अथ षष्ठो ऽध्यायः
एवं गृहाश्रमे स्थित्वा विधिवत् स्नातको द्विजः ।
वने वसेत् तु नियतो यथावद् विजितेन्द्रियः ॥ ६.१ ॥
मेधातिथिः ...{Loading}...
गृहोपलक्षित आश्रमो गृहाश्रमः। गृहा दाराः । तत्र स्थित्वा तम् अनुष्ठाय, वने वसेद् इति विधिः । स्थित्वेति क्त्वाप्रत्ययेन पौर्वकाल्यं गार्हस्थ्यस्य वनवासाद् दर्शयति । क्रमेणाश्रमः कर्तव्यः । कृतगार्हस्थ्यो वनवासे ऽधिक्रियते । समुच्चयपक्षम् आश्रित्यैतद् उक्तम् । अन्यथाविप्लुतब्रह्मचर्याद् अपि वनवासो विद्यत इत्य् एतद् अपि वक्ष्यते । विजितेन्द्रियः पक्वकषायः क्षीणराग इत्य् अर्थः । एवं विधिवद् यथावद् इतिपदानि वृत्तपूरणानि । तानि प्राक् तत्र तत्र व्याख्यातानि । एतावद् विधीयते । गार्हस्थ्यं कृत्वा वनवास आश्रयितव्यः ॥ ६.१ ॥
गृहस्थस् तु यदा पश्येद् वलीपलितम् आत्मनः ।
अपत्यस्यैव चापत्यं तदारण्यं समाश्रयेत् ॥ ६.२ ॥
मेधातिथिः ...{Loading}...
यद् उक्तं त्यक्तविषयोपभोगगर्धो ऽधिक्रियत इति तद् एव दर्शयति । वली त्वक्शैथिल्यम् । पलितं केशपाण्डुर्यम् । अपत्यस्यापत्यं पुत्रस्य पुत्र इत्य् आहुः । सत्य् अपि दुहितुर् अपत्ये दौहित्रे पुत्रस्यापि कन्यायां1 जातायां नैवं विधिम् इच्छन्ति शिष्टाः ।
- अन्ये तु शिरःपालित्यं पौत्रोपत्तिं च वयोविशषलक्षणार्थम् आहुः । यस्य कथंचित् पालित्यं न2 भवेत् सो ऽपि वार्धिक्ये वनाम् समाश्रयेत् । यथैव “जातपुत्रः कृष्णकेशस् तु” (च्ड़्। ब्ध् १.३.५) आधाने ऽधिक्रियते, एवं जातपौत्रः पलितशिराः । तदापि पुत्रजन्मकृष्णकेशता च वयोविशेषोपलक्षणार्थम् एव ।
- नातिशीघ्रं नातिचिरम् इत्य् अर्थस्योपलक्षणत्वे तु प्रमाणं वक्तव्यम् ॥ ६.२ ॥
संत्यज्य ग्राम्यम् आहारं सर्वं चैव परिच्छदम् ।
पुत्रेषु भार्यां निक्षिप्य वनं गच्छेत् सहैव वा ॥ ६.३ ॥
मेधातिथिः ...{Loading}...
व्रीहियवमयम् अन्नं ततः प्रभृति नाश्नीयाद् इत्य् एतत् संत्यज्येत्य् उच्यते । तद् उक्तं “मूलाशी” इत्यादि । परिच्छदः गवाश्ववस्त्रास्नशय्यादिः । यदि भार्याया इच्छा तदा सहगमनम्, अन्यथा एकाकिनः ।
-
अन्ये तु तरुणीं निक्षिप्य वृद्धया सहेति वर्णयन्ति ।
-
सत्यां भार्यायाम् अयं विधिः, पुत्रेषु निक्षेपः वनगमनं वा । असत्याम् अपि मृतायां वनवास आपस्तम्बादिभिः स्मर्यते “पुनर् आधानः” इत्य् अत्र । यस्येन्द्रियचापल्यं नास्ति स वानप्रथः । इतरः पुनर् दारान् परिगृह्णीयाद् इति व्यवस्था ॥ ६.३ ॥
अग्निहोत्रं समादाय गृह्यं चाग्निपरिच्छदम् ।
ग्रामाद् अरण्यं निष्क्रम्य निवसेन् नियतेन्द्रियः ॥ ६.४ ॥
मेधातिथिः ...{Loading}...
अग्नय एव्आग्निहोत्रशब्देनोक्ताः । श्रौतान् अग्नीन्त् समादाय गृहीत्वा गृह्यं च अग्निहोत्रपरिच्छदं स्रुक्स्रुवादि । ग्राम्यस्य परिच्छदस्य त्यागविधानाद् अग्निसंबद्धस्य प्रतिप्रसवो ऽयम् ॥ ६.४ ॥
मुन्यन्नैर् विविधैर् मेध्यैः शाकमूलफलेन वा ।
एतान् एव महायज्ञान् निर्वपेद् विधिपूर्वकम् ॥ ६.५ ॥
मेधातिथिः ...{Loading}...
एतान् एव ये गृहस्थस्य विहिताः । निर्वपेद् अनुतिष्ठेत् । विधिपूर्वकम् इत्य् अनुवादः श्लोकपूरणार्थः ॥ ६.५ ॥
वसीत चर्म चीरं वा सायं स्नायात् प्रगे तथा ।
जटाश् च बिभृयान् नित्यं श्मश्रुलोकनखानि च ॥ ६.६ ॥
मेधातिथिः ...{Loading}...
चर्म गोमृगादीनाम् । चीरं वस्त्रखण्डम् । सायं दिवसावसानसमयः । प्रगे चाह्नः प्रथमोदये । एवं सायं स्नानविधानाद् रात्रौ भोजनम् अस्याहुः, भुक्ते स्नानप्रतिषेधात् ।
-
तद् अयुक्तम् इत्य् अन्ये । यतः स्नातकव्रतम् “अतः स्नानम् आचरेद् भुक्त्वा” इति । महाभारते तु पुरुषमात्रधर्मतया स्मर्यते । त्रैकालिकम् अप्य् अस्य स्नानं भविष्यति वैकल्पिकम् ।
-
जटाश्मश्रुलोकनखानि न कर्तयेत् ॥ ६.६ ॥
यद्भक्षः स्यात् ततो दद्याद् बलिं भिक्षां च शक्तितः ।
अम्मूलफलभिक्षाभिर् अर्चयेद् आश्रमागतम् ॥ ६.७ ॥
मेधातिथिः ...{Loading}...
“मुन्यन्नैर्” (म्ध् ६.५) इत्य् उक्तम् । तानि च नीवारादीनि वन्यानि धान्यानि तथा शाकादीनि वन्यान्य् एव । अन्नशब्दो बाहुल्येन धान्यविकारे भक्तसक्तुपिष्टादौ प्रयुज्यते । ततः शाकादीनां सत्य् अपि मुन्यन्नत्वे पृथग् उपादानम् । मुनयस् तापसास् तेषाम् अन्नानि मुन्यन्नानि । अग्नौ पाकधर्मान् महायज्ञान् निर्वपेत् । यदा कालपक्वफलाशी तदा न निर्वपेद् इत्य् आशङ्कायाम् आह- यद्भक्षः स्यात् । यद् एव भक्षयेत् तद् एव पिष्टादि यथासामर्थ्यं दद्यात् । बलिं अनग्निहोत्रं इन्द्रायेन्द्रपुरुषेत्यादि यद् विहितम् । अग्नौ त्व् अस्मिन् पक्षे होमो नास्ति ।
-
तद् अयुक्तम् । बलिशब्दस्य चेज्यामात्रवचनत्वाद् अग्नाव् अनग्नौ च तुल्यम् एतत् । अथप्य् अयं पक्षः स्याद् यद् एव भक्षयेत् तद् एव, अग्नाव् एव, पक्वेनाग्नौ होमः कर्तव्यस् तथापि तावन्मात्रप्रयोजनं शाकादि वक्ष्यति, स्वयं कालपक्वं भोक्ष्यते । सर्वथा कालपक्वाशिनो ऽप्य् अस्ति वैशदेवो ऽगनाव् एव ।
-
अब्आदिभिर् द्वन्द्वो ऽयम् । अद्भिर् मूलफलैः भिक्षया च नीवारादिन्आर्चयेद् आश्रमागतं पान्थम् ॥ ६.७ ॥
स्वाध्याये नित्ययुक्तः स्याद् दान्तो मैत्रः समाहितः ।
दाता नित्यम् अनादाता सर्वभूतानुकम्पकः ॥ ६.८ ॥
मेधातिथिः ...{Loading}...
आश्रमबुद्ध्या स्वाध्यायादीनां निवृत्तिम् आशङ्कमान आश्रमान्तरत्वाद् अस्यानिवृत्त्यर्थम् आह- नित्ययुक्तः । न यथा गार्हस्थ्ये । तत्र हि गृहचेष्टार्था अपि व्यापाराः सन्ति, तेष्व् अनुष्ठीयमानेषु नास्ति स्वाध्यायः । दान्तो दमयुक्तः मदवर्जितः । मैत्रः मित्रकर्मप्रधानः प्रियहितभाषी । संनिहितस्य चित्तानुकूलनपरः स समाहितः । नासंबद्धं नाप्राकरणिकं बहु पराधीनो ऽपि ब्रूयात् । दाता अपां मूलभिक्षाणां च । अनादाता पथ्यौषधाद्यर्थम् आश्रमान्तराद् आगतं न याचेत । सर्वभूतानुकम्पकः । अनुकम्पा कारुण्यम् । सत्य् अपि कारुणिकत्वे न परार्थम् अन्यं याचेत ॥ ६.८ ॥
वैतानिकं च जुहुयाद् अग्निहोत्रं यथाविधि ।
दर्शम् अस्कन्दयन् पर्व पौर्णमासं च योगतः ॥ ६.९ ॥
मेधातिथिः ...{Loading}...
