अथ सप्तमो ऽध्यायः
राजधर्मान् प्रवक्ष्यामि यथावृत्तो भवेन् नृपः ।
संभवश् च यथा तस्य सिद्धिश् च परमा यथा ॥ ७.१ ॥
मेधातिथिः ...{Loading}...
धर्मशब्दः कर्तव्यतावचन इत्य् उक्तम् । यद् राज्ञा कर्तव्यं तद् इदानीम् उच्यत इति प्रतिज्ञा । कर्तव्यं च दृष्टार्थं षाड्गुण्यादि, अदृष्टार्थम् अग्निहोत्रादि । तत्रेह प्राधान्येन दृष्टार्थम् उपदिश्यते । तत्रैव च राजधर्मप्रसिद्धिः ।
राजशब्दस् तु नेह क्षत्रियजातिवचनः, किं तर्ह्य् अभिषेकाधिपत्यादिगुणयोगिनि पुरुषे वर्तते । अत एवाह- यथावृत्तो भवेन् नृपः । नृपग्रहणेन जनपदैश्वर्यवतो ऽधिकारम् आह । प्रमाणान्तरमूला ह्य् अत्र धर्मा उच्यन्ते, न सर्वे वेदमूलाः । अन्यमूलत्वे च यद् अत्र धर्मशास्त्राविरुद्धं तद् उच्यते । तथा च कात्यायनः-
अर्थशास्त्रोक्तम् उत्सृज्य धर्मशास्त्रोक्तम् आव्रजेत् ॥ इति ।
यथावृत्तः यद् वृत्तं यत् प्रकारं वास्येति च बहुव्रीहिः । अन्यपदार्थो राजा । यथार्थप्राधान्ये ऽव्ययीभावः स्यात् । वृत्तं परिपालनार्थो व्यापारो ऽदृष्टार्थश् च । संभवश् च उत्पत्तिः । स उक्तो “राजानम् असृजत् प्रभुः” (म्ध् ७.३) इत्यादिना । परमा प्रकृष्टा सिद्धिर् विजिगीषोर् ऐकाधिपत्यम् । राजवृत्तस्य फलप्रतिज्ञेयम् ॥ ७.१ ॥
ब्राह्मं प्राप्तेन संस्कारं क्षत्रियेण यथाविधि ।
सर्वस्यास्य यथान्यायं कर्तव्यं परिरक्षणम् ॥ ७.२ ॥
मेधातिथिः ...{Loading}...
ब्रह्म वेदः । तत्र श्रुतः1 संस्कारो ब्राह्मः । स वेदाध्ययनजन्यो ग्रहणवतो ऽर्थलक्षणो वेदस्य, स्वाध्यायविधिर्2 निर्वर्त्य इत्य् अर्थः । उपनयनं तु ब्रह्मग्रहणार्थत्वाद् ब्राह्मम् इति युक्तम् । तथा च वक्ष्यति- “त्रैविद्येभ्यस् त्रयीं विद्याम्” (म्ध् ७.४३) इति । इतरथा विदितवेदितोपदेशः स्यात् । गर्भादानादि स्मृतिशास्त्राद् अष्टाचत्वारिंशसंस्कारम् । क्षत्रियेणेति । एतेन क्षत्रिय एव राज्याधिकारीति सूचितम् । क्षत्रियाभावे तदतिदेसो ऽपि ग्राह्यः । अन्यथा प्रजालोपः स्याद् इति भावः । सर्वस्य करदस्य दीनानाथदेश् च । अस्येति स्वविषयवासिनां यथास्वं जनपदपुरनिर्देशः । यथान्यायं । न्यायः शास्त्रं धर्मशास्त्ररूपम्, नार्थशास्त्रम् औशनसादिप्रणीतम्, तम् अनतिक्रम्य । परिरक्षणं परिपालनम् । अपायपरिहारः, दुर्बलानां बलवद्भिर् अनभिभवः, शास्त्रमर्यादानतिक्रमश् च । दुःखत्राणं परिरक्षा । शास्त्रातिक्रमे चादृष्टं दुःखम् । अतस् तदनतिक्रमे राजभयेन रक्षिता भवन्ति । राजदण्डे दुःखम् इति चेन् महतो नरकादिदुःखाद् राजदण्डनम् अल्पीयः । कर्तव्यम् इति विधिः । अधिकारश् चाष्टमे निरूपितः ॥ ७.२ ॥
अराजके हि लोके ऽस्मिन् सर्वतो विद्रुते भयात् ।
रक्षार्थम् अस्य सर्वस्य राजानम् असृजत् प्रभुः ॥ ७.३ ॥
मेधातिथिः ...{Loading}...
विद्रुते पीडिते ऽप्रतिष्ठिते वा । प्रभुः प्रजापतिः । स्तुतिर् इयम् ॥ ७.३ ॥
इन्द्रानिलयमार्काणाम् अग्नेश् च वरुणस्य च ।
चन्द्रवित्तेशयोश् चैव मात्रा निर्हृत्य शाश्वतीः ॥ ७.४ ॥
मेधातिथिः ...{Loading}...
अनिलो वायुः । वित्तेशो धनपतिर् वैश्रवणः । मात्रा अवयवाः । शाश्वतीः सारभूताः । निर्हृत्य निष्कृष्य ॥ ७.४ ॥
यस्माद् एषां सुरेन्द्राणां मात्राभ्यो निर्मितो नृपः ।
तस्माद् अभिभवत्य् एष सर्वभूतानि तेजसा ॥ ७.५ ॥
मेधातिथिः ...{Loading}...
एषाम् इन्द्रादीनां सुरश्रेष्ठानां मात्राभिस् तेज्ॐशैर् निर्मितस् तस्माद् धेतोर् अभिभवति दुर्निरीक्ष्यमुखो भवति । तेजसा हेतुना । निष्कृष्य निर्मित उत्पादितः यतः कृषिर् उत्पादने3 धातुर् वर्तते । तेनापायावधित्वान् मात्राभ्य इति पञ्चमी तृतीया वा पठितव्या ॥ ७.५ ॥
तपत्य् आदित्यवच् चैष चक्षूंषि च मनांसि च ।
न चैनं भुवि शक्नोति कश्चिद् अप्य् अभिवीक्षितुम् ॥ ७.६ ॥
मेधातिथिः ...{Loading}...
तपति तपतीव । संमुखो ऽशक्यदर्शनत्वाद् एवम् उच्यते । तद् आह- न चैनं भुवि शक्नोति । ब्राह्मणा जात्युत्कृष्टा4 ब्रह्मवर्चस्विनो ऽपि नैनम् अभिमुखं वीक्षितुं शक्नुवन्ति । तद् उक्तम् “तम् उपर्य् आसीनम् अधस्ताद् उपासीरन्” (ग्ध् ११.७) ॥ ७.६ ॥
सो ऽग्निर् भवति वायुश् च सो ऽर्कः सोमः स धर्मराट् ।
स कुबेरः स वरुणः स चेन्द्रः स्वप्रभावतः ॥ ७.७ ॥
मेधातिथिः ...{Loading}...
अग्न्यादिदेवतानां मात्राशयत्वात्5 तच्छक्तियोगितयैवम् उच्यते । प्रभावः अलौकिकी या शक्तिः ॥ ७.७ ॥
बालो ऽपि नावमन्तव्यो मनुष्य इति भूमिपः ।
महती देवता ह्य् एषा नररूपेण तिष्ठति ॥ ७.८ ॥
मेधातिथिः ...{Loading}...
मनुष्यो ऽयम् इत्य् एवं बालो ऽपि भूमिपो राजा नावमन्तव्यः । किं तर्हि, महती काचिद् एषा देवता एतेन मानुषेण रूपेण स्थितेति । अतो ऽदृष्टेनापि दोषेण राजन्य् अवज्ञा न युज्येत ॥ ७.८ ॥
एकम् एव दहत्य् अग्निर् नरं दुरुपसर्पिणम् ।
कुलं दहति राजाग्निः सपशुद्रव्यसंचयम् ॥ ७.९ ॥
मेधातिथिः ...{Loading}...
अस्य विधेर् अर्थवादश्लोका एते । राजधर्मो ऽपि सन् सर्वपुरुषार्थो ऽयम् । यो6 ऽग्निं हस्तादिना स्पृशति, समिद्धस्याप्य् अन्तिकवर्ती7 भवति, स दुरुपसर्पी नरः8 प्रमादस्खलितो दह्यते । राजा तु क्रुद्धः सपुत्रधनदारबान्धवं दहति । कुलं ये केचिद् ज्ञातयः स्वजनाश् च । तान् अप्य् अपराधसंबन्धात् पशुभिर् धनसंचयैश् च सह नाशयति ॥ ७.९ ॥
कार्यं सो ऽवेक्ष्य शक्तिं च देशकालौ च तत्त्वतः ।
कुरुते धर्मसिद्ध्यर्थं विश्वरूपं पुनः पुनः ॥ ७.१० ॥
मेधातिथिः ...{Loading}...
नैतन् मन्तव्यं बन्धुर् मे राजा सुहृद् वेति ।
- कस्य राज भवेन् मित्रं कानि मित्राणी राजनि ।
प्रयोजनापेक्षया च शत्रौ मित्रवद् आचरन्ति मित्रे शत्रुवत् । तथाशक्ताः कंचिद् अपराधं क्षमन्ते, शक्तिं प्राप्योन्मूलयन्ति । एवं देशकालाव् अपि । अतो धर्मसिद्ध्यर्थं कार्यसिद्ध्यर्थं विश्वरूपं कुरुते । क्षणान् मित्रं क्षणेन शत्रुः, नैकरूप एव राजा भवति । अतो न विश्वसितव्यं राजनि । मैत्राद् वाल्लभ्यात् सौजन्याद् वा तत्तुल्यवयोदृष्ट्या न वर्तितव्यम्, अपि तु सर्वदा नयेन द्रष्टव्यः ॥ ७.१० ॥
यस्य प्रसादे पद्मा श्रीर् विजयश् च पराक्रमे ।
मृत्युश् च वसति क्रोधे सर्वतेजोमयो हि सः ॥ ७.११ ॥
मेधातिथिः ...{Loading}...
प्रसन्न आराधनया श्रियं ददाति । क्रुद्धो मृत्युना योजयति । अतः श्रीकामेनाराधनीयः । न केवलं श्रिया योजयति, यावद् अस्य शत्रवः सन्ति तान् अपि पराक्रम्य परितोषितो हन्ति । अतः शत्रुवधकामेन यथावत् परिचरणीयः ।
- पद्मा ।** श्रीः**पर्यायो9 ऽपि पद्माशब्दो महत्त्वप्रतिपादनार्थः प्रयुक्तः, महतीं श्रियं ददातीत्य् अर्थः । एते चार्था राज्ञः प्राप्यन्ते, यतः सर्वतेजोमयो ऽसौ अग्न्यादित्य्चन्द्रमसां तेजो बिभर्ति ॥ ७.११ ॥
तं यस् तु द्वेष्टि संमोहात् स विनश्यत्य् असंशयम् ।
तस्य ह्य् आशु विनाशाय राजा प्रकुरुते मनः ॥ ७.१२ ॥
मेधातिथिः ...{Loading}...
प्रत्यवायाद् यथा नश्यति10 जनो नैवम् अभिप्रेतार्थलोभेन, अतः पुनः पुनर् आह । तं राजानं यो द्वेष्टि, प्रातिकूल्येन वर्तते तस्मिन्, स त्व् असंशयं नश्यति । तस्य ह्य् आशु विनाशय । अन्यः कश्चिद् अपराधं क्षमते अशक्यराजनिवेदनेन । तत्र व्यवहारभागस्य धनपरिक्षयो भवति, भूतो ऽप्य् अर्थः साक्षिणां चित्तवैचित्र्याद् अन्यथात्वम् आयाति — इत्य् अपेक्षमाणः11 कश्चित् क्षमेतापि12 । राज्ञा13 तद्विनाशार्थम् अपराधेन मनसि स्थितेन भाध्यत एवासौ । शक्तिमत्वाद् राज्ञः प्रयतमानस्य स्वतन्त्रविरोधो जायते14 ॥ ७.१२ ॥
तस्माद् धर्मं यम् इष्टेषु स व्यवस्येन् नराधिपः ।
अनिष्टं चाप्य् अनिष्टेषु तं धर्मं न विचालयेत् ॥ ७.१३ ॥
मेधातिथिः ...{Loading}...
यतः सर्वतेजोमयो राजा तस्माद् धेतोर् इष्टेषु वल्लभेषु मन्त्रिपुरोहितादिषु कार्यगत्या धर्मं कार्यव्यवस्थां15 शास्त्राचाराविरुद्धां व्यवस्येन् निश्चित्य स्थापयेन् न16** विचालयेत्** । सा तादृशी राज्ञो ऽनुज्ञा नातिक्रमणीया — “अद्य पुरे सर्वैर् उत्सवः कर्तव्यः । मन्त्रिगेहे विवाहो वर्तते, तत्र सर्वैः संनिधातव्यम् । तथा पशवो नाद्य सैनिकैर्17 हन्तव्याः । न शकुनयो बन्धयितव्याः । नर्तिका धनिकैर् आराधनीया18 एतावन्त्य् अहानि” । एवम् अनिष्टेष्व् अपि — “एतेन संसर्गो न कर्तव्यः । एतस्य गृहे प्रवेशो न देयः” । एवंविधो ऽत्र धर्मः पटहघोषादिना19 राज्ञादिष्टो नातिकर्मणीयः । न त्व् अग्निहोत्रादिधर्मव्यवस्थायै वर्णाश्रमिणां राजा प्रभवति, स्मृत्यन्तरविरोधप्रसङ्गात्, अविरोधे चास्मिन् विषये वचनस्यार्थवत्वात् ॥ ७.१३ ॥
तदर्थं सर्वभूतानां गोप्तारं धर्मम् आत्मजम् ।
ब्रह्मतेजोमयं दण्डम् असृजत् पूर्वम् ईश्वरः ॥ ७.१४ ॥
मेधातिथिः ...{Loading}...
उक्ता राजोत्पत्तिः । दण्डोत्पत्तिर् इदानीम् उच्यते । तस्मा इदं तदर्थम्, राज्ञः प्रयोजनसिद्धये, दण्डम् असृजद् ईश्वरः प्रजापतिः ।
-
को राज्ञो ऽर्थो दण्डेन ।
-
उच्यते । गोप्तारं सर्वभूतानाम् । गोप्ता रक्षिता दण्ड एव । न दण्डेन विना राजा रक्षितुं शक्नोति । अतो राजत्वसिद्ध्यर्थ एव दण्डः सृष्टः । धर्मम् आत्मजं ब्रह्मतेजोमयम् इति दण्डस्तुतिः । न यागदानादिः20 धर्मः, किं तर्हि दण्ड एव । न चायं प्राणधनहारित्वाद् अधर्मो विज्ञेयः, अपि त्व् एष एव धर्मः । आत्मजः शरीराद् एव जातः प्रजापतेः । न च पाञ्चभौतिकः, किं तर्हि, ब्रह्मणो यत् केवलं तेजस् तेन निर्मितः । पूर्वं राजसृष्टेः ॥ ७.१४ ॥
तस्य सर्वाणि भूतानि स्थावराणि चराणि च ।
भयाद् भोगाय कल्पन्ते स्वधर्मान् न चलन्ति च ॥ ७.१५ ॥
मेधातिथिः ...{Loading}...
तस्य दण्डस्य भयात् । संबन्धिमात्रविवक्षायां भयहेतुत्वं नास्तीति षष्टी । दण्डभयात् स्थावराणि भूतानि भोगाय फलकुसुमच्छायादिभिर् भोगार्थं कल्पन्ते, तत्समर्था भवन्ति । यो हि स्थावरः फलं न ददाति स परिशोष्यते । न चेत् परिशुष्यति, सर्वतो व्याप्तदेशत्वाच् छित्वागारीक्रियते । एतया वृक्षोपमया दण्ड्यस्य राजापथ्यकारिणः पुरुषस्यैवं कर्तव्यम्, छेदनमूलोत्पाटनादिना दण्डः प्रणेयः । स्थावरग्रहणं21 स्तुत्या दृष्टान्तार्थम् ईदृशो ऽयं दण्डो यत् स्थावरा अपि दण्ड्यन्ते, किं पुनश् चराः । न तु स्थावराणां दण्डो ऽयम् इत्य् एषा बुद्धिर् अस्ति । स्वधर्मान् न चलन्ति अकाले न पुष्यन्ति न प्रसुवते ॥ ७.१५ ॥
तं देशकालौ शक्तिं च विद्यां चावेक्ष्य तत्त्वतः ।
यथार्हतः संप्रणयेन् नरेष्व् अन्यायवर्तिषु ॥ ७.१६ ॥
मेधातिथिः ...{Loading}...
अन्यायवर्तिनो ये राजापथ्यकारिणो महामात्यादयस् तेषाम् अयं दण्ड उच्यते । अन्येषां तु परस्परव्यवहारिणाम् “अनुबन्धं परिज्ञाय22” (म्ध् ८.१२६) इत्य् अत्रोच्यते । तत्रैव चायं श्लोको व्यख्यातः । विद्यात्राधिका, सा च वेदार्थविषया । यथार्हतः यथार्हं यो यस्य योग्य इत्य् अर्थः । संप्रणयेत् प्रवर्तयेत् कुर्याद् इति यावत् । एतत् सर्वम् अवेक्ष्य निरूप्य तत्तदपेक्षो दण्डः कर्तव्यः । अन्यथाप्रणीतो राज्ञो दृष्टम् अनर्थम् आवहेत् । दृष्टादृष्टभेदेन स्वप्रकृतिजनपदभेदेन सप्तमाष्टमयोर् दण्डमातृकाश्लोकयोर् भेदः ॥ ७.१६ ॥
स राजा पुरुषो दण्डः स नेता शासिता च सः ।
चतुर्णाम् आश्रमाणां च धर्मस्य प्रतिभूः स्मृतः ॥ ७.१७ ॥
मेधातिथिः ...{Loading}...
स एव वस्तुतो राजा । तस्मिन् सति राजशक्तिः । स एव पुरुषः । येन बलीयसो ऽपि पुरुषान् स्त्रीवन् न्यक्कृत्य वशीकरोति । स नेता । कार्याणि तेन नीयन्ते । शासिता । शासनं राजाज्ञा, तस्याः शासनीभावः दण्डे सति । धर्मतः कर्तृत्वम् औपचारिकम् । चतुर्णाम् आश्रमाणां यो धर्मस् तत्र स प्रतिभूर् इव । यथा प्रतिभूश् चलितुं न ददाति, तद्वद् दण्डो ऽपि ॥ ७.१७ ॥
दण्डः शास्ति प्रजाः सर्वा दण्ड एवाभिरक्षति ।
दण्डः सुप्तेषु जागर्ति दण्डं धर्मं विदुर् बुधाः ॥ ७.१८ ॥
मेधातिथिः ...{Loading}...
न राजा शास्त्रं23 शास्ति कर्तव्याकर्तव्योर् विधिनिषेधयोः, किं तर्हि, दण्ड एव । दण्ड एवाभिरक्षति बलवद्भ्यो दुर्बलान् । सुप्तेषु राजपुरुषेषु दण्दभयाद् एव न यथाकामं लोको व्यवहरति । द्विविधो दण्डः, राजदण्डो यमदण्डश् च ॥ ७.१८ ॥
समीक्ष्य स धृतः सम्यक् सर्वा रञ्जयति प्रजाः ।
असमीक्ष्य प्रणीतस् तु विनाशयति सर्वतः ॥ ७.१९ ॥
मेधातिथिः ...{Loading}...
धृतः प्रणीतः प्रवर्तितः । समीक्ष्य । पूर्वोक्तदेशकालाद्य् अपेक्ष्य समीक्ष्य । रञ्जयत्य् अनुरागं प्रजासु जनयति । विपरीतं प्रणीयमानो न केवलं स्वकार्यं न करोति, यावद् दुरुपयुक्तो विषवद् विनाशयत्य् अर्थं जनस्य ॥ ७.१९ ॥
यदि न प्रणयेद् राजा दण्डं दण्ड्येष्व् अतन्द्रितः ।
शूले मत्स्यान् इवापक्ष्यन् दुर्बलान् बलवत्तराः ॥ ७.२० ॥
मेधातिथिः ...{Loading}...
अप्रणयनाद् दण्डस्य ये बलवत्तरा बलीयांसो बलेनाधिका महाप्राणतया शस्त्रहस्तमनुष्या भूयस्त्वेन वा, ते दुर्बलाण् अपक्ष्यन् शूले मत्स्यान् इव । यथा मत्स्या शूलाः क्रियन्ते24 भोजनार्थम् एवम् अशक्तो जनो ऽधिकशक्तिभिर् उपहीयेत, धनशरीरदारहरणादिना । तस्माद् दण्डार्हान् अतन्द्रितो ऽनलसो दण्डयेत् । “कुतो मया समीक्षा शक्या कर्तुम्, नैव दण्डं करोमि” इति नैवं बुद्धिः कर्तव्या ॥ ७.२० ॥
अद्यात् काकः पुरोडाशं श्वावलिह्याद् धविस् तथा ।
स्वाम्यं च न स्यात् कस्मिंश्चित् प्रवर्तेताधरोत्तरम् ॥ ७.२१ ॥
मेधातिथिः ...{Loading}...
श्वकाकादयो ऽप्य् अत्यन्ताधमा देवैः सह संस्पर्धेरन् । देवेभ्यो दातव्यं हविश् चरुपुरोडाशादि, तत् ते अद्युर् यदि दण्डेन न निवार्येरन् । अन्यद् अपि यत् स्वाम्यं स्वस्वामिभावः स न स्यात्, जायापत्योः पितापुत्रयोः । जायायाः पतिर् न स्यात्, स्वातन्त्र्येण स्त्रियः प्रवर्तेरन् । अधरोत्तरम् । यद् अधरं वृषलादि तद् उत्तरं प्रधानं स्यात् । यद् उत्तरं ब्राह्मणादि तद् अवरतां निकृष्टताम् इयात् । शूद्रा धर्मम् उपदिशेयुः । वैदिको धर्मो नानुष्ठीयेत ॥ ७.२१ ॥
सर्वो दण्डजितो लोको दुर्लभो हि शुचिर् नरः ।
दण्डस्य हि भयात् सर्वं जगत् भोगाय कल्पते ॥ ७.२२ ॥
मेधातिथिः ...{Loading}...
स्वभावेनैव प्रकृत्यैव शुचिः शुद्धो धर्मार्थकामेषु, स तादृशो नरो दुर्लभः, दुःखैर् लब्धुं शक्यः । किं तु दण्डजितो दण्डेन जीयते, पथि स्थाप्यते । तद्भ्यान् न यथाकामं प्रवर्तते । जगद् भोगायेति प्राग् उक्तम् एव (म्ध् ७.१५) ॥ ७.२२ ॥
देवदानवगन्धर्वा रक्षांसि पतगोरगाः ।
ते ऽपि भोगाय कल्पन्ते दण्डेनैव निपीडिताः ॥ ७.२३ ॥
मेधातिथिः ...{Loading}...
ये देवाः पर्जन्यो वायुर् आदित्य इत्यादयः, भोगाय कल्पन्ते शीतोष्णवर्षैर् नियतैर् ओषधीः पाचयन्ति, तद्दण्डभयाशङ्किनः । अन्यथा किम् इति सूर्याचन्द्रमसौ धातृपर्जन्यौ वा स्वस्मात् कार्यकालान् नियतान् न विचलेताम् । कदाचिद् द्वे अहनी त्रीणि वा नोदियात् सूर्यः, सति स्वातन्त्र्ये । दण्डात् तु बिभ्यन् नातिक्रामति मर्यादाम् । तथा च श्रुतिः-
-
भयात् सूर्यः प्रतपति भयात् तपति चन्द्रमाः ।
-
भयाद् अग्निश् च वायुश् च ॥ इति । (च्ड़्। कठु ६.३)
दानवादयश् च यद् इदम् अखिलम् अहर्निशं न जगद् उपघ्नन्ति । दण्डमाहात्म्यम् एतत् । पतङ्गवयांसि गृहमण्डनाः शुकसारिकादयो यद् बालानाम् अक्षिणी नोत्पाटयन्ति, श्येनकाककङ्कगृध्रादयो यज् जीवतो नादन्ति, तद् अप्य् एवम् एव । उरगाः सर्पाः केवलं क्रोधविषात्मकाः संभूय सर्वे न दशन्ति सर्वं प्राणिजातम्, तद् दण्डसामर्थ्यम् ।
-
अतः स्तुतिर् एषोच्यते । तद् देवादयो महर्धिका अचेतना वा स्वर्मर्यादातो न विचलन्ति भयात्, किं पुनर् मनुष्याः । अत्र श्लोकः पूर्वैः पठितः ।
-
दृष्ट्वा तु दैन्यं वनपाटलानां
-
पुष्पप्रगल्भं कुटजप्रहासम् ।
-
संबन्धदानेन तदा जहास
-
नीचो25 ऽपि रन्ध्रं प्रहरत्य् अवश्यम् ॥ इति ॥ ७.२३ ॥
दुष्येयुः सर्ववर्णाश् च भिद्येरन् सर्वसेतवः ।
सर्वलोकप्रकोपश् च भवेद् दण्डस्य विभ्रमात् ॥ ७.२४ ॥
मेधातिथिः ...{Loading}...
दण्डस्य विभ्रमो ऽकरणम् अन्यायेन वा करणम् । तस्मिन् सति सर्ववर्णा दुष्येयुः, इतरेतरस्त्रीगमनेन संकरप्रवृत्तेः । सेतवो मर्यादाः, ताः सर्वा भिद्येरन् । सर्वमर्यादापरिलोपः स्याद् इत्य् अर्थः । ब्राह्मणाश् च शूद्रवद् वर्तेरन्, शूद्राश् च ब्राःमणवत् । अतश् च सर्वलोकप्रकोपः स्यात् । त्रयो ऽपि लोका इतरेतरं वृष्ट्यातपादिना नोपकुर्युः ॥ ७.२४ ॥
यत्र श्यामो लोहिताक्षो दण्डश् चरति पापहा ।
प्रजास् तत्र न मुह्यन्ति नेता चेत् साधु पश्यति ॥ ७.२५ ॥
मेधातिथिः ...{Loading}...
एतद् द्वयं मनुष्याणां प्रशस्ततमम् । अतस् तेनासता रूपकभङ्ग्या स्तौति । द्विरूपो दण्डः- दुःखदो भयदश् च । भयहेतुत्वं श्यामतया, दुःखहेतुत्वं लोहिताक्षत्वेन ।
-
परिसमाप्ता दण्डस्तुतिः । दण्डो ऽवश्यं कर्तव्यः । स च देशाद्यपेक्षयेति । अन्यः सर्वो ऽर्थवादः ।
-
नेता चेत् । नेता दण्डस्य नायकः । स चेत् साधु पश्यति, सुनिरूपितं देशकालादिकं कृत्वा पालयति । तत्र प्रजा न मुह्यन्ति न केनचिद् दोषेण युज्यन्ते ॥ ७.२५ ॥
तस्याहुः संप्रणेतारं राजानं सत्यवादिनम् ।
समीक्ष्यकारिणं प्राज्ञं धर्मकामार्थकोविदम् ॥ ७.२६ ॥
मेधातिथिः ...{Loading}...
इदं संप्रणेतुः साधु दर्शनम्- सत्यवादिता समीक्ष्यकारिता प्राज्ञता त्रिवर्गे कौशलं च । सत्यवादी, यः शास्त्रानुसारितया दण्डं कृत्वा कुतश्चिन् महाधनत्वं विज्ञाय न तं वर्धयति, न च वल्लभस्य रागाद् अवनं करोति । प्राज्ञः, देशादीनां बाध्यबाधकभावार्थम् अवस्थाविशेषज्ञः । कदाचिद् देशेन कालो बाध्यते कालेन वा देशः । उभौ वा तौ विद्याशक्ती । तयोश्26 च परस्परम् उत्सर्गापवादभावज्ञः । कार्यवशाद् अर्थश् च बाधक एव बाध्यताम् इत्य् अतः प्राज्ञत्वम् उपयुज्यते । धर्मादीनां च गुरुलघुताभावः । स्वल्पो यत्र धर्मस् तस्मिन् साध्यमाने महान् अनर्थो भवति, तत्र धर्मस् त्यज्यते । प्रायश्चित्तेन समाधास्यत इत्य् एवमादि बोद्धव्यम् ॥ ७.२६ ॥
तं राजा प्रणयन् सम्यक् त्रिवर्गेणाभिवर्धते ।
कामान्धो विषमः क्षुद्रो दण्डेनैव निहन्यते ॥ ७.२७ ॥
मेधातिथिः ...{Loading}...
समत्वेन दण्डपातनेन शत्रौ मित्रे च वर्धते27 । कामान्धः रागप्रधानः । विषमः क्रोधनः । क्षुद्रः छलान्वेषात् । दण्डेनैव निहन्यते, प्रकृतिकोपेनादृष्टेन वा दोषेण ॥ ७.२७ ॥
दण्डो हि सुमहत् तेजो दुर्धरश् चाकृतात्मभिः ।
धर्माद् विचलितं हन्ति नृपम् एव सबान्धवम् ॥ ७.२८ ॥
मेधातिथिः ...{Loading}...
सुमहद् यत् तेजः स दण्डः । अकृतात्मभिः शास्त्रेण गुरूपासनया सहजेन वा विनयेन ये ऽनभिविनीतास् तैर् दुर्धरः, न शक्यते सम्यक् प्रणेतुम् । नैवं मन्तव्यम्- “आज्ञामात्रेण दण्डः प्रणीयते, का तस्य दुर्धरता” । यतो यस् तत्र न जागर्ति प्रयत्नवान् न भवति तं प्रमादिनं सबान्धवं दण्डो हन्ति । न शरीरेण केवलेन राजा नश्यति, यावत् पुत्रपौत्राद्यन्वयेन सह ॥ ७.२८ ॥
ततो दुर्गं च राष्ट्रं च लोकं च सचराचरम् ।
अन्तरिक्षगतांश् चैव मुनीन् देवांश् च पीडयेत् ॥ ७.२९ ॥
मेधातिथिः ...{Loading}...
देशाद्यनपेक्षया यत्र दण्डः प्रणीयते तत्र सराजकस्य जनपदस्य तिर्यक्स्थावरसहितस्य नाशः । ततो मन्त्रिभिर् जनपदैश् च राजा विज्ञापनीयः, त्यक्तव्यो वा तादृशो देशः । देवमुनयः पीड्यन्ते । इतःप्रदानजीवना देवाः । अस्मिंश् चानुष्ठानाद्युच्छेदान् नष्टा एव देवमुनयः । तथा च पुराणकारैः-
-
वर्णाश्रमेभ्यः स्थित्वा तु लोके ऽस्मिन् यः प्रवर्तते ।
-
स्वर्गादौ देवयोनीनां स्थितिहेतुः स वै स्मृतः ॥ इति ।
-
प्रथमात् श्लोकाद् आरभ्य यावद् अयं श्लोकस् तत्रायम् अर्थसंग्रहः- समवृत्तेन क्षत्रियेण जनपदपरिपालनं कर्तव्यम् । तच् च दण्डेन विना न भवतीति स देशाद्यपेक्षयावश्यं निपुणतो निरूप्य स्वराष्ट्रे परराष्ट्रे वा यथाशास्त्रं प्रणेयः । अन्यथा तु प्रवृत्ताव् उभयलोकनाशः । अन्यः सर्वो ऽर्थवादः ॥ ७.२९ ॥
सो ऽसहायेन मूढेन लुब्धेनाकृतबुद्धिना ।
न शक्यो न्यायतो नेतुं सक्तेन विषयेषु च ॥ ७.३० ॥
मेधातिथिः ...{Loading}...
सहायसंग्रहार्थं प्रकरणम् इदानीम् आरभ्यते । यस्य च निरूपणा वक्ष्यमाणा तत्सहायादिगुणयोगिनश् चार्यसभ्यसेनापतिदण्डाधिकारिणो न सन्ति, तेन स्वयम् एव निःशङ्कं नयकालगुणसंपन्नेनापि न्यायतो न प्रणेतुं शक्यः । न्यायः शास्त्रानुसारिणी देशाद्यपेक्षया च व्यवस्था । अतः सहायाः शोभनाः कर्तव्याः । यथा स्वयं मूढो विचित्तो ऽसंस्कृतबुद्धिर् अस्ति, सक्तो विषयेषु, लुब्धो धनविनियोगं यथावन् न करोति, तेन तादृशेनैतैर् दोषैर् युक्तेन न सम्यक् ध्रियते, एवम् असहायेनापीति तात्पर्यम् । यस् तु विपरीतस् तेन शक्यते ॥ ७.३० ॥
एष एवार्थो वैपरीत्येनोच्यते ।
शुचिना सत्यसंधेन यथाशास्त्रानुसारिणा ।
प्रणेतुं शक्यते दण्डः सुसहायेन धीमता ॥ ७.३१ ॥
मेधातिथिः ...{Loading}...
शुचिर् अलुब्धः । सत्यसंधः सत्यप्रधानः । सत्यम् एव पुरोधाय सर्वक्रियासु प्रवर्तते स विजितेन्द्रियः । अजितेन्द्रियस्य कुतः सत्यम् । यथाशास्त्रम् अनुसरति वर्तते । सुसहायः शोभनाः सहाया अस्येति । अमूर्खैर् भक्त्यनुरक्तैः28 सहायैर् युक्तः । धीमता प्राज्ञेन । यो ऽसौ मूढः प्रागुक्तस् तस्यायं प्रतिपक्षतयोक्तः
- अतः पञ्चभिर् दोषैर् हीनस् तावद्भिर् एव गुणैर् युक्तो दण्डप्रणयने ऽधिकृतो दृष्टादृष्टपलातिशयभाग् भवतीति श्लोकद्वयस्यार्थः ॥ ७.३१ ॥
स्वराष्ट्रे न्यायवृत्तः स्याद् भृशदण्डश् च शत्रुषु ।
सुहृत्स्व् अजिह्मः स्निग्धेषु ब्राह्मणेषु क्षमान्वितः ॥ ७.३२ ॥
मेधातिथिः ...{Loading}...
