम् उपलक्षणार्थम् । यस्मिन् व्यवहारे साक्ष्यम् इयन्तं कालं न80 भवति पराजीयमानस्य81 साक्षिणो बोढार82 इत्य् उक्तं भवति । गदो रोगस् तत्समानप्रत्युत्थानहेतूपलक्षणार्थम् । तेनात्र कुटुम्बोपद्रवधनिकोपरोधाद्य् अपि परीक्ष्यम् । बन्धशब्दः संख्यादिपरो दण्डविषये दशमाषवचनः । नरग्रहणं सर्वतोग्रहणं च श्लोकपूरणार्थम् ।
अन्ये त्व् आहुस् तद् ऋणं प्राप्नुयाद् इत्य् अस्यायम् अर्थः । ऋणापहरणलक्षणेन83 पापेन युज्येत । राज्ञे वा जीयमानस्य यो दण्डस् ततो दशमम् अंशं दद्याद् इति दण्डितः पुनः दण्ड्यते84 ॥ ८.१०७ ॥
यस्य दृश्येत सप्ताहाद् उक्तवाक्यस्य साक्षिणः ।
रोगो ऽग्निर् ज्ञातिमरणम् ऋणं दाप्यो दमं च सः ॥ ८.१०८ ॥
मेधातिथिः ...{Loading}...
सप्ताहाद् इति पञ्चमीदर्शनाद् अर्वाग् इत्य् अध्याह्रियते । सप्तानां दिवसानाम् अन्यतमस्मिन्न् अहनि यस्य साक्षिणो रोगादि दृश्यते स मृषावादी दैवेन विभावितः पूर्वोक्तेन विधिना दापयितव्यः । रोगो ऽत्यन्तपीडाकरः, अग्निर् गोवाहनदहनः, पुत्रदारादिप्रत्यासन्नज्ञातिमरणम्, तस्य कूटसाक्षित्वे लिङ्गम् ॥ ८.१०८ ॥
असाक्षिकेषु त्व् अर्थेषु मिथो विवदमानयोः ।
अविन्दंस् तत्त्वतः सत्यं शपथेनापि लम्भयेत् ॥ ८.१०९ ॥
मेधातिथिः ...{Loading}...
अविद्यमानाः साक्षिणो येष्व् अर्थेषु व्यवहारेषु ते ऽसाक्षिकाः । तेषु सत्यम् अजानानो राजा तत्त्वतो लौकिकेनानुमानेनापीत्य् अर्थः । तत्र शपथेनापि वक्ष्यमाणेन दैवेनानुमानेन लम्भयेत् जानीयात् । लभिः प्राप्तिवचनो ऽपि सामर्थ्याज् जानात्यर्थः । न ह्य् अन्यः सत्यस्य लाभः । “न विन्दन्” इति पाठे ऽप्य् एवम् एव व्याख्येयम् । “असाक्षिकेषु शपथेन लम्भयेत्” इत्य् एतावद् विध्युद्देशवाक्यावसानात् श्लोकपूरणार्थम् । **मिथः **परस्परम्85 ॥ ८.१०९ ॥
महर्षिभिश् च देवैश् च कार्यार्थं सपथाः कृताः ।
वसिष्ठश् चापि शपथं शेपे पैजवने नृपे ॥ ८.११० ॥
मेधातिथिः ...{Loading}...
अर्थवादो ऽयं पूर्वोक्तस्य शपथविधेः । महर्षिभिः सप्तर्षिप्रभृतिभिः कार्यार्थं संदिग्धकार्यनिर्णयार्थं शपथाः कृताः । अस्मिन्न् अर्थे च भगवतः कृष्णद्वैपायनस्याख्यानम् उदाहर्तव्यम् । पुष्करेषु86 तेष्व् अपहारितेष्व् इतरेतरं सप्तर्षयः शेपिरे- “यस् ते हरति पुष्करं स इमां पापकृतो गतिं गच्छेत्” इत्यादि । देवैर् इन्द्रप्रभृतिभिः । इन्द्रो ह्य् अहिल्यां प्रत्यभिशप्तः87 शापभयाद् बहुविधं शपथं चकार । वसिष्ठश् चेति पृथङ्निर्देशः प्राधान्यख्यापनार्थः । शपतं कृतवान् इत्य् अर्थः । उपपदाद् एव विशेषावगतेः शपतिः करोत्यर्थमात्रे वर्तते । यथा यज्ञं यजत इति स्वपोषं पुष्ट इति तथा शपथं सेप इति ज्ञेयम् । “शप उपलंभने” इति लिटि प्रथमपुरुषात्मनेपदैकवचने शेपे इति रूपम् ।
पैजवनो राजा बभूव । तस्मिन् काले विश्वामित्रेणाक्रुष्टो मण्डलम् अध्यगतः कामक्रोधाभ्यां संक्षुब्धाचरणो88 ऽघासुरो यातुधानो ऽस्मीति शपथं गृहीतवान् । विश्वामित्रेणोक्तस् तस्य राज्ञः समक्षम् अनेनैव तत्पुत्रशतम् अशितम् एष हि रक्ष इति । ततः स उवाच । अद्यैव म्रिये यदि रक्षः स्याम् इत्य् आत्मन्य् अनिष्टाशंसनम् अत्र शपथः । पुत्रदारादिशिरःस्पर्शने एतद् अनिष्टासंशनं शपथो मन्तव्यः ॥ ८.११० ॥
न वृथा शपथं कुर्यात् स्वल्पे ऽप्य् अर्थे नरो बुधः ।
वृथा हि शपथं कुर्वन् प्रेत्य चेह च नश्यति ॥ ८.१११ ॥
मेधातिथिः ...{Loading}...
मिथ्याशपथे फलाख्यानम् एतत् । वृथा अन्यथा असत्यम् इति यावत् । तत्रापह्रियमाणसुवर्णादिद्रव्यजात्यपेक्षो ऽनृतशपथदोषो ऽन्यथाशपथे स्वल्पे, गरीयसि तु कार्ये गौरवाद् अधिकतरो दोषो ऽस्त्य् एव । प्रेत्य नाशो नरकम्, इह महद् अयशः । प्रमाणान्तरे तु ज्ञाते89 राजदण्डः ॥ ८.१११ ॥
कामिनीषु विवाहेषु गवां भक्ष्ये तथेन्धने ।
ब्राःमणाभ्युपपत्तौ च शपथे नास्ति पातकम् ॥ ८.११२ ॥
मेधातिथिः ...{Loading}...
कामः प्रीतिविसेषो विशिष्टेन्द्रियस्पर्शजन्य,ः स यासु भवति पुरुषस्य ताः कामिन्यो भार्यावेश्यादयः90 । तत्र यः शपथः कामसिद्ध्यर्थो यथा “नाहम् अन्यां कामये प्राणेश्वरी मे त्वम्” इत्याद्यः । यत् तु335 “संप्रयुज्यस्व मया, इदं त्वया देयम्, दास्ये” इति, तत्र भवत्य् एव दोषो वृथाशपथे336 । विषयसप्तमी चेयं न निमित्तसप्तमी । तेन यस्याम् एवैकाकिन्यां यथाप्य् एते तत्रोक्तरूपशपथे न337 दोषः । निमित्तसप्तम्यां तु निमित्ते परद्रव्यापहारे दोषः स्यात् । अतश् च “कामाद् दशगुणं पूर्वम्” (म्ध् ८.१२१) इत्यादिकं दण्डविधानं न युज्यते । तथापि91 निमित्तानन्तरकृते विवादे92 ऽस्त्य् एव वृथाशपथदोषः93 । एवं सर्वत्र ।
विवाहेषु । न त्वयान्या वोढव्या न वान्यो वोढव्य इति अन्यस्यापि सुहृदादेर् विवाहार्थम् एवंविधम् अनृतम् अदोषः । न पुनर् जात्यपह्नवादौ । गवां भक्ष्ये । गवाम् यवससिद्ध्यर्थं94 मयापहर्तव्यम्, न मयापहृतं95 परस्य चातत्संबन्धिभिर् युक्तस्य96 वृथासाक्ष्ये शपमानस्य न दोषः । एवम् इन्धने । ब्राह्मणानाम् अभ्युपपत्तिर् अनुग्रहः ।
-
सर्ववर्णानुग्रहे ऽनुज्ञातम् एव । किम् इह पुनर्वचनेन ।
-
केचिद् आहुः । शपथो ब्राह्मणे ऽनुज्ञायते, शूद्रादिषु त्व् अनृतम् एव ।
-
एतच्97 च “तद् धि98 सत्याद् विशिष्यते” (म्ध् ८.१०४) इति वचनान् नैतद् अनृतम् । अतो न तत्र प्रतिषेधः । प्रतिषेधो99 ह्य् असौ वृथाशपथस्य100 । पूर्वेण प्रतिषिद्धस्य प्रतिप्रसवशास्त्रम् एतत् । तस्मात्101 सर्ववर्णानुग्रहे शपमानस्य न दोषः ।
- किम् अर्थं तर्हीदम् ।
उच्यते । तत्र वधात् परित्राणम् उक्तं सर्ववर्णविषयम् । अभ्युपपत्तिस् तु ब्राह्मणस्यैव । सा हि धनलाभादिना संभवति । सर्वतश् च परसंबन्धिषु102 क्रियास्व् एवंविधासु शपथाभ्यनुज्ञानम् उपायान्तरेण तत्सिद्ध्यसंभव एव द्रष्टव्यम् ॥ ८.११२ ॥
सत्येन शापयेद् विप्रं क्षत्रियं वाहनायुधैः ।
गोबीजकाञ्चनैर् वैश्यं शूद्रं सर्वैस्103** तु पातकैः ॥ ८.११३ ॥**
मेधातिथिः ...{Loading}...
ननु च यद्य् अहम् एवंकुर्यां तद् इदम् अनिष्टम् आप्नुयाम् इति संकीर्तनक्रियाशपथं तं यः कारयेत् स शापयेद् इत्य् उच्यते । सत्येन शपे सत्यादिनिबन्धनो ऽयं धर्मो वा मे निष्फलः स्याद् इति । एवं चायुधानाम् अपि करणत्वं वाहनानां च । एतैर् आत्मानं शपतो न वा निष्फलानि स्युर् इति । गोबीजकाञ्चनानि वैश्यो हस्तेन स्पर्शयित्वाभिशपेद् एतानि वा मे निष्फलानित् पूर्ववत् । शूद्रं सर्वैस् तु पातकैः “वक्ष्यमाणानि पातकानि मे स्युः” इति शूद्रो वाच्यते ॥ ८.११३ ॥
अग्निं वाहारयेद् एनम् अप्सु चैनं निमज्जयेत् ।
पुत्रदारस्य वाप्य् एनं शिरांसि स्पर्शयेत् पृथक् ॥ ८.११४ ॥
मेधातिथिः ...{Loading}...
अग्निम् आहारयेद् एनं हस्तेनाश्वत्थपर्णव्यवहितेन तयोः प्रदेशान्तरं सप्तपदसंहितम् इत्यादिस्मृत्यन्तरान् निपुणतो ऽन्वेष्यम् । पारंपर्यप्रसिद्धेश् चैतद् एवोच्यते । अप्सु जले निमज्जयेत् प्राड्विवाक इत्यर्थः । पुत्रदारशिरांसि स्पर्शयेत् । पुत्रस्य दारस्य शिरः स्पर्शयन् हस्तेन, शपथादिकाराद् वाचापि,104 शपथस्यैवंरूपत्वाद् इत्य् उक्तम् । पृथग् एकैकस्य ॥ ८.११४ ॥
यम् इद्धो न दहत्य् अग्निर् आपो नोन्मज्जयन्ति च ।
न चार्तिम् ऋच्छति क्षिप्रं स ज्ञेयः शपथे शुचिः ॥ ८.११५ ॥
वत्सस्य ह्य् अभिशस्तस्य पुरा भ्रात्रा यवीयसा ।
नाग्निर् ददाह रोमापि सत्येन जगतः स्पशः ॥ ८.११६ ॥
मेधातिथिः ...{Loading}...
कथं पुनर् अग्निर् न धक्ष्यति, आपो108 नोन्मज्जयिष्यन्ति । न हि महाभूतानि विपरियन्ति स्वभावतो ऽचैतन्याद्109 इति पर्यनुयोगम् आशङ्क्यार्थवादेनोक्तम् अर्थं दृढीकरोति । यद्य् अप्य् अयम् अन्वयव्यतिरेकसमधिगम्यो ऽर्थः प्रत्यकषवेद्यो110 वा तथापि धूर्तकल्पितेन्द्रजालवद् भावितम् उग्रबिभीषिकासञ्जनमात्रं फलं111 शपथागोरणम् इति मन्यमानो वैदिकं निदर्शनम् उपन्यसेत्112 । भवन्ति प्रतिपत्तारो ऽर्थागमेन पूर्ववृत्तदर्शनाद् दृढतां प्रतिपद्यन्ते ।
- वत्सो नाम काण्व ऋषिर् अभवत् । स च कनीयसा वैमात्रेण भ्रात्राभिशस्त113 आक्रुष्टः “न त्वम् असि ब्राह्मणः शूद्रापुत्रः” इति । स तं प्रत्युवाच “सत्येनाग्निं प्रविशामि यदि न ब्राह्मणः” इति । तस्येदम् उक्तवतः प्रविष्टस्य नाग्निर् ददाह रोमापि । कथम् । सत्येन हेतुना ।
- कथम् अग्निः सत्यं जानातीति चेत्, अत आह जगतः स्पशः । गूढात्मा परकीयकृताकृतज्ञः स्पश उच्यते । स च चारः प्रणिधिर् इति च प्रसिद्धिः । अग्निर् हि भगवान् सर्वभूतान्तरचारी कृताकृतानां वेदिता । तथा च छान्दोग्ये ताण्डके प्रयोगः- “देवासुरसेनयोर् अभ्यन्तरे यो ऽग्निर् इति, गौतमो ऽग्निम् उपेत्योवाच-114 इह नो भवान् स्पशश् चरतु” इत्यादि । अथ वा विशेषनिदर्शने ऽपि115 पञ्चविंशब्राहमणम् उदाहार्यम्- “वत्सश् च ह वै मेधातिथिश् च काण्वाव्116 आस्ताम् । तं वत्सं मेधातिथिर् आक्रोशत्- अब्राह्मणो ऽसि” इत्यादि “तस्य लोम च नौषत्117” इत्यन्तम् (प्ब् १४.६.६) ।
-
ननु च चौरा अपि न दह्यन्ते । साधवो ऽपि दह्यमाना दृश्यन्ते । तत् कथं शपथे आश्वासः ।
-
उच्यते । न दृश्येन व्यभिचारेण व्यवस्थेयम् अपनेतुं शक्यते, कदाचित्कत्वाद् व्यभिचारस्य । प्रत्यक्षादिष्व् अपि प्रमाणेषु दृश्यत एव तादृशो व्यभिचारः, न च तानि न प्रमाणम् । अथ व्यभिचारवन्ति नैव प्रत्यक्षादिशब्दवाच्यानि । यद् व्यभिचरति न तत् प्रत्यक्षम्,118 यत् प्रत्यक्षं न तद् व्यभिचरतीति वचनात् । इहापि शक्यते तद् वक्तुम् । व्यभिचरतीत्य् असौ119 न120 शपथः, यः शपथः स न व्यभिचरतीति । कः पुनः शपथः । यः समतेतिकर्तव्यतामात्राद्यपग्रहणनिरूपितकुहकस्तंभनाभावः121 । विपरीतो ऽशपथः । न तादृशस्य व्यभिचारो ऽस्ति । अथापि स्यात्, तत्रापि प्राक्कृतस्य कर्मणः फलविपाको भवति, निमित्तत्वात् । कृतापराधो122 ऽपि पूर्वकृतेन गरीयसाशुभेन मुच्यते । अकृतापराधो जन्मान्तरदोषेण निगृह्यते । विचित्रा हि कर्मणां फलपाकाभिव्यक्तिहेतवः । सहस्राद् एको मिथ्या गृह्यते । उत्सर्गस्123 त्व् अमिथ्यात्वम् । पुत्रेष्टिकारीयादिष्व् अप्य् एतत् समानम् ।
तस्मात् साक्षिवच् छपथे ऽपि प्रत्येतव्य । ते ऽपि हि कदाचिन् मिथ्यावदन्ति124 । न भयप्रदर्शनमात्रम् एतत् । यथास्थानरूढाः125 शपथा उक्ताः सत्यं प्रतिष्ठत इति ॥ ८.११६ ॥
यस्मिन् यस्मिन् विवाहे तु कौटसाक्ष्यं कृतं भवेत् ।
तत् तत् कार्यं निवर्तेत कृतं चाप्य् अकृतं भवेत् ॥ ८.११७ ॥
मेधातिथिः ...{Loading}...
यस्मिन् व्यवहारे कूटसाक्षिभिर् व्यवहारः कृतः स्यात् स निवर्तयितव्यः । कृतं चाप्य् अकृतं भवेत् । गृहीतधनो ऽप्य् उत्तमर्णः प्रतिपाद्यितव्यः, इतरदण्डो126 गृहीतो ऽपि त्याज्यः । वाङ्मात्रेण “जितस् त्वम् असि” इति निश्चिते कार्यं निवर्तते इत्य् उच्यते । दण्डपर्यन्तं कृतम् अपीति विशेषः । वीप्सा श्लोकपूरणायाम् ॥ ८.११७ ॥
लोभान् मोहाद् भयान् मैत्रात् कामात् क्रोधात् तथैव च ।
अज्ञानाद् बालभावाच् च साक्ष्यं वितथम् उच्यते ॥ ८.११८ ॥
एषाम् अन्यतमे स्थाने यः साक्ष्यम् अनृतं वदेत् ।
तस्य दण्डविशेषांस् तु प्रवक्ष्याम्य् अनुपूर्वशः ॥ ८.११९ ॥
मेधातिथिः ...{Loading}...
(अग्रे व्याख्यानम्।)
लोभात् सहस्रं दण्ड्यस् तु मोहात् पूर्वं तु साहसम् । भयाद् द्वौ मध्यमौ दण्डौ मैत्रात् पूर्वं चतुर्गुणम् ॥ ८.१२० ॥
मेधातिथिः ...{Loading}...
लोभाद् यो वितथं वक्ति स सहस्रं दण्डनीय इत्य् एवं योजना130 कर्तव्या । तत्र यः परस्माद् धनम् उपादाय विअपरीतं वक्ति तस्य लोभो हेतुः । मोहात् वैचित्त्यात्131 । यथार्थवादी यथदृष्टार्थवादी च केनचिच् चित्तसंक्षोभहेतुना प्रश्नकाले व्यामूढः132 सम्यक् प्रश्नार्थम् अनवधार्यास्मृतत्वाद् वान्यथा ब्रूयात् स मोहाद् इत्य् उच्यते । भयं त्रासः । यदि मदीयेन136 सत्यवचनेनायं जीयेत, तत्रायं कदाचित् ज्ञातिधनादिबाधया मां व्यापादयेद् इत्य् आशङ्का । सहस्रम् इति संख्येयविशेषावगतिर् वाक्यान्तरात् पणानाम् इति । पूर्वं तु साहसं प्रथमम् “पणानां137 द्वे शते सार्धम्” (म्द् ८.१३८) इत्यादौ । द्वौ मध्यमौ साहसाव् इति विपरिणामः । पूर्वं चतुर्गुणं सहस्रम् एवेत्य् अर्थः । वृत्तानुरोधेन विचित्रया शब्दवृत्त्या स एवार्थः कथ्यते ॥ ८.११९–२० ॥
M G add: tu
M G: bhayena; DK omits: madīyena
M G J: vyārūḍhaḥ
M G: vicintayato; J: svabhāvato
M G DK (1: 279): prayojanā
कामाद् दशगुणं पूर्वं क्रोधात् तु त्रिगुणं परम् ।
अज्ञानाद् द्वे शते पूर्णे बालिश्याच् छतम् एव तु ॥ ८.१२१ ॥
मेधातिथिः ...{Loading}...
मन्मथः कामः । यत्र स्त्रियो विवदन्ते तत्संबन्ध्यन्यतरां138 कामयमानो ऽनृतं वदति, अर्धतृतीयानि सहस्राणि दण्ड्यते । क्रोधात् त्रिगुणं परं प्रथमसाहसस्य प्रकृतत्वात् ततः परो मध्यः139 । सर्वान्ते लोकविज्ञानाद् इति वा उत्तम एव परः । द्वेषः क्रोधः । अज्ञानाद् इति । यो विपरीतं प्रथमं ब्रूयाद् भ्रान्त्या, न तु133 प्रश्नकाले । द्वे शते दमः । प्रदर्शनम् एव विपरीतं नाभिधानम् । बालिश्यं134 बालभावः अप्राप्तव्यवहारता । ईषदपक्रान्तबालभावस्याप्राप्तबुद्धिस्थैर्यस्यायं बालिश्यदण्डो ऽन्यस्य त्व् असाक्षितैव ॥ ८.१२१ ॥
एतान् आहुः कौटसाक्ष्ये प्रोक्तान् दण्डान् मनीषिभिः ।
धर्मस्याव्यभिचारार्थम् अधर्मनियमाय च ॥ ८.१२२ ॥
मेधातिथिः ...{Loading}...
उभयप्रयोजनो दण्ड इति दर्शयत्य् अवश्यानुष्ठेयत्वाय । शास्त्राचारनिरूढा व्यवस्था धर्मः, तस्याव्यभिचारो ऽनिवृत्तिर् उच्यते ॥ ८.१२२ ॥
कौटसाक्ष्यं तु कुर्वाणांस् त्रीन् वर्णान् धार्मिको नृपः ।
प्रवासयेद् दण्डयित्वा ब्राह्मणं तु विवासयेत् ॥ ८.१२३ ॥
मेधातिथिः ...{Loading}...
सकृद् अपराद्धानां पूर्वो दण्डः । अभ्यासात् प्रवर्तमानानां दण्डयित्वा प्रवासनं राष्ट्रान् निष्कासनम्, मरणं वार्थशास्त्रे प्रयोगदर्शनात् तद्रूपत्वाच् च दण्डविधेः । ब्राह्मणं तु विवासयेत् । वाससो ऽपहरणं विवासनं गृहभङ्गो वा । विवाससं135 विवासं वा140 करोति “तत् करोति” इति णिचि णाविष्टवद् इति टिलोपे रूपम् । त्रीन् वर्णान् इति क्षत्रादयस् त्रयः, ब्राह्मणस्य दण्डान्तरविधानात् ॥ ८.१२३ ॥
दश स्थानानि दण्डस्य मनुः स्वायंभुवो ऽब्रवीत् ।
त्रिषु वर्णेषु यानि स्युर् अक्षतो ब्राह्मणो व्रजेत् ॥ ८.१२४ ॥
मेधातिथिः ...{Loading}...
स्थानशब्दो विषयपर्यायः । एतैः प्रदेशैः पीडयितव्यः प्रयपराधम्141 । शब्देन ब्राह्मणस्य धनदण्डविधानाद् अक्षतत्वोपदेशः शरीरपीडापरिहारार्थः कल्पते, सत्य् अपि धनस्य दशसंख्यानर्भावे ।
वयं तु ब्रूमः “समग्रधनम् अक्षतम्” (म्ध् ८.३८०) इत्य् अत्र धनपीडापि निषिद्धैव ब्राह्मणस्य । तस्माद् यः सकृत् कथंचिद् अपराद्धः श्रुतशीलाभिजनयुक्तस् तस्य धनदण्डो ऽपि नास्ति । तथा च गौतमस् तादृशम् एव ब्राह्मणम् अधिकृत्य “द्वौ लोके धृतव्रतौ”142 (ग्ध् ८.१) इत्य् उपक्रम्य, “षड्भिः परिहार्यश् च” (ग्ध् ८.१२) इत्यादि ॥ ८.१२४ ॥
उपस्थम् उदरं जिह्वा हस्तौ पादौ च पञ्चमम् ।
चक्षुर् नासा च कर्णौ च धनं देहस् तथैव च ॥ ८.१२५ ॥
मेधातिथिः ...{Loading}...
उपस्थं प्रजनधर्मः स्त्रीपुंसयोः । उद्देशमात्रम् इदं विनियोगस् तूत्तरत्र भविष्यति । यत्र च दण्डविशेषो नाम्नातस् तत्र यो येनैवाङ्गेनापराद्धः स तत्रैव पीडयितव्यः । तत्रागम्यागमन उपस्थनिग्रहः । चौर्य उदरत आहारनिवृत्त्यादिना । वाग्दण्डपारुष्ये जिह्वाहस्तयोः । पादबलेन व्यतिक्रामन् पादयोः । विवृत्य विश्रब्धं राजदारान् विक्ष्यमाणश् चक्षुषोः । अनुलेपनगन्धम् आजिघ्रन् नासिकायाम् । रहसि राजानम् मन्त्रयमाणं कुड्यपटान्तरित उपशृण्वन् कर्णयोः । धने प्रसिद्धो दण्डः । देहे मारणं महापातकिनः ॥ ८.१२५ ॥
अनुबन्धं परिज्ञाय देशकालौ च तत्त्वतः ।
सारापराधौ चालोक्य दण्डं दण्ड्येषु पातयेत् ॥ ८.१२६ ॥
मेधातिथिः ...{Loading}...
उक्तानुक्तदण्ड्येष्व् अपराधेषु मातृकाश्लोको ऽयम् । एतदर्थानुसारणेन सर्वत्र दण्डकॢप्तिः कर्तव्या । तत्र पौनःपुन्येन प्रवृत्तिर् अनुबन्धः, प्रवृत्तिकरणं वा, अनुबध्यते प्रयुज्यते येन तस्मिन् कर्मणि । तं परिज्ञाय । किम् अयम् आत्मकुटुम्बक्षुदवसायेन143 धर्मतन्त्रप्रसङ्गेन144 वा, अथ मद्यद्यूतादिशौण्डतया, तथा प्रमादाद् बुद्धिपूर्वं वा परप्रयुक्तः145 स्वेच्छया वेत्यादिर् अनुबन्धः । देशो ग्रामारण्यगृहजलजन्मप्रसवभूम्यादिः146 । कालो नक्तं दिवादिः सुभिक्षदुर्भिक्षबाल्ययौवनादिर् वा147 । सारः शक्त्यशक्ती आढ्यत्वदारिद्र्ये । अपराधो ऽष्टादशानां पदानाम् अन्यतमः । एतत् सर्वं पौर्वापर्येण निरूप्य तथा दण्डं पातयेत् कुर्याद् यथा स्थितिः सांसारिकी न भ्रश्यतीति ॥ ८.१२६ ॥
अधर्मदण्डनं लोके यशोघ्नं कीर्तिनाशनम् ।
अस्वर्ग्यं च परत्रापि तस्मात् तत् परिवर्जयेत् ॥ ८.१२७ ॥
मेधातिथिः ...{Loading}...
अधर्मप्रधानदण्डनम्148 अधर्मदण्डनम्149 । पूर्वोक्तम् अनपेक्ष्येदं शास्त्रपाठमात्रेण150 राजेच्छया रागद्वेषादिभिर् वा । तद् यशोनाशकं कीर्तेश् च विच्छेदकम् । स्वदेशे गुणख्यातिर् यशः, देशान्तरे कीर्तिः । जीवतो वा पुण्यशब्दो यशः, उत्तरकालिकी कीर्तिः । निर्दोषगुणवती कीर्तियशसी । अन्यो वा भेद उन्नेयः, अर्थवादत्वात् । अस्वर्ग्यं स्वर्गप्राप्तौ कर्मान्तरजन्यायां प्रतिबन्धकम् । परत्रापीति श्लोकपूरणार्थम्, स्वर्गस्यामुष्मिकत्वात्151 ॥ ८.१२७ ॥
अदण्ड्यान् दण्डयन् राजा दण्ड्यांश् चैवाप्य् अदण्डयन् ।
अयशो महद् आप्नोति नरकं चैव गच्छति ॥ ८.१२८ ॥
वाग्दण्डं प्रथमं कुर्याद् धिग्दण्डं तदनन्तरम् ।
तृतीयं धनदण्डं तु वधदण्डम् अतः परम् ॥ ८.१२९ ॥
मेधातिथिः ...{Loading}...
यो गुणवान् ईषत्प्रथमम् एवापराद्धः स वाचा निर्भर्त्स्यते “न साधु कृतवान् असि, मा पुनर् एवं कार्षीः” इति । तथा विनीयमाने यदि न निवर्तते, “को ऽत्र दोषः”155 इति वा प्रतिजानीयात् तदा धिग्धिगादिशब्दैः परुषवचनैः कुत्सार्थैः क्षिप्यते । ततो ऽप्य् अनिवर्तमानो यथाशास्त्रं धनेन दण्डनीयः । तद् अप्य् अगणयन्न् ऐश्वर्यादिना हन्तव्यः । वधदण्डश् च ताडनाङ्गच्छेदादि, न मरणम् एव ॥ ८.१२९ ॥
यत आह ।
वधेनापि यदा त्व् एतान् निग्रहीतुं न शक्नुयात् ।
तदैषु सर्वम् अप्य् एतत् प्रयुञ्जीत चतुर्ष्टयम् ॥ ८.१३० ॥
मेधातिथिः ...{Loading}...
मारणं चेद् वधः किं तद् अन्यद् येन156 शक्यते । कथं चैनं157 पापं निगृह्णीतेत्यादिपरुषवाक्यपूर्वं दुर्विनीतेषु धनदण्डवधौ समुच्चेतव्यौ । कृते ऽपि शरीरदण्डे यदि नावतिष्ठते ततो न कृतनिग्रह इत्य् उत्सृजेद् अपि तु स वधदण्डः कर्तव्यः । धनवधदण्डयोश् च पुनःप्रवृत्त्यर्थो ऽयम् आरम्भः । वाग्दण्डे158 मृदुत्वात् कः पृच्छति । धनेन च निगृहीतस्य159 पुनर् वधो दृष्टो “अङ्गुलीर्160 ग्रन्थिभेदस्य” (म्ध् ९.२७७) इति ॥ ८.१३० ॥
लोकसंव्यवहारार्थं याः संज्ञाः प्रथिता भुवि ।
ताम्ररूप्यसुवर्णानां ताः प्रवक्ष्याम्य् अशेषतः ॥ ८.१३१ ॥
मेधातिथिः ...{Loading}...
ताम्रादीनां लिक्षादयः संज्ञा भुवि प्रसिद्धाः । किं शास्त्रपरिभाषया । तत्र वृद्धव्यवहारो गवादिशब्दवद् इति । अत आह लोकसंव्यवहारार्थम् । अर्थशब्दो विषयवचनः । तेन व्यवहारप्रसिद्धिर् आश्रिता भवति ।
-
ततश् च गवादिशब्दतुल्यतया व्यवहारात् प्रसिद्धः । किं शास्त्रोपदेशेन ।
-
उच्यते । नियमार्थ उपदेशः । अन्येषाम् अपि परिमेयानाम् अयस्कांस्यसुवर्णादीनाम् एताः संज्ञाः सन्ति, तन्निवृत्त्यर्थः । क्वचिद् देशे परिमाणे भेदो ऽप्य् अस्ति, तन्निवृत्त्यर्थश् च । क्वचित् संबन्धतया नियम्यते । तथा च क्वचिद् अष्टाचत्वारिंशता माषबन्धं क्वचिच् चतुःषष्ट्या क्वचित् साष्टेन शतेन । तद् एतत् सर्वं नियम्यते ।
अथ चैवं संबन्धः क्रियते । याः संज्ञा भुवि प्रथितास् ता लोकसंव्यवहारार्थं वक्ष्यामि । सर्वस्य लोकस्याभिर् एव संव्यवहारो यथा स्याद् दण्डादिनियोगस्याप्य् अन्यथा प्रसिद्धिः ॥ ८.१३१ ॥
जालान्तरगते भानौ यत् सूक्ष्मं दृश्यते रजः ।
प्रथमं तत् प्रमाणानां त्रसरेणुं प्रचक्षते ॥ ८.१३२ ॥
मेधातिथिः ...{Loading}...
इमं श्लोकं केचिन् नाधीयते, त्रसरेणौ विप्रतिपत्त्यभावात्161 । गवाक्षकुचिकाविवरप्रविष्टे सूर्ये यो रेणुर् दृश्यते स त्रसरेणुः । अन्तरशब्दो विवरपर्यायः । प्रथमं तत्प्रमाणानाम् इति ॥ ८.१३२ ॥
त्रसरेणवो ऽष्टौ विज्ञेया लिक्षैका परिमाणतः । ता राजसर्षपस् तिस्रस् ते त्रयो गौरसर्षपः ॥ ८.१३३ ॥
मेधातिथिः ...{Loading}...
तत्रोपचितपरिमाणाः162 । न पुनर् अयं लिक्षाशब्दः स्वेदजक्षुद्रजन्तुवचनः । तास् तिस्रो लिक्षा एको राजसर्षपाख्यपरिमाणपदार्थः । एवं योजनीयम् । ततश् च व्यभिचारयन्ति न यथोक्तपरिमाणा यवादयो ऽर्था इति ते निरस्ता भवन्ति । न हि यवादीनाम् अर्थानां परिमाणम् । कथं तर्हि यथोक्तपरिमाणार्थः163 । यथा चोपक्रान्तसंज्ञाः प्रवक्ष्यामि परिमाणम् इति । त्रसरेणुश् चार्थो नियतपरिमाणस् तेनैतत् सर्वं निश्चेयम् । शक्नुवन्ति च निपुणास् त्रसरेणून् संहन्तुम्164 इति नानारभ्यार्थोपदेशः । एतत् स्वर्णकाराभिमानसंख्यास्मृतिरूपं निर्बाधं भवति । तत एव वस्तु निपुणतो ऽशेषतो ऽवधारयितव्यम् ॥ ८.१३३ ॥
सर्षपाः षट् यवो मध्यस् त्रियवं त्व् एककृष्णलम् ।
पञ्चकृष्णलको माषस् ते सुवर्णस् तु ष्ōडश ॥ ८.१३४ ॥
मेधातिथिः ...{Loading}...
मध्यमशब्दो ऽभ्रान्तिहेतुः परिमाणपरत्वे नात्यन्तम् अपिचितो नातिस्थूलः सर्षपपरिमाण इति **मध्य**ग्रहणम् अर्थवत् । संज्ञापरत्वे तु न किंचिन् मध्यशब्देन[^१६८] यवशब्दसंज्ञात्वात् ।
- तद् असत् । नायं संदर्भो येन प्रत्यवयवं प्रयोजनम् उच्यते । पद्यग्रन्थो ऽयम् । तत्र संगतार्थम्166 अपि वृत्तानुरोधात् किंचिद् उच्यते । अस्ति चास्यान्वयः । अनन्विताभिधानं हि वाक्यार्थविरोधान् न प्रमाणम् । न चावगताभिधानम् अपि । परिमाणभेदांस् त्रसरेणुशतमानादीन् आद्यन्तान् अपेक्ष्य मध्यपहितत्वान् मध्यो यवाख्यः परिमाणविशेषः ।
पञ्चकृष्णला अस्मिन् सन्ति पञ्चकृष्णलिकः167 । “अत इति ठनौ” इति टन् कर्तव्यः । “पञ्चकृष्णलकः” इति पाठे कबन्तो बहुव्रीहिः । ते कृष्णलाः षोडश एकः सुवर्णः ॥ ८.१३४ ॥
पलं सुवर्णास् चत्वारः पलानि धरणं दश ।
द्वे कृष्णले समधृते विज्ञेयो रूप्यमाषकः168** ॥ ८.१३५ ॥**
मेधातिथिः ...{Loading}...
पलम् इति संज्ञानिर्देशः । सुवर्णम् इति संज्ञी । चत्वार इति विशेषणम् । धरणम् इति संज्ञा । दश पलानीति संज्ञी । द्वे कृष्णले इति संज्ञा । रूप्यमाषक इति समुदायसंज्ञां169 मन्यन्ते । ननु रूप्यविषयमाषकनिर्देशे द्वे कृष्णले प्रतिपत्तव्ये इति प्रतिजानीते । ततश् चानिश्चयः170 । समधृते । तुलासूत्रके उन्मानादिहीने171 यदि धार्येते । प्रयोजनं मध्यशब्दवत् (म्ध् ८.१३४), यतो ऽसमयाद् धार्यमाणतया परिमाणानिश्चयः ॥ ८.१३५ ॥
ते षोडश स्याद् धरणं पुराणश् चैव राजतः ।
कार्षापणस् तु विज्ञेयस् ताम्रिकः कार्षिकः पणः ॥ ८.१३६ ॥
मेधातिथिः ...{Loading}...
षोडशरूप्यमाषका रूप्यस्य धरणं भवति । पुराण इति संज्ञान्तरम् । कार्षापणः पण इति च द्वे संज्ञे ताम्रकर्षस्य । कर्षाख्यश् च शब्दो लोकत एव प्रसिद्धार्थ इह गृह्यते व्यभिचारदर्शनासत्त्ववचनेन172 न कृष्णलादिवत् परिभाष्यते ॥ ८.१३६ ॥
धरणानि दश ज्ञेयः शतमानस् तु राजतः ।
चतुःसौवर्णिको निष्को विज्ञेयस् तु प्रमाणतः ॥ ८.१३७ ॥
मेधातिथिः ...{Loading}...
शतमान इति संज्ञा दशानां धरणानाम् । रजतशब्देन सुवर्णम् अप्य् उच्यते । तेन रूप्यसुवर्णयोर् इयं संज्ञा । सुवर्णस्य मानं173 तु शास्त्रान्तरात् परिमातव्यम् । तथा च विशेषयिष्यति शतमानं तु राजतम् इति ॥ ८.१३७ ॥
पणानां द्वे शते सार्द्धे प्रथमः साहसः स्मृतः ।
मध्यमः पञ्च विज्ञेयः सहस्रं त्व् एव चोत्तमः ॥ ८.१३८ ॥
मेधातिथिः ...{Loading}...
मधयम उत्तम इत्य् अत्र साहसपदानुषङ्गः कर्तव्यः । मधमोत्तमशब्दाव् अत्र केवलाव् अपि शास्त्रान्तरदृष्टौ- “आभ्यां दण्ड उत्तमः” इति । तत्र शास्त्रसिद्ध्या साहचर्यात् साहसं प्रतीयते । अवयवाः स्पष्टाः ॥ ८.१३८ ॥
ऋणे देये प्रतिज्ञाते पञ्चकं शतम् अर्हति ।
अपह्नवे तद्द्विगुणं तन् मनोर् अनुशासनम् ॥ ८.१३९ ॥
मेधातिथिः ...{Loading}...
यो राजसभायाम् आनीतो धर्मेण ऋणं देयतया प्रतिजानीते “सत्यम् अस्मै धारयामि,” स पञ्चकं शतम् अर्हति दण्डम् इति शेषः । अनेन संकल्पितेन विंशतितमो भागो दण्ड्यते । किम् इति । “मत्सकाशम्174 उत्तमर्णः प्रेषितो बहिर् एव कस्मान् न परितोषितः” इत्य् अतो ऽनेन शास्त्रव्यतिक्रमेण दण्डम् अर्हति । यस् तु व्यतिक्रमान्तरं करोत्य् अपह्नुते “नाहम् अस्मै धारयामि” इति, स तैः प्रतिपादितस् तद्द्विगुणं । तस्मात् पञ्चकाद् द्विगुणं दशकं शतम् इत्य् अर्थः । तन् मनोः प्रजापतेर् अनुशासनं सृष्टिकालप्रभृतिव्यवस्था नीतिर् इति यावत् ।
- अन्ये तु तच्छब्देन देयम् एव प्रत्यवमृशन्ति । यावत् तस्मै देयं तद्द्विगुणम् । तेन यावद् ऋणम् इत्य् अनेनैकवाक्यं भवति । अन्यथा वाक्यभेदः । विषयविशेषानिर्देशाद् एकविषयत्वे विकल्पः प्राप्नोति ।
स च न युक्तो द्विगुणस्यात्यन्तबहुत्वात् । असत्य् अपि निर्देशे तस्य विषयो दर्शनीयः,175 तस्य प्रत्यासन्ने176 पञ्चकम् इति, अर्थात्177 तस्यैवानुप्रत्यवमर्शो युक्तः ॥ ८.१३९ ॥
वसिष्ठविहितां वृद्धिं सृजेद् वित्तविवर्धिनीम् ।
अशीतिभागं गृह्णीयान् मासाद् वार्धुषिकः शते ॥ ८.१४० ॥
मेधातिथिः ...{Loading}...
अशीतीति विधेयनिर्देशः । वसिष्ठविहिताम् इत्यादिर् अर्थवादः । वसिष्ठो भववान् त्रिकालज्ञो लोभादिदोषरहित इति178 तां वृद्धिं गृहीतवान्, अत एषा प्रशस्ता । धनं तया वृद्धिम् उपैति, न च लोभदोषो ऽस्ति । सृजेत् प्रयुञ्जीत । यदा धनं तदाधर्मणस्य तां वृद्धिं धनप्रयोगकाले निर्दिशेत् । सर्वद्रव्येषु वस्त्रधान्यहिरण्यादिष्व् एतद् एव वृद्धिपरिमाणम् । संख्येयपरिमेयादिषु179 “रसस्याष्टगुणा वृद्धिः” (च्ड़्। य्ध् २.४०) इत्यादिषु द्वैगुण्यापवाद इति वक्ष्यामः ॥ ८.१४० ॥
द्विकं शतं वा गृह्णीयात् सतां धर्मम् अनुस्मरन् ।
द्विकं शतं हि गृह्णानो न भवत्य् अर्थकिल्बिषी ॥ ८.१४१ ॥
मेधातिथिः ...{Loading}...
द्वौ वृद्धिर् अस्मिन् शते दीयते तद् द्विकं शतम्180 । द्विशता181 पूर्वयाजिवतो बहुकुटुम्बस्यायं द्विकशतविधिः । मासम् अनुवर्तते । सताम् इत्यादिर् अत्रायम् अर्थवादः । सतां धर्मम् इति एषापि वृद्धिः साधूनां धर्मः । नैतया साधुत्वं हीयते । नात्यन्तम् अर्थपर उच्यते । तद् दर्शयति- न भवत्य् अर्थकिल्बिषी । अन्यायेन परस्वग्रहणात् पापम् अर्थकिल्बिषम्, तद् अस्यास्तीत्य् अर्थकिल्बिषी ॥ ८.१४१ ॥
द्विकं त्रिकं चतुष्कं च पञ्चकं च शतं समम् ।
मासस्य वृद्धिं गृह्णीयाद् वर्णानाम् अनुपूर्वशः ॥ ८.१४२ ॥
मेधातिथिः ...{Loading}...
ब्राह्मणादिवर्णक्रमेण चतुर्णां वर्णानां सकाशाद् द्विकादयश् चत्वारः कल्पा यथासंख्येन182 ग्राह्यतयानुज्ञायन्ते । समम् । न पादेन वार्धेन वाधिकम् । तदाधिक्ये183 ऽपि सपादद्विकं सार्धद्विकम् इति द्विकादिव्यपदेशस्यानिवृत्तेर् आशङ्कानिवारणार्थं समग्रहणम्, यथा मात्रान्यत्वे ऽपि संज्ञान्तरव्यपदेशं निवर्तयति184 । इदम् अपि पूर्वेणाजिवतः कल्पान्तरम् । यस्य वाल्पं धनं महते धर्माय ग्रहीतारश्185 च नातिधार्मिकास्186 तत्रायं विधिः, “ये ऽसाधुभ्यो ऽर्थम् आदाय” (म्ध् ११.१८) इति न्यायेन । “समाम्” इति पाठान्तरम् । संवत्सरं यावद् एषा वृद्धिर् न परतो ऽपि, महत्त्वाद् द्वैगुण्यं187 स्यात् ॥ ८.१४२ ॥
न त्व् एवाधौ सोपकारे कौसीदीं वृद्धिम् आप्नुयात् ।
न चाधेः कालसंरोधान् निसर्गो ऽस्ति न विक्रयः ॥ ८.१४३ ॥
मेधातिथिः ...{Loading}...
बहुधा प्रयोगः- गृहीत्वाधिम् अन्यथा च । आधिर् अपि द्विविधः- गोप्यो भोग्यश् च । भोग्यो ऽपि द्विविधः- समयाद् उह्यमानभोगः सरूपतो वा । आधिर् दोग्ध्री गौः पिहितसुवर्णादि ।
- तत्र भोग्यम् आधिम् अधिकृत्येदम् उच्यते । न त्व् एवाधौ सोपकार इति । विविधः188 सोपकारः- क्षीरिणी गौः क्षेत्रारामादि च । तस्मिन् भुज्यमाने — कुसीदे भवा कौसीदी अनन्तरोक्ता वृद्धिस् — ताम् नाप्नुयात्189 । आधिं तु भुञ्जानो नान्यां वृद्धिं लभेत । गोप्ये ऽप्य् आधौ कालसंरोधाच् चिरम् अवस्थानाद् द्विगुणीभूते ऽप्य् अमोक्षमाणे190 न निसर्गो ऽस्ति न विक्रयः । अन्यत्र च विधिनार्पणं निसर्गः । अन्यत्र संक्रामितं191 द्विगुणीभूतम् अपि पुनर् वर्धत एव । तथा अ पठिष्यति “सकृद् आहृता” (म्ध् ८.१५१) इति । विक्रयः प्रसिद्धः । सो ऽपि न कर्तव्यः ।
-
किं तर्ह्य् अस्याम् अवस्थायां कर्तव्यम् ।
-
तावद्192 आधिं भुञ्जीत यावद् द्विगुणं धनं प्रविष्टम् । ततः,
- मोच्य आधिस् तदुत्पन्ने प्रविष्टे द्विगुणे धने । (य्ध् २.६६)
भोग्यस् तावद् एवम्193 । भोग्यस्194 त्व् आधिः शान्तलभस् तिष्ठत्य् एव यावद् आधाता नागतः । यस् तु कथंचिद् धनिको दरिद्रताम् उपगतस् तावन्मात्रशेषधनः स कंचित् कालं प्रतीक्ष्य राजनि निवेद्य विक्रीणीत बन्धम्, ततो विक्रयाद् उत्पन्नं द्विगुणम् आत्मनो धनं गृहीत्वा शेषं मध्यस्थहस्ते ऋणिकसात्कुर्यात् ।
-
ननु च
-
आधिः प्रणश्येद् द्विगुणे धने यदि न मोक्षयेत् । (य्ध् २.६०)
इति पठ्यते ।
- एतद् उत्तरत्र व्याख्यास्यामः । प्रणाश्यत्वान् न195 पूर्वस्वामिनः स्वाम्यहानिः प्रयोक्तुश् च स्वत्त्वापत्तिः । यदि च निसर्गविक्रयौ न स्तः, कीदृशम् अस्य स्वाम्यम् उच्यते । तस्मात् प्रतिषेधसामर्थ्येन प्रणाशवचनं प्रतिषिद्धभोगस्य196 भोगानुज्ञानार्थं व्याख्यायते । वस्त्रादिविषयं वा । तस्य हि भुज्यमानस्य प्रणाश एव । न क्षेत्रादेर् इव तिष्ठतः स्वरूपाद् प्रच्यवमानस्य197 भोग्यता संभवति । तेनैतत् स्मृतिव्यवस्थायां व्याख्येयम् ।
गौणौ चात्र प्रणाशनिसर्गौ । विक्रयप्रतिषेधस् तु मुख्य एव । न ह्य् असौ गौणतया प्रतिपत्तुं शक्यते । एतद् एव प्रस्तुत्य “न स्यातां विक्रयाधीने” इति स्मृत्यन्तरपठितम्198 । अत इह निसर्गो ऽन्यत्राधानम्, विक्रयसाहचर्यात् ।सदृशौ हि तौ केनचिद् अंशेन ॥ ८.१४३ ॥
न भोक्तव्यो बलाद् आधिर् भुञ्जानो वृद्धिम् उत्सृजेत् ।
मूल्येन तोषयेच् चैनम् आधिस्तेनो ऽन्यथा भवेत् ॥ ८.१४४ ॥
मेधातिथिः ...{Loading}...
ननु च प्राग् अप्य् एतद् उक्तम् "न त्व् एवाधौ" (म्ध् ८.१४३) इति ।
- सत्यम् । यत्र यावत्य् एव वृद्धिस् तावान् एव भोगः, स पूर्वस्य विषयः । यत्र तु महती वृद्धिः स्वल्पोपभोगश् चेद् बलादिना भुञ्जानस्य सर्वेण सर्ववृद्धिहानिः । यत्र क्षेत्रगवादिर् बन्धस् तद्भोगश् च न199 वृद्धिसंमितः, स चोपचिताम् अपि वृद्धिं न ददाति, न च धनं200 द्विगुणम्, तत्र कयाचिद् अतिमत्यात्यन्तम् उक्तैव वृद्धिर् निश्चेतव्या201 ।
- यदि तु वस्त्रादि भुज्य्मानं नश्येत् तत्र मूल्येन तोषयेद् एनम् आधातारम् । इतरो ऽपि वृद्धिं लभते । अतो ऽन्यथाददन् मूल्यम् आधिस्तेनो भवेत् । यज्जातीयम् आधिं भुक्तवांस् तदपहारे यो दण्डः स एव दाप्यः । स्तेनश् चौरः ।
अन्ये व्याचक्षते । बलाद् भुक्ते वृद्धिहानिः202 । भुञ्जीत तन्मूल्यत एव वा । यदृणिकस्य मूल्यं मूल्यहिरण्यम्203 । यत्र भुञ्जान उच्यते “मा मे बन्धं विनीनशो मा भुङ्क्थाः204 कतिपयैर् अहोभिर् मोक्षयामि,” तथाप्य् उच्यमानो भुङ्क एवेति सो ऽस्य विषयः ॥ ८.१४४ ॥
आधिश् चोपनिधिश् चोभौ न कालात्ययम् अर्हतः ।
अवहार्यौ भवेतां तौ दीर्घकालम् अवस्थितौ ॥ ८.१४५ ॥
मेधातिथिः ...{Loading}...
आधिर् उक्तार्थः । प्रीत्या भुज्यमानः उपनिधिस् तु वस्त्रान्तर्हितो205 न्यासः । तौ चिरकालं न स्थाप्यौ । किं तर्हि, प्राप्ते काले मोक्षणीयौ । आधेर् मोक्षणकालो206 द्विगुणीभूतं धनम् । तस्यातिक्रमस् तस्मिन्न् अपि काले ऽमोक्षणम् । उपनिधिर् अपि यावता कालेन नास्यावसरो भवति, “मदीयम् एवैतद् भोक्ताहम्” इति, स प्रत्याहरणकालः । ततो ऽधिकः कालः कालात्ययः । तं नार्हतः स न कर्तव्य इत्य् अर्थः । हेतुम् आह- अवहार्यौ भवेतां ताव् इति । तौ हि दीर्घकालम् अवस्थिताव् अप्रत्याह्रीयमाणाव् अव्यवहार्याव् इति स्थितम्207 । तस्माद् द्विगुणीभूतधने आधिमोक्षणे208 प्रयतितव्यम् । सुहृदुपदेशो ऽयम्, न त्व् एवाध्युपनिध्योर्209 भूयसापि कालेनापहारः210 । यतो वक्ष्यति “आधिः सीमा बालधनम्” (म्ध् ८.१४९) इति । अतस् तस्यैवायम् अनुवादः ।
अन्ये त्व् आधिविषयम् उपदेशम् इच्छन्ति । यो द्वेषेण द्विगुणीभूते धने कालं क्षपति, “तत् त्रिलाभं211 धनं नाधिकं वर्धते, न चास्याधुनान्यत्राधानविक्रयौ स्तः, इह वृद्धिम् अयं मा लभताम्” इत्य् अनेन मात्सर्येण, तत्रेदम् उच्यते अवहार्यौ भवेतां ताव् इति । अनया बुद्ध्यामोक्षयतः स्वाम्यम् अस्य निवर्तते । यस् तु कथंचिद् असति धने न मोक्षयति तस्य निसर्गविक्रयौ न स्त इति । अथ वापरो ऽर्थो मुखेनोपेक्षयति, परहस्तगतया212 शङ्कयोच्यते213 अवहार्यौ भवेताम् इति ॥ ८.१४५ ॥
संप्रीत्या भुज्यमानानि न नश्यन्ति कदाचन ।
धेनुर् उष्ट्रो वहन्न् अश्वो यश् च दम्यः प्रयुज्यते ॥ ८.१४६ ॥
मेधातिथिः ...{Loading}...
प्रीतिर् एव संप्रीतिः । तया हेतुभूतयोपभुज्यन्ते धेन्वादयस् ते न नश्यन्ति । पूर्वस्वामिसंबन्धहान्या भोक्तुः स्वत्वापत्तिर् नाशः, स धेन्वादीनां प्रीत्या भुज्यमानानां न भवति ।
- ननु च सर्वस्यैवोपनिधेर् भोगेनापहारो नास्ति । वक्ष्यति “निक्षेपोपनिधिः स्त्रियः”214 (म्ध् ८.१४९) इति । को विशेषो धेन्वादीनाम् ।
उच्यते । यत्र दशवर्षो भोगः, न च स्वरूपनाशः, तत्र “यत् किंचित्” (म्ध् ८.१४७) इति सामान्यवचनेन प्राप्ते ऽपहारे उपनिधेः प्रतिषेधः । देन्वादीनां तूपनिधित्वम् एव नास्ति, अतः प्रतिषेधस्य नायं विषय इति स्याद् आशङ्का । आधाननिमित्तो215 हि धेनुशब्दो यदि परसंवत्सरे धेनुः स्यात्, परत उपसर्या यदि गर्भम् आदध्याद् धेनुत्वम् आपद्येत, तदा जनयेद् आशङ्काम् “अस्यैवेयम्, न देवदत्तस्य” । यतः प्रष्ठौही न भोग्या, प्रीतिसंभोग्यश् चोपनिधिः । येन स्वकैर् भोग्यं परिपाल्य216 पुनर् भुज्यमानं दृष्टम् । न पुनर् उपनिधेर् एतद् रूपम् । भोग्यो ह्य् उपनिधिः । असद्भावाद् भोग्यस्य च कीदृशगुणम् उपनिधित्वम् । उपनिधेश् चासौ प्रतिषेधः । तस्माद् उपनिधिरूपातिक्रमाद् असति तस्मिन् प्रतिषेधे यत्नान्तरम् उक्तम् ।
उष्ट्रादीनाम् अपि दशवर्षाणि भुज्यमानानाम् अवस्थान्तरापत्तिः । अतस् तत्रापि नोपनिधित्वम् । वहन्न् इति केचिद् अश्वविशेषणं मन्यन्ते । वृषस्य नायं विधिः । अपरे तु गर्दभाश्वतरार्थं मन्यन्ते । दम्यो बलीवर्दः । प्रयुज्यते वाहनार्थं यो दीयते ।
अन्ये तु पुनः प्रतिषेधं विकल्पार्थं मन्यन्ते । एतद् व्यतिरेकेणान्यस्योपनिधेर् अस्ति कादाचित्को ऽपहारः । तेन यद् वस्त्रादि प्रीत्या भुज्यते,217 यच् च218 परिक्षीणम्, तत्रास्त्य् एवापहारः219 । न हि प्रीत्या गृहीते वस्त्रे परिक्षीणे220 स्वामिनोपेक्ष्यते221 पुनर् अवसरो ऽस्ति- “देहि मे वस्त्रं विनाशितं त्वया तत्समेन मूल्येन संसाधय”222 इति ॥ ८.१४६ ॥
यत् किंचिद् दशवर्षाणि संनिधौ प्रेक्षते धनी ।
भुज्यमानं परैस् तूष्णीं न स तल् लब्धुम् अर्हति ॥ ८.१४७ ॥
मेधातिथिः ...{Loading}...
यत् किंचिद् भुज्यमानम् इत्य् व्यवस्थितेन223 संबन्धः । धनीति संनिधानात् सामान्यनिर्देशे ऽपि भुज्यमानधनोपेक्षणं224 प्रतीयते । यत् किंचिद् इति दासीदासासारभाण्डादि225 सर्वं ग्राहयति । न हि तल् लोके ऽत्यन्तं धनम् इति प्रसिद्धम्, गोभूहिरण्याद्य् एव महार्घं धनम् इति प्रसिद्धतरम् । तेनायम् अत्र वाक्यार्थः । यत् किंचिद् द्रव्यं परेण भुज्यमानं धनी धनस्वामी दशवर्षाणि यावत् प्रेक्षते, न किंचिद् वक्ति, न राजनि व्यवहरति, न कुलसमक्षं भोक्तारं वदति “मदीयम् एतत् किम् इति त्वया स्वयं भुज्यते” इति, स दशभ्यो वर्षेभ्य उत्तरकालं न तल् लब्धुं स्वीकर्तुम् अर्हति । निवर्तते ऽस्य स्वत्वम्226 इति यावत् । प्रेक्षणेन ज्ञेयतामात्रम् उच्यते, न प्रत्यक्षतैव । संनिधाव् इति वक्ष्यामः ।
परैः, न ज्ञातिसंबन्धिभिः । तथा च स्मृत्यन्तरम् “ज्ञातिसंबन्धिभिर् विना” इति ।
-
संबन्धिबान्धवैश् चैव भुक्तं यज् जातिभिस् तथा ।
-
न तद् भोगो227 निवर्तेत भोगम् अन्यत्र कल्पयेत् ॥
- तद् अयुक्तम् । अव्यवस्थैवं सति स्यात् । “के ज्ञातयः के वा संबन्धिनः” इति । संबन्धमात्रग्रहणे न किंचिद् व्यावर्त्यम् । तस्माद् येनान्यदीयं भुज्यते स एवं228 भवति । किं तु तथा सति परशब्दो ऽनुवादमात्रम् अनर्थः, कस्यापि न परव्यपदेशः । स निरस्यते,229 यथा भार्यापती पितापुत्राव् इति । तत्र ह्य् आत्मन्य् अपि व्यपदेशो ऽस्ति “अर्धो ह वा एष आत्मनो यज् जाया” (श्ब् ५.२.१.१०), “आत्मा वै पुत्र नामासि” (श्ब् १४.९.४.२६) इति । तेन दम्पत्योः पितृपुत्रयोर् न भोगाभोगौ कारणम् । तेषाम् अपि विभक्तधनानां भोगकाले प्राप्ते ऽभोगो बाधक एव । भार्याया अपि स्त्रीधने भर्तृसकाशाद् गृहीते बन्धेन पत्युर् भोगे नासिद्धिः । सा ह्य् आत्यन्तपरवती । नोभयोर् विभागो ऽस्ति । स्त्रीधनम् अपि तेनैव तस्याः परिपालनीयम् । “राजस्त्रीश्रोत्रियद्रव्याद्230 अन्यत्र” इति च पट्ःयते ।
- एवम् अनेन स्वामिन उपेक्षमाणस्य स्वाम्यहानिर् उक्ता ॥ ८.१४७ ॥
कस्य तर्हि तत् संभवतीत्य् एवम् अर्थम् उत्तरश्लोकः । “न स तल् लब्धुम् अर्हति” इत्य् अस्य शेषः- “अजडश् चेद् अपोगण्डः**”** इति231 ।
अजडश् चेद् अपोगण्डो विषये चास्य भुज्यते ।
भग्नं तद् व्यवहारेण भोक्ता तद् धनम्232** अर्हति ॥ ८.१४८ ॥**
मेधातिथिः ...{Loading}...