वितानो विहारस् तत्र भवं वैतानिकम् । त्रेताग्निविषयं कर्म श्रौतं तज् जुहुयात् कुर्यात् । अग्निहोत्रशब्दो यवाग्वादौ होमसाधने द्रव्ये वर्तते, न कर्मनामधेयम् । ततश् च तज् जुहुयाद् आहवनीये ऽग्निहोत्रादिभिर् जुहोतीत्य् अर्थ उपपन्नः प्रथमपक्षे ऽग्निहोत्रशब्दो जुहोतिना ऽभिन्नार्थः ।
-
ननु च “पुत्रेषु भार्यां निक्षिप्ये” (म्ध् ६.३) इति पक्षान्तरम् उक्तम् । तत्र कथं तया विना श्रौतेष्व् अधिकारः । प्रोषितस्य यथेति चेत्, यथा प्रोषितो वा यजमानः संविधानाद् दूरस्थो ऽप्य् अधिक्रियते संविधाने, एवं भवति कर्ता; तद्वत् पत्न्य् अपि वनं प्रतिष्ठमानम् अनुज्ञास्यति, न सहाधिकारो विरोत्स्यत इति । तद् अपि वार्तम् । दैवान् मानुषाद् वा प्रतिबलात् कथंचित् प्रवासोपपत्तेः युक्तम् ईदृशम् अनुष्ठानम्, न स्वेच्छया । सत्यां शक्तौ बहूनि चाङ्गानि परिलुप्येरन् । दर्शपौर्णमासयोः “वेदो ऽसि वित्तिर् असि” (त्स् १.६.४.४) इत्यादि पत्नीं वाचयेद् इत्य् उक्तम्, तद् धीयेत ।
-
अथोच्येत- सहप्रस्थानपक्षे विधिर् अयं भविष्यतीति, एतद् अपि न, विशेषस्याश्रुतत्वात् । निक्षेपपक्षे चाग्नीनां प्रतिपत्त्यन्तरम् अनाम्नातम् । किं च सहत्वपक्षे ऽपीदं विरुध्यते ।
-
वासन्तशारदैर् मेध्यैर् मुन्यन्नैः स्वयम् आहृतैः ।
-
पुरोडाशांश् चरूंश् चैव विधिवन् निर्वपेत् पृथक् ॥ इति । (म्ध् ६.११)
आरण्यानि मुन्यन्नानि नीवारादिन्य् अभिप्रेतानि । ग्राम्यस्य परिच्छदस्य त्यागविधानात् । व्रीह्यादिभिश् च वेदे पुरोडाशा विहितास् ते च ग्राम्यः । न च स्मृतिश्रुतिषु उत्पन्नन्यायेन व्रीहिशास्त्रविधिन्यायेन वा केनचिन् मेध्येनारण्येनान्नेन प्रयोगः परिसमाप्येत निक्षेपे । ते च भार्यया दुरुपपादाः । कथं यावज्जीवश्रुतौ सत्याम् अग्नीनां त्यागो भार्याया वा । तस्माद् आश्रमान्तरविधानं वैतानिकानां च कर्मणाम् अनुष्ठानं न संवदेत् ।
- कर्तव्यो ऽत्र यत्नः ।
(१) केचिद् आहुः- वैतानिकशब्दः स्मार्तेष्व् एव कर्मसु स्तुत्या प्रयुक्तः । न च स्मार्तेषु व्रीह्यादि नियमशास्त्रम् अस्ति । तत्र ह्य् आम्नायते-
- यदन्नः पुरुषो राजंस् तदन्नास् तस्य देवताः । इति (राम् २.९५.३१) ।
अतश् च मुन्यन्नैर् अनुष्ठानम् अविरुद्धं भवेद् व्रीह्यादिशास्त्रविरोधः परिहृतः स्यात् । सहाधिकारस् तत्रापि विद्यते ।
-
तस्य कः परिहारः । उभयोः स्मार्तत्वाद् अस्याम् अवस्थायां बाधिष्यते ।
-
यत् तु श्रौतवचनं “पत्न्या सह यष्टव्यम्” इति तच् छ्रौतेष्व् एव ।
(२) अथ वा नैवायं विधिर् गृहस्थाग्नेः । किं तर्हि “श्रावणिकेनाग्निम् आधाय” (ग्ध् ३.२७) इत् गौतमेन पठितम् । इहापि वक्ष्यति “वैखानसमते स्थितः” (म्ध् ६.२१) इति । तस्माच् छ्रास्त्रविहितानि कर्मान्तराण्य् एवैतानि । दर्शपूर्णमासादयस् तु शब्दाः भक्त्या तत्र प्रयुक्ताः । अतस् तत्र तदाधानम् अभार्यस्यैव । गार्हस्थ्योपात्तानां प्रतिपत्तिर् उक्ता “अग्नीन् आत्मनि वैतानान्” (म्ध् ६.२५) इति । यत् तु यावज्जीवश्रुतौ सत्यां कथम् अग्नीनां त्याग इति, एतच् चातुराश्रम्यानुक्रमणप्रकरणे निरूप्यिष्यते ।
(३) अन्ये पुनर् आहुः । होमो ग्राम्यानाम् अन्नानां प्रतिषिद्धः, न तु देवताद्यर्थ उपयोगः । ननु च “यजमानपञ्चमा इडां भक्षयन्ति” इति तत्रापि विद्यते बक्षः । सत्यम् । स तु शास्त्रीयो न लौकिकः । लौकिकस्य च प्रतिषेधः “संत्यज्य” (म्ध् ६.३) इति । ग्रामप्रवेशश् च तस्य तदर्थो न विरुध्यते । तथा वक्ष्यति “ग्रामाद् आहृत्य वाश्नीयाद्” (म्ध् ६.२८) इति । तद् एतद् असत् । “मुन्यन्नैः” (म्ध् ६.५) इति विधानात् । तद् एवं “श्रावणिकेनाग्निम् आधाय” (ग्ध् ३.२७) इत्यादि सर्वम् उपपन्नम् ।
-
तथा हि “अग्निहोत्रं समादाय” (म्ध् ६.४) इत्य् पठ्यते । न तु “संत्यज्य” (म्ध् ६.३) इति । समारोपणम् अपि मुमूर्षोस् तप्ततपसो वक्ष्यते प्रथमप्रवासे । न च तुरायणादिशब्दानां श्रवणिकाग्निविषयत्वे कथंचिद् उपपत्तिः । मृतभार्यस्य तदाधानं वाचनिकं भविष्यति । यदा वा ब्रह्मचर्याद् एव वनवासम् इच्छेत् तदा श्रावणिकाधानम् । तस्माद् आहिताग्नेः सहाग्निभिर् वनप्रस्थानं सभार्यस्य ।
-
तत्र च यथाविधि व्रीह्यादिना श्रौतकर्मानुष्ठानम् । व्रीह्यादीनाम् अपि मुन्यन्नता कथाम्चिद् उपपाद्या । व्रीहियवाव् अपि पवित्रम् । भार्यानिक्षेपश् चानाहिताग्नेः कथंचित् स्मार्थे ऽग्नौ गतिः । उभयोः स्मार्तत्वात् । यस्य च द्वे भार्ये जाते एकया चाग्नयो नीतास् तस्य द्वितीयां भार्यां निक्षिप्येति वचनम् । अस्कन्दयन् । स्कन्दनं विध्यतिक्रमः, यथाविहितम् अनुष्ठानस्यासंपादनम् । एतच् च पादपूरणम् । योगत इत्य् एतद् अपि । योगत अस्कन्दयन् युक्त्याविनासयन् । युक्तिर् विधिर् एव ॥ ६.९ ॥
दर्शेष्ट्याग्रयणं चैव चातुर्मास्यानि चाहरेत् ।
तुरायणं च क्रमशो दाक्षस्यायनम् एव च ॥ ६.१० ॥
मेधातिथिः ...{Loading}...
दर्शेषिश् च आग्रयणं चेति समाहारद्वन्द्वः । चातुर्मास्यतुरायणदाक्षायणाः श्रौतकर्मविशेषवचनाः । नित्या एव तुरायणादयः केषांचित् ॥ ६.१० ॥
वासन्तशारदैर् मेध्यैर् मुन्यन्नैर् स्वयम् आहृतैः ।
पुरोडाशांश् चरूंश् चैव विधिवन् निर्वपेत् पृथक् ॥ ६.११ ॥
मेधातिथिः ...{Loading}...
यदा मुन्यन्नैर् इति न पूर्वेण संबध्यते, तदा नास्ति चोद्यम् “वैतानिकानि कथं व्रीह्यादिचोदितानि क्रियेरन्” । अत्र चरुपुरोडाशा वैखानसशास्त्रोक्ता एव वेदितव्याः । वसन्ते जायन्ते पच्यन्ते वा वासन्तानि । एवं शारदैर् मेध्यैर् इत्य् अनुवादः । स्वयम् आहृतैः । प्रतिग्रहादीनि वृत्तिकर्माणि निषिध्यन्ते । स्मार्तानाम् उक्तानां कर्मणाम् अनुष्ठानार्थं पुनर्हृत्यादिनापहरणम् । विधिवत् पृथग् इति पूरणे ॥ ६.११ ॥
देवताभ्यस् तु तद् धुत्वा वन्यं मेध्यतरं हविः ।
शेषम् आत्मनि युञ्जीत लवणं च स्वयं कृतम् ॥ ६.१२ ॥
मेधातिथिः ...{Loading}...
पर्वसु यद् देवताभ्यो दत्तं तच्छिष्टम् एव भक्षयेन् न शाकमूलफलादि । शेषम् आत्मनि युञ्जीत आत्मनिमित्तम् उपयोजयेत्, आत्मार्थं शरीरस्थित्यर्थम् इत्य् अर्थः । स्वयं कृतं च लवणं न3 सैन्धवादि निषेवेत ॥ ६.१२ ॥
स्थलजौदकशाकानि पुष्पमूलफलानि च ।
मेध्यवृक्षोद्भवान्य् अद्यात् स्नेहांश् च फलसंभवान् ॥ ६.१३ ॥
मेधातिथिः ...{Loading}...
स्थलजानि उदकजानि अद्यात् । तथा पुष्पमूलफलानि च ॥ ६.१३ ॥
वर्जयेन् मधु मांसं च भौमानि कवकानि च ।
भूस्तृणं शिग्रुकं चैव श्लेष्मातकफलानि च ॥ ६.१४ ॥
मेधातिथिः ...{Loading}...
भौमानि कवकानि । कवकशब्दः प्राग्व्याख्यातः छत्राकशब्दपर्यायः (म्ध् ५.१९) । तानि च कवकानि भूमौ जायन्ते वृक्षकोटरादाव् अपि । अतो विशेषणार्थं भौमग्रहणम् । समाचारविरोधो गृहस्थधर्मेषु चाविशेषेण कवकानां प्रतिषेधः । वानप्रस्थस्य च नियमातिशयो युक्तः । तस्माद् भौमानीति स्वतन्त्रपदम् । तत्र गोजिह्विका नाम कश्चित् पदार्थो वनेचराणां प्रसिद्धस् तद्विषयं भोद्धव्यम् । न तु यत् किंचिद् भुविजातमात्रस्य । कवकानां प्रतिषिद्धत्वात् पुनःप्रतिषेधो भूस्तृणादीनां तत्समप्रायश्चित्तार्थः । भूस्तृणशिग्रुकशब्दौ शाकविशेषवचनौ वाहिकेषु प्रसिद्धौ ॥ ६.१४ ॥
त्यजेद् आश्वयुजे मासि मुन्यन्नं पूर्वसंचितम् ।
जीर्णानि चैव वासांसि शाकमूलफलानि च ॥ ६.१५ ॥
मेधातिथिः ...{Loading}...
षण्मासनिचयसमानिचयपक्षयोर् आश्वयुजे त्यागः ।
-
ननु मुन्यन्नं तावद् एव संचयं यत्कर्मपर्याप्तम् । तत्र नैवाधिकम् अस्ति । कस्य त्यागः ।
-
उच्यते । न शक्या तुला ग्रहीतुम् अर्जनकाले । अतो यत् किंचिद् अवशिष्टम् अस्ति तस्याश्वयुजे त्यागः ।
-
जीर्णानि चैव वासांसि । अजीर्णानां नास्ति त्यागः ॥ ६.१५ ॥
न फालकृष्टम् अश्नीयाद् उत्सृष्टम् अपि केनचित् ।
न ग्रामजातान्य् आर्तो ऽपि पुष्पाणि च फलानि च ॥ ६.१६ ॥
मेधातिथिः ...{Loading}...
आरण्यस्यापि फालकृष्टस्य प्रतिषेधः । ग्रामजातान्य् अफालकृष्टान्य् अपि “संत्यज्य ग्राम्यम् आहारम्” (म्ध् ६.३) इत्य् अनेन प्रतिषेधः । आर्तो ऽपि अन्यासंभवे ऽप्य् अवश्यकर्तव्यत्वाद् देवताद्यर्चनस्य प्रतिनिधिपक्षे ऽपि नोपादेयम् इत्य् अर्थः । अपिशब्दो भिन्नक्रमो द्रष्टव्यः- पुष्पाण्य् अपि नोपादेयानि किं पुनर् धान्यानि ॥ ६.१६ ॥
अग्निपक्वाशनो वा स्यात् कालपक्वभुग् एव वा ।
अश्मकुट्टो भवेद् वापि दन्तोलूखलिको ऽपि वा ॥ ६.१७ ॥
मेधातिथिः ...{Loading}...
अग्निना पक्वं शाकौदनादि, तदशनं यस्य सो ऽग्निपक्वाशनः । काले स्वयम् एव यत् पक्वं तद् एव भुञ्जीत वार्क्षं फलम् । अथ वा धान्यानाम् एव नीवारादीनां निष्पिष्येदं भक्षणम् । अश्मभिः पाषाणैः कुट्टयित्वा पिष्टरूपं कृत्वा भुञ्जीत । यद् वा यदृतूपपन्नं वृन्तकादिभिर् बहिस् तुषकपाटकं4 तद् अश्मभिर् अपनीय कवाटम् अन्तःफलं भक्षयेत् । दन्ता उलूखलम् अस्य दन्तोलूखलिकः । दन्तैस् तुषकवाटम् अपनीय भक्षयेत् । असत्य् अपि संस्कारे स न कर्तव्यः । यदि वा पूर्ववद् अशनविशेषोपलक्षणम्- तादृशम् अश्नीयाद् यद् अस्य दन्ता एव उलूखलकार्यम् अवघातं संपादयन्ति ॥ ६.१७ ॥
सद्यःप्रक्षालको वा स्यान् मससंचयिको ऽपि वा ।
षण्मासनिचयो वा स्यात् समानिचय एव वा ॥ ६.१८ ॥
मेधातिथिः ...{Loading}...
यत् पूर्वम् अशनम् उक्तं तद् ऐकाहिकभोजनपर्याप्तम् एवार्जयेत् । मासोपयोगी वा संचयो मासपर्याप्तः संचयो माससंचयः । सो ऽस्यास्तीति ठन् कर्तव्यः । यदि वा माससंचयक इति बहुव्रीहिसमासो ऽत्र कर्तव्यः- मासपर्याप्तः संचयो ऽस्येति । एवम् उत्तरयोर् अपि ॥ ६.१८ ॥
नक्तं चान्नं समश्नीयाद् दिवा वाहृत्य शक्तितः ।
चतुर्थकालिको वा स्यात् स्याद् वाप्य् अष्टमकालिकः ॥ ६.१९ ॥
मेधातिथिः ...{Loading}...
द्विर्भोजनस्य पुरुषार्थतया विहितत्वाद् अन्यतरस्मिन् काले निवृत्तिर्5 विधीयते । यथा यथा वयो ऽतिक्रामति तथा तथा भोजनकालं जह्यात् । चतुर्थम् अप्य् अष्टमावधिकतयाश्रयेत् । त्रीण्य् अहोरात्राण्य् अतीत्य चतुर्थे ऽहनि सायं भुञ्जानो ऽष्टमकालिको भवति । भोजनस्य प्रकृतत्वात् तद्विषयश् चतुर्थकालसंबन्धः प्रतीयते ॥ ६.१९ ॥
चान्द्रायणविधानैर् वा शुक्लकृष्णे च वर्तयेत् ।
पक्षान्तयोर् वाप्य् अश्नीयाद् यवागूं क्वथितां सकृत् ॥ ६.२० ॥
मेधातिथिः ...{Loading}...
पक्षान्तौ पूर्णमास्यामास्ये । अत्र श्रितां यवागूम् अश्नीयात् । सकृद् इति सायं प्रातर् वा ॥ ६.२० ॥
पुष्पमूलफलैर् वापि केवलैर् वर्तयेत् सदा ।
कालपक्वैः स्वयं शीर्णैर् वैखानसमते स्थितः ॥ ६.२१ ॥
मेधातिथिः ...{Loading}...