पितृपितामहादिक्रमागतो देशो व्यपदेशहेतुः । काश्मीरकस्य काश्मीरः, पाञ्चालस्य पाञ्चालाः स्वराष्ट्रम् । तत्र न्यायवृत्तो29 न्यायेन वर्तेत । न्याययोगाद् वृत्तं न्यायः30 । अतो बहुव्रीहिः । “न्यायवृत्तिः” इति वा पाठः । एतत् पूर्वसिद्धम् अनूद्य शत्रुषु भृशदण्डता विधीयते । परराष्ट्राणि पुनः पीडयेत्, न तत्र विघ्नाद्य् उपेक्षणीयं राष्ट्रीयोपरोधो वा । तथा कुर्वतः प्रताप उपजायते । प्रतापधनस्य शत्रवो नमन्ति । ब्राह्मणेषु सर्वत्र क्षमान्वितः । अपराधेष्व् अपि साम्ना दण्डः प्रयोज्यः, न क्रोधेन । परराष्ट्रवासिनो ऽपि राष्ट्रघातकाले यदि शक्यन्ते रक्षितुं तदा न हन्यन्ते । स्निग्धेषु सुहृत्सु अजिह्मो ऽकुटिलबुद्धिः । कार्यसिद्धिकृत् तत्कार्यप्रधानः31 स्यात् । समानाभ्युदयप्रत्यवायाः सुहृदः स्निग्धाः32 ॥ ७.३२ ॥
एवंवृत्तस्य नृपतेः शिलोञ्छेनापि जीवतः ।
विस्तीर्यते यशो लोके तैलबिन्दुर् इवाम्भसि ॥ ७.३३ ॥
मेधातिथिः ...{Loading}...
प्रक्रान्तवृत्तेः स्तुतिर् इयम् । शिलोञ्छेनापि जीवतो ऽत्यन्तक्षीणकोशस्य विस्तीर्यते यशः प्रथते । ततश् च परराष्ट्राणि स्वयं नमन्ते, स्वराष्ट्रिकश् चानुरागाद् अविचलितो भवति ॥ ७.३३ ॥
अतस् तु विपरीतस्य नृपतेर् अजितात्मनः ।
संक्षिप्यते यशो लोके घृतबिन्दुर् इवाम्बसि ॥ ७.३४ ॥
मेधातिथिः ...{Loading}...
अतो वृत्ताद् विपरीतस्य चलितस्य । अत्र हेतुर् अजितात्मता । यथाशास्त्रम् अनियतात्मा यः ॥ ७.३४ ॥
स्वे स्वे धर्मे निविष्टानां सर्वेषाम् अनुपूर्वशः ।
वर्णानाम् आश्रमाणां च राजा सृष्टो ऽभिरक्षिता ॥ ७.३५ ॥
मेधातिथिः ...{Loading}...
स्वधर्माणां33 च राजा सृष्टो ऽभिरक्षिता । स्वधर्मनिष्ठानाम् अपालने राज्ञः प्रत्यवायः । धर्मच्युतास् तु यदि केनचिद् उपहन्येरन् न तत्र राज्ञो ऽतीव दोष इति स्वे स्वे धर्मे इत्य् अनेन दर्शयति । अथ वा “न” श्लिष्यते “अनिविष्टानाम्” इति । ये तु शास्त्रान् मित्राद्युपदेशाद् वा स्वधर्मायत्ताः,34 न तेषां राजा द्वैधेन वर्तेत । वर्णग्रहणं स्त्रीबालवृद्धानां रक्षार्थम् । न हि ते आश्रमस्थाः । आश्रमग्रहणं तर्हि किमर्थम् । प्राधान्यार्थम्, ब्राह्मणवसिष्ठवत् । प्रयोजननिर्देशो वायम् । आश्रमसंध्योपासनादिधर्माच् चलितुम् एषां न देयः35 । न चैवं दण्डाद्यपघातः कर्तुम् एतेषां देयः । इतरथा बाधापरिहारः । एवं रक्षा विज्ञेया36 । संध्योपासनाद्यकरणेषु37 नामान्यस्य कस्यचिद् भवति । द्विरूपा राज्ञः कर्तव्यतेति वर्णाश्रमग्रहणम् । एतद् एवोक्तम् “वर्णान् आश्रमांश् च न्यायतो ऽभिरक्षेत्” (ग्ध् ११.९) इति ॥ ७.३५ ॥
तेन यद् यत् सभृत्येन कर्तव्यं रक्षता प्रजाः ।
तत् तद् वो ऽहं प्रवक्ष्यामि यथावद् अनुपूर्वशः ॥ ७.३६ ॥
मेधातिथिः ...{Loading}...
वक्ष्यमाणावबोधार्थः श्लोकः । तेन राज्ञा सभृत्येन38 तदीयैः सहायैर् यत् कर्तव्यं प्रजारक्षणार्थं तद् इदानीम् उच्यते ॥ ७.३६ ॥
ब्राह्मणान् पर्युपासीत प्रातर् उत्थाय पार्थिवः ।
त्रैविद्यवृद्धान् विदुषस् तिष्ठेत् तेषां च शासने ॥ ७.३७ ॥
मेधातिथिः ...{Loading}...
प्रातर् उत्थाय शयनं त्यक्त्वा यथाविधानं कृतसंध्योपासनः, प्रथमं ब्राह्मणानां दर्शनं दद्यात् । उपासनम् अन्तिकोपवेशनकुशलप्रश्नादिकरणम् । परिः पादपूरणः । तिष्ठेत् तेषां च शासने । आज्ञाकरणं तेषां शासनम् । यदि कस्यचिद् उपकारायादिशेयुस्39 तद्विरुद्धं न शङ्क्यम्, नाप्य् अनर्थकम् अनुतिष्ठेत् । त्रैविद्यवृद्धान् । तिसॄणां विद्यानां समाहारः त्रैविद्यम्, तद् अधीतिनः त्रैविद्या, रूढ्या ऋग्वेदादिवेदत्रयाध्यायिन उच्यन्ते । विदुषस् तदर्थवेदिनश् च । एवंविधा ये ब्राह्मणास् तान् उपासीत, तदीयाम् आज्ञां कुर्यात् । वृद्धास् त्रैविद्यानां श्रेष्ठाः प्रकर्षवन्तो ऽध्ययनविज्ञानयोः ॥ ७.३७ ॥
वृद्धांश् च नित्यं सेवेत विप्रान् वेदविदः शुचीन् ।
वृद्धसेवी हि सततं रक्षोभिर् अपि पूज्यते ॥ ७.३८ ॥
मेधातिथिः ...{Loading}...
वृद्धान् वयस्थब्राह्मणान् । एतद् अपूर्वम्, अन्यत् पूर्वसिद्धं विप्रान् इत्यादि । शुचीन् निरुपाधीन् । एतद् अप्य् अपूर्वम् । यथैवाध्ययनविज्ञाने उपास्यत्वकारणम् एवं शुचित्वम् अपि । द्वितीयश्लोकार्धो ऽर्थवादः40 । रक्षोभिः । रक्षांसि निर्दयानि महाबलानि सर्वधर्मशून्यानि, तान्य् अपि वृद्धसेविनं पूजयन्ति ॥ ७.३८ ॥
वृद्धसेवायाः प्रयोजनम् आह ।
तेभ्यो ऽधिगच्छेद् विनयं विनीतात्मापि नित्यशः ।
विनीतात्मा हि नृपतिर् न विनश्यति कर्हिचित् ॥ ७.३९ ॥
मेधातिथिः ...{Loading}...
तेभ्यः विद्वद्ब्राह्मणेभ्यो वृद्धेभ्यः विनयं राजवृत्तम् अधिगच्छेत् शिक्षेत । विनीतात्मा । यद्य् अपि स्वयंबुद्ध्यापि विनीतो ऽर्थशास्त्रैर् वा, तथापि वृद्धोपदेशे यत्नवान् स्यात् । दृष्टकर्माणः शास्त्रज्ञेभ्यो निपुणतराः । अथ वा पाटवातिशयजननार्थं विनीतेनापि स्वभावतो वृद्धेभ्य आर्येभ्य आत्मा विनेयः । स्वभावशुद्धस्य सुवर्णस्य तेजःसंयोगादिनाधीयमानसंस्कारो विशुद्धतररूपवान् असौ दृश्यते । यस्य विनयाधानस्य फलं न विनश्यतीति ॥ ७.३९ ॥
बहवो ऽविनयान् नष्टा राजानः सपरिग्रहाः ।
वनस्था अपि राज्यानि विनयात् प्रतिपेदिरे ॥ ७.४० ॥
मेधातिथिः ...{Loading}...
पूर्वोक्त एवार्थः श्लोकत्रयेणैव दृढीक्रियते । अविनीताः सपरिग्रहा नष्टाः । पुत्रदारहस्त्यश्वादिसंपत् परिग्रहः । ये तु विनयिनः, न ते राष्ट्रं प्राप्य हारयन्ति । यावत् ते दूरस्था वनस्था अपि, कोशहीना अपि, राज्यं प्रतिपेदिरे लब्धवन्तः ॥ ७.४० ॥
वेनो विनष्टो ऽविनयान् नहुषश् चैव पार्थिवः ।
सुदाः पैजवनश् चैव सुमुखो निमिर् एव च ॥ ७.४१ ॥
मेधातिथिः ...{Loading}...
उभयत्राप्य् उदाहरणानि लोकसिद्धानि वर्णयन्ति । एतानि महाभारताद् आख्यानानि ज्ञेयानि ॥ ७.४१ ॥
पृथुस् तु विनयाद् राज्यं प्राप्तवान् मनुर् एव च ।
कुबेरश् च धनैश्वर्यं ब्राह्मण्यं चैव गाधिजः ॥ ७.४२ ॥
मेधातिथिः ...{Loading}...
ब्राह्मण्यं चैव गाधिजः ।
-
ननु च राज्याधिकारे को ब्राह्मण्यप्राप्त्युपन्यासावसरः । राष्ट्रप्राप्तिर् एव यथापूर्वं वर्णयितव्या ।
-
उच्यते । धनैश्वर्याद् अपि जात्युत्कर्षो दुष्प्रापः, सर्वाधिकारहेतुत्वात् ।
-
ननु च कथं तस्य विनयो हेतुः । षाड्गुण्यप्रयोगः अप्रमादः अतिव्ययवर्जनं अलोभः व्यसनासेवनं एवमादीनि विनयः । तद् एतद् ब्राह्मण्यस्यैकम् अपि न कारणम् । तपो हि तत्र कारणत्वेन श्रुतम्- “विश्वामित्रस् तपस् तेपे नानृषेः पुत्रः स्याम्” इत्य् एवमादि ।
-
उच्यते । नार्थशास्त्रोक्तैव नीतिर् नयः । किं तर्हि, शास्त्रीयो विधिर् लोकाचारश् च । शास्त्रे च तपसा जात्युत्कर्षो जन्मान्तरे प्राप्यते इति विहितम् एव । विश्वामित्रस्य ब्राह्मण्यं तु तस्मिन्न् एव जन्मनि क्षत्रियस्य सत इत्याख्यातम् एव ॥ ७.४२ ॥
त्रैविद्येभ्यस् त्रयीं विद्याद्[^४१]** दण्डनीतिं च शाश्वतीम् ।**
आन्वीक्षिकीं चात्मविद्यां वार्तारम्भांश् च लोकतः ॥ ७.४३ ॥
मेधातिथिः ...{Loading}...
विद्याम् इति द्वितीयान्तपाठे “अधिगच्छेत्” (म्ध् ७.३९) इत्य् अनुषञ्ज्यनीयम् । समाप्तब्रह्मचर्यस्य राज्योपदेशात्41 त्रय्यर्थाधिगमेन तन्निष्पत्तेर् अभ्यासार्थो ऽयम् उपदेशः । त्र्यवयवा विद्या त्रिविद्या, ताम् अधीयते त्रैविद्याः,** तेभ्यस् त्रयीम्** ऋग्वेदादिवेदत्रयं विद्यात् । संदिग्धेषु पदार्थेषु वेदेभ्यो निर्णयं कुर्यात् । तैः सह वेदार्थं चिन्तयेद् इति यावत् । न राजत्वाभिमानान् मदावलेपेन सर्वज्ञो ऽहम् इति बुद्ध्या संदिह्यमानान् अर्थान् उपेक्षेत ।
-
दण्डनीतिं च । दण्डविषया नीतिः । “दण्डो दमनम् इत्य् आहुः” (ग्ध् ११.२८), येन शत्रवः स्वप्रकृतयो विषयवासिनश् चान्यायकारिणो दम्यन्ते, स दण्डो ऽमात्यादिसंपत् । नीतिस् तस्य प्रयोजनं तत्र विधिः, तं शिक्षेत । तद्विद्भ्यश् चाणक्यादिग्रथविद्भ्यः । शाश्वतीम् इति स्तुतिः । यद्य् अपि दण्डनीत्याप्य् अस्य सर्वलोकः शक्यते ज्ञातुम्, अन्वयव्यतिरेकमूलत्वाद् अस्यार्थस्य, तथाप्य् अबुधबोधनार्थानि तानि शास्त्राणि, बुधानां च संवादार्थानीति, युक्तो दण्डनीतिशास्त्राधिगमः ।
-
एवं आन्वीक्षिक्य् अपि तर्कविद्यार्थशास्त्रादिका । आत्मविद्या अध्यात्मविद्या । विशेषणविशेष्ये वा पदे । आत्मने या हितान्वीक्षिकी सा तर्काश्रया । तां शिक्षेत । सा ह्य् उपयुज्यते42 व्यसनाभ्युदयोपरमचित्तसंक्षोभोपशमाय । या तु बौद्धचार्वाकादितर्कविद्या सा नातीव कृत्वा क्वचिद् उपयुज्यते । प्रत्युतास्तिक्यम् उपहन्ति, यो नातिनिपुणमतिः । यदा तु स्वतन्त्राम् आन्वीक्षिकीं वेद, तदा तस्य दूतसंवादादिषु वाक्यवैशद्यानाम् उपयोगो नोपहास्यो भवति ।
- वार्तारम्भांश् च । पण्यानाम् अर्थपरिज्ञानं वाणिज्यकौशलम्, समयेन बार्हस्पत्येन तत्र परिज्ञानं वार्ता । तन्निमित्ता आरम्भा वार्तारम्भाः । वार्तास्वरूपं ज्ञात्वा तद्विषयकार्या43 प्रवृत्तिर् आरम्भः ।
- एतल् लोकतो विद्यात् । वणिज्याजीवनो ऽत्र लोको ऽभिप्रेतः । ते हि तत्र कुशला भवन्ति । लोकत इति च पूर्वयोर् अनुषङ्गः कर्तव्यः । तेन सर्वत्र तद्विद्भ्य इति लभ्यते ॥ ७.४३ ॥
इन्द्रियाणां जये योगं समातिष्ठेद् दिवानिशम् ।
जितेन्द्रियो हि शक्नोति वशे स्थापयितुं प्रजाः ॥ ७.४४ ॥
मेधातिथिः ...{Loading}...
इन्द्रियजयस्य ब्रह्मचारिधर्मेषु सर्वपुरुषार्थतयोपदिष्टस्य पुनर् इहोपदेशो राजधर्मेषु मुख्यो ऽयं विनय इति ज्ञापयितुम् । तद् इदम् आह जितेन्द्रिय इत्यादि । सर्वस्यैतत् प्रसिद्धम्- अजितेन्द्रियस्य न प्रजा वशे तिष्ठन्ति । योगस् तात्पर्यं । दिवानिशम् अहोरात्रम् ॥ ७.४४ ॥
दश कामसमुत्थानि तथाष्टौ क्रोधजानि च ।
व्यसनानि दुरन्तानि प्रयत्नेन विवर्जयेत् ॥ ७.४५ ॥
मेधातिथिः ...{Loading}...
इदम् अपरम् इन्द्रियजयोपदेशस्य प्रयोजनम् । अजितेन्द्रियस्य दुष्परिहराणि व्यसनानि । दुरन्तानि, दुःखकरः अन्तः अवसानं येषाम् । प्रथमं प्राप्तिकाले सुखयन्ति व्यसनानि, पश्चात् तु वैरस्यं जनयन्ति । ततो दुरन्तान्य् उच्यन्ते । अथ वा दुष्प्रापः अन्तः एषाम् । न हि व्यसनिनस् ततो निवर्तितुं शक्नुवन्ति । कामाद् धेतोः समुत्थानं जन्म येषाम् ॥ ७.४५ ॥
एषाम् वर्जने प्रयोजनम् आह, गुरुलघुबावं च ।
कामजेषु प्रसक्तो हि व्यसनेषु महीपतिः ।
वियुज्यते ऽर्थधर्माभ्यां क्रोधजेष्व् आत्मनैव तु ॥ ७.४६॥
मेधातिथिः ...{Loading}...
अर्थधर्मवियोगेन व्यवहित आत्मवियोगः । क्रोधजेषु सर्वैर् वियुज्यते इति विशेषः ॥ ७.४६ ॥
तानीदानीं व्यसनानि स्वनामतो दर्शयति ।
मृगयाक्षो दिवास्वप्नः परिवादः स्त्रियो मदः ।
तौर्यत्रिकं वृथाट्या च कामजो दशको गणः ॥ ७.४७ ॥
मेधातिथिः ...{Loading}...
आखेटकार्यो मृगवधो मृगया । अक्षस् तद्विषयक्रीडा । एतयोस् त्व् अनर्थत्वं प्रसिद्धम् । दिवास्वप्नः कर्मानुष्टानकाले कर्मस्व् अव्यापारः । न दिवाशब्देनाहर् एव विवक्षितम् । तद् उक्तम् “जागर्तव्ये प्रसुप्तकाः” (ग्पु २.४९.३१) इति । अथ वा मुख्य एव दिवास्वप्नः । स हि प्रतिषिद्धः सर्वकार्यविघाती । स च दर्शनार्थिनाम् अन्येषां तदसंपत्तेर् द्वेष्यताजनकः प्रजासु । परिवादः रहसि परदोषावर्जनम् । तेन सर्वाः प्रकृतयो विरज्यन्ति । अपरिवाद्यानां च परिवादे ऽधर्मः स्थित एव । स्त्रियो मदः इत्य् एतयोर् अनर्थरूपता सुप्रतीता । तौर्यत्रिकं नृत्यगीतवादित्राणि44 । वृथाट्या अप्रयोजनम् ईषत्प्रयोजनं वा इतस् ततश् च परिभ्रमणम् । दश परिमाणो दशकः । कामजः काम इच्छा, ततो जायते । विशिष्टमुखोपभोगार्थो वा अनुभूतविशेषाद् वा जायमानः कामजः ॥ ७.४७ ॥
पैशुन्यं साहसं द्रोह ईर्ष्यासूयार्थदूषणम् ।
वाग्दण्डजं च पारुष्यं क्रोधजो ऽपि गणो ऽष्टकः ॥ ७.४८ ॥
मेधातिथिः ...{Loading}...
अमात्यादितो45 ये सुकृतबान्धवास् तत्र यन् निगोपनीयं तस्य प्रकाशनं पैशुन्यम् । साहसं ज्यायसो नीचकर्मणि विनियोगः, स्वल्पेनैवापराधेन कराधानं कारावरोधो वा । द्रोहः उपांशुवधः, तत्रोपघातो वा जीवत एव । ईर्ष्या सर्वसाधारणस्य विषयस्य साधारण्यव्यावृत्तिः, असहनं वा । गुणिनाम् गुणेषु दोषाविष्करणम् असूया । अर्थदूषणम् अर्थानाम् अदानं हरणं वा । वाग्दण्डपारुष्ये प्रसिद्धे । क्रोधः द्वेषः । तत्प्रधाना एतत् कुर्वन्ति ॥ ७.४८ ॥
द्वयोर् अप्य् एतयोर् मूलं यं सर्वे कवयो विदुः ।
तं यत्नेन जयेल् लोभं तज्जाव् एताव् उभौ गणौ ॥ ७.४९ ॥
मेधातिथिः ...{Loading}...
उक्तं तावत् कामजस्य[^४७] व्यसनवर्गस्य **लोभो मूलम्** । विषयोपभोगस्पृहा कामः, इच्छा अभिलाषः लोभः इत्य् अनर्थान्तरं यतः । क्रोधजस्य कथं लोभो मूलम्, येनोच्यते **तज्जाव् एताव् उभौ गणाव्** इति ।
-
उच्यते । नात्र लोभकारणता तयोर् वर्गयोर् अभिप्रेता । किं तर्हि, वर्गद्वयतुल्यता लोभस्य । यम् एतानि सर्वाणि व्यसनान्य् अनर्थम् उपजनयन्ति तम् एवैको लोभो व्यसनहीनस्यापि । तद् उक्तम् “लोभः सर्वगुणान् इव” (म्भ् ७.७४.*५३७) इति । अत उपचारत एतद् उक्तं तज्जाव् एताव् इति । यदि लोभो न जायेत कथं समानफलानि स्युः । कारणदोषो हि कार्यदोषं भासयति । अतस् तत्कार्यत्वाद् व्यसनेषु चेद् दोषः, ध्रुवं कारणस्याप्य् असौ दोष उक्तो भवति ।
-
अथ वा लुब्ध एव पैशुनादिबहिष्कार्येष्व् अभिष्वङ्गं46 गच्छति । इतरस् तु स्वल्पके विषये अनुनयेन वोपशाम्यति । सेयम् उपचाराल् लोभमूलता व्यसनवर्गद्वयस्योच्यते ॥ ७.४९ ॥
पानम् अक्षाः स्त्रियश् चैव मृगया च यथाक्रमम् ।
एतत् कष्टतमं विद्याच् चतुष्कं कामजे गणे ॥ ७.५० ॥
मेधातिथिः ...{Loading}...
दिवास्वप्नादिभ्यो ऽस्य चतुष्कस्य गणस्य बहुदोषतरत्वं प्रसिद्धम् एव ॥ ७.५० ॥
दण्डस्य पातनं चैव वाक्पारुष्यार्थदूषणे ।
क्रोधजे ऽपि गणे विद्यात् कष्टम् एतत् त्रिकं सदा ॥ ७.५१ ॥
मेधातिथिः ...{Loading}...
अयम् अपि त्रिकः पैशुनादिभ्यः पापीयान् इति सुप्रतीतम् ॥ ७.५१ ॥
सप्तकस्यास्य वर्गस्य सर्वत्रैवानुषङ्गिणः ।
पूर्वं पूर्वं गुरुतरं विद्याद् व्यसनम् आत्मवान् ॥ ७.५२ ॥
मेधातिथिः ...{Loading}...
पानद्यूतयोः पानं गरीयः । तत्र हि संज्ञाप्रणाशः, अनुन्मत्तस्योन्मत्तत्वम्, अप्रेतस्य प्रेतत्वम्, कौपीनप्रकाशनम्, श्रुतप्रज्ञाप्रहाणम्, मित्रहानिः, सद्भिर् वियोगः, असद्भिश् च संप्रयोगः, गीतादिष्व् अर्थघ्नेषु प्रसङ्गः, रतमन्त्रप्रकाशनं च, मानिनो ऽप्य् उपहास्यता, गम्भीरप्रकृतेर् अपि यत्किंचनवादिता मदवेगेनेति पानदोषाः । द्यूते तु जितम् एवाक्षविदुषा, अनक्षज्ञस्यापि पाक्षिकः पराजयः ।
- स्त्रीद्यूतव्यसनयोर् द्यूतव्यसनं गरीयः । येन तद् एव जितं द्रव्यं तस्यापि विषं भवति । तथा च तन्निमितो वैरानुबन्धो जयः, साधारणः केवलं पराजयः, भुक्तनाशः । मूत्रपुरीषवेगधारणाच् च शरीरे शैथिल्यं व्याधिनिदानम् एव, तेन क्षुद्रादिभिः स्वपीडातिशयात् । मातर्य् अपि च मृतायां दीव्यत्य् एव । कृतकृत्येषु च न सुहृद्भिर् अपि कृष्यते । तप्तायसपिण्डवत् परद्रव्याणि परिहरतो न प्रत्ययते च । क्षुधिते दुर्गते ऽन्नाद्युपपत्त्युपेक्षाविषयता सर्वगुणसंपन्नस्यापि तृणवद् अवज्ञेयता47 । इति द्यूतदोषाः । स्त्रीव्यसने त्व् अपत्योत्पत्तिः, प्रतिकर्मभोजनभूयिष्टानुभवनम्, धर्मार्थपरिग्रहः । शक्या च स्त्री राजहिते नियोक्तुम् अपवाहयितुं वा ।
- स्त्रीमृगयाव्यसनयोः स्त्रीव्यसनं गरीयः । अदर्शनं कार्याणाम्, स्त्रीव्यसनसङ्गेन राजकार्येषु च निर्वेदः, कालातिपातनम्, धर्मलोपः, पानदोषानुबन्धः, अर्थघ्नेषु चानृतादिषु प्रसङ्ग इति । म्र्गयायां तु व्यायामः, पित्तश्लेष्मबन्धः, मेदादिनाशः, चले स्थिरे वा काये लक्ष्यपरिचयः,48 प्रहरणे वैशारद्योपजननम्, ग्राम्यजनपरिजयश् चेति ।
-
एवं कामजस्य चतुष्कस्य वर्गस्य स्ववर्गे पूर्वं पूर्वं पापीयः ।
-
क्रोधजस्यापि च दण्डपातदोषानुबन्धः अर्थघ्नेष्व् एवानृतादिषु सङ्गः ।
-
दण्डपातवाक्पारुष्ययोर् दण्डपातनं गरीयः । दण्डपातने हि शरीरविनाशादिशक्यं प्रतिसंधानम् । वाक्पारुष्ये त्व् अमर्षजः क्रोधाग्निः शक्यते दानमानाम्भोभिः शमयितुम् ।
-
वाक्पारुष्यार्थदूषणयोर् वाक्पारुष्यं गरीयः । तेजस्विनो हि पारुष्यवचनचित्तसंक्षोभे भयं नासादयन्ति । तथा च प्रवादः ।
-
स्थिरं साध्वसितं काण्डं भित्त्वा वास्थिप्रवेशितम् ।
-
विशल्यम् अङ्गं कुर्वन्ति न वाचो हृदयाद् अपि ॥
-
रोहते सायकैर् विद्धं वनं परशुना हतम् ।
-
वाचा दुरुक्तं बीभत्सन् न संदोहति वाक्क्षतम् ॥
भाग्यायत्तत्वाद् अर्थस्येति न तेजस्विनो ऽर्थदूषणं गणयन्ति । एवम् एतयोर् वर्गयोः पूर्वस्य पूर्वस्य गरीयस्त्वं निदर्शितम् ॥ ७.५२ ॥
व्यसनस्य च मृत्योश् च व्यसनं कष्टम् उच्यते ।
व्यसन्य् अधो ऽधो व्रजति स्वर् यात्य् अव्यसनी मृतः ॥ ७.५३ ॥
मेधातिथिः ...{Loading}...
यद्य् अपि मृत्युव्यसने सर्वं हरेतां49 तथाप्य् एवं विशेषः । मृत्युर् अस्मिंल् लोके सर्वहरः, व्यसनं पुनर् इह चामुत्र च । तद् इदम् आह- व्यसन्य् अधो ऽधो व्रजति । नरकं गच्छतीत्य् अर्थः । व्यसनिशब्देन50 अत्यन्तो ऽभ्यास एतद्वर्गविषय उच्यते । अतश् चाभ्यासः प्रतिषिध्यते, न त्व् ईषदासेवनम् । व्यसनभूता ह्य् एते धरार्थकामप्राणहरा भवन्त्य् अन्यस्यापि पुरुषस्य, किं पुना राज्ञः । किं च, असेवनम् अप्य् अयुक्तं पानादीनाम् अशक्यं51 चेति । यतो52 ऽभ्यासप्रतिषेधः ॥ ७.५३ ॥
मौलाञ् छास्त्रविदः शूरंल् लब्धलक्षान् कुलोद्गतान् ।
सचिवान् सप्त वाष्टौ53** वा कुर्वीत सुपरीक्षितान्**54** ॥ ७.५४ ॥**
मेधातिथिः ...{Loading}...
पितृपितामहान्वयागता बहुसुतधनबान्धवाः प्रकटगोभूमिधनास् तद्देशवासिनो मौलाः । मूलं प्रतिष्ठा, तत्र भवा मौलाः । शास्त्रविदः । शास्त्रं शासनं भृत्यविज्ञानम्55 । तेनान्ये ऽपि गुणा गृह्यन्ते । तद् यथा- “प्राज्ञः दृढकारी धारयिष्णुर् दक्षः वाग्मी प्रबलः56 प्रतिपत्तिमान् उत्साहप्रभावयुक्तः क्लेशसहः शुचिर् दानशीलः योग्यसत्त्वयुक्तः स्तंभचापलहीनः प्रियो वैरिणाम् अकर्ता” (च्ड़्। कश् १.९.१) इति । शूरशब्देन राजकार्ये शरीरकलत्रापत्यधनादिष्व् अपि निरपेक्ष उच्यते । तथा मरणे ऽभीरुः, युद्धोत्साही, एक एव परिभवभयाद् बहुभिर् विरुध्यते, दृढप्रहारी बलवान् । लब्धलक्षाः । परिदृष्टकर्मताम् अनेनाह । दृष्टखड्गव्यापाराः कृतार्थाधिकाराः अनुभूतमन्त्रिभूमयः । कुलोद्गतान् कुलांकुशनिगृहीता ह्य् अकार्ये न वर्तन्ते । सचिवान् सहायान् । नित्यम् एते राज्ञः पार्श्ववर्तिनो भवेयुः । सप्त वाष्टौ वा । नियमो ऽयम् । येन चाल्प एकचित्ता भवन्ति । ततश् च राजमन्त्र उद्घाटिकः57 स्यात् । बहूनाम् अपि मन्त्रभेदः । तस्माद् एतावन्त एव कर्तव्याः । सुपरीक्षितान् धर्मार्थकामभयोपधाभिः । सेयं परीक्षोच्यते । पुरोहितः — स्वल्पकार्ये राज्ञा व्याजेनाधिक्षिप्तः बहुनार्थसंप्रदानेनाप्तपुरुषैर् एकैकम् अमात्यम् उपजपेत् राजविनाशाय- “एतच् च सर्वमन्त्रिभ्यो58 रोचते, अथ कथं भवते” इति । प्रत्याख्याने धर्मोपधाशुद्धः । सेनापतिः — केनचिद् उपदेशेन पूर्ववद् अधिक्षिप्तः59 बहुना च संप्रदानेनाप्तपुरुषैर् एकैकम् अमात्यम् उपजपेद् राजविनाशाय- “एतच् च सर्वमन्त्रिभ्यो रोचते, अथ कथं भवते” इति । प्रत्याख्यान अर्थोपधाशुद्धः । परिव्राजिका अन्तःपुरे60 लब्धविश्वासा एकैकम् अमात्यम् उपजपेत् — “सा राजमहिषी भवन्तं कामयते कृतसमागमोपया” इति । प्रत्याख्ह्याने कामोपधाशुद्धः । राजप्रयुक्ता एव केचित् पुरुषाः प्रवादम्61 आविष्कुर्युः- “कृतसमयैर् अमात्यै राजा हन्यते” इति । उपलब्धप्रवादः62 पुरोहितस्याप्तः कश्चिद् अमात्येषु मन्त्रं श्रावयेत्- “इमं प्रवादम् उपश्रुत्य भवतां निग्रहो राज्ञा क्रियते” इति । तेषाम् एव चान्यतमः पूर्वम् एव कृतसंवित्कः प्रत्येकं राजामात्येषूत्साहयेत् । तत्र ये प्रत्याचक्षते ते भयोपधाशुद्धाः ।
- अथ वा मौल्ंआस् तावत् कुर्याद् अर्थसमाहर्तृसंनिधातॄन्63 । ये अर्थं ग्रामेभ्यः समाहरन्ति, समाहृतं च रक्षन्ति विनियुञ्जते च । सर्वथार्थव्यवहारिणो मौलाः कर्तव्या इत्य् उक्तं भवति । शास्त्रविद्ः बुद्धिसचिवा मन्त्रिणः । शूरान् बलाध्यक्षान् । लब्धलक्षान् इत्यादि सर्वेषां विशेषणम् । एकैकस्य समुदितपरीक्षा च योक्ता राजविषया64 राजामात्येषूत्साहनम् इति, सा न युक्तेति मन्यन्ते । एष एव हि बुद्धिभेदो भवेद् अमात्यानाम् । तस्माद् अन्या काचित् स्त्री साध्वी प्रयोज्या अन्यश् च विनाशविषय उदाहार्यः ॥ ७.५४ ॥
अपि यत् सुकरं कर्म तद् अप्य् एकेन दुष्करम् ।
विशेषतो ऽसहायेन किं तु राज्यं महोदयम् ॥ ७.५५ ॥
मेधातिथिः ...{Loading}...
यत् सामान्यं गृहस्थस्य गृहकृत्यं गोऽश्वादिपालनं सुकरम् इति स्थितम् । स एव गां पालयति स एव दोग्धि । न शक्यम् एतद् एकेन कर्तुम् । तद् अप्य् एकेन दुष्करं विशेषतो ऽसहायेन । दुष्करम् अशक्तेन न शक्यं कर्तुम् । कथं ह्य् एको गां चारयतु,65 कथं च भार्यां रक्षतु66 । राज्यं तु प्रतिमहारंभम् उदयकर्म, तद्योगः फलवांश् च । अपेक्षमाणस्य67 महत् फलम् उदेति68 । न चैकेन षाड्गुण्यं वेदितुं शक्यम् । तस्माद् आत्मसमाः परीक्षिताः सहायास् तेषु तेषु कार्येषु कर्तव्याः ॥ ७.५५ ॥
तैः सार्धं चिन्तयेन् नित्यं सामान्यं संधिविग्रहम् ।
स्थानं समुदयं गुप्तिं लब्धप्रशमनानि च ॥ ७.५६ ॥
मेधातिथिः ...{Loading}...