जडः अप्रतिपत्तिमान् । पोगण्डो बालः । प्राक् षोडशाद् बालः प्रोगण्ड इत्य् उच्यते । एतच् च स्वधनसंरक्षणासामर्थ्यकारणानाम् अन्येषाम् अप्य् उपलक्षणार्थम् । मद्यद्यूतविशक्तता, दीर्घरोगगृहीतता, तपःस्वाध्यायैकपरत्वम्, व्यवहारेष्व् अनैपुण्यम्, वागिन्द्रियाभावः, बाधिर्यम् — यस्यैते ऽसामर्थ्यहेतवः सन्ति न तदीये धने भोक्तुर् बहुतरेणापि कालेन स्वत्वम् आपद्यते । विषये चास्य भुज्यते । अस्येति धनिनः प्रत्यवमर्शः । विषयः काश्मीराणां कश्मीरः, पञ्चालानां च पञ्चालः233 । यदि भोक्ता च स्वामी चैकस्मिन्न् एव देशे वसेत् तथापि शक्तिविहीनस्यायं व्यवहारः । अत्रापि व्याख्याने प्रपञ्च एवायम्,234 अजडापोगण्डग्रहणस्य प्रदर्शनार्थतया व्याख्यातत्वात् । तेन यस्य जानतो यदुपेक्षाकारणं न संभाव्यते तदीयं धनं दश वर्षाणि भुञ्जानो भोक्तैवार्हति, तस्य तत्स्वम् इत्य् अवगन्तव्यम् ।
- ननु च न भोगात् स्वत्वं युक्तम् । स्वत्वे सति भोगो युक्तः । भोगाद् धि स्वत्वे ऽव्यवस्था स्यात् । यश् चायम् अवधिर् दश वर्षाणीति, स स्मृत्यन्तरेण न सर्वस्मिन् धन इष्यते । किं तर्हि, “पश्यतो ऽब्रुवतो भूमेर् हानिर् विंशतिवार्षिकी” (य्ध् २.२४) इति । अन्ये तु विंशतिवार्षिकेणापि भोगेन न भूमेर् अपहारम् इच्छन्ति त्रिपुरुषैव भुक्तिः प्रमाणम् इति वदन्तः (च्ड़्। न्स्म् १.८१) । अन्ये तु कदाचिद् आगमरहितेन भोगे न235 स्वाम्यम् अनुमन्यन्ते । एवं ह्य् आहुः-
- अनागमं च यो भुङ्क्ते बहून्य् अब्दशतान्य् अपि" । (न्स्म् १.७६* अद्दितिओन्)
तथा-
-
संभोगो यत्र दृश्येत न दृश्येतागमः क्वचित् ।
-
आगमः कारणं तत्र न संभोग इति स्थितिः ॥ (म्ध् ८.२००)
त्रिपुरुषभुक्तिवादिनस् तावद् एवं पठन्ति ।
-
यद् विनागमम् अत्यन्तं भुक्तं पूर्वैस् त्रिभिर् भवेत् ।
-
न तच् छक्यम् अपाहर्तुं क्रमात् त्रिपुरुषागतम् ॥ (न्स्म् १.८१)
अस्यायम् अर्थः- आगमो दानादिः । असति तस्मिन् यद् भुक्तं पितृपितामहप्रपितामहैस् तच् चतुर्थस्य सिध्यति, न तु विंशत्या वर्षैः । तत्रान्यत्रोक्तम् ।
-
आदौ तु कारणं दानं मध्ये भुक्तिस् तु सागमा ।
-
अन्ते तु बुक्तिर् एवैका प्रमाणं स्थावरे भवेत् ॥
तृतीयस्य बोगात् सिद्धिः, न प्रथमद्वितीययोः पितृपितामहयोः । अस्यापि न विंशतिवर्षैर् भोगः प्रमाणम् । अन्ये त्व् आगमरहितस्य वार्षशतिकस्यापि भोग्यस्याप्रामाण्यम् अनुमन्यन्ते । तथा चाहुः ।
-
अनागमं तु यो भुङ्क्ते बहून्य् अब्दशतान्य् अपि ।
-
चौरदण्डेन तं पापं दण्डयेत् पृथिवीपतिः ॥
-
भोगं केवलतो236 यस् तु कीर्तयेन् नागमं क्वचित् ।
- आगमः कारणं तत्र न संभोग इति स्थितिः237 ॥ (न्स्म् १.७६* अद्दितिओन्)
- 238 । यत्239 तु “बहून्य् अब्दशतानि” इति, तद् आहर्तृविषयम्240 आत्मीयम् एव बोगम् चिरकालत्वे हेतुम्241 आह- तस्य पितृपितामहभोगेन विना न सिद्ध्यतीत्य् अर्थः । कथं पुनर् एकस्यानेकाब्दशतो भोगः पुरुषस्य । नैष दोषः । चिरकालप्रतिपादनपरा बहुत्ववचनाः शतं सहस्रम् इत्यादयः शब्दाः । यथा “शतायुर् वै पुरुषः शतवीर्यः शतेन्द्रियः” (ऐत्ब् २.१७) इति । एतद् उक्तं भवति- विंशतिवार्षिकाद् भोगाद् अधिकाद् अपि न प्रथमभोक्तुर् भोगात् स्वत्वसिद्धिः । अर्थात् पुत्रस्यापि242 न सिद्ध्यतीति यथाश्रुतम् एव । न हि बहुष्व् अब्दशतेष्व् आगमस्मरणं संभवति । ततश् च चिरन्तनदेवायतनब्राह्मणमठग्रामा राजभिर् अपह्रियेरन् । लेख्यशासनम् अपि राजाधिकृतलेखकलिखितम् इति चिरन्तनेषु नैव प्रत्यभिज्ञायेत । कूटशासनम् अपि संभाव्येत । तस्माच् चिरन्तनो भोगः स्वत्वकार्यः243 स्वत्वस्य दानाद्यागमसंभावनाया244 ज्ञापको हेतुः, न तु कारकः । अत एव भुक्तिः प्रमाणमध्ये पठिता-
- लिखितं साक्षिणो भुक्तिः प्रमाणं त्रिविधं स्मृतम् । इति । (न्स्म् १.६५)
न तु स्वत्वकारणमध्ये- “सप्तवित्तागमाः” (म्ध् १०.११५) इति, “श्रुतशौर्यतपःकन्या” (न्स्म् १.४१) इत्यादौ च । अथ वा यत्र बलादि भोगकारणं संभाव्यते तद्विषयम् एतत् “अनागमम्” (न्स्म् १.७६* अद्दितिओन्) इत्यादि । अत्रैव245 प्रकरणे पठितम्-
- अन्वाहितं हृतं246 न्यस्तं बलावष्टब्धयाचितम् ।
-
अप्रत्यक्षं च यद् भुक्तं षड् एतान्य् आगमं विना ॥ इति । (न्स्म् १.७९)
-
ननु च “आधि सीमा” (म्ध् ८.१४९) इत्य् अनेनैवायम् अर्थः सिद्धः ।
-
न,247 उक्तस्य कालस्य त्रिपुरुषं यावद् भुङ्क्ते स एवार्थः । अयं तु तत उत्तरकालम् अपि निवृत्त्यर्थम् आरभते । तथा च “बहून्य् अब्दशतानि” इत्य् अत्र वचनम् । “अन्वाहितम्” यत् प्रकटम्, अन्यथा प्रदर्श्यान्तर्हितम् अन्यद् अवस्थाप्यते । “हृतम्”248 रात्रौ संधिभेदछलादिना । “बलावष्टब्धम्”249 प्रसह्येति शेषः250 । शिष्टं प्रसिद्धम् ।
- यदि त्रिपुरुषा भुक्तिः प्रमाणं कस् तर्हि251 “पश्यतो ऽब्रुवतो भूमेर् हानिर् विंशतिवार्षिकी” (य्ध् २.२४) इत्य् अस्यार्थः ।
- केचिद् आहुः । इयन्तं252 कालं भुञ्जानस्य सति लेख्यदोषादौ शक्ताभियुक्तादिकृतत्वं253 क्रमाक्षरविलोपाद्254 असत्यनयाभ्याम् अधमर्ण255 उच्यते । संदिग्धरूपम् अपि लेख्यम् इयता भोगकालेन निश्चीयते ।
- अन्ये त्व् आहुः । यत्रैव256 ताम् एव भूमिम्257 एकस्य बन्धायार्पयति, ताम् एव चापरस्य । एकस्याद्यं प्रमाणम्, अपरस्य पाश्चात्यम् । तत्र सत्य् अपि प्रामाण्यस्याद्यत्वे पाश्चात्यो विंशतिवार्षिको भोगो बलवान् ।
- एतच् चायुक्तम्, येनैव स्वीकृतो बन्धस् तथैव सः, “आधेः स्वीकरणात् सिद्धिः” (य्ध् २.६२) इति वचनात् । स्वीकारश् च भूमेर् भोगाभिलाषैव258 तेनेदृशे विषये स्वल्पेनापि कालेन259 बन्धसिद्धिः । एतद् एवाभिप्रेत्योक्तम्-
-
विद्यमाने ऽपि लिखिते जीवत्स्व् अपि हि साक्षिषु ।
-
विशेषतः स्थावराणां यन् न भुक्तं न तत् स्थिरम् ॥ इति । (न्स्म् १.६८)
विशेषग्रहणं गवाश्वादाव् अभुजमाने ऽपि नासिद्धिः, यतस् ते नावशयं भोग्याः । तथा हि भवेत्-260 गौर् गर्भं न261 गृह्णाति, कीदृशो ऽस्या अतो भोगः । भूमिस् तु सर्वदा फलदेति भोगलाभम् अन्तरेण न बन्धत्वसिद्धिः । तत्रापि कथंचिद् उपेक्ष्यमाणस्य तु यच्छतः प्रथमभोगकाल एव यदि द्वितीयेनाधिग्राहकेण संनिकर्षादिना स्वीकृतः स्यात्, इतरेण वाद्यप्रमाणवता देशविप्रकर्षात् कार्यव्यासङ्गाद् वा न स्वीकृतस् तदा विचार्यते नेयता तदसिद्धिः । यदा तु गृहीताधिर् एव समनन्तरं राज्ञा प्रव्राजितो महान्तं व्याधिम् आससाद, न वास्यान्यो ऽर्थरक्षाद्यधिकृतः कश्चिद् अस्ति, स चिरेणाप्य् आगतः सिद्धाव् अपि निरुपधिप्रमाणकाले लभत एव स्वीकृतम् अप्य् अन्येन ।
-
अन्ये तु, भ्रातॄणां न्यूनाधिकविभक्तानां पुनर्विभागः समीकरणार्थ उक्तः । स विंशतिवर्षेभ्य ऊर्ध्वं नास्तीत्य् एवमर्थम् इदम् आहुः । एतावन्मात्रफलत्वे तत्रैवाभिधानम् उचितम् । सामान्याभिधानं तु प्रकरणोत्कर्षेणान्यविषयताम् अपि ज्ञापयति ।
-
अपरे तु, “खिलीभूता भूमिर् येन क्षेत्रीकृता तत्र भूमिस्थानोपभोग उक्तः । स चेद् एतावन्ति वर्षाणि निगृहीतस् तथा सूत्रक्षेत्रयन्त्रैश् च स्वामी भूमित्वेन स च विषयः “262 इत्य् एवम् आहुः ।
- इहभवन्तस् त्व् आहुः- यौ समानदेशौ समानसामर्थ्यौ समानस्वभावौ समानधनौ तुल्यप्रयोजनाव्263 अपरस्परसंबन्धिनौ तयोर् अन्यतरस्येतरेण भुज्यमानम् इयन्तम् अवधिं समक्षम् उपेक्षमाणस्यास्य नैव264 स्थावरेषु स्वाम्यम् । किं तु त्रिपुरुषभुक्तिविरोधात् सर्वेण सर्वम्265 । विरुद्धे ह्य् एते स्मृती । ते न किम् अपि कल्पनम् अर्हतः, येनास्ति च स्वाम्यम्, नास्ति चेत् किंचिद् युज्यते । तत एवं266 व्यवस्था युक्ता । यद्य् अपि सत्वागमकारणानि बहूनि सन्ति दानविक्रयबन्धकारणादीनि, तथाप्य् अनुपलभ्यमानकारणविशेषे विंशतिवार्षिकभोगे ऽनन्तरादर्शितविषये बन्धरूपताभ्युपगन्तुं युक्ता । चञ्चलं भोग्यं च स्वत्वम् । वस्त्वपचये तत्प्रत्याहर्तुं लभ्यते । ततश् च त्रिपुरुषा भुक्तिः सर्वस्य स्वत्वम्267 आपादयति । दानविक्रयसंभावना तु268 यावत्य् एव सा वार्षिकी भविष्यति । विंशतिवार्षिके269 भोगे न किंचिद् अनुपपन्नम्270 ।
यत्रोभाव् अप्य् आगमम् अन्तरेण भोगमात्रबलात् प्रवृत्तौ तत्र पूर्वो भोगश् चिरन्तनो ऽपि विंशतिवर्षभोग्येन271 सांप्रतिकेन निरुपाधिना बाध्यते । दण्डपूर्विकयात्रागत272 इयत्कालो भोगः त्रिपुरुषागताया भुक्तेर् भाधक इत्य् उक्तं भवति ।
भग्नं तद् व्यवहारेणेति । व्यवहारग्रहणं धर्मनिवृत्त्यर्थम् । तेन यदि कथंचिज् जानीते तदा जीयेत । तदापि त्व् अनेन273 उपनिधिभोगज्ञापने प्रमाणं नास्ति, तेन व्यवहरतो जीयन्त्,। तद्धर्मो नास्ति, तादृशेन भोगेनापि हतः274 इति, तिष्ठत्व् एतत् ॥ ८.१४८ ॥
आधिः सीमा बालधनं निक्षेपोपनिधिः275** स्त्रियः ।**
राजस्वं श्रोत्रियस्वं च न भोगेन प्रणश्यति ॥ ८.१४९ ॥
मेधातिथिः ...{Loading}...
आधीयत इत्य् आधिर् बन्धकद्रव्यं गोभूहिरण्याद्य् उच्यते । यच् चोत्तमर्णाद् धनम् आदीयते । उपनिधिः शास्त्रान्तरेणान्तर्हितो276 न्यास उक्तः, यद् अप्रदर्शितरूपं सचिह्नवस्त्रादिना पिहितं निक्षिप्यते । प्रीतिभोग्यं तु युक्तम् उपनिधिशब्दवाच्यम्, तस्य निक्षेपग्रहणेनैव गृहीतत्वात् । सीमा मर्यादा ग्रामादीनाम् । बहुसाधारण्याद् धि तत्रोपेक्षा संभवति । गृहादीनां तु प्राकारपरिखादिरूपा द्वित्रिहस्तपरिमाणरूपा द्वयोः साधारणी यान्यतरेण277 कथंचिद् उपजीव्यमाना278 । स्वल्पत्वाद् भोगश् च279 कश्चित् कियन्तं कालम् उपेक्षेतापि280 । तत्रापि281 दानादिसत्त्वापगमहेतुं संभावयतः282 । अतस् तत्पुत्राः पौत्रा वा गूढचिह्नादिना प्रज्ञापितसीमत्वाद् आच्छिन्दयत्य् एव । बालधनं दृष्टान्तार्थम्, पोगण्डशब्दस्य दर्शितत्वाद् (म्ध् ८.१४८) इत्य् उक्तम् । स्त्रियो दास्यः, भार्या वा । नेतरस्याधनस्यापहार उक्तः “धनस्य दशवार्षिकी” (य्ध् २.२४) इति ।
- ननु च नेह धनम् अस्ति । “यत्किंचित्” (म्ध् ८.१४७) इति वस्तुमात्रनिर्देशो ऽयम् ।
नैवम् । “धनी” (म्ध् ८.४७) इति संबन्धेन धनविषयतैव “यत्किंचित्” इति सामान्यशब्दस्य प्रतीयते । क एवम् आह स्त्रियो न धनम् इति । इत्थं विनियोज्ये283 द्रव्ये धनशब्दो वर्तते । अथास्माद् एव स्त्रीधनात् स्वत्वमात्रोपलक्षणम् । धनोपमानेन पुमांसो ऽपि भोगेन दासाः स्वीक्रियन्त एव ।
राजस्वं । देशेश्वरा राजानः, तेषां धनम् । ते हि महाधनत्वाद् उच्चत्वान्वयं284 धनम् अन्विच्छन्तो ऽधिकृतैर् विरुतभेदादिभिर्285 निधनीक्रियन्ते तदूनापेक्षया286 । श्रोत्रियद्रव्यं श्रोत्रियधनाभियुक्तिः ॥ ८.१४९ ॥
यः स्वामिनाननुज्ञातम् आधिं भुङ्क्ते ऽविचक्षणः ।
तेनार्धवृद्धिर् भोक्तव्या तस्य भोगस्य निष्कृतिः ॥ ८.१५० ॥
मेधातिथिः ...{Loading}...
उक्तम् “न भोक्तव्यो बलाद् आधिर्287 भुञ्जानो वृद्धिम् उत्सृजेत्” (म्ध् ८.१४४) इति । सर्वस्य हि ग्रहणम् उच्यते । तत्र निषिद्धे288 भोगे बलाद् आधिं भुञ्जनः “वृद्धिम् उत्सृजेत्” इति,289 सर्वां290 हारयत्य् एव वृद्धिम् । अननुज्ञाते प्रतिषेधनम्291 । रहस्य् उपभुज्यमानभोगे न चाधिर् नश्यति, तत्र292 रूप्यसुवर्णालंकारादाव्293 अर्धवृद्धित्यागो ऽनेन श्लोकेनोच्यते ।
- यत् तु नवं महार्घम् अलंकरणवस्त्रादि परिधीयमानं नासितं तत्र न केवलं वृद्धिहानिः, यावद् धनं294 नष्टं तत् परिपीड्य मूलतः प्रविशतीति महत्तरैर् व्याख्यातम् । यज्वना तु व्याख्यातम्-295 यत्र स्वामी व्यवहरति अध्यधीनश् च, तत्राध्यधीनेन296 बन्धो दत्तः, स्वामिना च दृष्टः, तत्र धारणकेन कस्मिंश्चिद् अवसरे ऽध्यधीनः पृष्टः- “प्रयोजनं ममानेन बन्धेनास्ति”, तत्रोपनिधिन्यायेन297 तेनानुज्ञातः कालान्तरे भुञ्जानं यदि स्वामी पश्यंस् तदनुज्ञातं बन्धं क्षपितवान् — सतीदृशे विषये ऽर्धवृद्धित्यागः ।
तद् अयुक्तम् । यतस् तुल्यो व्यवहारः परस्परापेक्षः स्वामिभृत्ययोः । तत्र298 तत्रान्यतरेणानुज्ञातेनायम् अनुज्ञातः299 प्रयुज्यते ऽधर्मतः300 । स्वामिशब्दस्यार्थे स्वत्वम् ईदृशि विषये भवति । अन्यथा बन्धं यो ददाति सो ऽवश्यं स्वाम्येन युक्तः301 । अध्यधीनस् तु न स्वामी । यद्य् एवं चौरस् तर्हि । तस्मात् स्वामित्वाध्यारोपः । उपयोगे वाध्यधीने स्वाम्यनुज्ञाव्यवहाराद् ब्रह्मदत्तवत् । अतः पूर्व एवार्थः ।
स्वामिग्रहणं पादपूरणार्थम् । भुङ्क्ते ऽविचक्षण इत्य् अकारः संहितया प्रश्लिष्टनिर्दिष्टो वेदितव्यः । यस्य ह्य् अस्ति बुद्धिः “वृद्धिर् ममास्त्य् एव, अधिको लाभो वस्तुभोगः” इति, सो ऽविचक्षणः । न हि लोकशास्त्रवियोजनीया302 स्थितिः, यद् उभौ लाभाश् च भोगश् च वृद्धिः स्यात् । तेन सा वृद्धिर् भोक्तव्या । निष्कृतिः परशुद्धिः, विनियम इति यावत् ।
- अन्ये तु द्विगुणीभूते ऽप्य् अमोक्ष्यमाणे प्रतिषेधम् इमम् इच्छन्ति, तस्य हि स्वल्पो ऽपराध इति वदन्तः ।
प्रथमं तावद् आदाव् एव तैर् याज्ञवल्क्यवचनस्य विषयो देयः- “आधिः प्रणश्येत्” (य्ध् २.६०) इति ॥ ८.१५० ॥
कुसीदवृद्धिर् द्वैगुण्यं नात्येति सकृद् आहिता303** ।**
धान्ये सदे लवे वाह्ये नातिक्रामति पञ्चताम् ॥ ८.१५१ ॥
मेधातिथिः ...{Loading}...
लाभार्थो धनप्रयोगः कुसीदम्, तत्र वृद्धिः । अथ वा प्रयुज्यमानं प्रयोक्तृसंबन्धिधनम् एव कुसीदम् । “मदीयं304 स्वल्पं दत्त्वाधिकं ग्रहीष्यामि” इति धनं दीयते, तत् कुसीदम् । तत्र वृद्धिः । सा द्विगुणत्वं नातिक्रामति । तावद् उत्तमर्णेन वृद्ध्यर्थं धनं दत्तवताधर्मर्णाद् ग्रहीतव्यं यावन् मूलधनं द्विगुणं प्रविष्टम् ।
-
ननु वृद्धेर् द्वैगुण्यं श्रूयते । मूलेन सह त्रिगुणं प्राप्नोति ।
-
नैवम् । गुणो ऽवयव उच्यते । स तावद् अवयविनम् अपेक्षते । प्रकृतं च धनम् । अतः प्रयोगविषयस्य धनस्यानेन प्रकारेण द्वैगुण्यम् उक्तं भवति । तथा च स्मृत्यन्तरम्- “चिरस्थाने द्वैगुण्यं प्रयोगस्य” (ग्ध् १२.३१), “मोच्य आधिस् तदुत्पन्ने प्रविष्टे द्विगुणे धने” (य्ध् २.६६) इति ।
-
वृद्धिश् चानेकरूपा । कार्षापणेषु प्रयुक्तेषु कार्षापण एव वर्धते । क्वचित् संततिः । “स्त्रीपशूनाम् वा” (न्स्म् १.९२) इति संततिः । क्वचिद् आधिभोगः गोभूम्यादेः ।
-
तत्रेदं द्वैगुण्यं सरूपवृद्धिविषयं केचिद् आहुः । तत्र हि मुख्यं वृद्धेर् द्वैगुण्यं प्रतीयते । संततौ न विज्ञायते- किं संख्यायास्या305 द्वैगुण्यम् उत परिमाणेनोत मानतो306 वेयम् । अतो वेत्याद्यनिश्चयः307 । पशूनाम् मूल्याद् धि महार्घत्वं हस्त्यश्वादिषु क्रयविक्रयादौ दृश्यत एव । महाप्रमाणा हि महार्घा भवन्ति ।
-
ननु च संततौ सारूप्यम् अस्त्य् एव । गोः संततिर् गौर् एव । तत्र भेदोपन्यासो न युक्तो वृद्धिः सरूपा संततिश् चेति ।
-
उच्यते । नैकजातीयत्वमात्रेण सारूप्यं भवति, किं तु वयःपरिमाणादिसाम्येन । अतो युक्तो भेदोपन्यासः । भोगलाभे ऽपि कुतो द्वैगुण्यप्रतीतिः । उपकारकाणि308 जनयतुं गावः प्रयुज्यन्ते । गोभूम्यादि पयोयवसादयो यथासंभवं भुज्यन्ते । तत्र कीदृशं द्वैगुण्यम् । समाचारश् च क्वचिद् दृश्यते । वर्षशतानि भूमिर् आ मूलहिरण्यादानाद् भुज्यते । पठति च याज्ञवल्क्यः- “आधिश् च भुज्यते तावद् यावत् तन् न प्रदीयते” (य्ध् २.९३) इति ।
- अत्रोच्यते । वृद्धिमात्रे श्रूयमाणे द्वैगुण्यं कथं विसेषे ऽवस्थाप्यते । न हि श्रुत्या309 सामान्यप्रतिपत्तिर् भवन्ती विना प्रमाणेन विशेषे ऽवस्थातुम् अर्हति । यत् तु संतताव् अनुपपन्नं द्वैगुण्यम् इति, अवगमे यत्नः क्रियताम् । मूलमर्षेण परिनिश्चितवता वृद्धिस् तत्सामान्या यत310 एव तज्जातानां भवति । भूमिभोगे ऽपि यवसगोधूमादौ तत्पच्यमानस्यार्घतः311 शक्यत एव समत्वं निश्चेतुम् । उपकारवचनो ऽपि गुणशब्दो ऽस्ति । क एवं सति समगुणो भवति क उपकारको भवतीति कथं312 गम्यते । अनेन यावन् मूल्यं गोधान्यविनिमयाद् उत्पद्यते तावद् एव चेत् तत उत्पन्ना वृद्धिस् तदा भवति समगुणत्वम्, परिमाणादिसाम्याभावे ऽपि । यस् तु क्वचित् समाचारः- भवतैव परिहृतः क्वचिद् ग्रहणं प्रयुञ्जानेन313 । समाचारभ्रंशसंभवे स्मृतयो नियामिका अर्थवत्यः ।
“अक्षीणि मे दर्शनीयानि पादा मे सुकुमारतराः” इत्य्वत् प्रयोगाद् बहुषु314 बहुवचनम् इति शास्त्रम् आरभ्यते । असति विप्रयोगदर्शने प्रत्याख्यायते । उपसर्जनोपसर्गपौर्वापर्यप्रयोगसिद्ध्यर्थम् उक्तम् । न हि कश्चित् प्रपचतीति प्रयोक्तव्ये पचति प्रेते प्रयुङ्क्त इति । वचनम् अपि315 “आधिस् तु भुज्यते तावद् यावत् तन् न प्रदीयते”316 यावद् दानात् तद्द्विगुणम् अप्रविष्टम्, इत्य् अपि शक्यते नेतुम् । स्मृत्यन्तरैवाक्यत्वाच् चैतद् एव युक्तम् अध्यवसातुम् । उपपादितं चैतन् निपुणतो ऽन्यत्र ।
सकृद् आहिता । सकृद् इत्य् अनेन व्यवस्थापितो ऽङ्गीकृतः पुनः पुनः प्रोयोग इति यावत् । आधानं स्थापनं उच्यते । वचनव्यवस्थया च निरूपणं स्थापनम् एव । पुनः प्रयोगश् च317 द्विगुणीभूते धने आदीयमाने भवति । यदा द्विगुणवृद्ध्यर्थम्318 उत्तमर्णः, अधमर्णश् च तदीयेन धनेन महत्कार्यं करिष्यन् करणपरिवृत्तिं करोतीति या प्राक्तनी वृद्धिर् इयं वाद्यप्रभृति वर्धत इति, तदा द्विगुणभूतम् अपि पुनर् वर्धत एव । पुरुषान्तरसंचारेण वा यदि द्विगुणीभूतं धनिकस्योपयुज्यते, तदाधमर्ण उच्यमानो ऽन्यपुरुषं ददतम् अर्पयति “एष त इयद्भिर् अहोभिर् दास्यति” इति तत्र स्वहस्तं दीयमानं पुनर् वर्द्धते । न चायं दानं प्रति प्रतिप्रतिभूः किं तु निक्षेप्ता दातैव । एतत् तु ऋजुना “पुरुषान्तरम् असंक्रान्तम्” (भार् ओन् म्ध् ८.१५०; प्। ११३) इति व्याख्यातम् ।
- अथ वा प्राग् अपि द्वैगुण्याद् यदा बन्धम् अन्यस्मै प्रत्यर्पयति, दीनारेषु सलाभेषु द्वित्वे, तस्य बन्धस्य मोक्ष एव धर्म्यः319 । बन्धस्य प्राग्वृद्धौ स्थितायां तस्माद् अह्नः प्रभृति पुनर् द्वैगुण्यम् आप्नोति । यदा तदीयं बन्धकं तदनुज्ञयोत्तमर्णेनान्यत्राधाय स्वधनं गृह्यते तदा वर्धते । एष पुरुषान्तरसंचारः ।
- उभयत्र320 द्विगुणीभूते प्रयोक्ताधमर्णिकेन येन केन321 प्रकारेणान्यस्माद् ग्रहणम् अनुज्ञाप्यते । यदि वास्माद् अन्यद् गृह्यते, ग्रहीता देशान्तरं गमिष्यन् कार्यान्तरेण चान्यत्र संचारयति । ऋजुस् (=भार्) तु तस्माद् एवाधर्मर्णाद् अनवीकृते प्रयोगे द्विगुणाधिकां वृद्धिं नेच्छति । अत आह पुरुषान्तरम् असंक्रान्ते पुनःक्रिया । प्रयोजनं च वक्ष्यामः ।
- ये तु व्याचक्षते- “या वृद्धिर् उपचिता सांवत्सरी युगपत् सर्वैवानीयते322 तत्रायं विधिः । या पुनः प्राप्तदानापि सर्वा न दीयते तत्र द्विगुनाद् अधिकग्रहणम् अपि,” तेषां न नशब्दो यथार्थो नाप्य् आहित इति । सांवत्सरी तावद् उपचिता ग्राह्या द्वितीयसंवत्सरे पुनर् आनयनम् अस्त्य् एवेति न क्वचिद् द्वैगुण्यनियमः स्यात् ।
- अथ यो द्विगुणीभूतं सलाभं धनम् आनयति तत्राधिकनिषेधो ऽस्तु । प्राग् द्वैगुण्याद्323 वृद्धिमात्रदानसमर्थो324 वृद्धिं ददाति । मूलं तस्यापरिमितग्रहणम् इति ।
- एतद् अपि न किंचित् । यः संवहति तस्यानुग्रहो न्याय्यो नाधिकग्रहणम् । यस् तु राज्ञा325 द्विगुणीभूतम् अपि कथंचिद् आप्यते तस्याधिकमोक्ष इत्य् एतद् अन्याय्यम् । न च्आहितेत्यस्य326 शब्दस्यायम् अर्थः ।
अथ “आहृता” इति327 पाठान्तरम् । तथापि सकृच्छब्दो न निश्चितार्थो न्यायस्328 तु परित्यक्तः स्वकृतश् च पाठः स्यान् न मानवी स्मृतिर् इत्य् उक्तैव व्यवस्था न्याय्या ।
धान्यादिषु पञ्चतां पञ्चगुणताम् नात्येति । स्मृत्यन्तरे धान्ये चतुर्गुणोक्ता “हिरण्यवस्त्रधान्यानां वृद्धिर् द्वित्रिचतुर्गुणाः” (न्स्म् १.९२) इति । तत्र व्यवस्था- यदि दरिद्रभूतः प्रयोक्ता ग्रहीता च महाधनसंपन्नस् तेन धान्येन महान्तम् अर्थं कृतवांस् तदा पञ्चगुणान्यथा चतुर्गणा । सदं329 फलं वार्षम्, धान्यस्य पृथगुपादानात् । लव330 उदीच्येषूर्णाविषयः प्रसिद्धः । वाह्यो गर्दभोष्ट्रबलीवर्दादिः ॥ ८.१५१ ॥
कृतानुसाराद् अधिका व्यतिरिक्ता न सिद्ध्यति ।
कुसीदपथम् आहुस् तं पञ्चकं शतम् अर्हति ॥ ८.१५२ ॥
मेधातिथिः ...{Loading}...
अनुसरन्त्य् अनुधावन्त्य् अनुवर्तन्ते सर्व एवार्था एतम् इत्य् अनुसारः । शास्त्रोदितः समाचारः । स च विविधो ऽशीतिभागादिः पञ्चकशतपर्यन्तः । तस्माद् अधिका वृद्धिः कृता यावत् तथाधमर्णेनोत्तमर्णस्य न सिध्यति । कुतः, व्यतिरिक्ता यतः शास्त्रबाह्येत्य् अर्थः ।
- अर्थवादान्तरम् आह । कुसीदपथम् आहुस् तम् इति । कुपुरुषा यत्र सीदन्ति कुशीदम् । धर्मेण तद् धनिनो लक्ष्यन्ते । कुशीदीनाम् अयं पन्था मार्गो व्यवहारो न साधूनाम् इति निन्दा । यस्यावश्यम् अधिका कर्तव्या — महद् धि कार्यम् अयं मदीयेन धनेन साधयतीति बुद्ध्या — तदा वर्णविभागम् अनपेक्ष्य331 पञ्चकं शतं ग्रहीतुम् अर्हति लिप्सेत्, तदर्थम्332 इदम् उच्यते ।
पाठान्तरम् “कृता तु साराद् अधिका”333 इति । यस्याकिंचनस्य सतः स्वल्पा कृता, तेनैव धनेनान्यथा वा महार्थतां प्राप्तस् तस्य या पुरुषसाराद् अधिका334 न सिध्यति, यः परं पञ्चकशतम् अर्हति ॥ ८.१५२ ॥
नातिसांवत्सरीं वृद्धिं न चादृष्टां विनिर्हरेत्338** ।**
चक्रवृद्धिः कालवृद्धिः कारिता कायिका च या ॥ ८.१५३ ॥
मेधातिथिः ...{Loading}...
संवत्सरे भवा सांवत्सरी । ताम्339 अतिक्रान्ता सांवत्सरी । भवप्रत्ययार्थः सामर्थ्याद् अन्तर्भूतः । अथ वा संवत्सरम् अतिक्रान्ता अतिसंवत्सरेति प्राप्ते वृद्धीकारौ छन्दस्तुल्यत्वात् कर्तव्यौ ।
येषां वृद्धिर् अनन्तप्रक्रान्तपञ्चकं340 शतं सर्ववर्णविषया सा संवत्सरं यावद् ग्रहीतव्या, नातीते संवत्सरे । अथ वा यावत् संवत्सरम् । संवत्सरो वर्षः । तावद्341 वृद्धिर् न मार्गिणीया342 । अधमर्णेनापि संवत्सराद् ऊर्ध्वं न विलंबितव्यम् ।
विनिर्हरेद् विनिष्कृष्य स्वधनाद् आरभ्योपनयेद् इत्य् अर्थः । अर्वाग् अपि संवत्सराद् या दीयते साप्य् अतिक्रान्तसंवत्सरैव ।
- अथ वा मासाद् आरभ्य संवत्सरस्य यावद् वृद्धिः परिमाणतो निरूपितव्या । मासेन यद् वर्द्धते संवत्सरेण वेत्य् एवं प्रयोगः कर्तव्यः, न तु संवत्सरद्वयस्य लाभार्थी कदाचिच् चिरकालं ग्राहयति किं मे कतिपयमासिकेन343 लाभेन यदि द्वे वर्षे ततो ऽधिकं वा गृह्णासि, तद्ग्रहणे एषा वेयता कालेन वृद्धिस् तत्रार्वाचीनम् अपि ददद् अधर्मर्णे द्विसांवत्सरीं यथाकालकृतां तदा दाप्येत । “एकां वृद्धिम् अनादेयां न दद्यान् नापि दापयेत्” इति । यथा मासिकी वृद्धिः प्रथमे मासि द्वितीय एवाह्नि शोधयन् दाप्यते तथा यदैवम् अभ्युपैति संवत्सरेण यद् वर्धत इति तदा तथैव दाप्यते, न तु तदधिककालकृता ।
न चादृष्टां विनिर्हरेत् । शास्त्रे या न दृष्टा दशैकादशिकाद्या पञ्चकाद् अधिका न तां गृह्णीयात् । “व्यतिरिक्ता न सिध्यति” (म्ध् ८.१५२) इत्य् अस्यैवायम् अनुवाद इति केचित् । इदं तु युक्तम् । अदृष्टाम् अनुपचिताम् इत्य् अर्थः । यावद् बहुभिर् मासैर् न संहतीभूता तावन् न ग्राह्या दिवसवृद्धिर् मासवृद्धिः ।
- ननु च “मासस्य वृद्धिं344 गृह्णीयात्” (म्स्ह् ८.१४२) इत्य् उक्तम् ।
परिमाणं मासिकं तद्वृद्धेर् न तु ग्रहणम् ।
चक्रवृद्धिः कालवृद्धिः कारिका कायिका च या, ताम् अपि न विनिर्हरेद् इत्य् अनुषङ्गः । नैवादद्याद् इति345 । यद्य् अप्य् अधमर्णस्य346 प्रतिषेधस् तथापि सामर्थ्याद् उत्तमर्णस्यैव द्रष्टव्यः । अधमर्णो ह्य् आर्तः किं न करोति । अथ वा विनिर्हारो ग्रहणम् एव । तेनोत्तमर्णस्यैव शाब्दः प्रतिषेधः ।
-
ननु च द्विकादिवृद्धिविधानाच् चक्रवृद्ध्यादीनान् प्राप्तिर् एव नास्ति । किं प्रतिषेधानुषङ्गेण ।
-
उच्यते । अप्राप्तः प्रतिषेधः पाक्षिकीं वृद्धिम् अनुमापयति । यथाधाने न ब्रह्मसामाभिगायेद् इत्य् अविहितं सामगानं प्रतिषेधेनास्तीति ज्ञापयति । तेनैता अपि प्रतिषेधद्वारेणाभ्यनुज्ञायन्ते । केषांचिद् दूरव्यवहारिणां347 चक्रवृद्ध्यादयो ऽपि भवन्ति । तेन स्थलपथवारिपथिका वणिजो यथोक्तम्-
-
कान्तारगास् तु दशकं सामुद्रा विंशकं शतम् ।
-
दद्युर् वा स्वकृतां वृद्धिं सर्वे सर्वासु जातिषु ॥ इति । (य्ध् २.४१)
कान्तारगादीनाम् एव स्वकृता सर्वजातिविषया साधारणी वृद्धिर् न त्व् अन्येषाम् । तत्र चक्रवृद्धिः स्मृत्यन्तरे पठिता- “वृद्धेर् वृद्धिश् चक्रवृद्धिः” (न्स्म् १.८९) ।
अन्ये तु चक्रवद्यानं गन्त्र्यादि,348 तद्वृद्धिश् चक्रवृद्धिः । तेषां यस्मिन्न् अहनि चक्रं वर्तते तत्रैव वृद्धिः । यदा तु नदीसंतारे दुर्दिनादिना अप्रयाणं तदा नास्ति वृद्धिः । एवम् अन्येषाम् अपि बलीवर्दादिवाह्यप्रयोक्तॄणाम् ईदृशी वृद्धिश् चक्रवृद्दिर् उच्यते ।
कालवृद्धिः “प्रतिमासं तु कालिका” (च्ड़्। न्स्म् १.८८) । मासग्रहणम् उपलक्षणार्थम् । यानुपचिता वृद्धिर् दिवसे दिवसे गृह्यते मासि मासि वा यस्याः कालो न प्रतीक्ष्यते अथ चैतस्मिन् काले यदि न349 ददासि तदा द्विगुणीभवति धनम् इत्य् एकरूपा कालवृद्धिः ।
कारिता । इत्थंकृतां यावती वा परस्परोपकारापेक्षयोत्तमर्णाधर्मर्णौ कुरुतः । एषापि दिग्भागवणिजाम् एव । अन्येषां तु “व्यतिरिक्ता न सिध्यति” इत्य् उक्तम्, “पञ्चकं शतम् अर्हति” (म्ध् ८.१५२) इति ।
- अथ वा350 हिरण्ये प्रयुक्ते वासांसि वृद्ध्या गृह्यन्ते, तत्राधिलक्षणं द्रव्यम्, सा कारिता, यथाभोगलाभे न्यासरूपविषये च स्यात् ।
कायिका कायकर्मणा संशोध्या । कायजीविका च, एषां क्रमेण क्रमेलकादिजीविनाम्351 ॥ ८.१५३ ॥
ऋणं दातुम् अशक्तो यः कर्तुम् इच्छेत् पुनः क्रियाम् ।
स दत्त्वा निर्जितां वृद्धिं करणं परिवर्तयेत् ॥ ८.१५४ ॥
मेधातिथिः ...{Loading}...
वृद्धिद्विगुणीभूतम् ऋणं धनपरिक्षयाद् दातुम् अशक्तो यः स पुनः क्रियाम् कारयितव्यः । करणं लेख्यसाक्ष्यादि परिवर्तयितव्यः । वृद्धिं तु दद्यात् निर्जिताम्, यावती गणनया भवतीत्य् अर्थः । द्विगुणाद् अधिकं न ग्राह्यम् इति यद् उक्तं तस्यायम् अपवादः । नवो352 ह्य् अयं प्रयोग इति । कुतः पुनः द्वैगुण्यापवादार्थता । यावता नेह किंचिद् ईदृशं वचनम् अस्ति वृद्धिसहितं धनं वर्धते मूलधनं वा । केवलं पुनः क्रिया श्रूयते । सा च करणं परिवर्तयेद् इति व्याख्यान्तरेण व्याख्याता ।
-
यदि न वर्धते किम् अर्थं तर्हि करणपरिवर्तनम् ।
-
उच्यते । शान्तलाभे धने ऽदीयमाने आलस्यादिसंभावना353 साक्षिणश् च दीर्घे गच्छति काले विस्मरेयुः । यथोक्तम् ।
-
यत्र कार्ये भवेद् येन कृतोपेक्षा दशाब्दिकी ।
-
विवादस् तत्र नैव स्यात् साहसेषु विशेषतः ॥
तथा “दशवर्षोपेक्षितम् ऋणम् असाध्यम्” (कश् ३.११.१३) इति । तथाच पूर्वे स्म व्याचक्षते ।
- अयं च राज्ञः उपदेशः पीडितस्यानुग्रहः । यदि च द्विगुणस्य नवीकरणेन पुनः प्रयोगो354 वृद्धिसहितस्य पुनर् वृद्धिर् महांश् च355 पीडितस्यानुग्रहः । अथ सर्वं तदानीम् अवष्टभ्य न दाप्यते, एषो ऽनुग्रहो निर्धनस्य । ईदृशो ऽनुग्रहो दैवेनैव कृतः । तथा च सर्वस्मृतिष्व् अस्याम् अवस्थायां विहितम् ।
-
अथ शक्तिविहीनः स्याद् ऋणी कालविपर्ययात् ।
-
प्रेक्ष्य शक्तिम्356 ऋणं दाप्यः काले देशे यथोदयम् ॥
यद्य् अधमर्णो दैवदोषान् निर्धनीभूतस् तदा न दुर्गावरोधादिना राज्ञा पीडयितव्यः । किं तर्हि कर्तव्यम् । यदास्य कथंचिद् धनं भवेत् तदा यथासंभवं शनैः शनैर् दापयितव्यः । “प्रेक्ष्य शक्तिम्” धनवत्तां357 ज्ञात्वेत्य् अर्थः । दाप्य्ः उचितस्य । वक्ष्यति “कर्मणापि समं कुर्यात्” (म्ध् ८.१७७) इति । तस्मात् कारणपरिवृत्तौ358 यद् एवोक्तम् अस्माभिस् तद् एव प्रयोजनम् ॥ ८.१५४ ॥
अदर्शयित्वा तत्रैव हिरण्यं परिवर्तयेत् ।
यावती संभवेद् वृद्धिस् तावतीं दातुम् अर्हति ॥ ८.१५५ ॥
मेधातिथिः ...{Loading}...
अदर्शयित्वा हिरण्यम्, अदत्वा निर्धनत्वाद् वृद्धिहिरण्यम्,359 तत्रैव पुनः करणं परिवर्तयेत् । साक्षिसमक्षम् एवं ब्रूयात् “एतावन् मुलम् अस्मै धारयामि, एतावती च वृद्धिः” इति । पत्रे चारोपयेत्360 । यावती संभवेद् वृद्धिर्361 इति तावद् व्याचक्षते । पुनः करणे वृद्धिसहितमूलीभूते लघीयसी वृद्धिः कर्तव्या, यावत्या वृद्ध्या नातिपीड्यते । या प्राग् आसीत् ततो न्यूनेत्य् अर्थः ।
यज्वासहायनारदानां362 तु मते काकिणीमात्रम् अपि शक्तः करणपरिवृत्तिकाले दापयितव्यः । येन साक्षिणः न श्रवणमात्रे363 साक्षित्वम्, ददाति364 तत्समक्षम् अधमर्णो ऽर्थसंबन्धो ऽपि प्रत्यक्षीभवति365 । यतः श्रवणात् स्रवणे366 च कृता भविष्यन्ति, तातश् चित्ते367 तिष्ठति धनं368 दशवर्षोपेक्षितम् इत्यादि विनश्वरं भविष्यति ॥ ८.१५५ ॥
चक्रवृद्धिं समारूढो देशकालव्यवस्थितः ।
अतिक्रामन् देशकालौ न तत्फलम् अवाप्नुयात् ॥ ८.१५६ ॥
मेधातिथिः ...{Loading}...
“वाराणसीं यास्यामि त्वदीया युग्या369 मे भाण्डं च नेतुर्370 एषा च ते वृद्धिः” इति । तत्र यदि कान्तारनदीसंतरणराष्ट्रोपप्लवादिना371 तं देशं न गतस् ततो ऽर्वाग् देशात् कियता लाभेन प्रवृत्त्या व्यावृत्तस् तदा यथानिरूपिता वृद्दिहिर् न दाप्यते । यतस् तं देशं यावद् वहतां या वृद्धिर् अप्राप्तानां372 सा कथं स्यात् । दीर्घम् अध्वानं वहतां युग्यानां महान् क्लेशः स्वामिनश् च तावन्तं कालं कृतैव वृद्धिर् युग्योपकारः । शीघ्रं तु प्रतिनिवृत्तानां स्वामिनः पुनर् अन्यत्रोपकारणं संपद्यत एव । एष एवातिक्रमः ।
- एवं कालातिक्रमः- “मासम् मे वहन्तु373 बलीवर्दा इयती तव वृद्धिः” इति । तत्र यदि पक्षात् प्रत्येति, तत्र चक्रवृद्धिम् अधमर्णः समारूढः प्रतिपन्नो ऽङ्गीकृतवान् इति यावत् । तस्यां वृद्धौ देशकालौ व्यवस्थितौ यत् तया पूर्वोक्तेन प्रकारेण देशविशेषं कालविशेषं वा आस्थितवान्,374 न निर्विशेषणम् एव कृतवान्, स एवंविधो ऽधमर्णस् तौ देशकालौ अतिक्रमन्375 न प्राप्नुयात् तत्फलं वृद्ध्याख्यं नाप्नुयान् न भजेत न दद्याद् इत्य् अर्थः ॥ ८.१५६ ॥
किं तत्र नैवास्ति वृद्धिर् अथ वा पञ्चकं शतम् । नेत्य् आह ।
समुद्रयानकुशला देशकालार्थदर्शिनः ।
स्थापयन्ति तु यां वृद्धिं सा तत्राधिगमं प्रति ॥ ८.१५७ ॥
मेधातिथिः ...{Loading}...
समुद्रयानग्रहणं यात्रोपलक्षणार्थम् । स्थलपथिका376 वारिपथिकाश् च वणिजो यां वृद्धिं स्थापयन्ति सा तत्राधिगमनं प्रति निश्चयं प्रति । सैव निश्चेतव्येत्य् अर्थः । देशकालार्थदर्शिनो ऽस्मिन् प्रदेश इयान् अर्थलाभो ऽस्मिन् इयान् इति ये पश्यन्ति जानते, न तु समुद्रयान एव च ये कुशलाः कर्णधारादयः ।
- अन्ये पूर्वश्लोकम् एवं व्याचक्षते यदृच्छाध्याहारेण । अधमर्णेन या देशकालं चाश्रिता तां च प्राप्य तद्देशोदितं फलं लाभाख्यं तस्माद्377 देशाद् यदि नाप्नुयात्, तदा कीदृशी तत्र वृद्धिर् इत्य् आकाङ्क्षायाम् उत्तरश्लोकः । चक्रवृद्धिग्रहणं कारिताया अपि प्रदर्शनार्थम् ।
लोभातिशयभाजां वणिजां क्षयव्ययायसंविधिज्ञाः378 परस्परस्य यां वृद्धिं स्थापयेयुस् तां राजा प्रमाणीकुर्यात् । तत्राधिगमं प्रतीति । प्रतिः कर्मप्रवचनीयो ऽधिगमस्य लक्षणत्वात् “लक्षणेत्थंभूताख्याने” (पाण् १.४.९०) तद्युक्ते च द्वितीया ॥ ८.१५७ ॥
यो यस्य प्रतिभूस् तिष्ठेद् दर्शनायेह मानवः ।
अदर्शयन् स तं तस्य यतेत स्वधनाद् ऋणम् ॥ ८.१५८ ॥
मेधातिथिः ...{Loading}...
ऋणप्रयोगे द्विविधो379 विश्रम्भः प्रतिभूर् आधिर् वा । तत्र प्रतिभूपक्ष इदम् उच्यते । त्रिविधश् च प्रतिभूः दर्शने प्रत्यये दाने च । तत्र दर्शनप्रतिभुवम् अधिकृत्येदम् आह । यस्य दर्शनाय प्रतिभूस् तिष्ठेद् अमुष्मिन् प्रदेशे मयैष तव दर्शनीयः, स तथा कुर्वन् स्वधानात् तस्य ऋणं यतेत प्रयत्नं कुर्याद् दातुम् इति शेषः । दद्याद् इति यावत् । ऋणग्रहणं व्यवहारवस्तुमात्रोपलक्षणार्थम् । तेन यावन्तो ऽर्थविषया व्यवहारे ऽनुक्राम्यन्ते,380 तद्381 वस्तु दद्याद् दर्शनेनान्यतरेणाभियुक्तः । वाक्पारुष्यसंग्रहणादौ पणपरिभाषा कर्तव्या । यदि न दर्शितं चेत् तन्मया382 दातव्यम् । अकृतायां तु परिभाषायां राजदण्डम् एव दाप्यः । शरीरे तु निग्रहे तन्निष्क्रयणं383 सुवर्णम् ॥ ८.१५८ ॥
प्रातिभाव्यं वृथादानम् आक्षिकं सौरिकं च यत् ।
दण्डशुल्कावशेषं च न पुत्रो दातुम् अर्हति ॥ ८.१५९ ॥
मेधातिथिः ...{Loading}...
प्रतिभुवः कर्म प्रातिभाव्यम् । प्रतिभुवा यत् कर्तव्यं परर्णसंशोदनादि तत् प्रातिभाव्यम् । अर्हत्ता384 योग्यता । सानेन प्रतिषिध्यते । तस्यां च प्रतिषिद्धायाम् अधिकारप्रतिषेधः385 । अनधिकृतश् च न ददातीत्य् एवं न दातव्यम् इत्य् उक्तं भवति । सर्वत्रार्हतौ क्रियापदे व्याख्यायाते386 द्रष्टव्ये387 ।
- कथं पुनः पुत्रस्य प्रातिभाव्यादिप्राप्तिस् तर्हि, तदृणस्य पित्रागृहीतत्वात् ।
नैष दोषः । यद् येन दातव्यतयाङ्गीकृतं तद् गृहीततुल्यफलत्वाद् गृहीतम् एव । तन्निश्चितस्वरूपत्वम् आपन्नाः, अतः प्रतिषिध्यन्ते ।
वृथादानं परिहासादिनिमित्तं प्रतिश्रवणम्- “कुरु कार्यम् इदं मम,388 परिनिष्पन्ने389 इदं दास्यामि” इति निष्पादिते कार्ये पित्रादत्ते390 प्रतिश्रुते कथंचित् पुत्रो न दाप्यते । एवं पारितोषिकादि बन्दिपरिहासादिविषयम् । यद् वाहम्391 अमुष्माद् वणिज एतस्येद्यद् दापये392 इति, तत्र तु मनुष्ये प्रेषिते कथंचिद् दातुम् अघटिते ऽसंनिधानाद् वणिजो ऽन्यतो ऽपि कारणाद् दत्तान्तरे पितरि मृते, पुत्रो न दाप्यते ।
- अक्षिनिमित्तम् आक्षिकम्, सभिकाय यद् धार्यते ऽन्यतो वा यत् प्रयोजनं393 तद् गृहीतम् इति शक्यते ज्ञतुम् । तस्य प्रतिषेधः । यः परित्यक्तबान्धवो ऽक्षमालास्व् एव शय्यासनविहारी प्रसिद्धः क्रीडनकस् तदृणम् आक्षिकम् इति शक्यते निश्चेतुम् ।
सुरापाननिमित्तं सौरिकम् । सुराग्रहणं मद्योपलक्षणार्थम् । तेन यः पानशौण्डो ऽत्यन्तमद्यपस् तदृणप्रतिषेधः ।
दण्डशुल्कयोर् अवशेषः । यत्र पित्रा दण्डांशः शुल्कांशश्394 च कश्चिद् दत्तः परिपूर्णौ दण्डशुल्कौ न दत्तौ, तादृशस्य प्रतिषेधः ।
यत्र तु न किंचित् पित्रा दत्तं395 तद् दाप्यते । स्मृत्यन्तरे ऽप्य् अविशेषेणोक्तम्- “प्रातिभाव्यवणिक्शुल्कमद्यद्यूतदण्डाः पुत्रान् नाध्याभवेयुः”396 (ग्ध् १२.४१) इति । तत्र विकल्पः । महत्य् अपराधे महति च धने पैत्रिके ऽवशेषस्य प्रतिषेधः । शुल्के ऽप्य् एवम् । स्वल्पे तु सर्वस्य ॥ ८.१५९ ॥
दर्शनप्रातिभाव्ये तु विधिः स्यात् पूर्वचोदितः ।
दानप्रतिभुवि प्रेते दायादान् अपि दापयेत् ॥ ८.१६० ॥
मेधातिथिः ...{Loading}...
पूर्वश्लोके यो विधिर् मया चोदित उक्तः, यथा पुत्राणां न भवति पैत्रिकं प्रातिभाव्यम्, तद् दर्शनप्रातिभाव्ये । यद्य् एवं प्रत्ययप्रतिभुवः पुत्रा दाप्यन्ताम्, अत आह दानप्रतिभुवि प्रेते दायादाः पुत्रा दाप्यन्ते, नान्यस्मिन् ।
- यद्य् एवं प्रथमो ऽर्धश्लोको ऽनर्थकः । दानप्रतिभुवः पुत्राणां साधन उक्ते397 सामर्थ्याद् अन्यस्य398 प्रतिभुवो नास्ति पुत्राणां संबन्ध इति गम्यते । अथ विस्पष्टार्थम् उच्यते । प्रत्ययग्रहणम् अपि कर्तव्यम् । इतरथा प्रतिषेधे399 दर्शनग्रहणाद्400 विधौ च दानग्रहणाद् उभयपरिभ्रष्टस्य किं विधिर् उत प्रतिषेध401 इति संशयः स्यात् ।
-
नास्ति संशयः, स्मृत्यन्तरे स्पष्टम् उक्तत्वात्-
-
दर्शनप्रतिभूर् यत्र मृतः प्रात्ययिको ऽपि वा ।
-
न तत्पुत्रा ऋणं दद्युर् दद्युर् दानाय ये स्थिताः ॥ इति । (य्ध् २.५६)
इहापि दानप्रतिभुवीत्य् अस्य विधित्वाद् अन्यत्राप्राप्तिः । दर्शनग्रहणम् उपलक्षणार्थम् । अनुवादे चोपलक्षणत्वम् अदोषः । किंप्रयोजनम् इति चेत्, विचित्रा श्लोकानां कृतिर् मानवी ॥ ८.१६० ॥
अदातरि पुनर् दाता विज्ञातप्रकृताव् ऋणम् ।
पश्चात् प्रतिभुवि प्रेते परीप्सेत् केन हेतुना ॥ ८.१६१ ॥
मेधातिथिः ...{Loading}...
अनेन श्लोकेन संदिहानः प्रश्नं कृत्वोत्तरेण निश्चाययति । संदेहहेतुः402 पदद्वयेन “अदातरि,” “विज्ञातप्रकृतौ” इति । सप्तम्यन्तानि समानाधिकरणानि पदानि व्याख्यायन्ते- अदातरि, प्रतिभुवि, प्रतिज्ञातप्रकृतौ च403 । ऋणम् अनुत्तमर्णः केन हेतुना परीप्सेत लब्धुम् इच्छेत्, किं केवलेनैवात्मव्यापारेण ततः प्रतिभुवः पुत्रम् अपि व्यापारयति ।
-
कुतः संदेहः ।
-
उक्तम् “प्रेते दानप्रतिभुवि” इति ततो ऽन्यस्मिन् मृते404 कस् तत्पुत्राणां संबन्धः । यतस् तु खलु विज्ञातप्रकृतिर् विज्ञातकारणः प्रतिभूत्वेन धनं गृहीत्वा स्थित इत्य् एतन् निश्चितम्, अतो भवति बुद्धिर् अस्ति तत्पुत्राणां संबन्धो यतस् तेन ऋणसंशुद्ध्यर्थम् अस्य निसृष्टम् इति ।
पुनःशब्दः पूर्वस्माद् विशेषम् आह । यति दानप्रतिभुवः पुत्राः संबध्यन्ते । यस् तर्ह्य् अदाता तस्मिन् मृते । दाता उत्तमर्णः । पश्चात् तत उत्तरकालम् इत्य् अर्थः । शेषं व्याख्यातम् । परीप्सा प्राप्तीछा ॥ ८.१६१ ॥
निरादिष्टधनश् चेत् तु प्रतिभूः स्याद् अलंधनः ।
स्वधनाद् एव तद् दद्यान् निरादिष्ट इति स्थितिः ॥ ८.१६२ ॥
मेधातिथिः ...{Loading}...
निरादिष्टं निसृष्टं स्वधनाद् अर्पितम्- “भव लग्नक इदं ते धनं मत्तस् त्वया संशोधनीयं यद्य् अहं न दद्याम्” । अलंधनः पर्याप्तधनः । यावद् धनम् उत्तमर्णाय दातव्यं तावत् परिपूर्णं प्रसृष्टम् । स्वल्पे तु निसृष्टे बहुनि संशोध्ये न दापयितव्यः । पूर्वस्य प्रश्नस्योत्तरम् इदम् । यद्य् अपि न405 दानप्रतिभूर् अद्य निरादिष्टस् तत् तत्पुत्रो दाप्यते स्वधनाद् एव । तद्वद् यो406 निरादिष्टपुत्र इति द्रष्टव्यम्, तस्यैव प्रकृतत्वात्, साक्षात् प्रतिभुवस् तु प्रतिभूत्वाद् एव प्राप्तिर् इति चेन् मैवम् । निरादेशनेन407 इति स्थितिर् एषा शास्त्रमर्यादा । विचाराद् एवावलंबन इति सिद्धे यन् निरादिष्टो ऽलंबन इति चैवम् अभिधानं तत्पद्यग्रन्थानुरोधेन ॥ ८.१६२ ॥
मत्तोन्मत्तार्ताध्यधीनैर् बालेन स्थविरेण वा ।
असंबद्धकृतश् चैव व्यवहारो न सिध्यति ॥ ८.१६३ ॥
मेधातिथिः ...{Loading}...