कालपक्वैः । पनसादीनाम् अग्निनापि पाकः क्रियते तन्निषेधार्थम् । तद् अग्निपक्वं गृहस्थस्यानिषिद्धम् । वैखानसं नाम शास्त्रम्, यत्र वानप्रस्थस्य धर्मा विहितास् तेषां मते स्थितः । अन्याम् अपि तच्छास्त्रोक्तां चर्यां शिक्षेत ॥ ६.२१ ॥
भूमौ विपरिवर्तेत तिष्ठेद् वा प्रपदैर् दिनम् ।
स्थानासनाभ्यां विहरेत् सवनेषूपयन्न् अपः ॥ ६.२२ ॥
मेधातिथिः ...{Loading}...
विपरिवर्तनं केवलायां भूमाव् एकेन पार्श्वेन निषद्य पुनः पार्श्वान्तरेणावस्थानम् । आहारविहारकालौ वर्जयित्वा एवं वर्तेत, नोपविशेन् न चक्रमेत्6 न शय्यायां नासने न भित्तौ निषीदेद् इत्य् अर्थः । प्रपदैः पादाग्रैर् वा तिष्ठेत् । स्थानासनाभ्यां च दिने । रात्रौ तु केवलस्थण्डिलशायितां वक्ष्यति । सवनेषु प्रातर्मधन्दिनापराह्णेषु उपयन्न् अप इति च । असंभवे नद्यादीनाम् उद्धृतोदकेनापि स्नानं दर्शयति ॥ ६.२२ ॥
ग्रीष्मे पञ्चतपास् तु स्याद् वर्षास्व् अभ्रावकाशिकः ।
आर्द्रवासास् तु हेमन्ते क्रमशो वर्धयंस् तपः ॥ ६.२३ ॥
मेधातिथिः ...{Loading}...
पञ्चभिर् आत्मानं तापयेत् । चतसृषु दिक्षु अग्नीन्त् संनिधाप्य मध्ये तिष्ठेद् उपरिष्टाद् आदित्यतापं सेवेत । प्रावृष्य् अभ्राण्य् एवावकाश आश्रयः7, यस्मिन् देशे देवो वर्षति तं प्रदेशम् आश्रयेद् वर्षनिवारणार्थं छत्रवस्त्रादि न गृह्णीयात् । हेमन्ते शीतोपलक्षणार्थम् । एतेन शिशिरे ऽप्य् एष एव विधिः आर्द्रवासस्त्वम् । क्रमशः क्रमेण ॥ ६.२३ ॥
उपस्पृशंस् त्रिषवणं पितॄन् देवांश् च तर्पयेत् ।
तपश् चरंश् चोग्रतरं शोषयेद् देहम् आत्मनः ॥ ६.२४ ॥
मेधातिथिः ...{Loading}...
उपस्पर्शनं स्नानम् । अन्यद् अपि ऊर्ध्वबाह्वादि मासोपवासद्वादशरात्रादि तपः । उग्रतरं प्रकृष्टतरं शरीरपीडाजननं कुर्वन् शोषयेच् छरीरम् ॥ ६.२४ ॥
अग्नीन् आत्मनि वैतानांत् समारोप्य यथाविधि ।
अनग्निर् अनिकेतः स्यान् मुनिर् मूलफलाशनः ॥ ६.२५ ॥
मेधातिथिः ...{Loading}...
विताने भवा वैतानाः श्रौताः । तान् समारोपयेद् भस्मपानादिविधानेन । आत्मनि समारोपणविधिश् च श्रवणकाद् अवगन्तव्यः । चिरकालं यदा तपश् चरितं भवति, सप्तत्यवस्थां वयः प्राप्तम्, तदा वानप्रस्थ एव सन्न् अनग्निर् अनिकेतः पर्णकुटीं निवासार्थां जह्यात् । क्व तर्ह्य् आसीत । उपरिष्टाद् वक्ष्यति “वृक्षमूलनिकेतनः” (म्ध् ६.२६) इति । मुनिः स्याद् इति संबध्यते । तेनायम् अर्थ उक्तो भवति । वाङ्नियमं कुर्याद् इति । मौनव्रतधारी नियतवाग् उच्यते लोके । मूलफलाशनः । अन्यान्ननिवृत्त्यर्थम् एतत् । नीवारादाइन्य् आरण्यान्य् अपि नाश्नीयात् ॥ ६.२५ ॥
अप्रयत्नः सुखार्थेषु ब्रह्मचारी धराशयः ।
शरणेष्व् अममश् चैव वृक्षमूलनिकेतनः ॥ ६.२६ ॥
मेधातिथिः ...{Loading}...
सुखप्रयोजनेषु वस्तुषु प्रयत्नं न कुर्यात् । आतपपीडितः छायां नोपसर्पेत् । शीतार्दितो नाग्निं समिन्धीत । यदि तु दैवोपपादितादित्यतापादिना शीतादिदुःखनिवृत्तिर् भवतीत्य् अत्रैव दुःखापनोदः क्रियते, न निषिध्यते । वर्षादिकालाद् अन्यत्रैतद् विधीयते, तत्र प्रतिपन्नस्य धर्मस्य विधानात् ।
-
अथ वा व्याधितस् तस्यौषधप्रयत्नो निवार्यते । व्याधिनिवृत्तिर् अपि सुखम् उच्यते । अतस् तन्निवृत्त्यर्थं यत्नं न कुर्यात् ।
-
धराशयः केवलैस् तृणैर् आच्छादिते स्थण्डिले शयीत । शरणेष्व् आश्रयेषु गृहवृक्षमूलादिषु ममकारम् आत्मीयाभिनिवेशं न कुर्यात् । वृक्षमूलानि निकेतं गृहस्थानीयं कुर्यात् । तद् असंभवे शिलातलगुहादयो ऽपि विहिताः ॥ ६.२६ ॥
तापसेष्व् एव विप्रेषु यात्रिकं भैक्षम् आहरेत् ।
गृहमेधिषु चान्येषु द्विजेषु वनवासिषु ॥ ६.२७ ॥
मेधातिथिः ...{Loading}...
पञ्चम्यर्थे सप्तमी । तापसेभ्यः फलमूलासंभवे भैक्षम् आहरेत् । गृहमेधिभ्यो गृहस्थेभ्यो वा वनवासिभ्यः । यात्रिकं यावता सौहित्यं भवति ॥ ६.२७ ॥
असंभवे तु ।
ग्रामाद् आहृत्य वाश्नीयाद् अष्टौ ग्रासान् वने वसन् ।
प्रतिगृह्य पुटेनैव पाणिना शकलेन वा ॥ ६.२८ ॥
मेधातिथिः ...{Loading}...
ग्रासग्रहणान् न मूलफलभिक्षैव, ग्राम्यान्नाशनम् अन्यासाम्भवे ऽनेनानुज्ञातम् । गृहीत्वा पुटेनैव पाणिना भाजनरहितेन, शकलेन शरावाद्येकदेशखण्डेन ॥ ६.२८ ॥
एताश् चान्याश् च सेवेत दीक्षा विप्रो वने वसन् ।
विविधाश् चौपनिषदीर् आत्मसंसिद्धये श्रुतीः ॥ ६.२९ ॥
मेधातिथिः ...{Loading}...
एता दीक्षा नियमान् अन्यांश् चान्तर्जलस्थानचक्षुर्निमीलनादिकं सेवेत । श्रुतीर् औपनिषदीः रहस्याधिकारपठितानि वेदवाक्यानि अधीयीत चिन्तयेद् भावयेच् च आत्मसंसिद्धये । ब्रह्मप्राप्त्यर्थं वा उपासणा उक्ताः । विविधा इत्य् अनुवादः ॥ ६.२९ ॥
ऋषिभिर् ब्राह्मणैश् चैव गृहस्थैर् एव सेविताः ।
विद्यातपोविवृद्ध्यर्थं शरीरस्य च शुद्धये ॥ ६.३० ॥
मेधातिथिः ...{Loading}...
अविशेषेणोक्ता अन्याश् च सेवेत । शाक्यपाशुपतादिदीक्षादिसेवनम् अपि प्राप्तं तन् निषेधति । ऋषिभिर् महाभारते संतप्यमानाद्यैः8 सेविता वर्ण्यन्ते । ब्राह्मणैश् च गृहस्थैर् याः सेविताः । तद् उक्तम् “उत्तरेषां चैतद् अविरोधि” (ग्ध् ३.१०) इति । विद्या आत्मैकत्वविज्ञानम्, तच्छ्रुतिसेवनेन वृद्धिं नयेत् दृढीकुर्यात् । शरीरस्य च शुद्धये आहारनियमदीक्षाह् सेवेत ॥ ६.३० ॥
अपराजितां वास्थाय व्रजेद् दिशम् अजिह्मगः ।
आ निपाताच् छरीरस्य युक्तो वार्यनिलाशनः ॥ ६.३१ ॥
मेधातिथिः ...{Loading}...
प्राच्या उदीच्याश् च दिशोर् अन्तरालम् अपराजिता दिक् लोकेष्व् ऐशानीत्य् उच्यते । दिशम् आस्थाय चेतसि निधायैषा मया गन्तव्येति ततस् ताम् एव व्रजेत् । अजिह्मगः अकुटिलगामी । श्वभ्रनदीस्रोतांसि न परिहरेत् । आ निपाताच् छरीरस्य युक्तो वार्यनिलाशनः । प्राच्या उदीच्याश् च गमनविधिर् अयम् । यावन् न पतति तावद् वायुभक्षो ऽम्बुभक्षश् च स्यात् । युक्तः योगशास्त्रैर् आत्मानं युक्त्वा । तद् एतन् महाप्रस्थानम् उच्यते ॥ ६.३१ ॥
आसां महर्षिचर्याणां त्यक्त्वान्यतमया तनुम् ।
वीतशोकभयो विप्रो ब्रह्मलोके महीयते ॥ ६.३२ ॥
मेधातिथिः ...{Loading}...