तैर्69 बुद्धिसचिवैर् मुख्यैश् चार्थाधिकारिभिः सह सामान्यं यन् नातिरहस्यं तच् चिन्तयेत् संधिविग्रहम्- “किं संधिः संप्रति युक्तो ऽथ विग्रहः,” उभयत्र गुणदोषान् विचारयेत् । इदं कर्तव्यावधारणं तु स्वबुद्ध्या कुर्याद् यथास्य परप्रयोज्यता न भवति ।
- इदं चापरं चिन्तयेत्, स्थानम् । तच् चतुर्विधम्- दण्डकोशपुरराष्ट्राणि । तत्र दण्डो हस्त्यश्वरथपदातयः । तेषां प्रतिकर्म पोषणरक्षणादि चिन्त्यम्70 । न ह्य् असमाधानं प्रधानम्71 । तथा कोशस्य हेमरूप्यबाहुल्यं प्रचुररूप्यता आयव्ययलक्षणं च । कोशस्य यानि यान्य् आयस्थानानि72 तानि न व्ययितव्यानि न विलम्बनीयानि भृत्यानाम् । तथा राष्ट्रस्य देशपर्यायस्य स्वाजीव आत्मसंधारणः परसंधारणो73 नदीवृक्षाः74 पशव्यः75 शत्रुद्वेषक्रान्तप्रायः76 गुप्तगोचरः77 पशुमान् अदेवमातृकः, आपदि च दण्डकरसह78 इत्येवमादि । पुरस्य वक्ष्यति “तत् स्याद्79 आयुधसंपन्नम्” (म्ध् ७.७५) इति ।
- अथ वा स्थानं स्वदेशाच् चाप्रच्यवनम् । एवं समुदायो ऽपि चिन्त्यः । तत्र कृषिर् व्रजगुलमस्थानानि वाणिज्यशुल्कदण्ड80 इत्य् एवमादि । गुप्तिं स्वराष्ट्रगतां वक्ष्यति । लब्धप्रशमनं च देवताश्रमविद्यावतां81 धार्मिकाणां च मानदानत्यागायोगः, उचितानां82 चाभ्यनुज्ञानम् । सर्वबन्धनमोक्षः । अनुग्रहो दीनव्याधितानाम् । उत्सवानां चापूर्वाणां प्रवर्तनम्, प्रवृत्तानाम् अनुवृत्तिः ।
- यच् च कोशदण्डोपघातकम्83 अधार्मिकचरित्रं तद् अपनीय धर्मव्यवहारान् स्थापयेत् । अधर्मचारित्रम् अकृतम् अन्यस्य कृतं वान्यैः प्रवर्तयेत् । न वा धर्मकृतं चान्यैर् निवर्तयेद् इति ।
- एवं स्थानादीनि चिन्त्यानि ॥ ७.५६ ॥
तेषां स्वं स्वम् अभिप्रायम् उपलभ्य पृथक् पृथक् ।
समस्तानां च कार्येषु विदध्याद् धितम् आत्मनः ॥ ७.५७ ॥
मेधातिथिः ...{Loading}...
तेषां पृथक् पृथग् एकैकस्य रहस्य् अभिप्रायं हृदयनिहितं भावम् उपलभ्य, समस्तानां संहतानां यत् कारणं कश्चित् पुरुषः परिषदि अप्रतिभानवान् भवति, रहसि प्रगल्भः, कश्चित् परिषद्य् आसादितप्रज्ञः । ततश् च तान् समस्तान् पृच्छेत् ।
- ततः स्वयं यद् युक्ततरं हितम् आत्मने तद् व्यवस्येद् विदध्यात् । तत्प्रामाण्यं तेषाम् एवान्यतमेनोपदिष्टं वा यद् अप्रत्यनीकं84 निर्दोषं च ॥ ७.५७ ॥
सर्वेषां तु विशिष्टेन ब्राह्मणेन विपश्चिता ।
मन्त्रयेत् परमं मन्त्रं राजा षाड्गुण्यसंयुतम् ॥ ७.५८ ॥
मेधातिथिः ...{Loading}...
विपश्चिता विदुषा अर्थशास्त्रज्ञेन । परं मन्त्रम् अत्यन्तं गोपनीयं मन्त्रयेत् षाड्गुण्ययुक्तम् । अधिकतरप्रज्ञो हि ब्राह्मणः, धार्मिकत्वाच् च विश्वसनीयः ॥ ७.५८ ॥
नित्यं तस्मिन् समाश्वस्तः सर्वकार्याणि निक्षिपेत् ।
तेन सार्धं विनिश्चित्य ततः कर्म समारभेत् ॥ ७.५९ ॥
मेधातिथिः ...{Loading}...
तादृशि ब्राह्मणे सर्वराष्ट्रमण्डलं निक्षिप्य विश्वस्तो राज्यसुखं भुञ्जीत च । तेन85 सह विनिश्चित्य यानासनादि कर्म व्यवहारसंग्रहादि समाचरेत् ॥ ७.५९ ॥
अन्यान् अपि प्रकुर्वीत शुचीन् प्राज्ञान् अवस्थितान् ।
सम्यग् अर्थसमहर्तॄन् अमात्यान् सुपरीक्षितान् ॥ ७.६० ॥
मेधातिथिः ...{Loading}...
यद् उक्तम् “सप्त चाष्टौ वा” (म्ध् ७.५४) इति तस्यायम् अपवादः । अर्थसमाहर्तॄन् संनिधातॄन् सुपरीक्षितान् उपधाभिः कुर्यात् ॥ ७.६० ॥
निर्वर्तेतास्य यावद्भिर् इतिकर्तव्यता नृभिः ।
तावतो ऽतन्द्रितान् दक्षान् प्रकुर्वीत विचक्षणान् ॥ ७.६१ ॥
मेधातिथिः ...{Loading}...
सर्व एते मन्त्रज्ञा विचक्षणाः विद्वांसश् चाधिकारिकाः कर्तव्याः । दक्षान् भयसंनिधाने ऽप्य् अवसादहेताव्86 अत्युत्साहवन्तः87 । अतन्द्रितान् अनलसान् । उक्तं चाध्यक्षप्रचारे-
-
बुद्धिमान् अनुरक्तश् च युक्तो धर्मार्थकोविदः ।
-
शुचिर् दक्षः कुलीनश् च मन्त्री यस्य स राज्यभाक् ॥
-
तस्मिन् निक्षिप्य कार्याणि भोगसङ्गी न नश्यति ।
-
राजवश्यविधिस् तेन दानानुग्रहणैर् इति ॥ ७.६१ ॥
तेषाम् अर्थे नियुञ्जीत शूरान् दक्षान् कुलोद्गतान् ।
शुचीन् आकरकर्मान्ते भीरून् अन्तर्वेश्मने ॥ ७.६२ ॥
मेधातिथिः ...{Loading}...
अर्थे आयव्ययव्यवहारे । शुचीन् अर्थेष्व् अस्पृहान् नियुञ्जीत । तान्य् अर्थस्थानान्य् उदाहरणेन दर्शयति, आकरकर्मान्त इति । आकराः सुवर्णरूप्याद्युत्पत्तिसंस्कारस्थानानि । कर्मान्ता भक्ष्यकार्पासावापादयः । अन्तर्वेश्मने अन्तःपुरभोजनशय्यास्त्रीगृहाणि । भीरवस् तत्र नियोज्याः । शूरा हि राजानम् एकाकिनम् उपजप्ता हन्युः । दक्षा सर्वे ऽपि व्युत्थानशीलतया द्वन्द्वोपरिपातम् अपरिगणय्य स्वामिनः कार्यं काले88 नातिपातयन्ति ॥ ७.६२ ॥
दूतं चैव प्रकुर्वीत सर्वशास्त्रविशारदम् ।
इङ्गिताकारचेष्टज्ञं शुचिं दक्षं कुलोद्गतम् ॥ ७.६३ ॥
मेधातिथिः ...{Loading}...
दूतस्यायम् अधिको गुणः इङ्गिताकारचेष्टज्ञता । परविषये राज्ञो89 मन्त्रिणां च संधित्सताम् इङ्गितानि दूतस्यादरेण संपरिग्रहः, विश्वसनम्, मुहुर् मुहुः संपूर्णतद्वाक्यस्य तस्य चाभिनन्दनम् । एतानि विपर्यस्तान्य् उपेक्षेत । आकारः90 शरीरवैकृत्यं म्लानिर् मुखस्य वर्णवैकृत्यं तूष्णींभावो दीर्घोष्णनिःश्वासता । एवमादिविकारैर् दैन्यं सूचयति- “अस्ति काचिद् आपदस्य तेनायं विवर्णः” इति । वाक्यवैशारद्यम्, शारीरसंस्कारः, प्रसन्नमुखता, एवमादि हर्षं सूचयति । शुचिः91 स्त्रीगते ऽर्थे गमनविशेषैः । यतः स्त्रीसंबन्धे मन्त्रभेदः परिभवश् च ॥ ७.६३ ॥
अनुरक्तः शुचिर् दक्षः स्मृतिमान् देशकालवित् ।
वपुष्मान् वीतभीर् वाग्मी दूतो राज्ञः प्रशस्यते ॥ ७.६४ ॥
मेधातिथिः ...{Loading}...
अनुरक्तः अहार्यो भवति । दक्षः देशकालौ नातिक्रामति । स्मृतिमान् अमुषितस्मृतिप्रसङ्गेन92 स्वामिसंसेशं कथयति । देशकालवित् देशकालौ ज्ञात्वान्यद् अप्य् असंदिष्टं93 तत्कालयोग्यं कथयति । वपुष्मान् स्वाकृतिः, प्रियदर्शनत्वान् निपुणम् उचितं वक्ति । वीतभीः अनेन निपुणम् उच्यते । वाग्मी संदेशस्योत्तरे प्रतिवचनसमर्थो भवति ॥ ७.६४ ॥
अमात्ये दण्ड आयत्तो दण्डे वैनयिकी क्रिया ।
नृपतौ कोशराष्ट्रे च दूते संधिविपर्ययौ ॥ ७.६५ ॥
मेधातिथिः ...{Loading}...
अमात्ये सेनापतौ दण्डो हस्त्यादिबलम् आयत्तम्, तदिच्छया कार्येषु प्रवृत्तेः । दण्डे वैनयिकी । यो विनेयः स्वपरराष्ट्रगतः स दण्ड्यो यतः । विनयाश्रिता **वैनयिकी **। क्रिया कार्यम् । नृपतौ कोश्राष्ट्रे आयत्ते । संचयस्थानं कोशः । राष्ट्रं जनपदः । द्वे च ते पराधीने न कर्तव्ये, स्वयम् एव विलम्भनीयफलग्रासाच् च । दूते संधिविपर्ययौ । प्रियवचनेन स्वामिकार्यप्रदर्शनेन संधिः, तद्वैपरीत्येन विग्रहः । एतद् उभयं दूतायत्तम् ॥ ७.६५ ॥
एवं दूतार्थानुवादः । एष एवार्थः पुनर् उच्यते ।
दूत एव हि संधत्ते भिनत्त्य् एव च संहतान् ।
दूतस् तत् कुरुते कर्म भिद्यन्ते येन मानवाः ॥ ७.६६ ॥
मेधातिथिः ...{Loading}...
दूतः96 संधत्ते यथोक्तम् । संहतान् एकीभूतान् स एव भिनत्ति । अनुक्तम् अपि प्रियं संदिशति “प्रतिकूलम् अनाचरितम्” इत्यादि । सुवर्णादिद्रव्यम् अप्रतिश्रुतम् इत्य् आह । एवं भिनत्ति दूतः । तद् एतत् कर्मान्तरोपदिष्टम्, येन राजानो भिद्यन्ते ।97 वाक्पारुष्यापन्ना एवं संभवन्ति ॥ ७.६६ ॥
अन्यद् अपि दूतकार्यं दर्शयति ।
स विद्याद् अस्य कृत्येषु निगूढेङ्गितचेष्टितैः ।
आकारम् इङ्गितं चेष्टां भृत्येषु च चिकीर्षितम् ॥ ७.६७ ॥
मेधातिथिः ...{Loading}...
बुध्वा च सर्वं तत्त्वेन परराजचिकीर्षितम् ।
तथा प्रयत्नम् आतिष्ठेद् यथात्मानं न पीडयेत् ॥ ७.६८ ॥
मेधातिथिः ...{Loading}...
स दूतो यात्व्यस्य राज्ञः कृत्येषु कार्येषु ॥ ७.६७ ॥
जाङ्गलं सस्यसंपन्नम् आर्यप्रायम् अनाविलम् ।
रम्यम् आनतसामन्तं स्वाजीव्यं देशम् आवसेत् ॥ ७.६९ ॥
धन्वदुर्गं महीदुर्गम् अब्दुर्गं वार्क्षम् एव वा ।
नृदुर्गं गिरिदुर्गं वा समाश्रित्य वसेत् पुरम् ॥ ७.७० ॥
मेधातिथिः ...{Loading}...
98उक्तप्रकारेण द्विगुणोत्सेधेनैष्टकेन शैलेन द्वादशहस्ताद् ऊर्ध्वम् उद्धतेन तालमूलेन कपिशीर्षचिताग्रेण दृढप्रणाल्या परिकृतं99 महीदुर्गम् । अगाधेनाश्रयणीयेन चोदकेन परिवेष्टितम् अब्दुर्गम्100 । समन्ततो ऽर्धयोजनमात्रं घनमहावृक्षान्वितं वार्क्षम् । चतुरङ्गबलाधिष्ठितं प्रवरायुधवीरपुरुषप्रायं नृदुर्गम् । गिरिपृष्ठे दुरारोहम् एवैकमार्गानुगतम् अन्तर्नदीप्रस्रवणोदकं गिरिदुर्गम् ॥ ७.७० ॥
सर्वेण तु प्रयत्नेन गिरिदुर्गं समाश्रयेत् ।
एषां हि बाहुगुण्येन गिरिदुर्गं विशिष्यते ॥ ७.७१ ॥
त्रीण्य् आद्यान्य् आश्रितास् त्व् एषां मृगगर्ताश्रयाप्सराः ।
त्रीण्य् उत्तराणि क्रमशः प्लवङ्गमनरामराः ॥ ७.७२ ॥
मेधातिथिः ...{Loading}...
आद्यानि त्रीणि धनुर्दुर्गादीनि । आश्रिताः आश्रयं कृतवन्तः । मृगाः । गर्ताश्रया गर्गरनकुलादयः । अप्सरा ग्राहकूर्मादयः । एषां दुर्गाणां तदाश्रितानां च यादृशा गुणदोषास् तादृशा एव राज्ञाम् अपि भवन्तीति प्रदर्शनार्थम् । त्रीण्य् उत्तराणि । प्लवङ्गमाः कपयः ॥ ७.७२ ॥
यथा दुर्गाश्रितान् एतान् नापहिंसन्ति शत्रवः ।
तथारयो न हिंसन्ति नृपं दुर्गसमाश्रितम् ॥ ७.७३ ॥
मेधातिथिः ...{Loading}...
दुर्गविधानप्रयोजनश्लोको ऽयम् । अत्यल्पबला अपि दुर्गाश्रिता महाबलैर् अरिभिर् न सहसा शक्यन्ते ऽभिभवितुम्, अतो दुर्गाश्रयो युक्तः ॥ ७.७३ ॥
एकः शतं योधयति प्राकारस्थो धनुर्धरः ।
शतं दशसहस्राणि तस्माद् दुर्गं विधीयते ॥ ७.७४ ॥
मेधातिथिः ...{Loading}...
सुप्रसिद्धम् एतद् दुर्गप्रयोजनम् ।
-
प्राकारदृष्टान्तेन गिरिदुर्गबलम् एतद् इति ।
-
तद् अयुक्तम्, महीदुर्गे ऽपि प्राकारसंभवात् । तस्मात् सर्वेषां दुर्गाणां तत्प्रयोजनं स्वबुद्ध्या रूप्यते ॥ ७.७४ ॥
तत् स्याद् आयुधसंपन्नं धनधान्येन वाहनैः ।
ब्राह्मणैः शिल्पिभिर् यन्त्रैर् यवसेनोदकेन च ॥ ७.७५ ॥
मेधातिथिः ...{Loading}...
आयुधैः खड्गप्रासादिभिः संपन्नम् उपेतम् । आयुधग्रहणं वर्मशिरस्त्राणोपस्कारादेर् अन्यस्यापि युद्धोपकरणस्य प्रदर्शनार्थम् । धनं रूप्यसुवर्णादीनि । वाहनानि रथाश्वादयः । शिल्पिभिर् यन्त्रावाहतक्षप्रभृतिभिः । यवसेन । ब्राह्मणैर् मन्त्रिपुरोहितैर् अन्यैर् वा । दण्डिकापोतेन ध्वजशङ्कया कदाचिन् नृपधर्मसाहाय्येन प्रवर्तन्ते । प्रदर्शनार्थत्वाच् च भिषगौषधाद्य् अपेक्षेत । संरोहणाद्युपयोगि संनिधापयितव्यम् ॥ ७.७५ ॥
तस्य मध्ये सुपर्याप्तं कारयेद् गृहम् आत्मनः ।
गुप्तं सर्वर्तुकं शुभ्रं जलवृक्षसमन्वितम् ॥ ७.७६ ॥
मेधातिथिः ...{Loading}...
सुपर्याप्तम् । यावद् आत्मनो राज्ञो राजपुत्रकोशायुधाश्वागारादिषूपयुज्यते । गुप्तं बहुकक्षाकम् । गृहं कारयेत् । सर्वर्तुकं सर्वर्तुमाल्यफलैः शोभितम् । सर्वे ऋतवो यत्रेति । ऋतुशब्देन तत्कार्याणि पुष्पफलादीनि लक्ष्यन्ते । “सर्वर्तुगम्” इति पाठे सर्वान् ऋतून् गच्छति प्राप्नोतीति व्युत्पत्तिः । अर्थस् तु स एव । यो यत्र भवति स तेन व्याप्त इत्य् उच्यते । शुभ्रं सुधाधवलितम् । जलवृक्षसमन्वितं धारागृहोद्यानवनसंपन्नम् ॥ ७.७६ ॥
तद् अध्यास्योद्वहेद् भार्यां सवर्णां लक्षणान्विताम् ।
कुले महति संभूतां हृद्यां रूपगुणान्विताम् ॥ ७.७७ ॥
मेधातिथिः ...{Loading}...
तद् गृहम् आश्रित्य भार्या तत्र सहायार्थं महतः कुलाद् उद्वोढव्या । एतत्संबन्धेन संरक्षणार्थम् । सवर्णाम् इत्यादाव् उच्यते तत् प्राक् प्रदर्शितम् । हृद्यां मनोरमां कान्तिलावण्ययुक्ताम् । रूपं संस्थानम् । गुणा वचनाचरणादयः101 । तैर् अन्वितां युक्ताम् ॥ ७.७७ ॥
पुरोहितं च कुर्वीत वृणुयाद् एव चर्त्विजः ।
ते ऽस्य गृह्याणि कर्माणि कुर्युर् वैतानिकानि च ॥ ७.७८ ॥
मेधातिथिः ...{Loading}...
सत्य् अपि द्वितीयानिर्देशे न प्राधान्यावगमे विवक्षितम् एवैकत्वम्, अन्यत्राप्य् उपादानात्, “यूपं छिनत्ति,” “भार्यां विन्देत” इतिवत् । ऋत्विजो वृणुयात् । तेषां च संख्या श्रुतित एवावगन्तव्या । गुणाश् च- “नातिस्थूलो नातिकृशः नातिदीर्घो नातिह्रस्वः नातिवृद्धो नातिबालः । सप्तपुरुषान् विद्यातपोभ्यां पुण्यैश् च कर्मभिः समनुष्ठितोभयभावान्102 । तान्103 प्रति नाब्राह्मण्यम् आशङ्क्यते, विद्वान् याजयति” इत्यादि । गृह्याणि कर्माणि शान्तिस्वस्त्ययनादीनि । वैतानिकानि वैहारिकाणि त्रेताग्निविषयाणि ॥ ७.७८ ॥
यजेत राजा क्रतुभिर् विविधैर् आप्तदक्षिणैः ।
धर्मार्थं चैव विप्रेभ्यो दद्याद् भोगान् धनानि च ॥ ७.७९ ॥
मेधातिथिः ...{Loading}...
आप्तदक्षिणैर् भूरिदक्षिणैः पौण्डरीकादिभिः । भोगान् धनानि च । वस्त्रगन्धविलेपनादयो भोजनविशेषाश् च भोगाः । धनानि सुवर्णादीनि । नित्यम् एव तद्दानम् इच्छन्ति । धर्मार्थं तस्योत्पत्त्यर्थम् एव ॥ ७.७९ ॥
सांवस्त्सरिकम् आप्तैश् च राष्ट्राद् आहारयेद् बलिम् ।
स्याच् चाम्न्यायपरो लोके वर्तेत पितृवन् नृषु ॥ ७.८० ॥
अध्यक्षान् विविधान् कुर्यात् तत्र तत्र विपश्चितः ।
ते ऽस्य सर्वाण्य् अवेक्षेरन् नॄणां कार्याणि कुर्वताम् ॥ ७.८१ ॥
मेधातिथिः ...{Loading}...
अध्यक्षा अधिकृताः प्रत्यवेक्षितारः, तान् कुर्यात् । विविधान् बहुप्रकारान् मृदून् उग्रान् धार्मिकान् अर्थार्जनपरांश् च । तत्र तत्र सुवर्णकोष्ठागारे पण्यकुप्यकर्मस्व् अधिकृताः106 प्रत्यवेक्षितारस् तान् शुल्कनौहस्त्यश्वरथपदात्यादीन् विपश्चितः स्थापयेत् । सर्व एते अमात्यगुणसंपद्य् उक्ता विज्ञेयाः । यथोक्तम् अध्यक्षप्रचारे “ते ऽध्यक्षाः सर्वाणि कार्याण्य् अवेक्षेरन्न् अन्येषां नृणां तत्स्थानोपयोगिनां कार्याणि कुर्वताम्, हस्त्यध्यक्षेण हस्तिपकाः, अश्वाध्यक्षेण तुरङ्गमाद्याः, गवाधक्षेण कर्षणादयः” ॥ ७.८१ ॥
आवृत्तानां गुरुकुलाद् विप्राणां पूजको भवेत् ।
नृपाणाम् अक्षयो ह्य् एष निधिर् ब्राह्मो ऽभिधीयते ॥ ७.८२ ॥
मेधातिथिः ...{Loading}...
गुरुकुले ऽधीतावगतवेदार्था गार्हस्थ्यं प्रतिपित्सवो धनेन पूजयितव्याः । इदम् अपि नैय्यमिकदानम् । अत एवाह नृपाणाम् अक्षय इति । नित्यत्वाद् अक्षयो यावज्जीविकः । काम्यत्वे चाफलभावि107 निवर्तते । यद् उक्तम् “सांतानिकं यक्ष्यमाणम्”108 (म्ध् ११.१) इति तद् एवेदम् ।
-
अन्ये त्व् आहुः । तत्रार्थिभ्यो दानं विहितम्, इह त्व् अनर्थिनाम् अधिकारात्, विधानमात्रया वस्त्रयुगादिदानेन च नराणां पूजा कर्तव्या । तथा चाह विप्राणां पूजको भवेद् इति ।
-
निधिर् इव निधिः, उत्तमफलत्वात् । ब्रह्मसंनिहितो ब्राह्मः ॥ ८.८२ ॥
न तं स्तेना न चामित्रा हरन्ति न च नश्यति ।
तस्माद् राज्ञा निधातव्यो ब्राह्मणेष्व् अक्षयो निधिः ॥ ७.८३ ॥
मेधातिथिः ...{Loading}...
ब्राह्मणेभ्यो यो ऽर्थो दत्तः, न तं स्तेना आटविकादयः अमित्राश् च शत्रवो हरन्ति । न भूमिष्ठम् इव विस्मृत्य प्रातिभाव्येन वा नश्यति ॥ ८.८३ ॥
न स्कन्दति न च्यवते[^१११]** न विनश्यति कर्हिचित् ।**
वरिष्ठम् अग्निहोत्रेभ्यो ब्राह्मणस्य मुखे हुतम् ॥ ७.८४ ॥
मेधातिथिः ...{Loading}...
एष एवार्थो ऽवश्यानुष्ठेयः प्रकारान्तरेण पुनर् उच्यते । अग्नौ यद् धूयते तत् कदाचित् स्कन्दति अधः पतति हूयमानम्, तथा च्यवते पुरोडाशादि क्षामतया । ततश् च कर्मवैगुणयाद् विनश्यति शिष्टानाम् । इदं तु यद् ब्राह्मणेभ्यो दानम्, न तस्यैते दोषाः सन्ति । अत एवाह वरिष्ठम् अग्निहोत्रेभ्यः, अग्नौ होमेभ्य इत्य् अर्थः । मुख्यार्थवृत्त्या कर्मनामधेयम् एवाग्निहोत्रशब्दस् तदा चादिग्रहणं व्याख्येयम् । मुखे हुतम् इति । पाणिर् एव ब्राह्मणस्य मुखम्, “पाण्यास्यो हि द्विजः स्मृतः” (म्ध् ४.११७) इत् वचनात् । वरिष्ठं श्रेष्ठम् । अर्थवादश् चायम्, न पुनर् होमनिन्दैव ॥ ८.८४ ॥
समम् अब्राह्मणे दानं द्विगुणं ब्राह्मणब्रुवे ।
आचार्ये शतसाहस्रम् अनन्तं वेदपारगे ॥ ७.८५ ॥
मेधातिथिः ...{Loading}...
विप्रेभ्य इति च प्रकृतम् ।
- तथा च प्राग् अप्य् उक्तम्- “वेदतत्त्वार्थविदुषे ब्राह्मणाय” (म्ध् ३.८६) इति । न च यथाश्रुतदानफलोपपत्तिः । कीदृशं हि तत्साम्यम्- जातितः परिमाणतः उपकारतो वा । यदि तावज् जातितस् तद् इति, औषधपानोद्देशेन देवलेभ्यो दत्तं खाद्यदानं दुःखायैव स्यात् । तिक्तकटुकषायाणि प्रायश औषधानि विरेचनीयानि,109 न प्रीतिजननानि । अथ पर्माणतः, तत्रापि यदि द्रव्यम् अनपेक्ष्य केवलपरिमाणसाम्यम्, सुवर्णं दत्तं तत्परिमाणं ताम्रं लभ्येत, अन्यद् वा मृत्काष्ठादि । अथ जातितः परिमाणतश् च, तत्र प्राग् उक्ता एव दोषाः । अथोपकारतः, तत्रापि हि यदि तज्जातीय एवोपकारः व्याधिनिवृत्तिर् औषधोपकारः । असति च व्याधौ फलस्य विनिवृत्तिः, अतो व्याधिनिवृत्तिफलकेनौषधदानेन व्याधिर् आक्षेप्तव्यः । सुसमं वा अन्यदुःखम् इति प्राप्तम् । तस्माद् यथा “निवीतं मनुष्याणाम् उपवीतं देवानाम् उपव्ययते देवलक्ष्मम् एव तत् कुरुते” (त्स् २.५.११.१) इत्य् उपव्यानविशेषान् निवीतादयो न पृथग् वाक्यानि, तथेदम् अपि द्रष्टव्यम् ।
- अत्रोच्यते । नात्राख्यातश्रवणम्110 अस्ति, सर्वेषां समत्वात् । तत्र यद्य् अर्थवादः, सहस्रं वेदपारगे इति तद् अर्थवादो ऽस्तु । अथायं विधिः, विध्यन्तरशेषभावात् सर्वत्र विधिर् अभ्युपेतव्यः, विशेषाभावात् । निवीतादिषु तु “उपव्यथते” इत्य् अत्राख्यातदर्शनात् तदर्थस्य विधिविषयत्वयोग्यत्वाभावाद् एकत्वावगमाच् च युक्तार्थवद् एव, तर्ह्य् अनुक्तो विशेषः । यत् तु “नाब्राह्मणेभ्यो दानम् अस्ति” इति, तद् विस्मृतं भवेत्, दीनानाथादिभ्यः सर्ववर्णेभ्यो दानस्य विहितत्वात् । एतान्य् एव च विधायकानि वाक्यानि ब्राह्मणेभ्यो राज्ञां दानस्य ।
-
यत् तूक्तं “यथाश्रुतफलानुपपत्तिः, सर्वप्रकारेणास्याभ्युपगम्यमानत्वात्” इति,
-
अत्रोच्यते । लौकिकीयं वाचोयुक्तिः समम् इति । यल् लोके नात्युत्कृष्टं तद् एवम् उच्यते, “समलवणाः सक्तवः” इति । उपकारापेक्षा च द्विगुणम् इति संख्याश्रुतिः, यावत् तस्योपकारस् तावद् द्विगुणो भवति । न तद्द्रव्यप्राप्तिर् नापि तज्जातीय एवोपकारः, किं तु प्रीत्यतिशयोत्पत्तिः । न चेह फलविशेषश्रुतिर् येनेयम् आशङ्कापि स्यात् “किं तद् एव द्रव्यं प्राप्येत उत स एवोपकारः” इति । अश्रुतफलविशेषेषु स्वर्गः फलम् । किं च, तिलादिदाने प्रजाप्तिः फलं श्रूयते । तत्र का द्रव्यसाम्याशङ्का । तस्माच् चायम् अप्य् अर्थ उत्तरोत्तरो ऽत्र च पात्रातिशयदानात् फलातिशयसिद्धिः । तथा चाह “पात्रस्य हि विशेषेण” (म्ध् ७.८६) इति ।
-
ब्राह्मणब्रुवे । ब्रुवशब्दः कुत्सायाम् । जातिमात्रब्राह्मणो ऽध्ययनादिगुणहीन इत्य् अर्थः । आचार्य उपनेता । वेदपारगः अध्ययनश्रवणाभ्यां वेदस्यान्तं गतः ॥ ७.८५ ॥
पात्रस्य हि विशेषेण श्रद्दधानतयैव च ।
अल्पं वा बहु वा प्रेत्य दानस्य फलम् अश्नुते ॥ ७.८६ ॥
मेधातिथिः ...{Loading}...
पातयते ऽधर्मकर्मणः,111 पात्यमानं वा त्रायत इति पात्रं संप्रदानम् । अथ वा घृततैलाद्याधारः पात्रम्, उपचाराद् इदम् अपि पात्रम् । अत्रापि हि द्रव्यं निधीयते । आह च “नृपाणाम् अक्षयो ह्य् एष निधिर् ब्राह्मो ऽभिधीयते” (म्ध् ७.८२) इति । तस्य विशेषो भेदः सगुणनिर्गुणत्वादिः । तेन हेतुना दानस्य फलम् अवाप्यते । अल्पं वा । गुणवते वृत्तस्वाध्यायसंपन्नाय दत्तं बहु, निर्गुणाय त्व् अल्पम् । तथा श्रद्दधानतयापि वा112 ।
प्रेत्येति । क्रियासमन्तरं फलोत्पत्तेर् अनियमम् आह, न पुनर् जन्मान्तरफलताम् एव, वैदिकानां कर्मणां फल एव कामस्य नियमावगमात् ॥ ७.८६ ॥
113देशकालविधानेन द्रव्यं श्रद्धासमन्वितम् ।
पात्रे प्रदीयते यत् तु तद् धर्मस्य प्रसाधनम् ॥ ७.८७.१ ॥ [मेधातिथिपाठे ऽधिकः।]
मेधातिथिः ...{Loading}...
तत्र देशः स्वनिवासदेशाद् अन्यो जानपदः । दूरदेशप्रोषितायां संनिहितत्वाद् दत्तम् अस्य हेतुर् उपघातः । यज्ञप्रवृत्तस्य केनचिद् अङ्गेन न्यूनता । (कालः ?) ग्रहोपराग इत्य् एवमादिः । विधानम् । उदकपूर्वकस्वस्तिवाचनसंस्कारतिशयो भावप्रसाद114 इत्यादि । द्रव्यं गोभूहिरण्यादि । श्रद्धा प्राप्त्यभिलाषातिशयः, कथम् इदं मे निवर्तेति बुद्धिसंतानः ।
समोत्तमाधमै राजा त्व् आहूतः पालयन् प्रजाः ।
न निवर्तेत संग्रामात् क्षात्रं धर्मम् अनुस्मरन् ॥ ७.८७ ॥
मेधातिथिः ...{Loading}...
सर्वोपायपरिक्षये राज्ञो विहितं युद्धम् । तत्र संग्रामभूमिगतस्याहूतस्य115 समन्यूनाधिकबलेनोपेक्षाप्रतिषेधार्थम्116 इदं पदम् । न मन्तव्यं निकृष्टबलं न हन्मीति ।
-
अथ वा ये शत्रव आटविकादयः प्राक्स्थितां मर्यादाम् अतिलङ्घ्य देशम् उत्क्रामन्ति, शत्रुभिर् वा राज्ञः संदधते, न चेत् ते युद्धेन विना नियन्तुं शक्यन्ते, तदा निकृष्टबलैर् अपि तैर् योद्धव्यम् एव । यद्य् अपि तैर् असौ शब्देन नाहूतः, वस्तुतस् त्व् आहूत एव भवति ।
-
एष हि क्षत्रियाणां धर्मः, यद् आहूतः प्रकृतैस् तैर् युद्धे सर्वेण सह योद्धव्यम् एव । जातिवयःशिक्षापुरुषकारादि नापेक्षितव्यम् । एष धर्मः स्मर्तव्यः ॥ ७.८७ ॥
संग्रामेष्व् अनिवर्त्तित्वं प्रजानां चैव पालनम् ।
शुश्रूषा ब्राह्मणानां च राज्ञां श्रेयस्करं परम् ॥ ७.८८ ॥
मेधातिथिः ...{Loading}...