कार्यपर्यायो व्यवहारशब्दः । यत् किंचिद् दानाधानविक्रयादिकार्यं लेख्यादि च प्रमाणम्, एतैः कृतं तन् न सिध्यति कृतम् अप्य् अकृतं भवति । मत्तोन्मत्तौ विख्यातौ ।
आर्तो धनबन्धुनाशादिपीडितः प्रत्युपस्थितभयश् च । यौगिकत्वान् मत्तादिशब्दानां यावन् मदादियुक्तास् तावत् तत्प्रमाणाभावबोधको408 ऽयं प्रतिषेधः । प्रदर्शनार्थं चैतद् अप्रकृतिस्थत्वमात्रस्य । यथोक्त-
-
कुर्याद् प्रतिकृतिं गतः ।
-
तद् अप्य् अकृतम् एवाहुर् अस्वतन्त्रः स हेतुतः409 ॥ इति ।
अप्रकृतिस्थश् चोच्यते उपप्लुतबुद्धिः स्वकार्यविवेचने समर्थः । उक्तं च-
- कामक्रोधाभियुक्तार्तभयव्यसनपीडिताः410 ।
- रागद्वेषपरीताश् च411 ज्ञेयास् त्व् अप्रकृतिं गताः ॥ इति । (न्स्म् १.३७)
कामादीनां412 द्वन्द्वं कृत्वा पीडितशब्देन तैः पीडिता इति साधनंकृतेति तृतीयासमासः । तेन पीडितस्य प्रतिषेधः । स चायं संप्रति मन्मथाधिष्ठितः413 स्त्रीपरिरम्भणादि परीप्समानो भवति । अभियुक्ता द्यूतादिक्रियान्तरे दत्तावधानाः । एते हि तत्र संसजन्तः स्वामिनो ऽपि स्व इत्य् अस्य प्रातिभाव्यादिक्रियानिश्चयस्यानवधानान् न प्रमाणम् । यतः क्रियान्तरावहिततया परेण पृच्छ्यमाना इदम् अस्मै दीयताम् अङ्गीकृतं वा प्रातिभाव्यम् इयति वस्तुनीदृशे ऽनेन च प्रकारेणोच्यत इत्य् एवमादि निपुणतो नावधारयन्ति । प्रकृतिक्रियाविघ्नो वा मा भूद् अस्मिन्न् इहस्थ इत्य् अभिप्रायम् अभ्युपगच्छन्ति, “गछ्च त्वम्, यद् ब्रवीषि तत् सर्वम् अनुष्ठीयते” इति, पारतन्त्र्यं वाङ्गीकूर्वन्ति । तद् उक्तम् “स्वतन्त्रः स हेतुतः” इति । येन हेतुनास्वतन्त्रो ऽप्रमाणं सो ऽस्य स्वतन्त्रस्यापि हेतुर् विद्यते । यथास्वतन्त्रः स्वम् अपि न विनियुङ्क्ते एवम् अयम् अपि कामादिवशीकृतो ऽर्थविवेकं कार्याणां च गुणदोषौ क्रियमाणाव् अनधिगच्छन्न् अस्वतन्त्रेण तुल्यो भवति । आर्तो व्याख्यातः । अभियुक्तार्तशब्दौ414 च धर्मिवचनौ लक्षणया धर्मपरौ415 विज्ञेयौ । अभियोगो ऽभियुक्त आतुरता आर्त इति416 । व्यसनानि कामक्रोधसमुत्थितानि मृगयादीनि । अभियुक्तो417 व्यसन्य् अपि कांचित् क्रियां तात्पर्येण कुर्वन्न् उच्यते । अव्यसन्यप्रवृत्तो ऽपि तद्ध्यानरतः418 । अथ वा कामक्रोधशब्दौ कामिनि क्रोधवति वर्तेते । अत्र च पक्षे भयव्यसनशब्दौ कृतद्वन्द्वौ तृतीयान्तौ पीडितशब्देन संबध्येते । अन्ये तु स्वतन्त्रा एव । रागद्वेषाभ्यां परीता व्याप्ताः । रागः क्वचिद् आत्मीयेष्व् अभिषङ्ग आत्मीयतया परिगृहीतस्य कस्यचित्419 संबन्धिनापि ध्यायतो वाभिप्रेतसिद्धौ मनसः परितोषो रागः, तद्विपरीतो द्वेषविषयः । परिपथिन्य् अनात्मीयतया परिगृहीते तदस्वास्थ्यतद्विपर्ययात् परितुष्टिवृत्तिर् इत्य् एवमादिरूपौ रागद्वेषौ । सर्वथास्य भावबुद्धिश् चलिता क्षणम् अपि विवक्षिते कार्ये नावतिष्ठते । अन्यद् वदन्न् अन्यद् आचरति420 । एवंरूपो ऽप्रकृतिस्थः । अन्यथा सर्व एव पुरुषाः कामादियुक्ताः जराजीर्णाक्षिशिरोरोगार्त्तिमन्तो ऽप्रकृतिस्थाः421 स्युः । न चैवम्422 ।
अध्यधीनो गर्भदासः पुत्रशिष्यौ भार्या च । यदापि रूढ्या गर्भदास एवाध्यधीनस् तथाप्य् अस्वतन्त्रोपलक्षणार्थत्वात् सर्व एव ते गृह्यन्ते । स्वधनदानादि स्वामिनम् अनुज्ञाप्य यत् कुर्वन्ति तत् सिध्यति । तथा च नारदः-
-
यद् बालः कुरुते कार्यम् अस्वतन्त्रकृतं च यत् ।
-
अकृतं तद् इति प्राहुः ॥ (न्स्म् १.३५) इति
-
अस्वतन्त्रः स्मृतः शिष्य आचार्ये तु स्वतन्त्रता ।
-
अस्वतन्त्राः स्त्रियः पुत्रा दासाद्यश् च परिग्रहः ॥
-
स्वतन्त्रस् तु423 गृही यस्य तस्य तत्424 स्यात् क्रमागतम् ॥ (न्स्म् १.२९–३०)
-
ननु यदि न स्वातन्त्र्यं स्त्रीणाम् उच्यते, पुंसश् च स्वातन्त्र्यम्, एतद् अनुपपन्नम् । यतः साधारणं धनम् । कथम् एकाकी मनुष्यो भार्ययाननुज्ञातो दानविक्रयादिभ्यः प्रभवेत् ।
-
अत्रोक्तम्425 ।
- स्त्रीकृतान्य् अप्रमाणानि कार्याण्य् आहुर् अनापदि । इति । (न्स्म् १.२२)
तथा “कुले ज्येष्ठः” इत्य् उपक्रम्य, “तत्कृतं स्यात् कृतं कार्यं नास्वतन्त्रकृतम् कृतम्”426 (न्स्म् १.३८) इति च । धनसाधारण्ये हि पुरुषो ऽपि स्त्रीवद् अस्वतन्त्रः । यच् छब्दे स्वाम्यं पारतन्त्र्यं चेति तद् विरुद्धम् इव, स्वामित्वम् अत्र एता427 च व्यवस्था इति योज्यं भवति । पारतन्त्र्यं परविधेयता तदिच्छानुवर्तित्वम् । यदि च परतन्त्रः परेच्छाम् अन्तरेण विनियोक्तुं न लभते, कीदृशम् अस्य स्वाम्यम्428 । अथ दानाधानविक्रये यत्र प्रकृतत्वाद् अनीशाः । स्वशरीरे परिभोगादौ यावदिच्छं स्वधनं429 विनियोज्यते, परतन्त्रमहाधनानां430 शास्त्रनिगृहीतात्मनां द्विजानां येनात्मोपभोगो431 भवेत् । बालस्य स्वाम्यपारतन्त्रे उपपन्ने432 । यदा प्राप्तव्यवहारस् तदा ईशिष्यते433 । एवं पुत्रादाव् अपि434 । स्त्रियास् तु न कदाचिद् अपारतन्त्र्यम् ।
-
बालया वा युवत्या वा वृद्धया वापि योषिता ।
-
न स्वतन्त्रेण कर्तव्यं कार्यं किंचिद् इति स्थितिः ॥ (म्ध् ५.१४५)
-
स्वाम्यपारतन्त्र्ये स्त्रीणां समावेश435 उच्यते । न पारतन्त्रवचनेन स्त्रीणां स्वधनविनियोगनिषेधः क्रियते । किं तर्हि, अस्थाने दानाधानविक्रयादि वार्यते । परतन्त्राः, आसां स्थानं निरूपणीयम्, न हि ताः436 स्वयं विवेक्तुम् अलम् — एष पात्रम् अर्हति भूमिहिरण्यादिप्रतिग्रहम्, अनेन कन्यासंबन्धं कुर्यात्, इदं द्रव्यम् अस्मात् क्रेतुं437 विक्रेतुं वार्हतीत्य् एवमादितया438 ज्ञातव्यम् । अतो लेख्यादिकाले भर्त्राद्यनुमतिर् उपयुज्यते । केवला कृते कार्ये “नाहं किंचिज् जानामि,439 त्वया विप्रलब्धास्मि” इति वचनस्यावसरत्वात् । भर्त्राद्यनुमतौ तु किं वक्ष्यति । तद् उक्तम् ।
-
एतान्य् अपि प्रमाणानि भर्ता यद्य् अनुमन्यते ।
-
पुत्रः पत्युर् अभावे वा राजा वा पतिपुत्रयोः440 ॥ (न्स्म् १.२३)
अस्वातन्त्र्यम्441 अपि नियमितम् ।
- अनुशिष्टा विसर्गे च विक्रये चेश्वरा442 मता । (न्स्म् १.३४)
अपि बुद्धिपूर्वे443 बालस्खलिते444 स्वामिना पत्न्यादयो नियोज्या अनुबन्धादिना, न तु445 स्वाम्यविसर्गे ऽपि ।
- सा सद्यः संनिरोद्धव्या त्यजेद् वा कुलसंनिधौ । (म्ध् ९.८३)
इति स्त्रीणाम् एव न पुंसः पारतन्त्र्यम्, पतितस्याप्य् आ प्रायश्चित्तसमाप्तेः प्रतीक्षणोपदेशः । अतो न446 विक्रयो ऽपि दासादीनां गरीयस्याम् आपदि कुत्रचिद् अस्ति । तेषु स्वामिन इत्य् एतद् अपेक्ष्य । भार्याशिष्यदासीनां यथास्वं पारतन्त्र्यं । धनसाधारण्यात् तु न भर्तुर् अनुज्ञां विना447 भार्याया यागादौ क्वचिद् अधिकार इति स्थितम् ।
-
यच् चेदम्,
-
पुत्राणां भर्तरि प्रेते वशे तिष्ठतु448 सा तथा । (?)
-
जीवतोर् अस्वतन्त्रः स्याज् जरयापि समन्वितः । (न्स्म् १.३२)
-
तयोर् अपि पिता श्रेयान् अभावे बीजिनो मता449 ॥ (न्स्म् १.३३)
इति अनेन पुत्राणां पारतन्त्र्यम्, ननु चान्योन्यव्याहृतम् इति ।
- नास्ति व्याघातः । अनधिकारिणि पुत्रे बाले मातृपरतन्त्रता । मातुस् तु पुत्रे पारतन्त्र्यम् । मातृधनरक्षणं चोरादिदोषेभ्यः । पुत्रस्यापि यत् पितरि पारतन्त्र्यं तद् अपृथक्कृतस्य450 तद्गृहे451 निवसतः452 । यदा तु पितृविभक्तो453 धनं स्वयम् अर्जितवांस्454 तदा
- ऊर्ध्वं तु षोडशाद् वर्षात् पुत्रं मित्रवद् आचरेत् ।
इति स्वातन्त्र्यम् एव ।
बालो ऽप्राप्तव्यवहारः षोडशवर्षात् प्राक् ।
स्थविरो लुप्तस्मृतिः जराभिभूतो ऽतीतव्यवहारः । यद्य् अप्य् अयं कस्यांचिद् वेलायां प्रकृतिस्थो ऽपि भवति तथापि न प्रमाणम् अप्रत्ययात् । यस्य तु भर्तुः स्त्री जनानां कार्यप्रतिबन्धेन वर्तते तयानुज्ञातम् एतद् भवति ।
असंबद्धकृतः[^४५५] । परार्थम् अनियुक्तो यो व्यवहारयति, न भ्राता न पिता, “देवदत्ताय शतं धारयति” इत्येवमादि वक्तुं न लभ्यते । ये तु भ्रातरः समानकार्याः सर्वे च तुल्यव्यवहारिणस् तेषाम् अन्यतरेणापि गोपश्वादिविक्रयो गृहादिबन्धनप्रयोगादि च क्रियमाणं सिध्यति, संबन्धित्वात्[^४५६] ।
व्यवहारशब्दः सर्वव्यवहारग्रहणार्थः । प्रकरणाद् ऋणव्यवहार एव स्यात् ॥ ८.१६३ ॥
सत्या न भाषा भवति यद्य् अपि स्यात् प्रतिष्ठिता ।
बहिश् चेद् भाष्यते धर्मान् नियताद् व्यावहारिकात् ॥ ८.१६४ ॥
मेधातिथिः ...{Loading}...
कस्यचिद् अनुष्ठेयस्यार्थस्य प्रतिपादकः शब्दो भाषा सामान्येन भवति । यो ऽर्थस् तया प्रतिपाद्यते, सो ऽनुष्ठेयः । किं सर्वापि भाषा455 न सत्या । नेत्य् आह । बहिश् चेद् धर्मात् — धर्मबाह्यं यद् उच्यते शास्त्राचारविरुद्धम् — पञ्चकाद् अधिका वृद्धिः, भार्यापत्य्विक्रयादिः, अन्वयिनः सर्वस्वदानम् इत्य् एवमादि । यद्य् अपि स्यात् प्रतिष्ठिता456 पत्रलिखिताः प्रतिभुवो वा दत्तास् तथापि न सिध्यति । व्यावहारिको धर्म आचारनिरूढः । नियतो ऽनादिर् नेदानींतनः । पूर्वशेषं चैतत् । अस्वतन्त्राप्रकृतिस्थैः कृतं दानाद्यनिश्चितम् इति न प्रमाणम् ॥ ८.१६४ ॥
योगाधमनविक्रीतं योगदानप्रतिग्रहम् ।
यत्र वाप्य् उपधिं पश्येत् तत् सर्वं विनिवर्तयेत् ॥ ८.१६५ ॥
मेधातिथिः ...{Loading}...
योगः छद्म । तेन यद्457 आधमनं458 बन्धकार्पणं कृतम्459 एतच् च ज्ञायते असत्यकार्यं460 कृतम् इति461 । तद् राजा विनिवर्तयेत् । कश्चिद् धनिकेनोपरुध्यमान आह “न मे किंचिद् अस्ति” इति462 । “ननु क्षेत्रं स्थण्डिलं वासो ऽस्ति तद्463 अर्पय” इत्य् अनया शङ्कया गुह्यं स्वजनाय464 कस्मैचिद् असाव् आधानीकरोति । तत आह “तद् अन्यस्य मया बन्धकीकृतम्” इति । एतच् च ज्ञायते । सत्य् अपि प्रकाशलेख्ये तस्य आधातृतायोगात् । यदि हि परमार्थतयाधित्वेन कृतं कथम् आधातैव465 भुङ्क्त इति । एवंविधं योगाधमनम्466 अप्रमाणीकृत्य धनिने क्षेत्रादि दापयितव्यो ऽधर्मर्णः । यस्य चान्येनागमेन स्वाम्यं धनदानकाल आगमान्तरेण करणं करोति तद् अपि योगाधमनम्467 । तत्राधर्मर्णो यस्य वानेनागमेन स्वाम्यं कल्पितः468 सत्यम् आगमं कारयितव्यः ।
एवं विक्रयादि ।[^४७१] यो ऽल्पेन मूल्येन महार्घम् अर्थं[^४७२] विक्रीणीते, यो वा नैव मूल्यं क्रेतुर् आदत्ते, यच् चाह-[^४७३] “ते इह[^४७४] विक्रीतं मया तवेदम्” इति, स उत्तरकालम् “विक्रीतं त्वया ममेदम्[^४७५]” इति “गृहाण मूल्यम्” इति[^४७६] न लभते वक्तुम् । न चायं विक्रयानुशयो दशाहात् परेणापि निवर्तयेद् इति । यो वाप्तेन क्राययति पूर्वोक्ते निमित्ते[^४७७] सति निमित्तान्तरे वा सति विक्रीणीते न च रूपकादिभिः क्रयो ऽपहर्तव्यव्यवहारे[^४७८] दृश्यते न च रूपकादिसंचयशील इत्यादिना योगविक्रयाधिगमः ।
योगदानप्रतिग्रहम् । यद्469 उभवस्वामिकम् अन्यतरेण470 प्रतिग्रहीत्रा सह संविदं कृत्वा दीयते,471 एवमादि योगदानप्रतिग्रहम् । दानं च प्रतिग्रहश् चेति विगृह्य द्वन्द्वैकव्यवहारः ।472 यद्य् अपि दानप्रतिग्रहक्रिययोर् अन्यतरोपादानेनैवेतराक्षेपः — न्यथास्वरूपासिद्धेः — तथापि क्रियाद्वयोपदानं वृत्तपूरणार्थम् । अथ वैकक्रियोपादाने तत्कारिण एव दण्डः स्यात्, न द्वितीयस्य, सत्य् अपि तत्साधनत्वे शब्देनानुपादानात् । अतो दातुः प्रतिग्रहीतुर् द्वयोर् दण्डार्थं भेदेनोपादानम् ।
- तथा सति योगाधमनविक्रीतम् इत्य् अत्रापि क्रयादिद्वितीयक्रियोपादानं कर्तव्यम् ।
न कर्तव्यम्[^४८३] ।स्मृत्यन्तराद् वा सामान्यशास्त्राद् वानुपादाने दण्डः स्यात् ।
यत्र वाप्य् उपधिं पश्येद् इति । उपधिः छद्म । अनेनैव473 अन्यत्राप्य् एताभ्यः क्रियाभ्यः उपधिर् निवर्त्यः । यथा कश्चिद् धनिनोक्तः- “यावद्474 इयद्भिर् अहोभिर् दातव्यम् इति प्रतिभुवं न स्थापयसि, तावत् त्वां न त्यक्ष्यामि” इति । तस्मिंस् तूष्णीभूते कश्चिद् उत्तमर्णेन सह संविदं करोति “माम् अस्य475 प्रतिभुवं गृहाण यावद् एनम् उपपीडयामि बह्व् अनेन ममापक्र्तम् अहम् अस्य पीडार्थ एव प्रतिभूर् न मया किंचिद् दातव्यम्” इति, तत्रोत्तमर्णः प्रकाशम् आह “यद्य् अन्यस् ते प्रतिभूर् नास्ति, कर्मादिकं न प्रार्थयसे, नूनं जिहीर्षितं ते धनम्” । स पीडितः प्रत्याह “नैतेन सह ममेदृशो व्यवहारः प्रवृत्तपूर्व्ः” इति । प्रतिभूः पुनर् आह “भवानि तवाहं प्रतिभूः” । सो ऽनिछन् पीडोपरोधाद् आह “यथेच्छसि तथा कुरु” । नास्य पूर्वक्रियास्व् अन्तर्भावः ।
- एवं कृषिवाणिज्यशिल्पारम्भादिक्रियाः एतद्व्यतिरेकिण्यः प्रतिदर्शनीयाः । उदाहरणमात्रं दानाधमनविक्रयाः ।
तद् एतद् योगकृतं कार्यं यावत् किंचन तत् सर्वं राजा निवर्तयेत् । राजा कृतम् अप्य् अकृतम् आदिशेन् न प्रमाणीकुर्यात् । कर्तारं कारयितारं च दण्डयेत् ॥ ८.१६५ ॥
ग्रहीता यदि नष्टः स्यात् कुटुम्बे च[^४८७]** कृतो व्ययः ।**
दातव्यं बान्धवैस् तत् स्यात् प्रविभक्तैर् अपि स्वतः ॥ ८.१६६ ॥
मेधातिथिः ...{Loading}...
उक्तं येन गृहीतम् ऋणं तेन प्रतिदातव्यम् । तदभावे पुत्रपौत्रैस् तदभावे तदृक्थग्राहिणा476 । न तद्व्यतिरेकेनान्यस्य477 दानं प्राप्तम् इष्यते । अत्रे क्वचिद् विषये तदर्थम् इदम् उच्यते । येन गृहीतं धनं स चेन् नष्टो मृतो देशान्तरं गतो वा — कुटुम्बे478** च कृतो व्ययः** — दातव्यं बान्ध्वैस् तद् भ्रातृतत्पुत्रपितृव्यादिभिः प्रविभक्तैर् विभक्तधनैर् अपि स्वतः स्वध्नाद् इत्य् अर्थः । यावद् भ्रातरः सह वसन्ति तेषां यद् ऋणम् उपजातं तद् गृहमध्याद् एव दीयते । तच्छिष्टे479 ऽस्य विभागः । यथोक्तम् ।
-
पितृव्येणाविभक्तेन भ्रात्रा वा यद् ऋणं कृतम् ।
-
मात्रा वा यत् कुटुम्बार्थं दद्युस् तत् सर्वम् ऋक्थतः480 ॥ इति ।
अविभक्तानाम् अन्यतमेन यत् कुटुम्बार्थम् ऋणं कृतं तद् भ्रातृपितृव्यतत्पुत्रादयः सर्वे दद्युर् न त्व् अकुटुम्बार्थम् इत्य् अर्थः । अविभक्तग्रहणात् तेषाम् एव तथाविधम् ऋणं संभवेत् प्रायः । न हि प्रविभक्ताः481 परकीयकुटुम्बभरणार्थम्482 ऋणं गृह्णन्तो दृश्यन्ते । अतः483 प्रविभक्तैर् अपीत्य् आह ¦ अपिशब्दाद् अविभक्तैश् च । यदि कश्चिद् भ्रातॄणां विभक्तानां स्वकुटुम्बभरणम् अकृत्वा प्रवसेद् इतरश् च महासत्वतया तदीयं कुटुम्भं बिभृयात्, तत्र विभकेनापि भ्रात्रा पितृव्येण वा यद् ऋणं कृतं तद् इतरो दद्याद् एव देशान्तरागतः ॥ ८.१६६ ॥
कुटुम्बार्थे ऽध्यधीनो ऽपि व्यवहारं यम् आचरेत् ।
स्वदेशे वा विदेशे वा तं ज्यायान् न विचालयेत् ॥ ८.१६७ ॥
मेधातिथिः ...{Loading}...
तिष्ठन्तु तावद् भ्रात्रादयः । कुटुम्बार्थे ऽध्यधीनो ऽपि484 गृहभृत्यो485 ऽपि व्यवहारं गोपश्वादिविक्रयं क्षेत्रस्थण्डिलादिप्रयोगं कर्षणाय ऋणं व्यवहारं वा यम् आचरेत् स्वदेशे विदेशे वा संनिहितस्य प्रोषितस्य वा, तं ज्यायान् गृहस्वामी न विचालयेत् अविचार्यैव साधु कृतम् इत्य् अनुमन्येत ।
-
अन्ये तु पूर्वशेषो ऽयम् अर्थवादो न विधिर् इत्य् आहुः ।
-
तद् उक्तम् । न ह्य् अर्थवादताबीजं किंचिद् अस्ति । विभज्यमानं साकाङ्क्षम् ऋणम् अत्र486 यत्तच्छब्दाभिसंबन्धात्487 ।
अथ “मत्तोन्मत्तार्ताध्यधीनैः” (म्ध् ८.१६३) इत्य्[^५००] अस्वातन्त्र्याद् अध्यधीनस्य,[^५०१] तत्कृतम् अप्रमाणम्[^५०२] इति । अकुटुम्बार्थे संनिहिते[^५०३] च स्वामिनि न युक्तं कल्पयितुम् । अन्यथा कुटुम्बावसादः स्यात् । अतस् तद्भरणात्मके व्यापारे प्रमाणीभवति दैवाद् अधीनः[^५०४] ॥ ८.१६७ ॥
बलाद् दत्तं बलाद् भुक्तं बलाद् यच् चापि लेखितम् ।
सर्वान् बलकृतान् अर्थान् अकृतान् मनुर् अब्रवीत् ॥ ८.१६८ ॥
मेधातिथिः ...{Loading}...
यथा न बालास्वतन्त्राप्रकृतिस्थोपधिकृत्ं प्रमाणं तद्वद् बलकृतम् अपि । सर्वान् बलकृतान् अर्थान् निवर्त्यान्488 इत्य् एव विधिः । भुक्तं दत्तं लेखितम्489 इत्य् उदाहरणमात्रम् । तत्र बलाद् दत्तं यद् अनुपयुज्यमानं क्षेत्रारामादि वाहनाय दीयते वृद्धिकामो वा यद् धनं बलाद्490 आरोपयति भारवाहनम् अनिच्छतां गृहेषु मूलार्पणं पण्यम् अश्नुते । लेखितं पत्रकरणम् । सर्वान् इत्य् अन्यान् अप्य् एवंविधान् अर्थान् कार्याणीत्य् अर्थः । “योगाधमनम्”491 (म्ध् ८.१६५) इति अत्र निपुणं दर्शितम् अत्रापि श्लोके समस्य योगबले शक्ये492 प्रक्षेप्तुं पृथक् श्लोकद्वयकरणम् । विचित्रा श्लोकस्य कृतिर् मनोः ।
न498 सिद्ध्यत्य् एव न मानवद् भवति ॥ ८.१६८ ॥
त्रयः परार्थे क्लिश्यन्ति साक्षिणः प्रतिभूः कुलम् ।
चत्वारस् तूपचीयन्ते विप्र आढ्यो वणिङ् नृपः ॥ ८.१६९ ॥
मेधातिथिः ...{Loading}...
परेणार्थ्यमाने साक्ष्यं प्रातिभाव्यं व्यवहारेक्षणं499 च कर्तव्यम् कुलादिभिः, न स्वयम् उपेत्य हट्ःआत् । अतः स्वयं कुर्वन्तो न प्रमाणीभवन्ति । अथ वा परस्यार्थं कुर्वन्तः क्लेशम् आप्नुवन्ति । न ह्य् एषां स्वार्थगन्धो ऽस्ति । अतो बलान् न कारयितव्याः । कुलं वृद्धपुरुषाः500 ।
- परेण वार्थ्यमाना विप्रादय उपचीयन्ते । अतो न हठाद् अनिच्छन् विप्रः प्रतिग्रहीतव्यः501 । अथ वा परसंबन्धिनो ऽर्थायोपचयो विप्रस्य — अतः स्वार्था प्रवृत्तिर् न परार्थैव — तेन विप्रेण न बलात् तद्दानादाने502 प्रवर्तनीयम् । हठबलसाध्यं503 दानम् इति लोकप्रवादो न दापयन्तं निषेधति, तद् इच्छन्तं दापयेत् । याच्ञया तु504 बलम् ।
- एवम् आढ्यः कुशीदवृत्तिर् धनवान् इव न प्रयोजनीयः । किम् इति कुसीदं व्यवहारे ऽन्यस्मै ददाति न मह्यम् इति । अथ वा तेन बलतो505 ऽन्यस्मिन् नेच्छति506 तद् व्ययं कुर्वति507 न508 धनम् आरोपयितव्यम् । यतः परेणार्थ्यमान उपचीयते न बलात् प्रयुञ्जानः, शास्त्रनिषेधात् ।
एवं वणिक् कुसीदी[^५२६] धनवृद्धिकाम एव व्यवहारयति । वणिक् पण्यजीवी ।
नृपो राजापि प्रयुक्तराजदण्डम् आददान उपचीयते । न तु बलादिप्रोत्साहनेन व्यवहारयन् । तद् उक्तम् “नोत्पादायेत्509 स्वयं कार्यम्” (म्ध् ८.४३) इति ।
विप्रादीनां विधिर् अनुवादो राज्ञो दृष्टान्तार्थः । अथ वा सर्वस्योदाहरणप्रपञ्चः, तथाग्रेतनो ऽपि ॥ ८.१६९ ॥
अनादेयं नाददीत परिक्षीणो ऽपि पार्थिवः ।
न चादेयं समृद्धो ऽपि सूक्ष्मम् अप्य् अर्थम् उत्सृजेत् ॥ ८.१७० ॥
मेधातिथिः ...{Loading}...
करदण्डशुल्कादि शास्त्रविहितं वर्जयित्वान्यत् पौरधनम् अनादेयं राज्ञः510 क्षीणकोशस्यापि । यत् तु शास्त्रन्यायागतं रक्षानिर्वेशधनं तत् सूक्ष्मं कार्षापणमात्रम् अपि न त्यजेत् । तद् उक्तम्-
वल्मीकपथवद् राजा कोशवृद्धिं तु कारयेत् । इति ॥ ८.१७० ॥
अनादेयस्य चादानाद् अदेयस्य च वर्जनात् ।
दौर्बल्यं ख्याप्यते राज्ञः स प्रेत्येह च नश्यति ॥ ८.१७१ ॥
मेधातिथिः ...{Loading}...
अनादानार्हम् अनादेयम् । “अर्हे कृत्यः” (पाण् ३.३.१६९) । तच् च दर्सितम् । दौर्बल्यं ख्याप्यते प्रकृतिभिः511 “अस्मान् दण्डयति, स्तेनाटविकसामन्तादीन् न शक्तो विजेतुम्” इति । परेष्व् अशक्तिं512 प्रथयन्ति राष्ट्रीयाः । अतस् तैर् अभिषेण्यमानो विरक्तप्रकृतिर् इह नश्यति । आदानाद् इह, प्रेत्य च अधर्मदण्डनात्513 ॥ ८.१७१ ॥
स्वादानाद् वर्णसंसर्गात् त्व् अबलानां च रक्षणात् ।
बलं संजायते राज्ञः स प्रेत्येह च वर्धते ॥ ८.१७२ ॥
मेधातिथिः ...{Loading}...
स्वस्य न्यायप्राप्तस्य्आदानम्, शोभनं वादानम् । भव्यम् एव शोभनम् । वर्णयोर् एव संसर्गः समानजातीयैर् वर्णसंसर्गः । द्विष्ठत्वात् संसर्गस्य च संबन्धिनोर् अश्रुतत्वाद् वर्णानां प्रस्तुतत्वात् तत्रैवापेक्षा युक्ता । यस् तु वर्णानाम् अवान्तरप्रभवैः514 संसर्गो नासौ वर्णानाम् एव संबन्धितया व्यपदेष्टुं शक्यते ।
कश्चित् तु नकारं पठति- “वर्णासंसर्गात्” इति । सर्वथा वर्णसंकरप्रतिषेधानुवादो ऽयम् । दुर्बलानां बलवद्विद्वेशिभिर् अभिभूयमानानां तेभ्यस्[^५३३] त्राणाद् धेतोः ।
राज्ञो बलं संजायते । सम्यग्व्यवहारदर्शनं कर्तव्यम् अधर्मदण्डनं[^५३४] च न कर्तव्यम् इत्य् एतद्विशेषाः पठिष्यन्ते श्लोकानाम् अर्थवादाः ॥ ८.१७२ ॥
तस्माद् यम इव स्वामी स्वयं हित्वा प्रियाप्रिये ।
वर्तेत याम्यया वृत्त्या जितक्रोधो जितेन्द्रियः ॥ ८.१७३ ॥
मेधातिथिः ...{Loading}...
तथा चैतद् एव प्रपञ्चयति । अयं सेवक आत्मीयः, अतः प्रियः, अयं च515 केवलं राष्ट्रवासी, यस्यैव राष्ट्रं तम् एवावतिष्ठते, अतो ऽप्रियः । तद् हित्वा516 यमवत् प्रजासु तुल्यः परिपालने व्यवहारे च स्यात् । ईदृशी हि यमस्य वृत्तिर् दृष्टा । यमस्येत्य् अणो बाधकं तत्रौपसंख्यानिकं यकारम् इच्छन्ति । कः पुनर् यमतुल्यतां भजति, जितक्रोधो जितेन्द्रियः । रागद्वेषौ जयेत्, प्रत्यासङ्गाख्यानेन517 ॥ ८.१७३ ॥
यस् त्व् अधर्मेण कार्याणि मोहात् कुर्यान् नराधिपः ।
अचिरात् तं दुरात्मानं वशे कुर्वन्ति शत्रवः ॥ ८.१७४ ॥
मेधातिथिः ...{Loading}...
अधर्मेण यः कार्याणी कुरुते स मोहाद् एवेह व्यामूढो धर्मं जह्यात् । तस्येदम् अधर्मजं518 फलम्- विरक्तप्रकृतितया वशे कुर्वन्ति शत्रवः । विरक्ता हि प्रकृतयः क्रुद्धलुब्धभीतावमानिताः परैर् उपजप्येरन् । ततश् च बहुकृत्वो519 वशे कुर्वन्ति । दण्डयन्ति बध्नन्ति घ्नन्ति राष्ट्रम् अपहरन्ति चेत्य् एष वशीकारः ॥ ८.१७४ ॥
कामक्रोधौ तु संयम्य यो ऽर्थान् धर्मेण पश्यति ।
प्रजास् तम् अनुवर्तन्ते समुद्रम् इव सिन्धवः ॥ ८.१७५ ॥
मेधातिथिः ...{Loading}...
सिन्धवो नद्यो यथा समुद्रम् आश्रयन्ति, आश्रिताश् चानुरागिण्यस् तन्मय्यो वसन्ति, न ततो निवर्तन्ते, एवं कामक्रोधजयाद् राजानं प्रजाः समयोगक्षेमास् तन्मय्यः संपद्यन्ते ॥ ८.१७५ ॥
यः साधयन्तं छन्देन वेदयेद् धनिकं नृपे ।
स राज्ञा तच्चतुर्भागं दाप्यस् तस्य च तद् धनम् ॥ ८.१७६ ॥
मेधातिथिः ...{Loading}...
छन्द इच्छा । तेन राजानम् अज्ञापयित्वा यदा प्रागुक्तैश् चतुर्भिर् उपायैः स्वेच्छया520 धनमार्गेण प्रवृत्तं तथाभूतं वा राजपुरुषैर्521 आह्वानयेत्, अहम् अनेनैतत्प्रदेशे रुध्ये, देहि धनम् इति522 । स च पृष्टो523 धारयामीति यत् प्रतिपद्यते, स राज्ञा चतुर्थं भागं दण्डापयितव्यः । यावत् तस्मै धारयति तस्य तत्र सर्वम् ऋणं दाप्यः524 । शतं चेद् धारयति पञ्चविंशतिर् दण्डनीयः । शतं तस्य दाप्यः । एवं पञ्चविंशतिः525 । न त्व् इयं भ्रान्तिः कर्तव्या- शते526 राज्ञः पञ्चविंशति शिष्टं धनिकस्य । धनिको हि तथा दण्डितः स्यान् नर्णिकः ॥ ८.१७६ ॥
[^५४७]कर्मणापि समं कुर्याद् धनिकायाधर्मर्णिकः । समो ऽवकृष्टजातिस् तु दद्याच् छ्रेयांस् तु तच् छनैः ॥ ८.१७७ ॥
मेधातिथिः ...{Loading}...
For verse 177, G gives the following which is NSm 1.112: अथ शक्तिविहीहः स्यात् ऋणी कालविपर्ययात् । प्रेक्ष्यश् च तम् ऋणं दाप्यः काले देशे यथोदयम् ॥ ८।१७७ ॥ And then gives the following commentary: यद्य् अधमर्णो दैवदोषान् निर्धनीभूतस् तदा न दुर्गादानादिना राज्ञोपपीडयितव्यः । किं तर्हि कर्तव्यं यदास्य कथंचिद् धनं भवेत् तदा यथासंभवं शनैर् दापयितव्यः । प्रेक्ष्य शक्तिं धनवृत्तां युज्यत इत्य् अर्थः । दाप्यः उचितस्य वक्ष्यति “कर्मणापि समः कुर्यात्” इति । तस्मात् कारणपरिवृत्तौ यद् एवोक्तम् अस्माभिस् तदैव प्रयोजनम् ॥ ८।१७७ ॥
निर्धनो ऽधमर्णो निर्धनत्वान् न मुच्यते । किं तर्हि, कर्म कारयितव्यः । प्रेष्यत्वं व्रजेत् । यावता धनेन तत् कर्म कर्मकरः करोति, तत् तस्य प्रविष्टं संपद्य्527 अपि कर्तव्यम् ।
M J: saṃsady
कर्म कुर्वतश् च सलाभधने प्रविष्टे दास्यान् मोक्षः । समं कुर्यात्, उत्तमर्णेन । अनन्तरं[^५४९] शुद्धे धने नोत्तमाधमव्यवहारः । इतरथैक उत्तमर्णो ऽपरो ऽधमर्ण[^५५०] एतच् च कार्यते । ब्राह्मणवर्णः[^५५१] समः, समानजातीयः, अवकृष्टजातिर् हीनजतीयः । श्रेयांस् तूत्तमजातीयो गुणाधिको वा । शनैः क्रमेण यथोत्पादं दद्यात् । नारदे पठ्यते- “ब्राह्मणस् तु परिक्षीणो शनैर् दद्याद् यथोदयम्[^५५२]” (न्स्म् २.४३) इति । अतो राज्ञा धनिकधनसंशुद्ध्यर्थं परिक्षीणो ब्राह्मणो न पीडयितव्यः, उत्तमर्णश् च रक्षणीयः ॥ ८.१७७ ॥
अनेन विधिना राजा मिथो विवदतां नृणाम् ।
साक्षिप्रत्ययसिद्धानि कार्याणि समतां नयेत् ॥ ८.१७८ ॥
मेधातिथिः ...{Loading}...
अनेनेति पूर्वोक्तप्रकारप्रत्यवमर्शः । विधिना प्रकारेण । साक्षिप्रत्ययसिद्धानि528 । सिद्धशब्दः प्रत्येकम् अपि संबध्यते529 । साक्षिभिः सिद्धानि निर्णीतानि । प्रययः अनुमानं दैवी वा क्रिया । कार्याणि न केवलम् ऋणादानम् अन्यद् अपि । समतां नयेत्530 । अर्थिप्रत्यर्थिविप्रतिपत्तिम् अपाकुर्याद् ऐक्यमत्यम्531 उत्पादयेत् ।
उपसंहृतम्[^५५७] ऋणादानम् । समाप्तो व्यवहारः, सर्वत्र जयपराजयप्रकाराणाम् एवंरूपतवात् । न हि साक्ष्यादिभ्य ऋते किंचिद् उत्तरेषु विवादेषु प्रतिपत्तिनिरासनिमित्तम् । केवलं दण्डविशेषस् तत्स्वरूपं च वक्तव्यम् इत्य् उत्तरः प्रपञ्चः । कीदृशो ऽस्वामिविक्रयः कीदृशो ऽनुशय इति स्वरूपं व्यवस्थाप्यते ॥ ८.१७८ ॥
कुलजे वृत्तसंपन्ने धर्मज्ञे सत्यवादिनि ।
महापक्षे धनिन्य् आर्ये निक्षेपं निक्षिपेद् बुधः ॥ ८.१७९ ॥
मेधातिथिः ...{Loading}...
प्रख्याताभिजनः कुलजः । यस्य पितृपितामहा विद्वांसो धार्मिका महापरिग्रहाः स्वकुलांशनिगृहीता532 नाकार्ये प्रवर्तन्ते । स हि स्वल्पाम् अपि गर्हणां सोढुम् असमर्थः । नितरां न533 च निन्दन्ति जनाः । वृत्तं शीलम् आचारो जनापवादभीरुता स्वाभाविकम् । संपन्नः तद् युक्तः । धर्मज्ञस् तु स्मृतिपुराणेतिहासाभ्याससंजाततदर्थावबोधः । सत्यवादी बहुकृत्वः कार्येष्व् अदृष्टाकार्ये534 संभाव्यमानो वृत्ताभिधानः । महापक्षः सुहृत्स्वजनराजामात्याद्यनुग्रहीतमहिमत्त्वेन535 दुष्टराजाधिकारिणां गम्यो न भवति । धनी स्वधनरक्षार्थम् अदृष्टभयाच् च न परद्रव्यापहारणे वर्तते- “अस्ति मे पर्याप्तं धनं किं परकीयेन, कथंचिज् ज्ञाते दण्ड्यः स्याम्” इति । आर्यो धर्मानुष्ठायी ऋजुप्रकृतिर् वा । निक्षेपम्536 । निक्षिप्यमाणं सुवर्णादिद्रव्यं कर्मसाधनेन घञोच्यते । निक्षिपेद् रक्षार्थं स्थापयेद् बुधः । एवं निक्षिपन् प्राज्ञो भवति । अन्यथा मूर्खः संपद्यते ।
सुहृद् भूत्वोपदिसति दृष्टम् । नायम् अदृष्टार्थो ऽष्टकादिवद् उपदेशः । ईदृशि पुरुषे निक्षिप्तस्य न विप्रलयो[^५६३] भवति, एवंविधे न निक्षिप्तम् अनेनेति शङ्का न भवति । यस् तु नग्नकितवपानशौञ्डादिः स केनचिद् आकृष्टो ऽपि मत्पित्रास्य[^५६४] हस्ते निक्षिप्तं मया चेति न शङ्कास्पदम्, सुवर्णादेर् महतो धनस्य निक्षेपधारक इति । काकणी मात्रिकेभियुज्यमाने[^५६५] भवत्य् एव ॥ ८.१७९ ॥
यो यथा निक्षिपेद् धस्ते यम् अर्थं यस्य मानवः ।
स तथैव ग्रहीतव्यो यथा दायस् तथा ग्रहः ॥ ८.१८० ॥
मेधातिथिः ...{Loading}...
यथेति, यादृशेन प्रकारेण समुद्रम् अमुद्रं ससाक्षिकम् असाक्षिकम् इत्य् एवमादि, स तथैवेति । सो ऽर्थो निक्षिप्तस् तथैव ग्रहीतव्यः । यथा दायो दीयते निक्षिप्यते तथा गृह्यते । यत्रैतन् निश्चितं भवति सर्वकालम् एवास्य हस्ते स मुद्रयित्वा537 स्थापयति । तत्र विप्रतिपत्ताव् अमुद्रिते लब्धे धारणको यदि ब्रवीति “नैष मुद्रयति निक्षिप्य मे बलाद् गच्छति” तत्रैवं शङ्कास्पदं जीयते538 । प्रमाणान्तरात् प्रायशो मुद्रणम् । अन्यदा तु मुद्रानाशे कियद् अपहारितम् इति परिमाणविशेषज्ञानाय प्रमाणान्तरं व्यापारणीयं राज्ञा । अपह्नवाद्539 एव सामान्यदण्डेन दण्डनीयः । निक्षेपदण्डस् तु द्रव्यपरिमाणे निश्चिते द्वितीयः ।
- ननु च सर्वापह्नव एव विभावितो जित एव युक्तः ।
सत्यम् । यत्राविनाभावसिद्धम्, यथा मुषिते ग्रामे देवदत्तो ऽभियुज्यते[^५६९] “त्वयान्यैश् चोरैः सहामुष्मिन्न् अहनि स ग्रामो हतः” इति । स आह “नैव तस्मिन्न् अहनि तं ग्रामम् अहम् अगमम्” । तत्र साक्षिभिर् उक्तम् “दृष्टं तस्मिन्न् अहनि तत्र यन् मुष्टं तत् तु न दृष्टम्” । तत्र देवदत्तेन मोषो[^५७०] ऽप्य् अपह्नुतस् तदहर् ग्रामसंनिधानसिद्धेः । स्फुटे च कारणान्तरे संनिधाव् अनुपलभ्यमाने संनिधानादेशदेशाच् चौरत्वम् अपि युक्तम् अनुमातुम् । इह तु प्रमादनष्टानां नराणां मुद्रितनिक्षिप्तम् अमुद्रितम् एव नीयते ।
यथा दायस् तथा ग्रहः । को मे ऽभियोगावसर इत्य् अनया बुद्ध्या संभवत्य् अपह्नवः । न हि शक्नोत्य् अनुमातुम् । यदापि[^५७१] कथंचिद् अनुमापयेत् परिमाणं तु न विना प्रमाणान्तरं निक्षिप्तवचनाद् एव सिध्यतीति युक्तो दिव्यादितो[^५७२] निश्चयः । सर्वथा य एकदेशान्तरेण न संभवति तत्रैवैकदेशपराजित इति निश्चयः ॥ ८.१८० ॥
यो निक्षेपं याच्यमानो निक्षेप्तुर् न प्रयच्छति ।
स याच्यः प्राड्विवाकेन तन् निक्षेप्तुर् असंनिधौ ॥ ८.१८१ ॥
मेधातिथिः ...{Loading}...
व्यत्यस्तक्रमो ऽयं श्लोकः समाम्नाये पठ्यते । प्रथमम् अस्यार्धश्लोकं पठित्वा “साक्ष्यभावे” (८.१८२) इति पठितव्यं, ततः “स याच्यः” इति । एवं पाठो युक्तः । तथा ह्य् अर्थसङ्गतिर् भवति ।
साक्ष्यभावाद् दिव्येषु प्राप्तेषु वचनम् इदम् । यथा चर्णादानादिषु साक्ष्यभावसमन्तरम् एव दिव्यानि दीयन्ते न तद्वद् अत्र । किं तर्हि चरैर् अस्य वृत्तम् अनुचारयेत् । तत्र यदि निपुणतश् चार्यमाण्ō न क्वचिद् वृत्ते स्कलति तदा न शपथैर् अर्दनीयः[^५७३] । अथाप्य् अत्र प्रमाद्यति तदा निक्षेपहरणसांभावनापि युक्तैव । तदायं[^५७४] दिव्यैः परिशोधनीयः । न पुनर् अनेकनिक्षेपहरणेनापरनिक्षेपहरणं सिध्यति । कदाचिद् गरीयसा प्रयोजनेनैकम् अपहृत्य कृतप्रयोजन[^५७५] उत्पन्नानुशयो वान्यस्य समर्पयति । अतो ऽयं श्लोकसंघातो झट् इति निक्षेपधारणकस्य शपथनिवृत्यर्थो न पुनः प्रमाणोपन्यासः । न च पाड्विवाकनिक्षेपहरणे राजदण्डवद् अनिश्चितापरनिक्षेपहरणे[^५७६] ऽपि प्रथमाभियोक्तुर् दापयितुं युक्तः । अनिश्चिते हि हरणे दाप्येत यदि शास्त्रेण तदा निर्णयार्थं व्यवहारशास्त्रं स्यात् । ततश् च हेतुभिर् निर्णयः कर्तव्य इति विरुध्यते[^५७७] । तस्मान् न शास्त्रीयो ऽयम् अर्थो[^५७८] न च लौकिकी व्यवस्थेति । साक्ष्यभाव इत्याद्युक्तेन प्रकारेणान्यपरतया नेयम्[^५७९] ॥ ८.१८१ ॥
साक्ष्यभावे प्रणिधिभिर् वयोरूपसमन्वितैः ।
अपदेशैश् च संन्यस्य हिरण्यं तस्य तत्त्वतः ॥ ८.१८२ ॥
मेधातिथिः ...{Loading}...
पदार्थयोजनाम् इदानीम् उपसरामः । स याच्यः प्राविवाकेन तन्निक्षेप्तुर् संनिधौ । येन निक्षेप्त्रा540 रहसि स्थापितं साक्षिष्व् असत्सु तस्य याचमानस्य धारणको यद्य् अपह्नुते “न त्वया किंचिन् निक्षिप्तम्” इति, ततो निक्षेप्त्रा541 राजा ज्ञापितो न निक्षेपधारिण आकारं दर्शयेत् । किं तर्हि कुर्यात् । प्रणिधिभिश् चारैर् हिरण्यम् आत्मीयं सुवर्णं रूप्यं वान्यस्य संन्यस्य निक्षिप्य याचितव्यो ऽर्थनीयः द्वितीयं निक्षेपं प्राड्विवाकेन । प्राड्विवाकग्रहणं निर्णयाधिकृतपुरुषोपलक्षणार्थम् । किं साक्षाद् एव याचितव्यः । नेत्य् आह, प्रणिधीनां मुखेन । यैर् एव न्यस्तं वयोरूपसमन्वितैः । वयसा समन्विता542 येन बाला न भवन्ति, तेषां हि परैः प्रेरितानां मद्वञ्चनार्थो न्यास इति संभाव्यते । परिणतवयोभ्यस् तु नाशङ्का543 भवति । एवं रूपसमन्वयो व्याख्येयः । रूपम् एव कस्यचित् तादृशं भवति यस्य दर्शनाद् एव चापलं प्रतिभाति । तथा च रूपम् एतद् व्याचष्टे “भगवन् वीतरागताम्” इति । तेनैतद्544 उक्तं भवति- तादृशाः प्रणिधयः कर्तव्या येषां मद्वञ्चनार्थो ऽयम् उपक्रम इति नाशङ्कते धारणकः । अपदेशैः सव्याजैर् निक्षेपकारणैः । राज्ञोपद्रवग्रामगमनादिभि- “अनेन हेतुना त्वयि संप्रति निक्षिपाम्” इत्य् अनृतसंभवात् कारणकथनम् अपदेशः । एतच् च सर्वं प्राङ् निक्षेप्तुर् असंनिधौ कर्तव्यम् ॥ ८.१८२ ॥
स यदि प्रतिपद्येत यथान्यस्तं यथाकृतम् ।
न तत्र विद्यते किंचिद् यत् परैर् अभियुज्यते ॥ ८.१८३ ॥
मेधातिथिः ...{Loading}...
स यदि निक्षेपधारी यदि प्रतिपद्येत “बाढम् अस्ति, गृहाण” इत्य् अङ्गीकृत्य दद्यात् । यथन्यस्तं तथा कृतं समुद्रम् अमुद्रं यथाकृतं वस्त्रादि संवर्तितम् अमुद्रितम् अन्यद् वा अलंकाराद्यनुपभुक्तं परिमलशून्यं गृहमुद्रया स्वचिह्नेन स्थापितम् । तादृशम् एव चेद् दद्यान् न तत्र विद्यते किंचित् सत्यं545 यत् परैः पूर्ववेदिकैर् अभियुज्यते- “एतेनास्माकीनः साक्ष्यभावान् निक्षेपो ऽपह्नूयते” इति । यथान्यस्तं यथाकृतम् इति गूढागूढचिह्नकृतेन भेदः । अथ वा गृहीतृनिक्षेप्तृव्यापारभेदेन546 भेदः । यथाकृतं यथागृहीतं निर्विकल्पम् अवलंबं च गृहीतं तथैव प्रतिदात्व्यं प्रतिदाने यत्र कालग्रहणं न क्रियेत547 इत्य् अर्थः ॥ ८.१८३ ॥
तेषां न दद्याद् यदि तु तद् धिरण्यं यथाविधि ।
स निगृह्योभयं दाप्य548** इति धर्मस्य धारणा ॥ ८.१८४ ॥**
निक्षेपोपनिधी नित्यं न देयौ प्रत्यनन्तरे ।
नश्यतो विनिपाते ताव् अनिपाते त्व् अनाशिनौ ॥ ८.१८५ ॥
मेधातिथिः ...{Loading}...
प्रत्यनन्तरे551 उत्पत्त्यनन्तर552 उच्यते निक्षेप्तुः पुत्रो भ्राता भार्या वा, यस्य निक्षेप्तुर् द्रव्ये स्वाम्यम् अस्ति — भार्यायास् तावत् स्वाम्यम् उक्तम् एव,553 पुत्रस्यापि पैतामहे भ्रातुश् चैकधनस्य । तत्र तेषां कश्चिद् याचेन् निक्षेप्तर्य्554 असंनिहिते “देहि नो ऽस्माकीनम् एतत्” इति । तत्र कश्चिद् अनया बुद्ध्या दद्यात् “साधारणम् एतद् एकेन निक्षिप्तम् अपरेण नीतम् इति को दोषः” इति । अत उच्यते- न देयौ निक्षेपोपनिधी प्रयनन्तरे । अर्थवादं555 हेतुसरूपम् आह- नश्यतो विनिपाते तौ । विनिपातो ऽन्यथात्वम् प्रत्यनन्तरस्य देशान्तरगमनादि556 । तस्मिन्न् अस्ति तौ हीयेते । यदि तेन नीत्वा निक्षेप्तुर्557 न दत्तं तदा तेन पर्यनुयुक्तस्य धारण्यकस्य किम् उत्तरम् । “त्वदीयेन भ्रात्रैतद् धनं साधारणस्वामिना नीतम्” इति नैतद् उत्तरम् । “यथा दायस् तथा ग्रहः” (म्ध् ८.१८०) इत्य् उक्तम् । येनैव निक्षिप्तं स्वामिनास्वामिना वा तस्मा एव देयं तस्यैवायं प्रपञ्चः । यदि तु प्रत्यनन्तरो विक्रियां न गच्छेत् तदा तद्दाने ऽपि न दोषः । तद् आह** अनिपाते त्व् अनाशिनौ** । तत्र ह्य् अस्त्य् उत्तरं मानशत्558 तस्माद् अर्पयामि । प्रत्यनन्तरेण नीते विनिपाते च तस्य निक्षेप्त्रे याचमानाय559 स्वधनं दातव्यम् इति श्लोकार्थः ॥ ८.१८५ ॥
स्वयम् एव तु यो दद्यान् मृतस्य प्रत्यनन्तरे ।
न स राज्ञाभियोक्तव्यो560** न निक्षेप्तुश् च बन्धुभिः ॥ ८.१८६ ॥**
मेधातिथिः ...{Loading}...
जीवतस् तस्मान् निक्षेप्तुः प्रत्यनन्तरदानं नास्तीत्य् उक्तम् । मृतस्य तु यस् तद् धनम् अस्तीत्य् अविजानते स्वयं दद्यान् न स व्यवहारलेखनादिक्लेशनीयो ऽन्यद् अप्य् अस्ति न वेद वेति । यदि तस्याभविष्यद् अधिकम् इदम् इव तद् अप्य् अदास्यद्561 इति न क्लिश्यते । अत्राप्य् आशङ्का यदि न निवर्तेत “महाधनो ऽसाव् अभून् न चान्येन समं प्रयुज्यते,562” प्रमाणान्तरं निश्चयाय विचारणीयम् । विषाग्न्यादिभिः शपथैर् नार्दनीयः । घटकोशसत्यतण्डुलास् तु न विरुध्यन्ते । न हि ते अतिक्लेशकराः । “साक्ष्यभावे” (म्ध् ८.१८२) इत्य् अत्र द्वितीयो न्यासः । यश् च तयोर् न्यासः स इहापि द्रष्टव्यः ॥ ८.१८६ ॥
अच्छलेनैव चान्विच्छेत् तम् अर्थं प्रीतिपूर्वकम् ।
विचार्य तस्य वा वृत्तं साम्नैव परिसाधयेत् ॥ ८.१८७ ॥
मेधातिथिः ...{Loading}...
(अग्रे व्याख्यानम्।)
निक्षेपेष्व् एषु सर्वेषु विधिः स्यात् परिसाधने[^६०३]** ।**
समुद्रे नाप्नुयात् किंचिद् यदि तस्मान् न संहरेत् ॥ ८.१८८ ॥
मेधातिथिः ...{Loading}...
निक्षेपेषूपचयमनेष्व् अनन्तरोक्तो विधिः “साक्ष्यभावे” (म्ध् ८.१८२) इत्यादिः परिसाधनार्थो563 विज्ञेयः । समुद्रे निक्षेपे ऽन्यद् अप्य् अस्मिन् भाण्डे द्रव्यम् अभून् नाशितं कृमिभिर् इत्यादिकं पर्यनुयोगं नाप्नुयान् निक्षेपधारी तत्र धारणकस्य । एवं मूषकादिनाशे द्रष्टव्यम् । यदि दारुमये भाण्डे वस्त्रादि स्थापितम् तीक्ष्णदशनैर् मूषकैर् दारु भित्वा भक्ष्येत न निक्षेपधारिणो दोषः । तत्रापि वासनपरिवेष्टितः स्थूलपोट्टलको मुद्रितो यदि निक्षिप्येत यत् तदीये दारुभाण्डे नैव माति564 तदा बहिर् मूषकादिभक्षिते ऽपि हि न दोषः । यदि चैतन् निक्षेप्तुर् ज्ञानं भवति, धारकेण परिभाषीतं न मम भाण्डम् अन्यद् अस्ति, चरित्रज्ञो वास्य निक्षेप्ता कदाचित् प्रत्यासन्नो भवति ॥ ८.१८७–८८ ॥
M G: mānti
M G: paramasādhanārtho
चौरैर् हृतं जलेनोडम् अग्निना दग्धम् एव वा ।
न दद्याद् यदि तस्मात् स न संहरति किंचन ॥ ८.१८९ ॥
मेधातिथिः ...{Loading}...
चौरास् तु वेदिता अवेदिता वा सुरङ्गभिदादिना यदि मुष्णीयुः, कृतरक्षासंविधाने धारणिके स्वामिन एव नाशः । जलेनोढम् उदकेन देशान्तरं नीतम् ॥ ८.१८९ ॥
निक्षेपस्यापहर्तारम् अनिक्षेप्तारम् एव च ।
सर्वैर् उपायैर् अन्विच्छेच् छपथैश् चैव वैदिकैः ॥ ८.१९० ॥
मेधातिथिः ...{Loading}...
हरति यो निक्षिप्तअम् असाक्षिकम्, यो ऽप्य् अनिक्षिप्य565 नीत्वा वा याचते तम् अन्विच्छेत् । अन्वेषणा तत्त्वपरिज्ञाने यत्नः सर्वप्रमाणव्यापारेण । उपायाः प्रमाणानि566 सामादयो वा । तेन चलितवृत्तस्याप्रतिपाद्यमानस्य ताडनबन्धनाद्य् अपि महति धने चोरवत् तत्त्वप्रतिपत्त्यर्थं प्रयोज्यम् । न तत्त्वानिश्चये निग्रहः । वैदिकग्रहणं स्तुत्यर्थम् ॥ ८.१९० ॥
यो निक्षेपं नार्पयति यश् चानिक्षिप्य याचते ।
ताव् उभौ चौरवच् छास्यौ दाप्यौ वा तत्समं दमम् ॥ ८.१९१ ॥
निक्षेपस्यापहर्तारं तत्समं दापयेद् दमम् ।
तथोपनिधिहर्तारम् अविशेषेण पार्थिवः ॥ ८.१९२ ॥
मेधातिथिः ...{Loading}...
चोरवच् छिष्टिः पूर्वेणोक्ता । तया च शरीरनिग्रहस् तत्समधनं वैकल्पिके569 जातिभेदेन ब्राह्मणाद् अन्यत्र प्रदेश उक्तो ऽनेन निवर्त्यते । पुनर् विधानेन चोरवच्छिष्टिर् वाग्दण्डधिग्दण्डादिरूपैव समुच्चीयते धनदण्डेन नाङ्गच्छेदादिरूपा । न च ब्राह्मणस्यापि वैकल्पिके पूर्वेण शारीरदण्डे प्राप्ते तन्निवृत्त्यर्थं पुनर्वचनम् युक्तम्, सामान्येन ब्राह्मणस्य शरीरदण्डप्रतिषेधात्- “न जातु ब्राह्मणं हन्यात्” (म्ध् ८.३८०) इति ।
उपनिधिः प्रीत्या यद् भुज्यते । अविशेषेण द्रव्यं जातिं च नापेक्षेत570 ।
- अन्यैस् तूपनिधिः परिभाषितः ।
स तत्रैव नेह । परिभाषाया अकरणाल् लौकिकार्थ एव ग्रहीतुं न्याय्यः । वक्ष्यति च “प्रीत्योपनिहितस्य च” (म्ध् ८.१९६) इति ॥ ८.१९२ ॥
उपधाभिश् च यः कश्चित् परद्रव्यं हरेन् नरः ।
ससहायः स हन्तव्यः प्रकाशं विविधैर् वधैः ॥ ८.१९३ ॥
मेधातिथिः ...{Loading}...
उपधा व्याजः । छद्मेत्य् अनर्थान्तरम् । ताश् चानेकविधाः । द्रव्यपरिवर्तः — कुंकुमं दर्शयित्वा कुसुम्भादिदानम्, तुलादिमानापचय इत्याद्याः । तत्र चान्यं विधिं वक्ष्यति “नान्यद् अन्येन संसृष्टम्” (म्ध् ८.२०३) इत्यादि । इह तु वित्रासनं571 राजत572 उपकारदर्शनं कन्यानुरागकथनम् इत्य् एवमाद्या गृह्यन्ते । “चौरास् त्वां मुष्णान्ति यद्य् अहं त्वां न रक्षामि,” “राजा तवात्यन्तं कुपितो मया तु बहु समाहितम्,” “राजतस् ते नगराधिकारं दापयामि,” “मुख्यं वोपकारं करोमि,” “पुष्पमित्रदुहिता त्वय्य्573 अत्यन्तम् अनुरागिणी मद्धस्त इदम् उपायनं प्रेषितवती” — इत्येवमाद्य्नृतम् उक्त्वात्मीयम् उपायनम् आसज्य बहु प्रतिनयन्ति । तत्समक्ष्यं च राजनि तत्समे574 वा कार्यान्तरम् उपांशु निवेद्य कथयन्ति- “त्वदीयं कार्यम् उपक्रान्तम्” इत्य् एवमाद्याभिर् उपधाभिः परद्रव्यं च भुञ्जते । तेषाम् अयं राजमार्गे प्रकाशं विविधः कुठारशूलारोपणहस्तिपदमर्दनाद्यनेकोपायसाध्नो वध उच्यते ।
अन्ये तु प्रकरणान् निक्षेपविषयम् एवेदम् आहुः । तत्र हि प्रतिपद्यान्यत्र मया निहितं स च न संनिहितः श्वःपरश्व आगच्छतीत्य् असमर्पयन् हरतीति ॥ ८.१९३ ॥
निक्षेपो यः कृतो येन यावांश् च कुलसंनिधौ ।
तावान् एव स विज्ञेयो विब्रुवन् दण्डम् अर्हति ॥ ८.१९४ ॥
मेधातिथिः ...{Loading}...
य इति निक्षिप्यमाणद्रव्यजातिनिर्देशः । यावान् इति परिमाणस्य । य आह- “सुवर्णम् एतस्य हस्ते मया निक्षिप्तं कांस्यं ददाति, शतं च स्थापितम् अर्धं ददाति” । स पृच्छ्यते- “किं रहस्य् उत कस्यचित् समक्षम्” इति । स चेद् आह- कुलसंनिधौ । कुलं साक्षिणः ।575 तत्र ते पृष्टा यदाहुस् तद् एव सत्यम् । विब्रुवन् विरुद्धं ब्रुवाणो दण्ड्यते । तत्रापि यदि ब्रूयात् साक्षिसमक्षं रूप्यं576 तैर् विनान्यत् स्थापितम् इति । अस्त्य् अत्र प्रमाणान्तरव्यापारणावसरः । अयम् अपि श्लोको नाधिकविध्यर्थः ॥ ८.१९४ ॥
मिथो दायः कृतो येन गृहीतो मिथ एव वा ।
मिथ एव प्रदातव्यो यथा दायस् तथा ग्रहः ॥ ८.१९५ ॥
मेधातिथिः ...{Loading}...
“यो यथा निक्षिपेत्” (म्ध् ८.१८०) इत्य् अनेन निक्षिप्तविधिर् अयम् उक्तः577 । अन्येषु कार्येष्व् अनेन प्रतिपद्यते । ऋणादानोपनिधिविक्रयाद्य् अपि येन यादृशेन प्रकारेण कृतं तादृशेनैव प्रत्यर्पणीयम् । रहसि कृतस्य राजकुले ऽंशमार्गणादिना प्रकाशनं न कर्तव्यम् । तेन स्वहस्तलेख्येन ऋणे गृहीते न राजकुले ऽंशं दाप्यते । उत्तमर्णधनं क्षपणीयम् ।
अनेनैव निक्षेपे ऽपि सिद्धे तत्र पुनर्वचनं नित्यार्थम् । तेन निक्षेपाद् अन्यत्र रहसि कृतस्यापि विप्रतिपत्त्याशङ्कायां प्रकाशं प्रतिदानं कदाचिद् अस्ति । अथ वेहाप्रकाशकृतस्य प्रकाशीकरणं निषिध्यते । तत्र त्व् अन्यो ऽर्थः समुद्रो ऽसमुद्र इत्यादि तेनापौनरुक्त्यम् ।
मिथःशब्दो रहसि विज्ञेयः । अथ वा परस्परं मिथः । सर्वं कार्यं द्वाभ्यां साध्यं दानादि परस्परम् एव क्रियत इति । पुनर्वचनं तृतीयप्रतिषेधार्थम् । दायशब्दः सामान्यशब्दो निक्षेपाद् अन्यान् अपि विक्रयादीन् आह ॥ ८.१९५ ॥
निक्षिप्तस्य धनस्यैवं प्रीत्योपनिहितस्य च ।
राजा विनिर्णयं कुर्याद् अक्षिण्वन् न्यासधारिणम् ॥ ८.१९६ ॥
मेधातिथिः ...{Loading}...