पूर्वोक्तानि तपांसि महाप्रस्थानं चानन्तरोक्तं महर्षिचर्या । आसाम् अन्यतमया नदीप्रवेशेन भृगुप्रपतनेनाग्निप्रवेशेनाहारनिवृत्त्या वा शरीरं त्यजेत् । अस्य फलं वीतशोकभयस्य ब्रह्मलोकप्राप्तिः । नरकादिदुःखानुभवः शोकः । भयं नरकं गमिष्यामीति । तद् अस्य व्येति । अव्यवधानेनैव, नार्चिरादिक्रमेण, ब्रह्मलोकं प्राप्नोति । इह स्थानविशेषो ब्रह्मलोकः, स्वर्गाद् अपि निरतिशयस् तत्र महीयते पूज्यमान आस्ते । न तु ब्रह्मणः स्वाराज्यं प्राप्नोति, लोकग्रहणात् । चतुर्थे ह्य् आश्रमे मोक्षं वक्ष्यति ।
-
न केवलकर्मकृतो मोक्ष इत्य् आहुः ।
-
ननु चास्याप्य् उक्तम् “विविधाश् चौपनिषदीर् आत्मसंसिद्धये स्रुतीः” (म्ध् ६.२९) इति । आत्मसंसिद्धिश् च आत्मोपासनतया तद्भावापत्तिः । न ह्य् अन्यः संसिद्धिशब्दस्यार्थ उपपद्यते । औपनिषदीषु श्रुतिषु तद्भाव्यं योगिनाम् आत्मानम् “ब्रह्मसंश्थो ऽमृतत्वम् एति” (छु २.२३.१) इति च । अथ सायुज्यं गच्छतीत्यादि (छु २.२०.२) ।
-
अथोच्यते । अन्या अपि तपःसिद्धयः श्रूयन्ते । “स यदि पितृलोककामो9 भवति” (छु ८.२.१) इत्यादि संकल्पितार्थोपपादिता सार्ष्टिता सालोक्यं च पुरुषस्य भविष्यति । न पुनर् मोक्ष इति ।
-
तद् अयुक्तं विशेषाभावात् । यथैव परिमितफलासूपासनास्व् अधिक्रियते एवम् अमृतत्वप्राप्ताव् अपि । न क्वचिच् छ्रूयते परिव्राजकेनैवोपासनान्य् अद्वैतविषयाणि कर्तव्यानि ।
-
ननु च “त्रयो धर्मस्कन्धाः” इत्य् उपक्रम्य “यज्ञो ऽध्ययनं दानम्” (छु २.२३.१) इत्य् अनेन गृहस्थधर्मा उक्ताः । “तप एव” इत्य् अनेन वानप्रस्थः । “ब्रह्मचार्य् आचार्यकुलवासी” इत्य् अनेन नैष्ठिकः । “ब्रह्मसंस्थः” इत्य् अनेन परिव्राजकः । एतेषां त्रयाणां पुण्यलोका उक्ताः । पारिशेष्याद् एतद्व्यतिरिक्तस्यामृतत्वम् ।
-
नैवम् । ब्रह्मणि संतिष्ठते प्रयतते तत्परस्य ब्रह्मसंस्थस्य यौगिकत्वाद् अस्य शब्दस्य ।
-
ननु च यदि सर्वेषाम् अधिकारस् तदैतावद् एव वक्तव्यम् “ब्रह्मसंस्थो ऽमृतत्वम् एति” (छु २.२३.१) इति ।
-
नैवम् । आश्रमाणां स्वविधिवाक्यावगतं फलं संपत्क्षयिणः “पुण्यलोका भवन्ति” ति ब्रह्मसंस्थस्य तदाश्रमावस्थितस्यैवामृतत्वम् अपुनरावृत्तिलक्षणं विधीयते ।
-
ननु चाद्वैतरूपं ब्रह्मेत्य् आत्मविदः । स च निवृत्तकर्माख्यः । आश्रमाश् च प्रवृत्तमार्गाख्याः क्रियाकारकफलभेदानुष्ठानात्मकाः । तत्राद्वैतात्मविज्ञाने समानभेदाश्रयाणि च गृहस्थाद्यग्निहोत्रकर्मादीनीति परस्परविरोधः ।
-
अत्रोच्यते । समानम् एतत् पारिव्राज्ये ऽपि यमनियमानाम् इष्टत्वात् ते च भेदाश्रयाः ।
-
अथाप्य् उच्येत कर्मसंन्यासिनो निवृत्तिमार्गावस्थायिनो नैव केचिच् छास्त्रार्थविधयः सन्ति ।
-
नायं शास्त्रार्थः । अहंकारममकारत्याग एव संन्यासो वक्ष्यते, नाशेषशास्त्रार्थत्यागः । तस्यापि क्षुधाद्युपहतस्य भिक्षादौ प्रवर्तमानस्यास्त्य् एव क्रियाकारकसंबन्धः । तत्र लौकिके दृष्टार्थभेदे प्रवर्तमानस्य अद्वैतात्मविज्ञानभावनम् अविरुद्धम्, शास्त्रीय त्व् अग्निहोत्रादौ विरोधाद् इति को युक्तकार्य् एवं वदेत् ।
-
अथोच्यते । क्षुधाद्युपहतस्याप्य् अद्वैतत्यागो विरोधिना भोजनेन तावत्काल एव । यथान्धतमसि चलितस्य गच्छतः कण्टकप्रदेशे पादन्यासः सवितरि पुनर् उदिते लब्धप्रकाशस्य पुनर् न्याय्यम् एवाध्वन्यस्याकण्टके ऽवस्थानम् । तथा क्षुधाद्युपघाते विच्छिन्नात्मविज्ञानस्य क्षणम् आलोकस्थानीयायां क्षुन्निवृत्तौ पुनर् दृढसंस्कारवशाद् अद्वैत एवावस्थानम् इति ।
-
तत् तापसे ऽप्य् अविरुद्धम् । गृहस्थस्यापि पुत्रदारादितयोपासनम् अविरुद्धम् । बहुव्यापारतस् तु भेदसात्म्यतां गतस्य कुतो ऽद्वैतसंस्कारोत्पत्तिः । उक्तं च गृहस्थधर्मेषु “एकाकी चिन्तयेत्” (म्ध् ४.२५८) इति । तथा “पुत्रे सर्वं समासज्य” (म्ध् ४.२५७) इति ।
-
ननु च “तस्माद् उ ह न पुरायुषः स्वः कामी प्रेयात्” (श्ब् १०.२.६.७) इति श्रुतिः । तत्र कुतो वानप्रस्थस्य शरीरत्यागः । न हि सा श्रुतिर् वानप्रस्थाद् अन्यत्रानया स्मृत्या विषय उपस्थापयितुं शक्यते । बलीयसी हि श्रुतिः । सा च स्मृत्यनुरोधेन न संकोचम् अर्हति ।
-
उच्यते । जरसा विशीर्णस्यानिष्टसंदर्शनादिना वा विदिते प्रत्यासन्ने मृत्यौ मुमूर्षतो न श्रुतिविरोधः । एवं हि तत्र श्रूयते “न पुरायुषः” इति । अवस्थाविशेषे ह्य् अनभिप्रेते मरणे एतावद् एवावक्ष्यत् “न स्वः कामी प्रेयात्” इति । अरिष्टोपदेशश् चोपनिषत्स्व् एवम् अर्थवान् भवति । यस्य त्व् एतन्निमित्तं मरणं नास्ति ॥ ६.३२ ॥
वनेषु च विहृत्यैवं तृतीयं भागम् आयुषः ।
चतुर्थम् आयुषो भागं त्यक्त्वा सङ्गान् परिव्रजेत् ॥ ६.३३ ॥
मेधातिथिः ...{Loading}...
इतःप्रभृति चतुर्थाश्रममतिः । तृतीयं भागम् इति । कंचित् कालं स्थित्वेत्य् अर्थः । यावता कालेन तपः सुतप्तं भवति विषयाभिलाषश् च सर्वो निवृत्तः । न हि मुख्यतृतीय आयुषो भाग एवानेन शक्यो ज्ञातुम् । न हि वर्षशतापेक्षाश्रमाणाम्, यतो वलीपलितापत्योत्पत्ती10 तृतीयाश्रमप्रतिपत्तौ काल उक्तः । न च सर्वस्य पञ्चाशद् वर्षदेशीयस्य तद् उत्पद्यते । उक्तं चान्यत्र “तपसि ऋद्धे परिव्र्जेत्” इति ।
-
ननु च यथान्येषाम् आश्रमाणां कालो विवृतो ग्रहणान्तं ब्रह्म्चर्यम्, वलीपलिताद्यवधि गार्हस्थ्यम्, नैवम् इह कश्चित् परिच्छेदहेतुर् अस्ति । यदि यथाश्रुतं तृतीयो भागः समाश्रियेत, यच् च “तपसि ऋद्धे” इति, तत्रापि कालापेक्षा युक्तैव । न ज्ञायते कियता तपसा ऋद्धिर् भवति । अतः कालपरिच्छेदो न वचनार्हः ।
-
उक्तम् अत्र न शतवर्षापेक्षया तृतीयायुर् भागनिश्चयः संभवति । उक्तश् च कालः- कायपाके प्रव्रज्या प्रतिपत्तव्या । यावता तपसा यावति च वयसि पुनर् मदवृद्धिर् नाशङ्क्यते तदा परिव्रजेत् ।
-
विहृत्यासित्वा यथोक्तं विधिम् अनुष्ठायेति यावत् । सङ्गत्यागश् च ममतापरिग्रहः एकारामता ॥ ६.३३ ॥
आश्रमाद् आश्रमं गत्वा हुतहोमो जितेन्द्रियः ।
भिक्षाबलिपरिश्रान्तः प्रव्रजन् प्रेत्य वर्धते ॥ ६.३४ ॥
मेधातिथिः ...{Loading}...
समुच्चयपक्षं उपोद्बलयति । आश्रमाद् आश्रमम् इति । गृहस्थाश्रमाद् वानप्रस्थाश्रमं गत्वा हुतहोम उभयोर् अप्य् आश्रमयोर् यदा जितेन्दिर्यस् तदा परिव्रजेत् । प्रेत्य वर्धते मृत्वा विभूत्यतिशयं प्राप्नोति । भिक्षाबलिदानेन परिश्रान्तः चिरम् । आश्रमधर्मानुवादो ऽयम् ॥ ६.३४ ॥
ऋणानि त्रीण्य् अपाकृत्य मनो मोक्षे निवेशयेत् ।
अनपाकृत्य मोक्षं तु सेवमानो व्रजत्य् अधः ॥ ६.३५ ॥
मेधातिथिः ...{Loading}...
अपाकरणम् ऋणसंशुद्धिः । मनो मोक्षे नेवेशयेत् । मोक्षशब्देन प्रव्रज्याश्रमो लक्ष्यते । तत्र प्राधान्येन मोक्षैकफलतोच्यते । न तथान्येष्व् आश्रमेषु । ततो मोक्षः परिव्राज्या ॥ ६.३५ ॥
कानि पुनस् तानि त्रीणि ऋणान्य् अत आह ।
अधीत्य विधिवद् वेदान् पुत्रांश् चोत्पाद्य धर्मतः।
इष्ट्वा च शक्तितो यज्ञैर् मनो मोक्षे निवेशयेत् ॥ ६.३६ ॥
मेधातिथिः ...{Loading}...
“त्रिभिर् ऋणैर् ऋणवा जायते यज्ञेन देवेभ्यः प्रजया पितृभ्यः स्वाध्यायेनर्षिभ्यः” (त्स् ६.३.१०.५) इति श्रुत्यनुवादिनी स्मृतिर् इयम् ।
-
ननु च “गृही भूत्वा प्रव्रजेत् । अथ वेतरथा ब्रह्मचर्याद् एव प्रव्रजेत्” (जाबु ४) इति जाबालश्रुतिः ।
-
उच्यते । उत्पत्तिमात्रम् आश्रित्योक्तम् उदाहरति । तत्रेदं विरुध्यते “अनुत्पाद्य तथा प्रजाम्” (म्ध् ६.३७) इति ।
-
यद्य् एषा श्रुतिर् अस्ति किं तर्हि ।
-
इदम् उच्यते । “प्रत्यक्षविधानाद् गार्हस्थ्यस्य” (ग्ध् ३.३६) इति । “प्रव्रजेत्” इति- तेन11 तु प्रव्रजितेनेमानि कर्माणि कर्तव्यान्य् अनया वेतिकर्तव्यतयेत्य् एतन् नास्ति । गृहस्थस्य त्व् अग्निहोत्रादीनि साङ्गकलपान्य् आम्नातानीत्य् एतदभिप्रायम् एतत् । ये त्व् एतां श्रुतिम् अदृष्ट्वा स्मार्ता एव नैष्ठिकादयस् ते च गृहस्थाश्रमेण प्रत्यक्षश्रुतिविधानेन बाध्यन्ते ।
- ये च क्लीबाद्यनधिकृतविषयतया स्मृतिवाक्यानाम् अर्थवत्तां वर्णयन्ति, तेषाम् अभिप्रायं न विद्मः । यदि तावद् आज्यावेक्षणविष्णुक्रमाद्यङ्गाशक्तौ श्रौतेषु नाधिक्रियते, यतस् तथाविधाङ्गयुक्तं कर्म यः12 संपादयितुं समर्थस् तं प्रत्य् अधिकारश्रुतीनां अर्थवत्त्वे जाते न तद् असमर्थम् अपि कुर्वीतेति । यद्य् एवं स्मार्थेष्व् अपि नैष्ठिकस्य गुर्वर्थम् उदकुम्भाद्याहरणं भैक्षपरिचरणम्, पारिव्राज्ये ऽपि “न द्वितीयाम् अपि रात्रिं ग्रामे वसेत्” (ग्ध् ३.२१) इति, कुतः पङ्ग्वधयोः स्मार्तकर्मक्रमाधिकारः । उपनयनं चैषाम् अस्ति लिङ्गम् । तत एषां विवाहार्थनं “यद्य् अर्थिता तु दारैः” (म्ध् ९.२०३) इति । यद्य् अप्य् उपनयनम् आदित्यदर्शनम् अग्निप्रदक्षिणं परीत्येति च विहितम्, यतो नानुपनीतस्य विवाहसंभवो व्रात्यत्वात्, अतो यावच् छक्यं गुरुशुश्रूषणं विगुणम् अपि ब्रह्मचर्यम् एवम् अस्ति । क्लीबस्य तु प्रकृतेर् अनुपनेयतैव । स च पिततश् च न क्वचिद् अधिकृतः ।
- तस्माद् अनधिकृतविषयं पारिव्राज्यं नैष्ठिकता चेति न मनः परितोषम् आदधाति । सत्यम् उदितहोमनिन्दावद् भविष्यति । समुच्चयपक्षम् आश्रित्य “अनपाकृत्य” (म्ध् ६.३५) इति निन्दावचनम्, न पुनः प्रतिषेध एव । अथ वा यदाकृतदारपरिग्रहस्य प्रव्रज्यायाम् अधिकार इत्य् एवम् एतन् नेयम् ॥ ६.३६ ॥
अनधीत्य द्विजो वेदान् अनुत्पाद्य तथा प्रजाम् ।
अनिष्ट्वा चैव यज्ञैश् च मोक्षम् इच्छन् व्रजत्य् अधः ॥ ६.३७ ॥
मेधातिथिः ...{Loading}...
यज्ञैर् आहिताग्निर् नित्यैः पशुसोमैः ॥ ६.३७
प्राजापत्यां निरूप्येष्टिं सर्ववेदसदक्षिणाम् ।
आत्मन्य् अग्नीन्त् समारोप्य ब्राह्मणः प्रव्रजेद् गृहात् ॥ ६.३८ ॥
मेधातिथिः ...{Loading}...
प्राजापत्या अध्वर्युवेदे विहिता । तस्यां च सर्वस्वदानम् विहितम् । तां कृत्वात्मन्य् अग्नयः समारोप्यन्ते । समारोपणे ऽपि विधिस् तत एवावगन्तव्यः । सार्ववेदसं दक्षिणास्यास्तीत्य् अन्यपदार्थः । वेदो धनम्, तत् सर्वं देयम् । इदम् अर्थे विहितः स्वार्थिको व प्रज्ञादेर् आकृतिगणत्वात् ।
-
अन्ये तु पुरुषमेधं प्राजापत्याम् इष्टिम् आहुः । तत्र “ब्रह्मणे ब्राह्मणम् आलभते” इति प्रथमः पशुः, ब्रह्मा च प्रजापतिः, मुख्येन व्यपदेशप्रवृत्तेः प्राजापत्यः पुरुषमेधः । सर्वस्वदानम् अग्निसमारोपणं प्रव्रज्या च तत्रैव् विहिता । एवं हि तत्र श्रुतिः “अथात्मन्य् अग्नीन्त् समारोप्य तत्रारोपणेनादित्योपस्थानाद् अपेक्षमाणैर् अरण्यम् अभिप्रेतात् तदैव देवमनुष्येभ्यः स्थिरो भवति” इति ।
-
यत्13 त्व् आत्मन्य् अग्नीन्त् समारोप्य प्रव्रज्यया व्यपदिष्टा, अथाह एत एव आत्मनो यज्ञा, इत्य् अतस् तन्मरणात् तस्यै दत्ता आत्मन्य् एव समारोपिता भवन्ति । अतो भार्यामरणपक्षे प्रव्रज्या, नावश्यं14 “पुनर् दारक्रिया” (म्ध् ५.१६६) इति, तन् न15 । किं तु तस्याः पूर्वमरणे भार्यायै दत्वाग्नीन् अन्त्यकर्मणीति पठितम् इति वक्तव्यम् इति । पौरुषेयो ह्य् अयं ग्रन्थो न वेदः, येनोक्तम् उपालभेमहीति परिहारः स्यात् ॥ ६.३८ ॥
यो दत्त्वा सर्वभूतेभ्यः प्रव्रजत्य् अभयं गृहात् ।
तस्य तेजोमया लोका भवन्ति ब्रह्मवादिनः ॥ ६.३९ ॥
मेधातिथिः ...{Loading}...