त्रयाणां धर्माणां तुल्यफलत्वाय श्लोको ऽयम् ॥ ७.८८ ॥
आहवेषु मिथो ऽन्योन्यं जिघांसन्तो महीक्षितः ।
युध्यमानाः परं शक्त्या स्वर्गं यान्त्य् अपराङ्मुखाः ॥ ७.८९ ॥
मेधातिथिः ...{Loading}...
आहूयन्ते युद्धार्थम् इतरे यत्र वीराः स आहवः संग्रामः । मिथः स्पर्धमानाः । अन्योन्यं परस्परं जिघांसन्तो हननेच्छवः । युद्ध्यमानाः प्रहरन्तः । परं शक्त्या परया117 शक्त्या, यथाबलम् इत्य् अर्थः । छान्दसत्वात् “परया”118 इत्य् अस्य स्थाने “परम्” इति रूपम् । अपराङ्मुखाः युद्ध्यमानाः इति संबन्धः । स्वर्गं यान्ति ।
-
ननु च राज्यलोभात् प्रवृत्तानां दृष्टस्य फलस्य संभवात् कुतः स्वर्गः ।
-
उच्यते119 । “न कूटैर् आयुधैः” (म्ध् ७.९०) इत्यादिना वक्ष्यमाणयुद्धनियमापेक्षः स्वर्गः । न हि तेषां नियमानाम् अन्यत् प्रयोजनम् अस्ति । अथ वा निश्चिते पराजये निराशस्य यद् युद्धावतरणम्, तच् च स्वर्गायैव, त्यक्तराज्यस्यापि शक्तप्रणिपातेन तदनुजीवनसंभवात् । तस्माद् अर्हस् तत्फलसंभवः । अस्माद् एव वचनान् नात्मत्यागनिषेधस्य विषयो ऽयम् । [^१२३]
-
महीक्षितः मण्डलेश्वराः, न पुनस् तदनुजीविनः । तेषां हि स्वाम्यर्थैव प्रवृत्तिः, न स्वार्था । अतश् च कुतस् तेषां फलसंभवः, ऋत्विजाम् इव दक्षिणापणेन परिक्रीतानाम् । एवम् एषाम् अपि भृतिपरिक्रीतानां कुतः स्वर्गादिफलोत्पत्तिः ।
-
ननु च अविशेषेणैतद् उक्तम्-
-
उद्यतैर् आहवे शस्त्रैः क्षत्रधर्महतस्य च ।
-
सद्यः संतिष्ठते यज्ञः ॥ इति । (म्ध् ५.९७ )
तथा-
-
द्वाव् इमौ पुरुषौ लोके सूर्यमण्डलभेदिनौ ।
-
परिव्राड् योगयुक्तश् च शूरश् चाभिमुखो हतः ॥ इति । (प्स्म् ३.३०)
तथा भारते युद्धप्रेक्षिणाम् अपि स्वर्गः संदर्शितः । मन्त्रलिङ्गानि च सन्ति-
-
ये युध्यन्ते प्रधनेषु शूरसो ये तनुत्यजः ।
-
ये वा सहस्रदक्षिणास् तांश् चिद् एवापि120 गच्छतात् ॥
सहस्रदक्षिणानां यजमानानां शूराणां च रणशिरसि त्यक्तप्राणानां महाफलत्वं दर्शयन्ति-121 “ये युध्यन्ते” । न च मरणायैव क्रियन्ते122 । न हि संपरिग्रहकाले ऽयम् उपसंवादो ऽस्ति यथा होत्रोद्गात्रादीनां स्वप्रवचनसमाख्यानियतार्त्विज्यपदार्थानुष्ठानायैव वरणम् । तस्मात् प्रभुकार्योद्देशेन यन् मरणं तद् अनुक्रान्तफलायैव । न च परप्रयुक्तात् कर्मणो ऽन्यस्य फलं नास्ति । अश्वमेधावभृथे हि ब्रह्मघ्नस्य स्नानाद् अयजमानस्यैव शुद्धिः ।
- अत्रोच्यते । प्रजार्थे युद्धे प्राणत्यागो धर्मायैव123 । यद् उक्तम् “उद्यतैर् आहवे” (म्ध् ५.९७) इति, तदा भृतिपरिक्रीतस्यास्वतन्त्रस्य,124 यस्य वा “कुरु125 प्रयाणं रणे” इत्य् एव परिकरो बद्धस् तदपेक्षं एतत् यज्ञसंस्थावचनम् । एवंभूतश् च “अभिमुखो हतः” (प्स्म् ३.३०) इति ।
-
अथ वा नरकाभाव एव “सूर्यमण्डलभेदनम्” युद्ध्यमानस्य भविष्यति । यत्र विषयान्तरेश्वरेण राज्ञा परस्य राज्ञो विषयो हन्यते भज्यते जनो लुप्येत् तत्र तदर्थं युद्धे प्राणत्यागो धर्मार्थः । अन्धतमो हि नरके तदभावात् सति प्राकाश्ये सूर्यमण्डलभेदनवचनम् । सूर्यमण्डलं भिनत्ति, उपरिष्टाल् लोकान् आप्नोति, नाधःप्रपततीत्य् अर्थः । भृतिपरिक्रीतस्य प्रभोः संग्रामे समुपस्थिते, तम् एव जहतो नरकनिपतनम्, तदर्थं युध्यमानस्य भर्तृपिण्डानृण्यं गतवतो दुष्कृतेनाप्रतिबध्यमानस्य स्वैः सुकृतैर् युक्त एव स्वर्गादिलाभः । अत उक्तम् “सद्यः संतिष्ठते यज्ञः” (म्ध् ५.९७) इति । अव्यवधानेन यज्ञफलम् अविशेषश्रुतौ स्वर्गम् अवाप्नोतीत्य् अर्थः । एवं भारते ऽपि भृतिपरिक्रीतानां स्वर्गफलावाप्तिवचनम् उपपद्यते । युद्धप्रेक्षिणां तु स्वर्गावाप्तिर् अर्थवाद एव । अथ वा बहुषु जीवनोपायेषु सत्सु यच् छस्त्रेण जीवनं ततो नियमात् स्वर्गः ।
-
यत् तु न मरणाय क्रीयन्त इति, शस्त्रभृतां भृतिदाने नान्यद् युद्धात् प्रयोजनम् अस्ति, विशेषानुपदेशात् — सर्वकार्योद्यताः सर्वप्रकारं मदर्थः संपादनीय इति परिक्रीयन्ते — तत्र यदा युद्धम् उपस्थितं भवति, तदा आ शरीरपातात् प्रभोर् अर्थः कर्तव्यः, तथानृण्यं भवति । अनुपस्थिते तु युद्धे यदि भृत्यस्य मरणं भवति, तदा सर्वे ऽनृणा एव । उद्युक्ते ह्य् असौ तत्कार्ये तादृश एवास्योपसंवादः । युद्धकाले योद्धव्यं भवतीति लिङ्गदर्शनम् अपि तूपपद्यत एव ।
-
अश्वमेधावभृते तु स्पष्टं वचनं “तस्मात् समागमे तेषाम्” (म्ध् ११.८२) इति । इह तु युद्धसाध्यम् इति विशेषः ॥ ७.८९ ॥
तान् इदानीम् अदृष्टार्थान् नियमान् दर्शयति ।
न कूटैर् आयुधैर् हन्याद् युध्यमानो रणे रिपून् ।
न कर्णिभिर् नापि दिग्धैर् नाग्निज्वलिततेजनैः ॥ ७.९० ॥
मेधातिथिः ...{Loading}...
कूटानि यानि बहिःकाष्ठमयान्य् अन्तर्निशितशस्त्राणि । कर्णिनः । शरा ये शल्यस्य मूले मध्ये वा कर्णाकारैः फलकैः क्रियन्ते । ते हि प्रविष्टा दुरुद्धरा भवन्ति, उद्ध्रियमाणाः प्रहारैर् अभिन्नम् अपि शरिरैकदेशं भिन्दन्ति । दिग्धाः विषोपलिप्ताः । अग्निना ज्वलितम् आदीपितं तेजोमयफलकं येषाम् । एतैर् न योद्धव्यम् ॥ ७.९० ॥
न च हन्यात् स्थालारूढं न क्लीबं न कृताञ्जलिम् ।
न मुक्तकेशं नासीनं न तवास्मीति वादिनम् ॥ ७.९१ ॥
मेधातिथिः ...{Loading}...
रथस्थेन रथारूढ एव हन्तव्यः, स्थलस्थितो न हन्तव्यः । क्लीबो नपुंसकः, पौरुषहीनो वा । अन्यत्र दृढ आसीन उपविष्टो रथपृष्ठे भूमौ वा । तवास्मीति वदति यस् तम् अपि न हन्यात् । शब्दनियमो ऽत्र न विवक्षितः । दीनं वदन्न् एवंजातीयकैर् अपि शब्दैः “त्वदीयो ऽहम्, त्वाम् आश्रितो ऽस्मि” इति न हन्तव्यः ॥ ७.९१ ॥
न सुप्तं न विसन्नाहं न नग्नं न निरायुधम् ।
नायुद्यमानं पश्यन्तं न परेण समागतम् ॥ ७.९२ ॥
मेधातिथिः ...{Loading}...
न नग्नम् । “न भग्नम्” इति वा पाठः । विसन्नाहस्य प्रतिषेधान् नग्नस्य प्राप्तिर् एव नास्ति । तेन शिरस्त्राणाद्यभावेनैकदेशेन नग्नतया नग्नो द्रष्टव्यः । भगस्यापि परावृत्तप्रतिषेधात् संमुखस्थो ऽपि, “त्वया सह न युध्येयम्” इति वक्ति, स नानुबन्धनीयो ऽवश्यं योद्धव्यम् इति । नायुध्यमानं पश्यन्तं । यः प्रेक्षक एव केवलः स न हन्तव्यः । यस् तु प्रेक्षते युध्यते च, न तत्र प्रतिषेधः । परेण समागतः । अन्येन सह युध्यमानो ऽन्येन न हन्तव्यः ॥ ७.९२ ॥
नायुधव्यसनप्राप्तं नार्तं नातिपरिक्षतम् ।
न भीतं न परावृत्तं सतां धर्मम् अनुस्मरन् ॥ ७.९३ ॥
मेधातिथिः ...{Loading}...
आयुधव्यसनम् आयुधकृच्छ्रम् आयुधभङ्गः, कुण्डलिभावः खड्गस्य, ज्याछेद इत्य् एवमादिः, तं प्राप्तम् । आर्तः हतपुत्रभ्रात्रादिः । भीतं मुखरागादिना विज्ञाय, शस्त्रसंमुखम् अपि । परावृत्तं प्रत्यावृत्य स्थितम् । एते नियमाः । प्रतिषेधपक्षे126 प्रत्यवायः । तदा च स्वर्गप्राप्तिवचनम् अर्थवादः । किं पुनर् अत्र युक्तम् । पुरुषार्थः प्रतिषेधः, “न कलञ्जं भक्षयेत्” इतिवत् । तथा हि नञो मुख्यार्थवृत्तिता भवति । सतां धर्मम् इति । शिष्टानाम् एष आचार इत्य् आह अनुस्मरन्न् इति ॥ ७.९३ ॥
यस् तु भीतः परावृत्तः संग्रामे हन्यते परैः ।
भर्तुर् यद् दुष्कृतं किंचित् तत् सर्वं प्रतिपद्यते ॥ ७.९४ ॥
मेधातिथिः ...{Loading}...
नैवं मन्तव्यम्- परावृत्तो यदि हन्यते तदा, दुष्कृती, अहतस्127 तु नेति । किं तर्हि, परावृत्तमात्रनिबन्धनं दोषवचनम् । किं च, न परावृत्तहतेनेयं बुद्धिः कर्तव्या “अनुभूतखड्गप्रहारो ऽस्म्य् अनृणः कृतभर्तृकृत्यः” इति । तथाविधाः प्रहारा न कस्मैचिद् अर्थायेति दोषातिशयदर्शनेन दर्शयति भर्तृसंबन्धिदुष्कृतम् इति । यच् च वचनम् उत्तरत्र तदीयसुकृतग्रहणम् इति, तद् अर्थवादः । न ह्य् अन्येन कृतं शुभम् अशुभं वान्यस्य संभवति । न च सुकृतस्य नाशः । किं तु महता दुष्कृतेन प्रतिबन्धे चिरकालभाविता सुकृतस्य फलस्योच्यते ॥ ७.९४ ॥
यच् चास्य सुकृतं किंचिद् अमुत्रार्थम् उपार्जितम् ।
भर्ता तत् सर्वम् आदत्ते परावृत्तहतस्य तु ॥ ७.९५ ॥
मेधातिथिः ...{Loading}...
यच् चास्य सुकृतं किंचिद् भर्ता तत् सर्वम् आदत्त इति । अमुत्रार्थम् उपार्जितम् । अर्थो ऽस्यास्तीत्य् अर्थः । अर्श आदित्वाच् अच् । अमुत्रामुष्मिंल् लोके यत् प्रयोजनं तद् अर्जितं तद् अस्य निष्फलं भवति । अमुत्रार्थो ऽस्येति वा अमुत्रार्थम् । व्यधिकरणो बहुव्रीहिः, गमकत्वात् प्रयोजकत्वाच्128 च ॥ ७.९५ ॥
रथाश्वं हस्तिनं छत्रं धनं धान्यं पशून् स्त्रियः ।
सर्वद्रव्याणि कुप्यं च यो यज् जयति तस्य तत् ॥ ७.९६ ॥
मेधातिथिः ...{Loading}...
कुप्यं शयनासने ताम्रभाजनादि । यो यज् जयति तस्य तत् । राज्ञः स्वामित्वाद् ग्रहणे प्राप्ते तदपवादार्थम् एतत् । सुवर्णरूप्यभूम्यावासकादि राज्ञ एव । एवमर्थं परिगणनम् । आयुधसंवाहनादि राज्ञ एव । धान्यादीनां पृथगुपादानाद् धनशब्देन गोमहिष्यादिकम् उच्यते । तथा राजधनं चार्धम् इति प्रयुञ्जते129 ॥ ७.९६ ॥
राज्ञश् च दद्युर् उद्धारम् इत्य् एषा वैदिकी श्रुतिः ।
राज्ञा च सर्वयोधेभ्यो दातव्यम् अपृथग्जितम् ॥ ७.९७ ॥
मेधातिथिः ...{Loading}...
येन यज् जितं तेन तद् ग्रहीतव्यम् इत्य् अस्यायं विशेष उच्यते । स्वयम् उद्धारं राज्ञे दद्युर् उत्तमद्रव्यम् उद्धृत्य दद्युर् इत्य् अर्थः । न सर्वं तैर् ग्रहीतव्यम् । इति एषा वैदिकी श्रुतिः । “इन्द्रो वै वृत्रं हत्वा” इत्याद्य् उपक्रम्य “स महान् भूत्वा देवता अब्रवीद् उद्धारं म उद्धरत” (ऐत्ब् १२.१०) इति । राज्ञा वा, पृथग्जये स्वयंजये130 यत्रायं विभागो नास्ति “अनेनायं ग्रामो जितः, एष च परकीयः सामन्तादिः”, सर्वेण सर्व उत्खातमूलः सकृत्कृतः, तत्र राज्ञा लब्धप्रशमनन्यायेन भृत्याः संविभजनीयाः ॥ ७.९७ ॥
एषो ऽनुपस्कृतः प्रोक्तो योधधर्मः सनातनः ।
अस्माद् धर्मान् न च्यवेत क्षत्रियो घ्नन् रणे रिपून् ॥ ७.९८ ॥
मेधातिथिः ...{Loading}...
उपसंहारो ऽयम् । योधा योद्धारः, तेषां धर्मो योधधर्मः । अनुपस्कृतः अगर्हितः, अविक्र्तो वा । अत एवाह सनातनः । स्वेच्छया प्रवर्तितो विकृतः स्यात् । न च्यवेत न चलेत,131 सर्वदानुतिष्ठेत् । क्षत्रियग्रहणं मुख्यस् तस्यात्राधिकार इति दर्शयितुम्, न त्व् अन्यस्य तत्स्थानापन्नस्य नायं धर्म इति ॥ ७.९८ ॥
अलब्धं चैव लिप्सेत लब्धं रक्षेत् प्रयत्नतः ।
रक्षितं वर्धयेच् चैव वृद्धं पात्रेषु निक्षिपेत् ॥ ७.९९ ॥
मेधातिथिः ...{Loading}...
न क्षत्रियः संतुष्टः स्याद् ब्राह्मणवत्, किं त्व् अलब्धार्जने यत्नं कुर्यात् । अर्जितं च धनं रक्षेत् । रक्षितं च वर्धयेत् । कोशसंचयं कुर्यात् । ततः पात्रेभ्यो दद्यात् । न यथायं व्ययं132 कुर्यात् । तद् उक्तम् “आयाद् अल्पतरो व्ययः” (म्स्सं ५०६४) इति ॥ ७.९९ ॥
एतच् चतुर्विधं विद्यात् पुरुषार्थप्रयोजनम् ।
अस्य नित्यम् अनुष्ठानं सम्यक् कुर्याद् अतन्द्रितः ॥ ७.१०० ॥
मेधातिथिः ...{Loading}...
पुरुषस्य ये ऽर्थास् तेषाम् प्रयोजनं चतुर्विधम् । चतस्र एताः क्रियास् तत्र प्रयोज्याः- अर्जनरक्षणवर्धनदानानि । उपकारवचनो ऽर्थशब्दः । पुरुषार्थसिद्ध्यर्थम् एतत् प्रयोजनम् । तस्य चतुर्विधस्य प्रसक्तस्य नित्यम् अनुष्ठानं कुर्यात् ॥ ७.१००–०१ ॥
अलब्धम् इच्छेद् दण्डेन लब्धं रक्षेद् अवेक्षया ।
रक्षितं वर्धयेद् वृद्ध्या वृद्धं पात्रेषु निक्षिपेत् ॥ ७.१०१ ॥
मेधातिथिः ...{Loading}...
नित्यम् उद्यतदण्डः स्यान् नित्यं विवृतपौरुषः ।
नित्यं संवृतसंवार्यो नित्यं छिद्रानुसार्य् अरेः ॥ ७.१०२ ॥
मेधातिथिः ...{Loading}...
उद्यतो दण्डो ऽनेनेत्य् उद्यतदण्डः । उद्यत उद्युक्तः, सव्यापार इति यावत् । तत्र हस्त्यादिबलं नित्यं योग्याभिर् अभिविनयेत् । शिक्षा वाहनदमनादिभिर् विधेया । करणयोग्या अभ्यासाश् च । तद्वाहनादिषु वस्त्राभरणसंस्कार इत्यादिर् उद्यतदण्डता । तथा कुर्वतो ऽस्योत्साहशक्तियोगो मण्डले प्रकाशीभवति । तथा नित्यं विवृतपौरुषः । विवृतं प्रकाशताम् आगतं पौरुषं कर्तव्यम् । संधिपालाटवीस्थानादिष्व् आप्तपुरुषैर् अधिष्ठिताः संनिरुद्धाः कवचिनः सततं जागरणार्थं नियोज्याः । नित्यं संवृतसंवार्यः । संवरणीयं संगोपनीयम् आत्मगतं कृत्वा तत्स्थानं संवृतं कर्तव्यम् उपग्रहेण परोपजापरक्षणेन च । नित्यं छिद्रानुसरणेन, सर्वं शत्रोः कृत्यपक्षं ज्ञात्वा झट् इति तद् उपजापः ॥ ७.१०२ ॥
नित्यम् उद्यतदण्डस्य कृत्स्नम् उद्विजते जगत् ।
तस्मात् सर्वाणि भूतानि दण्डेनैव प्रसाधयेत् ॥ ७.१०३ ॥
मेधातिथिः ...{Loading}...
अनन्तरस्य फलम् । सर्वं जगद् उद्विजते बिभेति । प्रतापख्यातिर् भवति चेति । तस्मात् सर्वाणि भूतानि स्वप्रकृतीः परांश् च दण्डेनैव प्रसाधयेत् । एवं यत्नवतो भीताः शत्रवो नमन्त्य् अयत्नेनैव ॥ ७.१०३ ॥
अमाययैव वर्तेत न कथंचन मायया ।
बुध्येतारिप्रयुक्तां च मायां नित्यं सुसंवृतः ॥ ७.१०४ ॥
मेधातिथिः ...{Loading}...
माया छद्म, तेन न वर्तेत । अविश्वसनीयस् तथा स्यात् । न च परप्रकृतीर् अज्ञातरूपा उपजपेत् । अरिणा प्रयुक्तां च मायां यथावद् बुध्येत । बुद्ध्या ज्ञात्वोपजापं कुर्यात् ।
-
तत्र कृत्यपक्षश् चतुर्विधः । क्रुद्धलुब्धभीतावमानितैः ।
-
तत्र येन कृतं शिल्पं किंचिद् उपकारो वा दर्शितः, तौ विप्रलभ्येते प्रसादेन नियोज्येते अवमन्येते वा । तदर्थो ऽपि तत्समानः शिल्पोपकारी क्रुध्यति, “नास्यास्मदीयं शिल्पम् उपकारो वोपयुज्यते,” तादृशा उपजापसहा भवन्ति । तथा वाल्लभ्येनोपगृहीतः, पश्चान् मानाधिकाराभ्यां भ्रष्टः, प्रवासितबन्धुतद्वल्लभः प्रसभम् अभिपूज्य स्वीकृतः, सकुल्यैर् अन्तर्हितः, सर्वस्वम् आहारितस् तत्समानकर्मविद्यो ऽन्यः पूज्यते सो ऽवधीर्यते इत्य् एवमादिः133 क्रुद्धः ।
- केनचित् कृतं पैशुन्यं तत्समानदोषेभ्यो दण्डितम् अन्तर्भ्रमदण्दपाताः सर्वाधिकारस्थाः सहसोपचितार्था इत्यादिर्134 लुब्धवर्गः ।
-
परिक्षीणः कदर्यो व्यसनी बहुऋण इत्यादिर् भीतवर्गः ।
-
आत्मसंभावितः शत्रुपूजाम् अर्थितः नीचैर् उपहतः तीक्ष्णः साहसिको भोगेनासंतुष्ट इत्येवमादिर् अवमानितवर्गः ।
-
एतत् परस्योपजपेत् आत्मनश् च रक्षेत् ॥ ७.१०४ ॥
नास्य छिद्रं परो विद्याद् विद्याच् छिद्रं परस्य च ।
गूहेत् कूर्म इवाङ्गानि रक्षेद् विवरम् आत्मनः ॥ ७.१०५ ॥
मेधातिथिः ...{Loading}...
एष एवार्थः पुनर् उच्यते । तथा यत्नातिशयं कुर्याद् यथा परस्य छिद्रम् अन्विच्छेद् आत्मनश् च रक्षेत् । य एवं क्रुद्धादिः कापटिकादिचारपुरुषैर् ज्ञायते स एवात्मीयो ऽनुनीयत इति । कूर्मवद् अङ्गं गूहेद् रक्षेद् विवरम् आत्मनः । परोपजापात् स्वच्छिद्ररक्षणं महाप्रयोजनम् इत्य् एतद् अनेनाह ॥ ७.१०५ ॥
बकवच् चिन्तयेद् अर्थान् सिंहवच् च पराक्रमेत् ।
वृकवच् चावलुम्पेत शशवच् च विनिष्पतेत् ॥ ७.१०६ ॥
मेधातिथिः ...{Loading}...
यथा अप्सु दुर्गाश्रयम् अपि मत्स्यबलं स्वभावतस् तद्ग्रहणार्थं बकः पर्युदासनपरतया तद्ग्रहणोपायं ध्यानादियोगाद् आसादयति, एवम् अर्थचिन्ताभियोगातिशयेन सुदुष्प्रापा अप्य् अर्था आसाद्यन्त इति मत्वा[^१३९]
न निर्वेदं गच्छेत् । यथा च शशो ऽल्पकायत्वाच् छक्नोति निष्पतितुम् उपरि संघाद् अपि, तथा एको ऽप्य् असहायः सर्वतः समुत्थितसामन्तप्रकोपो ऽशक्तो ऽवस्थातुं दुर्गे ऽरिसंपातं कृत्वा तस्माद् विनिष्पतेद् गुणवति संश्रयार्थम् । यथा च वृकः पशुग्रहणाभियोगाद् पालप्रमादम्135 आसाद्यावलुम्पते, एवं स्वारक्षापर इति मत्वा तद्ग्रहणाभियोगो न मोक्तव्यः, भविष्यति स कालो यत्रायं वृकवद् अवलुंपिष्यते । यथा सिंहो महाकायान् अपि हस्त्यादीन् हन्ति पराक्रमोत्साहशक्तियोगात्, एवं महद् अरिबलम् इति न भेतव्यम्, अल्पप्राणेनापि कदाचिद् उत्साहवता महाप्राणो निहन्यत इति ॥ ७.१०६ ॥
एवं विजयमानस्य ये ऽस्य स्युः परिपन्थिनः ।
तान् आनयेद् वशं सर्वान् सामादिभिर् उपक्रमैः ॥ ७.१०७ ॥
मेधातिथिः ...{Loading}...
ये परिपन्थिनः प्रतिपक्षतया वर्तन्ते ते वशम् आनेतव्याः, न त्व् आनुकूल्येन ये वर्तन्ते । ते ऽपि सामादिभिः पूर्वम्, न प्रथमत एव दण्डेन ॥ ७.१०७ ॥
यति ते तु न तिष्ठेयुर् उपायैः प्रथमैस् त्रिभिः ।
दण्डेनैव प्रसह्यैतांश् छनकैर् वशम् आनयेत् ॥ ७.१०८ ॥
मेधातिथिः ...{Loading}...
सामादिभिर् अशक्या दण्डेन वशम् आनेतव्या इति यद् उक्तं तद् इद । दण्डेन प्रसह्य अभिभूय शनकैर् यादृशो दण्डोपक्रमस् तेन, न साहसिकतया ॥ ७.१०८ ॥
सामादीनाम् उपायानां चतुर्णाम् अपि पण्डिताः ।
सामदण्डौ प्रशंसन्ति नित्यं राष्ट्राभिवृद्धये ॥ ७.१०९ ॥
मेधातिथिः ...{Loading}...
वक्ष्यमाणानां सामादीनाम् उपायानां सामदण्डौ निगद्येते प्रशस्यतया । सति साम्नि क्षिप्रं कंपो न भवति । दण्डे तु सर्वसिद्धिः ॥ ७.१०९ ॥
यथोद्धरति निर्दाता कक्षं धान्यं च रक्षति ।
तथा रक्षेन् नृपो राष्ट्रं हन्याच् च परिपन्थिनः ॥ ७.११० ॥
मेधातिथिः ...{Loading}...
ये राजानम् अभिद्रुह्यन्ति तेषां ये सुहृद्बान्धवाः संबन्धोपसर्पिणो वा, न ते विनाशयितव्याः, यदि न तत्कार्याभ्यन्तराः । य एव दुष्टास् त एव निग्राह्याः, न तत्संबन्धिन इत्य् एतन् निर्दातृदृष्टान्तेन प्रतिपाद्यते । यथा धान्यकक्षयोः सहोत्पन्नयोर् अत्यन्तसहितयोर् अपि नैपुण्येन धान्यं रक्षति कक्षम् उद्धरति, एवं स्वराष्ट्रे याव् अत्यन्तसुहृदाव्136 अपि, तयोर् दोषवान् यः स एव निग्राःयः, न यः सुसङ्गतो ऽपि । अतः साध्वसाधुविवेकेन साधवो तक्ष्या असाधवो निग्राह्याः ॥ ७.११० ॥
मोहाद् राजा स्वराष्ट्रं यः कर्शयत्य् अनवेक्षया ।
सो ऽचिराद् भ्रश्यते राज्याज् जीविताच् च सबान्धवः ॥ ७.१११ ॥
मेधातिथिः ...{Loading}...
यस् तु राजा पूर्वोक्तविवेकम् अकृत्वा मोहेनानवेक्षया स्वराष्ट्रं कर्शयति स दण्डैः सह137 भ्रश्यत्य् अचिराद् राज्याज् जनपदाननुरागेण प्रकृतिकोपेन जीविताच् च । साहसिकैर् एकाकिभिर् अपि जीवितनिरपेक्षैर् हन्यते ॥ ७.१११ ॥
शरीरकर्षणात् प्राणाः क्षीयन्ते प्राणिनां यथा ।
तथा राज्ञाम् अपि प्राणाः क्षीयन्ते राष्ट्रकर्षणात् ॥ ७.११२ ॥
मेधातिथिः ...{Loading}...
स्वराष्ट्रे ऽत्यन्तम् अवहितेनानुराग उत्पादनीयः । तद् धि शरीरस्थानीयम् । शरीरे कर्शिते ऽपथ्यभोजनरुक्षभोजनादिभिर् यथा प्राणा उत्क्रामन्ति, एवं राष्ट्रकर्शनाद् अपि ॥ ७.११२ ॥
राष्ट्रस्य संग्रहे नित्यं विधानम् इदम् आचरेत् ।
सुसंगृहीतराष्ट्रो हि पार्थिवः सुखम् एधते ॥ ७.११३ ॥
मेधातिथिः ...{Loading}...
संग्रहो रक्षाविधानम्138 । सुसंगृहीतं रक्षाविधानेन वशीकृतं परिपालितं वा येन स्वराष्ट्रं स पार्थिवः सुखम् एधते ॥ ७.११३ ॥
द्वयोस् त्रयाणां पञ्चानां मध्ये गुल्मम् अधिष्ठितम् ।
तथा ग्रामशतानां च कुर्याद् राष्ट्रस्य संग्रहम् ॥ ७.११४ ॥
ग्रामस्याधिपतिं कुर्याद् दशग्रामपतिं तथा ।
विंशतीशं शतेषं च सहस्रपतिम् एव च ॥ ७.११५ ॥
मेधातिथिः ...{Loading}...
एकैकस्मिन् ग्रामे ऽधिपतिं कुर्यात् । तदुपरि दशग्रामपतिम् । एवं सर्वत्र ॥ ७.११५ ॥
ग्रामदोषान् समुत्पन्नान् ग्रामिकः शनकैः स्वयम् ।
शंसेद् ग्रामदशेशाय दशेशो विंशतीशिने ॥ ७.११६ ॥
मेधातिथिः ...{Loading}...
विंशतीशस् तु तत् सर्वं शतेशाय निवेदयेत् ।
शंसेद् ग्रामशतेशस् तु सहस्रपतये स्वयम् ॥ ७.११७ ॥
मेधातिथिः ...{Loading}...
ये ग्रामदोषा एकग्रामाधिकृतेन न शक्यन्ते समाधातुम्, तान् दशेशाय निवेदयेत् । एवम् अशक्तौ यावत् सहस्रपतिर् विज्ञाप्यः ॥ ७.११६–१७ ॥
यानि राजप्रदेयानि प्रत्यहं ग्रामवासिभिः ।
अन्नपानेन्धनादीनि ग्रामिकस् तान्य् अवाप्नुयात् ॥ ७.११८ ॥
मेधातिथिः ...{Loading}...
एकाग्रामाधिकृतस्य वृत्तिर् इयम् । ग्रामिको ग्रामाधिकृतस् तान्य् अवाप्नुयाद् गृह्णीयात्,141 वृत्त्यर्थं राज्ञे प्रदातव्यानि ग्रामवासिभिः । अन्नादीनि तु धान्यादेः षष्ठाष्टमभागादिः । यथा वक्षति “धान्ये ऽष्टमं विषाम्” (म्ध् १०.१२०) इत्यादि ॥ ७.११८ ॥
दशी कुलं तु भुञ्जीत विंशी पञ्च कुलानि च ।
ग्रामं ग्रामशताध्यक्षः सहस्राधिपतिः पुरम् ॥ ७.११९ ॥
मेधातिथिः ...{Loading}...
दशसु ग्रामेष्व् अधिकृतो दशी । एवं विंशी । छान्दसः शब्दसंस्कारः । कुलं ग्रामैकदेशः, क्वचिद् हट्ट इति प्रसिद्धः क्वचिद् उष्ट इति । एतद् एव पञ्चगुणं विंशतिग्रामेष्व् अधिकृतः । सर्वं ग्रामशताध्यक्षः । पुरं नगरं सहस्रेशः । स्थानकर्मानुरूपेण वृत्तिं कल्पेतेत्य् एतत् सत्यम् ॥ ७.११९ ॥
तेषां ग्राम्याणि कार्याणि पृथक्कार्याणि चैव हि ।
राज्ञो ऽन्यः सविचः स्निग्धस् तानि पश्येद् अतन्द्रितः ॥ ७.१२० ॥
मेधातिथिः ...{Loading}...
तेषां ग्रामकार्येष्व् इतरेतरं विप्रतिपत्तिः । अन्यः स्वकार्ये ऽन्यः सचिवो महत्तमः स्निग्धो रागद्वेषवर्जितो दर्शनाय नियोक्तव्यः ॥ ७.१२० ॥
नगरे नगरे चैकं कुर्यात् सर्वार्थचिन्तकम् ।
उच्चैःस्थानं घोररूपं नक्षत्राणाम् इव ग्रहम् ॥ ७.१२१ ॥
मेधातिथिः ...{Loading}...
उच्चैःस्थानं प्रधानभूतम् इत्य् अर्थः । घोररूपं प्रतापवन्तम् । नक्षत्राणाम् इव ग्रहं अंगारकम्, हस्त्यश्वादिबलसंपन्नम् ॥ ७.१२१ ॥
स तान् अनुपरिक्रामेत् सर्वान् एव सदा स्वयम् ।
तेषां वृत्तं परिणयेत् सम्यग् राष्ट्रेषु तच्चरैः ॥ ७.१२२ ॥
**राज्ञो हि रक्षाधिकृताः परस्वादायिनः शठाः । **
भृत्या भवन्ति प्रायेण तेभ्यो रक्षेद् इमाः प्रजाः ॥ ७.१२३ ॥
मेधातिथिः ...{Loading}...