प्रकरणोपसंहारो ऽनेन क्रियते । प्रीत्योपनिहितस्य स्नेहेन किंचित् कालं भोगार्थं दत्तस्य, न्यासो निक्षेपस् तस्य धारणको यथा न पीड्यते तथा निर्णयः कर्तव्य इति । अक्षिण्वन्न् अपीडयन् ।
द्वित्राः[^६१९] श्लोका निक्षेपकरणे विध्यर्थाः । सर्वम् अन्यद् अन्यतः सिद्धं सौहार्देनोक्तम्[^६२०] ॥ ८.१९६ ॥
विक्रीणीते परस्य स्वं यो ऽस्वामी स्वाम्यसंमतः ।
न तं नयेत साक्ष्यं तु स्तेनम् अस्तेनमानिनम् ॥ ८.१९७ ॥
मेधातिथिः ...{Loading}...
अस्वामिविक्रयाख्यविवादपदम् इदम् अनुक्रान्तम् । परस्य यद् द्रव्यादि स्वं तच् चेद् अस्वामी तत्पुत्रादिर् अन्यो वा विक्रीणीते स्वामिनाननुज्ञातस् तं स्तेनं चौरं विद्यात् । यद्य् अपि यस् तस्मात् क्रीणाति स तम् अस्तेनं मन्यते । न तं नयेत साक्ष्यं तु । तं पुरुषं न नयेत न प्रापयेत् साक्षयं न कारयेत् साक्षिकरणे न नियोक्तव्य इत्य् अर्थः । यथा चौरस् तादृश एवासौ । स्तेनत्वाच् च न साक्षित्वम्578 । न साक्षित्व एव प्रतिषेधः । किं तर्हि सर्वासु साधुजनसाध्यासु क्रियासु । परस्वम् अननुज्ञातेन विक्रीतं क्रेतुर् न स्वं भवतीति सिद्धे साक्षिकर्मनिषेधद्वारेण प्रतिषेधो वैचित्र्यार्थः ॥ ८.१९७ ॥
अवहार्यो भवेच् चैव सान्वयः षट्शतं दमम् ।
निरन्वयो ऽनपसरः प्राप्तः स्याच् चौरकिल्बिषम् ॥ ८.१९८ ॥
मेधातिथिः ...{Loading}...
पूर्वेण साधुजनकर्तृकासु क्रियासु साक्ष्यादिष्व् अपि अस्वामिक्रियकारिणाम् अनर्हतोक्ता । अनेन षट्शतो दण्ड उच्यते । षट्कार्षापणशतानि अवहार्यो दापयितव्यो दण्ड्य इति यावत् । सान्वयः । अन्वयो ऽनुगमनसंबन्धः । स यस्यास्ति पुत्रभ्रात्रादिः स्वामिनो ऽनुगतः सान्वयः । स ह्य् अननुज्ञातो ऽपि विक्रीणानो न स्फुटचोरो यतस् तस्येयं बुद्धिर् मदीयम् एवैतद् यत् पितुर् इति, तं प्रतीयम् अपि संभावना भवति । तस्यैव विक्रीय मूल्यं ददाति । यस् त्व् अत्यन्तासंबन्धः स निरन्वयः । चौरकिल्बिषं निग्रहं निःसंशयं प्राप्तः । अनपसरः । यदि तद्गृहं तस्य नापसृतं भवति तद्आनपसरश् चौरवद् दण्ड्यः । यदि तु तद्गृहाद् एव केनचिद् दत्तं विक्रीतं वा तस्य तेन वाज्ञत्वात्579 तत्प्रतिगृहीतं प्रकाशक्रयेण वा विक्रीतं तदा न चौरवद् दण्ड्यः । षऋशतम् एव् दाप्यः ।
अथ वा अन्वयो विक्रीणाति तस्य विक्रेयद्रव्यस्यान्यतः क्रयः अपसरः क्रयाद् अन्यः प्रतिग्रहादिर् आगमः । एतद् उक्तं भवति । यदि तेन तन् न कुतश्चन कृईतं नापि प्रतिगृहादिना लब्दं तदा चौरः ॥ ८.१९८ ॥
अस्वामिना कृतो यस् तु दायो विक्रय एव वा ।
अकृतः स तु विज्ञेयो व्यवहारे यथा स्थितिः ॥ ८.१९९ ॥
मेधातिथिः ...{Loading}...
न केवलम् अस्वामिसकाशाद् यत् क्रीतं तन् न सिध्यति, किं तर्हि प्रतिगृहीतम् अपि । प्रतिग्रहेण प्रीत्या वा दानं दायः, सो ऽपि न सिध्यति । “विक्रीणीते परस्य” (म्ध् ८.१९७) इत्य् अनेन विक्रेतुः प्रतिग्रहीतुश् चास्वाम्यम् उच्यते । “स्वामी रिक्थक्रय” (ग्ध् १०.३९) इत्यादिना स्वाम्याशङ्कायां प्राप्तो ऽयं प्रतिषेधः । व्यवहार एषा स्थितिर् नातिक्रमणीया ॥ ८.१९९ ॥
संभोगो दृश्यते यत्र न दृश्येतागमः क्वचित् ।
आगमः कारणं तत्र न संभोग इति स्थितिः ॥ ८.२०० ॥
मेधातिथिः ...{Loading}...
यस्मिन् वस्तुनि गोवस्तुहिरण्यक्षेत्रादाव् अन्यस्य भोगो दृश्यते अन्यस्य च रिक्थप्रतिग्रहादिर् आगमः स्वाम्यापादकस् तत्रागमो बलवान् न भोगः । भोग एव संभोगः । कारणं स्वाम्ये । तत्रेति स्थितिः । एवम् अनादिव्यवस्था न भोगमात्रेण स्वत्वम् । यादृशेन च स्वत्वं तत् पुरस्ताद् व्याख्यातम् । “यत् किंचिद् दशवर्षाणि” (म्ध् ८.१४७) इति वानेन विरोधस् तत्रैव परिहृतः ॥ ८.२०० ॥
०३
विक्रयाद् यो धनं किंचिद् गृह्णीयात् कुलसंनिधौ ।
क्रयेण स विशुद्धं हि न्यायतो लभते धनम् ॥ ८.२०१ ॥
मेधातिथिः ...{Loading}...
यादृशेन क्रयेण स्वाम्यं भवति तं दर्शयति । विक्रीणते ऽस्मिन् व्यवहारिण इति विक्रयः आपणभूमिः, ततो यो गृह्णीयाद् धनं गवादि क्रीयमाणं द्रव्यं मूल्यं वा स लभते न्यायतः क्रयेण । कुलसंनिधौ विशुद्धम् । न्यायतः क्रय उचितेन मूल्येन । असंभाव्यपापपुरुषाकुलस्यान्यव्यवहर्तृमेलककारपुरुषसमूहस्य समक्षं गृहीतं लभते नापहारयति । अन्यथा स्वामिना विक्रये1 तु द्रव्यं प्रतिनीयते2, किं तु मूल्यं लभते । तस्माद् यस् तस्य विक्रयी सो ऽन्ययतः3 क्रयेण तु दण्ड्यते मूल्यं च हारयति । एतद् उक्तम् ।
-
विक्रेतुर् दर्शनाच् छुद्धिः स्वामी द्रव्यं नृपो दमम् ।
-
क्रेता मूल्यम् अवाप्नोति तस्माद् यस् तस्य विक्रयी ॥ (य्ध् २.१७४)
एष एवार्थओ ऽनेन4 श्लोकेन प्रतिपाद्यते ॥ ८.२०१ ॥
अथ मूलम् अनाहार्यं प्रकाशक्रयशोधितः ।
अदण्ड्यो मुच्यते राज्ञा नाष्टिको लभते धनम् ॥ ८.२०२ ॥
मेधातिथिः ...{Loading}...
असंभाव्यपापात् तु पुरुषाद् इत्यादि न्यायतः क्रय उक्तः । स चेद् विक्रेत शक्य आहर्तुं तदा पूर्वोक्तो विधिः “स्वामी द्रव्यम्” (य्ध् २.१७४) इत्यादि । अथ स विक्रयी गतः, येन5 क्रीतं स्वामिना चिह्नीकृतं तेन च मूलं विक्रेता पुरुष आहर्तुं न शक्यते । प्रकाशं जनसमक्षं प्रसिद्धाया विक्रयभुवः क्रीतम् अत ईदृशेन क्रयेण शोधिते द्रव्ये शुद्धः क्रेता अदण्ड्यो मुच्यते । धनं तु नाष्टिकः6 स्वामी ज्ञापितस्वं वा लभते । नष्टम् अन्वेषते नाष्टिकः । नष्टम् अस्यास्तीत्य् एवं ठनि कृते प्रज्ञादित्वात् स्वार्थिको ऽण् कर्तव्यः । नष्टं प्रयोजनम् अस्येति वा । तेनायं संक्षेपः-7 प्रकाशक्रये तु दण्डो न स्याद् धननाशस् तु स्थित एव ॥ ८.२०२ ॥
नान्यद् अन्येन संसृष्टरूपं विक्रयम् अर्हति ।
न सावद्यं8** न च न्यूनं न दूरे न**9** तिरोहितम् ॥ ८.२०३ ॥**
मेधातिथिः ...{Loading}...
अस्वामिविकर्यप्रसङ्गेनान्यो ऽपि विक्रये धर्म उच्यते । नान्यत्10 कुंकुमादिद्रव्यं कुद्रव्येण तदाभासेन कुसुंभादिना संसृष्टं विक्रेयम् । यच् च11 असावद्यं चिरकालं भण्डे ऽवस्थितत्वात् प्राप्तविभावं जीर्णम् अजीर्णाभासं वस्त्रादि । न च न्यूनं तुलामानादिना । दूरे12** **दूरस्थितं ग्रामे मम विद्यन्ते वासांसि गुडादि वा द्रव्यम् । तिरोहितं स्थगितं वस्त्रादिनान्तर्हितम्, यस्य वा स्वरूपं केनचिद् द्रव्यरागेणान्तर्धीयते पुराणं नववत् प्रतिभाति तत् तिरोहितं न विक्रेतव्यम् । इदं द्रव्यम् ईदृशं च प्रदर्श्य विक्रयः कर्तव्यः । अन्यथाकृतस् तु न कृतो दशाहाद् ऊर्ध्वम् अपि प्रत्यर्पणे न दोषः ।
- अन्यस्य दण्डस्येहानाम्नातत्वाद् “उपधाभिः” (म्ध् ८.१९३) इत्य् एष दण्डः ।
प्रकरणभेदेन पठितत्वात्, अस्वामिविक्रयदण्ड इत्य् अन्ये ॥ ८.२०३ ॥
अन्यां चेद् दर्शयित्वान्या वोढुः कन्या प्रदीयते ।
उभे त एकशुल्केन वहेद् इत्य् अब्रवीन् मनुः ॥ ८.२०४ ॥
मेधातिथिः ...{Loading}...
विक्रयप्रकारत्वाच् छुल्कादिना कन्यादानस्य अस्मिन्न् प्रकरणे13 धर्म उच्यते । शुल्ककाले रूपवतीं दर्शयित्वा गृहीतशुल्को यस्य14 रूपहीनां ददाति वयोहीनां गूणहीनां वा तस्य्ओभे15 ऽपि शुल्कदेन्ऐकेन शुल्केन हर्तव्ये16 । कन्यानाम् एवायं धर्मः । गवाश्वादिद्रव्याणां त्व् अस्मिन् व्यतिक्रमे ऽन्यो विधिर् वक्ष्यते ॥ ८.२०४ ॥
नोन्मत्तया न कुष्ठिन्या न च या स्पृष्टमैथुना ।
पूर्वं दोषान् अभिख्याप्य प्रदाता दण्डम् अर्हति ॥ ८.२०५ ॥
मेधातिथिः ...{Loading}...
उन्मत्तादिदोषान् कथयित्वा ददतो दण्डो नास्तीति प्रतिषेधद्वरेणाकथयतो17 दण्डम् आह । न केवलं शुल्के देया, या अन्यस्या अपि18 ब्राह्मादिविवाहेन विवाहयिष्यमाणायाः, दत्ताप्य् अदत्ता भवति, दण्डश् च “प्राप्नुयाच् चौरकिल्बिषम्” (म्ध् ८.१९८) इति जानानस्य । अजानतः षट्शतं19 प्रकृतत्वात् । उन्मत्तया कुष्ठिन्या ये कुष्ठोन्मत्तादयः । या च स्पृष्टमैथुना तस्याश् च यो दोषो मैथुनस्पर्शः । तान् दोषान् पूर्वं वाक्प्रदानेन्आख्याप्य प्रकाश्यैतद्दोषा कन्येत्य् एवम् उक्त्वा ददतो नास्ति दण्ड इति प्रयोजना ॥ ८.२०५ ॥
ऋत्विग् यदि वृतो यज्ञे स्वकर्म परिहापयेत् ।
तस्य कर्मानुरूपेण देयो ऽंशः सह कतृभिः ॥ ८.२०६ ॥
मेधातिथिः ...{Loading}...
संभूयसमुत्थानस्य प्रक्रमो ऽयम् । तत्र वैदिकं तावत् संभूयकार्यम् उदाहरति । यज्ञो ज्योतिष्टोमादिः । तत्र यागरूपानेकाङ्गकर्मनिर्वर्तनार्थम् ऋत्विग् वृतः “त्वया ममेदं हौत्रं कर्तव्यम् आध्वर्यवम् औद्गात्रं वा” इति20 श्रौतेन विधिनानुष्ठेयम् इत्य् उपगमश् च प्रवर्तितः । कथंचिद् अपाटवादिना सामिकृतं21 यत् परिहापयेत् त्यजेत् तदानीं तस्य देयो दक्षिण्आंशः कर्मानुरूपेण । यावती तस्मिन् क्रतौ दक्षिणा तां निरूप्य चतुर्थे भागे कर्मणः कृते चतुर्थः तृतीये तृतीय22 इत्य् एतद् आनुरूप्यम्23 । सह कर्तृभिः। कर्तारः तत्पुरुषाः24 प्रधानर्त्विजां25 होत्रुद्गात्रादीनां26 प्रस्तोतृमैत्रावरुणप्रभृतयः ॥ ८.२०६ ॥
दक्षिणासु च दत्तासु स्वकर्म परिहापयन् ।
कृत्स्नम् एव लभेतांशम् अन्येनैव च कारयेत् ॥ ८.२०७ ॥
मेधातिथिः ...{Loading}...
माध्यन्दिने सवने दक्षीना दीयन्त इति । तत उपरिष्टात् कर्म त्यजताम् अप्रत्याहरणीयां27 लभेत, दक्षिणाम् इति शेषः,28 न प्रतीपं त्याजयेद् इत्य् अर्थः । अन्यां भृतिं दत्वा अन्येन पुरुषेण यजमानस् तत्कर्म समापयेत् । ऋत्विग्भिः कर्म कर्तव्यं वरणाच् च ऋत्विजो भवन्ति । तच् च नियतकाले प्राक् कर्मण आरम्भात् । अतः क्रतु क्रियमाणं विगुणं भवति, समाप्तिश् चापि कर्तव्येति विगुणं चेत् समापनीयम् अङ्गान्य् एव तदन्यकर्तृकाणि करिष्यामीति बुद्धिनिवृत्त्यर्थम् उक्तम् अन्येनैवेति । तावद् एव विगुणं यद् अशक्यम्, शक्यं तु सर्वं कर्तव्यम् ।
केचित् कारयेद् इति ऋत्विजो ऽपि संबन्धम् आहुः । गृहीत्वा दक्षिणां वाधिकां दद्यात् स्वयम् अशक्नुवन् । प्राग् दक्षिणाभ्यः शेषकर्मसमापने यजमान एवाधिक्रियते ॥ ८.२०७ ॥
यस्मिन्29** कर्मणि यास् तु स्युर् उक्ताः प्रत्यङ्गदक्षिणाः ।**
स एव ता आददीत भजेरन् सर्व एव वा ॥ ८.२०८ ॥
मेधातिथिः ...{Loading}...
इदं अपरं प्रकृतोपयोगि वैदिकं कथ्यते । वैदिके कर्मणि सामस्त्येन दक्षिणा आम्नायन्ते, न प्रतिपुरुषं विभागेन- “तस्य द्वादशशतं दक्षिणा” इति । तच् चातिदेशेन30 क्रत्वन्तराणि तद्विकाराण्य् अनुगच्छन्ति राजसूयादीनि । तत्र च केषुचिद् अङ्गकर्मसु प्रतिपदम् अन्या दक्षिणाम्नाता पुरुषविशेषसंयोगेन- “हिरण्मयौ प्राकाशव् अध्वर्यवे”31 (शब् ओन् प्म्स् १०.३.६३) इत्यादि । ताः प्रत्यङ्गदक्षिणाः संपद्यन्ते । किम् अध्वर्योश् चातुर्विद्यवादिकवद्32 ददातिसंबन्धः, सर्वेषाम् ऋत्विजां दक्षिणाः, अध्वर्यस् तु द्वारमात्रम्, उत तस्यैव सा, अन्येषां प्रकृतांशः इति33 संशयोपन्यासार्थः श्लोकः । प्रतिपदं पुरुषविसेषाश्रया अङ्गेषु दक्षिणाः प्रत्यङ्गदक्षिणाः । अथ वा वीप्सायां प्रत्यङ्ग्अशब्दः । अङ्गम् अङ्गम् आश्रिताः प्रत्यङ्गाः । स एष ता आददीत । मुख्य एव पुरुषस्य ददातिना संयोग उत कर्तृत्वाविशेषाद् अन्ये ऽपि भजेरंल् लभेरन्, प्रधानदक्षिणाया इव, इति कथयित्वा प्रश्नः । पुरुषविशेषम् उक्तास् तदर्था एवेति निर्णयः । एवं ददातिर् मुख्यार्थो भवति । पुरुषसंयोगश् च नादृष्टार्थः34 ॥ ८.२०८ ॥
रथं हरेत चाध्वर्युर् ब्रह्मादाने च वाजिनम् ।
होता वापि हरेद् अश्वम् उद्गाता चाप्य् अनः क्रये ॥ ८.२०९ ॥
मेधातिथिः ...{Loading}...
रथम् अध्वर्युर् आधाने हरेत् । ब्रह्मा च वाजिनं वेगवन्तम् अश्वम् । होता वा अश्वं वृषम् अन्यं वा । कासुचिच् छाकास्व् आधान एता दक्षिणाः । अतः सोमक्रये यच् छकटं तद् उद्गातुः । तत्र शकटे ऽन्यतरो ऽनड्वान् युक्तः स्यात्, अन्यतरो वियुक्त इत्य् अपि पठ्यते । तेन च सोमः क्रीत उपाह्रियते ।
- अन्ये त्व् अपूर्वम् अन आहुर् न सोमोपाहरणार्थम्, न हि क्रयेण शक्यते विशेषयितुम् ॥ ८.२०९ ॥
एवं तावत् पुरुषविशेषसंयोगिनीनाम् अङ्गदक्षिणानां विधिर् उक्तः । प्रधानदक्षिणानां सामान्यतः श्रुतानां इदानीं विभागम् आह ।
सर्वेषाम् अर्धिनो मुख्यास् तदर्धेनार्धिनो ऽपरे ।
तृतीयिनस् तृतीयांशाश् चतुर्थांशाश् च पादिनः ॥ ८.२१० ॥
मेधातिथिः ...{Loading}...
सर्वेषाम् ऋत्विजां ये मुख्यास् ते ऽर्धिनः । यावती तस्मिन् क्रतौ सामस्त्येन दक्षिणाम्नाता तस्यास् ते ऽर्धिनो ऽर्द्धहराः । सोमयागेषु हि षोडसर्त्विजस् तत्र चत्वारो मुख्या होताध्वर्युर् ब्रह्मोद्गातेति । तेषाम् अर्धं तस्य द्वादशशतं दक्षिणेति ततो ऽर्धं षट्पञ्चाशत्35 । तदर्धेन36 अष्टाविंशत्य्आर्धिनस् तद्वन्तो ऽपरे, येषां ततो ऽनन्तरं वरणम् आम्नातं मैत्रावरुणप्रतिप्रस्थातृब्राह्मणाच्छंसिप्रस्तोतारः37 । तृतीयिनः38** तृतीयांशाः** । अंशशब्दो ऽर्धशब्देन समानार्थो ऽर्धशब्दश् च नावश्यं39 समप्रविभाग एव, किंचिन् न्यूने ऽधिके ऽपि सामीप्येन वर्तते । तेन तृतीयो भागः षट्पञ्चाशतः षोडश गृह्यन्ते । एकैकस्य चतस्रो भवन्ति । समस् तृतीयं40 भागं प्रयच्छन्ति षट्पञ्चाशतस् तृतीयं च होतुर् अच्छावाकः । अध्वर्योर् नेष्टा । ब्रह्मणोऽग्नीत् उद्गातुः प्रतिहर्ता । ये च पादिनस् ते चतुर्थं भागं कर्मणः कुर्वन्तीति पादिनः । चतुर्थे च स्थाने मैत्रावरुणस्थानान्ते । चतुर्थांशाः । द्वादशसमुदाये पूर्ववत् । एवं “तं शतेन दीक्षयन्ति” इत्य् अत्रापि कॢप्तिः कर्तव्या । “अर्धिनो दीक्षयति, पादिनो दीक्षयति” इत्य् एवमादिभिः शब्दैः । तत्र द्वादशक्रमविधिर् एव । अन्यत्र श्रुतो व्यवहार इहापि तयैव रीत्या कृत इति ॥ ८.२१० ॥
संभूय स्वानि कर्माणि कुर्वद्भिर् इह मानवैः ।
अनेन विधियोगेन कर्तव्यांशप्रकल्पना ॥ ८.२११ ॥
मेधातिथिः ...{Loading}...
यथा यज्ञे यो बहूनि कर्माणि कायक्लेशकरणे विद्वत्तातिशयसाध्ये च नियुक्तो भूयसीं दक्षिणां लभते न्यूनकर्मकारी तु न्यूनां तद्वल् लौकिकेषु गृहचैत्यादिकारिषु संभूय संहत्य वर्धकिस्थपतिसूत्रधारादिषु स्वसमयप्रसिद्धो यावान् अंशः सूत्रधारस्य यावान् स्थपतेस् तत्र्आनेन विधियोगेन । विधिर् वैदिको ऽर्थस् तत्प्रसिद्धा व्यवस्था विधियोगेन वैदिक्या41 यज्ञगतया व्यवस्थयेत्य् अर्थः । एवं नाटकादिप्रेक्षायां नर्तनगायनवादकेषु भागप्रकॢप्तिः । यद्य् अपि सर्वे विद्वांसः सर्वकर्मानुष्ठानशक्ताश् च तथापि कर्मानुरूप्येण भागो न पुरुषानुरूप्येणेति संभूयसमुत्थानम् ॥ ८.२११ ॥
धर्मार्थं येन दत्तं स्यात् कस्मैचिद् याचते धनम् ।
पश्चाच् च न तथा तत् स्यान् न देयं तस्य तद् भवेत् ॥ ८.२१२ ॥
मेधातिथिः ...{Loading}...
यः कश्चिद् आह “सान्तानिको ऽहम्, यियक्षुर् वा, देहि मे किंचित्” इति । तस्मै यदि दत्तं भवेत्, स च न यजेत न विवाहकर्मणि प्रवर्तेत । तद्धनं द्यूतेन वेश्याभिर् वा क्षपयेद् अन्यत्र वा विनियुञ्जीत वृद्धिलाभकृष्यादौ, न देयं तस्य । तद्दत्तस्य दानप्रतिषेधो नोपपद्यते । अतः प्रत्याहरणीयम् इति वाक्यार्थः । अथ वा दत्तान्तो42 गौणो व्याख्येयः- दत्तं प्रतिश्रुतं न देयम् । तथा च गौतमः- “प्रतिश्रुत्याप्य् अधर्मसंयुक्ताय न दद्यात्” (ग्ध् ५.२३) । किं पुनर् अत्र युक्तम् । उभयम्43 इत्य् आह- दत्तस्य प्रत्याहरणं प्रतिश्रुतस्य वादानम् । तथा च स्मृत्यन्तर उभयं पठितम् । आह हि नारदः- “कर्ताहम् एतत् कर्म” इति उपक्रम्य " यद् दत्तं स्याद् अविज्ञानाद् अदत्तं तद् अपि स्मृतम्” (न्स्म् ४.९–१०) इति । प्रयोजनविशेषोद्देशेन यद् दत्तं तस्मिन्न् अनिर्वर्त्यमाने44 व्यवस्थितम्45 अपि प्रतिग्रहीतुर् गृहाद् आहर्तव्यम् । दानस्योपक्रममात्रं तदानीं समर्पणं समाप्तिस् तु निर्वृत्ते प्रयोजनेति46 नारदस्य मतम् ॥ ८.२१२ ॥
यदि संसाधयेत् तत् तु दर्पाल् लोभेन वा पुनः ।
राज्ञा दाप्यः सुवर्णं स्यात् तस्य स्तेयस्य निष्कृतिः ॥ ८.२१३ ॥
मेधातिथिः ...{Loading}...
संसाधनं राजनिवेदनादिना ऋणवत् प्रतिश्रुतस्य मार्गणम्, स्वीकृतस्य प्रतियाच्यमानस्य राजनिवेदणम्- “अयं मह्यं दत्वा प्रतिजिहीर्षति” इति सिद्धस्य दृढीकरणं संसाधनम् एतत्47 । दर्पाल् लोभेनेति कारणानुवादः । एवं कुर्वतो दण्डः सुवर्णं स्यात् तस्य स्तेयस्य निष्कृतिर् इति । चौरदण्डम् आशङ्कमानः48 सुवर्णं विधत्ते । अचौरशङ्कया च दत्तं किल तेन तस्मै न स्वयं हृतं कथम् अयं चौरः स्याद् इति शङ्कां निवर्तयितुं स्तेयशब्दः प्रयुक्तः । सत्य् अपि चौरत्वे वाचनिकः सुवर्णदण्डो ऽन्यासु क्रियासु चौरवद् व्यवहर्तव्यः ॥ ८.२१३ ॥
दत्तस्यैषोदिता धर्म्या यथावद् अनपक्रिया ।
अत ऊर्ध्वं प्रवक्ष्यामि वेतनस्यानपक्रियाम् ॥ ८.२१४ ॥
मेधातिथिः ...{Loading}...
पूर्वेणार्धेन पूर्वविवादोपसंहारः । उत्तरेण वक्ष्यमाणोपक्रमः । दत्तस्यैषानपक्रियोदिता । अपक्रिया क्रियापायः । तस्य नञा प्रतिषेधः । दानम् एवं न चलितं भवति । एषैव दाने स्थितिर् इति यावत् । धर्माद् अनपेता धर्म्या । कथं प्रतिश्रुत्यादीयमाने धर्मो न पश्यतीति नैषा शङ्का कर्तव्या । एष एवात्र धर्मो यन् न दीयते दत्तं च प्रत्यादीयते । उदिता उक्ता । यथावच्छब्दसमुदाय एव याथातथ्ये वर्तते । सम्यङ्निरूपितेत्य् अर्थः । अथ वा यथाशब्दो योग्यतायां वर्तते- ताम् अर्हतीति वतिः कर्तव्यः । वेतनं भृतिः, तस्य्आनपक्रिया । वेतनेन स्वकर्म कुर्वतां यो धर्मः स इदानीम् उच्यत इति प्रतिज्ञा49 ॥ ८.२१४ ॥
भृतो ऽनार्तो न कुर्याद् यो दर्पात् कर्म यथोदितम् ।
स दण्ड्यः कृष्णलान्य् अष्टौ न देयं चास्य वेतनम् ॥ ८.२१५ ॥
मेधातिथिः ...{Loading}...
उद्दिष्टेन मूल्येनोद्दिष्टं कर्म करोति स इह भृतो ऽभिप्रेतः । भृत्यकर्मविशेषेण स्वीकृतो भृतः50 । देहि मे पञ्चरूपकाणि, इदं ते कर्म कर्तास्मीयता कालेन” इत्य् आभाष्य प्रविष्टः, स चेत् कर्म न समापयति, कृष्णलानि सौवर्णानि ताम्ररजतयोर् वा कर्मस्वरूपम् अनुबन्धादि च ज्ञात्वा दण्ड्यते । तानि च रूपकाणि वेतनार्थं कल्पितानि न लभेत । यद्य् अनार्तो दर्पान् न करोति यथोदितं कर्म । व्याध्यादिनापीडितस्य दर्पाद् अकुर्वतो भृतिहानिर् दण्डनं च । अतः स एवं वक्तुं न लभते- “यावन् मया कर्मांशः कृतस् तदानुरूप्येण देहि” इति ।
-
ऋत्विजाम् अप्य् एव दण्डं केचिद् इच्छन्ति स्वेच्छया त्यजताम् ।
-
तद् अयुक्तम् । अत्र हि महान् अनर्थो यजमानस्य सामिकृत्ये यजमाने ऽतो दण्डो महान् अत्र युक्तः । यजमानस्य च यन् नष्टं तद् दापनीयाः । दीक्षोपसद्देवव्रतैः शरीरापचये समुत्थातव्यम् ।
-
अन्यो यः शिल्पी कंचन कर्मणि प्रवर्तयति तडागखनने देवस्य गृहकरणे “अहं ते समापयिता प्रवर्तस्व” इति, पश्चाच् चापसरेत् तेन स्वामिनः क्षयव्ययायासाः सर्वे संवोढव्याः, भाण्डवाहवणिग्न्यायेन । एष हि न्यायः कात्यायनेन सर्वत्रातिदिष्टः । भाण्डवाहकदोषेण वणिजो यदि द्रव्यं नश्येत् तद्भाण्डवाहको वहेत् । “यो वान्यः कस्यचित् कर्मणि धनम् आबध्यार्धतो निवर्तेत” इति कात्यायनीये सूत्रे धनम् आबध्यासज्य धनव्ययं करयित्वा यद्य् अर्धकृते निवर्तेत सो ऽपि तद् वहेद् इत्य् अनुषङ्गः । एवं यो ऽपि षाण्मस्यः सांवत्सरो वा यथोपपादककर्मकारी भक्तदासस् तस्याप्य् एष एव न्यायः । आह च नारदः ।
-
कर्माकुर्वन् प्रतिश्रुत्य कार्यो दत्वा भृतिं बलात् ।
-
भृतिं गृहीत्वाकुर्वाणो द्विगुणं भृतिम् आवहेत् ॥
-
काले ऽपूर्णे त्यजन् कर्म भृतिनाशनम् अर्हति ॥ न्स्म् ६.५–६ ॥ ८.२१५ ॥
अनार्तस्य दण्ड उक्तो भृतिहरणं च । आर्तस्येदानीम् उच्यते ।
आर्तस् तु कुर्यात् स्वस्थः सन् यथाभाषितम् आदितः।
स दीर्घस्यापि कालस्य तल् लभेतैव वेतनम् ॥ ८.२१६ ॥
मेधातिथिः ...{Loading}...
आर्तो यो51 भृतो ऽर्धकृतं कर्म यदि हित्वा गच्छेत् स स्वस्थः सन् पुनर् आगत्य यथोक्तम् आदौ तत् कुर्यात् । बहुनापि कालेन पीडया मुक्तः प्रत्यागतः कृतकर्मशेषे लभेतैव वेतनम् ॥ ८.२१६ ॥
यथोक्तम् आर्तः सुस्थो वा यस् तत् कर्म न कारयेत् ।
न तस्य वेतनं देयम् अल्पोनस्यापि कर्मणः ॥ ८.२१७ ॥
एष धर्मो ऽखिलेनोक्तो वेतनादानकर्मणः ।
अत ऊर्ध्वं प्रवक्ष्यामि धर्मं समयभेदिनाम् ॥ ८.२१८ ॥
मेधातिथिः ...{Loading}...
वेतनादानकर्मण इति विवादपदस्यास्य55 नामधेयम् एवम् एतत् । तेन न चोद्यम् एतत् । कथं वेतनस्यादानकर्मोक्तं यावता दानकर्माप्य् उक्तम् “न लभेतैव वेतनम्” इति । नाम्नो हि येन केनचिद् अन्वितेन संबन्धिना नामता न विरुद्धा । न हि यावन्तः सूत्रार्थास् ते सर्वे प्रवर्तन्ते । तथा चाग्निहोत्रे यद्य् अप्य् अग्निप्रजापत्योर् होमस् तथाप्य् अग्निहोत्रम् इति नाम प्रवर्तत एव । एतद् उक्तं तत्रैवं स्थूणादर्शे या च समा नीचा स्याद् इति ।
समयः संवित्56 सङ्केतः- “इदं मया भवताम् अनुमते निश्चितं कर्तव्यम्” इत्य् अभ्युपगमः । तं भिन्दन्ति व्यतिक्रामन्ति ते समयभेदिनः । “संविदश् च व्यतिक्रमः” (म्ध् ८.५) इति यद् उद्दिष्टं तद् इदानीम् उच्यते ।
पूर्वेणार्धेन पूर्वप्रकारेणोपसंहारो ऽपरेण यथोद्दिष्टप्रकरणान्तरसूचनम् ॥ ८.२१८ ॥
यो ग्रामदेशसंघानां कृत्वा सत्येन संविदम् ।
विसंवदेन् नरो लोभात् तं राष्ट्राद् विप्रवासयेत् ॥ ८.२१९ ॥
मेधातिथिः ...{Loading}...
शालासमुदायो ग्रामः । तन्निवासिनो मनुष्या गृह्यन्ते । तेषाम् एव संविदः संभवात् । एवं ग्रामसमुदायो देशः । संघ एकधर्मानुगतानां नानादेशवासिनां नानाजातीयानाम् अपि प्राणिनां समूहः । यथा भिक्षूणां संघो वणिजां संघश् चातुर्विद्यानां संघ इति । ग्रामादीनां यत् कार्यम्, यथा पारग्रामिकैर् ग्रामो नो ऽपहतप्रायः अस्माकीने गोप्रचारे गाश् चारयन्ति उदकं च भित्त्वा नयन्ति । तद् यदि वो मतं तद् अद्य57 एतद् एषां कर्तुं न दद्मे । एवं नः प्रतिबध्नतां58 यदि तैः सह दण्डादण्डिर् भवति राजकुले वा व्यवहारस् तत्र सर्वे वयम् एककार्याः, नो चेद् उपेक्षामाहे" । तत्र ये संविदते, “बाढम्, किम् इति प्राक्तनी ग्रामस्थितिस् तैर् व्यतिक्रम्यते” इति, एवं प्रोत्साह्य विसंवदेद् बलात् तैर् एव सह संगच्छेत स्वेषु वा नाभ्यन्तरः59 स्यात्, स राज्ञा स्वराष्ट्रान् निर्वास्यितव्यो निष्कासयितव्यः । स्वविषये ऽस्य वस्तुं न देयम् ।
एवं वणिङ्मठब्राह्मणादिकार्ये ईदृशे कृतसंइत् तेन नातिक्रमितव्यम् । यत् कार्यं ग्रामाद्युपकारकं शास्त्राचारप्रसिद्धं पुरराष्ट्राविरोधि तत्संविद्व्यतिक्रमे दण्डो ऽयम् ।
लोभाद् इति । स्वेनोपकारगन्धेन परग्रामणीकृतेनास्वातन्त्र्यं लोभः । अज्ञानात् तु विसंवादमान्यस्यान्यः60 कल्पः ॥ ८.२१९ ॥
निगृह्य दापयेच् चैनं समयव्यभिचारिणम् ।
चतुःसुवर्णान् षण्णिष्कांश् छतमानं च राजतम् ॥ ८.२२० ॥
मेधातिथिः ...{Loading}...
निगृह्य अवष्टभ्य पीडयित्वा काललाभम् अकारयित्वा दण्ड्यः । चत्वारि सुवर्णानि येषां निष्काणां परिमाणं ते चतुःसुवर्णा निष्काः । यद्य् अपि “चतुःसुवर्णिको निष्कः” (म्ध् ८.१३७) इत्य् अत्रोक्तम्, तथापि शास्त्रान्तरात् “साष्टं61 शतं सुवर्णानां निष्कम् आहुर् महाधियः” इत्य् एवमादिपरिमाणान्तरं पश्यन्62 विशिनष्टि । संज्ञाकारणसामर्थ्याद् एव लभ्यत इति चेत्, पद्यग्रन्थत्वान् न दोषः ।
-
अन्ये तु महार्थे बहुव्रीहिं कृत्वा त्रीन् दण्डान् आहुः । चतुर्भिः सुवर्णैः सह षण्णिष्कान् दण्डनीयः । दश निष्काः प्रतिपादिता भवन्ति ।
-
बहुव्रीहिसिद्ध्यर्थं सहार्थे कथंचिन् मत्वर्थो योजितव्यः । न हि चित्राभिर् गोभिः सहितश् चित्रगुर् देवदत्त इति भवति । एते च त्रयो दण्डा यदि च त्रिभिर् एक इति कार्यापेक्षया योजनम् ।
निर्वासनदण्डेन63 विकल्पते दण्डो ऽयम् ॥ ८.२२० ॥
एतद् दण्डविधिं कुर्याद् धार्मिकः पृथिवीपतिः ।
ग्रामजातिसमूहेषु समयव्यभिचारिणाम् ॥ ८.२२१ ॥
मेधातिथिः ...{Loading}...
जातिसमूहेषु च नानाजातीयानां समानजातीयानां वा संघेषु तद्विषयो व्यभिचारो येषां इत्य् अर्थः । प्रकरणोपसंहारः ॥ ८.२२१ ॥
क्रीत्वा विक्रीय वा किंचिद् यस्येहानुशयो भवेत् ।
सो ऽन्तर्दशाहात् तद् द्रव्यं दद्याच् चैवाददीत वा ॥ ८.२२२ ॥
मेधातिथिः ...{Loading}...
यद् द्रव्यं प्रचुरक्रयविक्रयं व्यवहारकाले च64 गच्छति न नश्यति मूलतश् च नापचीयते त्रपुताम्रभाण्डादि स्थिरार्घं तादृशस्यानुपभुक्तस्य दशाहमध्ये आदानप्रत्यर्पणे65 । यत् तु विरलक्रेतृकं66 कैश्चिद्67 देवयात्रोत्सवादौ विक्रीयते अनियतार्थं च तस्य तद् अहर् अपरेद्युर् वा । फलकुसुमादौ तु तत्क्षण एवानुशयः । पश्चाद् अपि68 क्रीत्वा यस्यानुशयः “न ममैतद् उपयुज्यते” स दशाहमध्ये दद्यात् । विक्रेता प्रतीपं गृह्णीयात्69 । विक्रेतुर् अनुशये70 “न मया साधु कृतं यद् विक्रीतम्” इति, तदा क्रेता तस्मै प्रतिपादयितव्यः । एकस्थानवासिनां चैष कालः । देशान्तरवासिनां तात्कालिकी प्रतिनिवृत्तिः ।
-
केचिद् गोभूम्यादिविषयं विधिम् इमम् इच्छन्ति, न वस्त्रादौ ।
-
स्मृत्यन्तरे हि वाणिक्पण्ये ऽन्यो विधिर् आम्नायते । एवं नारदः पठति ।
-
क्रीत्वा मूल्येन यः पण्यं दुष्क्रीतम् इति मन्यते ।
-
विक्रेतुः प्रतिदेयं तत् तस्मिन्न् एवाह्न्य् अविक्षतम् ॥
-
द्वितीये ऽहनि ददत् क्रेता मूल्यात् त्र्यंशांसम् आवहेत् ।
-
द्विगुणं तत् तृतीये ऽह्नि परतः क्रेतुर् एव तत् ॥ इति71 । (न्स्म् ९.२–३)
विक्रयार्थं यद् द्रव्यं तत् पण्यं यद् विक्रीय तद् उत्पन्नेन द्रव्यान्तरक्रयादिना पुरुषो व्यवहरति जीविकाधनम् अर्जयितुं तथा पणभूमौ प्रसारितम् अप्रसारितं च भवति वणिजाम्, तत्रेह पण्यग्रहणात् कश्चिद् विशेषो विवक्षितः । इतरथा “क्रीत्वा मूल्येन” इत्य् एतावद् अपेक्ष्यम् ।
-
कः पुनर् असौ विशेषः ।
-
उच्यते । यत् क्रीतम् अपि पण्यत्वम् अजहद् वणिग्भिर् विक्रियते72 तर्हि विक्रयार्थम् एव क्रीणन्ति । तेषां वणिजाम् इतरेतरं73 क्रीणतां विक्रीणानां च नारदीयो विधिः, अन्येषां मानव इति केचित् ।
किं पुनर् अत्र युक्तम् । पण्यधर्मादेर् व्यवस्था वानुसरणीया । तथा चाश्वानां बलसंचारो हस्तिनाम् अङ्कुशारोहणं विक्रयविभावकम् इत्यादिना व्यवहारस् तेषु पण्येषु सिद्धो भवति । अविक्षितम् अविनष्टम् उपनिध्यादौ वस्त्रादेर् यावन् नात्र नाशस् तावतो मूल्यम् उपनिधात्रे दीयते, द्रव्यं तु गृह्णाति । इह त्व् ईषन्नाशे ऽपि सर्वं मूल्यं देयम् क्रेतुः ॥ ८.२२२ ॥
परेण तु दशाहस्य न दद्यान् नापि दापयेत् ।
आददानो ददच् चैव राज्ञा दण्ड्यौ शतानि षट् ॥ ८.२२३ ॥
मेधातिथिः ...{Loading}...
दशाहात् परतो न क्रीतानुशयः । जातानुशयश् चापि क्रेता विक्रेता वा यदि74 राजनि विवदतां तौ ततः षट् शतानि दण्ड्यौ । न दद्याद् इति नायम् अदृष्टार्थः प्रतिषेधः । किं तर्हि ज्ञायते । स्थितिर् ईदृशी । अनिच्छन् क्रेता दशाहाद् ऊर्ध्वं न त्याजनीयो नापि विक्रेता ग्राह्यितव्यः । अतश् च यदि साम्नोभयेच्छायां दानादाने स्यातां तत्र न कश्चिद् दोषः ॥ ८.२२३ ॥
यस् तु दोषवतीं कन्याम् अनाख्याय प्रयच्छति ।
तस्य कुर्यान् नृपो दण्डं स्वयं षण्णवतिं पणान् ॥ ८.२२४ ॥
मेधातिथिः ...{Loading}...
या कन्या दोषैर् युक्ता सा च दात्रा वराय नाख्यायते न प्रकाश्यत एवम् एव दीयते, तत्र दातुर् दण्डो विदिते राज्ञा कार्यः । स्वयंग्रहणम् आदरर्थम् । कन्यादोषाश् च धर्मप्रजासामर्थ्यविघातहेतवः, क्षयो व्याधिर् मैथुनसंबन्धश् च । “नोन्मत्ताया” (म्ध् ८.२०५) इत्य् एतत्प्रकरणोक्तो दण्डो ऽयं वा ॥ ८.२२४ ॥
अकन्येति तु यः कन्यां ब्रूयाद् द्वेषेण मानवः ।
स शतं प्राप्नुयाद् दण्डं तस्या दोषम् अदर्शयन् ॥ ८.२२५ ॥
मेधातिथिः ...{Loading}...
अकन्या वृत्तमैथुनसंबन्धेति यो वदेत् तं च दोषं न भावयेत्, तदा शतं कार्षापणं दण्ड्यः ।
-
अन्ये मन्यन्ते ऽल्पत्वाद् दण्डस्य महत्वाच् चाक्रोशस्येति करणस्य च पदार्थविपर्यये ऽसकृत्त्वेन दर्शनाद् अकन्येति शब्दस्वरूपं विवक्षितम् । “अकन्येयम्” इत्य् एतेनैव शब्देनाक्रोशेत् तस्य शतं दण्डः ।
-
कः पुनर् अत्र विसेषः ।
-
उच्यते । स इदंवादी पृच्छ्यते- “कथम् इयम् अकन्या” इति । स चेद् ब्रूयात् “निर्लज्जा नृशंसाश्लीलवादिनी, नैष कन्यानां धर्मः” । एतच् च न साधयेत् । तदायं दण्डः कन्यागुणनिषेध उक्ते सति ।
अथ वा कन्याशब्दं प्रथमवयोवचनम् आश्रित्य परोक्षे प्रार्थयमानस्य ब्रूयात्- “किं तावन् नासौ कन्या अतिस्वल्पा वृद्धा वा,” तत्र कन्या दत्ता यदि राजानं ज्ञापयेद् अभिरूपतमा कन्या मदीया प्रार्थ्यमानानेन तस्याम् अभिलाषः, एवम् उक्त्वाथ75 पराजितः, तत्र प्राप्तकालायां यद्य् एवम् उक्तं तदा पराजितस्यायं दण्डः ॥ ८.२२५ ॥
पाणिग्रहणिका मन्त्राः कन्यास्व् एव प्रतिष्ठिताः ।
नाकन्यासु क्वचिन् नॄणां लुप्तधर्मक्रिया हि ताः ॥ ८.२२६ ॥
मेधातिथिः ...{Loading}...
पाणिग्रहणं विवाहो दारकर्म । मन्त्राणां76 तत्र विद्यमानत्वात्, स च “अग्निम् अयक्षत” (आश्ग् १.७.१३) इत्य् एताभ्यां संबन्धेनासां विवाहे कर्तृत्वं दर्शयति । परमार्थतस् तु विवाहविधौ “कन्याम् उपगच्छेत्” इति विहितम्, तादृशम् एवार्थं मन्त्रा अभिवदन्ति । न पुनर् मन्त्रेषु कन्याशब्दश्रवणात् कन्यानां विवाहः,77 मन्त्राणाम् अविधायकत्वात् । एष एवार्थस् तद्विपरीतप्रतिषेधमुखेन दृढीक्रियते । नाकन्यासु78** क्वचिन् नॄणाम्** । न कस्यांचिद् वेदशाखायां मनुष्याणाम् अकन्याविषयो विवाहः श्रुतः । लुप्तक्रियाः यासां धर्मे ऽग्निहोत्रादाव् अपत्योत्पादनविधौ चाधिकारो नास्त्य् अतस् ता न विवाह्याः । अतः “कन्याम् अकन्या” (म्ध् ८.२२५) इति वदन् महता दण्डेन योजनीय इति पूर्वश्लोकाद् अनन्तरम् उच्यते । अप्राप्तमौथुना स्त्री कन्योच्यते ॥ ८.२२६ ॥
पाणिग्रहणिका मन्त्रा नियतं दारलक्षणम् ।
तेषां निष्ठा तु विज्ञेया विद्वद्भिः सप्तमे पदे ॥ ८.२२७ ॥
मेधातिथिः ...{Loading}...
दारा भार्या, तस्या लक्षणं निमित्तं विवाहमन्त्राः, तैस् तत्र प्रयुक्तैर् विवाहाख्यः संस्कारो निर्वर्तते । द्विजातीनां पुनर् मन्त्राः । तत्र शूद्रस्य दारप्रसङ्गः, न हि तस्य मन्त्राः सन्ति, मन्त्रवर्जं सर्वान्येतिकर्तव्यतास्ति । अतो विवाहाख्यसंस्कारोपलक्षणं मन्त्राः । तेषां मन्त्राणां निष्ठा समाप्तिः सप्तमे पदे विज्ञेया । लाजाहोमम् अभिनिर्वर्त्य त्रिःप्रदक्षिणम् अग्निम् आवर्त्य सप्तपदानि स्त्री प्रक्रम्यते “एष एकपदी भव” इत्यादि यावत् “सखा सप्तपदी भव” इति । तस्मिन् प्रक्रान्ते कन्यायाः पदे कन्यापितुर् वोढुर् वानुशयो नास्ति । उन्मादवत्य् अपि भार्यैव । न त्याज्या ।
- मैथुनवत्यास् तु नैवासौ विवाहः । सत्य् अपि लाजाहोमादाव् इतिकर्तव्यतास्वरूपे न भार्या सा । अतस् तत्र द्रव्यान्तरवद् अनुशयः । यथा च शूद्रकर्तृकेणाधानेन नाहवनीयो79 भवति, सपिण्डायाश् च कृते ऽप्य् अग्निसंस्करे न80 विवाहस्वरूपत्वम् । तत्र तु प्रसिद्धम्- “संस्कारकरणाद् एकः प्रायश्चित्तीयते पुमान्” । कन्या चान्यस्याप्य् अविवाह्या, वसिष्ठवचनात् ।
-
यदि प्रजनविघातरोगगृहीताम् ऊढ्वा न त्यजति का तर्हि गतिः ।
-
सत्यधिकारे81 अन्याम् उद्वाहयिष्यति, “सद्यस् त्व् अप्रियवादिनी” (म्ध् ९.८१) इतिवत् । कृते तु जातपुत्रायाम् आधाने यदि क्षयो व्याधिः स्यात् तथापि नैनाम् अधिविन्देद् अधिवेदनिमित्तानां परिगणनात् (म्ध् ९.७७–८५) । तत्रापि यदि “कामतस् तु प्रवृत्तानाम्” (म्ध् ३.१२) इत्य् एतत् प्रयोजकम् इष्यते न निवारयामः ।
तेनैव संक्षेपतः कन्यायां धर्मः । यथान्येषां द्रव्याणां दशाहाद् ऊर्ध्वम् अपि साम्ना प्रत्यर्पणम्, नैवं कन्यानां कृतविवाहानाम् । शुल्कदेयानां अपि प्राग् विवाहाद् द्रव्यान्तरधर्मः । या तु धर्माय दीयते तस्या नैवानुशय इति वचनात् । तत्रापि “दत्ताम् अपि हरेत् कन्यां ज्यायांश् चेद् वर आव्रजेत्” (य्ध् १.६५) इत्य् अस्त्य् एवापहार आ सप्तमपदात् । सप्तमे तु पदे82 दानानिवृत्तेर् गवादिद्रव्यदानवन् नास्त्य् अपहारः । अथैव केनचित् कस्मैचिद् गवि दत्तायां न तयोर् अन्योन्येच्छयानुशयो दानादाने, दानस्य तदानीम् एव निवृत्तत्वात् । प्रतिगृहीतं चेद् दात्रे पुनः प्रयच्छेत् तद्दानोत्तरम् एव तत् स्यात्, न83 पूर्वदाननिवृत्तिः । एवं सगुणयोः कन्यावरयोर् नान्योन्येच्छया त्यागो ऽस्ति, प्राग् अपि विवाहात् । विवाहे कृते दोषवत्या अपि नास्ति त्यागः कन्यायाः । स्पृष्टमैथुना या कन्यैव न भवति, अतो ऽसौ त्यज्यते, कन्याया यतो विवाहो विहितो विवाहः । विवाहश् चोपयोगस्थानीयः84 । यथा परिभुक्तं वस्त्रम् अन्तर्दशाहम् अपि नैव विक्रेत्रे ऽर्प्यते, तथैव कन्या कृतविवाहा । पुनश् चायम् अर्थो निर्णेष्यते “सकृत् कन्या प्रदीयते” (म्ध् ९.४७) इत्य् अत्रान्तरे ॥ ८.२२७ ॥
यस्मिन् यस्मिन् कृते कार्ये यस्येहानुशयो भवेत् ।
तम् अनेन विधानेन धर्म्ये पथि निवेशयेत् ॥ ८.२२८ ॥
मेधातिथिः ...{Loading}...
न केवलं वणिजां पण्यधर्मो ऽयं दशाहिको ऽनुशयः, किं तर्हि, वेतनसंविद्वृद्धिप्रयोगादिषु यस्मिन् यस्मिन्न् इति वीप्सयाशेषकार्यपरिग्रहो ऽनेन विधानेन दाशाहिकेन विधिना । धर्माद् अनपेतो धर्म्यः । पन्था मार्गः । निवेशयेत् स्थापयेद् राजा । अतिदेशो ऽयम् कृते कार्य इति । प्रक्रान्ते पुनः सर्वेण सर्वनिवृत्तेः । यत्र ह्य् अनुशयो भावेत्85 । स च86 निरूपिते स्थापिते वान्तरे ऽनुशयो87 दशाहप्रतीक्षणम् ।
- यत्र पुनर् वृद्ध्यर्थं धनं नीतम् ऋत्विक् च88 वृतो वेतनं च89 दत्तम्, कृतसमये विरोध आरब्धस् तत्र नायं धर्म इति केचित् । न हि कृतम् अकृतं भवति ।
एतच् च न कृतं90 निवृत्तम् उच्यते, न प्रकान्तम् । न ह्य् अयम् “आदिकर्मणि क्तः” । न हि मुख्यार्थत्यागे कारणम् अस्ति । यत् तु कृतं नाकृतं भवतीति कृतम् अपि तत् साध्यकार्यप्रतिषेधाद् अकृतम् एव । यथा भुक्तं वान्तम् इति । लौकिकेष्व् अपि पदार्थेषु शास्त्रावसेयव्यवस्था । केषु शास्त्रत एव निवृत्त्यनिवृत्ती विज्ञेये । अथापि वृत्ताः पदार्थास् तथापि प्रत्याहरणं विधीयते । निष्पन्ने ऽपि धनप्रयोगे स्वस्थाननीतेष्व् अपि रूपकेषु प्रत्यानयनं कर्तव्यम् अन्यतरानुशयात् । क्षयव्ययाः शास्त्रधर्मेण नीतेषु वोढव्याः । तथा च गृहीतमात्रेषु मासिकीं वृद्धिम् इच्छन्ति । यत्रैवं बन्ध एष भोक्तव्य इयन्तं कालम् इत्य् एवमाद्य् अन्तर्दशाहम् अनुशये335 निवर्त्यते । ऋत्विजां तु वरणं विवाह इव कन्यानाम् । संविदे दशाहाद् ऊर्ध्वं प्रवर्तितव्यम् अस्मिन्336 शास्त्रे सति ॥ ८.२२८ ॥
पशुषु स्वामिनां चैव पालानां च व्यतिक्रमे ।
विवादं संप्रवक्ष्यामि यथावद् धर्मतत्त्वतः ॥ ८.२२९ ॥
मेधातिथिः ...{Loading}...
गवादिपशुविषये व्यतिक्रमे स्वामिनां पालानां च गोपालादीनां यो विवादः — “गौस् त्वया मे नाशिता तां मे देहि” इति — पालो ऽपि विप्रतिपद्यते — “मदीयो दोषो नाभवत्” — इत्य् अत्र वादपदे यद् धर्मतत्त्वं यादृशी व्यवस्था ताम् यथावन् निपुणतो वक्ष्यामीत्य् अवधानार्थः पिण्डीकृतप्रकरणोपन्यासः ॥ ८.२२९ ॥
दिवा वक्तव्यता पाले रातौ स्वामिनि तद्गृहे ।
योगक्षेमे ऽन्यथा चेत् तु पालो वक्तव्यतां इयात् ॥ ८.२३० ॥
मेधातिथिः ...{Loading}...
दिवा पशूनां योगक्षेमे दोष उत्पन्ने “नष्टं विनष्टम्” (म्ध् ८.२३२) इत्यादिके वक्ष्यमाणे पाले वक्तव्यता कुत्सनीयता । तेन स दोषो निवोढव्यः । रात्रौ स्वामिनो दोष उद्बन्धनादिमृतानाम् । तद्गृहे स्वामिगृहे यदि पालेन प्रवेशिता भवन्ति । अन्यथा चेत् तु यदि रात्राव् अपि पालेन न प्रवेशिता अरण्य एव वर्तन्ते तदा पालो दोषभाक् स्यात् । एतद् उक्तं भवति । पालहस्तगता गावो यदा क्षेत्रे कस्यचित् सस्यं भक्षयन्ति केनचिद् वा हन्यन्ते तदा पालस्य । अथ पालेन समर्पितास् तदा स्वामिनः । अयोगक्षेमे योगक्षेमशब्दः प्रयुक्तो लक्षणया । यथान्धे चक्षुष्मान् इति ॥ ८.२३० ॥
को ऽसौ योगक्षेमः । अतः प्रपञ्चयति ।
गोपः क्षीरभृतो यस् तु स दुह्याद् दशतोवराम् ।
गोस्वाम्यनुमते भृत्यः सा स्यात् पाले ऽभृते भृतिः ॥ ८.२३१ ॥
मेधातिथिः ...{Loading}...
गाः पाति गोपः गोपालकः । स कदाचिद् भक्तादिना भ्रियते कदाचित् क्षीरेण । तत्र क्षीरभृतो दशभ्यो वराम् श्रेष्ठाम्, अवराम्337 वा, संहितायाम् अकारप्रश्लेषात् । रक्षायां अनुरूपकता । यस्य नान्यद् अन्नं स एकस्या गोः क्षीरम् आदद्यात् दशतः । अनया कल्पनया न्यूनाधिकरक्षणे91 भृतिः कल्पयितव्या । एवं दोह्यादोह्यधेनुवत्सतरीदम्यवत्सकादिचारणे92 क्वचित् त्रिभागः क्षीरस्य क्वचिच् चतुर्भागः स्वामिभिः कल्पयितव्यः ।
दिङ्मात्रप्रदर्शनार्थश्लोको ऽयम् । देशव्यवस्था त्व् आश्रयणीया । भृतिं निरूपयिष्यामीति ग्रामगोपालेन यदि गावस् त्यक्ता भवन्ति न तेन स्वामिनम् अननुज्ञाप्य दशमी गौर् दोह्येति । भक्तभृतो ऽपि “क्षीरेण विनिमयेयम्93” इति बुद्ध्या दुहीत, तन्निवृत्त्यर्थम् उक्तं गोस्वाम्यनुमत इति । स्वामिनो ऽनुमतिम् अन्तरेण प्रवर्तमानो दण्ड्यः ।
सा अनन्तरोक्ता । अभृते भक्तादिना भृतिर् भवेत् । क्षीरभृतो वा एषा वृत्तिः94 । भृत्यो भरणार्थं न धर्माय प्रवृत्तो गोरक्षायाम् ।
-
अथ वा स्वेच्छया दशम्या गोः क्षीरम् आददानश् चोरः स्यात् । अस्मिंस् त्व् अनुज्ञाते भृतिस् तस्येयम् इति न दोषः ।
-
अत्रापि स्वामिनो ऽननुमत्या दोष एवेति चेत्, सत्यम्, कल्प्या काचिद् दण्डमात्रा । न चौरो भवति । अस्मिंस् तु चौरो निक्षेपहारी वा स्यात् ।
अयं श्लोक आदौ वक्तव्यः । अतो ऽनन्तरः क्वचित् पठ्यते ॥ ८.२३१ ॥
नष्टं विनष्टं कृमिभिः श्वहतं विषमे मृतम् ।
हीनं पुरुषकारेण प्रदद्यात् पाल एव तु ॥ ८.२३२ ॥
मेधातिथिः ...{Loading}...
नष्टं दृष्टिपथाद् अपेतं न ज्ञायते क्व गतम् । विनष्टं कृमिभिः । आरोहकनामानः कृमयो गवां प्रजनवर्त्मनानुप्रविश्य नाशयन्ति । श्वभिर् हतम्95 । प्रदर्शनार्थम् एतत् । तेन गोमायुव्याघ्रादिहतानाम् एषैव स्थितिः । विषमे श्वभ्रदरीशिलादिसंकटादौ मृतं । प्रदद्यात् पाल एव । हीनं पुरुषकारेण । पुरुषकारः96 पुरुषव्यापारः । पालस्य तत्र संनिधानात् वृकनिवारणं च दण्डादिना प्रवृत्तिः । तेनापेतम् । यदि व्याप्रियमाणो व्याघ्रादेर् निवारणे नैव समर्थः, सहसैव वोत्पत्य97 कश्चित् पशुर् वेगेन श्वभ्रं गच्छेद् अनुगच्छतापि न शक्यः प्रत्यावर्तयितुम्, न पाले दोषः ॥ ८.२३२ ॥
विघुष्य तु हृतं चौरैर् न पालो दातुम् अर्हति ।
यदि देशे च काले च स्वामिनः स्वस्य शंसति ॥ ८.२३३ ॥
मेधातिथिः ...{Loading}...
विघुष्य आघुष्य पटहान्98 चौरैर् हृतं पशुं99 पालो न दाप्यते । विघोषणं च पालस्याशक्त्युपलक्षणार्थम् । यदि बहवश् चोराः प्रसह्य च मुष्णन्ति तदा पालो मुच्यते । सो ऽपि यदि प्राप्तकालं तस्याम् एव वेलायां स्वामिनः कथयति । देशे यत्र स्वामी संनिहितः । कथं विज्ञातस् तत्र100 अथ वा निवासदेशे स्वामिनः । तत्र यद्य् असाव् असंनिहितो ऽपि भवति तथापि तत्स्थानीयो भवति, यो राजानम् अधिकारिणं वा ज्ञापयित्वा चौरान् अभिद्रवति । स्वस्येति राजनिवृत्त्यर्थम् । स्वो हि स्वामी स्वद्रव्यमोक्षणे यत्नं कुरुते न तथा पालज्ञापितो राजा । दुष्करा च राजज्ञपना पालस्य । अथ मुषित्वा गतेषु ज्ञापयेद् दुष्येद् एव ॥ ८.२३३ ॥
कर्णौ चर्म च वालांश् च बस्तिं स्नायुं च रोचनाम् ।
पशुषु स्वामिनां दद्यान् मृतेष्व् अङ्कानि दर्शयेत् ॥ ८.२३४ ॥
मेधातिथिः ...{Loading}...