गार्हस्थ्यनिन्दया चतुर्थाश्रमप्रशंसा । यज्ञे हि पशवो हन्यन्ते । “प्ररोहधर्मकाश् चेतनाः” इति दर्शने तृणौषधीनां छेद इत्य् एतद् भूतभयम् । तद् गृहात् प्रव्रजितस्य समारोपिताग्नेर् नास्तीत्य् उक्तम् । अभयं सर्वभूतेभ्यो दत्वेति । अनेनाशुष्काणां तृणपलाशानाम् अनुपादानम् आह । तेजोमया नित्यप्रकाशा । उदयास्तमयौ यत्रादित्यस्य न विभाव्येते । यथोक्तम् “अत ऊर्ध्वम् आदित्यो नैवोदेति न वास्तम् एति” इत्य् उपनिषत्स्व् इत्य् एवम् आहुर् वचांसि ॥ ६.३९ ॥
यस्माद् अण्व् अपि भूतानां द्विजान् नोत्पद्यते भयम् ।
तस्य देहाद् विमुक्तस्य भयं नास्ति कुतश्चन ॥ ६.४० ॥
मेधातिथिः ...{Loading}...
एष एवार्थः पुनर् उक्तः । देहाद् विमुक्तस्य वार्तमानिकं शरीरं यस्य पततीत्य् अर्थः ॥ ६.४० ॥
आगाराद् अभिनिष्क्रान्तः पवित्रोपचितो मुनिः ।
समुपोढेषु कामेषु निरपेक्षः परिव्रजेत् ॥ ६.४१ ॥
मेधातिथिः ...{Loading}...
पवित्रैर् मन्त्रजपैर् दर्भकमण्डलुकृष्णाजिनैर् उपचितो युक्तः । अथ वा पावनैः कृच्छ्रैः । मुनिर् अकिंचिद्वादी । समुपोढेषु उपहृतेषु16 केनचित् कामेषु स्पृहणीयेषु मृष्टभोजनादिषु यदृच्छातो गीतादिशब्देषु संनिहितेषु पुत्रादिषु वा समुपस्थितेषु निरपेक्षो भवेत् । नैतांश् चिरं स्निग्धेन चक्षुषा पश्येन् नाकर्णयेन् न तैः सहासीत ॥ ६.४१ ॥
यत आह ।
एक एव चरेन् नित्यं सिद्ध्यर्थम् असहायवान् ।
सिद्धम् एकस्य संपश्यन् न जहाति न हीयते ॥ ६.४२ ॥
मेधातिथिः ...{Loading}...
एकरामतानेन विधीयते । एक एवेत्य् अनेन पूर्वसंस्तुतपरित्याग उच्यते । असहायवान् इति भृत्यादेः पूर्वस्यापि परिग्रहो न कर्तव्यः । संविद्रागद्वेषविनिर्मुक्तस्य सर्वसमता एवं भवति । अन्यथा एष एव भृत्यादिर् अन्तिकस्थः, तत्रैवं बुद्धिः स्यात् “अयं मदीयो नायम्” इति । एष एव सङ्गो ऽवधिहेतुर् यथा त्व् एष संपत्स्यते यदा न जहाति, न क्वचित् पुत्रादिस् तेन त्यक्तो भवति । अतो न हीयते न वियुज्यते पुत्रादिभिस् तद्वियोगदुःखं नासादयति । इतरथा सङ्गात् पुनस् त्यागे महद् दुःखम् । न तस्य कश्चिन् म्रियते, स न कस्यचिद् इति ॥ ६.४२ ॥
अनग्निर् अनिकेतः स्याद् ग्रामम् अन्नार्थम् आश्रयेत् ।
उपेक्षको ऽसांचयिको17** मुनिर् भावसमाहितः ॥ ६.४३ ॥**
मेधातिथिः ...{Loading}...
श्रौतानाम् अग्नीनां पूर्वम् अभाव उक्तो ऽनेन गार्हस्थ्यस्योच्यते । अथ वा पाकप्रतिषेधो ऽयम् अग्न्यर्थस्य चेन्धनस्य शीतादिनिवृत्तिप्रयोजनस्य । निकेतो गृहम् । ग्रामम् एकां रात्रिम् अन्नार्थम् आश्रयेत् । कृतप्रयोजनो ऽरण्ये शेषं कालम् । एषा चैकरात्रिर् ग्रामे गौतमेनोका (ग्ध् ३.२१) । तत्र यदि समया ग्रामं तदान्नार्थ एव प्रवेशः । अथ दूरतस् तदैकां रात्रिं वसेत् । द्वितीयाम् अरण्ये संभावयेत् । उपेक्षकः अचेतनेष्व् अपि भावेषु कमण्डल्वादिषु, न तन् निजायत्तं कुर्यात् । अथ वा शरीरस्य व्याधिप्रतीकारं न कुर्यात् । अन्ये त्व् “असंकसुकः” इति पठन्ति । अस्थिरः संकुसुकः, तन्निषेधेन चित्तवृत्तिधैर्यम् उपदिशति । मुनिः संयतवागिन्द्रियः । भावेन चित्तेन समाहितः मनसा विकल्पान् वर्जयेत् । भावेनैव समाहितो न वाङ्मात्रेण ॥ ६.४३ ॥
कपालं वृक्षमूलानि कुचैलम् असहायता ।
समता चैव सर्वस्मिन्न् एतन् मुक्तस्य लक्षणम् ॥ ६.४४ ॥
मेधातिथिः ...{Loading}...
भिक्षाभोजनपात्रं कपालं कर्परम् । निकेतो वृक्षमूलानि । कुचैलं स्थूलजीर्णवस्त्रखण्डम् । समता शत्रौ मित्रे उभयरूपरहिते स्वात्मनि च । मुक्तस्य लक्षणम् । अचिरप्राप्यता मोक्षस्योच्यते, न पुनर् इयतैव मुक्तो भवति ॥ ६.४४ ॥
नाभिनन्देत मरणं नाभिनन्देत जीवितम् ।
कालम् एव प्रतीक्षेत निर्वेशं भृतको यथा ॥ ६.४५ ॥
मेधातिथिः ...{Loading}...
अनेनाक्लेशिताभिहिता । न मरणं कामयेत । नापि ज्ञानातिशयलाभार्थी जीवितम् । कालम् एव प्रतीक्षेत । “यद् यदा भविष्यति तत् तदैवास्तु” इति चिन्तयेत् । यथा भृतको निर्वेशम् । भृतिं गृहीत्वा कालं परिपालयति, अहर् एतस्य मया कर्तव्यम् इति, नान्तरा विच्छेदे मूल्यलाभः, एवं संसारक्षयाच् छरीरपाते मोक्षो भवत्य् एतेन विधिना, न स्वेच्छावृत्तेन ॥ ६.४५ ॥
दृष्टिपूतं न्यसेत् पादं वस्त्रपूतं जलं पिबेत् ।
सत्यपूतां वदेद् वाचं मनःपूतं समाचरेत् ॥ ६.४६ ॥
मेधातिथिः ...{Loading}...
चक्षुषा मार्गं निरूप्य यस्मिन् प्रदेशे प्राणिनः पीडां न गच्छन्ति तत्र पादं निदध्यात् । सत्यां वाचं वदेद् इति सिद्धे पूतग्रहणं सत्यशब्दस्योपलक्षणताम् दर्शयति । तेनापविद्धं भवति । मनसा पूतो मनःपूतः सदा स्यात् । परद्रवाभिध्यानादि न कुर्यात् ॥ ६.४६ ॥
अतिवादांस् तितिक्षेत नावमन्येत कंचन ।
न चेमं देहम् आश्रित्य वैरं कुर्वीत केनचित् ॥ ६.४७ ॥
मेधातिथिः ...{Loading}...
शास्त्रम् अतिक्रम्य यः कश्चिद् वदति सो ऽतिवादः अप्रियाक्रोशः । तितिक्षेत क्षमेत, न प्रत्याक्रोशेत् । न च मनसा क्रुध्येतेत्य् अतो वक्ष्यति “आक्रुष्टः कुशलं वदेत्” (म्ध् ६.४८) इति । अनेन मनसः क्षोभो विनिवार्यते, न कुशलशब्दाभिधानं विधीयते । तदा हि मिथ्यावादी स्याद् अन्यद् धृदये ऽन्यत् तु वाचा वदन् । नावमन्येतेति । अवज्ञानं न कस्यचित् कुर्यात् । गुर्वादिपूजनं नातिक्रामेत् । न चेमं देहम्, यदि कश्चित् प्रहरेच् छरीरे, तेन सह वैरं कुर्यात् । “किम् अनेन मे शरीरेण नष्टेनानष्टेन वा, तेजोमयं मे शरीरं भवतु” इति ध्यायेत् ॥ ६.४७ ॥
क्रुध्यन्तं न प्रतिक्रुद्धेद् आक्रुष्टः कुशलं वदेत् ।
सप्तद्वारावकीर्णां च न वाचम् अनृतां वदेत् ॥ ६.४८ ॥
मेधातिथिः ...{Loading}...
सप्तद्वाराणि च धर्मार्थौ धर्मकामाव् अर्थकामौ कामार्थौ कामधर्मौ अर्थधर्मौ त्रिवर्ग इति । अत्र अवकीर्णां विक्षिप्ताम् एतद्विषयां न वाचं वदेद् अनृताम् । भेदाश्रयत्वाद् एतेषाम्, भेदस्य सर्वस्यासत्यत्वाद् अनृताम् इत्य् उक्तम् । किं तर्हि मोक्षाश्रयाम् एव वदेत् ।
-
अथ वा सप्त शीर्षण्याः प्राणास् ते वाचो द्वाराणि ।
-
अथ वा षड् इन्द्रियाणि बुद्धिः सप्तमी । एतैर् गृहीतेष्व् अर्थेषु वाक् प्रवर्तते ।
-
सुब्विभक्तय इत्य् अन्ये ॥ ६.४८ ॥
अध्यात्मरतिर् आसीनो निरपेक्षो निरामिषः ।
आत्मनैव सहायेन सुखार्थी विचरेद् इह ॥ ६.४९ ॥
मेधातिथिः ...{Loading}...
आत्मतत्वप्रतिविधानापादानपरम् एकाग्रत्वम् अध्यात्मम् । तद्रतिस् तदर्थचिन्तापर आसीत । निरपेक्ष इत्य् उक्तानुवादो विषयान्य् एभ्यो धर्मेभ्यो ऽनुष्ठानार्थः । निरामिषो निःस्पृहः । मांसम् आमिषम्, तेन स्पृहां लक्षयित्वा प्रतिषेधस् तत्रातिशयवती प्राणिनां स्पृहा । अन्यत् प्राग् उक्तम् एव ॥ ६.४९ ॥
न चोत्पातनिमित्ताभ्यां न नक्षत्राङ्गविद्यया ।
नानुशासनवादाभ्यां भिक्षां लिप्सेत कर्हिचित् ॥ ६.५० ॥
मेधातिथिः ...{Loading}...
उत्पाता दिव्यान्तरिक्षभौमा उपरागग्रहोदयकेतूदयदिग्दाहावनिचलनादयः, तत्फलं न कथयेद् भिक्षालिप्सया । निमित्तं गृहदौस्थित्यादि18 । नक्षत्रविद्या अद्य कृत्तिकाकर्मण्यायात्रानक्षत्रम् इत्यादि । अङ्गविद्या हस्तलेख्यादिलक्षणम् । अनुशासनं राज्ञस् तत्प्रकृतीनाम्- एवं युक्तं वर्तितुम्, एतेन संधिर् अनेन विग्रहः, इदं त्वया किम् इति कृतम्, इदं किं न करोषीति । वादो ऽभिमानहेतुकः शास्त्रार्थविप्रतिपत्तौ साधनदूषणाद्युपन्यासः ॥ ६.५० ॥
न तापसैर् ब्राह्मणैर् वा वयोभिर् अपि वा श्वभिः ।
आकीर्णं भिक्षुकैर् वान्यैर् आगारम् उपसंव्रजेत् ॥ ६.५१ ॥
मेधातिथिः ...{Loading}...