परस्वम् आदातुं शीलं येषां ते परस्वादायिनः शठाः असम्यक्कारिणः प्रायेणाधिकृताः सन्तो भवन्ति । प्राक् शुचयो ऽपि रक्षन्ति144 वित्तानि । अतः प्राक्शुचित्वानुमानेन नोपेक्षणीयाः, यत्नतः प्रतिजागरितव्याः । **तेभ्यो रक्षेद् इमाः प्रजाः **। न केवलं राजार्थनाशः अनवेक्षया, यावत् प्रजा अपि निर्धनीकुर्वन्ति ॥ ७.१२३ ॥
ये कार्यिकेभ्यो ऽर्थम् एव गृह्णीयुः पापचेतसः ।
तेषां सर्वस्वम् आदाय राजा कुर्यात् प्रवासनम् ॥ ७.१२४ ॥
मेधातिथिः ...{Loading}...
ये रक्षाधिकृताः कार्यिकेभ्यो व्यवहर्तृभ्यो व्यापारवद्भ्यो145 हललेशोद्देशिकया दण्डयन्ति जनपदान्, तेषां सर्वस्वहरणप्रवासने राजा कुर्यात् ॥ ७.१२४ ॥
राजकर्मसु युक्तानां स्त्रीणां प्रेष्यजनस्य च ।
प्रत्यहं कल्पयेद् वृत्तिं स्थानकर्मानुरूपतः ॥ ७.१२५ ॥
मेधातिथिः ...{Loading}...
युक्तानां नियुक्तानां स्त्रीणाम् अन्तःपुरदास्यादीनाम् । प्रेष्यजनस्य दोलकवाहादेः । प्रत्यहं वृत्तिं कल्पयेत्, न सांवत्स्रीयं सकृद् दद्याद् ग्रामं तद् एकदेशं वा । स्थानकर्मानुरूपतः । स्थानं प्रधानं नियोगः शय्यारक्षादि, कर्म शरीरव्यापारः, तद्अनुरूपेण वृत्तिर् देया । प्रधाने स्थाने स्वल्पे ऽपि कर्मणि महती वृत्तिः, निकृष्टे स्थाने महत्य् अपि कर्मणि स्वल्पेत्येतद्146 उभयानुरूपम् ॥ ७.१२५ ॥
पणो देयो ऽवकृष्टस्य षड् उत्कृष्टस्य वेतनम् ।
षाण्मासिकस् तथाच्छादो धान्यद्रोणस् तु मासिकः ॥ ७.१२६ ॥
मेधातिथिः ...{Loading}...
अवकृष्टः संमार्जनशोधनविनियुक्तः, तस्य भक्तार्थं पणो देयः । उत्कृष्टस्य षट्सु षट्सु मासेषु गतेष्व् आच्छादवस्त्रम् । धान्यद्रोणश् च मासिकः । चतुराढको द्रोणः । पणपरिमाणं वक्ष्यति (म्ध् ८.१३६) । वृत्तिकल्पनार्था एते ॥ ७.१२६ ॥
क्रयविक्रयम् अध्वानं भक्तं च सपरिव्ययम् ।
योगक्षेमं च संप्रेक्ष्य वणिजो दापयेत् करान् ॥ ७.१२७ ॥
मेधातिथिः ...{Loading}...
करग्रहणविधिः । कियता मूल्येन क्रीतम् एतत्, कियच् च विक्रीयमाणं लभते, कियता च कालेन विक्रीयते, कियत्प्रतिभावेन नश्यति, अथ न — इत्येवमादिरूपक्रयविक्रयपरीक्षा । अध्वानं चिराचिरगमनप्राप्यताम् । भक्तं सक्त्वोदनादिमूलम् । परिव्ययस् तदुपकरणं सर्पिःसूपशाकादि धनादि च । योगक्षेमम् अरण्ये कान्तारे वा गच्छतो राजभयं चौरभयं निश्चौरता वेत्यादि । एतद् अपेक्ष्य वनिग्भ्यः करा आदातव्याः । वणिग्भिर् दापयेत् करान् इति पाठो युक्तः, गत्यादिनियमेन (पाण् १.४.५२) कर्मसंज्ञाया अभावात् । दण्डवचनो वा धातुः, तदा दण्डिवद् द्विकर्मकत्वम् ॥ ७.१२७ ॥
यथाल्पाल्पम् अदन्त्य् आद्यं वार्योकोवत्सषट्पदाः ।
तथाल्पाल्पो ग्रहीतव्यो राष्ट्राद् राज्ञाब्दिकः करः ॥ ७.१२८ ॥
मेधातिथिः ...{Loading}...
क्षीणकृषेर् न्यूनः करो ग्रहीतव्य इत्य् एवम् अर्थम् एतत् । वार्योकसः जलौकसः । षट्पदाः भ्रमराः । यथा ते स्वल्पम् आददानाः परिपुष्टा भवन्ति, तथा राज्ञा मूलछेदो147 न कर्तव्यः ॥ ७.१२८ ॥
यथा फलेन युज्येत राजा कर्ता च कर्मणाम् ।
तथावेक्ष्य नृपो राष्ट्रे कल्पयेत् सततं करान् ॥ ७.१२९ ॥
मेधातिथिः ...{Loading}...
एतद् एवाह । कर्मणां कर्ता वाणिजकः राजा च फलेन युज्येत तथा करान् कल्पयेत् । न परिमाणनियमकारणम्148 अस्ति । यत्र महान् लाभस् तत्राधिकम् अप्य् उक्तपरिमाणातिक्रमेण ग्रहीतव्यम् ॥ ७.१२९ ॥
पञ्चाशद्भाग आदेयो राज्ञा पशुहिरण्ययोः ।
धान्यानाम् अष्टमो भागः षष्ठो द्वादश एव वा ॥ ७.१३० ॥
मेधातिथिः ...{Loading}...
मूल्याधिकयोः पशुहिरण्ययोः पञ्चाशद्भागो ग्राह्यः । धान्यानां भागविशेषः सुकरदुष्करापेक्षया मन्तव्यः । पञ्चाशत्पूरणः पञ्चाशः । “विंशत्यादिभ्यः” (पाण् ५.२.५६) इति पक्षे तमट् । पञ्चशद्भाग इति पाठे द्विभागादिवत् संख्यान्तरम् ॥ ७.१३० ॥
आददीताथ षड्भागं द्रुमांसमधुसर्पिषाम् ।
गन्दौषधिरसानां च पुष्पमूलफलस्य च ॥ ७.१३१ ॥
मेधातिथिः ...{Loading}...
द्रुमशब्देन वृक्षा उच्यन्ते । शेषं प्रसिद्धम् । एतेषां षष्ठो भागो लाभाद् ग्रहीतव्यः ॥ ७.१३१ ॥
पत्रशाकतृणानां च चर्मणां वैदलस्य च ।
मृन्मयानां[^१५४]** च भाण्डानां सर्वस्याश्ममयस्य च ॥ ७.१३२ ॥**
म्रियमाणो ऽप्य् आददीत न राजा श्रोत्रियात् करम् ।
न च क्षुधास्य संसीदेच् छ्रोत्रियो विषये वसन् ॥ ७.१३३ ॥
मेधातिथिः ...{Loading}...
तथा कुर्याद् यथा क्षुधास्य विषये श्रोत्रियो नावसीदति ॥ ७.१३३ ॥
यस्य राज्ञस् तु विषये श्रोत्रियः सीदति क्षुधा ।
तस्यापि तत् क्षुधा राष्ट्रम् अचिरेणैव सीदति ॥ ७.१३४ ॥
मेधातिथिः ...{Loading}...
अनन्तरविधेर् अतिक्रमफलम् एतत् ॥ ७.१३४ ॥
श्रुतवृत्ते विदित्वास्य वृत्तिं धर्म्यां प्रकल्पयेत् ।
संरक्षेत् सर्वतश् चैनं पिता पुत्रम् इवौरसम् ॥ ७.१३५ ॥
मेधातिथिः ...{Loading}...
धर्म्यां वृत्तिम् । यया कुटुम्बधर्मस्यावसादनं न भवति । वृत्तिं प्रकल्प्य सर्वतो रक्षेच् चौरादिभ्यः, स्वयम् अधिकव्ययाच् च ॥ ७.१३५ ॥
संरक्ष्यमाणो राज्ञा यं कुरुते धर्मम् अन्वहम् ।
तेनायुर् वर्धते राज्ञो द्रविणं राष्ट्रम् एव च ॥७.१३६ ॥
मेधातिथिः ...{Loading}...
धार्मिकश्रोतियरक्षायाः फलम् एतद् आयुर्द्रविणराष्ट्रवृद्धिः ॥ ७.१३६ ॥
यत् किंचिद् अपि वर्षस्य दापयेत् करसंज्ञितम् ।
व्यवहारेण जीवन्तं राजा राष्ट्रे पृथग्जनम् ॥ ७.१३७ ॥
मेधातिथिः ...{Loading}...
कृषिधनप्रयोगक्रयविक्रयादिव्यवहारेण जीवन्तं पृथग्जनं ब्राह्मणाच् छ्रोत्रियाद् अन्यं करं दापयेत् । करसंज्ञा संजाता अस्य करसंज्ञितम् ॥ ७.१३७ ॥
कारुकान् शिल्पिनश् चैव शूद्रांश् चात्मोपजीविनः ।
एकैकं कारयेत् कर्म मासि मासि महीपतिः ॥ ७.१३८ ॥
मेधातिथिः ...{Loading}...
शिल्पमात्रोपजीविनस् तान् मासं मासम् एकम् अहः कर्म कारयेत् । आत्मोपजीविनश् च शूद्रा वेशभारवाहादयः ॥ ७.१३८ ॥
नोच्छिन्द्याद् आत्मनो मूलं परेषां चातितृष्णया ।
उच्छिन्दन् ह्य् आत्मनो मूलम् आत्मानं तांश् च पीडयेत् ॥ ७.१३९ ॥
मेधातिथिः ...{Loading}...
करशुल्कादेर् अग्रहणम् आत्मनो मूलछेदः, अतिबहुग्रहणं परेषाम् । तच् च तृष्णया भवतीत्य् अनुवादः । आत्मनो मूलच्छेदेनात्मपीडा भवति, कोशक्षयात् । अतस् ते ऽपि पीड्यन्ते । उपस्थिते विग्रहे क्षीणकोशशक्तिर् अरिभिर् अपरुद्धोद्धरणे149 ऽवश्यं भवेत् । सा च तेषां महती पीडा । यत् तु सार्वकालिकं करग्रहणं तत्संपादयतो150 न खेदिता151 भवति ॥ ७.१३९ ॥
तीक्ष्णश् चैव मृदुश् च स्यत् कार्यं वीक्ष्य महीपतिः ।
तीक्ष्णश् चैव मृदुश् चैव राजा भवति संमतः ॥ ७.१४० ॥
मेधातिथिः ...{Loading}...
तीक्ष्णमृदुता नित्यम् अभ्यसनीया । तादृशो राजा प्रजानां संमतो भवत्य् अभिप्रेतः152 ॥ ७.१४० ॥
अमात्यमुख्यं धर्मज्ञं प्राज्ञं दान्तं कुलोद्गतम् ।
स्थापयेद् आसने तस्मिन् खिन्नः कार्येक्षणे नृणाम् ॥ ७.१४१ ॥
मेधातिथिः ...{Loading}...
प्रजानां संबन्धिनि कार्यदर्शने खिन्नः शान्तः । धर्मज्ञादिगुणयुक्तं सर्वसहम् अमात्यं तस्मिन् कार्येक्षणे नियुञ्जीत । न पुनस् तस्मिन्न् एव सिंहासने ॥ ७.१४१ ॥
एवं सर्वं विधायेदम् इतिकर्तव्यम् आत्मनः ।
युक्तश् चैवाप्रमत्तश् च परिरक्षेद् इमाः प्रजाः ॥ ७.१४२ ॥
मेधातिथिः ...{Loading}...
सहायसंग्रहप्रभृत्युक्तस्यार्थस्य एवम् इति परामर्शनम् । विधाय कृत्वा, इतिकर्तव्यम् उपकारकम् इतिकर्तव्यम् उच्यते । युक्तस् तत्परः । अत एवाप्रमत्तः । अथ वा बुद्ध्यस्खलनम् अप्रमत्तता सर्वकाले । एवं प्रजाः परिरक्षेत् ॥ ७.१४२ ॥
विक्रोशन्त्यो यस्य राष्ट्राद् ध्रियन्ते दस्युभिः प्रजाः।
संपश्यतः सभृत्यस्य मृतः स न तु जीवति ॥ ७.१४३ ॥
मेधातिथिः ...{Loading}...
पूर्वोकयोर् अप्रमादयोर् अन्यथात्वे दोषम् आह । यदि सम्यग् गुल्मस्थानानि प्रति न जागर्ति तदा छिद्रान्वेषिभिर् दस्युभिः चोरैः प्रजा ह्रियन्ते । तासु किं करिष्यति । अतस् तादृशो राजा मृत एव । जीवितं मरणम् एव । अतो ऽप्रमत्तेन भवितव्यम् । विक्रोशन्त्यः आक्रन्दन्त्यः । ह्रियन्ते संपश्यतः सभृत्यस्य निर्दिष्टं द्रक्ष्यते । केवलं च भृत्यास् तदीयाः पश्यन्ति नानुधावन्ति मोक्षयन्ति । सर्वे ते मृतकल्पाः ॥ ७.१४३ ॥
क्षत्रियस्य परो धर्मः प्रजानाम् एव पालनम् ।
निर्दिष्टफलभोक्ता हि राजा धर्मेण युज्यते ॥ ७.१४४ ॥
मेधातिथिः ...{Loading}...
प्राप्तं फलं भुङ्क्ते राजा । स धर्मेण युज्यते । अन्यथानुग्राहकाणाम् एव पालनं कुर्वन् प्रत्यवैति ॥ ७.१४४ ॥
उत्थाय पश्चिमे यामे कृतशौचः समाहितः ।
हुताग्निर् ब्राह्मणांश्153** चार्च्य प्रविशेत् स शुभां सभाम् ॥ ७.१४५ ॥**
मेधातिथिः ...{Loading}...
पश्चिमो यामः ब्राह्मो मुहूर्तः । अत154 आह- कृतशौचः समाहितः । हुताग्निर् इति । न च ब्राह्मे मुहूर्ते होमविधानम् अस्ति । तदा हि चतुर्मुहूर्तशेषा रात्रिर् भवति । होमश् च व्युष्टायां रात्रौ समाप्य कार्य उषःकल्पत्यागेन । आर्च्य ब्राह्मणान् पूजयित्वा, सभां शुभां मङ्गलवतीं प्रविशेत् ॥ ७.१४५ ॥
तत्र स्थितः प्रजाः सर्वाः प्रतिनन्द्य विसर्जयेत् ।
विसृज्य च प्रजाः सर्वा मन्त्रयेत् सह मन्त्रिभिः ॥ ७.१४६ ॥
मेधातिथिः ...{Loading}...
तत्र तस्यां सभायां स्थितः प्रजाः दर्शनार्थम् आगताः प्रतिनन्द्य यथार्हसंभाषणेक्षणाभ्युत्थानाभिवादनैर्155 हर्षयित्वा विसर्जयेत् यथागतम् अनुजानीयात् । ततो विसर्जितेषु तेषु मन्त्रयेत् सह मन्त्रिभिः किं कर्तव्यम् इति । स्वपरराष्ट्रगतकर्तव्यतानिरूपणं मन्त्रपञ्चाङ्गं156 धर्शयिष्यते ॥ ७.१४६ ॥
गिरिपृष्ठं समारुह्य प्रासादं वा रहोगतः ।
अरण्ये निःशलाके वा मन्त्रयेद् अविभावितः ॥ ७.१४७ ॥
मेधातिथिः ...{Loading}...
मन्त्रदेशविधिः । रहोगतः विविक्ते निर्जने देशे स्थितः । अविभावितः अनुमानेनापि यथा न जना जानन्ति “दं वस्तु विद्यते” इति, तथा कुर्यात् । निःशलाकम् । शलाका इषीकाः । यत्र तृणम् अपि नास्ति, येन “न कश्चित् तिष्ठति” इति संभावनास्ति, तन् निःशलाकम् । इमान्य्157 अङ्गानि- कर्मणाम् आरम्भोपायः, पुरुषद्रव्यसंपत्, देशकालविभागः, विनिपातप्रतीकारः, कार्यसिद्धिर् इति । अथ वा प्रार्थनाकालं नातिपातयेत् तत्र दीर्घो मन्त्रः स्यात् । न तेषां ब्रूयात् गुप्तमन्त्रश् च स्यात् ॥। ७.१४७ ॥
यस्य मन्त्रं न जानन्ति समागम्य पृथग्जनाः ।
स कृत्स्नां पृथिवीं भुङ्क्ते कोशहीनो ऽपि पार्थिवः ॥ ७.१४८ ॥
मेधातिथिः ...{Loading}...
मन्त्रप्रकाशनिवारणार्थः श्लोकः । पृथग्जना अमन्त्रिणो मन्त्रविद्बाह्याः ॥ ७.१४८ ॥
जडमूकान्धबधिरांस् तैर्यग्योनान् वयोऽतिगान् ।
स्त्रीम्लेच्छव्याधितव्यङ्गान् मन्त्रकाले विशोधयेत् ॥ ७.१४९ ॥
मेधातिथिः ...{Loading}...
यत् किंचित् प्राणिजातं तन् मन्त्रयमाणो विशोधयेत्, ततः प्रदेशाद् अपशोधयेत्, मन्त्रभेदाशङ्कया । तिर्यग्योनिषु च शुकसारिकादयो ऽपि मन्त्रं भिन्दन्ति । गवाश्वदयो ऽपि योगारूढाः परिवर्तितनिकायाः158 सदसद्वार्त्ताहरा159 भवन्ति । तथा अन्तर्धानादयो ऽपि नरेन्द्रविद्याः160 श्रूयन्ते । व्यङ्गत्वाद् एव ग्रहणे सिद्धे गोबलीवर्दवद् इतरेषां ग्रहणम्161 । “अव्यङ्गस्य हस्तपादादिछेदने न मन्त्रनियमास्था कर्तव्या — नायं कुत्रचित् गन्तुं शक्नोति — इहैवावरुद्ध आस्ते, कथं मन्त्रान् भेत्स्यति” इति । अथ वा एवंविधा मन्त्रिणो न कर्तव्याः, बुद्धिविभ्रमसंभवात् । अतो नाप्ता अपि, ततो ऽपसर्पः ॥ ७.१४९ ॥
भिन्दन्त्य् अवमता मन्त्रं तैर्यग्योनास् तथैव च ।
स्त्रियश् चैव विशेषेण तस्मात् तत्रादृतो भवेत् ॥ ७.१५० ॥
मधंदिने ऽर्धरात्रे वा विश्रान्तो विगतक्लमः ।
चिन्तयेद् धर्मकामार्थान् सार्धं164** तैर् एक एव वा ॥ ७.१५१ ॥**
मेधातिथिः ...{Loading}...
धर्मादीनां परस्परविरोधं चिन्तयेत् । अन्यतमवृद्धौ सर्वोत्थितिर् जयेत् ॥ ७.१५१ ॥
परस्परविरुद्धानां तेषां च समुपार्जनम् ।
कन्यानां संप्रदानं च कुमाराणां च रक्षणम् ॥ ७.१५२ ॥
मेधातिथिः ...{Loading}...
धर्मार्थकामानां वा मन्त्रिणां वा समुपार्जनं संग्रहणम् । कन्यानां संप्रदानं स्वकार्यसिद्धिवशेन चिन्त्यम् । कुमाराणां राजपुत्राणां रक्षणम् । तव वयम् इत्य् एवमादिभिर् धर्मम् अर्थं च ते ग्राहयितव्याः । नवं हि द्रव्यं येन येनार्थजातेनोपदिह्यते तत् तद् आचूषति165 । एवम् असंस्कृतबुद्धयो यद् यद् उच्यन्ते तत् तत् प्रथमं गृह्णन्ति । यद्य् असद्भिः संसृज्यन्ते तदा तत्स्वभावस् तेषां प्राप्नोति । ते च दुःसंस्कारोपदिग्धाः न शक्यन्ते व्यसनेभ्यो निवर्तयितुम् । उक्तं च- “नीलीरक्ते वाससि कुंकुमाङ्गरागो दुराधेयः” । तस्मात् ते नित्यम् अनुशासनीयाः । तत्रापि ये गुणवतस् तान् वर्धयेत् । इतरान् ईषत् संविभजेत् । ज्येष्ठं महागुणम् अमत्सरं यौवराज्ये ऽभिषिञ्चेत् । एवं राजपुत्ररक्षणे नित्यं यत्नवता भवितव्यम् ॥ ७.१५२ ॥
दूतसंप्रेषणं चैव कार्यशेषं तथैव च ।
अन्तःपुरप्रचारं च प्रणिधीनां च चेष्टितम् ॥ ७.१५३ ॥
मेधातिथिः ...{Loading}...
येन संधानं विग्रहो वापि कार्यस् तेन च दूतसंप्रेषणं चिन्त्यम् । आरब्धकार्यसंबन्धं चिन्तयेत्, अवस्थापनाय । कक्षान्तरेष्व् अन्तर्वंशिकसैन्याधिष्ठितो ऽन्तःपुरं प्रविशेत् । तत्र स्थविरस्त्रीपरिशुद्धां166 देवीं परिपश्येन् नापरिशुद्धाम् । देव्या गृहलीनो167 हि भ्राता भद्रसेनं राजानं जघान, मातुः शयनान्तर्गतश् च पुत्रः कारूशम् । विषदिग्धेन नूपुरेण वैरन्त्यं168 देवी जघान, मेखलया169 सौवीरम्, वेण्यां गूढेन शस्त्रेण विदूरथं । तस्माद् एतानि विस्रंभस्थानानि यत्नतः परीक्षेत । मुण्डजटिलकुहकप्रतिसंसर्गं बाह्यदासीभिर् अन्तःपुरदासीनां प्रतिषधयेत् । प्रणिधीनां च कार्पटकादीनां चारपरंपराभिश् चेष्टितं170 चिन्तयेत् ॥ ७.१५३ ॥
कृत्स्नं चाष्टविधं कर्म पञ्चवर्गं च तत्त्वतः ।
अनुरागापरागौ च प्रचारं मण्डलस्य च ॥ ७.१५४ ॥
मेधातिथिः ...{Loading}...
अकृतारंभः171 कृतानुष्ठानम् अनुष्ठितविशेषणं कर्मफलसंग्रहः तथा सामभेददानदण्डम् एतद् अष्टविधं कर्म ।
-
अथ वा वणिक्पथ उदकसेतुबन्धनं दुर्गकरणम् कृतस्य वा तत्संस्कारनियमः हस्तिबन्धनं खनिखननं शून्यनिवेशनं दारुवनछेदनं चेति ।
-
अपरे त्व् आहुः-
-
आदाने च विसर्गे च तथा प्रैषनिषेधयोः ।
-
पञ्चमे चार्थवचने172 व्यवहारस्य चेक्षणे ॥
-
दण्दशुध्योः सदा युक्तस् तेनाष्टगतिको नृपः ।
-
अष्टकर्मा दिवं याति राजा शत्रुभिर् अर्चितः ॥
इत्य् औशनसौ श्लोकौ । तत्र स्वीकरणम् “आदानम्” बलीनाम् । भृत्येभ्यो धनदानम् “विसर्गः” । “प्रैषः” दुष्टत्यागः । अर्थाधिकृतानाम् अतिप्रवृत्तिनिरोधः173 “निषेधः” । असत्प्रवृत्तिनिषेधश् च “अर्थवचनम्”174 । वर्णाश्रमाणां स्वकर्मसंशये175 “व्यवहारावेक्षणम्” । परस्पराभियोगे दण्डनिपातनं पराजितानां च । प्रमादस्खलिते तु प्रायश्चित्तम् इत्य् एतद् अष्टविधं कर्म ।
- पञ्चवर्गः कापटिकोदास्थितगृहपतिवैदेहिकतापसव्यञ्जनाः176 । परमर्मज्ञाः177 प्रगल्भछात्राः “कापटिकाः” । तान् अर्थमानाभ्याम् उपसंगृह्य मन्त्री भ्रूयात्- “राजानं मां च प्रमाणं कृत्वा यत्र यद् अकुशलं तत् तदानीम् एवाश्राव्यं178 त्वया” इति । प्रव्रज्यायाः प्रत्यवसितः “उदास्थितः” । स च प्रज्ञाशौचयुक्तः सर्वान्नप्रदानसमर्थायां भूमौ प्रभूतहिरण्यान्तेवासी कर्म179 कारयेत् । कृषिकर्मफलाच् च180 सर्वप्रव्रजितानां ग्रासाच्छादनावसथान् प्रतिविदध्यात् । तेषां ये वृत्तिकामास् तान् उपजपेत्- “एवम् एतेनैव वृत्तेन राजार्थश् चरितव्यः, भक्तवेतनकाले चोपस्थातव्यम्” इति181 । सर्वप्रव्रजिताः स्वं स्वं वर्गम् उपजपेयुः । कर्षको वृत्तिक्षीणः प्रज्ञाशौचयुक्तः “गृहपतिव्यञ्जनः” । स कृषिकर्म कुर्याद् यथोक्तायां भूमाव् इति । वाणिजिको वृत्तिक्षीणः प्रज्ञाशौचयुक्तः “वैदेहिकव्यञ्जनः” । स वणिक्कर्म कुर्यात् प्रदिष्टायां भूमाव् इति समानम् । मुण्डो जटिलो वा वृत्तिकामः “तापसव्यञ्जनः” । स नगराभ्याशे प्रभूतजटिलमुण्डान्तेवासी182 शाकं यवमुष्टिं वा मासान्तरितं प्रकाशम् अश्नीयाद् धर्मव्याजेन, गूढं यथेष्टम् आहारम् । तापसव्यञ्जनान्तेवासिनश् चैनं प्रसिद्धयोगैर् अर्चयेयुः । अर्थलाभम् अग्रे शिष्याश् चादिशेयुर् दाहं चौरभयं दुष्टवधं विदेशप्रवृत्तम् च183 “इदम् अद्य श्वो वा भविष्यति, इदं वा राजा करिष्यति” इति । तद् अस्य184 गूढमन्त्रिणस् तत्प्रयुक्ताः संपादयेयुः ।
- ये चास्य राज्ञो ऽवश्यभर्तव्या185 लक्षणविद्याम् अङ्गविद्यां186 जंभकविद्यां मायागतम् आश्रमधर्मं निमित्तज्ञानं चाधीयाना सत्त्रिणः187 । तत्र राजा एतान् पञ्चसंस्थान् एतैर्188 मन्त्रिभिः189 स्वविषये ऽवस्थापयेत् । मन्त्रिपुरोहितसेनापतियुवराजदौवारिकान्तर्वेशिकादिषु सद्व्यपदेशवेषशिल्पभाषाविदो जनपदापदेशेन सत्त्रिणः190 संचारयेत्191 । तथा कुब्जवामनकिरातमूकजडबधिरान्धनटनर्तकगायनादयः स्त्रियश् चाभ्यन्तरचारिण्यः, अटव्यां वनेचराः कार्याः, ग्रामे ग्रामीणकादयः, पुरुषव्यापारार्थाः स्वव्यापारपरंपराः ।
मध्यमस्य प्रचारं च विजिगीषोश् च चेष्टितम् ।
उदासीनप्रचारं च शत्रोश् चैव प्रयत्नतः ॥ ७.१५५ ॥
मेधातिथिः ...{Loading}...
एतस्मिन् राजमण्डल इमाश् चतस्रो राजप्रकृतयो मुख्या भवन्ति- विजिगीषुर् अरिर् मध्यम उदासीन इति । तत्र च यो197 राजा प्रकृतिसंपन्नः “अहम् एवंविधां पृथिवीं विजेष्ये”198 अभ्युत्थितः स विजिगीषुः उत्साहशक्तियोगात् । शत्रुस् त्रिविधः- सहजः प्राकृतः कृत्त्रिमः । स्वभूम्यन्तर इति मध्यमः, अनयोर् अरिविजिगीष्वोर् असंहतयोर् निग्रहसमर्थः, न संहतयोः199 । उदासीनः, अरिविजिगीषुमध्यमानाम् असंहतानां निग्रहसमर्थः, न तु संहतानाम् ॥ ७.१५५ ॥
एताः प्रकृतयो मूलं मण्डलस्य समासतः ।
अष्टौ चान्याः समाख्याता द्वादशैव तु ताः स्मृताः ॥ ७.१५६ ॥
मेधातिथिः ...{Loading}...
एताः स्मृताः । एता मूलप्रकृतयो मण्डलस्य व्याख्याताः । अष्टौ चान्याः । आसां चतसॄणां प्रकृतीनाम् एकैकस्याः प्रकृतेर् मित्रम् अमित्रं चेति द्वे द्वे प्रकृती200 । एता अष्टौ आद्याश् चतस्र एवम् उभयतो द्वादश भवन्ति ॥ ७.१५६ ॥
अमात्यराष्ट्रदुर्गार्थदण्डाख्याः पञ्च चापराः ।
प्रत्येकं कथिता ह्य् एताः संक्षेपेण द्विसप्ततिः ॥ ७.१५७ ॥
मेधातिथिः ...{Loading}...
अमात्यादयः पञ्चप्रकृतयः द्वादशानां प्रकृतीनां एकैकस्या भवन्ति । अतः षट्द्वादशका द्विसप्ततिः ॥ ७.१५७ ॥
अनन्तरम् अरिं विद्याद् अरिसेविनम् एव च ।
अरेर् अनन्तरं मित्रम् उदासीनं तयोः परम् ॥ ७.१५८ ॥
तान् सर्वान् अभिसंदध्यात् सामादिभिर् उपक्रमैः ।
व्यस्तैश् चैव समस्तैश् च पौरुषेण नयेन च ॥ ७.१५९ ॥
मेधातिथिः ...{Loading}...
संदध्याद् वशीकुर्यात् । पौरुषनयौ सामदण्डाव् एव । तत्र चोक्तम्203 “सामदण्डौ प्रशंसन्ति” (म्ध् ७.१०९) इति ॥ ७.१५९ ॥
संधिं च विग्रहं चैव यानम् आसनम् एव च ।
द्वैधीभावं संश्रयं च षड् गुणांश् चिन्तयेत् सदा ॥ ७.१६० ॥
मेधातिथिः ...{Loading}...
तत्र हिरण्यादिदानोभयानुग्रहार्थः संधिः, तद्विपरीतो विग्रहः, एकान्ततागमनं204 यानम्, उपेक्षायाम्205 आसनम्, संधिविग्रहोपादानं द्वैधीभावः, परस्यात्मार्पणं संश्रयः । एते षड् गुणाः । एतेषां यस्मिन् गुणे ऽवस्थितो मन्येत “अहं शक्ष्यामि दुर्गं कारयितुम्, हस्तिनीर् बन्धयितुम्, खनीः खनयितुम्, वणिक्पथं प्रयोजयितुम्, जतुवनं छेदयितुम्, अदेवमातृकदेशे क्षेत्राणि बन्धयितुम् इत्य् एवमादीनि, परस्य वित्तानि व्याहर्तुम्,” बुद्धिविघातार्थं गुणम् उपेयात् ॥ ७.१६० ॥
एवं च सति ।
आसनं चैव यानं च संधिं विग्रहम् एव च ।
कार्यं वीक्ष्य प्रयुञ्जीत द्वैधं संश्रयम् एव च ॥ ७.१६१ ॥
मेधातिथिः ...{Loading}...
एकेन संधायापरस्मिन् याने शक्तं मृषा विगृह्णीयात् । एवम् आसनम् अपि संधाय विगृह्य च । सर्वम् एतत् कार्यं वीक्ष्य प्रयुञ्जीत । नात्र नियतः कालः । यदैव यद् युक्तं मन्येत तदैव तद् आचरेत् ।
-
यदि कालनियमो लक्षयितुं न शक्यते, उपदेशः किम् अर्थम् ।
-
एवम् आह न शक्यते- विशेषो दुर्लक्षः, सामान्यं तु सुलक्षणम् । एतद् अप्य् अबुधानाम् उपयुज्यते ॥ ७.१६१ ॥
संधिं तु द्विविधं विद्याद् राजा विग्रहम् एव च ।
उभे यानासने चैव द्विविधः संश्रयः स्मृतः ॥ ७.१६२ ॥
मेधातिथिः ...{Loading}...
समानयानकर्मा च विपरीतस् तथैव च ।
तदा त्व् आयतिसंयुक्तः संधिर् ज्ञेयो द्विलक्षणः ॥ ७.१६३ ॥
मेधातिथिः ...{Loading}...
समानयानकर्मा । “यानफलं सहितौ तुल्यौ गच्छावः समानफलभागितया, न च त्वयाहम् उल्लङ्घनीयः । यत् ततो लप्स्यते तत् तव मम च भविषति” । अथ वा “त्वम् अन्यतो याहि, अहम् अन्यत्र यास्यामि” इत्य् एवम् असमानयानकर्मा विपरीतः ॥ ७.१६३ ॥
स्वयंकृतश् च कार्यार्थम् अकाले काल एव वा ।
मित्रस्य चैवापकृते द्विविधो विग्रहः स्मृतः ॥ ७.१६४ ॥
मेधातिथिः ...{Loading}...