आयुषः क्षयान् मृतेषु पशुषु स्वामिनः कर्णाद्य् अर्पणीयम् । गोरोचनां गवां शृङ्गेषु चूर्णं भवति । बस्तिर् अङ्गविशेषः । अङ्काः कर्णादयः, स्वामिविशेषज्ञानार्थं चिह्नानि । तान् अपि दर्शयेत् । एवं पालस्य शुद्धिः । अङ्कदर्शनेन हि प्रत्यभिज्ञा भवत्य् अयं स पशुर् इति ॥ ८.२३४ ॥
अजाविके तु संरुद्धे वृकैः पाले तु अनायति ।
यां प्रसह्य वृको हन्यात् पाले तत्किल्बिषं भवेत् ॥ ८.२३५ ॥
मेधातिथिः ...{Loading}...
अजा चाविका च अजाविके । अविर् एवाविकैडका । एते वृकैः शृगालप्रभृतिभिः संरुद्धे अवष्टब्धे, न101 प्रथमपात एव हते । अस्मिंश् चान्तरे सत्य् आमोक्षणे ऽहतत्वात्, न च पाल आयाति मोक्षयितुम्, अनायत्य् अनागच्छति पाले यत् तत्र प्रसह्य बलेनाभिभूय वृको हन्यात् पालस्य स दोषः । स्वामिनो दापयितव्यः । प्रायश्चित्तं चरेत् । गोर् महत्त्वाद् गोमायुना न शक्यते संरोद्धुम् इत्य् अजाविके इत्य् उच्यते, न पुनस् तद्रूपम् । अतश् च बालानां गोवत्सानाम् एष एव न्यायः ॥ ८.२३५ ॥
तासां चेद् अवरुद्धानां चरन्तीनां मिथो वने ।
याम् उत्प्लुत्य वृको हन्यान् न पालस् तत्र किल्बिषी ॥ ८.२३६ ॥
मेधातिथिः ...{Loading}...
“अजाविके”102 पूर्वश्लोके जात्यपेक्षं द्विवचनम् । पशुशकुनिद्वन्द्वत्वाद् विभाषितैकवद्भावः । इह तु तासाम् इति व्यक्त्यपेक्षो बहुवचने परामर्शः । अवरुद्धानां मिथ एकत्र प्रदेशे स्थापितानां संहतीभूतानां दिग्भ्यो विदिग्भ्यश् च निरुद्धगमनानां वने चरन्तीनां दृष्टिगोचराणाम्, यदि कुतश्चन कुञ्जात् संचारणोत्पतनानुक्रमेण निष्क्रम्य वृको हन्यान् न पालो दोषभाग् । अशक्यं ह्य् अनेकवृक्षक्षुपशरवल्लीगहनं वनं निर्विवरीकर्तुम्, छिद्रानुसारिणश् च वृकाः । मिथोग्रहणाच् चातिदूरविप्रकृष्टासु वधे दोष एव । पालहस्तगताः पशवस् तदुपेक्षायां यदि दोषम् आप्नुयुः स पालेनैव समाधेय इति सिद्धे एष प्रपञ्चः सुखावबोधार्थः ॥ ८.२३६ ॥
धनुःशतं परीहारो ग्रामस्य स्यात् समन्ततः ।
शम्यापातास् त्रयो वापि त्रिगुणो नगरस्य तु ॥ ८.२३७ ॥
मेधातिथिः ...{Loading}...
चतुर्हस्तं धनुस् तेषां शतम् । चत्वारि हस्तशतानि । समन्ततश् चतसृषु दिक्षु । ग्रामस्य परीहारः कर्तव्यः । अनुप्तसस्या भूमिः पशूनां सुखप्रचारार्था कर्तव्या । शम्या103 दण्डयष्टिः, सा बाहुवेगेन प्रेरिता यत्र पतति ततः प्रदेशाद् उद्धृत्य पुनः पातयितव्या यावत् त्रिस् तस्य परिमाणो वा शम्यापातः परिहारः । त्रिगुणो नगरस्य । ग्रामनगरे प्रसिद्धे । शम्यायाः पाताः प्रेरिताया वेगसंस्कारक्षयो भूमौ स्थानादि ॥ ८.२३७ ॥
तत्रापरिवृतं धान्यं विहंस्युः पशवो यदि ।
न तत्र प्रणयेद् दण्डं नृपतिः पशुरक्षिणाम् ॥ ८.२३८ ॥
मेधातिथिः ...{Loading}...
तत्र परीहारस्थाने क्षेत्रं न कर्तव्यम् । अथ कृतं तस्माद् वृत्तिर् न कृता । अतः क्षेत्रिण एवापराध्यन्ति, न पशुपालाः । न हि पाल एकैकं पशुं हस्तबन्धेन नेतुं शक्नोति । न च पशूनाम् अन्यो निर्गमो ऽस्ति ॥ ८.२३८ ॥
वृतिं तत्र प्रकुर्वीत याम् उष्ट्रो न विलोकयेत् ।
छिद्रं च वारयेत् सर्वं श्वसूकरमुखानुगम् ॥ ८.२३९ ॥
मेधातिथिः ...{Loading}...
कण्टकशाखादीनां प्राकारविन्यासः104 पशुप्रवेशवारणार्थः क्षेत्रारामादीनां वृतिर् उच्यते । या क्वचित् पर्णिकेति प्रसिद्धा। वारणा वृतिः। तस्या उन्नतिर् इयती कर्तव्या ययोष्ट्रो नावलोकयति ।
-
किम् इयं द्वितीया तृतीयार्थे याम् उष्ट्र इति ।
-
नेति ब्रूमः ।
-
कथं तर्हि वृतिम् उष्ट्रो न पश्यति ।
महोत्सेधाया द्वितीयपार्श्वस्यादर्शनाद् अदृष्टैव वृतिः ।
छिद्रं च विवरम् वारयेत्105 सर्वम् । श्वसूकरमुखेन यद् अनुगम्यते तन् मुखपरिमाणम्106 । तथा कुर्याद् यथा श्वसुखं न माति । तन्मुखाद् अप्य् अल्पछिद्रम् इत्य् अर्थः ॥ ८.२३९ ॥
तथा कृतायां वृतौ ।
पथि क्षेत्रे परिवृते ग्रामान्तीये ऽथ वा पुनः ।
सपालः शतदण्डार्हो विपालान् वारयेत् पशून् ॥ ८.२४० ॥
मेधातिथिः ...{Loading}...
परिवृते पथि क्षेत्रे ग्रामसमीपवर्तिनि च परीहारमध्यगते । अन्तशब्दः समीपवचनः । यदि भक्षयेत् पशुः सपालश् च स्यात्, संनिहिते पाले,107 पालः शतदण्डार्थः पशोर् दण्डासंभवात् । पाले ऽसंनिहिते ऽपि गृहे यदा108 । नाप्य् असौ109 पालः प्रसिद्धो न पुनस् तत्प्रेषितो वारिको रूपकमात्रवेतनः110 । विपालाः पशवो वारयितव्या दण्डादिना, न तु दण्डनीयाः । विपालाश् चोत्सृष्टवृषादयः । अन्येषां तु विपालानां स्वामिनो दण्डः ।
- अथ वा अपरिवृते इति प्रश्लेषः । क्षेत्रसंबन्धाच् च गम्यमानः क्षेत्रस्वामी सपाल इत्य् अन्यपदार्थतयाभिसंबध्यते “सहपालेन”111 इति ।
क्षेत्रे को दण्ड्यः । उभौ दण्ड्यौ । पालः क्षेत्रिकश् च । क्षेत्रिकस् तावत् किल किम् इति पथि क्षेत्रे वृतिं न कृतवान् । पालेनापि वृतौ चास्त्यां किं क्षेत्रं खादयितव्यम् । विपालं112 प्रमादाद् यूथच्युतं वारयेत् । तथा च गौतमः- “पथि क्षेत्रे ऽनावृते पालक्षेत्रिकयोः” (ग्ध् १२.२१) इति ॥ ८.२४० ॥
क्षेत्रेष्व् अन्येषु तु पशुः सपादं पणम् अर्हति ।
सर्वत्र तु सदो देयः क्षेत्रिकस्येति धारणा ॥ ८.२४१ ॥
मेधातिथिः ...{Loading}...
पथिक्षेत्रग्रामान्तीयेभ्यो ऽन्यानि क्षेत्राणि, तद्भक्षणे सपादपणो दण्डः ।
- ननु चात्र स्वल्पेन दण्डेन भवितव्यम्, दूरक्षेत्रात् संनिहिते क्षेत्रे । यत्113 तु पन्थानम् अतिक्रम्य क्षेत्रं114 बहिर्ग्रामं115 वा,116 तत्र महान् दण्डो युक्तः । किम् इति गवां पालो गन्तुं तत्र ददाति ।
- नैष दोषः । यद्य् अत्र महादण्डो नोच्येत तदा प्रत्यहं प्रवेशनिर्गमैर् गवां भक्षयन्तीनां ग्रामान्तरक्षेत्राण्य् उत्सीदेयुः । दण्डात् तु महतो बिभ्यतो यत्नेन रक्षन्ति । अन्यत्र गास्117 तृणविशेषार्थं118 कथंचिन् नयतः119 स्वल्पो दण्डः ।
- अत्रापि विपालानां वारणम् एव ।
सर्वत्र क्षेत्रस्वामिनः सदफले देये120 । कुशलैः च ते121 परिमाणेन122 कल्पिते ।
क्षेत्रिकस्य123 । क्षेत्रम् अस्यास्तीति, व्रीह्यादिताट्टक् । इति धारणा, एष निश्चय इत्य् अर्थः । सर्वत्रग्रहणाच् च विपाले ऽपि पशौ क्षेत्रिकस्य सदलाभः124 । यद्य् अपि पशुशब्दः सामान्यशब्दो महिष्यजाव्युष्ट्रगर्दभादिषु वर्तते तथापि स्मृत्यन्तरदर्शनाद् गोष्व् अयं दण्ड इति मन्यते । तथा च गौतमः- “अश्वमहिष्योर् दश125, अजाविषु द्वौ” (ग्ध् १२.२४–२५) इत्याद्य् अन्यत्र कल्पना ॥ ८.२४१ ॥
अत्रापवाधः।
अनिर्दशाहां गां सूतां वृषान् देवपशूंस् तथा ।
सपालान् वा विपालान् वा न दण्ड्यान् मनुर् अब्रवीत् ॥ ८.२४२ ॥
मेधातिथिः ...{Loading}...
गोग्रहणान् महिष्यादिषु दोषः । वृषाः उक्षाणः126 । देवपशवो देवयागार्थं यजमानेन कल्पिताः प्रत्यासन्नयागाः । अथ वेष्टकादिकूटस्थापिता करिहरादीनां प्रतिकृतयो127 देवा उच्यन्ति । तेषां पशवः । तान् उद्दिश्य केनचिद् उत्सृष्टाः । तदा ह्य् अस्य देवानां पशूनां च स्वस्वामिसंबन्धस्य संभवात्, पुरुषस्वामिभावस्यासंभवात्128, देवायतनमण्डनानाम् चैष धर्मः । न तु तत्पालकैर् वाहदोहाद्यर्थं ये देवगृहेषु धार्यन्ते । यतः पालका एव तेषां देवानाम् अर्थं129 विनियुञ्जते । अतस् तत्र पालका एव स्वामिनः । अतो युक्तः स्वामिवताम् अन्येषां यो धर्मः स तत्र । आयतनमण्डनास् त्व् अपरिगृहीता130 अव्यवधानेन देवपशुशुद्धिम् उत्पादयन्ति । वृषोत्सर्गादिविधानोत्सृष्टा वृषाः कैश्चित् परिगृह्यन्ते । ततः सपाला अथ वापरिगृहीतास्131 ततो विपालाः, उभयेषाम् अदण्डः132 ॥ ८.२४२ ॥
क्षेत्रिकस्यात्यये दण्डो भागाद् दशगुणो भवेत् ।
ततो ऽर्धदण्डो भृत्यानाम् अज्ञानात् क्षेत्रिकस्य तु ॥ ८.२४३ ॥
मेधातिथिः ...{Loading}...
क्षेत्रस्वामिनः स्वक्षेत्रे ऽत्ययो ऽतिक्रमो ऽपराधो यदि भवेत् स्वकृतः136 — अकाले वापनम्, निदाघे अयोग्यबीजवापः, स्वपशुभिर् भक्षणम्, गृहे137 वाविदितफलप्रवेश138 इत्यादि — तदा राज्ञो यावान् भाग आगच्छति तं दशगुणं दण्डनीयः । अथ तस्याज्ञातम् एतत् प्रयुक्तैर् भृत्यैः क्षेत्रजागर्यानियुक्तैर् वा अपराद्धम्, तदा अर्धदण्दो भृत्यानाम् अत्यये क्षेत्रिकस्य दण्ड इति संबन्धः । क्षेत्रप्रसङ्गाद् अत्रेदम् उक्तम् ॥ ८.२४३ ॥
एतद् विधानम् आतिष्ठेद् धार्मिकः पृथिवीपतिः ।
स्वामिनां च पशूनां च पालानां च व्यतिक्रमे ॥ ८.२४४ ॥
मेधातिथिः ...{Loading}...
सुबोधो ऽयं श्लोकः ॥ ८.२४४ ॥
सीमां प्रति समुत्पन्ने विवादे ग्रामयोर् द्वयोः ।
ज्येष्ठे मासि नयेत् सीमां संप्रकाशेषु सेतुषु ॥ ८.२४५ ॥
मेधातिथिः ...{Loading}...
सीमां प्रति विवादे सीमानिमित्ते । लक्षणेत्थंभूतेति प्रतेः कर्मप्रवचनीयत्वात् द्वितीयानिमित्तम् अपि लक्षणम् इति शक्यते वक्तुम् । सीमा मर्यादा ग्रामादीनां विभागः परिमाणम् इयत्ता परिच्छेदनम् इति यावत् । ज्येष्ठे मासि नयेन् निर्णयः कर्तव्यः । मासविशेषनिर्णये139 हेतुम् आह संप्रकाशेषु सेतुषु । सेतवः सीमालिङ्गानि वक्ष्यमाणानि लोष्ठपाषाणादिविशिष्टजातीयसीमा133 ग्राह्या, तृणगुञ्जादीनि134 प्राग् अस्मात् कालाद् उत्थितेषु135 तृणेषु लोष्ठपाषाणयोर् अन्यस्याश् च भूमेर् न विशेषो लक्ष्यते । पाषाणलक्षितायां यदा तत्र तृणानि न ज्ञायन्ते तदा सा सीमेति निश्चीयते । एवं वल्लीस्थानादिष्व् अपि । प्राग् वसन्ताद् वासन्तिके दाहे विशेषो न लक्ष्यते । हेत्वभिधानाच् च यस्मिन् देशे यदा व्यज्यन्ते ततो मासात् कालहरणं कर्तुं न देयम्140 । अन्यदा तु लिङ्गज्ञानार्थं141 कालापेक्षापि भवतीत्य् एतावत्फलं ज्येष्ठग्रहणे ॥ ८.२४५ ॥
सीमावृक्षांश् च कुर्वीत न्यग्रोधाश्वत्थकिंशुकान् ।
शाल्मलीन् सालतालांश् च क्षीरिणश् चैव पादपान् ॥ ८.२४६ ॥
मेधातिथिः ...{Loading}...
पादपा वृक्षाः । क्षीरिणो ऽर्कोदुम्बरप्रभृतयः । एते च142 चिरस्थायित्वात् सीमादेश एव रोपयितव्या न ग्राममध्ये । सीमादेशाद् अन्यत्र क्रियमाणा न निश्चायकाः स्युः ॥ ८.२४६ ॥
गुल्मान् वेणूंश् च विविधान् शमीवल्लीस्थलानि च ।
शरान् कुब्जकगुल्मांश् च तथा सीमा न नश्यति ॥ ८.२४७ ॥
मेधातिथिः ...{Loading}...
(अग्रे व्याख्यानम्।)
अश्मनो ऽस्थीनि गोवालांस् तुषान् भस्मकपालिकाः । करीषम् इष्टकाङ्गारांश् छर्करा वालुकास् तथा ॥ ८.२४८ ॥ उपच्छन्नानि चान्यानि सीमालिङ्गानि कारयेत् । सीमाज्ञाने नृणां वीक्ष्य नित्यं लोके विपर्ययम् ॥ ८.२४९ ॥
तडागान्य् उदपानानि वाप्यः प्रस्रवणानि च ।
सीमासंधिषु कार्याणि देवतायतनानि च ॥ ८.२५० ॥
मेधातिथिः ...{Loading}...
संहतप्रकाण्डा वीरुधो गुल्मानि । वेणव आरग्वधादयः । बहुत्वाच् च विविधग्रहणम् । वल्ल्यो व्रततयः दीर्घाङ्कुरास् तृणजातयः । स्थलानि143 कृत्रिमा सशाड्वलादिपिण्डिकाः । कुब्जकस्य गुल्मत्वात् पृथग् उपदेश आदरार्थः । करीषं शुष्कं गोमयम् । अङ्गारा अग्निदग्धाः काष्टावयवाः । पाषाणकठिना144 मृदः शर्कराः । कपालिका शलशैकदेशः145 । अन्यानि उपच्छन्नानि146 कारयेद् राजा नवग्रामसंनिवेशे कृते निर्णयार्थम्147 । एवं सीमा न कदाचिन् नश्यति । अन्यथा तं प्रदेशं कश्चित् कर्षणेन नाशयेत्148 ॥ ८.२४७–४९
The commentary on these three verses is quite different in the three editions. I have followed Jha.
J: nirṇayam
DK: pracchannāni
M G: śakalaikadeśaḥ
DK (1: 935): pāṣāṇāḥ kaṭhinā
M G omit: sthalāni; DK: sthalā
यानि चैवंप्रकाराणि कालाद् भूमिर् न भक्षयेत् ।
तानि संधिषु सीमायाम् अप्रकाशानि कारयेत् ॥ ८.२५१ ॥
मेधातिथिः ...{Loading}...
गुल्मादीनाम् उपदेशः प्रदर्शनर्थो न परिसंख्यार्थः । एवंप्रकारानि149 खदिरसारकालाञ्जनाद्यानि शर्करादितुल्यानि । का एवंप्रकारता । अत आह कालाद् भूमिर् न भक्षयेत् । भूमेर् भक्षणम् उपमया स्वरूपोपादानम् । यथा भक्षितं भेदेन नोपलभ्यन्ते तद्वद् भूमिसादापन्नम् इव तादृशं कुर्यात् ॥ ८.२५१ ॥
एतैर् लिङ्गैर् नयेत् सीमां राजा विवदमानयोः ।
पूर्वभुक्त्या च सततम् उदकस्यागमेन च ॥ ८.२५२ ॥
मेधातिथिः ...{Loading}...
उभयोर् ग्रामयोः शून्यत्वे लिङ्गैर् निर्णेयः । वसतोः150 पूर्वभुक्त्या सततम् अविच्छन्नयास्मर्यमानावधिकया, न हि त्रिपुरुषभोगेन । स ह्य् अत्र प्रतिषिद्धप्रामाण्यः “आधिः सीमा” (म्ध् ८.१४९) इति अत्र, संभवति हि तत्रोपेक्षा बहुसाधारण्यात् सीमायाः । ये151 तु तत्र सीमशब्दं न152 पठन्ति तेषां भुक्तेः सिद्धम् एव प्रामाण्यम् । लिङ्गानां प्रामाण्यस्योक्तत्वात् प्रमाणान्तरनिवृत्तिर् आशङ्क्येतेति पुनर् उच्यते ।
- को ऽयम् उदकागमः प्रामाण्येनोच्यते ।
यथान्यानि लिङ्गानि नवसंनिवेशे क्रियन्ते तद्वद् एवोदकप्रवाहो ऽपि कर्तव्यः । अथ वा ययोर् ग्रामयोः प्रदेशान्तरे स एवोदकागमो विभागहेतुः प्रदेशान्तरे च विप्रतिपत्तिस् तत्र स एव प्रमाणम् । अथ वा महाग्रामविषयम् एतत् । नद्या अपर एको वा वार एकग्रमस् तत्र न पारवारिणो वक्तव्यम् “अस्मदीया भूमिर् अत्रापि विद्यते” इति । यदि वा कुतश्चिद् ग्रामात् तादृशेन प्रवाहेणावच्छिन्नापि काचिद् भूस् तथापि स एव विभागहेतुः स्वल्पे ऽपहारे153 ॥ ८.२५२ ॥
यदि संशय एव स्याल् लिङ्गानाम् अपि दर्शने ।
साक्षिप्रत्यय एव स्यात् सीमावादविनिश्चयः ॥ ८.२५३ ॥
मेधातिथिः ...{Loading}...
कथं पुनर् लिङ्गेषु सत्सु संशयः । यानि तावत् प्रच्छन्नानि तानि यदि केनचित् कथंचिद् आगम्य प्रच्छन्नम् अन्यत्र नीयेरन् नैव निश्चयः स्यात् । ये ऽपि प्रकाशा154 न्यग्रोधादयस् ते ऽपि न सीमायाम् एव रोहन्त्य् अन्यत्रापि जायन्ते ततः संदेह आभासत्वात् । यत्र पुनर् इयं संभावना नास्ति तत्र प्रमाणम् एव लिङ्गानि ।
साक्षिप्रत्ययः साक्षिहेतुकः । साक्षिणः प्रत्ययो यत्रेति । विनिश्चयः तत्त्वाधिगमः । संशयितलिङ्गे अलिङ्गे वा सीमाविवादे साक्षिहेतुको निर्णय इति तात्पर्यम् ॥ ८.२५३ ॥
ग्रामेयककुलानां च समक्षं सीम्नि सक्षिणः ।
प्रष्टव्याः सीमलिङ्गानि तयोश् चैव विवादिनोः ॥ ८.२५४ ॥
मेधातिथिः ...{Loading}...
यद्य् अप्य् असंख्यातपुरुषको ग्रामस् तथापि द्वौ विवादिनौ द्वयोर् ग्रामयोर् भवतस् तयोः समक्षम् अन्येषां च ग्रामेयककुलानां च ग्रामीणपुरुषसमूहानां समक्षं सीम्नि साक्षिणः प्रष्टव्याः । साक्षिप्रश्नकाले सर्वैर् ग्रामीणैर् दत्तव्यवहारकैर् अपि संनिहितैर् भवितव्यं नार्थिप्रत्यर्थिनोर् अन्यतरो वक्तुं लभते- “आवयोर् विशिष्टार्थे155 विवादे किम् एते संनिधीयन्ते” । अथ वा ये ऽन्ये सामन्तेभ्यो ग्रामेभ्यः केचिद् वृद्धतमाः साक्ष्ये समुद्दिष्टास् तद्ग्रामीणैर् अन्यैः संनिहितैर् भवितव्यम् । यतस् तैर् वृद्धेभ्यः श्रुतं भवति तत्समक्षं पृच्छ्यमाना न विपर्यन्ति वृद्धाः । सीमालिङ्गानि । यत्र लिङ्गान्य् उभयथा तत्र वृद्धेभ्यस् तानि निश्चित्य, सीम्नि156 निश्चयः । असत्सु लिङ्गेषु सीम्न्य् एव साक्ष्यं पृच्छते- “कात्र सीमा” इति ॥ ८.२५४ ॥
ते पृष्टास् तु यथा ब्रूयुः समस्ताः सीम्नि निश्चयम् ।
निबध्नीयात् तथा सीमां सर्वांस् तांश् चैव नामतः ॥ ८.२५५ ॥
शिरोभिस् ते गृहीत्वोर्वीं स्रग्विणो रक्तवाससः ।
सुकृतैः सापिताः स्वैः स्वैर् नयेयुस् ते समञ्जसम् ॥ ८.२५६ ॥
मेधातिथिः ...{Loading}...
मूर्ध्ना** ऊर्वीं** पृथ्वीं मृल्लोष्टकान् गृहीत्वा साक्षिणः स्रग्विणो यथासंभवं माल्यधरा रक्तवर्णकुसुमधरा रक्तवाससो लोहिताच्छादनाः । यद्य् अपि शुक्लस्य वर्णान्तरापादने ऽपि रञ्जिर् वर्तते भूयांस् तु लोहिते प्रयोगो रक्तो गौर् लोहित इति । भयसञ्जननार्थं चैतत् । लोहितवाससश् च सशूका159 भवन्ति । “यद् अस्माकं सुकृतं किंचिद् अर्जितम् अस्ति तन् निष्फलम् अस्तु” इति वाच्यन्ते । स्वैः स्वैर् इति वीप्सया विशेषनामभिः सुकृतं कथयेयुः ।160 कन्यादानं161 तीर्थस्नानं चेत्यादि । स्मञ्जसं क्रियाविसेषणम् । सत्याद् अनपेतऋजुर् धार्मिको यो मार्गस् तेन नयेयुः । समञ्जसम् क्रियाविशेषणम्। सत्याद् अनपेत ऋजुर् धार्मिको यो मार्गस् तेन नयेयुः । समञ्जसम् ऋजु स्पष्टम् इत्य् एको ऽर्थः । सत्यव्यवहारश् च स्पष्ट इत्य् उक्तं समञ्जसम् इति ॥ ८.२५६ ॥
यथोक्तेन नयन्तस् ते पूयन्ते सत्यसाक्षिणः ।
विपरीतं नयन्तस् तु दाप्याः स्युर् द्विशतं दमम् ॥ ८.२५७ ॥
मेधातिथिः ...{Loading}...
प्रमाणान्तरलिङ्गेभ्यो ऽन्यथासंबवद्भ्यः प्रत्ययितरपुरुषेभ्यो मिथ्यात्वे ऽवधारिते,162 प्रत्येकं द्विशतो दण्डः । एकैकस्य साक्षित्वात् साक्षिणां च दण्ड्यत्वात्, न हि व्यासज्य वदन्ति साक्ष्यम् । सत्यप्रधानाः साक्षिणः सत्यसाक्षिणः पूयन्ते अनृताभिधानेन पापेन न संबध्यन्त इति । यथोक्तेन याथातथ्येन । न हि शब्दात्मकस्य वचनस्यात्रावसरः । प्रमाणान्तरसंवादमात्रम् अनेन लक्ष्यते । अथ वा यथाशास्त्रम् उक्तेन सत्येनेति यावत् । शास्त्रे हि सत्यं वक्तव्यम् इत्य् एवम् उक्तम् अतो यथोक्तेन सत्येनेत्य् उक्तं भवति ॥ ८.२५७ ॥
साक्ष्यभावे तु चत्वारो ग्रामसीमान्तवासिनः163** ।**
सीमाविनिर्णयं कुर्युः प्रयता राजसंनिधौ ॥ ८.२५८ ॥
सामन्तानाम् अभावे तु मौलानां सीम्नि साकिषिणाम् ।
इमान् अप्य् अनुयुञ्जीत पुरुषान् वनगोचारान् ॥ ८.२५९ ॥
मेधातिथिः ...{Loading}...
सामन्तानां मौलानाम् इति विशेषणविशेष्यभावः स्तुत्यर्थः । ग्रामप्रतिष्ठानकाले166 भवा उत्पत्तिसहभुवो मौला उच्यन्ते । ते च सामन्ता नित्याः, नित्यसंनिहितत्वात् । तेषाम् अप्य् अभावः कथंचिद् उच्छन्नत्वात् । तदा का167 गतिः । तदा इमान् अपि वक्ष्यमाणान् पृच्छेत् ।
अथ वा मौला अनुभाविनः, सामन्ता व्याक्ख्याताः, व्यवहर्तव्याः । मौलानां पूर्वोक्तानाम् अभावे सामन्ताः प्रमाणम् । तदभावे वनगोचरान् विनियुञ्जीत168 निपुणतः पृच्छेत् ॥ ८.२५९ ॥
व्याधांश् छाकुनिकान् गोपान् कैवर्तान् मूलखानकान् ।
व्यालग्राहान् उञ्छवृत्तीन् अन्यांश् च वनचारिणः ॥ ८.२६० ॥
मेधातिथिः ...{Loading}...
एते169 वनानि170 भ्राम्यन्ति । ग्राममध्येन गच्छन्तः कदाचित् तद्वृत्तं171 विद्युः । ते हि तेन पथा गच्छन्तो विवादास्पदं प्रदेशं पूर्वं कांश्चित् पुरुषान् कृषतो दृष्ट्वा पृच्छेयुः- “को ऽयं ग्रामो यो भवद्भिः कृष्यते” इति । एवमादिना संभवति पूर्वानुभवः ।
व्याधा मृगयाजीविनः । तेषाम् अपि वनाद् भ्रष्टमृघम् अनुधावतां भवति ग्रामसंबन्धः । एवं शाकुनिकाः शकुनिबन्धजीविनः । तदन्वेषणे ये सर्वान् ग्रामान् आगोचरयन्ति । गोपा गवां तृणविशेषज्ञानाय तत्र तत्र परिभ्राम्यन्ति । कैवर्ता दाशास् तडागखननादिजीविनस् तत्र तत्र गच्छन्ति क्वास्माकीनं कर्मोपयुज्यते । मूलखानका172 मूलं वृक्षादेः खनयन्ति स्थूलकाशादेः । व्यालग्रहाः सर्पग्राहिणः, जीविकार्थं ते ऽपि सर्पांस् तं तं प्रदेशम् अन्विच्छन्ति । अतः तेषाम् अपि पारिग्रामिकैर् बहुभिः संबन्धः । उञ्छवृत्तयो ऽपि दरिद्रा अनेकग्रामपर्यटनेन यात्रामात्रं173 निर्वर्तयन्ति । अन्यांश् च फलकुसुमेन्धनार्थिनः ॥ ८.२६० ॥
ते पृष्टास् तु यथा ब्रूयुः सीमासंधिषु लक्षणम् ।
तत् तथा स्थापयेद् राजा धर्मेण ग्रामयोर् द्वयोः ॥ ८.२६१ ॥
मेधातिथिः ...{Loading}...
ते धर्मेण पृष्टा इति योजना । सीमाश् च ताः संधयश् च सीमासंधयः । ग्रामद्वयसंयोगः संधिः । स च सीमैव । लक्षणम् ज्ञापकम् ॥ ८.२६१ ॥
क्षेत्रकूपतडागानाम् आरामस्य गृहस्य च ।
सामन्तप्रत्ययो ज्ञेयः सीमासेतुविनिर्णयः ॥ ८.२६२ ॥
मेधातिथिः ...{Loading}...
आराम उद्यानभूमिः शाकवाटश् च । सामन्तप्रंआणकस् तत्र निश्चयः174 । व्याधादिनिवृत्त्यर्थम् इदम् उच्यते । सीमासेतुः सीमाबन्धः । सीमाविभावनार्थं य आबध्यते स्थाप्यते ॥ ८.२६२ ॥
सामन्ताश् चेन् मृषा ब्रूयुः सेतौ विवदतां नृणाम् ।
सर्वे पृथक् पृथक् दण्ड्या राज्ञा मध्यमसाहसम् ॥ ८.२६३ ॥
मेधातिथिः ...{Loading}...
पूर्वेभ्यः सामन्तानाम् अधिको दण्डः । पृथक् पृथग् इत्य् अनुवादः, उक्तत्वान् न्यायस्य । क्षेत्रादिप्रातिवेश्या अवश्यं ज्ञातारो भवन्ति । प्रत्यासन्नतरतः175 एषां दण्डमहत्त्वम् । सामन्तानां तु परकीयसीमावेदनं नावश्यम् इति द्विशतो दमो ऽनुवर्त्यः । तेन ग्रामसीमायां द्रष्टॄणां सामन्तानां च द्विशतः ।
ये तु सामन्तशब्दम् आश्रित्य ग्रामक्षेत्रादिसीमयोः सामन्तत्वात् तुल्यदण्डत्वम् आहुस् ते न्यायविरोधाद् उपेक्षणीयाः ॥ ८.२६३ ॥
गृहं तडागम् आरामं क्षेत्रं वा भीषया हरन् ।
शतानि पञ्च दण्ड्यः स्याद् अज्ञानाद् द्विशतो दमः ॥ ८.२६४ ॥
मेधातिथिः ...{Loading}...
क्षेत्रादिप्रसङ्गाद् इदम् उच्यते । भीषाग्रहणं176 निमित्तोपलक्षणार्थम् । अस्यैवैतन् निश्चितम् इत्य् एवं जानतो हरतः पञ्चशतो दण्डः । मध्यमसाहसे प्रकृते पञ्चशतग्रहणं निमित्तभेदे न्यूनाधिकदण्डार्थम् । पूर्वत्र वा संख्यानम् अविवक्षितं177 मन्यन्ते । तेन178 “व्यवहारं लेखयामि,” “राज्ञा179 दण्डयामि,” “चौरैर् दोषयामि” इति भयप्रदर्शनेन हरति । तस्यां दण्डो निमित्तान्तरानुकल्पः ॥ ८.२६४ ॥
सीमायाम् अविषह्यायां स्वयं राजैव धर्मवित् ।
प्रदिशेद् भूमिम् एकेषाम्180** उपकाराद् इति स्थितिः ॥ ८.२६५ ॥**
मेधातिथिः ...{Loading}...
अविषह्या निश्चेतुम् अशक्या, लिङ्गसाक्ष्यभावात् । राजैव स्वेच्छया भूमिं प्रदिशेद् दद्यात्- “इयं वो भूमिर् इयं वः” इति । धर्मवित् पक्षपातो नैव कस्यचित् कर्तव्य इति । एतद् आह उपकाराद् धेतोः । यया सीमया द्वाव् अपि ग्रामौ समोपकारौ भवतः । तेन यदि न्यूनापि कस्यचिद् भूमिः स्यात् क्षेत्रं चेत् सुगुणं बहूत्पत्तिकं तदपेक्षः प्रदेशः । ल्यब्लोपे पञ्चमी । उपकारम् अपेक्ष्य ।
अथ वा एकेषां प्रदिशेद् अपरेषाम् अनिश्चिताम् अपहरेत् । यदि विवादिग्रामस् तां सीमां यावद् वक्तुं न शक्नुयाद् इतरे च शक्तास् तदान्येभ्यः181 प्रदिशेत् । एवम् आत्मनो बहूनां च ग्रामीणानाम् उपकृतं भवति ॥ ८.२६५ ॥
एषो ऽखिलेनाभिहितो धर्मः सीमाविनिर्णये ।
अत ऊर्ध्वं प्रवक्ष्यामि वाक्पारुष्यविनिर्णयम् ॥ ८.२६६ ॥
मेधातिथिः ...{Loading}...
पूर्वोपसंहारो ऽपरसंक्षेपोपन्यासः श्लोकार्थः । “दण्डवाचिके” (म्ध् ८.६) इत्य् उक्त्वा क्रमभेदो लाघवाद् वाक्पारुष्यं स्यात् ततो दण्डव्यापारः । द्वन्द्वे चेतरेतरयोगाद् व्यस्तक्रमसमासार्थप्रतिपत्तेर् एकैकस्योभयार्थप्रतिपादनाद्182 दण्डशब्देन वागर्थो ऽप्य् उपात्त इति कः क्रमभेदः । तथा च183 “यथासंख्य"सूत्रारंभो (पाण् १.३.१०) महाभाष्यकारेण समर्थितः, एतद् एव दर्शनम् आश्रित्य “संज्ञासमासनिर्देशात्” (कात् ओन् १.३.१० – १) इति ॥ ८.२६६ ॥
शतं ब्राह्मणम् आक्रुश्य क्षत्रियो दण्डम् अर्हति ।
वैश्यो ऽप्य् अर्धशतं द्वे वा शूद्रस् तु वधम् अर्हति ॥ ८.२६७ ॥
मेधातिथिः ...{Loading}...
परुषवचनम् आक्रोशः । स च बहुधा- नृशंसाश्लीलभाषणान् मर्मणि तोदः,184 अभिशापः अकरणम् “हन्त185 वृषलो भूयाः186”, असता187 दुःखोत्पादनम्188 “कन्या ते गर्भ्णी” इति, पातकोपपातकैर् योजनम्189 इति । तत्र द्वयोर् ब्राह्मणाक्रोशे190 क्षत्रियवैश्ययोर्191 अयं दण्डः । अन्यत्र “पतनीये कृते क्षेपे दण्डो मध्यमसाहसः” (य्ध् २.२१४) इत्यादि स्मृत्यन्तरोक्तः । शूद्रस्य192 वधः ताडनजिह्वाछेदनमारणादिरूपः193 आक्रोशभेदाद् वेदितव्यः194 ॥ ८.२६७ ॥
पञ्चाशद् ब्राह्मणो दण्ड्यः क्षत्रियस्याभिशंसने ।
वैश्ये स्याद् अर्धपञ्चाशच् छूद्रे द्वादशको दमः ॥ ८.२६८ ॥
मेधातिथिः ...{Loading}...
अभिशंसनं सर्वप्रकार आक्रोशः, पतनीयाद् अन्यः, तत्र दण्डान्तरविधानात् । निमित्तसप्तमी चैषा । वैश्य इति विषयसप्तमी195 । ब्राह्मणस्याक्रोष्टुर् आक्रुश्यमानस्य च दण्ड उक्तः । क्षत्रियादीनां त्व् इतरेतरं स्मृत्यन्तरम् अन्वेषणीयम् । तथा च गौतमः- “ब्राह्मणराजन्यवत् क्षत्रियवैश्यौ” (ग्ध् १२.१४) । परस्पराक्रोशे क्षत्रियश् चेद् वैश्यम् आक्रोशेत् पञ्चाशतं दण्ड्यः, वैश्यः क्षत्रियं शतम् । एवं क्षत्रियः शूद्रम् आक्रोशेत् पञ्चविंशतिर् दण्ड्यः, वैश्यः पञ्चाशतम् । शूद्रस्य तु तदाक्रोशे गुणापेक्षिको दण्डो वक्ष्यते ॥ ८.२६८ ॥
समवर्णे द्विजातीनां द्वादशैव व्यतिक्रमे ।
वादेष्व् अवचनीयेषु तद् एव द्विगुणं भवेत् ॥ ८.२६९ ॥
मेधातिथिः ...{Loading}...
द्विजातिग्रहणम् अतन्त्रम्196 । समवर्णे द्वादश197 व्यतिक्रमे प्रस्पराक्रोशे दण्डः । साम्यं198 च जातिवित्तबन्धुवयःकर्मविद्याभिः, विशेषानुपदेशात् । तत्र समानजातीये वित्ताधिके द्विगुणं तस्मिन्न् एव बन्धुत्वाधिके त्रिगुणं यावत् सर्वगुणे निर्गुणस्य199 षड्गुणम् । वादा आक्रोषा अवचनीया अत्यन्तनृशंसा मातृभगिनीभार्यादिगताः । तद् एव द्विगुणं दण्डपरिमाणम् । नपुंसकलिङ्गात् सर्वशेषो ऽयं न समवर्णविषय एव । अथ वा तद् एव शतम् इति योजना, लिङ्गसामर्थ्याच् छतस्य च प्रथमश्लोके श्रुतत्वात् । अतो ऽवचनीयेषु समवर्णेष्व् अपि द्विशतो दमः । लिङ्गोपपत्त्यर्थं परिमाणपदम् अश्रुतम् अध्याहर्तव्यम् । शते तु व्यवहितकल्पना ज्यायसी ॥ ८.२६९ ॥
एकजातिर् द्विजातींस् तु वाचा दारुणया क्षिपन् ।
जिह्वायाः प्राप्नुयाच् छेदं जघन्यप्रभवो हि सः ॥ ८.२७० ॥
मेधातिथिः ...{Loading}...
एकजातिः शूद्रः । स त्रैवर्णिकान् क्षिपन्न् आक्रोशन् दारुणया पातकादियोगिन्या वाचा नृशंसादिरूपया जिह्वाछेदं लभते । जघन्यप्रभव इति पादाभ्यां ब्राह्मण उत्पन्न इति हेत्वभिधानं प्रतिलोमानाम् अपि ग्रहणार्थम् । ते ऽपि जघन्यप्रभवा एव “नास्ति पञ्चमः” (म्ध् १०.४) इति वर्णान्तरनिषेधात् ॥ ८.२७० ॥
नामजातिग्रहं त्व् एषाम् अभिद्रोहेण कुर्वतः ।
निक्षेप्यो ऽयोमयः शङ्कुर् ज्वलन्न् आस्ये दशाङ्गुलः ॥ ८.२७१ ॥
मेधातिथिः ...{Loading}...
अभिद्रोह आक्रोशः कुत्साबुद्धिः- “ब्राह्मणक, त्वं मा मया स्पर्धिष्टाः” । एवम् अन्यद् अपि योज्यम् । ग्रहणं ग्रहः । निरुपपदं नाम गृह्णाति कुत्साप्रत्यययोगेन वा- “देवदत्तक” इति । अभिद्रोहेण क्रोधेन, अभिद्रोहः क्रोधः गर्हा200 क्षेपः201 । न पणयेन । निःक्षेप्यः प्रक्षेप्यः । शङ्कुः कीलकः । ज्वलन्न् अग्निना दीप्यमानः, अयोमयो लोहमयः ॥ ८.२७१ ॥
धर्मोपदेशं दर्पेण विप्राणाम् अस्य कुर्वतः ।
तप्तम् आसेचयेत् तैलं वक्त्रे श्रोत्रे च पार्थिवः ॥ ८.२७२ ॥
मेधातिथिः ...{Loading}...
“अयं ते स्वधर्मः,” “इयं वात्रेतिकर्तव्यता,” “मैवं कार्षीः,” “छान्दसो ऽसि” इत्य् एवमादिव्याकरणलेशज्ञतया202 दुन्दुकत्वेन दर्पवन्तः शूद्रा उपदिशन्ति । तेषम् एष दण्डः । यस् तु प्रणयात् ब्राह्मणापाश्रयाद् एव व्युत्पन्नो विस्मृतं कथंचिद् देशकालविभागं स्मारयेत्- “पूर्वाह्णकालं नातिक्रामय,203 क्रियतां दैवं कर्म, देवांस् तर्पयोपवीति भव, मा प्राचीनावीतं कार्षीः” इति न दोषः । तप्तम् अग्निसंबन्धात् पीडाकरम् । आसेचयेत् क्षारयेत् ।
- युक्तं वक्त्रे, मुखेनोपदेशकत्वात् । श्रोत्रस्य को ऽपराधः ।
प्राग् असत्तर्कादिश्रवणम् ॥ ८.२७२ ॥
श्रुतं देशं च जातिं च कर्म शारीरम् एव च ।
वितथेन ब्रुवन् दर्पाद् दाप्यः स्याद् द्विशतं दमम् ॥ ८.२७३ ॥
मेधातिथिः ...{Loading}...
सत्ये च श्रुते “नैतद् अनेन सम्यक् श्रुतम्” इत्य् आह । श्रुतम् एव वाक्षिपति “नैतत् संस्कारकं204 यद् अनेन श्रुतम्” इति । ब्रह्मावर्तीयम् अभिजनाभिमानिनम् “बाह्यको ऽयम्” इत्य् आह । एवं जात्इब्राह्मणं205 “क्षत्रियो ऽयम्” इत्य् आह, क्षत्रियं वा हेलया “ब्राह्मण” इति । कर्म ब्राह्मचारिणम्206 “स्नातक” इति । शरीरावयवः शारीरे ऽव्यङ्गं “दुश्चर्मा” इति । वितथेन वितथम् अनृतम् । “प्रकृत्यादिभ्यः” (कात् ओन् पाण् २.३.१८) इति तृतीया । अथ वा, अधर्मो207 वैतथ्यम्, तस्य वाच्यं प्रति कारणता युक्तैव । स्वगुणमदात् परावज्ञानं दर्पः । अज्ञानात् परिहासतो वा न दोषः ।
- कस्य पुनर् अयं दण्डः ।
सर्वेषाम् इति ब्रूमः । शूद्राधिकाराच् छूद्रस्यैवेति परे, द्विजातिविषये वैतथ्ये ॥ ८.२७३ ॥
काणं वाप्य् अथ वा खञ्जम् अन्यं वापि तथाविधम् ।
तथ्येनापि ब्रुवन् दाप्यो दण्डं कार्षापणावरम् ॥ ८.२७४ ॥
मेधातिथिः ...{Loading}...
एकेनाक्ष्णा विकलः काणः । खञ्जः पादविकलः । तथाविधं कुणिं चिपट,208 तथ्येन नासत्येन209 अपिशब्दाद् वितथेन, अकाणे काणे च210 काण इत्य् उक्ते कार्षापणावरो दण्डः । अत्यन्ताल्पो यदि दण्डः कथंचिद् अनुग्राह्यतया, तदा कार्षापणो ऽवरो211 दण्डः । अन्यथा द्वौ त्रयः पञ्च वा पुरुषविशेषापेक्षयापि दण्ड्यः शूद्रः, सर्वे वा पूर्ववत् ॥ ८.२७४ ॥
मातरं पितरं जायां भ्रातरं तनयं212** गुरुम् ।**
आक्षारयञ् छतं दाप्यः पन्थानं चाददद् गुरोः ॥ ८.२७५ ॥
मेधातिथिः ...{Loading}...
आक्षारणं भेदनं द्वेषजननम् अनृतेन । “एषा ते माता न स्नेहवती द्वितीये पुत्रे ऽत्यन्ततृष्णावती कनकमयम् अङ्गुलीयकं रहसि तस्मै दत्तवती” इत्य् एवमाद्य् उक्त्वा भेदयति । एवं पितापुत्रौ जायापती भ्रातॄन् गुरुशिष्यौ । तनयग्रहणं द्वितीयसंबन्धिप्रदर्शनार्थम् । अन्यथा मातरम् इत्य् उक्ते मातरं पुत्राद् भिन्दतो213 दण्डः स्यान् न पुत्रं मातुः । यद्य् अपि भेदनम् उभयाधिष्ठानं तथापि यन्मुखेन क्रियते स एव भेदयितव्य इति व्यवहारः । तत्रासति तनयग्रहणे प्रदर्शनार्थे यदैव मातरम् आह “नैष ते पुत्रो ऽभक्तो दुःशीलश् च” इत्येवमादिना मातरम् आक्षारयति तत्रैव स्यान् न तु214 पुत्रं यथा दर्शितम् ।
- अन्ये तु चित्तकदर्थनोत्पादनम् आक्षारणम् आहुः । “प्रवक्ष्यामि धनं श्रुतं वार्जयितुं तीर्थाद्य् उपसेवितुम्” तत्प्रवासशङ्कया च मानसी तृष्णया पीडा भवतीति, तथा न कर्तव्यम् ।
यावद् गुरवस् ते जीवेयुस् तावन् नान्यं समाचरेन् न तैर् अननुज्ञात इति च । यत् तु विद्वेषणादिना चित्ते खेदोत्पादनं तत्र शता न मुच्यते, “प्रतिरोद्धा गुरोः” (म्ध् ३.१४३) इति महत्वाद् दोषस्य ।
जायाया अनुकूलायाः पुत्रवत्याः “करोत्य् अन्यं विवाहम्” इत्य् एतद् आक्षारणम् । एवं गुणवतः पुत्रस्याकारणे ऽन्यकरणम् । गुरोः सर्वप्रकारं पन्थानम् अत्यजतः शतं दण्डः ॥ ८.२७५ ॥
ब्राह्मणक्षत्रियाभ्यां तु दण्डः कार्यो विजानता ।
ब्राह्मणे साहसः पूर्वः क्षत्रिये त्व् एव मध्यमः ॥ ८.२७६ ॥
मेधातिथिः ...{Loading}...
ब्राह्मणक्षत्रियाभ्यां परस्पराक्रोशे कृते तयोर् अयं दण्ड इत्य् एवम् अध्याहारेण योजना । तादर्थ्ये चतुर्थी वा । तद्विनयाय दण्डः कर्तव्यः । पातकस्याक्रोशे कृते ऽयं दण्डो दुःखोत्पादनरूपे ॥ ८.२७६ ॥
विट्शूद्रयोर् एवम् एव स्वजातिं प्रति तत्त्वतः ।
छेदवर्जं प्रणयनं दण्डस्येति विनिश्चयः ॥ ८.२७७ ॥
मेधातिथिः ...{Loading}...
एवम् एव प्रथममध्यमौ साहसाव् इत्य् अतिदिश्यते । तेनैव क्रमेण वैश्यस्य शूद्राक्रोशे प्रथमः । शूद्रस्य वैश्याक्रोशे मध्यमः । छेदवर्जं दण्डस्य प्रणयनम् इति । “एकजातिर् द्विजातिम्” (म्ध् ८.२७०) इत्य् अनेन जिह्वाछेदं प्राप्तं निवर्तयति । स्वजातिं प्रतीति । नैवं मन्तव्यं समानजातीयं215 प्रतीति । किं तर्हि, यात्र जातिर् उपात्ता वैश्यशूद्राव् इति स्वग्रहणम् । श्लोकाभिप्रायं परस्पराक्रोशे यावत् । स्वजातिम् इति पूर्वत्रापि संबन्धनीयम् । प्रणयनम् प्रवर्तनम् । क्षत्रियस्य वैश्यशूद्राक्षारणे प्रथमार्धसाहसः । एवं ब्राह्मणस्य वैश्यशूद्रयोः कल्पः ॥ ८.२७७ ॥
एष दण्डविधिः प्रोक्तो वाक्पारुष्यस्य तत्त्वतः ।
अत ऊर्ध्वं प्रवक्ष्यामि दण्डपारुष्यनिर्णयम् ॥ ८.२७८ ॥
मेधातिथिः ...{Loading}...
दण्डपारुष्यं दण्डेन दुःखोत्पादनम्, यथा कण्टकादेः पुरुषस्य स्पर्शः पीडाकर एवं पीडाकरत्वसामान्यात् पारुष्यशब्दप्रयोगः । तत्र निर्णयो दण्डविशेषनिर्णयः । पूर्वप्रकरणोपसंहारोपन्यासार्थः श्लोकः ॥ ८.२७८ ॥
येन केनचिद् अङ्गेन हिंस्याच् चेच् छ्रेष्ठम् अन्त्यजः ।
छेत्तव्यं तत् तद् एवास्य तन् मनोर् अनुशासनम् ॥ ८.२७९ ॥
मेधातिथिः ...{Loading}...
अन्त्यजः शूद्रश् चण्डालपर्यन्तः । श्रेष्ठः त्रैवर्णिकः । तं चेद् धिंस्याद् अङ्गेन केनचित् साक्षाद् दण्डकड्गादिप्रहरणव्यवधानेन वा, तद् अङ्गम् अस्य216 छेत्तव्यम् । हिंसा च क्रोधेन प्रहरणं ताडनेच्छया हस्ताद्य् उद्यम्य वेगेन निपातनम्, मारणम् एव । तद् तद् इति वीप्सा, अङ्गम् इति छेत्तव्यम् इति चैकत्वविवक्षा मा विज्ञायि217 । तेनानेकेनाङ्गेन218 प्रहरणे ऽनेकस्यैव छेदः । अनुशासनम् उपदेशः, मनुकृतैषा219 मर्यादा । अनुशासनग्रहणं कारुणिकस्य राज्ञः प्रवृत्त्यर्थः ॥ ८.२७९ ॥
पाणिम् उद्यम्य दण्डं वा पाणिच्छेदनम् अर्हति ।
पादेन प्रहरन् कोपात् पादच्छेदनम् अर्हति ॥ ८.२८० ॥
मेधातिथिः ...{Loading}...
उद्यम्य उत्क्षिप्यैव कोपात् ताडनेच्छोस् तदङ्गम् अनिपातयतो ऽस्य पाणिः छेतव्यः । दण्डग्रहणं समानपीडाकरस्य हिंसासाधनस्योपलक्षणार्थम् । तेन मृदुशफादाव् अन्यो दण्डः । पादेन प्रहरन्न् इति । अत्राप्य् उद्यम्येत्य् अपेक्षितव्यम् । अवगुरतो ऽप्य् एष एव (च्ड़्। म्ध् ४.१६५) ॥ ८.२८० ॥
सहासनम् अभिप्रेप्सुर् उत्कृष्टस्यापकृष्टजः ।
कट्यां कृताङ्को निर्वास्यः स्फिचं वास्यावकर्तयेत् ॥ ८.२८१ ॥
मेधातिथिः ...{Loading}...
उत्कृष्टो ब्राह्मणो जातितो दौःशील्याद् अवकृष्टो ऽपि, इतरे वर्णा औत्तराधर्येण परस्परापक्षयोत्कृष्टाश् चावकृष्टाश् च । तत्रेह220 अवकृष्टज इति जनिना जन्मावकर्ष221 उपात्तः,222 तत्संनिधानाद् उत्कर्षो ऽपि जन्मनैव । जन्मना च निरपेक्षोत्कर्षो ब्राह्मणस्य नापकर्षः । तेन शूद्रस्यायं ब्राह्मणेन सहैकम् आसनम् आरूढवतो दण्डः । कटिः श्रोणी । तत्र कृतचिह्नः । अङ्कविधौ च सुधाकुंकुमादिना चिह्नकरणमात्रम्, अपि तु223 दण्डख्यापनार्थम्224 । अतिक्रमाद् विभियुर्225 इति । तेन देशान्तरे यद् अनपायि तच् चिह्नम् आयसो लेखनाद् उपदिश्यते । तथा च वक्ष्यति “उद्वेजनकरैर् दण्डैर् चिहनयित्वा” (म्ध् ८.३५२) इति । राष्ट्राच् च निष्कास्यः । स्फिक् श्रोण्येकदेशः । सव्यो दक्षिणश् च । तं चावकर्तयेत् चिह्नेन । विकल्पविधानात् तावन्मातरच्छेदो न सर्वस्य स्फिजः । अभिप्रेप्सुर् इति च नेच्छामात्रेण । किं तर्हि, प्राप्तवत एव । इच्छाया शक्यापह्नवत्वाद् दण्डस्य च महत्त्वात् ॥ ८.२८१ ॥
अवनिष्ठीवतो दर्पाद् द्वाव् ओष्टौ छेदयेन् नृपः ।
अवमूत्रयतो मेढ्रम् अवशर्धयतो गुदम् ॥ ८.२८२ ॥
मेधातिथिः ...{Loading}...
मूत्रेणावसिञ्चतो ऽभिमुखं वा तदवमानार्थं क्षिपतो ऽसत्य् अपि संस्पर्शे ऽवमानयते मूत्रेणेति निष्कर्तव्यः । समानफलत्वाद् एतस्यापि दण्डो ऽयम् । निष्टीवनं नासिकास्यश्रावः । तस्य226 घ्राणेन क्षेपे नासापुटच्छेदः, “येनाङ्गेन” (म्ध् ८.२७९) इत्य् उक्तत्वात् । शर्धनं कुत्सितो गुदशब्दः । दर्पान् न प्रमादात् ॥ ८.२८२ ॥
केशेषु गृह्णतो हस्तौ छेदेयेद् अविचारयन् ।
पादयोर् दाढिकायां च ग्रीवायां वृषणेषु च ॥ ८.२८३ ॥
मेधातिथिः ...{Loading}...
“दर्पाद्” इत्य् अनुवर्तते । परिभवबुद्ध्या केशेषु ब्राह्मणं गृह्णतः शूद्रस्य हस्तौ छेदयेत् । द्विवचम् एकेनापि द्वाभ्यां तुल्यपीडाकरणे227 उभयच्छेदो नैकस्यैव । दाडिका श्मश्रु । अन्यद् अपि यद् अङ्गं गृह्यमाणं ग्रीवादितुल्यपीडाकरं तत्र सर्वथाप्य् अयम् एव दण्डः । अविचारयन् । पीडा कियत्य् अस्य गृहीतस्य संजाता महती स्वल्पा वेति एतद् अनुबन्धश्लोकप्राप्तं विचारणं निवार्यते228 । ग्रहणमात्रे दण्डः ॥ ८.२८३ ॥
त्वग्भेदकः शतं दण्ड्यो लोहितस्य च दर्शकः ।
मांसभेत्ता तु षण्णिष्कान् प्रवास्यस् त्व् अस्थिभेदकः ॥ ८.२८४ ॥
मेधातिथिः ...{Loading}...
द्विजातीनाम् अयं परस्परापराधे, शूद्रस्य तु शूद्रापराधे, उच्यते229 । यः केवलाम् एव त्वचं भिन्द्याद् विदारयेन् न लोहितं दर्शयेत् तस्य शतं दण्डः । तावद् एव लोहितदर्शने । यद्य् अपि त्वग्बेदम् अन्तरेण न लोहितं दृश्यते, तथाप्य् अधिकापराधाद् अधिकदण्डे प्राप्ते शतवचनं230 नियमार्थम् ।
- अन्ये तु कर्णनासिकादेर् अपि स्रवति शोणितं बहिस्त्वग्भेदे ऽपि तदर्थम् उच्यत इत्य् आहुस् ।
तद् अयुक्तम् । अन्तर्भेदे हि महत्त्वान् महादण्डो युक्तः । तस्माद् यत्रेषत्स्रवति शोणितं तत्र शतं । शिरोभेदे तु मांसवत् ।
निष्कशब्दः सुवर्णपरिमाणवाचीत्य् उक्तम् । प्रवास्यो ऽस्थ्नां भेदकस् तत्प्रयोजक इति । घञन्तेन समासं कृत्वा तं करोतीति पठितव्यः- अस्थिभेदकृद् इति । प्रवासनम् अर्थशास्त्रप्रवृत्त्या मारणम्, निर्वासनं वा । दण्डविधौ ह्य् अर्थशास्त्रश्रवणं दृश्यते । तथा हि “दशबन्धम्” इति बार्हस्पत्य औशनस्ये च प्रयोगः । निर्वासनं ब्राह्मणस्य नान्येषाम् ॥ ८.२८४ ॥
वनस्पतीनां सर्वेषाम् उपभोगो231** यथा यथा ।**
तथा तथा दमः कार्यो हिंसायाम् इति धारणा ॥ ८.२८५ ॥
मेधातिथिः ...{Loading}...
वनस्पतिग्रहणं सर्वस्थावरप्रदर्शनार्थम् । फलपुष्पपत्रच्छायादिना महोपभोग्यस्य वृक्षस्य हिंसायां विनाशे232 दण्ड उत्तमसाहसः,233 मध्यमस्य मध्यमः, निकृष्टस्य प्रथमः । तथा स्थानविशेषो द्रष्टव्यः- पत्रच्छेदः फलच्छेदः शाखाधेद इति । फलानाम् अपि विशेषो महार्घता दुष्प्रापता । तथा स्थानविशेषो ऽपि द्रष्टव्यः- सीम्नि चतुष्पथे तपोवन इति ॥ ८.२८५ ॥
मनुष्याणां पशूनां च दुःखाय प्रहृते सति ।
यथा यथा महद् दुःखं दण्डं कुर्यात् तथा तथा ॥ ८.२८६ ॥
मेधातिथिः ...{Loading}...
यद् उक्तं “त्वग्भेदकः” (म्ध् ८.२८४) इति तस्य विशेषो ऽयम् । असति मनुष्यग्रहणे प्राणिमात्रहिंसाविषयत्वे ऽस्य श्लोकस्य महापशूनां क्षुद्राणां च पशुपक्षिमृगाणां तुल्यदण्डता मा भूद् इति तदर्थम् इदम् । यथा याथा महद् दुःखम् इति । स्वल्पे भेदने शोणिते च प्राणिनां महत्त्वाद् अल्पत्वे234 प्रहारस्य शताद् ऊनो ऽपि दण्डम् अर्हति, महति235 शताद् अभ्यधिको ऽपि ।
अन्ये तु महग्रहणान्236 महति दुःखे दण्डवृद्ध्यर्थम्, नाल्पे ऽपचयार्थम्, यथाश्रुतम् एव । तत्र दुःखाय प्रहृते दुःखोत्पत्त्यर्थं प्रहारे । प्रमादतस्237 तु न वृद्धिः । “अनुबन्धं परिज्ञाय” (म्ध् ८.१२६) इत् अस्यैव श्लोकद्वयम् उदाहरणभङ्ग्या238 व्याख्येयम् ॥ ८.२८६ ॥
अङ्गावपीडनायां च प्राणशोणितयोस्239** तथा ।**
समुत्थानव्ययं दाप्यः सर्वदण्डम् अथापि वा ॥ ८.२८७ ॥
मेधातिथिः ...{Loading}...