आकीर्णम् । यत्र बहवो ऽन्नलाभाय संघटितास् तं प्रदेशं भिक्षार्थं वर्जयेत् ॥ ६.५१ ॥
कॢप्तकेशनखश्मश्रुः पात्री दण्डी कुसुम्भवान् ।
विचरेन् नियतो नित्यं सर्वभूतान्य् अपीडयन् ॥ ६.५२ ॥
मेधातिथिः ...{Loading}...
पात्राणि वक्ष्यति । दण्डास् त्रयः । त्रिदण्डी हि सः । कुसुम्भः कमण्डलुः, न महारजनम् । उत्तरश्लोकार्धस्यार्थः प्राग् विहित एव ॥ ६.५२ ॥
अतैजसानि पात्राणि तस्य स्युर् निर्व्रणानि च ।
तेषाम् अद्भिः स्मृतं शौचं चमसानाम् इवाध्वरे ॥ ६.५३ ॥
मेधातिथिः ...{Loading}...
अतैजसानि सुवर्णाद्यघटितानि पात्राणि भिक्षाया जलस्य च । निर्व्रणान्य् अच्छिद्राणि । अद्भिर् अम्मात्रेण चमसानाम् इव निर्लेपत्वे । लेपसंभवे तु तदपनयो ऽपि द्रव्यान्तरेण कार्य इति ग्राह्यम् ॥ ६.५३ ॥
अलाबुं दारुपात्रं च मृन्मयं वैदलं तथा ।
एतानि यतिपात्राणि मनुः स्वायंभुवो ऽब्रवीत् ॥ ६.५४ ॥
मेधातिथिः ...{Loading}...
वैदलं वंशादिविदलकृतम् । यतिपात्राणि भिक्षार्थं जलार्थं च ॥ ६.५४ ॥
एककालं चरेद् भैक्षं न प्रज्जेत विस्तरे ।
भैक्षे प्रसक्तो हि यतिर् विषयेष्व् अपि सज्जति ॥ ६.५५ ॥
मेधातिथिः ...{Loading}...
भैक्षकार्यस्य भोजनस्यैककालता विधीयते, न पुनर् भैक्षचरणस्यैव । द्विर्भोजनप्रतिषेधो ऽत्राभिसंहितः । तत्र सकृच् चरित्वा द्वितीयस्मिन् काले शेषयित्वा न भुञ्जीत, तदर्थो भोजनप्रतिषेधः । अत एवाह न प्रजज्जेत विस्तर इति । द्वितीयभोजनार्थितया हि विस्तरः प्राप्नोति । एकारामस्य न भृत्यार्थेन भैक्षविस्तर इति । हेतुं ब्रुवन् सकृद्भोजने ऽपि सौहित्यं निषेधति ॥ ६.५५ ॥
विधूमे सन्नमुसले व्यङ्गारे भुक्तवज्जने ।
वृत्ते शरावसंपाते भिक्षां नित्यं यतिश् चरेत् ॥ ६.५६ ॥
मेधातिथिः ...{Loading}...
भुक्तवन्तो जना यस्मिन् काले स भुक्तवज्जनः ।एवं विधूमादयो ऽपि । शरावाणां संपात उच्छिष्टानां भूमौ त्यागः, स यदातीतो भवति । सर्वेणैतेन प्रथमे पाककाले भिक्षादानावसरो निवृत्तो यदा भवति, तदा भिक्षितव्यम् इत्य् आह । विधूम इत्यादिना द्वितीयपाकप्रवृत्तिम् आह । सन्ना मुसला अवघातान् निवृत्ताः स्थापिताः ॥ ६.५६ ॥
अलाभे न विषादी स्याल् लाभे चैव न हर्षयेत् ।
प्राणयात्रिकमात्रः स्यान् मात्रासङ्गाद् विनिर्गतः ॥ ६.५७ ॥
मेधातिथिः ...{Loading}...
ईदृशे काले यदि कुतश्चिन् न लभ्यते तदा विषादश् चित्तपरिखेदो न ग्रहीतव्यः । लाभालाभयोर् हर्षविषादौ न ग्राह्यौ । प्राणयात्रिकी प्राणधारणार्था मात्रा परिमाणं भैक्षस्य । अनेनैतद् दर्शयति । भैक्षासंभवे प्राणयात्रा फलमुलोदकादिभिर्19 अप्य् अपरिगृहीतैः कर्तव्या । मात्रा पात्रदण्डादि, तत्र सङ्गः प्रयत्नेनोपार्जनम्, ततो विनिर्गतो निवृत्तः । अकाम इति यावत् ॥ ६.५७ ॥
अभिपूजितलाभांस् तु जुगुप्सेतैव सर्वशः ।
अभिपूजितलाभैश् च यतिर् मुक्तो ऽपि बध्यते ॥ ६.५८ ॥
मेधातिथिः ...{Loading}...
अभ्यर्च्य यं ददाति सो ऽभिपूजितलाभः । तं जुगुप्सेतेति निन्देद् गर्हेत । अतश् च निन्दितं न समाचरेत् । सर्वशः सर्वकालम् । एकम् अप्य् अहस् तादृशं भैक्षं न गृह्णीयात् । उत्तरे ऽर्थवादः । न हि मुक्तस्य बन्धसंभवः ॥ ६.५८ ॥
अल्पान्नाभ्यवहारेण रहःस्थानासनेन च ।
ह्रियमाणानि विषयैर् इन्द्रियाणि निवर्तयेत् ॥ ६.५९ ॥
मेधातिथिः ...{Loading}...
रहो निर्जनो देशः, तत्र स्थानासने कर्तव्ये । एकारामतायाः फलम् इन्द्रियजयो ऽनेन प्रदर्श्यते ।
- अथ वा निष्कुतूहलतानेनोच्यते । यत्र बहवो जनसंघाताः स्त्रीपुंसात्मका विचित्राभरणा दृश्यन्ते न तत्र क्षणम् अपि तिष्ठेत् ॥ ६.५९ ॥
इन्द्रियाणां निरोधेन रागद्वेषक्षयेण च ।
अहिंसया च भूतानाम् अमृतत्वाय कल्पते ॥ ६.६० ॥
मेधातिथिः ...{Loading}...
निरोधः स्वविषयप्रवृत्तिप्रतिबन्धः । अमृतत्वाय कल्पते अमृतत्वाय समर्थो योग्यो भवतीत्य् अर्थः । यथा आत्मज्ञानम् एवम् एतद् अपीति दर्शयति ॥ ६.६० ॥
अवेक्षेत गतीर् नॄणां कर्मदोषसमुद्भवाः ।
निरये चैव पतनं यातनाश् च यमक्षये ॥ ६.६१ ॥
मेधातिथिः ...{Loading}...
परमार्थभावनाप्रसंख्यानम् इदम् उच्यते दुःखात्मकसंसारस्वरूपनिरूपणम् । कथं नामायं प्रव्रजाभैक्षचर्यादिशरीरक्लेशं20 सुहृत्स्वजनपुत्रदारधनविभवत्यागदुःखहेतुं परिणमय्य विरोधतः स्वच्छन्दतश् चाविगुणम् अनुष्ठास्यति । मनुष्याणां गतयो दुःखबहुलाः, कर्मदोषेभ्यः प्रतिषिद्धसेवनेभ्यो हिंसास्तेयपारदार्यपारुष्यपैशुनानिष्टसंकल्पादिभ्यः समुद्भन्ति । इहैव जीवलोके दारिद्रव्याधिपरिभवाद् वा वैकल्यादयो गतयः फलोपभोगादयः । अमुत्र निरये नरके पतनं मूत्रपुरीषाद्यमेध्यस्थाने कृमिकीटादिजन्म । यमगृहे च यातनाः कुम्भीपाकादयः ॥ ६.६१ ॥
तथेदम् अपरम् अवेक्ष्यम् ।
विप्रयोगं प्रियैश् चैव संयोगं च तथाप्रियैः ।
जरया चाभिभवनं व्याधिभिश् चोपपीडनम् ॥ ६.६२ ॥
मेधातिथिः ...{Loading}...
अवेक्षेतेति क्रियापदसंभवात् द्वितीया । प्रियाः पुत्रादयो बान्धवास् तैर् वियोगो ऽप्राप्तकाले मृतैः । अप्रियैः शत्रुभिः संयोगः संग्रामादिभिः21 संयोगः । जरया । चतुर्थे वयस्य् अवस्थाविशेषो जरा, तय्आभिभवनं शरीराकारनाशः, अशक्तिः, इन्द्रियवैकल्यम्,22 कासश्वासादिव्याधिबाहुल्यम्, सर्वेषाम् अकाम्यता, उपहास्यतेत्यादिभिर्23 जराभिभवः । व्याधिभिः प्राग् अपि जरस उपपीडनं केषांचित् ॥ ६.६२ ॥
अथ महती तृष्णा एवंस्थितस्यापि भवति । एवं तर्हि इदम् अप्रतीकारम् अनिच्छतो ऽप्य् उत्पद्यते ।
देहाद् उत्क्रमणं चास्मात् पुनर् गर्भे च संभवम् ।
योनिकोटिसहस्रेषु सृतीश् चास्यान्तरात्मनः ॥ ६.६३ ॥
मेधातिथिः ...{Loading}...
प्राणानाम् उत्क्रमणम् अन्तर्विच्छेदः । दुःसहा च सा पीडा । गर्भे च संभवः । तत्र नानाविधं दुखं इन्द्रियाणाम् अनुद्भेदात् तमोरूपता कुक्षिस्थस्य मातृसंबन्धिनाहारेण अतिशीतोष्णेन हीनातिमात्रेण वैद्योक्ता पीडा । योनिकोटिसहस्रेषु सृतीः सरणानि प्राप्तास् तिर्यक्प्रेतकृमिकीटपतङ्गश्वाद्याः क्षेत्रज्ञस्य ।
-
ननु च विभुर् अन्तरात्मेष्यते नित्यश् च । तस्य सकलजगद्व्यापिनः कुत उत्क्रमणम्, क्व च योनिसरणम् । संभवोऽपरि गर्भे नित्यस्यानुपपन्नः ।
-
उच्यते । अस्ति केषांचिद् दर्शनं यथायम् अन्तःशरीरम् अङ्गुष्ठमात्रः पुरुषस् तिष्ठति, तन्मात्रमनोबुद्ध्यहंकारात्मकः स यावत्संसारम् एति धर्मः, तस्य चोपचितस्य चैतन्यशक्तिर् आविर्भवति । अतस् तदीयधर्मा अन्तरात्मन उपचर्यन्ते । अथ वा तस्य भावार्था ये प्राणादयस् तेषूत्क्रामत्सु समुत्क्रामतीत्य् उच्यते । एवं संभवो ऽपि द्रष्टव्यः ।
-
पुनश् चैतद् द्वादशे वक्ष्यामः । किं बहुना ॥ ६.६३ ॥
अधर्मप्रभवं चैव दुःखयोगं शरीरिणाम् ।
धर्मार्थप्रभवं चैव सुखसंयोगम् अक्षयम् ॥ ६.६४ ॥
मेधातिथिः ...{Loading}...
अधर्मात् प्रभव उत्पत्तिः । दुःखेन यो योगः पीडानुभवः । धर्म उक्तलक्षणो यः पदार्थः, ततः सुखेनाक्षयेन संयोगः । एतद् अप्य् अवेक्ष्यम् । पारिव्राज्यं च मुख्यो धर्म इत्य् अभिप्रायः ॥ ६.६४ ॥
सूक्ष्मतां चान्ववेक्षेत योगेन परमात्मनः ।
देहेषु चैवोपपत्तिम् उत्तमेष्व् अधमेषु च ॥ ६.६५ ॥
मेधातिथिः ...{Loading}...
योगश् चित्तवृत्तिस्थैर्यं यथा पतञ्जलिना दर्शितम् (च्ड़्। य्सू १.२) । तेनात्मनः क्षेत्रज्ञस्य सूक्ष्मताम् अन्ववेक्षेत । शरीरादौ प्राणादौ वा नात्मबुद्धिः कर्तव्या, किं तर्हि योगजेन ज्ञानातिशयेन सर्वेभ्य एतेभ्यो ऽन्तर्बहिस्तत्त्वेभ्यो व्यतिरिक्तो बोद्धव्य इत्य् एवंपरम् एतत् । न तु स्थूलादिविकल्पा आत्मनः सन्ति । यथा चोत्तमेषु देवादिशरीरेष्व् अस्योपपत्तिः, शरीराधिष्ठातृतया फलोपभोगः सर्वगतस्यापि सतः, एवम् अधमेषु तिर्यक्प्रेतपिशाचादिषु । एकत्वपक्षे परमात्मविभूतय एव क्षेत्रज्ञा इति स्थितिः । अतः परमात्मनो गतीर् अन्ववेक्षेतेत्य् उक्तम् ॥ ६.६५ ॥
भूषितो ऽपि चरेद् धर्मं यत्र तत्राश्रमे रतः ।
समः सर्वेषु भूतेषु न लिङ्गं धर्मकारणम् ॥ ६.६६ ॥
मेधातिथिः ...{Loading}...
भूषितः कुसुमकटकाद्याभरणैः । धर्मः परिव्राजकस्य यद् विहितम् आत्मोपासनादि तद् यत्नतश् चरेत् । यस्मिन्न् आश्रमे यो विहितस् तं चरेत् । न त्रिदण्डादिलिङ्गधारणमात्राद् यतिम् आत्मानं मन्येत । अपि तु समः सर्वेषु भूतेषु स्यात् । रागद्वेषलोभान् यत्नतः परिहरेद् इति तात्पर्यम् । न लिङ्गत्यागेन भूषणाभ्यनुज्ञानम् ॥ ६.६६ ॥
फलं कतकवृक्षस्य यद्य् अप्य् अम्बुप्रसादकम् ।
न नामग्रहणाद् एव तस्य वारि प्रसीदति ॥ ६.६७ ॥
मेधातिथिः ...{Loading}...