स्वयं विग्रहस्य कालो यदावश्यं स्वबलेनोत्सहते परं कर्षयितुम्, उत्साहयुक्तः206 प्रकृतयः संहता विवृद्धाश् च स्वकर्मकृष्यादिफलसंपन्नाः, परस्यैतान्य् अपहरिष्यन्ति कर्माणि, क्षीणलब्धप्रकृतिः परः, शक्यास् तत्प्रकृतय उपजापेनात्मीयाः कर्तुम्, स स्वयं विग्रहस्य कालः । अकाल एतद् विपरीतः । तत्रापि विग्रहो मित्रस्यापकृते । यदि शत्रुणा तदीयं मित्रम् अपकृतम्, तदा तद् विचिन्त्य अकाले ऽपि विग्रहः कर्तव्यः । यद्य् अपि स्वयम् अपि शत्रोर् अनन्तरं मित्रं भवति, तथापि तेन मित्रेण सहायेन शक्यः शत्रुर् अपबाधितुम् । शत्रोर् अनन्तरं मित्रं भवति शत्रोस् तु शत्रुर् विषयानन्तरम्207 ।
-
पाट्ःअन्तरं “मित्रेण चैवापक्र्ते” । तेन यद्य् असौ बाधितो भवति, तदाकाले ऽपि विग्रहः कार्यः ।
-
एतद् विग्रहस्य द्वैविध्यं स्वकार्यार्थं मित्रकार्यार्थं च । अथ वात्मनो ऽभ्युच्छ्रयाद् एकः प्रकारः, मित्रेणापकृते व्यसनिनि तत्रैव द्वितीयः ॥ ७.१६४ ॥
एकाकिनश् चात्ययिके कार्ये प्राप्ते यदृच्छया ।
संहतस्य च मित्रेण द्विविधं यानम् उच्यते ॥ ७.१६५ ॥
मेधातिथिः ...{Loading}...
एकाकिनो मित्रेण वा संहतस्य यानम् इति द्वैविध्यम् यानस्य । सत्यां208 शक्ताव् एकाकिनः, अन्यथा संहतस्य । आत्ययिकं कार्यं परस्य व्यसनोत्पत्तिः । तदा ह्य् अभिगमनीयतमो भवति । परतः कदाचिल् लब्धोच्छ्रयो दुरुच्छेद्यः ॥ ७.१६५ ॥
क्षीणस्य चैव क्रमशो दैवात् पूर्वकृतेन वा ।
मित्रस्य चानुरोधेन द्विविधं स्मृतम् आसनम् ॥ ७.१६६ ॥
मेधातिथिः ...{Loading}...
आत्मसंवरणम् आसनम् । तद् अपि द्विविधम् । क्षीणस्य बलकोशोपनयेन, वृद्धस्यापि शत्रुं प्रत्यपेक्षा । आसनं च मित्रानुरोधेन । यदि मित्रस्य क्षीणस्य शत्रुणा सह संबन्धो नेदृशो भवति, तदीयेन मित्रेण नायम् उत्तम्भनीय इत्य् अतस् तदनुवृत्त्यासीत । स च क्षयो दैवात् पूर्वकृतेन वेत्य् अनुवादः । वृद्धिक्षयौ सर्वस्यैतेन कारणेन भवतः । तत्र दैवं स्वकृतप्रमादः, अतिव्ययशीलता, अप्रतिजागरणं स्वे बले । पूर्वकृतम् अशुभं कर्मापि । विपर्ययेण वैतद् व्याख्येयम् । “मोहात्” इति पाठान्तरम् । अर्थस् तु दैवशब्देन व्याख्यातः ॥ ७.१६६ ॥
बलस्य स्वामिनश् चैव स्थितिः कार्यार्थसिद्धये ।
द्विविधं कीर्त्यते द्वैधं षाड्गुण्यगुणवेदिभिः ॥ ७.१६७ ॥
मेधातिथिः ...{Loading}...
बलस्य स्थितिः स्वामिनश् च भेदेन । दुर्गस्वामिनः स्वल्पेन बलेन, सेनापतेर् अन्यत्र महता बलेन युक्तस्य । अथ वा बलशपथानुग्रहार्थः कश्चित् कर्तव्यो हिरण्यादिलाभापेक्षया परस् त्व् अधिकेनाशु ।
- द्वैधीभावो नामायम् उपायः । तस्यैतद् एव रूपम् — यद् द्विधा स्थितिर् बलस्वामिनोः । अत्रैवंरूपस्य तस्यापरं द्वैधं वक्तव्यम् । न च तद् अनेन किंचिद् उच्यते । केवलं बलस्य स्वामिनश् च स्थितिर् एतद् द्विविधम् । तत्र वक्तव्यम्- मायायां209 द्वैधीभावः, तस्येदं द्वैविध्यम् ।
- उच्यते । सामर्थ्यलभ्यम् एतत् परानुग्रहार्थम् एतत् कर्तव्यम्, सवकार्यार्थं चेति210 । एष द्विधाभावस्य द्वैधीभावः ॥ ७.१६७ ॥
अर्थसंपादनार्थं च पीड्यमानस्य शत्रुभिः ।
साधुषु व्यपदेशश् च211** द्विविधः संश्रयः स्मृतः ॥ ७.१६८ ॥**
मेधातिथिः ...{Loading}...
शत्रुभिः पीड्यमानस्य अर्थसंपादनार्थम् अन्यत्र संश्रयः । अर्थः पीडानिवृत्तिः,212 तत्संपादनार्थं शक्यम् अन्यम् आश्रयेत्, स्वदेशं हित्वा तत्र गच्छेत् । व्यपदेशश् चापीडिते ऽपि आगामिपीडापरिहाराय व्यपदेशार्थम् अन्यं संश्रयेत् । “एषो ऽस्य सहायको वर्तते, न शक्यो ऽयम् उपपीडयितुम्” इति व्यपदेशसिद्धिर् न केनचिद् उपपाद्यते । व्यपदेशप्रयोजनसंश्रयो व्यपदेशशब्देनोक्तः सामानाधिकरण्येन ।
-
पाठान्तरं “व्यपदेशार्थम्” इति ।
-
क्व पुनः संश्रयः कर्तव्यः ।
-
तद् आह साधुषु । ये साधवो राजानस् तेषाम् अन्यतमम् आश्रयेत्, येभ्यः सकाशात् कुसृतिर् नाशङ्क्यते । साधुशब्देन परिभवत्राणसामर्थ्यादयो गुणाः प्रतिपाद्यन्ते ॥ ७.१६८ ॥
यदावगच्छेद् आयत्याम् आधिक्यं ध्रुवम् आत्मनः ।
तदात्वे चाल्पिकां पीडां तदा संधिं समाश्रयेत् ॥ ७.१६९ ॥
मेधातिथिः ...{Loading}...
आयतिर् आगामी कालः । यद्य् एवं मन्येत “समबलो ममायम् अपि, एष न्यूनबलो वा, कालात् तु लब्धकृत्योपजापेन मित्रग्रहेण वा शक्नोम्य्213 एनम् अभिभवितुम्”, तदा संधिं कुर्यात् । आधिक्यम् अधिकबलता । ध्रुवं निश्चितम् । तदात्वे, वर्तमानकालवचनो ऽयम् ॥ ७.१६९ ॥
यदा प्रहृष्टा मन्येत सर्वास् तु प्रकृतीर् भृशम् ।
अत्युच्छ्रितं तथात्मानं तदा कुर्वीत विग्रहम् ॥ ७.१७० ॥
मेधातिथिः ...{Loading}...
प्रहृष्टा उत्साहानुरागयुक्ता दानमानाभ्याम् उपसंगृहीता आत्मीयाः प्रकृतीर् अमात्यादिका मन्येत । अत्युच्छ्रितम् आत्मानं कोशहस्त्यश्वादिसंपदा । तदा केनचिद् अपदेशेन संधिदूषणं कृत्वा विग्रहम् आश्रयेत् ॥ ७.१७० ॥
यदा मन्येत भावेन हृष्टं पुष्टं बलं स्वकम् ।
परस्य विपरीतं च तदा यायाद् रिपुं प्रति ॥ ७.१७१ ॥
मेधातिथिः ...{Loading}...
भावो हर्षपोषकारणम् । बहुना धनेन संविभक्तता कृष्यादिकर्माणि फलितान्य् एषाम् इत्यादि हर्षपोषयोः कारणम् । बलं हस्त्यश्वरथपादातम् । परस्य यदा विपरीतं तदा शत्रुं प्रति यायाद् अभिषेणयेच् छत्रुम् इत्य् अर्थः । न विग्रहकारणान्य् एव यानकारणानि, किं तर्हि तान्य् अपि अपचयश् च हर्षपोषयोः परस्य प्रकृतीनाम् ॥ ७.१७१ ॥
यदा तु स्यात् परिक्षीणो वाहनेन बलेन च ।
तदासीत प्रयत्नेन शनकैः सान्त्वयन्न् अरीन् ॥ ७.१७२ ॥
मेधातिथिः ...{Loading}...
वाहनं हस्त्यश्वरथम् । बलं पादातम् । गोबलीवर्दवद् भेदः । परिक्षीणे बले सति सान्त्वयन्न् अरिम् आसीत । सामोपप्रदानाभ्याम् अनुकूलनं सान्त्वनम् ॥ ७.१७२ ॥
मन्येतारिं यदा राजा सर्वथा बलवत्तरम् ।
तदा द्विधा बलं कृत्वा साधयेत् कार्यम् आत्मनः ॥ ७.१७३ ॥
यदा परबलानां तु गमनीयतमो भवेत् ।
तदा तु संश्रयेत् क्षिप्रं धार्मिकं बलिनं नृपम् ॥ ७.१७४ ॥
मेधातिथिः ...{Loading}...
गमनीयतमः अभिभवनीयतमो दुर्गस्थो ऽहम् इति मन्यते, तदा क्षिप्रं दुर्गम् उज्झित्वान्यं संश्रयेद् धार्मिकम्। यतः कुसृतिर् नाशङ्क्यते, यस्य यशोमयी स्थिरप्रकृतिः । बलिनम् इत्य् एतेनैतत् सुदर्शितम् ॥ ७.१७४ ॥
निग्रहं प्रकृतीनां च कुर्याद् यो ऽरिबलस्य च ।
उपसेवेत तं नित्यं सर्वयत्नैर् गुरुं यथा ॥ ७.१७५ ॥
मेधातिथिः ...{Loading}...
बलिनम् इत्य् उक्तम् । कियता बलेन बलवान् भवतीत्य् एतदर्थम् इदम् उच्यते । या दुष्टास् तदीयाः प्रकृतयो यश् च शत्रुर् उभयस्यापि निग्रहे समर्थः स आश्रयितव्यः । स गुरुवत् परिसेवितव्यो मानम् उज्झित्वा । नैवं मन्तव्यम् “महाराज एषो ऽपि216 समत्वेन वार्त्तावहे” इति । प्रभुवद् असौ सेवितव्यः । सर्वयत्नैर् उपायैः प्रियवचनैर् अवसरे समीपे संनिधानेन ॥ ७.१७५ ॥
यदि तत्रापि संपश्येद् दोषं संश्रयकारितम् ।
सुयुद्धम् एव तत्रापि निर्विशङ्कः समाचरेत् ॥ ७.१७६ ॥
मेधातिथिः ...{Loading}...
यदि तस्मिन्न् अपि संश्रये संपश्येज् जानीयात् कथंचिद् दोषं संश्रयकारितम् ।217 दोषदर्शनलिङ्गानि च ।
- दृष्टेर् अदानं प्रतिकूलभाषणम् एताश् च दुष्टस्य भवन्ति वृत्तयः ॥
ततस् तत्रापि संश्रये दोषकारिणि विज्ञाते । अपिशब्दाद् आश्रये निर्दोषे ऽसति । सुयुद्धम् एव तस्मिन्न् अपि काले निर्विकारः कुर्यात् । न हि संश्रये विनाशः । दृश्यते ह्य् अल्पबलेनापि महाबलो जीयमानः । अपि चान्त्यावस्थायाम् उभयथा गुणः — विजये राज्यम्, पराजये ध्रुवः स्वर्ग इति । युद्धस्य तु शोभनत्वं दर्शयिष्यामः । एकैकगुणाश्रयेण मण्डलविजयाय यायाच् छाक्तः ॥ ७.१७६ ॥
सर्वोपायैस् तथा कुर्यान् नीतिज्ञः पृथिवीपतिः ।
यथास्याभ्यधिका न स्युर् मित्रोदासीनशत्रवः ॥ ७.१७७ ॥
मेधातिथिः ...{Loading}...
उपायवचनात् सामादिभिर् व्यस्तैः समस्तैर् वा । सर्वग्रहणात् तु येन शक्यन्ते संध्यादिनापि220 । तथा कुर्यात् तेन प्रकारेण यतेत । नीतिज्ञः अर्थशास्त्रज्ञः, स्वाभाविकप्रज्ञः नयाद्यभिज्ञो वा राजा । यथास्य221 शक्तित्रयेणाभ्यधिका मित्रादयो न भवेयुः, तथा प्रकृत्यादिसमादिष्टे कर्मप्रवर्तने च तेभ्यो ऽधिकम् आत्मानं कुर्यात् । श्लोकानुरोधान् मध्यमग्रहणं न कृतम् । सो ऽपि तु द्रष्टव्यः, न मित्रम् इत्य् उपेक्ष्यम् । स्वप्रयोजनव्यतिरेकेण न222 मित्रं नाम । व्यवस्थितं हि मित्रम् । आधिक्यम्223 उपगतं स्वार्थगतिवशाच् च मित्रम् अप्य् अरिर् भवति । तथा च व्यास आह-
-
न कश्चित् कस्यचिन् मित्रं न कश्चित् कस्यचिद् रिपुः । (म्भ् १२.१३६.१०४)
-
सामर्थ्ययोगाद् विज्ञेया मित्राणि रिपवस् तथा ॥ (म्भ् १२.१३६.१३२) इति ।
एतैर् उपायैर् मण्डलं224 विचारयेत् ॥ ७.१७७ ॥
आयतिं सर्वकार्याणां तदात्वं च विचारयेत् ।
अतीतानां च सर्वेषां गुणदोषौ च तत्त्वतः ॥ ७.१७८ ॥
मेधातिथिः ...{Loading}...
कार्याणि कर्माणी प्रयोजनानि । तेषाम् सर्वेषाम् आरिप्समानानाम् आयतिः परिणाम्यागामिकालः, तदात्वं पारंभावस्थावर्त्तमानकालः, तं च विचारयेत् । तत्त्वतस् तत्त्वेन । अनेकमुखानि हि कार्याणि क्षणाच् चान्यथा भवन्तीति । तत्र येषाम् उभौ कालौ न शुध्यतस् तानि कार्याणि कथम् आरभेतेति तद्विचारार्थोपदेशः । अतीतानाम् अतिक्रान्तानां च सर्वेषाम् गुणदोषौ तत्वतो225 विचारयेत् । अत्राप्य् अतीतानां गुणदोषौ विचार्य यानि कर्माणि गुणवन्त्य् अतीतानि तान्य् एव कथं नाम पुनर् आरभेतेत्य् अतीतकार्यगुणदोषतत्त्वविचारणोपदेश एवमर्थः ॥ ७.१७८ ॥
आयत्यां गुणदोषज्ञस् तदात्वे क्षिप्रनिश्चयः ।
अतीते कार्यशेषज्ञः शत्रुभिर् नाभिभूयते ॥ ७.१७९ ॥
मेधातिथिः ...{Loading}...
एवं हि यो ह्य् आयत्याम् आगामिनि काले कार्याणां गुणदोषौ विजानाति, नियमेनासौ विमृश्यकारीति स्वयं चारभते226 न स दोषम् । एवमर्थं हि ज्ञानम् । तदात्वे वर्तमाने यः क्षिप्रम् अवधारयति, कार्ये न विलम्बते, तदात्वे क्षिप्रनिश्चयः क्षिप्रकारी भवति, गुणवत् करोति, न दोषवत् । अतीते कृते सति कार्ये शेषतो यः कार्यम् एव बुध्यते, न तत्परिसमाप्तो लभत इति गुणवत्सर्वकार्यफलसंबन्धाद् अभ्यधिकः शत्रुभिर् नाभिभूयेत । न हि धर्मशास्त्रे षाड्गुण्योपदेशः शक्यते कर्तुं दृष्ट इति दिङ्मात्रम् उक्तम्227 ॥ ७.१७९ ॥
यथैनं नाभिसंदध्युर् मित्रोदासीनशत्रवः ।
तथा सर्वं संविदध्याद् एष सामासिको नयः ॥ ७.१८० ॥
मेधातिथिः ...{Loading}...
यथा न तैस् तैः प्रयोगैर् अभिसंदध्युस् तथा कुर्याद् अर्जितैर् इतरैर् वोपायैर्228 इत्य् एष संक्षेपिको न्याय इत्य् उपसंहारः षाड्गुण्यस्य । अतिसंधानविरोधश् चैवं न229 भवति । कृत्यानाम् उपजापरक्षणात्, व्यसनेषु प्रतिकारात्, स्वमण्डलसंग्रहात्, गुणोपायानां सम्यक्प्रयोगात्, कर्मस्व् अभ्युत्थानम् इत्य् एवं द्रष्टव्यम् ॥ ७.१८० ॥
इदानीम् अभियास्यतः कर्माह ।
यदा तु यानम् आतिष्ठेद् अरिराष्ट्रं प्रति प्रभुः ।
तदानेन विधानेन यायाद् अरिपुरं शनैः ॥ ७.१८१ ॥
मेधातिथिः ...{Loading}...
यदोपचिकीर्षत्य्230 अरिराष्ट्रं प्रत्य् अभिमुखेन तदानेन विधनेन गच्छेद् अत्वरमाणः । वक्ष्यमाणोपन्यासः सुखावबोधनार्थः ॥ ७.१८१ ॥
मार्गशीर्षे शुभे मासि यायाद् यात्रां महीपतिः ।
फाल्गुनं वाथ चैत्रं वा मासौ प्रति यथाबलम् ॥ ७.१८२ ॥
मेधातिथिः ...{Loading}...
यातव्यापेक्षया बलापेक्षया दीर्घं योद्धुम् इच्छन् बलप्रायः शारदवासन्तिकसस्यप्रायं परराष्ट्रं मार्गशीर्षे यायात् । अत्र हि गच्छन् शारदं फलं गृहादिगतं सुखम् गृह्णाति, वासन्तं सस्यम् उपहरति, कामश् च महान् दुर्गोपरोधादिकार्यक्षमः, मार्गश् च प्रसिद्धवक्रपथोपभृतकाशोदकवीरुधो न भवन्ति, कालश् च नात्युष्णशीतः, उपचितम् अपि न सस्यं नानाप्रयुक्तं प्रियं सस्यत्रयोपघातकालविप्रकर्षापेक्षया च पर आश्रयं संधत्ते, उभयसस्योपघातावकर्षणं सम्यक्कृतं भवति, आत्मनश् च बलापचय इति । उपघातमात्रचिकीर्षया परदेशादेर् अल्पकालसाध्ये वा यातरि, बलप्रायः फाल्गुनचैत्रयोर् यायात् वासन्तिकसस्यप्रायदेशम् । तदाप्य् आत्मनो यवसादि भवति, परोपघातक्षेत्रगतसस्योपघातात् । यथाबलम् इति येन प्रकारेण बलानुरूपं यायाद् इत्य् अर्थः ॥ ७.१८२ ॥
अस्यापवादः ।
अन्येष्व् अपि तु कालेषु यदा पश्येद् ध्रुवं जयम् ।
तदा यायाद् विगृह्यैव व्यसने चोत्थिते रिपोः ॥ ७.१८३ ॥
मेधातिथिः ...{Loading}...
एतद् व्यतिरेकेण अन्येष्व् अपि प्रावृडादिकालेषु । यदा मन्येतात्मनो ऽवश्यंभावि विजयं तदा यायात् । यदा हस्त्यश्वबलप्रायं वर्षास्व् अश्वबलं हस्तिबलं तदा हि स्वबलकालप्रभावाद् एकान्तिको जयः । व्यसनं231 परस्य स्वबलकोशादिगतम्232 । तस्मिन्न् उत्पन्ने स्वबलकालनिरपेक्षो यायात् । व्यसनपीडितो हि शत्रुः साध्यो भवति । काष्ठम् इव गुणोपयुक्तसंनियोगमात्राद् एव विनश्यति । विगृह्येति यातव्यम् एवावष्टभ्याहूय233 यायात् । महान् अस्मिन्न् एवावगम्यते ॥ ७.१८३ ॥
कृत्वा विधानं मूले तु यात्रिकं च यथाविधि ।
उपगृह्यास्पदं चैव चारान् सम्यग् विधाय च ॥ ७.१८४ ॥
मेधातिथिः ...{Loading}...
मूले स्वदुर्गराष्ट्रे कुर्याद् अथ पार्ष्णिग्राहश् च । तत्र विधानं प्रतिविधानं कृत्वा, दुर्गं तावत् प्रभूतधान्यादिकं सुसज्जयन्त्रप्राकारपरिखादि कार्यम् । राष्ट्रस्यापि स्वबलं श्रेणीबलेभ्यो रक्षां विधाय कुर्यात् । दानमनेभ्य उपसंयम्य प्रत्यन्तेषु प्रक्षेप्तव्यं पार्ष्णिग्राहं प्रति प्राह- तत्समर्थश् च बलैकदेशः स्वराष्ट्रे स्थापयितव्यः । यात्राप्रयोजनं यात्रिकं हस्त्यश्वादिबलयोग्यं च प्रहरणधारणादि सज्जम् । यथाविधि परोपदेशं कृत्वा । आस्पदं प्रतिष्ठानम् । किं तर्ह्य् अतो ऽपरकीयाः क्रुद्धादयो द्रष्टव्यास् तान् उपगृह्य स्वीकृत्य, आकारस्य परविषये निवृत्तेस् तज्ज्ञानाय सम्यग् यथावद् विधाय प्रयुज्य । किम् अयं दृष्टोपसंग्रहं कर्तुम् आरब्धम् उत शत्रुपरिमण्डलं कोपयितुम् अथ मध्यमम् उदासीनं वा संश्रयितुम्, तथा मूलयात्रां वा हर्तुकामो विधिवच् छेदं234 वा कर्तुकाम इत्यादि यथा चैतद् एवं तथा ॥ ७.१८४ ॥
संशोध्य त्रिविधं मार्गं षड्विधं च बलं स्वकम् ।
सांपरायिककल्पेन यायाद् अरिपुरं प्रति ॥ ७.१८५ ॥
मेधातिथिः ...{Loading}...
त्रिविधः पन्था- जाङ्गल आतप आटविक इति । केचिद् आटविकस्थाने वनप्रक्षेपात् त्रिविध इति । अपर उन्नतो निम्नः सम इति । एवं त्रिविधं संशोध्य मार्गरोधिवृक्षगुल्मलताविच्छेदेन स्थलनिम्नयोः समीकरणं नदीगर्तयोस् तीर्थकरणं पथिरोधकव्यालसमुच्छेदः प्रवर्तकानाम् आत्मीकरणं यवसेन्धनादिमत्ता235 चेति । षड्विधं बलम् इति । केचित् हस्त्यश्वरथपदातिसेनाकोशकर्मकरात्मकं236 षड्विधं बलम् इति । अन्ये कोशस्थाने प्रक्षेपणम्237 इति । अपरे मौलभृत्यश्रेणिमित्रामित्राटविकबलभेदात् । सांपरायिकविधानेन । सांपरायिकं युद्धे कृच्छ्रम्,238 तत्प्रयोजनं यस्य तत् साम्परायिकम् । दुर्गकल्पेन वा रिपुं प्रति यायात् । स च सैन्यनिवेशस् तेषु तेषु च स्थानेषु स्थावरजङ्गमदण्डो बहुमुखपरिधफलकशाखाभिः प्राकार इत्यादिस् तादृशस्थापितः239 । विशेषतस् तु यात्रागतः ॥ ७.१८५ ॥
शत्रुसेविनि मित्रे च गूढे युक्ततरो भवेत् ।
गतप्रत्यागते चैव स हि कष्टरतो रिपुः ॥ ७.१८६ ॥
मेधातिथिः ...{Loading}...
शत्रुसेविनि गूढे प्रच्छन्ने मित्रे गतप्रयागते च युक्ततरः स्यात्, अभियुक्ततर आदृततरो भवेत्, न विश्वसेद् इत्य् अर्थः । यस्मात् स कष्टतरो रिपुर् अन्येभ्यः क्रुद्धादिभ्यः । एवं च युक्ततरवचनात् कष्टतरवचनाच् च गतप्रत्यागतम् अग्राह्यम् अन्यस्येति गम्यते । स चतुर्विधः । कारणाद् गतस् ततो विपरीतकारणाद् आगतो यथा दोषेण गतः पुनर् आगतो गुणम् उभयोः परित्यज्य । कारणेनागत इति यः स त्याज्यो लघुबुद्धित्वाद् यत्किंचित्कारीति । पुनर् अस्य प्रत्ययस् तु न कार्यः240 । कारणाद् गतः कारणागतः यथा स्वामिदोषेण गतः परस्मात् स्वदोषेणागत इति सत्कर्तव्यो यदि सङ्गित्वाद् आगतस् ततो ग्राह्यः । अथ परप्रयुक्तस् तेन वा दोषेणापकर्तुकाम इति ततो नेति ॥ ७.१८६ ॥
परराष्ट्रं प्रत्यभिप्रस्थितः ।
दण्डव्यूहेन तन्मार्गं यायात् तु शकटेन वा ।
वराहमकराभ्यां वा सूच्या वा गरुडेन वा ॥ ७.१८७ ॥
मेधातिथिः ...{Loading}...
तत्र दण्डाकारो व्यूहो दण्डव्यूहः । एवं शकटाकृतिस्थानाच् छकट इत्यादि योज्यम् । पुरस्ताद् बलाध्यक्षो मधे राजा पश्चात् सेनापतिः पार्श्वयोर् हस्तिनस् तेषां समीपे ऽश्वास् ततः पदातय इत्य् एष सर्वतः समवायो दण्डव्यूहो ऽतिर्यग् भवति सर्वतो भयकार्यः । सूचीव्यूहः241 स्थलसमुत्थानसैनिकः प्रवीरपुरुषमुखो ऽतिदीर्घ ऊर्ध्वो यतः परकक्षो ऽन्यैः242 समं प्रवर्तमानः । मकरव्यूहस् तु मुखे जघनयोः पृथुर् उभयतो येन243 प्रशस्तः, सर्वं न फल्गुबलं लभते न चार्थम् । तद् धि शूरैर् हन्यमानम् अन्येषाम् अपि भङ्गाय भवति । तस्यान्तम् अन्यकार्यम् अवरुद्धं निश्चयेनावतिष्ठते । परिशिष्टं तु बलं व्यूहस्यान्तः प्रक्षिपेत् । एवं रचनाविशेषैर् उक्तैर् उक्तप्रयोजनापेक्षया वा विशेषेण तु समायां भूमौ दण्डगरुडसूचिभिर् यायात् । विषमायां संकटायां शकटमकरवराहैर्244 इति ॥ ७.१८७ ॥
यतश् च भयम् आशङ्केत् ततो विस्तारेयेद् बलम् ।
पद्मेन चैव व्यूहेन निविशेत सदा स्वयम् ॥ ७.१८८ ॥
मेधातिथिः ...{Loading}...
तस्मिन् पथि यस्मात् प्रदेशात् परिहितकारिभ्यो भयाशङ्का स्यात् तेन प्रदेशेन पूर्वगृहाद्245 विस्तारेयेद् बलंम्, गव्यूतिमात्रम् अधिकं वा । यवसंपन्नदृढप्रहारविस्तीर्णशत्रुपुष्टपरस्परम्246 अवरुद्धरथिकाश्वारोहकरीबलान्य् अवहितानि भवन्ति । समन्ताद् विभृतपरिमण्डलो मध्यनिविष्टविजिगीषुः पद्मव्यूहः । एवं नित्यं निविशेत् पुरान् निर्गच्छेद् ग्रामाद् वा ॥ ७.१८८ ॥
सेनापतिबलाध्यक्षौ सर्वदिक्षु निवेशयेत् ।
यतश् च भयम् आशङ्केत् प्राचीं तां कल्पयेद् दिशम् ॥ ७.१८९ ॥
मेधातिथिः ...{Loading}...
सेनापतिः समग्रस्य धनस्याधिपतिर्247 बलाध्यक्षः, तयोर् बहुत्वाभावाद् द्विवचननिर्देशाच् च सर्वदिक्षु तदसंभव इति, तत्पुरुषास् तच्छब्देनोच्यन्ते । तदीयपुरुषसंनिवेशाच् च सर्वदिक्षु ताव् एव संनिवेशितौ भवतः । तेन भिन्नैस् तुरगगजादिभिस् तत्प्रतिबद्धनिवेशानां संयोधनाय समन्ततो निवेश्य, गिरिं वनं गर्तं वा पृष्ठतो ऽध्यक्षं कृत्वा । यतो भयम् आशङ्केत यथा सा प्राची दिग् भवति । एवं248 निवेशं कुर्याद् अभिमुखनिर्गमार्थम् इव विद्वद्भिः ॥ ७.१८९ ॥
गुल्मांश् च स्थापयेद् आप्तान् कृतसंज्ञान् समन्ततः ।
स्थाने युद्धे च कुशलान् अभीरून् अविकारिणः ॥ ७.१९० ॥
मेधातिथिः ...{Loading}...
गुल्मान् मनुष्य्समवायान् । केचित् साक्षात् समन्ततः सशङ्खपटहा, अन्ये विपरीताः । तत्र चोत्पन्नं दुश्चिकित्सं महते चानर्थाय । गुणैर् विशेषयति । आप्तान् आप्तसदृशान् इत्यभेदार्थम् । कृतसंज्ञान् । कृता संज्ञा संबोधनाय249 यैस् ते कृतसंज्ञास् तान् । अवसरे युद्धेषु शङ्खभेरीनादध्वजादिभिर् वाद्यैस् तूर्यम् एवाहरिष्यामः, तदपगमाशङ्कायां चैवम् एव कुर्यात् । शङ्खे250 आहते ध्वजे वोछ्रिते पृथक् पृथग वस्थातव्यम्, एवं संहतैर् एवं प्रहर्तव्यम्, एवं व्यावर्तितव्यम् इत्यादि स्थितम् । स्थाने251 कुशला अन्यैः शूरैः252 शक्यम् आगन्तुं समेतेन शक्यम् अस्मिन् वयम् अपृथक् परे पृथग् इत्यादि । युद्धे अनुसरणादौ253 कुशला भवन्तः संहतकैर् योधनीयाप्रसारं कृत्वा प्रविष्टाः पृष्ठदेशात्254 प्रहारिणः चित्रं योजयितव्याः, भग्नानाम् अनेकायनशतानां पृष्टं ग्राह्यम् इत्यादि । अभीरवः अनेन विस्तीर्णसमेताः । अविकारिणो ऽभेदात्मकैर् यैर् युक्तम् अपरस्य । एवम् एतान् गुल्मान् समन्ततस् त्रिसृषु255 दिक्षु गव्यूतिमात्रव्यापी प्रत्यहम् अनियतदेशान् बहून् स्थापयेत् । भयप्रतिबोधनार्थम् अवहितो भवेत् । जनो विश्वस्तो256 भवति दानमानकार्यदर्शनादिभिः । अपवृत्ते युद्धे ऽमात्यादिभिः सह सर्वेषां स्वार्थः संग्रामः, मम नाममात्रां257 राजेति, सर्वे वयं समानविभवोपभोगाय, जये राज्यं पराजये स्वर्ग इति हेतुना आगताः ॥ ७.१९० ॥
संहतान् योधयेद् अल्पान् कामं विस्तारयेद् बहून् ।
सूच्या वज्रेण चैवैतान् व्यूहेन व्यूह्य योधयेत् ॥ ७.१९१ ॥
मेधातिथिः ...{Loading}...
असंहता हि बलवद् विस्तीर्णं बलम् आसाद्यावयवशो विध्वंसनाय वाहनाघातैः क्षयं यान्ति, तद्विनाशे चोत्पान्ना इमे अतो ऽल्पान् आत्मीयान् संहतान् योधयेत् । अन्योन्यापेक्षया युध्य्मानान् अभिघ्नतः इतरेतरानुग्रहात् परस्परानुरागात् स्पर्धायां च परान् संहतान् सोढुं समर्था भवन्ति । कामं यथेष्टं कार्यार्थं बहून् विस्तारयेद् विप्रकीर्णान् योधयेद् इत्यादि मन्येत । भिन्नांस् तांश् चैतान् भयम् एष्यति, परान् स्वान् वा बहून् दृष्ट्वा त्रासः स्याद् इति । सूची पूर्वोक्तो ऽक्षव्यूहभेदो ऽग्रतः पृष्ठतश् च त्रिधा व्यवस्थितः पार्श्वयोर् भेदन, । तेन चात्मानं सूचिव्यूहं विभज्य योधयेत् । सतां च सर्वव्यूहानां प्रतिष्ठाव्यूहनसमर्थाव् इति प्रतिगृहीताव् एवं कारणात् । यदा तु परबले ह्य् एताव् एव भवतस् तदा स्वे बले विपर्ययः कार्यः । तुल्यत्वे तु पुष्टिमत्वानुरक्तकुशलमाननप्रभूतैकार्थकारित्वाद् इत्य् अतो विशेषे यथासंभववाक्यैः258 । योधयेद् इति वचनाद् राजा स्वयं तत्प्रतिसंधानार्थं व्यूहदुर्गाद्याश्रये259 प्रतिग्रहभूतस् तिष्ठेत् । समानतन्त्रेणोक्तम्-
-
द्वे शते धनुषां गत्वा राजा तिष्ठेत् प्रतिग्रहः ।
-
भिन्नसंघातनार्थं तु न युध्येताप्रतिग्रहः ॥ (कश् १०.५.५८) ७.१९१ ॥
स्यन्दनाश्वैः समे युध्येद् अनूपे नौ द्विपैस् तथा ।
वृक्षगुल्मावृते चापैर् असिचर्मायुधैः स्थले ॥ ७.१९२ ॥
मेधातिथिः ...{Loading}...