अङ्गानाम् अवपीडना दृढरज्ज्वादिग्रहणसंधिविश्लेषणादिना240 । तत्र यावता धनेन पथ्यभिषगौषधादिमूल्येन प्रत्यापत्तिम् आयाति तावत् पीडितस्य241 दाप्यः । एवं प्राणशोणितयोर् अवपीडनायाम्242 इति समस्तम् अपि योज्यम् । अथ वा प्राणशोणितयोः समुत्थानव्ययं दाप्य इति संबन्धः, सामर्थ्याद् अपचितयोर् इति लभ्यते । समुत्थानं प्रकृत्यापत्तिः । प्राणो बलम् । प्रहारेणास्वस्थस्य भोजनाद् ऋते कार्शाद्युपपत्तौ243 बलम् अपचीयते । तत्राङ्गे ऽनष्टे प्रत्यागते च यावद् बललाभस् तावत् तदुपयोगि244 यत्किंचिद् घृततैलाद्245इ दापनीयः । एवं शोणिताद्युत्पत्तौ तद्दुर्बलीभूतस्य व्याध्यन्तरं वा प्राप्तस्याप्रकृतशरीरावस्थाप्राप्तेः समुत्थानव्ययं दाप्यः । न चेत् तद् गृह्णाति तदा तच् च दण्डं च परिपिण्ड्य सर्वं राज्ञे दद्यात् ॥ ८.२८७ ॥
द्रव्याणि हिंस्याद् यो यस्य ज्ञनतो ऽज्ञानतो ऽपि वा ।
स तस्योत्पादयेत् तुष्टिं राज्ञे दद्याच् च तत्समम् ॥ ८.२८८ ॥
मेधातिथिः ...{Loading}...
द्रव्याणि गृहोपकरणानि शूर्पोलूखलघटस्थालीपिठरादीनि अन्यानि वानुक्तदण्डविशेषाणि246 तेषां हिंसा प्राग्रूपनाशः सत्य् अपि कार्यक्षमत्वे । ज्ञानतो ऽज्ञानत इति, प्रमादकृते बुद्धिपूर्वं चाविशेषेण हिंसनात्247 तस्य द्रव्यस्वामिनो जनयेत् परितोषं तद्रूपान्यदानेन मूल्येन प्रणयेन वा । राज्ञे तु द्रव्यमूल्यं द्रव्यं वा दद्यात् । अस्य क्वचिद् अपवादः248 ॥ ८.२८८ ॥
चर्मचार्मिकभाण्डेषु काष्ठलोष्ठमयेषु च ।
मूल्यात् पञ्चगुणो दण्डः पुष्पमूलफलेषु च ॥ ८.२८९ ॥
मेधातिथिः ...{Loading}...
चर्मचार्मिकयोर् द्वन्द्वं कृत्वा भाण्डपदेन विशेष्येण समासः । अथ वा धार्मिकभाण्डयोर् विशेषणसमासं कृत्वा चर्मशब्देन द्वन्द्वः । चर्मविकाराच् चार्मिकाणि भाण्डानि कटिसूत्रवरत्रादीनि । चर्माण्य् अविकृतानि गवादीनां । अथ वा चर्मभाण्डानि केवचर्ममयानि, चर्मावनद्धानि चार्मिकाणि । काष्ठमयभाण्डान्य् उलूखलमुसलफलकादीनि । लोष्ठो मृद्विकारः पाषाणाकृतिः पिण्डीभूता मृत् । तन्मयानि स्वल्पपाकाधानादीनि । तन्नाशने मूल्यात् पञ्चगुणो दण्डः । तुष्ट्युत्पत्तिश् च स्वामिनः स्थितैव ॥ ८.२८९ ॥
यानस्य चैव यातुश् च यानस्वामिन एव च ।
दशातिवर्तनान्य् आहुः शेषे दण्डो विधीयते ॥ ८.२९० ॥
मेधातिथिः ...{Loading}...
सत्याम् अपि हिंसायां क्वचिद् दोषो नास्तीत्य् एतद् अनेन प्रकरणेन प्रदर्श्यते । यानं गन्त्र्यादि यादारुह्य यान्ति पन्थानम् । तच् च गन्त्र्यादि बलीवर्दगर्दभमहिषादिवाह्यम् । त एव वा गर्दभादयः पृष्टारोह्या यानानि । याता तदारूढः सारथ्यादिः । यानस्वामी यस्य तत्स्वयानम् । तत्रैषां चक्रवेगादिभी रथाकर्षणयुक्तैर् वाश्वादिभिः कस्यचिद् द्रव्यस्य नाशो वा मरणम् । तत्र पशुस्वामिपालव्यतिक्रमन्याये249 प्राप्ते कदाचिद् यातुर् दोषः कदाचित् स्वामिनः कदाचिद् उभयोः कदाचिन् न कस्यचिद् अपीति यो विशेषस् तत्र नोक्त इहैवेष्यते, स उच्यते । अतिवर्तनानि,250 अतिक्रम्य हिंसादण्डं वर्तते, नात्र दण्डो ऽस्ति, दण्डनिमित्तानि न भवन्तीति यावत् । शेषे दण्ड उक्तेभ्यो निमित्तेभ्यः । अन्यत्र तान्य् अपि वक्ष्यन्ते ॥ ८.२९० ॥
यत्र नास्ति दोषस् तानि तावद् आह ।
छिन्ननास्ये भग्नयुगे तिर्यक्प्रतिमुखागते ।
अक्षभङ्गे च यानस्य चक्रभङ्गे तथैव च ॥ ८.२९१ ॥
मेधातिथिः ...{Loading}...
(अग्रे व्याख्यानम्।)
छेदने चैव यन्त्राणां योक्त्ररश्म्योस् तथैव च ।
आक्रन्दे चाप्य् अपैहीति न दण्डं मनुर् अब्रवीत् ॥ ८.२९२ ॥
मेधातिथिः ...{Loading}...
नासायां भवं नास्यम् । “शरीरावयवाद् यत्” (पाण् ५.१.६) । नासिकापुटसंयोगिनी बलीवर्दानां रज्जुर् अश्वानां खलीनं हस्तिनाम् अङ्कुशः । तस्मिन् छिन्ने त्रुटिते । युगे च भग्ने । रथाङ्गकाष्ठं युगम् । छिन्नं नास्यम् अस्येति बहुवृईहिणा रथ उच्यते, पशुर् वा, उभयोर् अपि साक्षात् पारंपर्येण संबन्धात् । तिर्यक्प्रतिमुखागते याने, तिर्श्चीनं वा प्रतीचीनं वा कथंचिद् भूवैषम्यात् पशुत्रासाद् वा यानं गच्छत्251 कथंचिद् अपराध्येन् न दुष्येत् । प्राजको हि संमुखीणाञ् छक्तो रक्षितुं तिर्यक् प्रत्यगवस्थितौ त्व् अदृश्यमानस्य कथं शक्तो रक्षितुम्252 । प्रतिमुखागतं प्रत्यगावृत्तिः ।
M G kathaṃ rakṣituṃ; J: kathaṃ rakṣatu
M G DK (1: 1808): gacchet
अन्ये तु तिर्यगागते हिंस्यमाने ऋजुगामिन्य् एव याने न253 दोषम् आहुः । प्रतिमुखं चाभिमुखं मन्यन्ते । अभिमुखागतः किम् इति चक्रिणं दृष्ट्वा पन्थानं न ददाति ।
अक्षचक्रे रथाङ्गे प्रसिद्धे । यन्त्राणि चर्मबन्धनानि शकटकाष्ठानाम् । योक्त्रं पशुग्रीवाकाष्ठम्। रश्मिः प्रग्रहो हस्तवध्रिः254 युग्यानां संचरणनियमनार्थः । आक्रन्द उच्चैः शब्दो ऽपेहीत्य् अपसरेत्य् अर्थः । इतिकरणो भाषाप्रसिद्धतदर्थशब्दोच्चारणार्थः, न त्व् अयम् एव शब्दः प्रयोक्तव्यः । अविधेयेषु युग्येष्व् अपसरापसरेति क्रोशतः प्राजकस्य पथो नातिक्रामन् यदि हिंस्यान् न दोषः ॥ ८.२९१–९२ ॥
यत्रापवर्तते युग्यं वैगुण्यात् प्राजकस्य तु ।
तत्र स्वामि भवेद् दण्ड्यो हिंसायां द्विशतं दमम् ॥ ८.२९३ ॥
मेधातिथिः ...{Loading}...
(अग्रे व्याख्यानम्।)
प्राजकश् चेद् भवेद् आप्तः प्राजको दण्डम् अर्हति ।
युग्यस्थाः प्राजके ऽनाप्ते सर्वे दण्ड्याः शतं शतम् ॥ ८.२९४ ॥
स चेत् तु पथि संरुद्धः पशुभिर् वा रथेन वा । प्रमापयेत् प्राणभृतस् तत्र दण्डो ऽविचारितः ॥ ८.२९५ ॥
मनुष्यमारणे क्षिप्रं चौरवत् किल्बिषं भवेत् ।
प्राणभृत्सु महत्स्व् अर्धं गोगजोष्ट्रहयादिषु ॥ ८.२९६ ॥
मेधातिथिः ...{Loading}...
तादृशे प्राजके रथपशुभिर् मानुष्यश् चेन् मार्यते तदा चौरवत् तस्य किल्बिषं262 दण्डः । यद्य् अपि चौरस्य वधसर्वस्वहरणादयो263 दण्डास् तथापीह धनदण्ड एव गृह्यते न वधः, महत्स्व् अर्धम् इति तत्रैवार्धसंभवात् । स चोत्तमसाहसः कैश्चिद् अभ्युपगतः, यतश् च क्षते क्षुद्रकपशूनां तृतीयस्थानप्राप्तानां द्विशतो दमो ऽतः प्रथमस्थानां मुख्यानाम् उत्तमो युक्त इति । प्राणभृतः प्राणवन्तो मनुष्यतिर्यक्पक्ष्यादयः । महत्सु महत्त्वं गवां प्रभावतो हस्त्यादीनां प्रमाणतः । आदिग्रहणाद् गर्दभाश्वतरव्याघ्रादयश् च कथंचित् परिगृह्यन्ते ।
- वयं तु ब्रूमः- “सहस्रम्” इत्य् एवम् अवक्ष्यत् । यद्य् अन्ये चौरवद् दण्डा नाभिप्रेता264 अभविष्यन् । तस्माद् अर्धग्रहणाद् वधो265 मा भूद् धनदण्डास् तु सर्वस्वहरणादयः सर्वे चौरोक्ताः पुरुषापेक्षयातिदिश्यन्ते ।
- ननु च मनुष्यमारणे ऽन्यस्य266 चौरदण्डस्यातिदेशो267 ऽयुक्तः268 । स प्रतिपदं मनुष्यहनने विहितः । स च “पुरुषाणाम् कुलीनानाम्” (म्ध् ८.३२३) इति वध एव । तत्र किम् इति वाक्यान्तरगतार्धशब्दानुरोधिनैवं269 व्याख्यायते । वरम् अर्धस्यैव गुणतः कदाचिद् वृत्तिर् आश्रीयताम् ।
सत्यम्, यद्य् अर्धशब्दो270 मारणेन संबध्यमानो ऽन्यथोपपद्येत271 । न च चौरवद् इत्य् अस्यानुषङ्गागतस्यार्थान्तरवृत्तिः पूर्वापरवाक्ययोः शक्या ॥ ८.२९६ ॥
क्षुद्रकाणां पशूनां तु हिंसायां द्विशतो दमः ।
पञ्चाशत् तु भवेद् दण्डः शुभेषु मृगपक्षिषु ॥ ८.२९७ ॥
मेधातिथिः ...{Loading}...
अपचितपरिमाणाः272 क्षुद्रकाः । ते च केचिद् वयस्तः273 वत्सकिशोरककलभादयः । केचिज् जातिस्वभावतो ऽजैडकादयः । तत्राजाविकानां पञ्च माषान् वक्ष्यति । परिशेषाणां गवादीनाम् एवायं दण्डो ऽल्पपरिमाणानाम् । शुभा मृगाः पृष्टादयः,274 आकारतो लक्षणतश् च । पक्षिणो हंसशुकसारिकादयः । अशुभाः ककोलूकशृगालादयः275 । पशुशब्दश् चतुष्पाज् जातिवचनः ।
हिंसामात्रेण दण्डम् इमम् इच्छन्ति । न प्रकृतयानविधिहेतुं ब्रुवते । “तत्र दण्डो विचारितः” (म्ध् ८.२९५) इत्य् अनेनैव यानप्रकरणं व्यवच्छिन्नम् । विचारितः समाप्तविचार इत्य् अर्थः । इदानीम् एतत्प्रकरणनिरपेक्षम्276 उच्यत इति । एवं तु “प्राणभृत्सु महत्स्व् अर्धम्” इति हस्तादिच्छेदो न मारणम्277 इत्य् अर्धशब्दो नेयः स्मृत्यन्तरात् ॥ ८.२९७ ॥
गर्दभाजाविकानां तु दण्डः स्यात् पाञ्चमाषिकः ।
माषिकस् तु भवेद् दण्डः श्वसूकरनिपातने ॥ ८.२९८ ॥
मेधातिथिः ...{Loading}...
पञ्च माषाः परिमाणम् अस्येति पाञ्चमाषिकः । माषस्य च द्रव्यजातेर् अनुपपादनान् मध्यमकल्पनायाश् च न्याय्यत्वाद् रौप्यस्य निर्देशो ऽयम् इत्य् आहुः । हिरण्यं तु युक्तम् । एवं तत्समम् इति न278 वाधिकं भवति । अनुबन्धाद्यपेक्षया तु द्रव्यजातिः कल्प्येति सिद्धान्तः ॥ ८.२९८ ॥
भार्या पुत्रश् च दासश् च प्रेष्यो भ्राता च सोदरः ।
प्राप्तापराधास् ताड्याः स्यू रज्ज्वा वेणुदलेन वा ॥ ८.२९९ ॥
मेधातिथिः ...{Loading}...
प्राप्ता अपराधं प्राप्तापराधाः । अपराधो व्यतिक्रमः नीतिभ्रंशः । स यदा तैः कृतो भवति, तदा ताडयितव्याः ।
ताडनम् अपि हिंसेत्य् उक्तम् । सा च “न हिंश्याद् भूतानि” इति प्रतिषिद्धा, अपराधे निमित्ते भार्यादीनां प्रति-प्रसूयते ।
संबन्धि-शब्दाश् चैते ।
या279 यस्य भार्या यश् च यस्य दासः स तेनानुशासनीयः ।
मार्ग-स्थापनोपाय-विधि-परश् चायम्, न ताडन-विधिर् एव ।
तेन वाग्दण्डाद्य् अपि कर्तव्यम् ।+++(5)+++ अपराधानुरूपेण कदाचित् ताडनम् ।
सोदर-स्थाने कनीयान् पठितव्यः- भ्राता तथानुजः । स हि ज्येष्ठस्य पुत्रवत् ताडनार्हः । वैमात्रेयो ऽपि चेद् अपितृको गुणवज्-ज्येष्ट-तन्त्रश् च । सो ऽप्य् उन्मार्गगामी ताडनादि-पर्यन्तैर् उपायैर् निवारणीयः ।
वेणुदलं वंश-त्वक् । एतद् अप्य् उपलक्षणम्- तथा-विधानां मृदु-पीडा-साधनानां शिफादीनाम्280 ॥ ८.२९९ ॥
पृष्ठतस् तु शरीरस्य नोत्तमाङ्गे कथंचन ।
अतो ऽन्यथा तु प्रहरन् प्राप्तः स्याच् चौरकिल्बिषम् ॥ ८.३०० ॥
एषो ऽखिलेनाभिहितो दण्डपारुष्यनिर्णयः ।
स्तेनस्यातः प्रवक्ष्यामि विधिं दण्दविनिर्णये ॥ ८.३०१ ॥
परमं यत्नम् आतिष्ठेत् स्तेनानां निग्रहे नृपः ।
स्तेनानां निग्रहाद् अस्य यशो राष्ट्रं च वर्धते ॥ ८.३०२ ॥
मेधातिथिः ...{Loading}...
कश्चित् करुणावान् “क्रूरं हिंसाकर्म” इति मन्यमानो न प्रवर्तते । अतस् तत्प्रवृत्त्यर्थं285 स्तेननिग्रस्तुत्यर्थवादः प्रक्रम्यते । नात्र हिंसादोषो ऽस्ति, प्रत्युत दृष्टोपकारहेतुत्वात्286 स्तेनहिंसैव श्रेयस्करी । वेदतुल्यतां च ख्यापयितुम् अर्थवादा भूयांसः । तत्र हि प्रायेण सार्थवादका287 विध्युद्देशा इति । तत्प्रतीत्यनुसरणेन वैदिको ऽयम् अर्थ इति प्रसिद्धिः । भवन्ति चत्र केचित् प्रतिपत्तारो ये स्तुतिभिर् अतितरां288 प्रवर्तन्ते ।
परं यत्नं प्रकृष्टम् अतिशयवत् तात्पर्यम् आश्रयेत् । चरैश् चारयेत् साक्षात् प्रकाशं चातिप्रयत्नतः । स्तेनाश् चौराः । निग्रहो नियमनवधबन्धनादिः289 । एवं कृते यशः ख्यातिर् भवति । निरुपद्रवो ऽस्य राज्ञो देशः, स्तेना नाभिभवन्ति, निषा दिवातुल्या तत्र, इति सर्वत्र स्थितं भवति । राष्ट्रं वर्धते । राष्ट्रं जनपदस् तस्मिन् निवासिनश् च पुरुषाश् चौरैर् अनुपद्रूयमाणा वर्धन्ते । श्रीभिः प्रमोदमाना बहुपर्यन्तदेशान्तरस्था290 अपि निरुपद्रवं राष्ट्रम् आश्रयन्ते । ततो वर्धते ॥ ८.३०२ ॥
अभयस्य हि यो दाता स पूज्यः सततं नृपः ।
सत्त्रं हि वर्धते तस्य सदैवाभयदक्षिणम् ॥ ८.३०३ ॥
मेधातिथिः ...{Loading}...
अभयं चौरादिभ्यो ऽधिकृतेभ्यश् चासद्दण्डनिवारणेन यो ददाति स सर्वदैव पूज्यो भवति, स्वैरकथास्व् अपि राज्याच् च्युतो वनस्थो ऽपि । सत्त्रं क्रतुविशेषो गवामयनादि । तद् अस्य वर्धते निष्पद्यते । सर्वाङ्गम् उत्पन्नम् एवंगुणम् इत्य् एतद् वर्धत इत्य् अनेनाह । अहरहः291 सत्त्रफलं प्राप्नोतीत्य् अर्थः । अभयं यत्र दक्षिणा । अन्येषु सत्त्रेषु दक्षिणा नास्ति । इदं तु सर्वेभ्यो ऽपि विशिष्टं यद् दक्षिणावत् । सा च गवाश्वादिदक्षिणाविलक्षणा292 इत्य् अर्थवान् सत्रव्यतिरेकः293 ॥ ८.३०३ ॥
सर्वतो धर्मषड्भागो राज्ञो भवति रक्षतः ।
अधर्माद् अपि षड्भागो भवत्य् अस्य ह्य् अरक्षतः ॥ ८.३०४ ॥
मेधातिथिः ...{Loading}...
सर्वतः प्रकाशाद्294 यज्ञादेः तथा ग्रामवासिभिः वनवासिभिश् च कृताद्295 धर्मषड्भागं296 राजा लभते । एवम् अधर्माद् अपि चौरैः प्रच्छन्नकृताद् राज्ञः षड्भागो भवति । न केवलं स्तेनैर् ये मुच्यन्ते तदरक्षातो राज्ञाम् अधर्मः, यावद् ये हरन्ति तेषाम् अपि चौर्यभावेनाधर्मोदयः, तदंशेनापि राजानः संबध्यन्ते तान्297 अनिगृह्णन्तः298 । अदृष्टदोषसंबन्धनिवारणम् अपि रक्ष्याणां299 रक्षैव300 । तत्राधिकृतस्य301 राज्ञस् तदकरणाद् युक्तः प्रत्यवायः ।
- ननु च भृतिपरिक्रीतत्वाद् धर्मषड्भागम्302 अयुक्तम् ।
उक्तं दीनानाथप्रव्रजितादयः303 सन्त्य् अकरप्रदाः । परिपूर्णस्वधर्मपालने कानुपपत्तिः304 ॥ ८.३०४ ॥
यद् अधीते यद् यजते यद् ददाति यद् अर्चति ।
तस्य षड्भागभाग् राजा सम्यग् भवति रक्षणात् ॥ ८.३०५ ॥
मेधातिथिः ...{Loading}...
यद् उक्तं “सर्वतः” (म्ध् ८.३०४) इति, तस्य305 प्रपञ्चो ऽयम् । अध्ययनादयो धर्मार्थतयान्यत्र ज्ञापिताः प्रसिद्धरूपाश् च । अर्चनं देवगुरूणां पूजनम् । तस्येति कर्मणो ऽध्ययनादेः पदार्थस्येति योजनीयम्, क्रियायाः स्त्रीलिङ्गत्वात् । षड्भाग इति306 । न च307 कर्तुः पञ्चकर्मफलांशात्308 षष्ठो नृपतेः, समग्रकर्मफलभोक्तृत्वस्याधिकारतः कर्तुर् अवगतत्वात् । अपि तु सम्यग्ग्रहणात् स्वकर्मानुष्ठानात् तावन्मात्रं राज्ञः फलम् उत्पद्यत इति । नान्यकृतस्य शुभस्याशुभस्य वा अन्यत्र गमनम् । नाकर्तुः फलम् अस्तीति स्थितम् ॥ ८.३०५ ॥
रक्षन् धर्मेण भूतानि राजा वध्यांश् च घातयन् ।
यजते ऽहर् अहर् यज्ञैः सहस्रशतदक्षिणैः ॥ ८.३०६ ॥
मेधातिथिः ...{Loading}...
भूतानि स्थावरजङ्गमानि चौरेभ्यो रक्षन्, वध्यांश् च शास्त्रतो वधार्हास् तांश् च घातयन्, सहस्रशतदक्षिणानां पौण्डरीकादीनां क्रतूनां फलम् अन्वहं राजा प्राप्नोतीति स्तुतिः ॥ ८.३०६ ॥
यो ऽरक्षन् बलिम् आदत्ते करं शुल्कं च पार्थिवः ।
प्रतिभागं च दण्डं च स सद्यो नरकं व्रजेत् ॥ ८.३०७ ॥
मेधातिथिः ...{Loading}...
बलिप्रभृतीनि राजग्राह्यकरनामानि देशभेदे सूपमाणवकवत्309 प्रसिद्धानि । तत्र बलिर् धान्यादेः षष्ठो भागः । करो द्रव्यादानम् । शुल्कं वणिक्प्राप्यभागः । प्रतिभागं फलभरणिकाद्युपायनम्310 । राजैतद् गृह्णाति, चौरेभ्यश् च न रक्षति, स सद्य आयुःक्षयान् नरकं गच्छेत् । गृहीत्वा राजभागं रक्षा कर्तव्या, नरकायुःक्षयभयाद् इति श्लोकतात्पर्यम् ॥ ८.३०७ ॥
अरक्षितारम् अत्तारं बलिषड्भागहारिणम् ।
तम् आहुः सर्वलोकस्य समग्रमलहारकम् ॥ ८.३०८ ॥
मेधातिथिः ...{Loading}...
पूर्वस्य शेषो ऽयं निन्दार्थवादः । न रक्षति, अत्ता उपजीविता प्रजानां राजभागग्रहणेन । एतद् एव स्पष्टयति- बलिषड्भागहारिणम् । तं तादृशं राजानम् आहुः शिष्टाः सर्वलोकस्य सर्वस्याः प्रजायाः समग्रं मलं पापं तस्य हारकं स्वीकर्तारम् । सर्वेण प्रजापापेन दूष्यत इत्य् अर्थः ॥ ८.३०८ ॥
अनपेक्षितमर्यादं नास्तिकं विप्रलुम्पकम् ।
अरक्षितारम् अत्तारं नृपं विद्याद् अधोगतिम् ॥ ८.३०९ ॥
मेधातिथिः ...{Loading}...
मर्यादा शास्त्रशिष्टसमाचारनिरूढा धर्मव्यवस्था,311 सा अनवेक्षिता अतिक्रान्ता येन । नास्ति परलोको नास्ति दत्तं नास्ति हुतम् इति312 नास्तिकः । प्रथमो रागादिना त्यक्तधर्मः, द्वितीयो313 नास्ति वस्त्व् इति विपरीताभिनिवेशः 314 । विलुम्पति315 हरति धनान्य् असद्दण्डैः प्रजानाम् । तत्तुल्यो ऽरक्षिता । तम् अधोगतिं विद्यान् नरकपतितम् अधोगतं विद्यान् नरकपतितम् एवाचिरात् । पाठान्तरम्- “असत्यं च नृपं त्यजेत्” । अन्यद् उक्त्वान्यत् करोति यस् तं त्यजेत् तद्विषये नासीत ॥ ८.३०९ ॥
अधार्मिकं त्रिभिर् न्यायैर् निगृह्णीयात् प्रयत्नतः ।
निरोधनेन बन्धेन विविधेन वधेन च ॥ ८.३१० ॥
मेधातिथिः ...{Loading}...
अर्थवादैर् दृढीकृत्य निग्रहविधिम् इदानीं प्रस्तौति । अधार्मिकः316 प्रकरणाच् चौरः । तं त्रिभिर् नियमनप्रकारैर् निगृह्णीयान् नियच्छेत् । न्यायो नियामकः । निरोधनं राजदुर्गे बन्धनागारे धरणम्317 । बन्धस्318 तत्रैव रज्जुनिगडादिभिर् अस्वातन्त्र्योत्पादनम् । विविधो वधस् ताडनाद् आरभ्य शरीरनाशनात् प्राणत्यागपर्यन्तः । निर्देशाद् एव त्रित्वे लब्धे त्रिभिर् इति वचनम् अन्येषाम् अपि नियमनप्रकाराणां परिग्रहणार्थम् । तेन तप्ततैलसेकादयो ऽपि परिगृहीता भवन्ति ॥ ८.३१० ॥
०४
निग्रहेण हि पापानां साधूनां संग्रहेण च ।
द्विजातय इवेज्याभिः पूयन्ते सततं नृपाः ॥ ८.३११ ॥
मेधातिथिः ...{Loading}...
पापयुक्ताः पुरुषाः पापाः । तेषां निग्रहः पूर्वोक्तः1 । यथाशास्त्रवर्तिनः2 साधवः । तेषां संग्रहो ऽनुग्रहो यथाशक्त्युपकारः । तेन पूयन्ते विपाप्मानो भवन्ति प्रायश्चित्तेनेवेत्य्3 अर्थवादः । अथ वा पापानुत्पत्तिर् एव पूतत्वम् । ब्राह्मणा इव4 सततम् इज्याभिः नित्यैर् महायज्ञादिभिः ॥ ८.३११ ॥
क्षन्तव्यं प्रभुना नित्यं क्षिपतां कार्यिणां नृणाम् ।
बालवृद्धातुराणां च कुर्वता हितम् आत्मनः ॥ ८.३१२ ॥
यः क्षिप्तो मर्षयत्य् आर्तैस् तेन स्वर्गे महीयते ।
यस् त्व् ऐश्वर्यान् न क्षमते नरकं तेन गच्छति ॥ ८.३१३ ॥
मेधातिथिः ...{Loading}...
आर्तैर् दण्ड्यमनतत्संबन्धिभिर् अधिक्षिप्त आक्रुष्टो यन् मर्षयति न क्रुध्यति तेन क्षमणेन स्वर्गे महीयते । कण्ड्वादित्वाद् यः8 । महत्त्वं प्राप्नोति स्वर्गे । अकोपेन तर्हि क्षमा कर्तव्या । अकामिनो यथाकामी अत आह । यत् तु9 प्रभुर् अहम् इत्य् अभिमानेन न सहते तेन नरकं प्राप्नोति । आर्तग्रहणं बालवृद्धयोर् अपि प्रदर्शनार्थं पूर्वशेषत्वाद् अस्य ॥ ८.३१३ ॥
राजा स्तेनेन गन्तव्यो मुक्तकेशेन धीमता10** ।**
आचक्षाणेन तत् स्तेयम् एवंकर्मास्मि शाधि माम् ॥ ८.३१४ ॥
मेधातिथिः ...{Loading}...
अविशेषोपादाने सुवर्णहारी स्तेनो द्रष्टव्यः, तस्यैव शास्त्रान्तरे गमनविधानात् । न चेदम् आगमनपरं11 विधिशास्त्रम्,12 दण्डविधित्वात् । उक्तं हि “स्तेनस्यातः प्रवक्ष्यामि विधिं दण्डविनिर्णये” (म्ध् ८.३०१) इति । अतो ऽनुवादओ गमनस्यात्र13 । राजसकाशं सुवर्णचौरेण गन्तव्यम्14 । मुक्तकेशेन धीमता दैर्यवता । “धावता” इति पाठान्तरम् । आचक्षाणेन कथयता पथि तत्पातकम् “एवंकर्मास्मि ब्राह्मणस्य मयेयत् सुवर्णं हृतम् इति कुरु निग्रहं मे” ॥ ८.३१४ ॥
स्कन्धेनादाय मुसलं लगुडं वापि खादिरम् ।
शक्तिं चोभयतस् तीक्ष्णाम् आयसं दण्डम् एव वा ॥ ८.३१५ ॥
मेधातिथिः ...{Loading}...
वर्णानाम् अनुक्रमेण मुसलादीनाम् उपदेशं मन्यन्ते ।
तद् अयुक्तम् । वाशब्दो न समर्थितः स्यात् । न च ब्राह्मणस्येदं प्रायश्चित्तम् इच्छन्ति । तत्प्रायश्चित्तेषु निरूपयिष्यामः । खदिरजातिर् लगुड एव, न मुशलेनानुषक्तव्यः ॥ ८.३१५ ॥
शासनाद् वा विमोक्षाद् वा स्तेनः स्तेयाद् विमुच्यते ।
अशासित्वा तु तं राजा स्तेनस्याप्नोति किल्बिषम् ॥ ८.३१६ ॥
मेधातिथिः ...{Loading}...
शासनान् मुशलादिभिः प्रहरणात् क्षत्रियादिः पापान् मुच्यते । विमोक्षाद् उत्सर्गात् । गच्छ क्षान्तम् इति “ब्राह्मणस् तपसैव” (म्ध् ११.९९) इति वधतपसी विहिते । तत्र वधस् तावद् ब्राह्मणस्य नास्ति । तपस् तु प्रायश्चित्तं । न च तपसि15 इच्छातो राजाभिगमनम् अस्ति । तस्मात् क्षत्रियादीनाम् एष विमोक्षः । स च धनदण्डं गृहीत्वा । यत आह अशासित्वेत्यादि । न च विमोक्षणसुद्धौ सत्यां राज्ञस् तदशासनाद् दोषोपपत्तिः । न च “शासनम् अपि विहितं मोक्षो ऽपि विहित, तत्र यस्मिन् पक्षे शासनं तदपेक्षं दोषवचनम्” । पाक्षिकं हि तथा कल्पनम्16 । न च नित्यवच् छ्रुतस्य पाक्षिकत्वं युक्तं कल्पयितुम् । तथा च सामान्येन वसिष्ठादय आहुः ।
- तं चेद् घातयेद्19 राजा घ्नन् धर्मेण न दुष्यति ॥ (वध् १९.४६)
नायं विकल्पो युक्तः । क्वचिद् इयं हिंसा प्रतिषिद्धा- “न हिंस्याद् भूतानि” इति रागादिना पुरुषार्थतया प्राप्ता । क्वचिद् विहिता- क्रत्वर्थत्वेन “यो दीक्षितो यद् अग्नीषोमीयम्” (त्स् ६.१.११.६) इति । इदं20 तु शासनविमोक्षणवचनं21 न हि नाम प्रतिषिद्धं22 सति विधौ ।
-
कथं न प्रतिषेधो “न हिंस्याद् भूतानि” इति सामान्यतः प्रतिषेधो विधिविशेषम् अन्तरेण न शक्यो बाधितुम् ।
-
अथोच्यते । नैवायं प्रतिषेधस्य विषयः, कर्मार्थत्वात् । कथं पुनर् अन्तरेण विधिं कर्मार्थता शक्यावगन्तुम् । लोकत इति चेत्, लौकिकी तर्हि प्रवृत्तिः । कथं तर्हि प्रतिषेधस् तत्रावतरेत् ।
-
ननु च प्रदाने प्रवृत्तिर् निरूप्यताम् । यदि तावद् वैदिकी प्रवृत्तिस् ततस् तदङ्गे हिंसायाम् अपि तत एव । एका हि प्रवृत्तिर् अङ्गप्रधानयोः23 । अथ लिप्सातो ऽङ्गे ऽपि तत्र24 प्रवृत्तिः, सुतरां तर्हि हिंसेयं लौकिकी । जीविकार्थिनो हि प्रजापालनाधिकारनियमो न25 वेधः । तेनेयम् अङ्गस्थापि हिंसा श्येनेन26 तुल्यत्वात् प्रतिषेधविषयः । न च लौकिकम् अस्या नियतम् अङ्गत्वम् । नो27 हिंसाम् अन्तरेण प्रजापालनम् अशक्यम्, निरोधादिनापि शक्यत्वात् । नैष नियमः । एकरूपाङ्गप्रधानयोः प्रवृत्तिर् इति स्यान् नाग्नीषोमीययोर् अनेन न28 विशेषः स्यात् । अतो लिप्सालक्षणे ऽपि प्रधाने ऽङ्गे विधिलक्षणम्29 अभ्युपेतव्यम् । न चैषां30 हिंसा विधिलक्षणा31 शक्याभ्युपगन्तुं स्वरूपस्य कार्यस्य च लौकिकत्वात् पालनस्य हिंसायाश् च । अथ विधिलक्षणा षोडशिग्रहणवद्32 विकल्पितुम् अर्हति शासनवचनेन प्रतिषिद्धा ।
अन्ये तु मन्यन्ते । द्वे एते वाक्ये । शासनाद् इति स्तेनस्य बुद्धिर् उच्यते । परेणार्धेन राज्ञस् तदशासने दोषः । तत्र यदि राजाशासनदोषम् आत्मन्य् अङ्गीकृत्य मुञ्चेन् मुच्येतैवैनसः । एवं ब्राह्मणस्यापि स्वयम् आगतस्य वधः शुद्धिहेतुः-33 “लक्ष्यं शास्त्रभृताम्34” (म्ध् ११.७२) इति वचनात् । “न शारीरो ब्राह्मणदण्डः” (ग्ध्१२.४३) इति35 राजा यदि प्रतिषेधातिक्रमेण हन्याद् ब्राह्मणः शुध्येद् एव ।
अशासित्वा मुशलादिभिर् अहत्वा । स्तेनस्य यत् पापं तेन युज्यते ॥ ८.३१६ ॥
अन्नादे भ्रूणहा मार्ष्टि पत्यौ भार्यापचारिणी ।
गुरौ शिष्यश् च याज्यश् च स्तेनो राजनि किल्बिषम् ॥ ८.३१७ ॥
मेधातिथिः ...{Loading}...
अन्नम् अत्तीत्य् **अन्नाद्ः **। भ्रूणहा ब्रह्महा ।तदीयम् अन्नं यो भुङ्क्ते तस्मिंस् तद् ब्रह्महत्यापापं मार्ष्टि निरस्यति36 श्लेषयति । यथा मलिनं वस्त्रम् उदके मृज्यते तन्मलं तत्र संक्रामत्य् एवम् । अर्थवादश् चायम् । तस्य तत्पापम् उत्पद्यते । न पुनर्37 ब्रह्मघ्नो नश्यति38 । पत्यौ भर्तरि भार्यापचारिणी जारिणी, स चेत् क्षमते । अत्रापि भर्तुर् उत्पाद्यते पापम्, न तत्र39 तस्या अपैति । गुरौ शिष्यश् च याज्यश् च शिष्यः सूर्याभ्युदितादिभिर् अपराध्य तु40 गुरौ क्षममाणे तत्पापं प्रक्षिपति । एवं याज्यो याजके41 । सो ऽपि गुरुर् एवेत्य् अतो याजकग्रहणं न कृतम् । एवं चौरो राजनि, न चेद् राज्ञा निगृह्यते । याज्यो ऽपि कर्मणि प्रवृत्ते विधिम् उपक्रामति चेद् याजकवचने नावतिष्ठते तदा त्याज्यः, न पुनस् तस्य ताडनादि शिष्यवत् कर्तव्यम् । अन्नादादिषु सर्वेष्व् अन्यत्र विधिर् अस्तीति न बुद्धिः42 । अतो ऽर्थवादो ऽयम् ॥ ८.३१७ ॥
राजभिः धृतदण्डास् तु कृत्वा पापानि मानवाः ।
निर्मलाः स्वर्गम् आयान्ति सन्तः सुकृतिनो यथा ॥ ८.३१८ ॥
मेधातिथिः ...{Loading}...
यद् उक्तं पापकारिणो निग्रहणे कर्मकृतो रक्षन्त इति तत् स्फुटयति । धृतो विनिपातितो43 दण्डो येषां राजभिस् ते कृत्वा पापानि कृतपापा राजनिग्रहेण निर्मला निरस्तपापा भवन्ति । अपगते च पापे यद् एषां स्वर्गारोहकं44 कर्म तेन स्वर्गं प्राप्नुवन्ति । महद् धि पापं शुद्धस्य कर्मणः फलस्य प्रतिबन्धकम् । सुकृतिनो नित्यं सुकृतकर्मकारिणः । यथा सन्तो धार्मिकास्45 तद्वद् । असताम् अधर्मो नैवोत्पद्यते, एषाम् उत्पन्नो निग्रहणेन विनाशित46 इति प्राक्प्रध्वंसाभावयोर् विशेषः ।
मानवग्रहणान् न प्रकरणाच् चौराणाम् एव । दण्ड्अशब्दस् तु शारीरनिग्रहविषयो न हि प्रकरणम् अतिक्रामति । धनदण्डो हि राजार्थः । वृत्तिर् हि सा47 राज्ञः । शारीरे तु दण्डे दण्ड्यमानार्थता न48 शक्यते निह्नोतुम्, त्वक्संस्कारो हि सा49 । अथेयं बुद्धिः- पालनम् एव हिंसाम् अन्तरेण न निष्पाद्यते, तच् च राजार्थम् इति कुतो मार्यमाणार्थता मारणस्य । अथ किम् पालनं न पाल्यमानार्थं दृष्टम्50 एवापह्नूयते । न हि तद्राष्ट्रम् उपादेयं राज्ञैव स्वरक्षार्थं करशुल्कादिभृत्या उपादीयन्ते । अतः सुतरां रक्षोपयोगित्वे51 हिंसायां न52 हिंस्यमानार्थतासिद्धिः । कथं वा हिंसया विना न रक्षानिर्वृत्तिर् यदि तावद् एवमर्थं निगृह्यन्ते पुनर् अकार्यम् आवर्तयिष्यते तन्निरोधनादिनापि53 शक्यते नियन्तुम् । अथ तान् निगृहीतान् दृष्ट्वा54 भयाद् अन्ये न प्रवर्तयिष्यन्त इति धनदण्डेनापि शक्यते दुःखयितुम् । हन्यमानेष्व् अपि सहस्रशः प्रवर्तन्ते । तस्माद् इयं हिंसा रक्षा सती हिंस्यमानसंस्कार इति मन्तव्यम् । अतश् च करणादिछेदने55 नियमः । हस्त्यादिविधिश् च दण्ड्येष्वेवादृष्टम्56 आधास्यति, न राजार्थो भविष्यति ।
- तस्माच् छरीरदण्डे पापान् मुक्तिर् न धनदण्ड इति स्थितम् । तथा च महापातकिनां हृतसर्वस्वानाम् अप्सु प्रवेशितदण्डानां संव्यवहारपरिहारार्थम् अङ्कनं वक्ष्यति । यदि च धनदण्डेन शुध्येयुः पुनर् अङ्कनम् अनर्थकं स्यात् ।
अत्र च स्वयम् आगतस्य नानीतस्य विशेषो यः स्तेन एव57 विशेषो भवतु । इदं तु सर्वं शारीरदण्डविषयम् ॥ ८.३१८ ॥
यस् तु रज्जुं घटं कूपाद् धरेद् भिन्द्याच् च यः प्रपाम् ।
स दण्डं प्राप्नुयान् माषं तच् च तस्मिन् समाहरेत् ॥ ८.३१९ ॥
मेधातिथिः ...{Loading}...
प्रपिबन्त्य् अस्याम् इति प्रपा, जलाधारस्थानम् उद्धृतजलनिधानं वा । माषस्य जातिर् न निर्दिष्टा । सा मरुजाङ्गलानूपभेदा58 द्रष्टव्या । तच् च रज्ज्वादि समाहरेद् दद्यात् तस्मिन् स्थाने, न राजनि ॥ ८.३१९ ॥
धान्यं दशभ्यः कुम्भेभ्यो हरतो ऽभ्यधिकं वधः ।
शेषे ऽप्य् एकादशगुणं दाप्यस् तस्य च तद्धनम् ॥ ८.३२० ॥
मेधातिथिः ...{Loading}...
कुम्भशब्दः परिमाणविशेषे वर्तते न घटमात्रे । क्वचिद् विंशतिप्रस्थान् क्वचिद् द्वाविंशतिर् इति देशभेदाद् व्यवस्था । दशभ्यो ऽधिकं हरतो वधविधिर् उक्तार्थो ऽनुबन्धादिना नियम्यते । शेषेषु दशसु प्राकृत एकादशगुणो दण्डः । तत् तस्य59 च तद् धनम् इति सर्वत्र स्तेये योज्यम् । धान्यं व्रीहियवादिसप्तदशानीति स्मर्यते ॥ ८.३२० ॥
तथा धरिममेयानां शताद् अभ्यधिके वधः ।
सुवर्णरजतादीनाम् उत्तमानाम् च वाससाम् ॥ ८.३२१ ॥
मेधातिथिः ...{Loading}...
धरणं धरिमा, तुला, तेन मीयन्ते परिछिद्यन्ते तानि धर्ममेयानि । घृतादीनां द्रवाणां प्रस्थादिमेयतास्तीति, कठिनानां परिमेयता भवतीति, तद् अर्थम् आह सुवर्णरजतादीनाम् । आदिग्रहणाद् एव रजते लब्धे पुनर् उपादानात् तुल्यग्रहणार्थात् प्रवालादीनि गृह्यन्ते, न तु ताम्रलोहादीनि । तेषां शताद् ऊर्ध्वं हरणे वधः ।
-
किं पुनर् एतच् छतं पलानाम् उत कर्षाणाम् एव कार्षापणानां वा ।
-
केचिद् आहुः पलानाम् इति ।
न त्व् अत्र विशेषे60 हेतुर्61 अस्ति । तस्माद् यस्मिन् देशे धर्ममानकाले यया62 संख्यया व्यवहारः, शतम्63 इदं सुवर्णस्य, क्वचित् तोलके क्वचित् पलेषु, यथादेशं व्यवस्था ।
उत्तमानां च वाससां कौशेयपट्टादीनाम् इति ।64 शताद् अभ्यधिके वधः65 इत्य् अनुषङ्गः । अत्रापि शाटकयुगम्66 एकम् इति संख्यायते । पुष्पपटाद्युपबर्हणं त्व् एकम् एवेति ।
- ननु च सुवर्णरजतादीनाम् इत्य् एव सिद्धे परिमेयग्रहणम् अनर्थकम् ।
नानर्थक, कर्पूरागुरुकस्तूरिकादीनां महार्घाणां ग्रहणार्थम् । आदिग्रहणाद् धि तैजसानि गृह्यन्ते, निष्कादिपरिमाणव्यपदेश्यानि वा । न हि कर्पूरादीनां कर्षादिव्यपदेशो ऽस्ति । यद्य् अपि सुवर्णवद् रजते ऽपि शतसंख्या तथापि प्रायश्चित्तभेदवद् दण्डभेदो ऽपि युक्तो विषमसमीकरणस्यान्याय्यत्वात्67 । अतो यावत् सुवर्णगतस्य मूल्यं तावति रूप्ये68 गृहीते वधः । कर्पूरादीनां तु पलानाम् एव शतसंख्या ॥ ८.३२१ ॥
पञ्चाशतस् त्व् अभ्यधिके हस्तच्छेदनम् इष्यते ।
शेषे त्व् एकादशगुणं मूल्याद् दण्डं प्रकल्पयेत् ॥ ८.३२२ ॥
मेधातिथिः ...{Loading}...
सुबोधो ऽयम् । मूल्याद् इति- नापहृतम् एव द्रव्यं देय, क्वचित् तज्जातीयं नैव प्राप्यते । अतो रूपकैर् धान्यादिना वा विनिमेयम्69 ॥ ८.३२२ ॥
पुरुषाणां कुलीनानां नारीणां च विशेषतः ।
मुख्यानां चैव रत्नानां हरणे वधम् अर्हति ॥ ८.३२३ ॥
मेधातिथिः ...{Loading}...
सत्कुले जाता विद्यादिगुणयोगिनः कुलीनाः । नारीणां च विशेषतो गुणरूपसौभाग्यसंपन्नानाम्70 इत्य् अर्थः । चशब्दात् कुलीनानां इत्य् एव । परस्परापेक्षाणि नारीणां विशेषणानि । मुख्यानि उत्तमानि रत्नानि वज्रवैडूर्यमरकतप्रभृतीनि । अत्रापि सुवर्णशततुल्यानीत्य् अपेक्ष्यम् । अन्यथोत्तमत्वम् आपेक्षिकम् इति दण्डो न व्यवतिष्ठेत । वधम् अर्हति । अनुबन्धाद्यपेक्षया सर्वत्रार्हत्यर्थो71 योजनीयः । अकुलीनानाम् अवशिष्टानाम् अमुख्यानां च “शेषे72 त्व् एकादशगुणम्” (म्ध् ८.३२२) इत्य्73 एव ॥ ८.३२३ ॥
महापशूनां हरणे शस्त्राणाम् औषधस्य च ।
कालम् आसाद्य कार्यं च दण्डं राजा प्रकल्पयेत् ॥ ८.३२४ ॥
मेधातिथिः ...{Loading}...
महापशवो हस्त्यश्वादयः । तेषाम् हरणे कालकार्यापेक्षा दण्डप्रकॢप्तिः ।
- ननु च सर्वत्रैव कालाद्यपेक्षोक्ता । तथा च “कालदेशवयःशक्तीश् चिन्तयेद् दण्डकर्माणि” (य्ध् २.२७९) इति ।
सत्यम् । विज्ञाते दण्डस्वरूपे न्यूनाधिकभावो ऽनुबन्धाद्यपेक्षः । यथा वधविधौ ताडनमारणादिकल्पनापेक्ष्या । इहात्यन्तविलक्षणो दण्डः । तथा हि विंशतिपणो ऽपि खड्गः शत्रोर् उद्यतशस्त्रस्य संनिधौ यदि ह्रियते तेन कार्यातिशयेन तेन च कालेन मारणं दण्डः । अन्यदा द्विगुण एकादशगुणो वा । तथौषधम् अलभयत्वेन महाप्रयोजनं तदुपयोगवेलायां ह्रियते, लोल्यमानम् अपि क्वाथाद्यपेक्षं कालातिक्रमणेन महदातुरस्य दुःखं जनयतीति, तत्र महान् दण्डः । अन्यदा तु स्वल्प इति । न यत्रान्तराम् अन्तरेणेदृशं वैषम्यं लभ्यते । अन्यथा स एवैकः श्लोको दण्डविधौ पठितव्यः स्यात् । तस्माद् वक्तव्यम् इदम् । विग्रहकाले ऽश्वादीनां राज्यापेक्षो दण्डः । शस्त्राणां राजोपयोगिनां कदाचित् क्षमा कदाचिन् महान् दण्डः । गोमहीष्यादीनां तु प्रजासंबन्धिनां न राज्ञा क्षन्तव्य । कार्यं च यद् अश्वादिभिः कर्तव्यं तद् अप्य् अपेक्ष्यम्74 । विग्रहो ऽ पि यदि पर्वतादौ भवति यत्र नातीवाश्वैः प्रयोजनं भवत्य् एव दण्डह्रासः75 ।
कालम् आसाद्य ज्ञात्वा निरूप्य दण्डं कल्पयेत् । स एवात्र प्रभवति,76 न77 शास्त्रम् ॥ ८.३२४ ॥
गोषु ब्राह्मणसंस्थासु खरिकायाश्78** च भेदने ।**
पशूनां हरणे चैव सद्यः कार्यो ऽर्धपादिकः ॥ ८.३२५ ॥
मेधातिथिः ...{Loading}...
ब्राह्मणसंस्था ब्राह्मणाश्रिता ब्राह्मणस्वामिकाः । तासां हरणे । षष्ठ्यर्थे सप्तमी । पशूनां चाजैडकादीनाम् । बहुवचनं सर्वत्राविवक्षितम्79 । सद्यस् तत्क्षणाद् अविचार्य । पादस्यार्धम् अर्धपादम्, तद् अस्यास्तीत्य् अर्धपादिकः । तच् च संभवति यदि पादार्धं80 तेन छिद्यते । तेनार्धपादछेदनं कर्तव्यम् इति वाक्यार्थः । खरिका81 यया गोरथक्षेत्रादौ82 वाह्यते बलीवर्दः । भेदने वाह्यमानायाः प्रतोदेन पीडोत्पादने ।
- “भेदनं” वाहानाम् उपलक्षणार्थं व्याचक्षते पूर्वे । अवश्यं83 वाहयन् दुःखयति । प्रतोदेन वाहने एवायं दण्ड इत्य् अन्ये पठन्ति84 ।
- अन्ये तु पादस्य पश्चाद् भागं चतुर्थं खरिकाम् आहुः । खरिकेति या प्रसिद्धा पलायनशीला यां पालो ऽन्य् वा भिन्दन्न् अर्धपादिकः कार्यः85 ।
- अन्ये त्व् अधिकरणसप्तमीं मत्वा गोसंस्थदध्यादीन्य् अध्याहरन्ति ।
तद् अयुक्तम् । श्रुतपदसंबन्धसंभवे कृतो ऽध्याहारः ॥ ८.३२५ ॥
सूत्रकार्पासकिण्वानां गोमयस्य गुडस्य च ।
दध्नः क्षीरस्य तक्रस्य पानीयस्य तृणस्य च ॥ ८.३२६ ॥
मेधातिथिः ...{Loading}...
(अग्रे व्याख्यानम्।)
वेणुवैदलभाण्डानां लवणानां तथैव च । मृण्मयानां च हरणे मृदो भस्मन एव च ॥ ८.३२७ ॥ मत्स्यानां पक्षिणां चैव तैलस्य च घृतस्य च । मांसस्य मधुनश् चैव यच् चान्यत् पशुसंभवम् ॥ ८.३२८ ॥ अन्येषां चैवमादीनाम् अद्यानाम् ओदनस्य च । पक्वान्नानां च सर्वेषां तन्मूल्याद् द्विगुणो दमः ॥ ८.३२९ ॥
पुष्पेषु हरिते धान्ये गुल्मवल्लीनगेषु च ।
अन्येष्व् अपरिपूतेषु दण्डः स्यात् पञ्चकृष्णलः ॥ ८.३३० ॥
मेधातिथिः ...{Loading}...
नवमालिकादीनि पुष्पाणि । हरितं89 धान्यं क्षेत्रस्थम् अपक्वम् । नगा वृक्षाः । अन्येष्व् अपरिपूतेषु । बहुवचनात् परिपवनस्य च धान्येष्व् एव90 तुषपलालादिविमोक्षरूपयस्य335 संभवाद् उत्तरश्लोके धान्यग्रहणम् एवाकृष्यते । गुल्मादीनां हि सत्य् अपि पलाशे336 व्यमिश्रत्वे पुष्पाणां च, न337 परिपूतव्यवहारः । स्पतमी हरणापेक्षा ।
तत् तु91 पूर्वस्माद् अनुवर्तते । अत्र पञ्चकृष्णलो दण्डः । कृष्णला नानाद्रव्यजाः92 । अल्पत्वमहत्त्वप्रयोजनापेक्षाः । सुवर्णस्येति पूर्वे ॥ ८.३३० ॥
परिपूतेषु धान्येषु शाकमूलफलेषु च ।
निरन्वये शतं दण्डः सान्वये ऽर्धशतं दमः ॥ ८.३३१ ॥
मेधातिथिः ...{Loading}...
मूलम् इक्षुद्राक्षादि । निरन्वये द्रव्यहरणे । अन्वयो ऽनुनयः, स्वामिनः प्रीत्यादिप्रयोगः- “यत् त्वदीयं तन् मदीयम् एवेत्य् अनया बुद्ध्याहं प्रवृत्तः, न चेद् एवं तद् गृहाण” इत्येवमादिवचनं तद् यत्र न क्रियते तन् निरन्वयम् । साहसप्रकारत्वाद् अधिको दण्डः । अन्वयेन सह सान्वयः ।
अथ वा निरन्वयो93 येन सह कश्चिद् अपि संबन्धो नास्त्य् एकग्रामवासादिः । ततः शतं दण्ड्यः । अथ वा अनारक्षम् निरन्वयम् । सति तु रक्षके94 उभयापराधाद् अल्पो दण्डः । खलस्थेषु धान्येष्व् अयं दण्डः । तत्र हि परिपूयन्ते । गृहस्थेषु त्व् एकादशगुणः प्राग् उक्तः (च्ड़्। म्ध् ८.३२०) ॥ ८.३३१ ॥
स्यात् साहसं त्व् अन्वयवत् प्रसभं कर्म यत् कृतम् ।
निरन्वयं भवेत् स्तेयं हृत्वापव्ययते च यत् ॥ ८.३३२ ॥
मेधातिथिः ...{Loading}...
परद्रव्यापहरणं स्तेयम् उच्यते । धात्वर्थप्रसिद्ध्या चास्यैव कर्ता स्तेनः ।95 इह तु विशेषेणायं व्यवहार इष्यते तदर्थो ऽयं श्लोकः । न परद्रव्यादानमात्रं स्तेयम्, ऋणादाननिक्षेपादिष्व् अपि स्तेयदण्डप्रसङ्गात् । संज्ञाभेदो दण्डभेदार्थः ।96
कर्म यत् कृतं परपीडाकरं वस्त्रोत्पाटनाग्निदाहद्रव्यापहर्णादि97 । अग्निदाहे यद्य् अपि द्रव्यापहरणं नास्ति तथापि चौर्यम् एव रहसि करणाद् अपह्नवाच् च मन्यन्ते । चौर्ये हि द्रव्यविशेषाश्रयो दण्डः । सो ऽत्र न स्यात् । एवमर्थम् एव स्तेयप्रकरणोत्कर्षणम्98 ।99 प्रसभं कर्म इति कर्मग्रहणाद् द्रव्यापहाराद् अन्यद् अप्य् एवंकृतम् अयुक्तं साहसम् एव । कस् तर्ह्य् अग्निदाहादाव् अप्रसभं कृते दण्डः । कण्टकशुद्धौ वक्ष्यामः । अत एव संधिछेदे100 ऽसत्य् अपि द्रव्यापहरणे कण्टकशुद्धौ दण्डम् आमनन्ति । अन्यथा स्तेय एवावक्ष्यत्101 ॥ ८.३३२ ॥
यस् त्व् एतान्य् उपकॢप्तानि द्रव्याणि स्तेनयेन् नरः ।
तं शतं दण्डयेद् राजा यश् चाग्निं चोरयेद् गृहात् ॥ ८.३३३ ॥
मेधातिथिः ...{Loading}...
एतानि सूत्रादीनि, उपकॢप्तानि प्रत्यासन्नदानोपभोगादिकार्यकालानि, अथ वा संस्कृतानि कृतसामर्थ्याधानानि । यथा तद् एव सूत्रं तन्तुवायहस्ते वायनार्थं दत्तं किंचिद् द्विगुणीक्रियते किंचित् परिवर्त्यते, एवं दधि मन्थनमरिचशर्करादिसंस्कृतम्, क्षीरं घृतम् इत्यादिसंस्कारः । तत्र शतं दण्डः । “आद्यम्” इति पाठे प्रथमसाहसः । अग्निगृहात् परिगृहीतं शालाग्निहोत्रेत्याद्यर्थम्,102 हेमन्ते वा सीतार्दितानां दरिद्राणाम् अप्रणीतम् अप्य् अग्नेर् उपकल्पनं पाककाले103 शीतादिनिवृत्त्यर्थं वा तापनकाले104 । अविशेषेणायम् अग्नेर् दण्डः स्वल्पस्य बहोर् उपकॢप्तस्यानुपकॢप्तस्य च ।
सत्य् अपि सूत्रादिदण्डे (म्ध् ८.३२६) आदिग्रहणे (म्ध् ८.३२९) नाग्नेस् तन्मूल्यादि संभवति,105 क्रयविक्रयव्यवहाराप्रसिद्धेः । यावता वेन्धनेनाग्निर् उपहृतपरिमाण106 उत्पद्यते यावतीभिर् दक्षिणाभिस् तन्मूल्याद् द्विगुणो दण्डः संभवति, शक्यते च107 व्यपदेष्टुम्, तुष्ट्युत्पत्तिश् च स्वामिनः स्थितैव । अतस् त्रेताग्निहरणे यावत् पुनर् आधाने गच्छति प्रायश्चित्तेष्टौ च तावद् अग्निमते दातव्यः108 । अतो ऽयम् अग्नेर् दण्डः शालाप्रणीताग्निविषय एव स्वल्पत्वात् । त्रेतायां तु तन्मूल्याद् द्विगुण इति । तथा च सुलभेष्व् अधिकारनिवृत्तिम् अकुर्वत्सु यागाङ्गद्रव्येष्व् अपह्रियमाणेषु109 “कुशकरकाग्निहोत्रद्रव्यान्य्110 अपहरतो ऽङ्गच्छेदः स्यात्” इति शङ्खः । अग्निषु तु हृतेष्व् अधिकार एव निवर्तते । तत्र कथं महान् दण्डो न स्यात् ॥ ८.३३३ ॥
येन येन यथाङ्गेन स्तेनो नृषु विचेष्टते ।
तत् तद् एव हरेत् तस्य प्रत्यादेशाय पार्थिवः ॥ ८.३३४ ॥
मेधातिथिः ...{Loading}...
भूयोभूयः प्रवृत्तस्यायं दण्डः । यो धनेन दण्डितो ऽपि न मार्गे ऽवतिष्ठते तस्य त्रिचतुर्दण्डितस्यानवतिष्ठमानस्य द्रव्यजातिपरिमाणानपेक्षः संधिच्छेदाद्यनपेक्षचौर्यक्रियामात्राश्रितो111 ऽङ्गच्छेदः । यस्य यस्याङ्गस्य बलम् आश्रित्यावतिष्ठते स्तेनश् चौर्ये प्रवर्तते तत् तद् अस्य हरेच् छिन्द्यात् । यस्य कश्चित् पादवलम् आश्रित्यावष्टभ्य पलायते “न माम् अनुगन्तुं कश्चिद् अपि शक्नोति” इति तस्य पादच्छेदः ।112 अन्यः “संधिभेदज्ञो ऽहम्” तस्य हस्तच्छेदः । प्रत्यादेशाय प्रतिरूपफलदर्शनाय । स्वावष्टम्भेन साभिमानं सक्रोधं सावज्ञं न्यक्करणं वा प्रत्यादेशः । “य एवं करोति तस्य तस्याहम् एवं कर्ता” इति व्याख्यापनं प्रत्यादेशः ॥ ८.३३४ ॥
पिताचार्यः सुहृन् माता भार्या पुत्रः पुरोहितः ।
नादण्ड्यो नाम राज्ञो ऽस्ति यः स्वधर्मे न तिष्ठति ॥ ८.३३५ ॥
कार्षापणं भवेद् दण्ड्यो यत्रान्यः प्राकृतो जनः ।
तत्र राजा भवेद् दण्ड्यः सहस्रम् इति धारणा ॥ ८.३३६ ॥
मेधातिथिः ...{Loading}...
प्राकृतो जनः सामान्यपुरुषो यो नातिगुणसंयुक्तः । तस्य यत्र यस्मिन्न् अपराधे यावान् दण्डस् तत्सहस्रगुणो राज्ञः, कार्षापणग्रहणस्य दण्डपरिमाणोपलक्षणार्थत्वात्,116 दृष्टार्थत्वाद्117 दण्डस्य । तस्य118 चात्मानम् अनियम्य परो नियन्तुं न शक्यत इति युक्तं प्रत्यपराधे राज्ञो दण्डार्हत्वम् । महाधनत्वाद् अल्पं दण्डं न विगणयेत् । राजाधिकृतानां मन्त्रिपुरोहितादीनाम् अनयैव कल्पनया न्यूनाधिकभावः । धनदण्डश् च ब्राह्मणेभ्यो ऽप्सु प्रवेशनेन वरुणाय वा । यतो वक्ष्यति “राज्ञां दण्डधरो हि सः” (म्ध् ९.२४५) ॥ ८.३३६ ॥
अष्टापाद्यं तु शूद्रस्य स्तेये भवति किल्बिषम् ।
षोडशैव तु वैश्यस्य द्वात्रिंशत् क्षत्रियस्य च ॥ ८.३३७ ॥
मेधातिथिः ...{Loading}...
(अग्रे व्याख्यानम्।)
ब्राह्मणस्य चतुःषष्टिः पूर्णं वापि शतं भवेत् ।
द्विगुणा वा चतुःषष्टिस् तद्दोषगुणविद् धि सः ॥ ८.३३८ ॥
वानस्पत्यं मूलफलं दार्वग्न्यर्थं तथैव च ।
तृणं च गोभ्यो ग्रासार्थम् अस्तेयं मनुर् अब्रवीत् ॥ ८.३३९ ॥
मेधातिथिः ...{Loading}...