कलुषितम् उदकं कतकवृक्षफले निक्षिप्ते प्रसीदति स्वच्छशुद्धरूपताम् आप्द्यते । किं तु न तस्य फलस्य नामग्रहणेन तन् निर्मलीभवति । अपि त्व् अनुष्ठानम् अपेक्षते । एवं लिङ्गधारणं फलनामस्थानीयम् । न तावन्मात्रात् सिद्धिर् यावद् एकारामतोपासनसर्वसमतादिधर्मो नानुष्ठितः । पूर्वशेषार्थवादः ॥ ६.६७ ॥
संरक्षणार्थं जन्तूनां रात्राव् अहनि वा सदा ।
शरीरस्यात्यये चैव समीक्ष्य वसुधां चरेत् ॥ ६.६८ ॥
मेधातिथिः ...{Loading}...
यद् उक्तम् “दृष्टिपूतं न्यसेत्” (म्ध् ६.४६) इति, तस्य प्रयोजनप्रदर्शनश्लोको ऽयम् । शरीरस्यात्यये ऽपि शरीरपीडायाम् अपि सत्यां रात्राव् अहनि वा तृणास्तरणे शयनार्थम् आस्तीर्णे ऽपि शरीरनिषङ्गो ऽनवेक्ष्यादृष्ट्वा न24 कर्तव्यः । अस्मिन् व्यतिक्रमे प्रायश्चित्तम् । अथ वात्यन्तसूक्ष्माः केचन क्षुद्रजन्तवो ये सर्वे शरीरावयवसंवलनमात्रेणैव नश्यन्ति तदर्थम् इदम् ॥ ६.६८ ॥
अह्ना रात्र्या च याञ् जन्तून् हिनस्त्य् अज्ञानतो यतिः ।
तेषां स्नात्वा विशुद्ध्यर्थं प्राणायामान् षड् आचरेत् ॥ ६.६९ ॥
मेधातिथिः ...{Loading}...
जन्तून् क्षुद्रजन्तून् इति द्रष्टव्यम् । तेषां हिंसायां यत् पापं तद्विशुद्ध्यर्थम् इति संबन्धः ॥ ६.६९ ॥
प्राणायामा ब्राह्मणस्य त्रयो ऽपि विधिवत् कृताः ।
व्याहृतिप्रणवैर् युक्ता विज्ञेयं परमं तपः ॥ ६.७० ॥
मेधातिथिः ...{Loading}...
ब्राह्मणशब्देन जातिधर्मताम् आह । न परिव्राजकस्यैव विधिर् अयम् । त्रयो ऽपि । त्रिभ्य ऊर्ध्वं फलाधिक्यम्, त्रयस् त्व् अवशं कर्तव्याः । व्याहृतयः “ॐकारपूर्विकाः” (म्ध् २.८१) इत्य् अत्र या उक्ताः । प्रणव ॐकारः । तैर् युक्ताः । प्राणायामकाल एतद् ध्यातव्यम् । एते त्रिविधाः कुम्भकरेचकपूरकाख्याः । तत्र च मुख्यस्य नासिक्यस्य च वायोर् बहिर् निष्क्रमणनिरोधेन कुम्भकपूरकाख्याः अनुच्छ्वासतो बहिर् नैरन्तर्येण वायोर् उत्सर्गेण रेचको भवति । अवधिर् द्वितीयाध्याये निदर्शितः । यदि वा तपसा पुनर् यावता कालेन न पीडोपजायते ॥ ६.७० ॥
दह्यन्ते ध्मायमानानां धातूनां हि यथा मलाः ।
तथेन्द्रियानां दह्यन्ते दोषाः प्राणस्य निग्रहात् ॥ ६.७१ ॥
मेधातिथिः ...{Loading}...
धातवः सुवर्णादयः, तेषां ध्मायमानानां सुवर्णम् एवावशिष्यते । तथ्एन्द्रियाणां विषयदर्शने यौ प्रीतिपरितपौ जायेते तयोर् यत् पापं तस्य दाहः प्राणनिरोधात् । प्रीतिपरितापोत्पत्तिर् मुमुक्षोर् निषिद्धा । सा तु शरीरिणः त्यक्तसङ्गस्यापि यादृच्छिकरूपशब्दाद्युपनतौ कयाचिन् मात्रया वस्तुसामर्थ्येन नियतेन्द्रियस्याप्य् उपजायते । अतस् तद्दोषनिवृत्त्यर्थाः प्राणायामाः ॥ ६.७१ ॥
प्राणायामैर् दहेद् दोषान् धारणाभिश् च किल्बिषम् ।
प्रत्याहारेण संसर्गान् ध्यानेनानीश्वरान् गुणान् ॥ ६.७२ ॥
मेधातिथिः ...{Loading}...
प्राणायामैर् इत्य् एतत् पूर्वश्लोकेन दर्शितम् ।
-
अपरे त्व् आहुः । दोषा रागादयस् तान् दहेत् ।
-
कथम् प्राणायामैर् दग्धुम् एते शक्यन्ते । युक्तः पापस्य तैर् दाहः । अदृष्टा च तस्योत्पत्तिः शास्त्रलक्षणम्, तथा निवृत्तिर् अपि । रागादयस् तु प्रत्यक्षवेद्याः । तेषां च निवर्त्यनिवर्तकभावः प्रत्यक्षादिवेद्य एव युक्तो भवितुम्, न शास्त्रीयः । यदि शास्त्रम् एवं वदेद् विरमणशीलं निवर्तयेद् इति, किंप्रमाणं भवेत् । तस्माद् रागादिनिमित्तम् अशुभाचरणं दोषशब्देनोच्यते । तस्य कार्यदाहाद् दाहः । स्वरूपतो हि स्वरसत एव कर्मणां क्षणिकत्वान् नाशः । एष एव च दाहः, न त्व् अन्यस्येव भस्मीभावः । एवं च पूर्वश्लोकार्थानुवादः25 ।
-
धारणाभिश् च ।
-
ननु च किल्बिषं पापं दोषश् च तद् एव। तत्रैतावद् वक्तव्यं प्राणायामैर् धारणाभिश् च दोषान् दहेत् । किं किल्बिषम् इत्य् अनेन । किल्बिषम् इति वास्तु, किं दोषग्रहणेन ।
-
उच्यते । दोषग्रहणम् अवश्यं कर्तव्यम्, विशिष्टस्य पापस्य प्राणायामैर् दाहो यथा विज्ञायेत, न सर्वस्येति । दोषशब्देन हि रागादय उच्यन्ते । अतस् तन्निमित्त एव पापे उपचारो यथोक्तः ।
-
एवं तर्हि तद् एव क्रियताम्, किं किल्बिषम् इत्य् अनेन ।
-
पादपूरणार्थम् इत्य् अदोषः । तत्रोत्पन्नस्य पापस्य प्राणायामा दहना उच्यन्ते । धारणास् तु दोषानुत्पत्तिम् एव कुर्वन्ति ।
-
काः पुनर् एता धारणाः ।
-
शमयमादिभिर् नियमाद् विषयदर्शनाभिलाषेण प्रकृष्यमाणं मनो धार्यते, तत्रैव स्थाने नियम्यते । ताश् च विषयगतदोषभावना “अस्थिस्थूणाम्” (म्ध् ६.७६) इत्याद्याः । कान्तिलावण्यतारुण्यसंस्थानशौर्यादयः स्त्रीषु दृश्यमाना अभिलाषहेतवः । ते च सविकल्पं प्रत्यक्षग्राह्याः । विकल्पाश् च मनोधाराः । अतो विकल्पान्तरैर् “मूत्रपुरीषपूर्णं नम” इति तस्मिन् विषयगतदोषभावे, “कटककर्पटान्वितं स्त्रीद्रव्यं नाम,” “अधिकं प्राणिनो यत् प्रत्नतः परिहर्तव्यम् अभिलषन्ति,” “याप्य् एषा सुखलेशभ्रान्तिः सा क्षणभङ्गिनी, तदासेवनेन घोरा दीर्घकालाश् च यमयातनाः” — इत्यादिभिः शक्यन्ते निरोद्धुम् । एतद् एव तत्प्रसंख्यानम् उच्यते । एवं भोजनादिष्व् अपि भावयितव्यम् । “यद् एतच् छर्कराघृतपूरहैयङ्गवीनपायसादि, यच् च भैक्षं कदन्नादिभिः समम् एतच् छरीरधारणतया विशेषाभावात् कस्यचित् प्रकृतेर् जिह्वाग्रे क्षणलवमात्रवर्तमानस्य विशेषो यः सविशेषतया प्रतिभासेत, गन्धर्वनगरप्रख्यो ऽयं क्षणिकावभासः” इति । एवम् अन्यत्रापि स्पर्शदोषो भावयितव्य इत्य् एवम् उपदिशति ।
-
अन्ये त्व् आहुः । कौष्ठ्यस्य वायोर् मुखनासिकासंचारिणः शरीरैकदेशान्तर्हृदयाकाशाद् अभ्यासवशतो धारणं धारणा ।
-
ननु च प्राणायामेभ्य एतासां साधारणानां को भेदः ।
-
बाहुललाटादाव् अपि यथेच्छं व्याहृत्यादिध्यानरहितं धारणा, प्राणायामा रेचनेनाधिक्रियन्त इति विशेषः ।
-
अन्ये तु “मैत्री मुदिता करुणा उपेक्षा एता धारणा” (च्ड़्। य्सू १.३३) इति मन्यन्ते ।
-
मैत्री कृपा मुदोपेक्षा सर्वप्राणिष्व् अवस्थिता ।
-
ब्रह्मलोकं नयन्त्य् आशु ध्यातारं धारणास् त्व् इमाः ॥
तत्र मैत्री द्वेषाभावः, न तु सुहृत्स्नेहः, तस्य बन्धात्मकत्वात् । कृपा करुणा चित्तधर्मः, दुःखितजनदर्शनेन “कथम् अयम् अस्माद् दुःखाद् उद्ध्रियेत्”26 इति समुद्धरणकामना । न त्व् अहिंसानुग्रहयोर् अनारम्भ इत्य् उक्तम् । अत एतद् एवम्27 उच्यते, चित्तधर्मो ऽयम् अभ्यसितव्यः । मुदिता शोकव्यावृत्तिर् व्याध्यादिनिमित्ते दुःखे नरकादिभयजे वा, न तु हर्षः, तस्य रागहेतुत्वात् । उपेक्षा विषये, अनुग्राहकेषु उपघाते28 च प्रसिद्धैव ।
-
मनसो वान्तर्हृदयाकाशे ब्रह्मचिन्तापरतया निश्चलता धारणा ।
-
प्रत्याहारेण संसर्गम् । इन्द्रियाणां विषयैः सह संबन्धस् तत्र प्रवृत्तिः संसर्गः, तन् दहेत् प्रत्याहारः । ततो ऽपसरणम् इन्द्रियाणां प्रतिबन्धकरणं वा । आश्चर्यरूपेण न कटकादौ रूपवत्स्त्रीसंदर्शने वा स्थगयितव्ये चक्षुषी, अन्यत्र वा दृष्टिर् उपनेया । एवं सर्वेन्द्रियेषु । एवं च समाधानं योगिनो ऽप्रतिबद्धं भवति ।
-
ध्यानेनानीश्वरान् गुणान् । गुणान्त् सत्वरजस्तमांसि । ते चानीश्वराः परतन्त्राः चेतनाधीनमूर्तयः । पुरुषस्यानतस्य सुखादिरहितस्य यो ऽभिमानो “अहं सुख्य् अहं दुःखी” इति निर्गुणस्य गुणमन्यताभिमानस्य, गुणपुरुषविवेकध्यानेन दग्धव्यः । “चिद्रूपः पुरुषो निर्गुणो गुणमयी प्रकृतिः” इत्य् एवं गुणपुरुषविवेकः कर्तव्यः ॥ ६.७२ ॥
स कथं कर्तव्यः । ध्यानेन किं पुनर् ध्येयम्, अत आह ।
उच्चावचेषु भूतेषु दुर्ज्ञेयाम् अकृतात्मभिः ।
ध्यानयोगेन संपश्येद् गतिम् अस्यान्तरात्मनः ॥ ६.७३ ॥
मेधातिथिः ...{Loading}...