सेनानां देशस्य प्रकॢप्त्यर्थम् आह । समप्रदेशे रथैर् अश्वैश् च युध्येत । तत्र हि तेषाम् अप्रतिघातः । अनूपः पानीयप्रायः । तत्राप्य् अल्पोदके हस्तिभिर् अगाधोदके तु नौबिः । तेषां हि तत्र सुखप्रचारता । वृक्षैर् गुल्मैश् च संछन्ने धनुर्भिः । तद्ग्रहणाच् च बलीवर्दगर्ताद्याकुलो गृह्यते, समानकार्यत्वात् । स्थलम् इति पाषानवृक्षलतागर्तादिरहितो देशः, तस्मिन् सिद्धिः । धार्यैः शरादिभिर् आयुधैश् च शक्त्यादिभिर् युध्येत आसन्नयुद्धत्वात् । एवं सामर्थ्यप्रदर्शनार्थत्वाद् अस्य ॥ ७.१९२ ॥
किं च ।
कौरक्षेत्रांश् च मत्स्यांश् च पञ्चालान् शूरसेनजान् ।
दीर्घांल् लघूंश् चैव नरान् अग्रानीकेषु योजयेत् ॥ ७.१९३ ॥
मेधातिथिः ...{Loading}...
कुरुक्षेत्रं प्रसिद्धम् । मत्स्यसंज्ञो विराटदेशः । नागपुरे पञ्चाला उभये कान्यकुब्जा आहिछत्राश् च । शूरसेनजा माथुराः । क्वचिच् चात्र भावार्थे प्रत्ययो लुप्तनिर्दिष्टः । एतद् देशजा हि प्रायेण महावर्ष्माणो बलवन्तः पृथुवक्षसः शूरा अभिमानिनो दुर्विषहा इत्य् अत्र ये ऽनिकस्थिताः260 परेषां भयहेतवो भवन्ति । दीर्घकाया अध्यस्ताल्पदेशा अपि दीर्घश्वासकरा महाकयत्वात् । लघवस् तु मरणासमर्था261 निर्भयेन जनेन प्रच्छन्ना विद्धाः प्रहरन्तो ऽपकारासमर्थाः । आदर्शभूताश् चैत इतरेषां भवन्ति ॥ ७.१९३ ॥
प्रहर्षयेद् बलं व्यूह्य तांश् च भृशं परीक्षयेत् ।
चेष्टाश् चैव विजानीयाद् अरीन् योधयताम् अपि ॥ ७.१९४ ॥
मेधातिथिः ...{Loading}...
व्यूहं रचयित्वा स्वबलं भृशं दर्शयन् “किम् एषां जीयते, जिता एवामी युष्मत्प्रतापेन” इत्य् एवं प्रहर्षयेत् । “जये महान् अर्थलाभः, आश्रितोपाश्रितसुखम्, वधे वापि स्वर्गो भर्तृपिण्डनिर्यातनं च, पराजये त्रितयाभावः” इत्यादि नैमित्तिको ऽपि तदुपदेशः । “तादृशनिमित्तनियमान् मानय सहस्वोर्व्यावशयंभावो यदि प्रधानपुरुषः स्वजनवधो राजा तदप्रतिग्रहव्याजेन स्थितो भीरुत्वात् स्वयं युद्धं न कामयते” इत्यादि । तत्र ये ब्रूयुर् “नैतद् एवम्262 । स्वार्थ एवायम् अस्माकम् अत्र वधः शस्त्रोपजीविभूतानां संग्रामविशेषधर्मो ऽव्ययीभावः स्वधर्मायासो ऽनर्थहेतू राजा सर्वप्रकारै रक्षणीयः । परिश्रान्तानां चास्माकम् अपरिश्रान्तसुखम् अनुग्रहं करिष्यतीत्य् एवमर्थं स्थितः” इति, तान् विशेषतो गृह्णीयात् । जेतुः प्रसंसितुः परसंव्ययं वा कारयेयुस् तान् उपग्रहैः परिष्वङ्गालङ्कारदानादिना च वशीकुर्यात् । चेष्टां263 चैवारीणाम् योधयतां विजानीयात् । कथं युद्धे चेष्टन्ते कोशा बलं वा । केचिद् द्विधाहृदयाः केचित् तु पक्षान्त इत्यादिचिन्तानित्यत्वान् मनुष्याणाम् उपकुर्वतो ऽपि स्वार्थवशाद् उपकुर्वन्तीत्य् अत्र दुष्टान् आप्तबलमध्ये विन्यसेद् ॥ ७.१९४ ॥
यथारिर् दुर्गाश्रितो भवति,264 तद्दुर्गलम्भोपायम् आह ।
उपरुध्यारिम् आसीत राष्ट्रं चास्योपपीडयेत् ।
दूषयेच् चास्य सततं यवसान्नोदकेन्धनम् ॥ ७.१९५ ॥
मेधातिथिः ...{Loading}...
उपरोधस् तथा कर्तव्यो यथा न कश्चिन् निष्क्रामति किंचित् प्रविशति । राष्ट्रं दुर्गाद् बहिर् देशः । तस्योपपीडनं स्वदेशापवाहोपमर्द्दनादिभिः । यवसादीनां दूषणं विनाशनम्, असद्द्रव्यमिश्रणादिभिः ॥ ७.१९५ ॥
भिन्द्याच् चैव तडागानि प्राकारपरिखास् तथा ।
समवस्कन्दयेच् चैनं रात्रौ वित्रासेयेत् तथा ॥ ७.१९६॥
मेधातिथिः ...{Loading}...
तडागग्रहणं सर्वजलाशयदर्शनार्थम्265 । तत्र तडागस्य सेतुबन्धेन प्रयोजनभेदनम् । प्राकारस्य यन्त्रैर्266 विदारणं सुरङ्गया वा भङ्गः । परिखायाः पूरणेन पार्श्वभङ्गेन वा । छिद्रेषु प्रवीरपुरुषैर् अवस्कन्दयेत् । दुर्गे रात्रौ च वित्रासयेत् । अग्निकुम्भशिरस्कैः शिवावद्रुतानि कुर्वद्भिर् मनुष्यैः । ये नराः स्वयम् उत्पातदर्शनाद् रात्रौ जाग्रति, जागरणावजीर्णो लोकः सुसाध्यो भवति ॥ ७.१९६ ॥
तस्मिंश् च काले भूयो भूयः ।
उपजप्यान् उपजपेद् बुद्ध्येतैव च तत् कृतम् ।
युक्ते च दैवे युध्येत जयप्रेप्सुर् अपेतभीः ॥ ७.१९७ ॥
मेधातिथिः ...{Loading}...
उपजप्याः क्रुद्धारयः कुलीनाः स्वराज्याभिलाषिणः, तान् उपजपेद् इति हेतुः । कर्तरि कर्तव्यव्यपदेशम् उपजपेद् इत्य् अर्थः । उपजपेद् ग्राहयेद् इत्य् अर्थः । उपजाप आश्रयाद् विश्लेषात्महितानुष्ठानप्रतिपादनम् । तेन च अरिणा सुकृतम् अप्य् अभिमतं267 दुर्गस्थेन वा किंचिद् प्रारब्धं बलाटविकपार्ष्णिग्राहादिकोपनार्थं मध्यमोदासीनानाम् अन्यतरेण सह संधानम् इत्यादि बुध्येत । युक्ते च दैवे विजिगीषोर् अनुकूलदैवे इत्य् अर्थः । नक्षत्रग्रहदैवसुमुहूर्तेषु साधकेषु दृष्टस्वप्नदर्शननिमित्तेषु268 चानुगुणेष्व् अनुलोमवातादिषु जयम् इच्छन् निर्गतभयो दुर्गस्थानानि यथा प्रथमं योद्धुं गच्छेत् ॥ ७.१९७ ॥
साम्ना दानेन भेदेन समस्तैर् अथ वा पृथक् ।
विजेतुं प्रयतेतारिं न युद्धेन कदाचन ॥ ७.१९८ ॥
अनित्यो विजयो यस्माद् दृश्यते युध्यमानयोः ।
पराजयश् च संग्रामे तस्माद् युद्धं विवर्जयेत् ॥ ७.१९९ ॥
मेधातिथिः ...{Loading}...
यस्मान् नायं नियमो दृश्यते- यो जयति सो ऽत्यन्तबलवान् अवश्यम्, तेन यश् च पराजीयते सो ऽत्यन्तं दुर्बलश् चावश्यम् इति, अनित्यो विजयः ॥ ७.१९९ ॥
त्रयाणाम् अप्य् उपायानां पूर्वोक्तानाम् असंभवे ।
तथा युद्ध्येत संपन्नो विजयेत रिपून् यथा ॥ ७.२०० ॥
मेधातिथिः ...{Loading}...
सामादीनाम् असाधकत्वे271 संदिग्धे ऽपि जये समाने ऽपि, किं पुना रूपेण सह272 तेन प्रकारेण युध्येत येन प्रकारेणात्मनो जयः स्यात् । जये राज्यं वधे ऽपि स्वर्ग इत्य् उभयथापि273 जयः । परप्रत्यूहकल्पना कूटयुद्धादिप्रकारः अत्यन्तोच्छेदानुसरणपीडनाभ्यां सहसा निष्कार्यः । तथा च व्यास आह-
-
पुनरावर्तमानानाम् निराशानां च जीविनाम् । (म्भ् १२.१००.१३)
-
न शक्येद् अग्रतः स्थातुं शक्रेणापि धनंजय ॥
यदा संदिग्धं पराजयं274 तदापक्रमणं युक्तम् । निर्गतो हि जीवो न कार्यम् आसादयति, येन भद्रानि पश्यति, स्वर्गम् अर्जयति मृत इति ॥ ७.२०० ॥
जित्वा संपूजयेद् देवान् ब्राह्मणांश् चैव धार्मिकान् ।
प्रदद्यात् परिहारांश् च275** ख्यापयेद् अभयानि च ॥ ७.२०१ ॥**
मेधातिथिः ...{Loading}...
येन केनचित् प्रकारेण जित्वारिं276 लब्धप्रशमनम् इदम् । अतो ऽस्मिन्277 पुरे जनपदे देवब्राह्मणांश् च धार्मिकान् विहितानुष्ठायिनो278 यथासामर्थ्यात् प्रतिषिद्धवर्जं कामात् स्वातन्त्र्येणारीन् जित्वा साध्यप्रवृत्तादिकं गन्धधूपपुष्पद्रव्यं सविभागास्फोटनादिसंस्कारद्वारेण यथार्हम् अभ्यर्चयेत् । कुटुम्बिनां परिहारार्थं स्थितिर् यथाप्रवृत्तिविशिष्टकरभारशुल्कप्रदेशानां प्रदानेन तथा तया वा संवत्सरम् एको द्वौ वा दद्यात् । उच्चानां च पौरजानपदबलानाम्279 आतपादिडिण्डिमकगदापातेन ख्यापयेत् “तैर् यैः स्वाम्यनुरागाद् अस्थानम् अपचितं तेषाम् अप्य् आ रक्षान्तं280 यथास्वं स्वं व्यापारम् अनुतिष्ठन्तु” इति ॥ ७.२०१ ॥
एवम् अनुग्रहे क्रियमाणे ऽपि यदा पौरजानपदानाम् अन्येषां वा281_ स्वाम्यनुरागाद् अहं वक्तृतैजसभावो बहुमतः स्याद् इति मन्येत मदीयस्य दण्डो ऽवस्थातुं न शक्नुयात् तदा ।_
सर्वेषां तु विदित्वैषां समासेन चिकीर्षीतम् ।
स्थापयेत् तत्र तद्वंश्यं कुर्याच् च समयक्रियाम् ॥ ७.२०२ ॥
मेधातिथिः ...{Loading}...
एष पौरादीनाम् अभिप्राय इति282 संक्षेपेण ज्ञात्वा “नैतद् एवम् इच्छति तत्कुलीनं कर्तुम् इच्छति” अयम् एव तस्मिन् देशे तद्वंश्यं मृदुमलं प्रियसुखकलत्रं तेन संहततत्प्रकृतिभिश् च प्रधानादिभिः समयं कुर्यात् समकोशदानादि परिमाणं च भवता मम दैवाकारेण पापेन भवितव्यम्, कार्याकार्ये कालेन स्वयम् उपस्थातव्यम् उभयतो दण्डेन कोशेन चेत्यादि ॥ ७.२०२ ॥
प्रमाणानि च कुर्वीत तेषां धर्म्यान् यथोदितान् ।
रत्नैश् च पूजयेद् एनं प्रधानपुरुषैः सह ॥ ७.२०३ ॥
मेधातिथिः ...{Loading}...
यत्प्रकारावस्थास् तेषाम् उपचिताः पूर्वप्रवृत्ताः ब्रह्मदेयामरवृत्तिदेवस्वव्यापारादयस् तान् अनुजानीयात् प्रमाणानि कुर्याद् एवं ह्य् अस्मिंस् तेषाम् अनुरागो भवति । ये च तत्र प्रधानाः पुरुषास् तत्र प्रतिज्ञास्वजनबहुत्वादिगुणैस् तैः सह राजानम् एनं शस्त्रधनधान्यालङ्कारवाहनछत्रपीठिकादरपट्टबन्धादिभिः283 पूजयेत् ॥ ७.२०३ ॥
कस्मात् पुनः प्रकृतिभ्यो रत्नादिदानम्, उच्यते ।
आदानम् अप्रियकरं दानं च प्रियकारकम् ।
अभीप्सितानाम् अर्थानां कालयुक्तं284** प्रशस्यते ॥ ७.२०४ ॥**
मेधातिथिः ...{Loading}...
आदेयस्याप्रतिपादनं नवस्य राज्ञो ऽन्यस्य वाप्रियकरम् अप्रीतेः कारणं हेतुः । दानं च प्रतिदानं प्रियकारकम् एतद् उभयं बहुश एवं प्रसिद्धम् अपि क्रियमाणम् अभिमतानाम् अर्थानां सुखावहं भवेद् अन्यथा च दुःखयतीत्य् अर्थः285 । कालयुक्तं कालोपपन्नं प्रशस्यते । यस्माद् अपि क्वचित् काले किंचन प्रीतिं जनयति तदापि नाल्पम् अशोभनं वा प्रीतिम् उत्पादयति । तस्मात् कालम् अपेक्ष्य दानादाने कार्ये इति ॥ ७.२०४ ॥
यत्किंचिद् अतिक्रान्तं वक्ष्यमाणं किंचन तत् ।
सर्वं कर्मेदम् आयत्तं विधाने दैवमानुषे ।
तयोर् दैवम् अचिन्त्यं तु मानुषे विद्यते क्रिया ॥ ७.२०५ ॥
मेधातिथिः ...{Loading}...
सामर्थ्याद् अत्र कर्मकार्यफलं 286 कर्म । तत् सर्वम् अशेषम् आयत्तम् अधीनम्287 क्वापि । विदधातीति विधानम्, कर्मफलं यद् दिशति । तद् विशेषयति- दैवमानुषे । दैवे288 धर्मादौ पूर्वकृतविहितप्रतिषिद्धविषये चात्मनः कार्यकर्मफलं यदि फलं289 कर्मक्रिया दृष्टार्था नयानययोः । तथा च श्रुतिः-
-
विधिर् विधानं नियतिस्वभावः कालो ब्रह्मेश्वरः कर्म दैवम्
-
भाग्यानि पुण्यानि भूतान्तर्योगः पर्यायनामानि पुराकृतस्य ।
स्मृतिर् अपि ।
-
दैवम् आत्मकृतं विद्यात् कर्मवत् पौर्वदेहिकम् ।
-
स्मृतः पुरुषकारस् तु क्रियते यद् इहापरम् ॥ इति ।
दैवमानुषस्येति प्राप्ते मृतवशाद् दैवे मानुषस्यापि कारणता विवक्षिता । अस्मिन् कार्ये इदं290 क्रियाफलम् आयत्तम् । न दैवं पुरुषकाररहितं फलं ददाति । अवश्यं हि तेन पुरुषप्रयत्नो ऽपेक्षितव्यः । न च पुरुषकारो दैवेनेति । दैवाच् च पुरुषकारनिरपेक्षात् फलस्यापि पुरुषसंनिपातो भवेद् अपि गर्भस्य । असति गर्भे नियमैर् दैवसंनिपातात् फलसंभवो ऽनुमेयः । एवं पुरुषप्रयत्नाद् अपि यदि दैवनिरपेक्षा स्यात् । यतो व्यायामे सति सर्वदा सर्वेषां स्यात् । नैतद् अस्ति । तस्माद् उभयं कारणम् । तथा च व्यास आह ।
-
आरम्भा मानुषाः सर्वे निदानं कर्मणोर् द्वयोः ।
-
दैवे पुरुषकारे च परतो ऽन्यन् न विद्यते ॥ इति । (म्भ् १०.२.२)
समानतन्त्रे ऽपि- “दैवं नयानययोर् मानुषं कर्मलोकं पालयति” इति (च्ड़्। कश् ६.२.६–७) ।
- अत्र दैवकारणा आहुः । दैवम् एवात्र कारणम् । दृश्यन्ते हि जडक्लीबपङ्ग्वादयः कुणयः291 पुरुषकाररहिता अपि सुखिनो निष्प्रतीकारा अन्योपाधिककर्मफलं292 लभमानाः । तथालंप्रतीकारा अप्य्293 अव्यङ्गशूराः प्रवीणाश् च शास्त्रे दक्षाश् च दुःखिनो294 यतमानाश् च । तथा पुरुषकारनिरपेक्षं दैवमात्राभिधानाद् धनाधिगमाशनिनिपातादिभिर्295 इष्टानिष्टफलम् उत्पाद्यमानम् उपलभन्ते । एवं च कृत्वा परलोकहेतवः क्रियारम्भोपदेशाः296 सुतराम् अर्थवन्तो भवन्ति । तथा च “यत्नेन पूर्वकृतानीहोपभुञ्जीमहे, इह कृतान्य् अपि परत उपभोक्ष्यामहे” इति विजानन्तो ऽविचिकित्सा मनुष्याः । धर्म297 एवं प्रयतितव्यम् । तथा चोदाहरन्ति ।
-
जानामि धर्मं न च तत् करोमि
-
पापं न जानामि न मे प्रवृत्तिः ।
-
धात्रा निसृष्टो ऽस्मि यथा तथाहं
-
नातः परं शासयितास्ति कश्चित् ॥ इति ।
-
पुरुषकारिणो ह्य् आहुः । पुरुषकार एवात्र कारणं कृषित्वम् अनलसः कुर्वन् स्वव्यापारफलं कर्तृकरणकार्यं298 कृष्यादिषु प्राप्नुयात् । तथा चोक्तम् ।
-
कर्मैवेहानसाधूनाम् आलभ्यानुपसेविता ।
-
कर्म कृत्वा हि पुरुषो भुङ्क्ते चैव न चात्ति न299 ॥
सत्य् अपि चान्नसंभवे न ह्य् अभुञ्जन्तस् तृप्यन्ति । तदा तत्र चाभ्यवहारैर् यत् समनन्तरं च फलं तन्निमित्तफलोत्पाद इति न्यायः । तस्माद् अत्रादृष्टव्यापारः । एवं च कृत्वार्थवन्तः क्रियारम्भोपदेशा भवन्ति300 । तथा चाहुः ।
-
प्रतिहन्ति मुनिर् येन दैवम् आपतितं क्वचित् ।
-
शीतोष्णे च तथा वर्षम् उत्थापयति हन्ति च ॥
एवम् आस्थितेभ्य उभयं कारणम्, अन्यतराभावे फलाभावात् । क्वचित् तु केचित् प्राधान्येन वर्तन्त इति तत् परिगृह्यते । कृतो ऽपि पुरुषकारो बलवता दैवेनाभिभूतो विशीर्यते । आर्द्रम् इव दार्व् अल्पाग्नौ प्रक्षिप्तं न ज्वलति । एवं यदि दुर्बलं दैवं महता यत्नेन पुरुषकारेण पुरस्कृतं फलति यथार्द्रम्301 अपि दारु महत्य् अग्निस्कन्धे प्रक्षिप्तम् । नाग्निस् तदापयाति302 ।
- दैवं303 पुरुषकारेण दुर्बलं ह्य् उपहन्यते ।
- दैवेन चेतनं कर्म विशिष्टेनोपहन्यते ॥
इत्य् एव परिकल्प्याह ।
- तयोर् दैवपुरुषकारयोर् दैवम् एव्आचिन्त्यं । तुशब्दो ऽवधारणार्थः । अपरिज्ञातस्वरूपम् । कस्मिन् काले तन्निमित्तेन फलं दास्यतीत्य् एवम् अचिन्त्यम् । शास्त्राद् ऋते चास्य परिज्ञानाद्304 एवाविचार्यत्वात् प्रयोक्तुम् अशक्यत्वाद् अशक्यम् इति । तत्र दैवं निष्फलम् । मनुष्येषु पुरुषकारो वक्ष्यते क्रिया, प्रकृतत्वात् । वित्तं305 च क्रिया मानुषे । किंचिज् ज्ञानं कृष्यादिभिः शक्यं चिन्तयितुम् “ईदृशं मया कृष्यादि कर्तव्यम् एतैः साधनैर् दैवादिभिर् एव च, तस्य चेदृशं फलम्” इति । तद् एवं306 प्रारब्धं यदारंभम् अध्यावसानेषु विवत्सते307 । तेन दैवं समाधेयम्, न विपन्नानाम् अप्य् एवं कर्तव्यम् इति । यावत् फलवेदनम् इत्य् अतो दैवस्याचिन्त्यत्वान् न तत्परेणासितव्यम् । मनुष्यकर्म चिन्तयित्वा यद् यत् कार्यं तद् अनुष्ठेयम् । यत्किंचनकारी हि विनश्यतीति ।
दैवमानुषसंपन्ना यात्रा सर्वार्थसाधिका ।
तस्याम् अतिशये दैवं वर्तते पौरुषं समम् [^३१४]॥ ७.२०६.१ ॥** [मेधातिथिपाठे ऽधिकः -१। ]
मेधातिथिः ...{Loading}...
- शक्तित्रययोगात् पुरुषकारेण च युक्तस्य परराष्ट्रविजयचिकीर्षा यत्र308 दैवमानुषसंपन्ना भवति सैव सर्वार्थसाधिका भवति । तथापि तस्याम् अतिशयं309 दैवं प्रवर्तते310 । अतिरिक्तः पुरुषकार एव भवतीत्य् अर्थः । न हि विजिगीषोर् दैवम् अन्तरेण, तदा यातव्यस्य व्यसनं दैवं मानुषं भवति । पौरुषं समं दैवेन नातिव्यूढं311 द्वयोर् वा समं तुल्यम् ॥ ७.२०५-अ ॥
किं च ।
दैवेन विधिनायुक्तं मानुष्यं यत् प्रवर्तते ।
परिक्लेशेन महता तदर्थस्य समाधकम् ॥ ७.२०६.२ ॥ [मेधातिथिपाठे ऽधिकः -२। ]
मेधातिथिः ...{Loading}...
तद् अयुक्तं दैवेन312 विधानेन पराङ्मुखे दैवमानुषे पुरुषकारः प्रवर्तते अष्टविधकर्मणि, तन् महता क्लेशेन अर्थं फलं साधयति, निष्फलं वा भवति । अतः क्लेशेनाप्य् असिद्धो वा दैवापेक्षो भूत्वा न परितुष्येत् ॥ ७.२०५-ब् ॥
पुरुषार्थस् तु दैवेन संयुक्तो यः प्रवर्तते।
अक्लेशेन स सर्वेषां मन्त्रार्थानाम् एव साधकः ॥ ७.२०६.३ ॥ [मेधातिथिपाठे ऽधिकः -३। ]
मेधातिथिः ...{Loading}...
पुरुषार्थकः पुरुषकरः । स एव यदात्यन्तगुणे313 दैवे ऽनुष्ठीयते तदा क्लेशेन विनैकान्तेन समग्रफलसाधको भवति ॥ ७.२०५-च् ॥
- अस्य दार्ढ्यार्थम् उदाहरणं श्लोकद्वयेन ।
केचिद् युद्धम् अपि क्षेत्रं युक्तं पुरुषकर्मणा ।
दैवहीनाय तु फलं कस्यचित् संप्रयच्छति ॥ ७.२०६.४ ॥ [मेधातिथिपाठे ऽधिकः -४। ] केचित् क्षेत्रस्य भृतम् इत्य् उक्तं पुरुषकर्मणा ॥ ७.२०६.५ ॥ [मेधातिथिपाठे ऽधिकः -५। ]
मेधातिथिः ...{Loading}...
पुनःपुनर्दृष्टेषु शोधितं यथावच् चोक्तम् इत्याद्युपकारकलक्षणेन दैवेन हीनाय फलं न ददातीति ॥ ७.२०५-द्-ए ॥
संयुक्तस्यापि दैवेन पुरुषकारेण वर्जितम् ।
विना पुरुषकारेण फलं क्षेत्रं प्रयच्छति ॥ ७.२०६.६ ॥ [मेधातिथिपाठे ऽधिकः -६। ]
मेधातिथिः ...{Loading}...
संयुक्तस्यापि दैवेनेति । दैवयोगस् तु तस्मात् फलादानाद् अनुमीयते । एवं च पूर्वस्य314 तदाभावः दैवभावः ।
- अन्ये त्व् आहुः । दैवं यथाकालं पर्याप्तं दृष्टाद्युपलम्भाद् एव कृतत्वान् कृतम् इति यथा तत् पुरुषकाराभावं दर्शयति बीजवर्जितम् इत्य् अबीजम् ॥ ७.२०५-ड़् ॥
चन्दार्काद्या ग्रहा वायुर् अग्निर् आपस् तथैव च ।
इह दैवेन साध्यन्ते पौरुषेण प्रयत्नतः ॥ ७.२०६.७ ॥ [मेधातिथिपाठे ऽधिकः -७। ]
सह वापि व्रजेद् युक्तः संधिं कृत्वा प्रयत्नतः ।
मित्रं हिरण्यं भूमिं वा संपश्यंश् त्रिविधं फलम् ॥ ७.२०६ ॥
पार्ष्णिग्राहं च संप्रेक्ष्य तथाक्रन्दं च मण्डले ।
मित्राद् अथाप्य् अमित्राद् वा यात्राफलम् अवाप्नुयात् ॥ ७.२०७ ॥
हिरण्यभूमिसंप्राप्त्या पार्थिवओ न तथैधते ।
यथा मित्रं ध्रुवं लब्ध्वा कृशम् अप्य् आयतिक्षमम् ॥ ७.२०८ ॥
धर्मज्ञं च कृतज्ञं च तुष्टप्रकृतिम् एव च ।
अनुरक्तं स्थिरारम्भं लघुमित्रं प्रशस्यते ॥ ७.२०९ ॥
प्राज्ञं कुलीनं शूरं च दक्षं दातारम् एव च ।
कृतज्ञं धृतिमन्तं च कष्टम् आहुर् अरिं बुधा ॥ ७.२१० ॥
आर्यता पुरुषज्ञानं शौर्यं करुणवेदिता ।
स्थौललक्ष्यं च सततम् उदासीनगुणोदयः ॥ ७.२११ ॥
क्षेम्यां सस्यप्रदां नित्यं पशुवृद्धिकरीम् अपि ।
परित्यजेन् नृपो भूमिम् आत्मार्थम् अविचारयन् ॥ ७.२१२ ॥
मेधातिथिः ...{Loading}...
तादृशीम् अपि भूमिम् अविलम्बमानः परित्यजेत् । क्षेम्या आटविकादिभिर् अनभिभवनीया । नित्यम् अस्य प्रधानम् उभयम् । बहुसस्यादेवमातृका च पशुवृद्धिकारी च जाङ्गलरूपत्वाद् बहुफलपत्रतृणत्वाच्319 च । एवंगुणा हि भूमिर् वणिक्कृषीवलबहुला भवति, दुर्भिक्षव्याधिरहिता कान्तारमनुष्यात्मभरणा चेति । चतुर्थ्या प्रकृतिपरित्यागे चोभयम् । न ततो ज्ञापयति न सहसायुधानां प्रकृतिं परित्यजेत् तस्याम् अवस्थायाम्, किं तु तां परित्यजेद् या मन्येत साक्ष्ये शेषां प्रकृतिभिः प्रत्यादातुम् इति । यथा तु न मित्रकोशदण्डपरित्यागे नाविशेषं प्रतिक्षणं यां मन्येत तदा गुणवतीम् अपि भूमिं त्यजेत् ॥ ७.२१२ ॥
आपदर्थे धनं रक्षेद् दारान् रक्षेद् धनैर् अपि ।
आत्मानं सततं रक्षेद् दारैर् अपि धनैर् अपि ॥ ७.२१३ ॥
मेधातिथिः ...{Loading}...
कृच्छ्रप्रकारसाध्यो ऽयं नियमो भवति । आपदर्थे । यथा मशकार्थे धूमो मशकान् अपनेतुम् इति ज्ञायते, तन्निमित्तं धनं रक्षेत्, नान्यत्र धनरक्षायाः कार्यम् अस्ति । दत्तभुक्तफलं320 हि धनम् इति । तथा हि तेन प्रतीक्ष्य यानम् आसनं दण्डं बिभर्ति, उपजप्यान् उपगृह्णातीति । धनेनापि दारा रक्ष्याः । दारग्रहणं प्रणिधिसंबन्धिप्रत्युपलक्षणार्थम् । आत्मा तु रक्ष्यः । अन्येन प्रकारेणात्मानं रक्षितुम् असमर्थः सर्वस्वं दत्त्वा दारान् अपि काले परित्यज्य वाग्यतः स्थितो दारधनादि वर्जयित्वा धर्मं करिष्यति । ये तु धनदारानुरोधेन विनश्यति न तेषां धनदारादि दृष्टम्, नाप्य् अदृष्टम्, धर्माधर्मानाचरणात् । न च कौमारदारत्यागित्वम् । न त्यागप्रतिषेधस्यायं च वा जयति । राजधर्मप्रकरणे ऽपि चायम्321 उक्तो दृष्टार्थत्वाद् अन्यस्यापि द्रष्टव्यः ।
-
ननु च राजा राज्यं प्राप्य महाधनो ऽश्वमेधादि करिष्यति, अतुलं च सुखम् अनुकरिष्यति, अतस् तु लोकः संक्रुष्टं किं करिष्यति ।
-
नैष दोषः । अल्पस्यापि पावनानि कर्माणि सन्ति, अधनस्यापि जपादयः । विशेषनिमित्तानि धनान्य् एव । न चेदम् अस्याम् अवस्थायां लोकसंक्रुष्टम् इति । न च सहसैतत् कार्यम् ॥ ७.२१३ ॥
यतः ।
सह सर्वाः समुत्पन्नाः प्रसमीक्ष्यापदो भृशम् ।
संयुक्तांश् च नियुक्तांश् च सर्वोपायान् सृजेद् बुधः ॥ ७.२१४ ॥
मेधातिथिः ...{Loading}...
आपदो दैवमानुषाणि व्यसनानि । तानि प्रकृतिविषयाणि युगपदुपजातान्य् अत्यर्थम्322 अपि यथा स्युस् तथा । संयुक्तांश् च सामपुरःसरं दानम्, सामपूर्वकं भेदम्, साम दानभेदसहितम्,323 दण्डम् एव वा दानम् एव वेत्यादिकान्324 सर्वोपायान् विसृजेद् बुध इति । यत्र यत् प्राप्तं तत् समीक्ष्य विचार्य प्रयुञ्जीतेत्य् अर्थः, न तु विषण्ण आसीत ॥ ७.२१४ ॥
कथम् इत्य् अपेक्षायाम् आह ।
उपेतारम् उपेयं च सर्वोपायांश् च कृत्स्नशः ।
एतत् त्रयं समाश्रित्य प्रयतेतार्थसिद्धये ॥ ७.२१५ ॥
मेधातिथिः ...{Loading}...
“साधयेत् कार्यम् आत्मनः” इति पाठान्तरम् । तत्र उपेतारम् आत्मानं प्राप्य कार्यं मित्रवत् साधयेत् । सर्वोपायाः समस्ता325 व्यस्ता एव । अयम् अपि326 उपेयसामान्यनिर्देशम् आह । समाश्रित्य अङ्गीकृत्य । समर्थचिन्तनेनैतत् समावृतं327 भवति । किम् अर्थम् उपायाः समर्थेनानुमताः समर्थस् तथा किं युक्तम् इति विचार्येयता केनोपयेनैषाम् इदं प्राप्नुयाद् इति । कृत्स्नश इति त्रयविशेषणम्, कृत्स्नम् इत्य् अर्थः । एवं च यो यद् उपायसाध्यो यदा यथा युक्तस् तत्र तदा तथा प्रयुञ्जीत सव्कार्यसिद्ध्यर्थम् उपायम् । एतासाम्328 अवस्थानां चानन्त्यात् सर्वं तन्त्रेणाशक्यं वक्तुम् इति समासेनोक्तम्, अतः परीक्षाम् उपाचरेत् । उपेत्य विशेषभावतो ऽप्य् आह ।
-
स तु युक्तो हि संधत्ते युक्त आत्मपराक्रमः ।
-
ताव् उभौ नयसंपन्नौ स्तेनो ऽप्य् अयसमन्वितः ॥ इति ॥ ७.२१५ ॥
[^३३६]एवं सर्वम् इदं राजा सह संमन्त्र्य मन्त्रिभिः ।
व्यायम्याप्लुत्य मध्याह्ने भोक्तुम् अन्तःपुरं विशेत् ॥ ७.२१६ ॥
मेधातिथिः ...{Loading}...