वनस्पतय132 एव वानस्पत्यं वृक्षाः । स्वार्थे प्रत्ययः । ग्रासार्थं गृह्यमाणम् अस्तेयं वंशाङ्कुरादि । मूलफलं वनस्पतीनाम् अन्यद् बिससस्यादि । सूत्रादिगणे (म्ध् ८.३२६) अग्रासार्थं मूलफलाहरणे दण्ड उक्तः । अस्तेयवचनं ग्रासार्थम्, मात्रार्थम्136 अक्षीणवृत्तेर् अपि कथंचिज् जातलौल्यस्य स्मृत्यन्तरदर्शनात् स्वापरिवृत्तेश्137 च दण्डः । तथा च गौतमः- “पुष्पाणि स्ववद् आददीत फलानि चापरिवृत्तानाम्” (ग्ध् १२.२८) इति । दार्वग्न्यार्थम्,138 आहिताग्नेर् असंनिहिते वनस्पताव् उद्वात्य् अग्नौ तद्धारणार्थं काष्ठम् अदोषम्, पालाशीर् वा समिधो व्यादध्यात् । अप्रचुरपलाशे च ग्रामे कथं स्याद् इति यदि गृह्येरन्139 न दोषः । तृणं च गोभ्यः । तादर्थ्ये चतुर्थी । गोग्रहणात् प्रस्तारार्थं दोष एव । ये तु ग्रासार्थपदेन गवाम् अभिसंबन्धम् इच्छन्ति तेषां गोभ्य इति नोपपद्यते । षष्ठी हि तत्र युक्ता ॥ ८.३३९ ॥
यो ऽदत्तादायिनो हस्ताल् लिप्सेत ब्राह्मणो धनम् ।
याजनाध्यापनेनापि यथा स्तेनस् तथैव सः ॥ ८.३४० ॥
मेधातिथिः ...{Loading}...
अतिदेशो ऽयम् । यो ब्राह्मणश् चौरान् उपजीवति स चोरवद् दण्ड्यः । याजनाध्यापनेनापि । अपिः क्रियान्तरसूचकः । तेन प्रतिग्रहप्रीत्यादायादि गृह्यते133 । क्षत्रियादीनाम् अन्यथैव वार्तादिस्वकर्मणा134 चोरधनं गृह्णताम् । ब्राह्मणग्रहणं तु मया “किल धर्मेणार्जितं याजयता” इत्य् अभिमाननिवृत्त्यर्थम् । अदत्तम् आदत्ते गृह्णातीत्य् अदत्तादायी चोरः । लिप्सेत लब्धुम् इच्छेद् अगृहीतास्व् अपि दक्षिणासु तत्संबन्धाद् एव चौरनिग्रहः ॥ ८.३४० ॥
द्विजो ऽध्वगः क्षीणवृत्तिर् द्वाव् इक्षू द्वे च मूलके ।
आददानः परक्षेत्रान् न दण्डं दातुम् अर्हति ॥ ८.३४१ ॥
मेधातिथिः ...{Loading}...
द्विजग्रहणं शूद्रप्रतिषेधार्थम् । अध्वगो नैकग्रामवासी । तत्रापि क्षीणवृत्तिः क्षीणपथ्योदनः । द्वाव् इक्षू दण्डौ, मूलके, प्रदर्शनार्थं चैतत् परिमितहरीतकमुद्गादिशमीधान्यानाम् । तथा च “शमीत्रपुसयुग्यघासेषु च न प्रतिषेधः”135 इति स्मृत्यन्तरम् । परक्षेत्रात् परकीयस्थानाद् इत्यर्थः, परिवृताद् अपि ॥ ८.३४१ ॥
संदितानां संदाता संदितानां च मोक्षकः ।
दासाश्वरथहर्ता च प्राप्तः स्याच् चोरकिल्बिषम् ॥ ८.३४२ ॥
मेधातिथिः ...{Loading}...
पास्वादयो विमुक्तशृङ्खलादिबन्धना मुस्तादियवभूयिष्ठेषु विजनेषु वार्यन्ते । ततश् चेन् निद्रायति स्वामिनि पाले वा कश्चित् संदानवतः कुर्यात्, खलीनकबन्धादिना नूनं निनीषत्य् असाव् इति शङ्कया चौरवद् दण्ड्यः । यस् तु स्वामिगृहच्युतं यूथभ्रंशागतं वा रक्षितुम् एव वा बध्नीयान् न तस्य दोषः । एवं गवादीनाम् अपि गले दामादिसंदाने140 एष एव दमः । ये च संदिताः पादस्थशृङ्खलादिना, तेषाम् मोक्षकः । दामांश् च रहसि प्रोत्साह्य भक्तदासादीन् अपहरति “अहं ते बहु ददामि किम् एतं भजसे” इति । कुलीनानां हरणे वध उक्तः “पुरुषाणाम्” (म्ध् ८.३२३) इत्य् अत्र । अनेन दासानाम् उच्यते141 । यथा142 तत्रैव कुलीनम् उक्तम् एवम् अत्रापि143 प्रोत्साह्य नयनं ग्रहणं144 न कर्तव्यम् । तत्र प्रबलादिना145 चौर्येण वेति । अश्वरथहर्तेति । अश्वानां रथानां च । “महापशूनाम्” (म्ध् ८.३२४) इत्य् अत्र राजसंबन्धिनो ऽश्वाः, इमे तु जनपदानाम् । तत्र146 राजेच्छया दण्डः, इह तु नियतो वधः । यद्य् अपि बहवश् चोरदण्डास् तथापि स्मृत्यन्तरे ।
-
बन्दिग्राहांस् तथा वाजिकुञ्जराणां च हारिणः ।
-
प्रसह्य घातिनश् चैव शूलम् आरोपयेन् नरान् ॥ इति । (य्ध् २.२७७)
इहापि सामान्यतो147 “येन येन” इत्य् उपक्रम्य “तत् तद् एव हरेत्” इति (म्ध् ८.३३४) ।
- अन्ये त्व् अश्वयुक्तो रथ इति सामान्यं मन्यन्ते, प्रदर्शनाच् चाश्वगोरथादीनाम् ।
तत्र केवलानाम् अश्वानां रथस्य च दण्डश् चिन्त्यः । स्मृत्यन्तरे केवलानाम् अश्वानां चौरदण्डस्योक्तत्वात्, रथयुक्तानाम् अपि सिद्धः148 । ये तु प्रोत्साह्य नयनं हरणं मन्यन्ते, तेषाम् अश्वरथशब्देन रथकारो लक्ष्यते, रथकर्तेति । तच् च149 सर्वशिल्पार्थम् । शिल्पिनां हरणे चौरदण्डः । अश्वानाम् अपि प्रोत्साहनं वडवादर्शनेन ॥ ८.३४२ ॥
अनेन विधिना राजा कुर्वाणः स्तेननिग्रहम् ।
यशो ऽस्मिन् प्राप्नुयाल् लोके प्रेत्य चानुत्तमं सुखम् ॥ ८.३४३ ॥
ऐन्द्रं स्थानम् अभिप्रेप्सुर् यशश् चाक्षयम् अव्ययम् ।
नोपेक्षेत क्षणम् अपि राजा साहसिकं नरम् ॥ ८.३४४ ॥
मेधातिथिः ...{Loading}...
सहो बलम्, तेन वर्तते साहसिकः । दृष्टादृष्टदोषान् अपरिगणय्य बलमात्रम् आश्रित्य स्तेयहिंसासंग्रहणादिपरपीडाकरेषु वर्तमानः प्रकाशं पुरुषः साहसिकः । तद् उक्तं “स्यात् सहसम्” (म्ध् ८.३३२) इति । न स्तेयादिभ्यः पदार्थान्तरं साहसम्, किं तु प्रसह्यकारणात् तान्य् एव साहसानि भवन्ति । यद्य् अप्य् अग्निदाहवस्त्रपाटनादि तद् अपि152 द्रव्यनाशात्मकत्वात् सिद्धम् एवेति,153 तस्य निग्रहात्154 नोपेक्षेत न विलंबेत क्षणम् अपि, यदा गृहीतस् तदैव निगृहीतव्यः । इन्द्रस्वामिकं स्थानं स्वर्गाख्यम् ऐन्द्रं तदाभिमुख्येन प्राप्तुम् इच्छन् । अथ वा स्वम् एव राज्यपदम् ऐन्द्रम् इवेच्छन्न्155 अविच्चालित्वसामान्यम्, निग्राह्य निग्रहेण हि प्रतापानुग्रहाभ्यां प्रजा अनुप्रवर्तन्ते । तद् उक्तम् “समुद्रम् इव सिन्धवः” (म्ध् ८.१७५) इति । यशो ऽक्षयम् अव्ययं च । द्वे विशेष्ये द्वे विशेषणे,156 स्थानम् अव्ययं यशो ऽक्षयम् इति । अथोभयेनापि यशो विशिष्यते, क्षयो मात्रापचयः, व्ययो निरन्वयविनाशः । उभयम् अपि तन् नास्ति । न मलिनीभवति यशो न कदाचिद् विच्छिद्यते । भूतार्थवादस्तुतिर् इयम् ॥ ८.३४४ ॥
वाग्दुष्टात् तस्कराच् चैव दण्डेनैव च हिंसतः ।
साहसस्य नरः कर्ता विज्ञेयः पापकृत्तमः ॥ ८.३४५ ॥
साहसे वर्तमानं तु यो मर्षयति पार्थिवः ।
स विनाशं व्रजत्य् आशु विद्वेषं चाधिगच्छति ॥ ८.३४६ ॥
मेधातिथिः ...{Loading}...
अयम् अप्य् अर्थवादः । साहसे स्थितं पुरुषं यो मर्षयति । प्रकृत्यर्थे ऽयं णिच् । यो मृष्यति क्षमते, स विनाशं प्राप्नोति द्वेष्यतां च प्रजासु प्राप्नोति द्वेष्यैश् चाभिभूयते ॥ ८.३४६ ॥
न मित्रकारणाद् राजा विपुलाद् वा धनागमात् ।
समुत्सृजेत् साहसिकान् सर्वभूतभयावहान् ॥ ८.३४७ ॥
शस्त्रं द्विजातिभिर् ग्राह्यं धर्मो यत्रोपरुध्यते ।
द्विजातीनां च वर्णानां विप्लवे कालकारिते ॥ ८.३४८ ॥
मेधातिथिः ...{Loading}...
आत्मनश् च परित्राणे दक्षिणानां च सङ्गरे । स्त्रीविप्राभ्युपपत्तौ च घ्नन् धर्मेण न दुषति ॥ ८.३४९ ॥
गुरुं वा बालवृद्धौ वा ब्राह्मणं वा बहुश्रुतम् ।
आततायिनम् आयान्तं हन्याद् एवाचिवारयन् ॥ ८.३५० ॥
मेधातिथिः ...{Loading}...
आततायी उच्यते यः शरीरधनदारपुत्रनाशे सर्वप्रकारम् उद्यतः । तम् अविचारयन्171 हन्यात् । गुर्व्आदिग्रहणम् अर्थवादः । एते ऽपि हन्तव्याः, किम् उतान्य इति । एतेषां त्व् आततायित्वे ऽपि वधो नास्ति । “आचार्यं च प्रवक्तारम्” (म्ध् ४.१६२) इत्य् अनेनापकारिणाम् अपि वधो निषिद्धः । गुरुम् आततायिनम् इति शक्यः संबन्धः । तथा सत्य् आततायिविशेषणम् एतत् । ततो गुर्वादिव्यतिरिक्तस्याततायिनः प्रतिषेधः कुतः स्यात् । वाक्यान्तराभावात् ।
-
अथ “नाततायिवधे दोषः” (म्ध् ८.३५१) इत्य् एतद् वाक्यान्तरं सामान्येनाभ्यनुज्ञापकम् इति ।
-
तद् अपि न, विधेर् अश्रवणात्, पूर्वशेषतया चार्थवादत्वे प्रकृतवचनत्वात् ।
-
इह भवन्तस्172 त्व् आहुः- यद्य् आततायिनम्173 इत्य् एव विधिः, अवशिष्टो ऽर्थवादः, तथापि गुर्वादीनां वधानुज्ञानम् । यतो ऽन्यद् अपकारित्वम् अन्यद् आततायित्वम् । यो ह्य् अन्यां कांचन पीडां करोति न सर्वेण शरीरादिना सो ऽपकारी, ततस् त्व् अन्य174 आततायी175 । तथा च पठ्यते ।
-
उद्यतासिर् विषाग्निभ्यां शापोद्यतकरस् तथा ।
-
आथर्वणेन हन्ता च पिशुनश् चापि राजतः ॥
-
भार्यातिक्रमकारी च रन्धान्वेषणतत्परः ।
-
एवमाद्यान् विजानीयात् सर्वान् एवाततायिनः ॥ (क्स्म् ८०२–०३)
****”आयान्तम् इति वचनाद् आत्तशस्त्रो हन्तुम् अभिधावन् दारान् वा जिहीर्षन् हन्तव्यः । कृते तु दोषे किम् अन्यत् करिष्यतीत्य् उपेक्षा" इति ब्रुवते ।
तद् अयुक्तम् । यतः “प्रकाशम् अप्रकाशं वा”176 (म्ध् ८.३५१) इति वक्ष्यति । समानौ ह्य् एतौ करिष्यन् कृतवांश् च177 । तस्माद् आयान्तम् इत्य् अनुवादः- कर्तुम् आगतं कृत्वा वा गतम् इति । आततायित्वाच् चासौ हन्यते । न च कृतवचन आततायित्वम् उपैति । नास्यात्मनो रक्षार्थ एव वध “आत्मनश् च परित्राणे” (म्ध् ८.३४९) इति अनेनोक्तम्178 ॥ ८.३५० ॥
नाततायिवधे दोषो हन्तुर् भवति कश्चन ।
प्रकाशं वाप्रकाशं वा मन्युस् तं मन्युम् ऋच्छति ॥ ८.३५१ ॥
मेधातिथिः ...{Loading}...
न कश्चन इति- नाधर्मो न दण्डो न प्रायश्चित्तम् इति । प्रकाशं जनसमक्षम्, अप्रकाशं विषादिदानेन येन केनचिद् उपायेन । मन्युः क्रोधाभिमानिदेवता, असौ मन्युम् ऋच्छति । नात्र हन्तृहन्तव्यभावो ऽस्ति । पुरुषयोर् अर्थ आततायिक्रोध इतरेण हन्यत इत्य् अर्थवादो ऽयं । यथा प्रतिग्रहकामः “को मह्यं ददातु, नाहं प्रतिग्रहीता, न त्वं दाता, ततश् च कुतः प्रतिग्रहदोषो माम” एवम् अत्रापि । इह साहसिके दण्डो नाम्नातः । स दण्डपारुष्ये179 द्रष्टव्यः । इह त्व् अधिकतरः, यत उक्तम् “विज्ञेयः पापकृत्तमः” (म्ध् ८.३४५) इति180 ॥ ८.३५१ ॥
परदाराभिमर्शेषु प्रवृत्तान् नॄन् महीपतिः ।
उद्वेजनकरैर् दण्डैश् चिह्नयित्वा प्रवासयेत् ॥ ८.३५२ ॥
मेधातिथिः ...{Loading}...
विवाहसंकृतायां स्त्रियां दारशब्दो वर्तते । आत्मनो ऽन्यः परः । अभिमर्शः संभोग आलिङ्गनाद् अरभ्य,181 आलिङ्गनं जनद्वयसमवायः,182 भोगजन्यायाः प्रीतेः प्रवृत्तिः प्रारम्भस् तन्निवृत्त्यर्थं दूतीसंप्रेषणादिना प्रोत्साहनम् । अथ च संग्रहणम् अभिमर्शनं प्रचक्षते । तेनायम् अर्थः-183 परभार्यागमने प्रवृत्तं पुरुषं ज्ञात्व्ओद्वेजनकरैस् तीक्ष्णाग्रैः शक्तिशूलादिभिर् अङ्कयित्वा नासाछेदादिभिर् विवासयेत् । सर्वत्रात्र विशेषदण्डस्योक्तत्वाद् अस्य विषयभावो न सामान्यदण्डो ऽयम् । किं तर्हि, पुनः पुनः प्रवृत्तौ । इदं तु युक्तम् । अलभमानस्य184 विषयान्तरं प्रवासस्य धनदण्डस्य च कार्यभेदात् समुच्चयः । तथा दर्शयिष्यामः ॥ ८.३५२ ॥
तत्समुत्थो हि लोकस्य जायते वर्णसंकरः ।
येन मूलहरो ऽधर्मः सर्वनाशाय कल्पते ॥ ८.३५३ ॥
मेधातिथिः ...{Loading}...
समुत्थानम् उत्पत्तिः । ततः परदारागमनात् संकरो ऽवान्तरवर्णरूपो जायते । येन जातेन्आधर्मो मूलस्य लोकस्य दिवः पतिता वृष्टिस् तां हरत् अधर्मः । धर्मे हि सति “आदित्याज् जायते वृष्टिः” (म्ध् ३.६६) । न च संकरे सत्य् अपि कारीरीयागो नापि पात्रे दानम् अतो दानयागहोमानां सस्योत्पत्तिहेतुभूतानाम् अभावात् सर्वजगन्नाशसमर्थो भवति । तस्मात् पारदारिकान्, “अधर्ममूलवर्णसंकरः185 स्यात्” इति सस्यादिनिष्पत्तिमूलां वा वृष्टिं रक्षन्, प्रवासयेत् ॥ ८.३५३ ॥
परस्य पत्न्या पुरुषः संभाषां योजयन् रहः ।
पूर्वम् आक्षारितो दोषैः प्राप्नुयात् पूर्वसाहसम् ॥ ८.३५४ ॥
मेधातिथिः ...{Loading}...
संभाषः संभाषणम्, तम् आलापं योजयन् कुर्वन्186 संग्रहणादिदोषैः तत्स्त्रीप्रार्थनादिभिः187 पूर्वम् आक्षारितो ऽभिशस्तः, “अयम् एनाम् उपजपति” इत्य् अमुत्र दृष्टदोषः शङ्क्यमानदोषो वा चपलः, रहः उद्वातादौ निषिद्धसंभाषण इति केचित् 188। कारणाद् अप्य् अन्यपत्न्या संभाषणं कुर्वन् प्रथमसाहसं दण्डं प्राप्नुयाद् दापयितव्य इत्य् अर्थः ॥ ८.३५४ ॥
यस् त्व् अनाक्षारितः पूर्वम् अभिभाषेत कारणात् ।
न दोषं प्राप्नुयात् किंचिन् न हि तस्य व्यतिक्रमः ॥ ८.३५५ ॥
मेधातिथिः ...{Loading}...
पूर्वस्य प्रत्युदाहरणम् एतत् । अनाक्षारितो ऽप्य् अकारणात् संभाषयन् मिश्रयन् पूर्वदण्डभाक् ॥ ८.३५५ ॥
परस्त्रियं यो ऽभिवदेत् तीर्थे ऽरण्ये वने ऽपि वा ।
नदीनां वापि संभेदे स संग्रहणम् आप्नुयात् ॥ ८.३५६ ॥
मेधातिथिः ...{Loading}...
“परस्य पत्न्या” (म्ध् ८.३५४) इति प्रकृते पुनः परस्त्रीग्रहणं मातृभगिनीगुरुपत्न्यादीनाम् अप्रतिषेधार्थम् । न हि ताः सत्य् अपि परसंबन्धित्वे परस्त्रीव्यपदेश्याः ।
तीर्थम् उच्यते येन मार्गेण नदीतडागादिभ्यो जलम् आनेतुम् अवतरन्ति । स हि विजनप्रायो भवति । नानुदकार्थेन तत्र संनिधीयते । सङ्केतस्थानं तादृशम् अत्र कल्पितायाम् अवश्यम् एव गन्तव्यम् अहम् अपि संनिधीयमानो नाशङ्क्यो भविष्यामीति उदकार्थी दिवा शौचाचारं वा करिष्यन् प्रतिपालयन्न् इति189 जना मंस्यन्ते । प्रदेशान्तरे तु किम् अत्रायं प्रतिपालयन्तीति शङ्का स्यात् । अतस् तीर्थे प्रतिषेधः । अरण्यं हि ग्रामाद् विजनो देशो गुल्मवृक्षलतादिगहनः । वने वृक्षसंततौ190 । नदीनां संभेदः समागमः । सो ऽपि हि सङ्केतस्थानम् । स संग्रहणं191 प्राप्नुयात् । परस्त्रीकामत्वं संग्रहणम् । अतश् च यस् तत्र दण्डः सो ऽस्य स्याद् इत्य् उक्तं भवति । अनाक्षारितस्यपि सत्य् अपि कारणे ऽयं प्रतिषेधः । यत् त्व् आपस्तम्बेनोक्तम् “नासंभाष्य स्त्रियम् अतिव्रजेत्” इति, तद् अन्येषु संनिहितेष्व् एतच्छास्त्रज्ञेषु प्रकाशे192 “भगिनी नमस् ते” इत्याद्यभिवादनम् अविलम्बमानेन कर्तव्यम् ॥ ८.३५६ ॥
उपकारक्रिया193** केलिः स्पर्शो भूषणवाससाम् ।**
सह खट्वासनं चैव सर्वं संग्रहणं स्मृतम् ॥ ८.३५७ ॥
मेधातिथिः ...{Loading}...
या न केनचित् संबन्धेन संबन्धिनी तस्या वस्त्रमाल्यादिदानेन उपकारकरणम् । तथा भोजनपानादिना । केलिः परिहासो वक्रभणितादिना । स्पर्शो भूषणवाससाम्194 । भूषणं हारकटकादि तदङ्गलग्नम्, तदीयम् एतद् वेति ज्ञात्वा विनाप्रयोजनेनान्यगृहीतम् अपि स्पृश्यते । एकस्यां खट्वायाम् असंसक्ताङ्गयोर् अपि सहासनम् । सर्वम् एतत् तुल्यदण्डम् ॥ ८.३५७ ॥
स्त्रियं स्पृशेद् अदेसे यः स्पृष्टो वा मर्षयेत् तया ।
परस्परस्यानुमते सर्वं संग्रहणं स्मृतम् ॥ ८.३५८ ॥
मेधातिथिः ...{Loading}...
अदेशस्पर्शस् तु195 यत्र विनैव तत्स्पर्शनं गमनागमनादि संसिध्यति । महाजनसंकुले न दोषः । तथा196 शरीरावयवो ऽपि देशः । तत्र हस्तस्कन्धधृतभाण्डावरोपणे197 तत्स्पर्शे न दोषः । ओष्ठचिबुकस्तनादिषु दोषः । तया वा स्तनादिस्पर्षेनोत्पीडितो यदि तत् सहते198 “भवति199 मा200 कार्षीः” इत्यादिना न201 प्रतिषेधति । परस्परस्यानुमते मतिपूर्वम् एतस्मिन्न् अकृते न दोषो ऽयम् । न पुनः कर्मादौ । स्खलन्ती202 पुरुषं कण्ठे ऽवलंबते, पुरुषो वा स्तनान्तरे स्त्रियम्, तद्धस्तगृहीतद्रव्यादानप्रवृत्तौ,203 शुष्के204 पतिष्यामीति कर्द्दमे पततीतिवत्, ताव् अपि न दुष्येताम्205 ॥ ८.३५८ ॥
अब्राह्मणः संग्रहणे प्राणान्तं दण्डम् अर्हति ।
चतुर्णाम् अपि वर्णानां दारा रक्ष्यतमाः सदा ॥ ८.३५९ ॥
मेधातिथिः ...{Loading}...
उक्तं संग्रहस्वरूपम् । दण्ड इदानीम् अत्रोच्यते । अब्राह्मणः क्षत्रियादिः206 संग्रहणे कृते चतुर्णाम् अपि वर्णानां हीनोत्तमजातिभेदम् अनपेक्ष्य प्राणान्तं प्राणत्याजने मारणे पर्यवसितं दण्डम् अर्हति ।
-
कथं पुनर् ब्राह्मण्याम् शूद्रायां च संगृहीतस्य समो दण्डः ।
-
अत्र हेतुस्वरूपम् अर्थम् आह- दारा रक्ष्यतमाः सदा । सर्वस्य कस्यचिद् राज्ञा दारा धनशरीरेभ्यो ऽतिशयेन रक्ष्याः । तुल्ये हि सङ्करे शूद्रस्यापि कुलनाशः । एतद् उक्तं भवति । वाचनिको ऽयम् अर्थो ऽत्र हेतुर् वक्तव्यः, उक्तो207 ऽसौ ।
- अत्र पूर्वे व्याचख्युः । न सर्वस्मिन् संग्रहणे प्रागुक्तदण्डो ऽयम् । किं तर्हि, मुख्ये स्पर्शविसेषे जन्यप्रीतिविशेषात्मके गमने । कथं हि तीर्थादिष्व् अभिवदनं208 गमनं च समदण्डाव् उपपद्येयाताम्209 । तस्माद् अब्राह्मणः शूद्रो द्विजातिमगने प्राणच्छेदार्हो210 नान्यः । न हि विषमसमीकरणं न्याय्यम् । अतश् च211 प्रागुक्तेषु संग्रहणेष्व् अनुबन्धाद्यपेक्षया दण्डः कल्प्यः । यत्रैवं निश्चितं गमनार्थ एवायम् उपकारक्रियादिरूपक्रमस्212 तत्र मुख्यदण्ड एव युक्तः । न ह्य् अत्र वैषम्यम् अस्ति । दृष्टं चैतद् उभयत्रापीति213 ।
-
तथेदम् उक्तम् “यद्य् अत्रायं दण्डो मुख्ये संग्रहणे किं करिष्यति” इति ।
-
नैवान्यन् मुख्यसंग्रहणम् अस्ति । न ह्य् अस्य लौकिकः पदार्थो ऽवधृतो येन परदारोपकारादौ214 प्रयुक्त इत्येवम् अस्यैव । यं च भवन्215 मुख्यं संग्रहणं मन्यते तत्र महान् दण्डः ।
- प्रतिषिद्धं परस्त्रीगमनं शास्त्रपर्यनुयोज्यम्216 इति चेत्,
- उपकारादाव् अपि प्रतिषेधं विद्धि217 ।
- प्रतिषेधवद् धि प्रायश्चित्तम् अपि तुल्यं प्रसक्तम्218 इति चेत्,
- का नामेयम् अनिष्टापत्तिः । किं तु प्रसज्येत यदा संग्रहणशब्देन तद् उच्येत219 । सिक्ते हि रेतसि गमनाद्यभिधानम्220 । यत्र यादृशो दण्डस् तत्र तत्समानं दुःखं प्राप्तम् । अतो ऽस्मिन् विपर्यये रेतःसेकनिमित्तं प्रायश्चित्तं221 तच्छब्देनाभिधानात् उपकारादौ222 कल्प्यम् । यदि च संलापादौ स्वल्पो दण्डः स्यात् तदा प्रवर्तेरन् । ततश् च परस्त्रीसंलापादिभूतेनान्येनाभिभवता223 व्यादीपितमन्मथा स्मरशराकृष्यमाणाः शरीरनिरपेक्षा राजनिग्रहं न गणेयेयुः । आद्यायाम् एव तु प्रवृत्तौ224 गृह्यमाणेष्व् अप्रबन्धवृत्तौ रागे शक्यं निराकरणम् । तस्मात् परस्त्रीम् उपजापताम् एव महादण्डो युक्तः ।
इह त्व् अन्तग्रहणाद् आदिभूतेनान्येन दण्डेन भवितव्यम् । न ह्य् असत्यवादवन्तो भवन्ति । प्राणो ऽन्तो यस्य प्राणान्तस् तावत् पातयितव्यो यावत् प्राणेषु पतति । तेन सर्वस्वग्रहणाङ्गछेदाद्य्225 अप्य् उक्तं भवति । एकैकस्य च दण्डत्वम् अन्यत्र ज्ञातं न226 समुदाये दण्ड्यते इति बहुदण्डेष्व् आम्नातेषु स महान् यो द्विजातिस्त्रीसंग्रहणे227 ऽब्राह्मणस्य । अतो228 युक्तैव कल्पना, न229 सर्वत्र । तत्र कुलस्त्रीभिर् अनिच्छन्तीभिर् भतृमतीभिः230 संगृह्यमाणस्य प्राणापहरणं हीनजातीयाभिर् अपि231 ॥ ८.३५९ ॥
भिक्षुका बन्दिनश् चैव दीक्षिताः कारवस् तथा ।
संभाषणं सह स्त्रीभिः कुर्युर् अप्रतिवारिताः ॥ ८.३६० ॥
मेधातिथिः ...{Loading}...
भिक्षुका भिक्षाजीविनो भिक्षायाचनारूपं संभाषणम् अवारिताः कुर्युर् यदि स्वामिना न निषिद्धाः । अथ वा नैते वारयितव्याः । बन्दिनः स्तावकाः । दीक्षिता यज्ञे भृतिवचनार्थं संभाषेरन् । कारवः सूपकारादयः । एते तीर्थादिष्व् अपि न निवार्याः ॥ ८.३६० ॥
न संभाषां परस्त्रीभिः प्रतिषिद्धः समाचरेत् ।
निषिद्धो भाषमाणस् तु सुवर्णं दण्डम् अर्हति ॥ ८.३६१ ॥
मेधातिथिः ...{Loading}...
केचिद् भिक्षुकादीनां निवारितानां संभाषणे दण्डो ऽयम् इति मन्यन्ते ।
तद् असत् । नैव ते निवार्या इत्य् उक्तम् । कुतश् च भिक्षुकाणां सुवर्णो दण्डः । तस्मात् को ऽपि प्रकाशम् अनाक्षारितो ऽपि कथंचिन् निषिद्धः स्वामिना232 समाचरन् सुवर्णं दण्ड्यः ॥ ८.३६१ ॥
नैष चारणदारेषु विधिर् नात्मोपजीविषु ।
सज्जयन्ति हि ते नारीर् निगूढाश् चारयन्ति च ॥ ८.३६२ ॥
मेधातिथिः ...{Loading}...
यः संभाषणप्रतिषेध उपकारक्रियाप्रतिषेधश् च नैष चारणदारेषु स्यात् । चारणा नटगायनाद्याः प्रेक्षणकारिणः । तथा आत्मोपजीविषु वेषेण जीवत्सु ये दाराः । अथ वात्मजायैव “अर्धो ह वा एष आत्मा” (श्ब् ५.२.१.१०) इति तां य उपजीवन्ति उपपतिक्षमकाः233 । सज्जयन्ति संश्लेषयन्ति ते चारणः परपुरुषेण234 । निगूढाः प्रछन्नम्, आपणभूमौ न तिष्ठन्ते । गृहवेषत्वाद् एव ताः प्रसिद्धवेश्याभ्यो भिद्यन्ते । चारयन्ति च ता मैथुनं प्रवर्तयन्ति नेत्रभ्रूविलासपरिहासादिभिः पुरुषान् आकर्षयन्ति । तदनुज्ञानं235 सज्जनम्, चारणं236 संप्रयोग एव । अथ वा स्वा नारीः सज्जयन्ति योजयन्ति,237 अन्याश्238 च स्त्रीभिश् चारयन्ति प्रवर्तयन्ति वेश्यात्वं कुट्टिनीत्वं च स्वधाराणां239 कारयन्तीत्य् अर्थः ॥ ८.३६२ ॥
किंचिद् एव तु दाप्यः स्यात् संभाषां ताभिर् आचरन् ।
प्रैष्यासु चैकभक्तासु रहः प्रव्रजितासु च ॥ ८.३६३ ॥
मेधातिथिः ...{Loading}...
रहो ऽप्रकाशं विजने देशे चारणनारीभिः संभाषां240 कुर्वन् किंचित् सुवर्णाद् अत्यन्ताल्पं241 स त्रिंशद्भागादिकं242 जातिप्रतिष्ठाने अपेक्ष्य दण्ड्यः । यतो न परिपूर्णं तासु वेश्यात्वम् । भर्तृभिर् अनुज्ञाता हि ताः प्रणयन्ते243 । तत्र भर्तृविज्ञानार्थं दूतीमुखेन व्यवहर्तव्यम् । न तु साक्षात् ताभिर् अस्वतन्त्रत्वात् । प्रकाशं तु नृत्यन्तीनां गायन्तीनां वाभिनयतालादिनिरूपणावसरे कीदृशम् एतद् इत्यादिप्रश्नद्वारं संभाषणम् अनिषिद्धम् ।
प्रेष्या दास्यः सप्तभिर् दासयोनिभिर् उपनताः । एकं भजन्ते एकभक्ता एकेनावरुद्धाः । तत्रान्यो ऽप्य् अस्ति दण्डलेशः ।
- किं पुनर् अयं दासीशब्दः संबन्धिशब्दो य एव यस्याः स्वामी तस्यैव दासी उत सूपकारादिशब्दवत् कर्ममूलकः ।
इह तावद् आद्या एव स्थितिः, विशेषणोपादाने ऽसामर्थ्यात् । या यस्य दासी वेश्यावच् चानैः संसृज्यते, राजदासीव दासी वा,244 सा निगृह्यन्ते245 । सा चेन् नावरुद्धा न दोषः संग्रहणे । अवरुद्धायाम् अनेन दण्ड उक्तः । रिक्थविभागे246 चैतन् निपुणं वक्ष्यामः ।
प्रव्रतिजाः अरक्षकाः शीलमित्रादयः । ता हि कामुक इव लिङ्गप्रच्छन्नाः247 ॥ ८.३६३ ॥
यो ऽकामां दूषयेत् कन्यां स सद्यो वधम् अर्हति ।
सकामां दूषयंस् तुल्यो न वधं प्राप्नुयान् नरः ॥ ८.३६४ ॥
मेधातिथिः ...{Loading}...
पासङ्गिकम् इदम् । तुल्यः समानजातीयः । सो ऽनिच्छन्तीं कुमारीं दूषयेत् कौमार्याद् अपच्यावयेत् स्त्रीपुरुषसंभोगेन, सद्यस् तस्मिन्न् एवाहन्य् अविलंबं हन्तव्यः । सकामाया दूषणं नास्ति, कुतो वधप्राप्तिः248 । यच् चात्र भविष्यति तद् वक्ष्यामः । यद्य् अपि तुल्यवध इत्य् एवात्र श्रुतं249 वधे250 ऽपि जात्यपेक्षायाम् अवश्यंभाविन्यां प्रत्यासत्त्या संबाध्यते ॥ ८.३६४ ॥
कन्यां भजन्तीम् उत्कृष्टं न किंचिद् अपि दापयेत् ।
जघन्यं सेवमानां तु संयतां वासयेद् गृहे ॥ ८.३६५ ॥
मेधातिथिः ...{Loading}...
जातिधनशीलविद्यानाम् अन्यतमेनापि पितृकुलाद् उत्कृष्टं भजन्तीं प्रवर्तितमैथुनां न251 किंचिद् दण्डयेत् । कन्यायाः स्वातन्त्र्याभावात् तद्रक्षाधिकृतानां पित्रादीनां दण्डे प्राप्ते प्रतिषेधः । जघन्यं जात्यादिभिर् हीनं सेवमानां मैथुनायोत्कलयन्तीं252 संयतां निवृत्तक्रीडाविहारा कञ्चुकिभिर् अधिष्ठितां पितृगृह एव वासयेद् यावन् निवृत्ताभिलाषा संजाता । अथ हीनजातीये निर्वृत्तप्रीतिविशेषा तदा आ अन्त्योच्छ्वासात् संयतैव तिष्ठेत् ॥ ८.३६५ ॥
उत्तमां सेवमानस् तु जघन्यो वधम् अर्हति ।
शुल्कं दद्यात् सेवमानः समाम् इच्छेत् पिता यदि ॥ ८.३६६ ॥
मेधातिथिः ...{Loading}...
अकामाया कन्याया253 दूषणे ब्राह्मणवर्जम् अविशेषेण हीनोत्तमानां वध एव दण्ड इत्य् उक्तम् । सकामाया दूषणे त्व् इदम् आहुः । उत्तमां रूपयौवनजातिभिः254 । जघन्यो ऽत्यन्तनिकृष्टः । नातिसाम्ये ऽपि गुणैर् वध्यः । समां तु गच्छन् सकामां स शुल्कम् आसुरविवाह इव पित्रे दद्यात् । न चेद् इच्छति पिता तदा राज्ञे दण्डं तावन्तम् ।
-
ननु च गान्धर्वो ऽयं विवाहः “इच्छयान्योन्यसंयोगः” (म्ध् ३.३२) इति । तत्र न युक्तो दण्डः ।
-
केनोक्तं गान्धर्वे नास्ति दण्डः । अत एव नायं सतीधर्मः, न चायं विवाहः, अग्निसंस्काराभावात् । यद् अपि शाकुन्तले व्यासवचनम् “अमन्त्रकम् अनग्निकम्” इति तद् दुष्यन्तेन कामपीडितेनैवं कृतम् । न चेच्छासंयोगमात्रं विवाहः । स्वीकरणोपायभेदाद् अष्टौ विवाहाः, न पुनर् विवाहभेदात् । वृत्तवरणं तत्र पुनः कर्तव्यम् एवम् इति ।
अथ वा ऋतुदर्शनोत्तरकालं गान्धर्वः । प्राग् ऋतोः शुल्को दण्डो वा । अथ कन्यायाः का प्रतिपत्तिः । तस्मा एव देया । निवृत्ताभिलाषा चेत् कामम् अन्यत्र प्रतिपद्या । शुल्कग्रहणं चात्रापि सकृद् उपभोगनिष्कृत्यर्थम् अस्त्य् एव । वरश् चेन् निवृत्ताभिलाषो हठाद् ग्राहयितव्यः ॥ ८.३६६ ॥
अभिषह्य तु यः कन्यां कुर्याद् दर्पेण मानवः ।
तस्याशु कर्त्ये अङ्गुल्यौ दण्डं चार्हति षट्शतम् ॥ ८.३६७ ॥
मेधातिथिः ...{Loading}...
यद्य् अपि सकामा कन्या पित्रादयस्255 तु तस्याः संनिहितास् तान् अनिच्छतो ऽभिषह्य अभिभूय दर्पेण बलेन, “कः किं कर्तुं मे शक्तः”, कन्यानुरागमाताश्रितः कन्यां कुर्याद् विकुर्याद् दूषयेत् । अनेकार्थः करोतिः । तस्याशु कर्त्याः छेत्तव्या अर्धाङ्गुलयः, षट्शतानि वा दण्ड्यः ।
- अन्ये तु “यो ऽकामां दूषयेत्” (म्ध् ८.३६४) इत्य् अस्यैव वध्यर्थस्योपसंहारो256 ऽयम् ।
ताडनात् प्रभृति मारणं यावद् वध्यर्थः257 । तत्रेमां निकृष्टजातीयां च दूषयन् न मार्यते, अपि त्व् अङ्गुली अस्य छिद्येत ॥ ८.३६७ ॥
सकामां दूषयंस् तुल्यो नाङ्गुलिच्छेदम् आप्नुयात् ।
द्विशतं तु दमं दाप्यः प्रसङ्गविनिवृत्तये ॥ ८.३६८ ॥
मेधातिथिः ...{Loading}...
सकामाम् इत्य् अनुवादः, पूर्वस्यापि सकामविषयात् । अभिषह्य करणे पूर्वं दण्डः,258 अप्रकाशं चौर्यवद् द्विशतो ऽङ्गुलीच्छेदवर्जितः । अथ कस्मिंश्चित् पुरुषे ऽनुरागवती कन्या तेन संयुज्यमाना कन्यात्वनिवृत्तौ सकामा येन विकृतीक्रियते तस्यायं दण्डः । अथ वा259 हस्तस्पर्शमात्रम् इह दूषण । प्रार्थनीयायाः कन्याया हस्तस्पर्शः “मया स्पृष्टां ज्ञात्वा नान्य एताम् अर्थैष्यते ऽन्यस्मिन्न् अनुरागिणीं मन्यमानः” ॥ ८.३६८ ॥
कन्यैव कन्यां या कुर्यात् तस्याः स्याद् द्विशतो दमः ।
शुल्कं च द्विगुणं दद्याच् छिपाश् चैवाप्नुयाद् दश ॥ ८.३६९ ॥
मेधातिथिः ...{Loading}...
बालभावाद् रूपादिद्वेषाद् वा कन्यैव कन्यां नाशयेत् सा द्विशतं दाप्या । शुल्कश् च त्रिगुणः ।
किं पुनः शुल्कस्य परिमाणम् ।
एषाम् अन्यतमरूपसौन्दर्याद्यपेक्षं260 सौभाग्यापेक्षं च । शिफा रज्जुलताप्रहाराः ॥ ८.३६९ ॥
या तु कन्यां प्रकुर्यात् स्त्री सा सद्यो मौण्ड्यम् अर्हति ।
अङ्गुल्योर् एव वा छेदं खरेणोद्वहनं तथा ॥ ८.३७० ॥
मेधातिथिः ...{Loading}...
स्त्रियां कन्यानां कन्यालिङ्गं नाशयन्त्यां मौण्ड्यं केशवपनं दण्डः, अङ्गुलिच्छेदो वा । खरेणोद्वहनं केशच्छेदपक्षे । कन्याजात्यादिभेदान् निग्राह्यभेदात् त्रैवर्णिकस्त्रीणां ब्राह्मणादिक्रमेणेमं दण्डम् इच्छन्ति मुद्राश् च कल्पयन्ति । ते प्रमाणाभावाद् उपेक्षणीयाः ॥ ८.३७० ॥
भर्तारं लङ्घयेद् या तु स्त्री ज्ञातिगुणदर्पिता ।
तां श्वभिः खादयेद् राजा संस्थाने बहुसंस्थिते ॥ ८.३७१ ॥
मेधातिथिः ...{Loading}...
लङ्घनं भर्तारम् अतिक्रम्यान्यत्र गमनम्261 । तच् चेत् स्त्री करोति दर्पेण — “बहवो मे ज्ञातयो बलिनो द्रविणसंपन्नाः”, स्त्रीगुणो रूपसौभाग्यातिशयसंपत्, किम् अनेन शीलरूपेण262 — इत्येवंदर्पेण263 । तां श्वभिः खादयेद् यावन् मृता । संस्थानं देशः । बहवः संस्थिता यत्र जनाश् चत्वरादौ ॥ ८.३७१ ॥
पुमांसं दाहयेत् पापं शयने तप्त आयसे ।
अभ्यादध्युश् च काष्ठानि तत्र दह्येत पापकृत् ॥ ८.३७२ ॥
मेधातिथिः ...{Loading}...
यो ऽसौ पत्न्या जारः स आयसे लोहशयने तप्ते ऽग्निसमे कृते दाहयितव्यः । तत्र च शयनस्थितस्य काष्ठानि वध्यघातिनो ऽभ्यादध्युर् उपरि क्षिपेयुः । यावत् काष्ठप्रहारैर् अग्निज्वालाभिः शयनतापेन च मृतः ॥ ८.३७२ ॥
संवत्सराभिशस्तस्य दुष्टस्य द्विगुणो दमः ।
व्रात्यया सह संवासे चाण्डाल्या तावद् एव तु ॥ ८.३७३ ॥
मेधातिथिः ...{Loading}...
अभिशस्तस् तत्पापकारीत्य् अभिशब्दितः । यो यस्यां स्त्रियां संगृहीतः सो ऽभिशस्तो दण्डितः । स चेत् संवत्सरं प्रतिपाल्य,264 अतीते संवत्सरे पुनस् तस्याम् एव संगृह्यते तदा तस्यैकं वारम् अभिशस्तस्य संवत्सरे गते पुनर् दुष्टस्य द्विगुणो दण्डः ।
संवत्सराभिशस्तस्येति समासपाठे कथंचिद् योजना ।
व्रात्यया सह संवासे तावद् एव । किं यावद् एव पुनर् दुष्टस्य । नेति ब्रूमः । तत्राप्य् उत्तमाधममध्यमानाम् अनेकविधो दण्डः । तत्र को ऽसाव् इह । द्विगुण इति न ज्ञायते । किं तर्हि, चाण्डाल्या संवासे यावद् एव तावद् एव व्रात्ययेति, “सहस्रं त्व् अन्त्यजस्तेयम्” (म्ध् ८.३८५) इति । व्रातः पूगः संघः, तेन चरन्ती265 पुंश्चलीति कथंचिद् यः कर्तव्यः266 । अथ वा267 व्रातम् अर्हति व्रात्येत्य् अस्तु, यकारो दण्डादिः268 (पाण् ५.१.६६) । का च व्रातम्269 अर्हति । यानेकपुरुषोपभोग्या पुंश्चली सा हि पुरुषव्रातम् अर्हति । अथ वानेकपुरुषस्वामिका ग्रामस्य270 दास्यश् च व्रात्याः । ये तूद्वाहहीनां व्रात्यां271 मन्यन्ते, तेषां मते न मुख्यः शब्दार्थः । अयं हि व्रात्यशब्दः स्मृतिकारैः सावित्रीपतितेषु प्रयुक्तः । न च स्त्रीणां तत्संभवः । अथ स्त्रीणां विवाहस्य तदापत्तिवचनाद् उपनयनम्, तद्धीनपुरुषवद् व्रात्या, गौणस् तर्हि न मुख्यः । यदि नामोपनयनशब्दो ऽनुपनयने विवाहे प्रयुक्तस् तथाप्य् उपनयनहीनो व्रात्य इत्य् उक्ते न विवाहहीन इति प्रतीयते । तथासिंहो ऽयं देश इत्य् उक्ते न सिंहशब्दस्य माणवके प्रयुक्तस्यापि देशस्यामाणवकत्वं प्रतीयते । अस्ति तत्र मुख्य इहासंभव इति चेत्, नासंभवमात्रनिबन्धना गौणी प्रतीतिः । किं तर्हि, संबन्धम् अपरम् उपेक्ष्य । भवेद् उपनयनशब्दो विवाहे गौणः । व्रात्यशब्दस् तु गौण इति को हेतुः । गौणत्वे ऽपि विवाहाभावनिबन्धन इति दुरुपपदम्272 । व्रात्यजापि — काकाज् जातः काकः श्येनाज् जातः श्येन इति — व्रात्येति शङ्क्यते । बहुसंबन्धप्रत्यासत्त्या273 हि तत्र रूपातिदेशप्रतिपत्तिः । व्रात्यभार्या तु सत्य् अपि संबन्धे न व्रात्यशब्देन शक्याभिधातुम् । सो ऽयम् इत्य् अभिसंबन्धे हि “पुंयोगाद् आख्यायाम्” (पाण् ४.१.४८) इति तथा भवितव्यम् । तावतश् चायं भेदविवक्षायां तद्धितेनेति । तस्माद् यदि गौणो व्रात्यशब्दो गृहीतव्यस् तज्जाता प्रत्येया274 । अथ शब्दार्थे व्रातम् अर्हतीति । विवाहभ्रष्टा तु न मुख्या न गौणीति । न च विवाहकालः स्त्रीणां नियतो यत् कालाद् भ्रष्टा व्रात्याः स्युः । यद् अपि प्राग् ऋतोर् विवाह्याः तद् अपि स्वयंवरस्य ऋतुमत्या विना तत् परेणाभ्यनुज्ञात एव कामम् आ मरण्ं तिष्ठेद्275 गृहे कन्या276 ॥ ८.३७३ ॥
शूद्रो गुप्तम् अगुप्तं वा द्वैजातं वर्णम् आवसन् ।
अगुप्तम् अङ्गसर्वस्वी277** गुप्तं सर्वेण हीयते ॥ ८.३७४ ॥**
मेधातिथिः ...{Loading}...
शूद्र आ चाण्डालात्, गुप्तं वर्णं द्वैजातं द्विजातीनां स्त्रिय आवसन् मैथुनेन गच्छन् रक्षिता278 भर्त्रादिभिः स279 नियमेन दण्ड्यः । को दण्ड इति चेत्, अगुप्तां चेद् गच्छत्य् अङ्गसर्वस्वी हीयते । अङ्गं च सर्वस्वं तद्वान्280 । केन हीयते । प्रकृतत्वात् ताभ्याम् एव, अन्यस्यानिर्देशात्, विशेषस्यानुपादानात् । अपराध्य्281 एवाङ्गम् । गुप्तं चेद् गच्छति सर्वेण हीयते । नैकेनाङ्गेन यावच् छरीरेणापि । हान्युद्देशेनाङ्गच्छेदनसर्वस्वहरणमरणान्य् उपदिष्टानि भवन्ति । हानिर् अस्य कर्तव्येत्य् अर्थः । तथा च गौतमः- “आर्यस्त्र्यबिगमने लिङ्गोद्धारः सर्वस्वहरणं च । गुप्तां चेत्” (ग्ध् १२.२–३) ॥ ८.३७४ ॥
वैश्यः सर्वस्वदण्डः स्यात् संवत्सरनिरोधतः ।
सहस्रं क्षत्रियो दण्ड्यो मौण्ड्यं मूत्रेण चार्हति ॥ ८.३७५ ॥
मेधातिथिः ...{Loading}...
वैश्यस्य सर्वस्वदण्ड उक्तः । इह तु साहचर्यात् सत्य् अपि द्विजातित्वे न वैश्यस्य समानजातीयागमे दण्डो ऽयम्, किं तर्हि ब्राह्मणक्षत्रिययोर् एव । एवं क्षत्रियस्य ब्राह्मणीगमने सहस्रं मौण्ड्यं च **मूत्रेण । **उदकस्थाने गर्दभमूत्रं ग्रहीतव्यम् ।
- अन्ये व्याचक्षते । अन्यस्यानुपादानात् समानजातीय एव संवत्सरनिरोधनेन दण्डाधिक्यम् । यदि संवत्सरम् अवरुद्धं करोति ततो ऽयं दण्डः ।
आद्यम् एव तु व्याक्यानं न्याय्यम् । न च समहीनोत्तमानां कथं समदण्डत्वम् इति वाच्यम् । यत उक्तम् “सर्वेषाम् एव वर्णानां दारा रक्ष्यतमाः सदा” (म्ध् ८.३५९) इति ॥ ८.३७५ ॥
ब्राह्मणीं यद्य् अगुप्तां तु गच्छेतां वैश्यपार्थिवौ ।
वैश्यं पञ्चशतं कुर्यात् क्षत्रियं तु सहस्रिणम् ॥ ८.३७६ ॥
मेधातिथिः ...{Loading}...
अगुप्ता व्याख्याता, भ्रष्टशीला अनाथा च । तद्गमने वैश्यं पञ्चसतं कुर्यात् । करोतिः प्रकरणाद् दण्डने वर्तते । दण्डयेद् इत्य् अर्थः । पञ्च शतान्य् अस्येति पञ्चशतः, बहुव्रीहिर् मत्वर्थीयः । तथा कर्तव्यं यथा पञ्च शतान्य् अस्य भवन्ति ।
-
किं यद् अधिकं तत् तस्यापहर्तव्यम् इत्य् अर्थः ।
-
नेति ब्रूमः282 । तथा सति यस्य पञ्च वै शतानि धनं वा न्यूनं तस्य दण्डो न कश्चिद् उक्तः स्यात् ।
-
कस् तर्ह्य् अर्थः पञ्चशतं कुर्यात् इति ।
-
दण्डाधिकाराद् दण्डं पञ्चशतसंबन्धिनं कुर्यात् ।
एवं सहस्रिणं क्षत्रियम् इति । सहस्रम् अस्यास्ति दण्डः, न गृहे धनम् । “अङ्गसर्वस्वी” (म्ध् ८.३७४)इति व्याख्येयम्- तथा कर्तव्यं यथाङ्गं सर्वस्वं च तस्य दण्डो भवति । क्षत्रियस्याधिको दण्डो रक्षाधिकृतो रक्षति तत् पुनः स एवापराध्यति ॥ ८.३७६ ॥
उभाव् अपि तु ताव् एव ब्राह्मण्या गुप्तया सह ।
विप्लुतौ शूद्रवद् दण्ड्यौ दग्धव्यौ वा कटाग्निना ॥ ८.३७७ ॥
सहस्रं ब्राह्मणो दण्ड्यो गुप्तां विप्रां बलाद् व्रजन् ।
शतानि पञ्च दण्ड्यः स्याद् इच्छन्त्याः सह सङ्गतः ॥ ८.३७८ ॥
मेधातिथिः ...{Loading}...
गुप्ता भ्रष्टशीलापि यदि केनचिद् रक्ष्यते पित्रा भ्रात्रा बन्धुभिर् वा तां हठाद् गच्छन् सहस्रं ब्राह्मणो दाप्यः । गुप्ता शीलवती चेत् प्रवासनाङ्कने ऽधिके287 । अथापि शीलवत्य् अपि गुप्तशब्देनोच्यते,288 तथापि सहस्रमात्राद् ब्राह्मणो मुच्यते289 । अङ्कनप्रवासने सर्वत्र मुखीक्रियेते परदाराभिमर्शे ॥ ८.३७८ ॥
मौण्ड्यं प्राणान्तिको दण्डो ब्राह्मणस्य विधीयते ।
इतरेषां तु वर्णानां दण्डः प्राणान्तको भवेत् ॥ ८.३७९ ॥
मेधातिथिः ...{Loading}...
यत्र क्षत्रियादीनां वध उक्तस् तत्र ब्राह्मणस्य मौण्ड्यम् । यथा “अब्राह्मणः संग्रहणात् प्राणानतं दण्डम् अर्हति” (म्ध् ८.३५९), तथा तु “पुमांसं दाहयेत्” (म्ध् ८.३७२) इति । प्राणानाम् अन्तं गच्छति प्राणान्तं वा करोति प्राणान्तकः । “अन्येष्व् अपि दृश्यते” (पाण् ३.२.१०१) इति ण्वुल्290 । अन्ये तु “प्राणान्तिक” इति पाठान्तरम् । प्राणान्ते भवः प्राणान्तिकः अध्यात्मादित्वाट् ठञ् ।
इतरेषां ब्राह्मणाद् अन्येषां क्षत्रियादीनां वर्णानां प्राणान्तिक एव श्रुतं मारणादिपूर्वम् एव । तदनन्तरम् इदम् उच्यते । उच्यमानं मौण्ड्यं तच्छेषतया सहस्रं दण्डो विधीयत इति मन्यन्ते । अन्यथा ब्राह्मणस्य प्राणान्तदण्डविधानात् कः प्रसङ्गो ब्राह्मणस्य येनैवम् उच्यते मौण्ड्यं प्राणान्तिक इति । “पुमांसं दाहयेत्” (म्ध् ८.३७२) इति सामान्यविधानप्रसक्तम् इति चेत्, तत्रैव कर्तव्यं स्यात् तथा हि स्फुटं तद्विषयत्वं प्रतीयेत291 ॥ ८.३७९ ॥
न जातु ब्राह्मणं हन्यात् सर्वपापेष्व् अपि स्थितम् ।
राष्ट्राद् एनं बहिः कुर्यात् समग्रधनम् अक्षतम् ॥ ८.३८० ॥
मेधातिथिः ...{Loading}...
सर्वपापेष्व् इति प्रकरणविधौ न केवलं संग्रहणे ब्राह्मणो न हन्यते, यावद् अन्येष्व् अप्य् अपराधेषु । अपिशब्दो युगपत् सर्वपापकार्य् अपि ब्राह्मणो न जातु कदाचिद् धन्तव्यः । किं तर्हि, तस्य पापकारिणः कर्तव्यम् । राष्ट्राद् एनं विषयाद् ब्राह्मणं बहिः कुर्यान् निर्वासयेत् । समग्रधनं सर्वस्वसहितम्, अक्षतम् अक्षतशरीरम् । धनम् अप्य् अस्य नापहर्तव्यम् । कथं तर्हि दण्डो ब्राह्मणस्य ।
- केचिद् आहुः । निर्वासने त्व् आधीयमानं सधनं निर्वास्य धनदण्डं प्रतिषेधति ।
अन्ये तु समग्रधनं292 हृतसर्वस्वं कृत्वा निर्वास्यत इति मन्यन्ते ॥ ८.३८० ॥
न ब्राह्मणवधाद् भूयान् अधर्मो विद्यते भुवि ।
तस्माद् अस्य वधं राजा मनसापि न चिन्तयेत् ॥ ८.३८१ ॥
मेधातिथिः ...{Loading}...
पूर्वशेषो ऽयम् अर्थवादः । न ब्राह्मणवधाद् अन्यो बहुतरो ऽधर्मो दुःखफलो ऽस्ति । अन्यशब्दाध्याहारेण पञ्चमी । तस्माद् धेतोर् अस्य ब्राह्मणस्य राजा मारणम् अङ्गछेदं वा मनसापि नेच्छेत् ॥ ८.३८१ ॥
वैश्यश् चेत् क्षत्रियां गुप्तां वैश्यां वा क्षत्रियो व्रजेत् ।
यो ब्राह्मण्याम् अगुप्तायां ताव् उभौ दण्डम् अर्हतः ॥ ८.३८२ ॥
सहस्रं ब्राह्मणो दण्डं दाप्यो गुप्ते तु ते व्रजन् ।
शूद्रायां296** क्षत्रियविशोः साहस्रो वै भवेद् दमः ॥ ८.३८३ ॥**
क्षत्रियायाम् अगुप्तायां वैश्ये पञ्चसतं दमः ।
मूत्रेण मौण्ड्यम् ऋच्छेत्299** तु क्षत्रियो दण्डम् एव वा ॥ ८.३८४ ॥**
मेधातिथिः ...{Loading}...
वैश्यस्य पञ्च शतानि दण्डः, अगुप्तां चेत्300 क्षत्रियां गच्छति । क्षत्रियस्य स एव । यदि वा मौण्ड्यं मुण्डनम् ऋच्छेत् प्राप्नुयाद् गर्दभमूत्रेण । एष एव वैश्यागमन उभयोर् दण्डः ॥ ८.३८४ ॥
अगुप्ते क्षत्रियावैश्ये शूद्रां वा ब्राह्मणो व्रजन् ।
शतानि पञ्च दण्ड्यः स्यात् सहस्रं त्व् अन्त्यजस्त्रियम् ॥ ८.३८५ ॥
मेधातिथिः ...{Loading}...
ब्राह्मणस्य क्षत्रियाद्यगुप्तास्त्रीगमन उभयोर् दण्डः । अन्त्यजश् चण्डालश्वपचादिः । तत्र सहस्रम् । तत्रायं सहस्रप्रणदण्डसंग्रहः । ब्राह्मणस्य चतुर्ष्व् अपि वर्णेषु गुप्तागमने सहस्रम् । श्रोत्रियदारेषु प्रवासनाङ्कने । अन्यत्र प्रवासानम् एव । श्रोत्रियडारेषु प्रायश्चित्तमहत्त्वाद् एव कल्प्यते । अगुप्तागमने301 पञ्चशतानि प्रवासनाङ्कने । यद्य् अप्य् अगुप्तापरदाराव्यपदेश्या302 भवति विवाहसंस्कारे सति, तथापि स्वैरिणी भर्तृस्वताम् अतिक्रान्ता, अब्राह्मणस्य प्राणान्तो गुप्तागमने दण्डो बलात् । सकामागमने साहस्रो दण्डः प्रवासनाङ्कने च । गुप्तागमने “वैश्यं पञ्चशतं कुर्यात् क्षत्रियं सहस्रिणाम्” (म्ध् ८.३७६) इति ॥ ८.३८५ ॥
यस्य स्तेनः पुरे नास्ति नान्यस्त्रीगो न दुष्टवाक् ।
न साहसिकदण्डघ्नो स राजा शक्रलोकभाक् ॥ ८.३८६ ॥
मेधातिथिः ...{Loading}...
यस्य राज्ञः पुरे देशे राष्ट्रे स्तेनश् चौरो नास्ति स शक्रस्येन्द्रस्य लोकं स्थानं भजते स्वर्गं प्राप्नोति । नान्यस्त्रीगो, अन्यस्य या स्त्री भार्यावरुद्धा पुनर्भूर् वा, स्त्रीग्रहणम् अभार्याया अप्य् असंबन्धिन्याः प्रतिषेधार्थम् । दुष्ट्वाक् त्रिविधस्याक्रोशस्य कर्ता । साहसिक उक्तः । दण्डेन हन्ति दण्डपारुष्यकृत् । शक्रलोकभाग् इति सर्वत्रानुषङ्गः । स्तेनादीनां स्त्रीसंग्रहशेषो303 ऽयम् अर्थवादः ॥ ८.३८६ ॥
एतेषां निग्रहो राज्ञः पञ्चानां विषये स्वके ।
साम्राज्यकृत् सजात्येषु लोके चैव यशस्करः ॥ ८.३८७ ॥
मेधातिथिः ...{Loading}...