एवं यथोक्तं राजा वृत्तम् इदं सर्वम् आपद्य् अनापदि वात्मशक्त्यपेक्षया वा कस्याम् अवस्थायां किं कर्तव्यम् इति मन्त्रिभिः सह विचार्य, मधंदिनम् उक्तकालं मध्यंदिनं व्यायामं कृत्वोपचार्यं स्नानं च । स्नानम् अक्रमोक्तम् अपि पुना राज्यार्थम् उच्यते मङ्गलाचारे युक्तानाम् । राजा स्नानपरिग्रहार्थं भोजनादियुतं तद्गृहे पूर्वं स्नानापेक्षया अन्तःपुरं यायाद् इति विशेषार्थम्329 उपसंहारः । विविक्ते देशे ॥ ७.२१६ ॥
तत्रात्मभूतैः कालज्ञैर् अहार्यैः परिचारकैः ।
सुपरीक्षितम् अन्नाद्यम् अद्यान् मन्त्रैर् विषापहैः ॥ ७.२१७ ॥
मेधातिथिः ...{Loading}...
तत्र अन्तर्गतगृहे । आत्मरक्षाभूता आत्मसमाः । कालज्ञाः वयोविशेषावस्थादिप्रतिनियतकाले भक्ष्यभोज्यदानादिविशेषज्ञाः । अहार्याः अभेद्याः विश्वसनीयाः । परिचारकाः स्वरवैद्यादयः । एतैर् गृहितं सर्वं परीक्षितम् अदनीयम् अन्नाद्यम् अद्यात् । परीक्षा कुशलैर् वैद्यैर् अग्निचकोरादिभिः कर्तया । विषादिसंसृष्टस्य शुष्कस्याशुद्धता भवति, वैवर्ण्यैः सुगन्दोपघातश् च, अतिम्लानताग्नौ प्रक्षिप्तस्य, वेतिवेतिशब्दः, वैवर्ण्यं ज्वालासु330 । ईक्षिते च तस्मिन् वयसां विपत्तिः । दर्शनेन म्रियते यत्र कोकिलः, म्लायति जीवंजीवकः, चकोरस्याक्षिणी विनश्यतो विषं प्रदर्श्यापि, भवति मुष्कस्यावग्रहः स्वेद इत्यादि । मन्त्रैश् च विषापहैः परिजपेद् व्यापादिकासु ॥ ७.२१७ ॥
विषघ्नैर् उदकैश् चास्य सर्वद्रव्याणि योजयेत् ।
विषघ्नानि च रत्नानि नियतो धारयेत् सदा ॥ ७.२१८ ॥
मेधातिथिः ...{Loading}...
विषघ्नैर् उदकैश् चास्य सर्वद्रव्याणि राजौपयिकानि वस्त्रादीनि विशोधयेत् । विषघ्णानि रत्नानि गरुडोदीर्णनागदमणिप्रभृतीनि331 । नियतः प्रत्यये नित्यं भोजनकालाद् अन्यदापि धारयेत् ॥ ७.२१८ ॥
परीक्षिताः स्त्रियश् चैनं व्यजनोदकधूपनैः ।
वेषाभरणसंशुद्धाः स्पृशेयुः सुसमाहिताः ॥ ७.२१९ ॥
मेधातिथिः ...{Loading}...
परीक्षिता विचारिता उपधाभिः शीलशौचाचारैः स्त्रियो दास्यः परिचारिका व्यजनोदकधूपनैः करणभूतैः संस्पृशेयुर् उपचरेयुर् वेषादिसंयुक्ताः सुवेषाः स्नानेन कृत्वा । समाहिता अप्रविक्षिप्तमनसः । वेषाभरणं332 कपटवेषः केशनखाद्य् एवं विचार्य333 । कदाचित् तत्रायुधानि कृत्वा विश्रब्धं हन्युः । आभरणानि च विषदिग्धैर् आभरणैः स्पृशेयुर् इति ॥ ७.२१९ ॥
एवं प्रयत्नं कुर्वीत यानशय्यासनाशने ।
स्नाने प्रसाधने चैव सर्वालङ्कारेषु च ॥ ७.२२० ॥
मेधातिथिः ...{Loading}...
एवं विषोदकाञ्चनादिनादौ प्रयत्नं कुर्यात् । स्नानं शिरःस्नानं । गन्धो रोचनादि । आसनम् अत्र प्रदर्शनार्थम् । तत्र ह्य् उपविष्टो यथा तत्र महान् यत्नः क्रियते एवं यानादाव् अपि कर्तव्यः ॥ ७.२२० ॥
भुक्तवान् विहरेच् चैव स्त्रीभिर् अन्तःपुरे सह ।
विहृत्य तु यथाकालं पुनः कार्याणि चिन्तयेत् ॥ ७.२२१ ॥
मेधातिथिः ...{Loading}...
तस्मिन्न् एवान्तर्गृह आत्मविनोदाय स्त्रीभिर् नवोढभार्यादिभिर् यथासुखं क्रीडेत334 । यथाकालम् इति यावद् विहरणकालम् इति चोत्तरेण संबन्धनीयम् । विहृत्य विश्रान्तः, कालोपपन्नानि कार्याण्य् एकाकी मन्त्रिभिश् च सह पुनर् विचारयेत् ॥ ७.२२१ ॥
अलंकृतश् च संपश्येद् आयुधीयं पुनर् जनम् ।
वाहनानि च सर्वाणि शस्त्राण्य् आभरणानि च ॥ ७.२२२ ॥
मेधातिथिः ...{Loading}...
अन्तःपुरान् निष्क्रम्य, आलंकृत आयुधीयं पश्येत् तस्याच्छायिकां दद्यात् । पुनर् इति वचनात् पूर्वाह्णे दृष्टम् अपि नित्यं दर्शनीयम् । आयुधजीविनाम् आयुधादौ यत्नो भवति । सर्वाणि च वाहनानि । तेषां दर्शनम् अप्य् उपचयविज्ञानार्थम्, नियुक्तानां च तत्र विसेषाधानार्थम् । दण्डप्रधानं जीविभृत्यावेक्षणम् अभीक्ष्णम् उभयतस् ततः ॥ ७.२२२ ॥
संध्यां चोपास्य शृणुयाद् अन्तर्वेश्मनि शस्त्रभृत् ।
रहस्याख्यायिनां चैव प्रणिधीनां च चेष्टितम् ॥ ७.२२३ ॥
मेधातिथिः ...{Loading}...
तरिवर्णिकस्योक्तम् अपि संध्योपासनम् उच्यते । प्रजाकार्यं पुनः कंचित् कालम् अतिक्रामेद् इति, उत्तरक्रियानन्तर्यार्थं वा । अन्तर्वेश्मनि । रहसि प्रासादादौ भवम्, तस्य्आख्यायिनः पौरा वा केचित् प्राप्तप्रणिधयः, तेषां चेष्टितम् । चेष्टा व्यवहारः । किं दृष्टं श्रुतं कृतं चेति तेषां चास्मिन् काले दर्शनम् इष्यते । परैर् अनवबोधनार्थं स्वस्थस्य चार्थकार्यकालनियमेनापतितं वर्तेत ।
-
यथा चोत्पादितं कार्यं संपश्येन् नो ऽभितापयेत् ।
-
कृच्छ्रसाध्यम् अतिक्रान्तम् असाध्यं वापि जायते ॥ इति ॥ ७.२२३ ॥
गत्वा कक्षान्तरं त्व् अन्यत् समनुज्ञाप्य तं जनम् ।
प्रविशेद् भोजनार्थं च स्त्रीवृतो ऽन्तःपुरं पुनः ॥ ७.२२४ ॥
मेधातिथिः ...{Loading}...
तस्माद् गृहान्ते कक्षान्तरं गत्वा तं च रहस्याख्यायिनं विसृज्य स्त्रीभिः परिचारिकाभिः335 परिवृतो ऽन्तःपुरं पुनः प्रविशेत् ॥ ७.२२४ ॥
तत्र भुक्त्वा पुनः किंचित् तूर्यघोषैः प्रहर्षितः ।
संविशेत् तु यथाकालम् उत्तिष्ठेच् च गतक्लमः ॥ ७.२२५ ॥
मेधातिथिः ...{Loading}...
किंचिद् इत्य् अव्ययम् । तूर्याणि वेणुवीणापणवमृदङ्गभेरीशंखादीनि । तेषां घोषैर् मृदुभिः श्रुतिसुखैः प्रहर्षितो यथाकालं संविशेद् य उचितकालस् तं तन्336 नयेद् इति । गतक्लमः विगताशेषदुःखः कार्यदर्शनाय्ओत्तिष्ठेत् ॥ ७.२२५ ॥
एतद् विधानम् आतिष्ठेद् अरोगः पृथिवीपतिः ।
अस्वस्थः सर्वम् एतत् तु भृत्येषु विनियोजयेत् ॥ ७.२२६ ॥
मेधातिथिः ...{Loading}...
एतद् इति यद् अनुक्रान्तं “मधंदिने ऽर्धरात्रे वा” (म्ध् ७.१५१) इति । तस्याप्य् एवंवृत्तं व्यापारस् तेन स्वयम् उपतिष्ठेत् । अवस्थो भृत्येषु विनियोजयेद् वियुञ्जीतेत्य् अर्थः । यावच् छक्नुयात् तावद् एव । एवं प्रतिविहितस्वतन्त्रकृतात्मरक्षाव्यापारः प्रजाम् आत्मनश् च कार्यं करोति ॥ ७.२२६ ॥
**इति मानवे धर्मशास्त्रे भृगुप्रोक्तायां संहितायां **
राजधर्मो नाम सप्तमो ऽध्यायः ॥
इति श्रीभट्टवीरस्वामिसूनोर् भट्टमेधातिथिकृते
मनुभाष्ये सप्तमो ऽध्यायः ॥
-
M G: tatkṛtaḥ ↩︎
-
M G: svādhyāyavidhi- ↩︎
-
DK (4: 810) suggests: nirmitaḥ niṣkṛṣya utpāditaḥ yataḥ niṣkṛṣyotpādane ↩︎
-
M G J: brāhmaṇajātyutkṛṣṭā ↩︎
-
DK: mātrāśrayatvāt ↩︎
-
M G: prāyo ↩︎
-
M G: antiko ↩︎
-
M G: durupasarpinaraḥ ↩︎
-
DK (4: 812): śrīparyāyo ↩︎
-
M G 1st ed.: vindati ↩︎
-
M G 1st ed.: hy apekṣyamāṇaḥ; G 2nd ed.: ity upepkṣyamānaḥ ↩︎
-
M G: krameṇāpi ↩︎
-
J: rājā ↩︎
-
M G: svatantravirodhāpatteḥ ↩︎
-
DK (4: 813) gives the reading of Rājanītiprakāśa: yaṃ dharmaṃ yāṃ vyavasthāṃ ↩︎
-
DK (4: 813) gives the reading of Rājanītiprakāśa: sthāpayet tāṃ na ↩︎
-
DK (4: 813) gives the reading of Rājanītiprakāśa: saunikair ↩︎
-
DK (4: 813) gives the reading of Rājanītiprakāśa: narṇikā dhanikair uparodhanīyāḥ ↩︎
-
DK (4: 813) gives the reading of Rājanītiprakāśa: spṛhādoṣādinā ↩︎
-
M G J: yāgadānādi- ↩︎
-
M G: -grahaṇa- ↩︎
-
M G 1st ed.: anubandham anujñātrāparijñāyety ↩︎
-
DK (4: 684) suggests: śāsyaṃ ↩︎
-
M G J: śūlyākriyante ↩︎
-
M G: nīpo ↩︎
-
M G: vidyāśaktatayoś ↩︎
-
M G J place after krodhanaḥ the sentence: samatvena daṇḍapātanena śatrau mitre ca vardhate | ↩︎
-
DK (4: 690): -anuraktaḥ ↩︎
-
M G: nyāyapravṛttiḥ; J: nyāyapravṛttaḥ (I follow DK 4: 390) ↩︎
-
M G J: vṛttanyāyaḥ ↩︎
-
M G: tatkārye pradhānaṃ ↩︎
-
M G omit: samānābhyudayapratyavāyāḥ suhṛdaḥ snigdhāḥ ↩︎
-
DK (4: 809) suggests: svadharmaniṣṭhānāṃ ↩︎
-
M G: svadharmāpannāḥ ↩︎
-
M G 1st ed.: eṣām akaraṇān nu; G 2nd ed.: eṣākaraṇān nu; DK (4: 809): deyam ↩︎
-
M G: vijñāyante ↩︎
-
M G: -apakaraṇeṣu ↩︎
-
DK (4: 873) suggests adding: saha ↩︎
-
M G J: -āviśeyus (I follow the emendation suggestd by DK 4: 874) ↩︎
-
M G J: dvitīyaślokārthārthavādaḥ (I follow the emendation suggestd by DK 4: 874) ↩︎
-
M G: sadyopadeśāt ↩︎
-
M G: tv upayujyate; DK: hy apayujyate (perhaps a typo) ↩︎
-
DK: -kāryāya ↩︎
-
M G: -vāditrāṇām ↩︎
-
DK (4: 1572): amātyādayo ↩︎
-
DK: abhiṣaṅgaṃ ↩︎
-
M G J: avajñāyeta; I follow DK 4: 1575. ↩︎
-
M G: lakṣaḥ paricayaḥ ↩︎
-
DK (4: 1575): haret, and suggests emending to sarvahare; see sarvaharaḥ in the next sentence. ↩︎
-
M G DK: vyasana- ↩︎
-
M G: āśaṅkya ↩︎
-
DK (4: 1576) suggests: ago ↩︎
-
M G J DK (4: 1250): cāṣṭau, but the commentary reads vā. ↩︎
-
M G: prakurvīta parīkṣitān ↩︎
-
M G: bhṛtyavidhijñānaṃ ↩︎
-
KAŚ (1.9.1) and Bhāruci read: pragalbhaḥ, which is probably the original reading. ↩︎
-
M G 1st ed.: udghāṭakaḥ; G 2nd ed.: udghaṭanaṃ ↩︎
-
M G: sarvaṃ ↩︎
-
M G: avikṣiptaḥ ↩︎
-
M G: parivrājikāntaḥpure ↩︎
-
M G: pramādam ↩︎
-
M G: -pramādaḥ ↩︎
-
M G J: arthapramādakartṛsaṃnidhātṝn; I follow the conjecture of DK (4: 1250) representing the KAŚ vocabulary and the reading in MDh 7.60. ↩︎
-
DK (4: 1251) suggests reading: rājamahiṣīviṣayā rājaviṣayā ca ↩︎
-
M G J: cārayati; I follow DK (4:1251) ↩︎
-
M G add: kathaṃ mevatu ↩︎
-
M G: phalavāṃś cānapekṣamāṇasya ↩︎
-
M G 1st ed.: mahaty alam upodeti; G 2nd ed.: mahat phalam upodeti ↩︎
-
DK (4: 1772) notes that this commentary is quite corrupt. See Bhāruci’s commentary on this verse, which is followed by Medhātithi. ↩︎
-
M G: cintyapratikarma ↩︎
-
M G add: ca ↩︎
-
M G J: yāni nyāyasthānāni ↩︎
-
M G J DK: ātmasaṃdhāraṇaṃ parasaṃdhāraṇena (I follow Bhāruci) ↩︎
-
Bhāruci reads here: svārakṣyaḥ ↩︎
-
M G J DK: paśavaḥ ↩︎
-
Bhāruci reads: śatrudveśi (ī?) sītāprāyaḥ ↩︎
-
M G J DK: guptigocaraḥ ↩︎
-
M G J DK: daṇḍakaragraha (I follow Bhāruci) ↩︎
-
M G: tasmād ↩︎
-
M G: vāṇijyam uktadaṇḍa ↩︎
-
M G: devatāsamaṃ vidyāvatāṃ ↩︎
-
M G: avitānāṃ; J DK: uditānāṃ ↩︎
-
M G J DK -daṇḍopādhikam; see Bhāruci and KAŚ 13.5.14 for the reading adopted. ↩︎
-
M G: apratyatīkaṃ ↩︎
-
M G omit: tena ↩︎
-
M G: avyayahetāv; DK (4: 1252) bhayasaṃnidhāv avasāda- ↩︎
-
DK: apy utsāhavantaḥ ↩︎
-
M G: kāryakāle ↩︎
-
M G: rājñe ↩︎
-
M G: ākāra- ↩︎
-
M G: śuci- ↩︎
-
DK (4: 1672): amuṣitasmṛtiḥ (but see Bhāruci on this verse) ↩︎
-
M G: api saṃdiṣṭaṃ ↩︎
-
M G: uktadūtaguṇānāṃ ↩︎
-
M G: saṃpādanāya tatprayojanam ↩︎
-
M G: yathā dūtaḥ ↩︎
-
M G add: na ↩︎
-
The commentary here is corrupt. See DK (4: 1453) for suggestions for improvement. ↩︎
-
DK (4: 1453) suggests: parivṛtam; M G J add: dhanurdurgam; clearly this is an error. It appears that the commentary on dhanurdurga is missing. ↩︎
-
M G J: durgam; I follow the suggestion of DK. ↩︎
-
M G: vacanakaraṇādayas ↩︎
-
M G 1st ed.: -bhāvanān ↩︎
-
M G 1st ed. omit: tān ↩︎
-
M G J: arthād upadhāśuddhaiḥ (I follow DK 4.1108 suggestion) ↩︎
-
M G: karādeṣv ↩︎
-
M G: adhikṛtā- ↩︎
-
M G: vāphala- ↩︎
-
M G: vakṣyamāṇam ↩︎
-
M G add: ca ↩︎
-
M G: -śravaṇasyapy ↩︎
-
M G: dharma- ↩︎
-
This phrase is found in one ms. in G, and it is presupposed in J’s translation, although he does not give it in his edition. Omitted in DK (4: 394). ↩︎
-
G takes this verse as part of Manu asigning it the number 87, while J (correctly, I think) takes it as Medhātithi’s citation: see the commentary on pretya at the end. It is not found in my critical editon of the MDh. Thus from this point there is a discrepancy in the numbering in G and J. DK also seem to take the verse as Manu’s and places the section (pretyeti … until the end) BEFORE this verse. ↩︎
-
M G: bhāvaḥ prasāda ↩︎
-
M G J: -āhatasya ↩︎
-
M G: -balenāpekṣā- ↩︎
-
M G 1st ed. add: yathā ↩︎
-
M G J: parety (I follow DK 4: 2777) ↩︎
-
M G J: svarga ucyate, taking the latter as part of that sentence. Generally, however, Medhātithi begins his answer to an objection with ucyate (so also DK 4: 2777). ↩︎
-
M G J: tāṃś ca devāpi (I follow DK 4: 2777) ↩︎
-
M G: darśayati ↩︎
-
M G: mriyante ↩︎
-
M G places this sentence after bhṛtiparikrītasyāsvatantrasya. ↩︎
-
M G: -āsvatasya ↩︎
-
M G J: kurviti (I follow DK 4: 2777) ↩︎
-
M G: pratiṣedhāpekṣaḥ ↩︎
-
M G J: duṣkṛtasya hatas (I follow DK 4: 2780) ↩︎
-
M G: prayojakāc ↩︎
-
DK (4: 2819) gives a different reading for this sentence: tathā ca hīnāḥ dhanaṃ prāpya taddhanaṃ mamārdham iti prayuñjate | ↩︎
-
DK (4: 2819) suggests: saṃbhūyajaye ↩︎
-
DK (4: 2780): calet ↩︎
-
M G: yathāyavyayaṃ ↩︎
-
M G: evamādi- ↩︎
-
M G J: ityādi; my reading conjectural following the parallel readings in this passage. ↩︎
-
M G J: bālapramādam; DK (4. 1110) sugests pāla-, and this is actually the reading of Bhārucit who is followed here by Medhātithi. ↩︎
-
M G J: yāvantas teṣām suhṛdāv (I follow DK 4: 1404) ↩︎
-
DK (4: 1404) suggests: daṇḍaih sa bāndhavaiḥ saha ↩︎
-
M G: rakṣati dhanaṃ ↩︎
-
DK (4: 1405): rakṣitṛsamūhaḥ ↩︎
-
M G DK: adhikāri- ↩︎
-
DK (4: 1406) suggests adding: yāni ↩︎
-
M G: sabalena ↩︎
-
M G: kārpaṭikādibhiḥ ↩︎
-
DK (4: 1408) suggests: bhakṣayanti ↩︎
-
DK adds: vā ↩︎
-
M G: svalpetad ↩︎
-
M F: mūlāchedo; J: mūlācchedo ↩︎
-
M G: parimāṇāniyama- ↩︎
-
DK (4: 1339) suggests: aparuddha uddharaṇe ↩︎
-
M G omit: tat- ↩︎
-
M G: nākheditā ↩︎
-
M G: abhipretam ↩︎
-
M G: brāhmaṇāś ↩︎
-
M G: yata ↩︎
-
DK (4: 945): -vādanaḥ ↩︎
-
M G 1st ed.: mantrāñcāṅgaṃ ↩︎
-
J omits: imāny aṅgāni . . . guptamantraś ca syāt; for this passage see KAŚ 1.15.42f. ↩︎
-
M G: parivartitavārttāvinikāḥ ↩︎
-
M G: sadasadgrāhīrūpavārttādayo ↩︎
-
M G: narendravidyāś ca ↩︎
-
M G omit: itareṣāṃ grahaṇam ↩︎
-
DK (4: 1776) suggests: śukādayo ‘pasārāsattve ↩︎
-
M G: anumantum ↩︎
-
M G J: sārthaṃ ↩︎
-
M G J: yenārthajātenopadiśyate tat tadā dūṣayati; DK (4: 1011) omits one yena. Here Medh is copying Bhāruci’s commentary on this verse verse, which itself is based on Kauṭilya’s Arthaśāśtra 1.17.31. ↩︎
-
M G J DK 4: 1777: -matiśuddhāṃ; I follow the reading of DK (4:977) based on Bhāruci. ↩︎
-
M G: devīm grahalīno; J: devīm grahalīno; DK (4:977) devīgrahalīno; I follow Bhāruci. *J and DK (4: 1777) connects devīṃ with nāpariśuddhām. ↩︎
-
M G J: bhadraseno mātuḥ śayanāntargataḥ rājānaṃ jaghāna | kupuruṣaśaṅkhaviṣadigdhena nūpureṇāvantyaṃ (M G omit: rājānaṃ jaghāna). My reading is based on DK (4:977). ↩︎
-
M G: mekhalāyāḥ ↩︎
-
M G J DK: vā parasparābhiceṣṭitaṃ; my reading is based on Bhāruci. ↩︎
-
M G: akṛtārambha- ↩︎
-
J DK (4: 1777): cānuvacane; for this and following readings, see Bhāruci. ↩︎
-
M G J DK (4: 1777): arthādhikṛtānāṃ matipravṛttinirodho ↩︎
-
M G J DK: anuvacanam ↩︎
-
M G: svakarmasaṃśaya-; Bhāruci reads: -saṃśraye ↩︎
-
M G: -gṛhapatika- ↩︎
-
M G J: paramadharmajñāḥ (this corrupt passage has been restored on the basis of KAŚ 1.11 and Bhāruci on MDh 7.154). ↩︎
-
M G: evācchātavyaṃ ↩︎
-
M G J: prabhūtahiraṇyāyāṃ dāsakarma ↩︎
-
M G J: kṛṣikarmaphalaṃ tac ca ↩︎
-
M G add: sarvapravrajitāḥ svaṃ svaṃ karmopajapeyuḥ ↩︎
-
M G: muṇḍāntevāsi- ↩︎
-
M G J place ca after duṣṭavadhaṃ ↩︎
-
M G J: tasya for tad asya ↩︎
-
M G J: vaṃśalakṣaṇavidyām (omit ‘vaśyabhartavyā) ↩︎
-
M G: -vidyāsaṅgavedyāṃ; J: -vidyāṃ saṅgavidyāṃ; DK (4: 1652): -vidyāṃ saṃsargavidyāṃ (which is found in KAŚ 1.12.1; for my reading, see Bhāruci’s comentary) ↩︎
-
M G J: mantriṇas ↩︎
-
M G J DK: etatpañcasaṃsthāyatair ↩︎
-
DK (4: 1652): satribhiḥ ↩︎
-
M G J: mantriṇaḥ ↩︎
-
M G J DK: saṃdhārayet (for my reading, see Bhāruci) ↩︎
-
M G J: vārisaṃcāriṇasthā ↩︎
-
M G J: ca gūḍhasaṃjñitāḥ (this verse is KAŚ 1.12.24) ↩︎
-
M G J DK (4: 1777): cātmīyād; see Bhāruci ↩︎
-
M G: pravartita ↩︎
-
M G J: rājamaṇḍalapracārako māṇḍalikaḥ ↩︎
-
M G: tayo ↩︎
-
DK (4: 1853) suggests adding: iti ↩︎
-
M G: nigrahasamarthanasaṃhatayor ↩︎
-
M G J: prakṛtā (reading follows DK 4: 1854) ↩︎
-
M G J: arimitraṃ mitraṃ tu; I follow DK (4: 1855) suggestion. ↩︎
-
M G J: ariṃ bhūmyantaraṃ ↩︎
-
M G: coktau ↩︎
-
M G: ekāntatāpy ucyate ↩︎
-
DK (4: 2070) suggests: upekṣaṇam ↩︎
-
DK (4: 2134) suggests: utsāhayuktāḥ ↩︎
-
M G: viṣayānantaratvam ↩︎
-
M G J: yānadvaividhyam yānasyāsatyāṃ (I follow DK 4: 2137) ↩︎
-
DK (4: 2189): ayaṃ ↩︎
-
DK (4: 2189): caitad iti ↩︎
-
M G: vyapadeśārthaṃ (the commentary gives this reading as a variant) ↩︎
-
M G J: arthapīḍānivṛttis ↩︎
-
M G: śaknoty ↩︎
-
M G: dvaidhībhāvaḥ ↩︎
-
M G omit: balīyān eva . . . iti dṛśyate ↩︎
-
DK (4: 2200) suggests asmi for api ↩︎
-
M G add: balīyān eva hi vyasane balaṃdvidhā karotīti dṛśyate ↩︎
-
DK (4: 2200) sugges -hānaṃ for -homaṃ ↩︎
-
M G: duścaritāni kīrtanam ↩︎
-
M G J: saṅghādināpi (I follow the suggestion of DK 4: 2200) ↩︎
-
M G J: yathā syāt (I follow DK 4: 2200) ↩︎
-
M G J omit: na (I follow the suggestion of DK 4: 2200) ↩︎
-
M G J: mitratvādhikyam (I follow DK 4: 2200) ↩︎
-
M G J: maṇḍalair (I follow DK 4: 2200) ↩︎
-
M G J: tato (I follow the suggestion of DK 4: 2201) ↩︎
-
M G add: vimṛśyakārīti ↩︎
-
M G place diṅmātram uktam at the beginning of the commentary on verse 180. ↩︎
-
M G J: itarair ivopāyair (I follow DK 4: 2200) ↩︎
-
DK 4: 2202 suggests deleting na. ↩︎
-
DK (4: 2571): yadā apacikīrṣati ↩︎
-
M G: vyasana- ↩︎
-
M G omit: -gatam ↩︎
-
M G: evāṣṭabhyāhūya ↩︎
-
M G: vidhivad vedaṃ ↩︎
-
M G J: yavasasenādimattā; my reading is conjectural, following the DK 4: 2572. ↩︎
-
DK (4: 1509) suggests omitting: senā (as it is, there are seven items) ↩︎
-
DK suggests: senāpatiprakṣepaṇam ↩︎
-
M G: kṛtsnaṃ ↩︎
-
M G: -sthāpita- ↩︎
-
M G omit: na kāryaḥ ↩︎
-
M G: sūcivyūhaḥ ↩︎
-
DK (4: 2663) suggests emending this to: pakṣakakṣorasyaiḥ ↩︎
-
DK (4: 2663) suggests emending this to: bhayena ↩︎
-
M G: kaṭamakaravarāhair ↩︎
-
DK (4: 2664) suggests emending this to: pūrvavyūhād ↩︎
-
M G: yavasaṃpatra-; DK (4: 2664) suggests emending yava to java, and śatru to jatru, and making a longer compound: -parasparāvaruddha- ↩︎
-
DK (4: 2664) suggests emending dhanasyā- to balasyā- ↩︎
-
M G: eva and connects with bhavati. ↩︎
-
M G omit: saṃbodhanāya ↩︎
-
M G omit: śaṅkhe ↩︎
-
M G add: tatra ↩︎
-
M G: śaraiḥ ↩︎
-
M G: nānusaraṇādau ↩︎
-
M G: pṛṣṭhadeśārthaḥ ↩︎
-
M G: triṣu ↩︎
-
Here I follow the reading of DK (4:2665); the reading in the editions are garbled. M G: bahūn asthapater bhayapratibodhanārtham avahitebhedātari jano viśvasto; J: bahūn sthapater bhayapratibodhanārtham avahitebhedād arijano viśvasto ↩︎
-
M G J: nāmamatrāṃ ↩︎
-
DK (4: 2665) suggests: viśeṣo yathāsaṃbhavaṃ vā ↩︎
-
I follow DK; M G J read: vyūhadurgādyam aśve ↩︎
-
M G: ye ‘mī kathitāḥ; DK (4: 2666) suggests: ye ‘grānīkasthitāḥ ↩︎
-
DK (4: 2666) reads: māraṇā- ↩︎
-
M G J: eva; I folow DK (4: 2667). ↩︎
-
M G: śavaceṣṭāṃ ↩︎
-
M G J make this phrase part of the commentary on verse 194. ↩︎
-
M G: -jalāśraya- ↩︎
-
M G: prākārayantrair ↩︎
-
M G J: abhimata- (see DK 4: 1934) ↩︎
-
M G: dṛṣṭaḥ svapna- ↩︎
-
M G: mahājanakathā ↩︎
-
J: dānaṃ vidhānaṃ ↩︎
-
M G DK (4: 1935): asādhakas tadā (DK suggests asaṃbhavaḥ) ↩︎
-
DK (4: 1935) thinks the phrase kiṃ punā rūpeṇa saha is spurious. ↩︎
-
M G: iti yuṣmākam eva ↩︎
-
DK suggests: yadāsaṃdigdhaḥ parājayaḥ ↩︎
-
J: parihārārthaṃ ↩︎
-
M G place this phrase at the end of the commentary on verse 200 ↩︎
-
M G: yasmin ↩︎
-
M G: vihitānuṣṭhānino ↩︎
-
M G: paurajanapadabalatānām ↩︎
-
DK (4: 2820) suggests: teṣāṃ mayā kṣāntam ↩︎
-
M G omit: vā ↩︎
-
M G omit: iti; DK (4: 2821) reads: eṣāṃ paurādīnām abhiprāyaṃ ↩︎
-
M G: -ādara- ↩︎
-
M G: kāle yuktaṃ ↩︎
-
M G place after kālopapannam the phrase: kriyamāṇam abhimatānām arthānāṃ sukhāvahaṃ bhaved anyathā ca duḥkhayatīty arthaḥ. ↩︎
-
M G J: samarthād arthakarmakāryaphalaṃ; I follow DK (4: 2402) suggestion. ↩︎
-
M G J: adhikaṃ (I follow DK) ↩︎
-
M G J: daiva- (I follow DK) ↩︎
-
M G: phala- ↩︎
-
M G add: sarvaṃ ↩︎
-
M G omit: kuṇayaḥ ↩︎
-
M G omit: -phalaṃ ↩︎
-
M G add: kuṇayo ↩︎
-
M G: cāduḥkhino ↩︎
-
M G: daivamātrābhidhānādināśavināśavinipātādibhir ↩︎
-
M G: -padeśāt ↩︎
-
M G: manuṣyadharma ↩︎
-
M G: -kārya- ↩︎
-
M G: bhuṅkte vai balavān iti ↩︎
-
M G: -padeśo bhavati ↩︎
-
M G omit: yathā ↩︎
-
M G: tadaiva yāpayati ↩︎
-
M G: devaṃ ↩︎
-
DK (4: 2403) suggests, correctly I think, cāsyāparijñānād ↩︎
-
DK (4: 2403) suggests, correctly I think, vidyate (citation from the verse) ↩︎
-
M G: eva ↩︎
-
M G: vivakṣyate; DK (4: 2403) suggests vipadyate ↩︎
-
The reading should probably be yātrā, which is in the verse. ↩︎
-
The reading should probably be atiśaye, as in the verse. ↩︎
-
DK (4: 2403) suggests, correctly I think, na pravartate. ↩︎
-
M G J: nātivyūhaṃ ↩︎
-
M G: daive ca ↩︎
-
M G: yadātyantaguṇadaive; J: yadāpaṃcatuṇe daive; DK (4:2403) suggests yadātyantānuguṇe daive ↩︎
-
M G: sarvasya ↩︎
-
M G J: cāpauruṣeṇa ↩︎
-
M G J put puruṣāṇāṃ . . . kriyante at the beginning of the commentary after verse 211. ↩︎
-
M G J: puruṣajñānalokajñānapuruṣaviśeṣajño ↩︎
-
DK (4: 2404) places this under 7.205g, but at (4: 2170) places a version of it under 7.211 ↩︎
-
M G J: abahu- ↩︎
-
M G: tattvabhukta- ↩︎
-
M G J: nāyam (see DK 4: 978) ↩︎
-
M G J: yugapadupajātānīty artham (see DK 4: 1935) ↩︎
-
DK (4: 1935) suggests adding: vyuktāṃś ca ↩︎
-
M G J: dānam evetyādikān (see DK) ↩︎
-
M G: samasta- ↩︎
-
DK (4: 1935) suggests: upeyam iti for ayam iti ↩︎
-
DK (4:1935) suggests samāśritaṃ. ↩︎
-
M G J: upāya etānām; I follow DK (4:1935). ↩︎
-
M G: viśeṣārthārtham ↩︎
-
M G J: vaivarṇyajvālāsu; I follow DK (4:947). ↩︎
-
DK (4:979) suggests nāgamaṇi in place of nāgadamaṇi. ↩︎
-
J: -bharaṇaṃ ↩︎
-
DK (4:979) suggests vicāryaṃ ↩︎
-
DK (4: 947): krīḍet ↩︎
-
M G: paricāribhiḥ ↩︎
-
DK (4: 948) suggests: tatra ↩︎