साम्राज्यं परप्राणयिता, स्वातन्त्र्यम् । सजात्येषु । समानस्पर्द्धिनो304 राजानः सजात्या अभिप्रेताः । तेषु मूर्द्धन्य् अधितिष्ठति, तस्याज्ञाकराः संबवन्तीत्यर्थः । लोके च यशस्कर कीर्तिम् उत्पादयन्ति305 । उभयत्रापि निग्रह एव कर्ता हेतुत्वात् । जनमारको ऽयं क्रोधन इति306 वदन्त्य् अपि तु स्तुवन्ति ॥ ८.३८७ ॥
ऋत्विजं यस् त्यजेद् याज्यो याज्यं चर्त्विक् त्यजेद् यदि ।
शक्तं कर्मण्य् अदुष्टं च तयोर् दण्डः शतं सतम् ॥ ८.३८८ ॥
मेधातिथिः ...{Loading}...
यज्ञे कर्मकर ऋत्विक्, होतोद्गात्रादिः । यद्य् अपि वरणोत्तरकालम् आ प्रयोगसमाप्तेस् तद्व्यपदेशस् तथाप्य् अत्र प्रारब्धकर्मणोर्307 इतरेतरत्यागे न308 विधिर् अयम्, किं तर्हि प्राग् वरणात् । भूतपूर्वगत्या ऋत्विग्व्यवहारः । यः प्रयोगान्तरे वृतः स एव शक्तः प्रयोगान्तरे ऽपि वरितव्यः । न केवलं पूर्ववृतस्यायम् अत्यागः, किं तर्हि तत्पित्रादिभिर् अपि । तथाहि “पूर्वो जुष्टः स्वयंवृतः” (न्स्म् ३.१०) इति नारदः । न चायम् ऐकपुरुषिको नियमः । किं तर्हि कुलधर्मो ऽयम् । तथा च महाभारते संवर्तमरुत्तीयेषु प्रपञ्चितम् । तेन तत्कुलाः309 पित्रादिभिर् ऋत्विजो वृतास् त एव वरीतव्याः ।
- याजनकानाम् अप्य् एष एव विधिः । तैर् अपि ते योजनीयाः । ऋत्विजं कृतार्त्विज्यं तत्कुलीनं वान्यं यो न वृणीत यियक्षुः, अपि त्व् अन्यं याजकम् अर्थयेत् । शक्तं कर्मणि यज्ञे प्रयोगज्ञम् अदुष्टम् अभिशंसनाङ्गवैकल्यादिभिर् दोषैर् अयुक्तम् । एवम् ईदृश एवर्त्विग् अर्थ्यमानो यदि नाङ्गीकुर्याद् याजकत्वम् अदुष्टम् एभिर् एव दोषैर् अनाक्रान्तं याज्यं शक्तं विद्वत्तया च । तादृशे त्यागे तयोः शतं दण्डः । ऋत्विक् शतं दाप्यो याज्यं त्यजन्, याज्य ऋत्विजम् ।
न केवलम् अयम् ऋत्विग्याजकधर्मः, शिष्याचार्ययोर् अपि । तथा च गौतमः- “अथायाजकाव्310 ऋत्विगाचार्यौ पतनीयसेवायां च हेयौ । अन्यत्र हानात् पतति” (ग्ध् २१.१२–१३) इति । दातृसंप्रदानयोर् अपि प्रतिग्रहे केचिद् धर्मम् इमम् इच्छन्ति ॥ ८.३८८ ॥
न माता न पिता न स्त्री न पुत्रस् त्यागम् अर्हति ।
त्यजन्न् अपतितान् एतान् राज्ञा दण्ड्यः शतानि षट् ॥ ८.३८९ ॥
मेधातिथिः ...{Loading}...
माता न त्यागम् अर्हति । न त्याज्या । त्यागः स्वगृहान् निष्कासनां मातृवृत्तेः स्खलितायाः,311 उपकारस्योपक्रियायाम् उदितायाम् अकारणे । एवं पित्रादीनाम् अपि व्याख्येयम् । संबन्धसाहचर्यात्312 स्त्री भार्यैवाभिप्रेता । अपतितानाम् एषां त्यागो नास्ति । मातुस् तु “न माता पुत्रं प्रति पततीत्य् एके” इति शातातपः । भार्यायाश् चापि त्यागः असंभोगो313 गृहकार्यनिषेधः । भक्तवस्त्रादिदानं तु न निषिध्यते । “योषित्सु पतितास्व् अपि । वस्त्रान्नपानं314 देयं च वसेयुः स्वगृहान्तिके” (म्ध् ११.१८७) इति पठ्यते ॥ ८.३८९ ॥
आश्रमेषु द्विजातीनां कार्ये विवदतां मिथः ।
न विब्रूयान् नृपो धर्मं चिकीर्षन् हितम् आत्मनः ॥ ८.३९० ॥
मेधातिथिः ...{Loading}...
315वानप्रस्थादीनाम् अरण्याश्रमवासिनाम् आश्रमेषु कार्यं धर्मं संकटरूपम् — “अयं शास्त्रार्थः”, “नायम्” — इति इतरेतरं विवदमानानां316 न धर्मव्यवस्थां सहसा विब्रूयात् प्रभुतया निर्णयम् अन्येषाम् इव न कुर्यात् । कथं तर्हि । वक्ष्यमाणेन प्रकारेण । एवम् आत्मने हितं कृतं भवति । शास्त्रार्थत्यागो न भवतीत्य् अर्थः । गृहस्थानाम् चाश्रमित्वे ऽपि यथोक्त एव निर्णयप्रकारः । कार्यं धमसंशयात्मकविवादपदम् । आश्रमग्रहणाच् च विशिष्टविष्यता व्याख्यायते ॥ ८.३९० ॥
यथार्हम् एतान् अभ्यर्च्य ब्राह्मणैः सह पार्थिवः ।
सान्त्वेन प्रशमय्यादौ स्वधमं प्रतिपादयेत् ॥ ८.३९१ ॥
मेधातिथिः ...{Loading}...
317यथा तत् कर्तव्यं तथेदानीम् आह । यो यादृशी पूजाम् अर्हति गुनानुरूपेण तं तथैव्आभ्यर्च्य ब्राह्मणैर् मन्त्रिपुरोहितादिभिः । अर्चायां साहित्यं318 धर्मप्रवचने वा । तदा च ब्राह्मणाः सत्या विज्ञेयाः । तैः सह स्वधर्मं319** **न्याय्यम् अर्थं बोधयेत् । सिद्धे महत्त्वे सभ्येभ्य उपदेशः प्राधान्यार्थः । तान् पुरस्कुर्यात् । तथा हि । न राज्ञः क्रुध्यन्ति शास्त्रेण । प्रीतिस्तुतिवचनैः प्रथमं प्रशमय्य व्यपनीतक्रोधान्320 कृत्वा ततो ब्रूयात् ॥ ८.३९१ ॥
प्रतिवेश्यानुवेश्यौ321** च कल्याणे विंशतिद्विजे ।**
अर्हाव् अभोजयन् विप्रो दण्डम् अर्हति माषकम् ॥ ८.३९२ ॥
मेधातिथिः ...{Loading}...
विशन्त्य् अस्मिन्न् इति वेशो निवासः, तत्प्रतिगतः प्रतिवेशः322 गृहाभिमुखः,323 तत्र भवः प्रतिवेश्यः324 । आदिदीर्घपाठे325 स्वार्थिको ऽण् । एवम् अनुवेश्यः पृष्ठतो वसन्न् उच्यते326 । तौ चेन् न भोजयेत् । यदि स्वगृहम् आनीय कल्याणे विवाहाद्युत्सवे विंशतिमात्रा यत्र द्विजा अन्ये भोज्यन्ते, तदा माषकं सुवर्णं दण्डं दाप्यः । हिरण्यम् इत्य् उत्तरत्र विशेषणाद् इहापि विज्ञायते । अर्हौ यदि तौ प्रतिवेश्यानुवेश्यौ327 योग्यौ भवतः, न द्विषन्तौ नात्यन्तनिर्गुणौ ॥ ८.३९२ ॥
श्रोत्रियाः श्रोत्रियं साधुं भूतिकृत्येष्व् अभोजयन् ।
तदन्नं द्विगुणं दाप्यो हिरण्यं चैव माषकम् ॥ ८.३९३ ॥
मेधातिथिः ...{Loading}...
अप्रातिवेश्यार्थो ऽयम् आरम्भः । सब्रह्मचारिणाम् अयं नियमः । श्रोत्रियस् तादृशम् एव श्रोत्रियं गुणवन्तं भूतिकृत्येषु — भूतिर् विभवस् तन्निमितेषु कार्येषु — विभवे धनसंपत्तौ सत्यां यानि क्रियन्ते गोष्ठीभोजनादीनि । अथ वा भूतिग्रहणं कृत्यविशेषणम् । भूतिमन्ति यानि कृत्यानि प्राचुर्येण प्रभूततया विवाहादीनि क्रियन्ते, यत्र विंशतेर् अधिकनरा भोज्यन्ते । तादृशेषूत्सवेषु अभोजयंस् तदर्थम् अन्नं भूतिकृत्येषु भोक्तव्यं तावद्द्विगुणं तस्मै दापयेत् । राज्ञे वा उभयं328 हिरण्यं माषकं329 वा330 ॥ ८.३९३ ॥
अन्धो जडः पीठसर्पी सप्तत्या स्थविरश् च यः ।
श्रोत्रियेषूपकुर्वंश् च न दाप्याः केनचित् करम् ॥ ८.३९४ ॥
मेधातिथिः ...{Loading}...
सप्तत्या स्थविरः । प्रकृत्या विरूप इतिवत् तृतीया । सप्ततिर् वर्षाणि यस्य जातस्य स एवम् उच्यते । श्रोत्रियेषु वेदाध्यायिष्ऊपकुर्वन् पादशुश्रूषादिना कारुकर्मणा वा । एते न केनचित् “शिल्पिनो331 मासि मासि” (म्ध् ७.१३८) इत्यादि दाप्याः । क्षीणकोशेनापि न दाप्या332 इति केनचिद्ग्रहणम् ॥ ८.३९४ ॥
श्रोत्रियं व्याधितार्तौ च बालवृद्धाव् अकिंचनम् ।
महाकुलीनम् आर्यं च राजा संपूजयेत् सदा ॥ ८.३९५ ॥
मेधातिथिः ...{Loading}...
संपूजनम् अनुग्रहः, अनेकार्थत्वाद् धातूनाम् । न हि बालादीनाम् अन्या पूजोपपद्यते । श्रोत्रियो ऽत्र ब्राह्मण एवेति स्मरन्ति । आर्तः प्रियवियोगादिना । अकिंचनो दुर्गतः । महाकुलीनः । ख्यातिधनविद्याशौर्यादिगुणे कुले जातो महाकुलीनः । आर्य ऋजुप्रकृतिर् अवक्रः । एतेषां दानमानादिभिर् अनुग्रहः कर्तव्यः ।
केचिद् अकिंचनं महाकुलीनविशेषणं व्याचक्षते ॥ ८.३९५ ॥
शाल्मलीफलके श्लक्ष्णे नेनिज्यान् नेजकः शनैः ।
न च वासांसि वसोभिर् निर्हरेन् न च वासयेत् ॥ ८.३९६ ॥
मेधातिथिः ...{Loading}...
शाल्मली नाम वृक्षस् तद्विकारे फलके । स हि प्रकृत्यैव शल्क्ष्णो333 भवति । न च वाससो ऽपि पातैर् अवयवा अस्य च्यवन्ते । ते हि च्युता वासः पाटयेयुः । न चायं जातिनियमो ऽदृष्टाय334 । तेनान्यद्338 अपि यत् काष्ठम् एवंस्वभावं तत्फलके न दोषः । श्लक्ष्णे ऽपरुषे च । वासांस्य् अन्यदीयान्य् अन्यदीयैर् वासोभिर् न निर्हरेत् । बद्ध्वोपरिवेष्ट्य तीर्थे प्रक्षालयितुं न नयेत् । बन्धनाद् वाससां विनाशो मा भूत् । अधिकं हि तानि पीडितानि भवन्ति । न च वासयेत् । अन्यदीयानि वासांस्य् अन्यस्मै न प्रयच्छेत्,339 मूल्येन340 वसनार्थं न दद्यात् । एतद् धि वासनम्- वस्ते ऽपरः, तं रजको वासयति । अश्रुतत्वाद् दण्डस्य प्रकृतमाषकयोजना कर्तव्या ॥ ८.३९६ ॥
तन्तुवायो दशपलं दद्याद् एकपलाधिकम् ।
अतो ऽन्यथा वर्तमानो दाप्यो द्वादशकं दमम् ॥ ८.३९७ ॥
मेधातिथिः ...{Loading}...
ततून् वयति तन्तुवायः कुविन्दः । शाकटकादेः पटस्य कर्ता । स सूत्रपलानि दश गृहीत्वा शाटकं वयन् एकपलाधिकं341 वस्त्रं दद्यात् । अनया वृद्ध्या सर्वं दद्यात् । स्थूलसूक्ष्मादिवाससां रोमवतां च कल्पना कर्तव्या । अन्यथा द्वादशपणो दण्डः । वृद्ध्यदाने342 ऽयं दण्डः । मूलच्छेदे तु343 गणोक्तः । एवं विंशतिपलं यदि न ददाति वृद्धिं द्विगुणो दण्डः । एवं कल्पना कार्या- त्रिगुणश् चतुर्गुण इत्यादि ।
अन्ये तु दण्डं राजभागम् इत्य् आहुः ॥ ८.३९७ ॥
शुल्कस्थानेषु कुशलाः सर्वपण्यविचक्षणाः ।
कुर्युर् अर्घं यथापण्यं ततो विंशं नृपो हरेत् ॥ ८.३९८ ॥
मेधातिथिः ...{Loading}...
येषु प्रदेशेषु शुल्कम् आदीयते तानि शुल्कस्थानानि344 राजभिर् वणिग्भिः345 स्वप्रतिदेशनियतानि कल्पितानि । तेषु स्थानेषु ये कुशलाः शौल्किकाः,346 ये धूर्तैर् न347 शक्यन्ते वञ्चयितुम्, तथा सर्वेषां पण्यानाम् आगमक्रयविक्रयक्षयव्ययसारासारादिविधिज्ञा348 विचक्षणाः ते349 भाण्डस्यागतस्य देशान्तरात्350 नीयमानस्य वार्घं कुर्युः । ततो विंशतिभागं राजा गृह्णीयात् ।
- किं पुनर् अर्घकरणेन । एतावद् एव वक्तव्यं पण्यानां विंश्तिभागम् इति ।
सत्यम्, यदा स्वरूपेण द्रव्यं राजा351 गृह्णाति । स्वरूपकान्य् उपयुज्यन्ते352 शाटकादीनि353 । तत्र विंशतिभागः प्राग् विंशतेर् 354 न पाटनम् अन्तरेणोपपद्यत इत्य् एवमर्थम् अर्घकरणम् । अविक्रेयाणाम् आत्मोपयोगिनां नास्ति शुल्क इति ज्ञापितुं यथापण्यम् । एवं कालानुरूप्येण । न सर्वपण्यं सर्वदा विक्रियत एकरूपेणार्घेण । अतो देशकालापेक्षया पण्यानाम् अर्घव्यवस्था, न नियतो ऽर्घ इति ॥ ८.३९८ ॥
राज्ञः प्रख्यातभाण्डानि प्रतिषिद्धानि यानि च ।
तानि निर्हरतो लोभात् सर्वहारं हरेन् नृपः ॥ ८.३९९ ॥
मेधातिथिः ...{Loading}...
राज्ञः संबन्धितया प्रख्यातानि यानि भाण्डानि राजोपयोगितया — यथा हस्तिनः, काश्मीरेषु कुंकुमम्, प्राच्येषु355 पट्टोर्णादीनि, प्रतीच्येष्व् अश्वाः, दाक्षिणात्येषु मणिमुक्तादीनि — यद् यस्य राज्ञो विषये सुलभम् अन्यत्र दुर्लभं तत्र तस्य प्रख्यापनं356 भवति । तेन हि राजान इतरेतरं संदधते । प्रतिषिद्धानि यानि राज्ञा मदीयाद् देशान् नैतद् अन्यत्र नेयम् अत्रैव वा विक्रेयं यथा दुर्भिक्षे धान्यम् इत्य् एवमादीनि । लोभान् निर्हरतो देशान्तरं नयतो विक्रीणानस्य वा सर्वहारं हरेत्, सर्वहरणं सर्वहारः । अयं धनलोभान् नयतो दण्डः । राजान्तरोपायनार्थं त्व् अधिकतरः शारीरो ऽपि दुर्गावरोधादिः ॥ ८.३९९ ॥
शुल्कस्थानं परिहरन्न् अकाले क्रयविक्रयी ।
मिथ्यावादी च संख्याने दाप्यो ऽष्टगुणम् अत्ययम् ॥ ८.४०० ॥
मेधातिथिः ...{Loading}...
क्रयविक्रयी वाणिजक357 उच्यते । शुल्कस्थानं परिहरन् उत्पथेन गच्छन्, अकाले वा रात्रौ शुल्काध्यक्षेषु गतेषु । संख्याने मिथावादी न्यूनं कथयति गणनायाम् । उपलक्षणं चैतत् संख्यानम् । तेन प्रच्छादने ऽप्य् एष एव विधिः । दाप्यो ऽष्टगुणम् अत्ययं दन्डः358 । यावद् अपह्नुते तावदष्टगुणम्, यावान् वा तस्यापह्नुतस्योचितः शुल्कस् तदष्टगुणं359 दाप्यः । आद्यम् एव युक्तम् । अत्ययशब्दो हि तत्र समञ्जसः, तद्धेतुत्वाद् द्रव्ये ।
अन्ये त्व् अकाले क्रयविक्रयी360 इति संबन्धं कुर्वन्ति । अकालश् चागृहीते शुल्के रहसि वा प्रतिषेधो ऽयम् ॥ ८.४०० ॥
आगमं निर्गमं स्थानं तथा वृद्धिक्षयाव् उभौ ।
विचार्य सर्वपण्यानां कारयेत् क्रयविक्रयौ ॥ ८.४०१ ॥
मेधातिथिः ...{Loading}...
आपणभूमौ ये विक्रेतारस् ते न स्वेच्छया मूल्यं कर्तुं लभेरन्, नापि राजा क्रीणीयात् स्वरुचिकृतेन मूल्येन । कथं तर्हि । इदम् इदं निरूप्यम्361 । आगमम् — किं प्रत्यागच्छति देशान्तराद् उत न, तथेयतो362 दूराद् आगच्छति । एवं निर्गमस्थाने — किं संप्रत्य् एव विक्रियते, उत तिष्ठति । संप्रति निष्क्रामतो द्रव्यस्य स्वल्पो ऽपि लाभो महाफलः, तदुत्थितेन मूल्येन द्रव्यान्तराविषयेण363 क्रयविक्रयेण364 पुनर् लाभः । स्थानात् वृद्धिक्षयौ- कियत्य् अस्य वृद्धिस् तिष्ठति, कीदृशो वा क्षयः । इत्य् एतत् सर्वं परीक्ष्य, स्वदेशे क्रयविक्रयौ कारयेत् । यथा न वणिजां पीडा भवति, नापि क्रेतॄणाम्, तथार्घं व्यवस्थापयेत् ॥ ८.४०१ ॥
पञ्चरात्रे पञ्चरात्रे पक्षे पक्षे ऽथ वा गते ।
कुर्वीत चैषां प्रत्यक्षम् अर्घसंस्थापनं नृपः ॥ ८.४०२ ॥
मेधातिथिः ...{Loading}...
आगमनिर्गमनादेर् द्रव्यस्यानित्यत्वाद् उपचयापचयाव् अर्घस्यानेकरूपौ । ततो ऽर्घसंस्थापनं पञ्चरात्रे पञ्चरात्रे प्रत्यक्षीकार्यम्, न सकृत् कृतं मन्तव्यम्, नापि वणिजो विश्वसितव्याः । किं तर्हि, स्वयं प्रतिजागरणीयम् । यद् द्रव्यं चिरेण निष्क्रामति तत्र पक्षे ऽर्घगवेषणम् अन्यत्र पाञ्चरात्रिकम् ॥ ८.४०२ ॥
तुला मानं प्रतीमानं सर्वं च स्यात् सुलक्षितम् ।
षट्सु षट्सु च मासेषु पुनर् एव परीक्षयेत् ॥ ८.४०३ ॥
मेधातिथिः ...{Loading}...
तुला प्रसिद्धा । मानं प्रस्थो द्रोण इत्यादि । प्रतीमानं सुवर्णादीनां परिच्छेदार्थं यत् क्रियते । सर्वतोभागे तत् सुलक्षितं राजचिह्नैर् अङ्कितं कार्यम् । स्वयं प्रत्यक्षेण परिच्छिद्य स्वमुद्रया । परीक्षयेत् षट्सु षट्सु मासेषु पुनः परीक्षां कारयेद् आप्तैर् अधिकारिभिर् यथा न विचालयन्ति केचित् ॥ ८.४०३ ॥
पणं यानं तरे दाप्यं पौरुषो ऽर्धपणं तरे ।
पादं365** पशुश् च योषिच् च पादार्धं रिक्तकः पुमान् ॥ ८.४०४ ॥**
मेधातिथिः ...{Loading}...
नदीतीरे यानं गन्त्रीशकटादि तरे366 पणं दाप्यम् । भाण्डपूर्णानाम् उत्तरत्रोपदेशाद् रिक्थभाण्डानां यानानां यानद्रव्यानयनार्थम् उत्तरार्यमाणानाम् अयं राजभागः । पौरुषवाह्यो367 भारो द्रव्यानयनार्थम् आनीयमानो ऽर्धपणं दाप्यः । पशुर् गोमहिष्यादिः पादम्, स्त्री च । रिक्तको न किंचित् । यो गृहीतवान् बारं स पुमान् पादार्धं दाप्यः । रिक्तस्य पुंसो नदीलङ्घनसामर्थ्यसंभावनया368 लाघवाद् अल्पम् आदानम् । स्त्री अशक्तत्वात् स्वयं तरणे369 बहु दाप्यते । तरे तरनिमित्तम् ॥ ८.४०४ ॥
भाण्डपूर्णानि यानानि तार्यं दाप्यानि सारतः ।
रिक्तभाण्डानि यत् किंचित् पुमांसश् चापरिच्छदाः ॥ ८.४०५ ॥
मेधातिथिः ...{Loading}...
भाण्डं द्रव्यं वस्त्रव्रीह्यादि । तेन पूर्णानि यानानि सारतस् तार्यं तारार्थं दाप्यानि । यदि महार्घं वस्त्रादि तत्र बह्वारोपितं तदा बहु दाप्यानि, अथ व्रीह्यादिना नातिभारेण370 तदाल्पम्371 । एवं नद्याः सुतरदुस्तरत्वेन कल्पना कर्तव्या । रिक्तभाण्डानि यानानि यत् किंचित् पणपादानि372 । भाण्डशब्दो ऽत्र धनवचनः । ये चापरिच्छदास्373 ते न पादार्धम्, अपि तु यत् किंचित् ततो ऽधिकं न्यूनं वा । अत्र न शक्यो नियमः, अतः कल्पनैव शास्त्रार्थः ॥ ८.४०५ ॥
दीर्घाध्वनि यथादेशं यथाकालं तरो भवेत् ।
नदीतीरेषु तद् विद्यात् समुद्रे नास्ति लक्षणम् ॥ ८.४०६ ॥
मेधातिथिः ...{Loading}...
पारावारोत्तारणे पूर्वं दानम् । अयं नावा ग्रामान्तरगमने । दीर्घाध्वनि योजनादिपरिमाणेन गन्तव्ये374 । यथादेशम् । यस्मिन् देशे यत् तरिदानं नाविकैः स्थापितं तद् एव । यथाकालम् । कालो वर्षादिः बहूदकः,375 तत्रान्यन् मूल्यम् । स्वल्पोदकायां सरिति चिरेण ग्रामप्राप्तौ नाविकानाम् अधिकतरायासवताम् अधिकमूल्यम् । तरमूल्ये कारणे कार्यशब्दस् तरो376 भवेद् इति । यावद् यावद् दीर्घो देशस् तावत् तावत् तरपणो वर्धते । एतच् च नदीतीरेषु विद्यात् । समुद्रे सागरे नास्ति तरलक्षणम् । न शक्यते लक्षयितुं कति योजनानि नौर् व्यूढा येन तदनुसारेण मूल्यं कल्प्यते377 । नदनदीषु शक्यते ज्ञातुम् अयं पन्था योजनमात्रो द्वियोजन इति । तत्र हि तत्र ग्रामाः परिमाणचिह्नम् । तत्रैकयोजने ऽध्वनि यन् मूल्यं द्विगुणं तद् द्वियोजने । समुद्रे तु बहुवाह्या नौः, न च सुष्टु शक्यते योजनादिपरिच्छेदः कर्तुम् । अत एवोक्तं समुद्रे नास्ति लक्षणम् इति ॥ ८.४०६ ॥
गर्भिणी तु द्विमासादिस् तथा प्रव्रजितो मुनिः ।
ब्राह्मणा लिङ्गिनश् चैव न दाप्यास् तारिकं तरे ॥ ८.४०७ ॥
मेधातिथिः ...{Loading}...
द्वाभ्यां मासाभ्याम् ऋतुदर्शनस्य व्यक्तगर्भा स्त्री भवति । तस्या अनुग्राह्यत्वात् तरपणो न ग्राह्यः । प्रव्रजितश् चतुर्थाश्रमी । मुनिस् तापसः । ब्राह्मणा लिङ्गिनो ब्रह्मचारिणः । ब्राह्मणग्रहणं विशेषणम् । तेन बाह्यप्रव्रज्यालिङ्गधरिणां नैष विधिः । तरप्रयोजनं तारिकं पणादि तरनिमित्तं न दाप्याः । वृत्तानुरोधात् तारिकम् इति सिद्धे तरग्रहणम् ॥ ८.४०७ ॥
यन् नावि किंचिद् दाशानां विशीर्येतापराधतः ।
तद् दाशैर् एव दातव्यं समागम्य स्वतो ऽंशतः ॥ ८.४०८ ॥
मेधातिथिः ...{Loading}...
नाव्यारोपितभाण्डं तरणिकायां यद् दाशानां नाविकानाम् अपराधाद् आवर्तमानजलेन प्रदेशेन नयतां वा तत्स्थानं ज्ञात्वा दृढबन्धनेन जलप्रवेशम्378 अकुर्वतां वध्र्यादिनहनीभिर् अयोमयीभिश् चर्मबन्धैः सूत्रबन्धैर् वा शिथिलीकृतवातां यदि भाण्डं विशीर्येत विनाश्येत तदा तैर् एव दात्व्यं स्वतो ऽंशतः स्वभागाद्379 भाण्डस्वामिने, समागम्य यावन्तो नाव्यारूढा दाशाः ॥ ८.४०८ ॥
एष नौयायिनाम् उक्तो व्यवहारस्य निर्णयः ।
दाशापराधतस् तोये दैविके नास्ति निग्रहः ॥ ८.४०९ ॥
मेधातिथिः ...{Loading}...
नौभिर् यान्ति तच्छीला नौयानिनः, तेषाम् एष विधिर् उक्तो यथा दाशापराधाद् यद् भ्रष्टम्380 उदके तद् दद्युः । दैविके दोष उत्पाते वातादिना नौभङ्गे नास्ति नाविकानां द्रव्यनाशे निग्रहः ।
एष स्थले भाण्डवाहकानां भारिकाणां वा न्यायः । यद्य् अप्रमादेन प्रक्रामति भारिको गृहीतदण्डावलंबनो दृढबन्धोपरिभागो ऽकस्माद् दृष्ट्या381 पथि कर्दमीकृते पतितस्य भाण्डं नश्येन् न भारिकस्य दोषः स्यात् ॥ ८.४०९ ॥
वाणिज्यं कारयेद् वैश्यं कुसीदं कृषिम् एव च ।
पशूनां रक्षणं चैव दास्यं शूद्रं द्विजन्मनाम् ॥ ८.४१० ॥
मेधातिथिः ...{Loading}...
इह केचिद् व्याचक्षते । अनिच्छन्ताव् अपि वैश्यशूद्रौ बलाद् एव तानि कर्माणि कारयितव्यौ यत एतयोः स्वधर्मो ऽयम् । सत्य् अपि दृष्टार्थत्वे ऽदृष्टार्थता विद्यते नियमविधित्वात् । एवं च सति ब्राह्मणो ऽपि हठात् प्रतिग्राहयितव्य इत्य् आपतति । पक्ष एव दोषत्वेनायम् उक्त इति चेद्, अत्राप्य् एष एव पक्षः ।
तद् अयुक्तम् । सत्यां धनार्थितायां382 शास्त्रतो नियमः । न तु विधिनिबन्धनैव383 प्रवृत्तिः । यत्र स्वयं प्रयोजकम् अस्ति तत्र न384 विधिः प्रयोक्तृत्वम् । नियमांशे तु विधेर् व्यापारः । स चेदृशो385 नियमः । वैश्यम् एव कारयेद् वाणिज्यम्, अन्यं कुर्वाणम् असत्याम् आपदि दण्डयेत् । एवं ब्राह्मणम् एव प्रतिग्रहम् । तथा च प्रतिग्रहसमर्थो ऽपि संतोषपरश् च स्याद् इत्य् आपद्यते । यद् अपि श्रूयते “अनिच्छतः” अपीति386 (म्ध् ८.४१२), सो ऽर्थवादः । शूद्रम् एव दास्यम् इत्य् एवं सर्वत्र नियमरूपता द्रष्टव्या ॥ ८.४१० ॥
क्षत्रियं चैव वैश्यं च ब्राह्मणो वृत्तिकर्शितौ ।
बिभृयाद् आनृशंस्येन स्वानि कर्माणि कारयन् ॥ ८.४११ ॥
मेधातिथिः ...{Loading}...
387वृत्त्या कर्शितौ ब्राह्मणो बिभृयाद् भक्तदानादिना, क्षत्रियवैश्ययोर् भरणं कुर्यात् । **आनृशंस्येन **अनुकम्पया स्वानि कर्माणि कारयेत्, ब्राह्मणस्य यानि स्वानि समित्कुशोदकुंभाहरणादीनि । अथ वा क्षत्रियवैशयोर् यानि स्वानि । क्षत्रियो ग्रामरक्षादौ नियोक्तव्यो वैश्यः स्वकृषिपसुपाल्यादौ । महाधनो यो ब्राह्मणो महापरिच्छदश्388 च सामर्थ्यात् तस्यैष विधिः । स्वानि कर्माणीति वचनात् दास्यं न389 कारयितव्यौ390 गर्हितोच्छिष्टमार्जनादि ॥ ८.४११ ॥
दास्यं तु कारयंल् लोभाद् ब्राह्मणः संस्कृतान् द्विजान् ।
अनिच्छतः प्राभवत्याद् राज्ञा दण्ड्यः शतानि षट् ॥ ८.४१२ ॥
मेधातिथिः ...{Loading}...
संस्कृता उपनीताः । यद्य् अपि द्विजग्रहणाद् एवैतल् लभ्यते तथापि त्रैवर्णिकजात्युपलक्षणार्थं न विज्ञायीति । यो ब्राह्मणः समानजातीयान् दास्यं पादधावनोच्छिष्टावकरणसंमार्जनादिरूपम्391 अनिच्छतः । प्रभवतो भावः392 प्राभवत्यं प्रभुत्वम् । शक्यातिशययोगतो बलादिना यः कारयति स षट्शतानि दण्ड्यः । लोभाद् एतत् । द्वेषादिभिस् त्व् अधिको दण्ड्यः । शत्रन्तस्य भवतेर् भावप्रत्यये प्राभवत्याद् इति रूपम् । प्रभुत्वेनेति वचनाद् गुरोर् न दोषः । अनिच्छत इति वचनाद् इच्छताम् अन्यो दण्डः ॥ ८.४१२ ॥
शूद्रं तु कारयेद् दास्यं क्रीतम् अक्रीतम् एव वा ।
दास्यायैव हि सृष्टो ऽसौ ब्राह्मणस्य स्वयंभुवा ॥ ८.४१३ ॥
मेधातिथिः ...{Loading}...
क्रीतम् अक्रीतं भक्ताद्युपनतम् । वक्ष्यमाणस्य विधेर् अनुवादो ऽयम् । दास्यायैवेत्य् अर्थवादः ॥ ८.४१३ ॥
न स्वामिना निसृष्टो ऽपि शूद्रो दास्याद् विमुच्यते ।
निसर्गजं हि तत् तस्य कस् तस्मात् तद् अपोहति ॥ ८.४१४ ॥
मेधातिथिः ...{Loading}...
यम् आश्रितः सप्तभिर् दासयोनिभिस्393 तेन निसृष्टो ऽपि तन्मुक्तो ऽपि394 ।395 किं तु निसर्गजं सहजं जतिसहभावि कः396 तस्माच् छूद्रात् तद् दास्यम्397 अपोहति अपनयति । यथा शूद्रजातिर् न तस्यापनेतुं शक्या, एवं दास्यम् अपि । अर्थवादो ऽयम् । यतो वक्ष्यति निमित्तविशेषे शूद्रस्य398 दास्यान् मोक्षः ॥ ८.४१४ ॥
ध्वजाहृतो भक्तदासो गृहजः क्रीतदत्रिमौ ।
पैत्रिको दण्डदासश् च सप्तैते दासयोनयः ॥ ८.४१५ ॥
मेधातिथिः ...{Loading}...
ध्वजग्रहणं वाहनोपलक्षणार्थम् । ध्वजिनी सेनोच्यते । तत आहृतः । संग्रामे जितः सन् दासीकृतः ।
-
किं पुनर् इदं क्षत्रियस्य वचनम्, युद्धे जितः क्षत्रियो दासीभवति ।
-
नेति ब्रूमः, शूद्रस्यैव प्रकृतत्वात्, “दास्यायैव सृष्टो ऽसौ” (म्ध् ८.४१३) इति । स्वामिनं जित्वा तदीयो दास आहृतः । आहर्तुर् दास्यं प्रतिपद्यते ।
-
ननु शूद्रस्य विशेषेणैव दास्यम् उक्तम्, “निसर्गजं तत् तस्य” (म्ध् ८.४१४) इति ।
-
नैवम् । तथा सत्य् अव्यवस्था स्यात्, कस्यासौ दास इति न विज्ञायते । सर्वे हि त्रैवर्णिकास् तस्य दास्याः399 । स्वधर्मम् अनुवृत्तस्य400 चानियमो ऽविधित्वात् ।
- अन्ये तु401 “सर्वे चोत्तरोत्तरं परिचरेयुः” (ग्ध् १०.६६) इति क्षत्रियादीनाम् अपि दास्यम् अस्ति ।
- तद् असत् । अन्यद् दास्यम्, अन्या परिचर्या । निकृष्टकर्मकारित्वम् अप्य् अज्ञातस्य दास्यम् । सर्वस्य प्रेषितस्याप्रतिबन्धः402 । परिचर्या तु शरीरसंवाहनम् अर्थदारादिरक्षाधिकारः403 । नारदेन चैतत् प्रपञ्चितम् (न्स्म् ५.२४–४२) ।
-
भक्तलाभार्थं दास्यं प्रतिपन्नो भक्तदासः । गृहे जातो गृहजः । दास्याम् उत्पन्नो गर्भदासः । क्रीतो बूल्येन स्वामिनः सकाशात् । दत्रिमः प्रीत्यादृष्टार्थं वा दत्तः । क्रमागतः पैत्रिकः । अथ गृहजस्यास्य च को विशेषः । गृहजस् तदीयायाम् एव दास्यां जात इतरस् तु क्रमागतः । दण्डदासो राज्ञे दण्डं दातुम् अशक्तो दासीक्रियते ।
-
“कर्मणापि समं कुर्यात्” (म्ध् ८.१७७) इत्य् अवर्णस्यापि दास्यम् इच्छन्ति ।
-
तद् अयुक्तम् । अन्यद् दास्यम् अन्यच् च तत्कर्मकारित्वम् । न चायं दण्डो येनान्तर्भवेत् । न च दासयोनिपुरुषधारणम् उक्तम्, केवलं कर्मणापीति । तथा दासकर्माप्य् अस्ति ।
-
ननु च धर्मोपनतो ऽपि शूद्रो दास इष्यते । तत्र कथं सप्त दासयोनयः ।
नैष दोषः । न तस्योत्पत्तिकं दासत्वम् । इच्छाधीनत्वाद् धर्मार्थिनः । न हि तस्य दानाधानक्रिया युज्यन्ते,404 क्रीतगृहजादिदासवत् । एवं ह्य् उक्तम्- “यथा यथा हि सद्वृत्तम्” (म्ध् १०.१२८) इति । तेनैवं ब्रुवतैतत् प्रदर्शितं भवति- न तस्य नित्यं दास्यं किं तर्हि फलविशेषार्थिनः । ततश् चानिच्छतो न405 दास्यम् अस्ति । अतो यदि शूद्रो विद्यमानधनः406 स्वातन्त्र्येण जीवेद् ब्राह्मणाद्यनपाश्रितो न जातु दुष्येत् ॥ ८.४१५ ॥
भार्या पुत्रश् च दासश् च त्रय एवाधनाः स्मृताः ।
यत् ते समधिगच्छन्ति यस्य ते तस्य तद् धनम् ॥ ८.४१६ ॥
मेधातिथिः ...{Loading}...
एते त्रयो ऽर्जितधना अप्य् अधनाः । स्वामिनो धनम् । यत् किंचित् ते धनम् अर्जयन्ति, तद् धनं तस्य स्वं यस्य ते स्वत्वम्407 आपन्नाः । भार्याधनं भर्तुः, पितुः पुत्रस्य, स्वामिनो दासस्य ।
- ननु च यद्य् एते निर्धनाः कथम् एषां कर्मभिर् अधिकारः । तत्रेदं नोपपद्यते- “पुत्रौ चेद् आहिताग्नी स्यातां येभ्यः पिता दद्यात् तेभ्यः पुत्रः” इति । दम्पत्योर् अपि सहजधर्मश् चरितव्यः- “धर्मे चार्थे च कामे च नातिचरितव्या त्वया” इति । यदि च निर्धना408 को ऽन्यो ऽर्थे409 ऽनतिचारः । शूद्रस्यापि “पाकयज्ञैः स्वयं यजेत” (ग्ध् १०.६५) इति निर्धनत्वे विरुध्यते । स्वच्छन्दशूद्रविषयत्वेन विरोधो न भवेत् । अस्ति तावद् दासानां स्वधने स्वाम्यम्, यदा स्वधनम् इति व्यपदिश्यते । न ह्य् असति संबन्धे व्यपदेशः । अर्जनं च स्वत्वं नापादयतीति विप्रतिषिद्धम् । तस्माद् विरुद्धम् इदं यत् ते समधिगच्छन्ति न तत् तेषां स्वम् इति410 । यथा कश्चिद् ब्रूयात्- “यस्या अहं पुत्रः सा न411 मम जननी” इति, तादृग् एतत् । असति वा स्त्रीणां स्वाम्ये- “पत्न्यैव रतम् अनुमतं412 क्रियते,” “पत्नी वै पारिणह्यस्येशे” (म्स् ३.७.९) इत्यादि श्रुतयो निरालम्बनाः स्युः ।
- अत्रोच्यते । पारतन्त्र्यविधानम् एतत् । असत्यां भर्तुर् अनुज्ञायां न स्त्रीभिः स्वातन्त्र्येण यत्र क्वचिद् धनं विनियोक्तव्यम् । एवं पुत्रदास्योर् अपि द्रष्टव्यम् ।
अन्ये तु मन्यन्ते- भार्यापुत्रग्रहणं दासार्थम् । तस्य चैतद् वचनम् उत्तरार्थम् । आपदि तासां धनग्रहणे न विचिकित्सितव्यम्, भर्तुर् एव हि तत् स्वम् ॥ ८.४१६ ॥
विस्रब्धं ब्राह्मणः शूद्राद् द्रव्योपादानम् आचरेत् ।
न हि तस्यास्ति किंचित् स्वं भर्तृहार्यधनो हि सः ॥ ८.४१७ ॥
मेधातिथिः ...{Loading}...
तथा च कश्चिद् आह- धर्मोपगतशूद्रविषयम् इदम् ।
तद् उक्तम्, विशेषे प्रमाणाभावात् । तस्मात् सर्वस्य दासः शूद्रस् तस्यैव प्रतिग्राह्यत्वम् उच्यते ।
विस्रब्धं निःशङ्कम् । शूद्रधनं कथं प्रतिगृह्णीयात्, प्रतिषिद्धं हि तत्, इत्य् एषा शङ्का न413 कर्तव्या । यतो न तस्य किंचिद् अर्थो यस्य निचयः स्याद् इत्य् उक्तं भवति । भर्त्रा स्वामिना ह्रियते धनम् अस्य,414 एतद् एवार्जने तस्य प्रयोजनम्, स्वामी गृह्णाति415 । अतो विस्रब्धं416 द्रव्योपादानं417 द्रव्यग्रहणं कुर्यात् । तेनानुपनीयमानम्418 अपि स्वगृहस्थम् इव419 विनियुञ्जीत । सति प्रयोजन एतद् युक्तं भवति । अविद्यमानधनस्य दासाच् छूद्रात् प्रतिगृह्णतो न दोषः ॥ ८.४१७ ॥
वैश्यशूद्रौ प्रयत्नेन स्वानि कर्माणि कारयेत् ।
तौ हि च्युतौ स्वकर्मभ्यः क्षोभयेताम् इदं जगत् ॥ ८.४१८ ॥
अहन्य् अहन्य् अवेक्षेत कर्मान्तान् वाहनानि च ।
आयव्ययौ च नियताव् आकरान् कोशम् एव च ॥ ८.४१९ ॥
एवं सर्वान् इमान् राजा व्यवहारान् समापयन् ।
व्यपोह्य किल्बिषं सर्वं प्राप्नोति परमां गतिम् ॥ ८.४२० ॥
मेधातिथिः ...{Loading}...
उक्तेन प्रकारेण व्यवहारान् ऋणादीन् समापयन् निर्णयावसानं कुर्वन् यत् किंचित् तत् सर्वम् अविज्ञातदोषं तत् सर्वं व्यपोह्य अपनुद्य पापं परमां गतिम् अभिप्रेतां स्वर्गापवर्गभूमिं प्राप्नोति लभते ॥ ८.४२० ॥
**इति मानवे धर्मशास्त्रे भृगुप्रोक्तायां संहितायां **
राजधर्मे व्यवहारनिर्णये सामान्यव्यवहारो नाम अष्टमो ऽध्यायः ॥
इति श्रीभट्टवीरस्वामिसूनोर् भट्टमेधातिथिकृते
मनुभाष्ये ऽष्टमो ऽध्यायः ॥
-
M G J: -āśanodhārāya; I follow DK (1: 29); DK (4: 1815) suggests: -āśayoddhārāya ↩︎ ↩︎ ↩︎ ↩︎
-
M G J: praviśec cety; I follow DK (1: 29; 4: 1815). ↩︎ ↩︎ ↩︎ ↩︎
-
M G: yata ānurūpāpīyaso; J: yato ’niṣṭaṃ pāpīyaso ↩︎ ↩︎ ↩︎ ↩︎
-
M G J: yas tv avadharhān avakāśān na puradāsyādiskhalitād anuhatadaṇḍatākhyāpanāya vā janaiḥ ↩︎ ↩︎ ↩︎ ↩︎
-
M G J: ghātayitvopapatti (this whole passage has been corrupted; I have followed DK, but the readings are uncertain). ↩︎ ↩︎ ↩︎ ↩︎
-
M G: śvagaṇānāṃ; DK (1: 30) svagaṇānāṃ, for ayaṃ tāval lokānāṃ ↩︎ ↩︎ ↩︎ ↩︎
-
M G: votsukanirṇayādūtir; DK (1: 31; not 4.1816): pūtir; (the reading here is uncertain). ↩︎ ↩︎ ↩︎ ↩︎
-
M G J: asatyāt pūrvavad arthaniścayaḥ; I follow DK (1: 71) ↩︎ ↩︎ ↩︎ ↩︎
-
M G: tatsaivānantaraṃ; DK (1: 71) tataḥ saivānantaraṃ ↩︎ ↩︎ ↩︎ ↩︎
-
M G: puṇyāheturakāraṇam; DK: puṇyāhas tu kāraṇam ↩︎ ↩︎ ↩︎ ↩︎
-
M G DK: bāḍham; I do not understand the meaning of boḍhāra accepted by Jha. ↩︎ ↩︎ ↩︎ ↩︎
-
M G DK omit: na hy anyaḥ . . . mithaḥ** **parasparam | ↩︎ ↩︎ ↩︎ ↩︎
-
DK (1: 32; 4:1817) suggests: sabhāpraveśasthānāsaneṣu ↩︎ ↩︎ ↩︎ ↩︎
-
M G: no ‘rthaṃ; J: hanti ity arthaḥ — pratyarthī; DK (5: 627) ity arthaḥ, no ‘rthī ( the text here is clearly corrup). ↩︎ ↩︎ ↩︎ ↩︎
-
M G: evaṃjānaḥ; J: evaṃjānānaḥ; I follow DK (1: 35; 5: 627). ↩︎ ↩︎ ↩︎ ↩︎
-
M G: pūrvaślokārthapratiṣedhaḥ śeṣatayā; J: pūrvaślokārthapratiṣedhaśeṣatayā; I follow DK (1: 33). ↩︎ ↩︎ ↩︎ ↩︎
-
J places tathā hi loke before verse 26 as an introduction to it. ↩︎ ↩︎ ↩︎ ↩︎
-
M G: -jālavad bhāntimahanādatramukhabibhīṣikāsañjanamātraṃ phalaṃ; J: -jālavad bhrāntivad atra mukhabibhīṣikāsañjanamātraphalaṃ (clearly the reading here is quite uncertain). ↩︎ ↩︎ ↩︎ ↩︎
-
M G: vibhūṣaṇa-; the explanation takes vi- into viyuktā. ↩︎ ↩︎ ↩︎ ↩︎
- ↩︎ ↩︎ ↩︎ ↩︎
- ↩︎ ↩︎ ↩︎ ↩︎
- ↩︎ ↩︎ ↩︎ ↩︎
-
J DK (4: 1343 – but not 1.1957) omit: caśabdavaśāt ↩︎ ↩︎ ↩︎ ↩︎
-
M G DK (1: 1957): samāhṛtam; but DK (4: 704) has āhṛtam ↩︎ ↩︎ ↩︎ ↩︎
-
M G DK omit: deśadharmāṇām | yathā jātir nityā evaṃ ↩︎ ↩︎ ↩︎ ↩︎
-
M G J DK 1: 77: -āvirodhena (I follow DK 5: 118; see na virodhe in the second half of the sentence) ↩︎ ↩︎ ↩︎ ↩︎
-
M G DK (1:77): tasmāc ca nādṛṣṭāya (not in DK 5: 118) ↩︎ ↩︎ ↩︎ ↩︎
-
J omits: sarvadhanādiṣu prakṣeptavyāv anyatra . . . matvarīyaś ca durlabhaḥ ↩︎ ↩︎ ↩︎ ↩︎
-
M G J: bandhanaṃ (see dviguṇībhūtaṃ dhanam under 8.145) ↩︎ ↩︎ ↩︎ ↩︎
-
DK (1: 640) reads: dviguṇaṃ tatra | kadācit saṃmatyā yatra bhuṃkte, bhuktaiva vṛddhir niścetavyā | ↩︎ ↩︎ ↩︎ ↩︎
-
M G J: śāstrāntaravad antarhito (M G antarvitto); I follow DK (1: 386); DK (5: 1186) however suggests: śāstrāntaravaśād anantarhito ↩︎ ↩︎ ↩︎ ↩︎
-
M G J DK (5: 1186): ‘dhimokṣaṇe (I follow DK 1: 386) ↩︎ ↩︎ ↩︎ ↩︎
-
DK: anarthakaḥ syāt | yasya parasyāpi na paravyapadeśaḥ sa nirasyate ↩︎ ↩︎ ↩︎ ↩︎
-
M G add: ity arthaḥ; DK (1.252) omit: sarvakāryeṣu ↩︎ ↩︎ ↩︎ ↩︎
-
M G DK (1:254): saṃnihitadhanatvāc cittam anuvartamānaḥ śakyate ↩︎ ↩︎ ↩︎ ↩︎
-
M G: bhogābhilāṣeva; DK (1: 385): bhogābhiṣvaṅga (DK 5: 1189 follows the edition) ↩︎ ↩︎ ↩︎
-
DK: trihastācārapatre (perhaps attempting to correct the sandhi); could the original be trihastācāre patre? ↩︎ ↩︎ ↩︎
-
DK (1: 385): -virodhāt na sarveṇa sarvaṃ samarthanīyam ↩︎ ↩︎ ↩︎ ↩︎
-
M G DK (1: 257) read: sākṣiṇām eva sarvo rājapuruṣādikaṃ na copadravanti, and place sākṣiṇo labyante na vā tāvatkālaṃ pratipālayanti after sākṣitvena grahītavyaḥ ↩︎ ↩︎ ↩︎ ↩︎
-
M G: ahāryotpattikāyānasaṃbandha-; J: ahāryotpattikāyādisaṃbandha- ↩︎ ↩︎ ↩︎ ↩︎
-
DK (1: 388) add: na; (DK 5: 1190 follows edition) ↩︎ ↩︎ ↩︎ ↩︎
-
DK (1: 1: 388): saṃbhāvayati (DK 5: 1190 follows edition) ↩︎ ↩︎ ↩︎ ↩︎
-
M G omit: ātmāntaraṃ pratipannasya kim eṣa me draṣṭāpi kariṣyatīti | tan na | gatir ātmā tathātmanaḥ ↩︎ ↩︎ ↩︎ ↩︎
-
DK omit: darśanāntare tu mahābhūtāni devatātmatayā cetanāny eva | tathā ca ↩︎ ↩︎ ↩︎ ↩︎
-
All editions read “sarvais,” but it is clear that Medhātithi’s reading was “ebhis”, as is evident from his commentary: “vakṣyamāṇaiḥ pātakaiḥ”, and the reading “śūdram ebhis tu pātakaiḥ” given at 8.99. ↩︎ ↩︎ ↩︎ ↩︎
-
M G DK omit: anyakṛtena puṇyapāpādinānyasya svarganarakādiprāptiḥ ↩︎ ↩︎ ↩︎
-
M G: vadaḥ; DK reproduces the whole line: sarvaṃ bhūmyanṛte hanti mā sma bhūmyanṛtaṃ vadaḥ ↩︎ ↩︎ ↩︎
-
M G: viśvakarmā bhauvanam ādiśed; J: viśvakarman dāsitha bauvanamādi (clearly this passage has been transmitted badly; I follow DK, but I am not sure whether the editors of it have tried to create a sensible conjectural reading or are reproducing the reading of a good manuscript). ↩︎ ↩︎ ↩︎
-
M G: svalpe ‘pi sahopakāro; DK (1: 268): svalpe ‘pi khalv apahāre ↩︎ ↩︎ ↩︎
-
M G omit: kṣayavyaya, and read: -sārasādividhi-; DK (1: 1708; but not 4: 2330): āgamakṣayakrayasārāsārādividhijñā ↩︎ ↩︎
-
M G: yā gantryādisaṃbhāvanā; J: yogakrayādisaṃbhāvanā (we have here three different readings from the three editions; clearly a defective reading here, which the editors attempted to correct) ↩︎ ↩︎
-
J: ahiraṇyam (but Jha’s translation presupposes vṛddhi- here). ↩︎ ↩︎
-
M G: yāvat saṃvatsarā vṛddhir; J: yāvat saṃvatsarāt vṛddhir ↩︎ ↩︎
-
M G J: tareṇa; I follow DK 1: 1945; 4: 1347 (see similar error later in the com. on this verse) ↩︎ ↩︎
-
J adds: na svāminā nisṛṣṭo ‘pi dāsyād vimucyate; M G add: na svāminā nisṛṣṭo ‘pi ↩︎ ↩︎
-
M G DK: syur na caivam adhyadhīno . . . (making it one sentence. But the commentary on NSm ends here, and with adhyadhīno, Medhātithi resumes his commentary on Manu’s verse). ↩︎ ↩︎
-
Editions give diverse and wrong readngs, all omitting the final kṛtam: M D DK: tatkṛtaṃ tasyākṛtaṃ nāsvatantrakṛtam; J: tatkṛtaṃ tatkāryajātaṃ nāsvatantrakṛtam ↩︎ ↩︎
-
M G J: svāmitvasyety etāś ↩︎
-
M G: anyasvāmyasya ↩︎
-
M G: svadharmo; DK: svadharme ↩︎
-
DK: paratantraḥ mahā- ↩︎
-
M G: yonātmopabhogo; J: nātmopabhogo ↩︎
-
M G: upapanno ↩︎
-
M G: tadā śiṣyate; DK: tadeśiṣyante ↩︎
-
M G: eva putrādāv api; eva putrādayaḥ ↩︎
-
M G J: strīṇām asamāveśa ↩︎
-
The readings here is probably corrupt. M G: tair āsāṃ sthāne nirūpaṇīyena hitāḥ; J: tāḥ sthāne nirūpaṇīyena hitāhitaṃ ↩︎
-
M G: kartuṃ ↩︎
-
J divides the words: evamādi tayā ↩︎
-
M G DK: kiṃcid avijñāte ↩︎
-
M G J: rājādhipatiputrayoḥ; DK: rājā ca patiputrayoḥ ↩︎
-
M G DK: atisvātantryam ↩︎
-
M G J: visvarā ↩︎
-
DK: abuddhipūrve ↩︎
-
J: bālaśikṣite (the reading of this sentence is very uncertain) ↩︎
-
M G: nanu; M G DK add: tair ↩︎
-
M G DK omit: na ↩︎
-
M G DK: anujñāpya ↩︎
-
DK: tiṣṭhati ↩︎
-
M G: śreyo na bhāve vījino mataḥ ↩︎
-
M G: apṛthak | tasya ↩︎
-
M G: tadagrahe ↩︎
-
M G : nivaset ↩︎
-
M G: pitṛvibhakta- ↩︎
-
M G: arpitavāṃs ↩︎
-
M G: sarvā vibhāṣā ↩︎
-
M G: pratiṣṭhitāḥ ↩︎
-
M G J: yadā ↩︎
-
M G DK omit: ādhamanaṃ; J: dhamanaṃ (although it wrong division: yadādhamanaṃ, read as yadā dhamanaṃ) ↩︎
-
M G J add: iti ↩︎
-
M G J: asatyakāryeṇa ↩︎
-
M G J omit: iti ↩︎
-
DK omits: me; M G: na kiṃcid astīti me ↩︎
-
M G DK: kṣetre sthaṇḍile vā dattam iti tad ↩︎
-
M G J: suhṛtsvajanāya ↩︎
-
M G: ādhānaiva ↩︎
-
M G DK: yogāvāpanam ↩︎
-
M G DK: yogāvāpanam ↩︎
-
M G DK: daṇḍitaḥ ↩︎
-
The passage yad ubhayasvāmikam . . . dvandvaikavyavahāraḥ is placed after daṇḍaḥ syāt in J, and after yatra vāpy upadhiṃ paśyed iti in M G. ↩︎
-
M G: anyatare; J: anyataraḥ ↩︎
-
J: dāpyate ↩︎
-
M G add: na ↩︎
-
M G: chadmanaiva; DK: evam ↩︎
-
M G: dhaninottvoyāvad ↩︎
-
M G: māsasya ↩︎
-
M G DK: tadṛkthahārī ↩︎
-
M G: tattadvyati- (omits na) ↩︎
-
M G: kuṭumbena ↩︎
-
M G: tadṛṣṭe; DK: tadṛkthe ↩︎
-
M G: ṛkṣita; DK: ṛkthinaḥ ↩︎
-
M G: pravibhaktāt ↩︎
-
M G: -karaṇārtham ↩︎
-
M G DK omit: ataḥ ↩︎
-
M G DK (1: 555) add: tu ↩︎
-
M G DK: gṛhakramabhṛtyo ↩︎
-
J omits: ṛṇam atra ↩︎
-
M G: atra śabdābhisaṃbandhāpi vā; J: yattacchabdābhisaṃbaddham ↩︎
-
DK (1: 556): nivartayed ↩︎
-
M G: lekhyalekhitam ↩︎
-
M G DK: daivād ↩︎
-
M G: yogāvāpanam; DK: yogādhamanavikrītam ↩︎
-
M G J: yogabalaśakye ↩︎
-
DK: -dhīna- ↩︎
-
M G: bālavṛddhir; DK: bālavṛddha- ↩︎
-
M G: balākṛtiḥ; DK: balāt kṛtiḥ ↩︎
-
M G: asaṃvardheta; DK: asaṃbandhena ↩︎
-
M G: vyavahārau; J: kṛto vyavahāro ↩︎
-
M G omit: na ↩︎
-
M G: vyavahāreṇa kṣaṇaṃ ↩︎
-
M G: vṛddhayuṣāḥ; J omits: kulaṃ vṛddhapuruṣāḥ ↩︎
-
M G: vipraṃ pratigrahītavyāḥ ↩︎
-
M G J: tadanādāne ↩︎
-
M G J: hatabalasādhyaṃ ↩︎
-
DK add: na ↩︎
-
M G: balavato; J: balavatā ↩︎
-
M G: necchanti ↩︎
-
M G: kurvad ↩︎
-
M G J omit: na (I think Jha’s translation presupposes this na) ↩︎
-
M G J: notsāhāyet ↩︎
-
M G: rājñā ↩︎
-
M G add: asmābhir ↩︎
-
M G J: pare svaśaktiṃ (I follow DK 4: 1344) ↩︎
-
J: ca dharmadaṇḍanāt (but Jha’s translation presupposes the negative) ↩︎
-
M G: -prabhave ↩︎
-
M G DK (I: 1931): na _for _ayaṃ ca ↩︎
-
M G: tad viditvā; DK: tad dhi hitvā ↩︎
-
M G DK: prasaṅgākhyānena ↩︎
-
M G: dharmajaṃ ↩︎
-
M G: bahukṛtya ↩︎
-
M G add: na; DK (1: 718) add: ca ↩︎
-
M G DK: rājaputrair ↩︎
-
M G: āhvayanenārhatarapradeśo ’nurudhyedaṃ hi dhanam iti; J: āhvānenārhatarapradeśe ’nurudhyedaṃ hi dhanam iti | The reading is suspect here; I follow DK. ↩︎
-
M G: cāpṛṣṭo ↩︎
-
M G J omit: dāpyaḥ ↩︎
-
J omits: evaṃ pañcaviṃśatiḥ ↩︎
-
M G J: śataṃ ↩︎
- ↩︎
-
M G DK (1: 1907): sākṣipratyayaḥ ↩︎
-
J: abhisaṃbadhyate ↩︎
-
M G: saṃmataṃ na yad ↩︎
-
M G J: aikyam anyata ↩︎
-
M G J: svakulāṃśaṃ nigṛhītvā ↩︎
-
J omits: na ↩︎
-
J omits: adṛṣṭākārye ↩︎
-
M G: -mahimahattvena ↩︎
-
M G DK (1: 738) omits: nikṣepam ↩︎
-
M G DK: samudrayitvā; J: so ‘mudrayitvā ↩︎
-
J: jīyate ↩︎
-
DK: mudrāpahnavād ↩︎
-
M G DK place nikṣeptrā after sākṣiṣv asatsu ↩︎
-
M G DK: nikṣeptā ↩︎
-
M G: vayasāmanvitā ↩︎
-
M G: nāśako ↩︎
-
M G DK: tenaiva tad ↩︎
-
J: asatyaṃ ↩︎
-
M G: gṛhītanikṣeptur; DK: gṛhītur nikṣeptur ↩︎
-
J: kriyata ↩︎
-
M G DK: nigṛhya dāpyaḥ syād ↩︎
-
M G: ‘vaṣṭabdhasya ↩︎
-
M G: arthine ↩︎
-
M G omit: pratyanantare ↩︎
-
J omits: utpattyanantara ↩︎
-
See commentary on MDh 8.163. ↩︎
-
M G: yāvan nikṣeptary; J: yācate kṣeptary ↩︎
-
J: atraivārthavādaṃ ↩︎
-
J: deśāntare ↩︎
-
M G: nikṣeptuṃ ↩︎
-
DK (1: 740): ānāyya ↩︎
-
M G: nikṣeptṛyācamānāya ↩︎
-
M G DK: rājñā niyoktavyo ↩︎
-
M G: adāsyam ↩︎
-
M G DK: bhujyate ↩︎
- ↩︎
- ↩︎
-
M G J: apanīya ↩︎
-
M G: pramāṇā na ↩︎
-
M G: nikṣipta- ↩︎
-
M G DK (1: 743) omit: ca ↩︎
-
DK: tatsamadhanavaikalpiko ↩︎
-
M G DK: dravyajātir nigrāhyā jātiṃ ca nāpekṣate ↩︎
-
M G: citrāsanaṃ ↩︎
-
DK (1: 744): rājyata ↩︎
-
M G: tv ↩︎
-
J: tatsamaṃ ↩︎
-
M G DK add: puruṣās ↩︎
-
J: kathaṃ ↩︎
-
DK (1: 739): uktvā ↩︎
-
M G omit: na sākṣitvam ↩︎
-
M G DK (1: 758): vājñāṃ datvā ↩︎