अन्तरात्मा अन्तर्यामी पुरुषः, तस्य गतिः स्वरूपं यथावद् विज्ञेयम् । सुखदुःखाभिमानो न केवलं मनुष्यजन्मनि, किं तर्हि उच्चावचेषु नानाविधेषु भूतेषु तिर्यक्प्रेतपिशाचादिष्व् अहं ममेति प्रत्ययो ऽविद्याकृतो निवर्त्यः ।
- अथ वा “कथम् अयं विभुर् अन्तरिक्षाज् ज्यायान् दिवो ज्यायन् एभ्यो लोकेभ्यः सर्वकामः सर्वरसः सर्वगन्धः सर्वस्पर्शः इदम् अभ्यस्यतो विजिघत्सोर् विपिपासोर् एवंविधे ऽपि सुखे दुःखे शरीरस्य शरीरेष्व् असर्वभोगतया सो ऽहं नाम — अहो कर्मणां माहात्म्यम्, यद् अयं सर्वात्मकः स्वतन्त्रः परतन्त्रीक्रियते कर्मभिः, नैतानि करिष्ये दुष्टस्वामिस्थानीयानि — भृतक इव कर्माणि प्रतिपालयिष्ये” । यथा भृतकः कश्चित् स्वामिनं निबन्धेनाराधयितुं प्रविष्टः सन् यं मन्यते “यावद् दुराधर्ष इव नो दण्डशीलस् तर्जनापरः परुषभाषी, नैनं भूयः परिचरिष्यामि, यन् मयास्मात् किंचिद् भृत्यादि गृहीतं तद् एवास्य कर्मकरणेन शोधयामि” एवं ध्यायन्न् आसीत । “कृतानां कर्मणां फलोपभोगेनान्तं यास्यामि, अन्यानि च न करिष्यामि” इत्य् एवमादि ध्येयम् । तथा “किम् एते क्षेत्रज्ञाः परमात्मनो विभूतय उत स्वतन्त्राः — नैवंपरमात्मनो ऽन्यः29 कश्चिद् अस्ति” इति वेदान्तनिषेवणादिना निचित्य ध्यातव्यम् ।
-
अन्ये पुनर् आहुः । ध्यानं च योगश् च ध्यानयोगम् । तेन अन्तरात्मनः गतिं संपश्येन् निरूप्योप्यासीत गतिं ध्यानेन योगेन च ।
-
अथ वा ध्यानार्थो योगः चित्तस्थैर् यं तत् कृत्वा, आत्मनो गतिं संपश्येद् उपासनाभिर् अनपायामृतादिगुणविशिष्टं30 वेदान्ताभिहितरूपं निष्कल्मषम् अभिमुखीकुर्यात् ।
- अकृता असंस्कृताः शास्त्रेणात्मानो यैस् तैर् न शक्यं ज्ञातुम् ॥ ६.७३ ॥
सम्यग्दर्शनसंपन्नः कर्मभिर् न निबध्यते ।
दर्शनेन विहीनस् तु संसारं प्रतिपद्यते ॥ ६.७४ ॥
मेधातिथिः ...{Loading}...
अनन्तरस्य विधेः फलम् आह । सम्यग्दर्शनम् अनन्तरोक्तम् आत्मनो यथार्थज्ञानम्, तेन संपन्नः कृतसाक्षात्कारः । कर्मभिर् न निबध्यते । संसारं नानुवर्तते । कृतानां कर्मणां भोगेन क्षयाद् अन्येषाम् अकरणात् । न पुनर् अनेन केवलात् ज्ञानान् मोक्ष उक्तो भवति । दर्शनेनाध्यात्मिकेन वेदान्तोपदिष्टेन यो विरहितः केवलकर्मकारी स31 संसारम् एति ॥ ६.७४ ॥
अहिंसयेन्द्रियासङ्गैर् वैदिकैश् चैव कर्मभिः ।
तपसश् चरणैश् चोग्रैः सादयन्तीह तत् पदम् ॥ ६.७५ ॥
मेधातिथिः ...{Loading}...
इदं तु ज्ञानकर्मणोः समुच्चयान् मोक्ष इति श्लोकद्वयं ज्ञापकम् । पूर्वेण ज्ञानम् उक्तम् । अनेन कर्माण्य् उच्यन्ते ।
- कानि पुनर् वैदिकानि कर्माणि येषां फलं **तत् पदं **प्राप्नोतीत्य् उच्यते । यानि तावत् काम्यानि येषां स्वविधिवाक्ये श्रुतम् एव स्वर्गादि फलम् । तद्व्यतिरेकेण फलान्तरकल्पनायाम् अतिप्रसङ्गः । संकीर्णफलताश्रयणं वानर्थकं स्यात् । तावता च वाक्यार्थस्य समाप्तेर् विध्यनपेक्षिततत्पदप्राप्तिलक्षणफलेन कथं संबन्धः । श्रुतेनैवान्वयिना विध्यर्थसंपन्ने ऽन्यत्32 विधिर् नापेक्षते ।
-
अत्रोच्यते । अस्त्य् एवात्र वाक्यान्तरम् “यज्ञेन तद् आप्नोति” इति रहस्याधिकारे । ततश् च संयोगपृथक्त्वात् फलद्वयं युक्तम् । अतश् च सर्वेषाम् एव काम्यानाम् अविच्छिन्नफलयोगिता परमपदप्राप्त्यर्थता च न विरोत्स्यते । तत्र च यागद्वयेन प्रयोगभेदेन स्वर्गापवर्गौ भवतः । न चात्र यज्ञविशेषः श्रुतो येन नित्यानाम् एतत् फलं स्यान् न काम्यानाम् ।
-
अथोच्येत । नित्येष्व् अश्रुतत्वात् फलावच्छेदस्याविरोधात् तद्विषयता युक्ता, न काम्येषु । तावतैव यज्ञेनेत्य् अस्य सर्वविषयत्वलाभाद्33 इति चेत्,
-
किम् अत्र फलश्रवणेन । कर्तव्यतानिष्ठानि च वैदिकानि वाक्यानि । सा च कर्तव्यतान्तरेण वैदिकं फलपदं यावज्जीवादिपदैर् अवगमितेति । तत्रापि फलसंबन्धो नापेक्षित एव । कल्प्यमानो ऽधिकत्वान् नैकार्थ्यं यायात् । अतो यज्ञेनेति वाक्यम् अप्रतिष्ठमानं विविक्ते विषये सर्वं यज्ञशब्दवाच्यं नित्यं काम्यं च गोचरयति ।
-
न चैतत् फलं काम्यानाम्, अपवर्गकाम इत्य् अश्रुतत्वात् । एतद् अभिप्रायम् एवोक्तम् “कामात्मता न प्रशस्ता” (म्ध् २.२) इति । महाभारते ऽपि “मा कर्मफलहेतुर् भूर् मा ते सङ्गो ऽस्त्व् अकर्मणि” (भ्ग् २.४७) इति ।
-
अतश् च भेदग्राहपरिवेष्टितान्तःकरणस्य तृष्णाविद्यावतो ऽनिर्मुक्ताहंकारममकारस्याभिसंहितपरिमितफलप्राप्तिः । इतरस्य त्व् अनभिसंधायफलविशेषचोदितत्वात् कर्तव्यम् इति बुद्ध्या वर्तमानस्यापरिमितनिरतिशयानन्दरूपब्रह्मावाप्तिः ।
-
न चैतच् चोदनीयम्- “एकसप्तशतं क्रतवो यावन्तो वा तेषां सर्वेषाम् अनुष्ठानस्याशक्यत्वाद् अनारम्भोपदेशता स्यात्” इति । यतो दर्शनसंपत्त्यैवात्रानुष्ठानसंपत्तिः । अत एवोक्तम् “सम्यग्दर्शनसंपन्नः” (म्ध् ६.७४) इति । सर्वे च क्रतवो दर्शनसंपादनीयाः । तथा चोक्तम् “ज्ञानेनैवापरे विप्रा यजन्ते” (म्ध् ४.२४) इति ।
-
अथ वा यांल् लोकान् एतीत्य् अवच्छेदनिर्देशः, स्वर्गकामः पुत्रकाम इति । अतीतानादिभेदग्रहवासितान्तरात्मानो दृष्टफललोभेनासत्येनैव प्रधाने पुरुषार्थे प्रवर्तन्ते । यथा बालः पुष्ट्यर्थे औषधे34 “शिखा ते वर्धिष्यते” इत्य् असत्ययैव शिखावृद्ध्या प्रवर्त्त्यत इति केचित् ।
-
अपरं मतम् । नित्यान्य् अत्र कर्माण्य् अभिप्रेतानि । तान्य् अक्रियमाणानि प्रत्यवायहेतुतया प्रतिबन्धकानि । अतस् तैर् अनुष्ठीयमानैर् असति प्रतिबन्धे उक्तं वैदिकैश् चैव कर्मभिर् इति । यद्य् अपि तानि न मोक्षार्थतया चोदितानि ।
-
उग्रैर् अत्यन्तं शरीरतापहेतुभिः । तस्य ब्रह्मणः । पदं स्थानं ब्रह्मलोकम् । साधयन्ति स्वीकुर्वन्ति ।
-
अथ वा तदीयपदं यादृशस् तस्याधिकारः, सर्वेश्वरत्वं स्वातन्त्र्यं तद्रूपप्राप्तिर् इति यावत् ॥ ६.७५ ॥
अस्थिस्थूणं स्नायुयुतं मांसशोणितलेपनम् ।
चर्मावनद्धं दुर्गन्धि पूर्णं मूत्रपुरीषयोः ॥ ६.७६ ॥
मेधातिथिः ...{Loading}...
वैराग्यजननम् एतत् । तिष्ठन्तु तावत् कृमिकीटपतङ्गादिशरीराणि जलौकोभूमिस्वेदजादीनाम्35 । यद्36 इदं मानुषशरीरं स्पृहणीयत्वेनाभिप्रेतम्, यत् पाताशङ्किनो नित्यभीता मनुष्यास् तन् मूत्रपुरीषकुटीगृहकम् इव । तद् इदानीं कुटीगृहकेन निरूपयति । अस्थीनि स्थूणा इव । तैर् अवष्टब्धम् । स्नायुना बद्धम् । मांसशोणिताभ्याम् उपरि दिग्धलेपनम् । उपरि देहचर्मणा अवनद्धम् । अथ वा तत उपरि37 आच्छादितम् । पूर्णं मूत्रपुरीषयोः । ओदनस्य पूर्ण इतिवत् षष्ठी ॥ ६.७६ ॥
जराशोकसमाविष्टं रोगायतनम् आतुरम् ।
रजस्वलम् अनित्यं च भूतावासम् इमं त्यजेत् ॥ ६.७७ ॥
मेधातिथिः ...{Loading}...
जरा च चरमे वयसि शरीरापचयहेतुर् अवस्थाविशेषः । आतुरं नित्यगृहीतं रोगैः । रजस्वलं स्पृहयालु38 सर्वपदार्थेषु, तदसम्पत्यां च महद्दुःखं सर्वस्मिन् सोढे अप्रतीकारम् अनिवर्त्यम् । अत एतद् अवेक्ष्य39 त्यजेद् इदं शरीरम् । भूतानां भूविकाराणां मेदोमज्जाश्लेष्ममूत्रशुक्रशोणितानाम् अयं वासस् ते ह्य् अत्र वसन्ति नात्मनो ऽयं वासः सर्वगतत्वात् तस्य । अतस् तृष्णा40 शरीरे न41 कर्तव्या ॥ ६.७७ ॥
नदीकूलं यथा वृक्षो वृक्षं वा शकुनिर् यथा ।
तथा त्यजन्न् इमं देहं कृच्छ्राद् ग्राहाद् विमुच्यते ॥ ६.७८ ॥
मेधातिथिः ...{Loading}...
यस् तावद् अयं कुटीरूपको देहस् तस्य दृष्टान्ते नदीकूलं वृक्ष इति । न स्वेच्छयाग्निप्रेवेशादिना त्यक्तव्यः, किं तु तृष्णा तत्र न कर्तव्या । अनुद्दिष्टपूर्व आपातस् तदा भविष्यति कर्मक्षयात्, वृक्षस्येव कूलस्थस्य । यद् उक्तम्42 “नाभिनन्देत मरणम्” (म्ध् ६.४५) इति । यस् तु लब्धज्योतिर् वशीकृतप्राणसंचारो मोहविकारनिगृहीतमनास् तेन पूर्वम् उत्क्रमणं कर्तव्यम् । यथा शकुनिर् वृक्षं त्यजति । ग्राह इव ग्राहः, दुःखहेतुत्वसाम्यात् । तद् आह कृच्छ्रात् प्राप्तिपूर्वकस्यापि यावच्छरीरं वस्तुसामर्थ्याद् भवत्य् एव कृच्छ्रम्43 । पूर्वविप्रतिपत्ताव् एतद् उच्यते ॥ ६.७८ ॥
प्रियेषु स्वेषु सुकृतम् अप्रियेषु च दुष्कृतम् ।
विसृज्य ध्यानयोगेन ब्रह्माभ्येति सनातनम् ॥ ६.७९ ॥
मेधातिथिः ...{Loading}...
प्रीतिपरितापकृतश् चित्तसंक्षोभो हर्षशोकादिलक्षणो ऽनेनोपायेन परिहर्तव्यः । यत् किंचित् प्रियं करोति तन् मम सुकृतस्य विशेष्यते तस्येदं फलम्, नैष कर्ता मम स्नेहबुद्ध्या प्रियम्, न चायं मे शात्रवं शक्नोति कर्तुं दुष्कृतं पीडाकरम्" इत्य् एवं विमृश्य ध्यानयोगेन चित्ते भावयेत् । अतो ऽस्य न प्रियकारिणि रागो नाप्रियकारिणि द्वेषो जायते । एवं कुर्वाणः सनातनं शाश्वतं ब्रह्माभ्येति अभिमुखं प्राप्नोति । अचिरादिपथेन न व्यवधीयते । शाश्वतग्रहणाद् अनावृत्तिः प्रतीयते ॥ ६.७९ ॥
यदा भावेन भवति सर्वभावेषु निःस्पृहः ।
तदा सुखम् अवाप्नोति प्रेत्य चेह च शाश्वतम् ॥ ६.८० ॥
मेधातिथिः ...{Loading}...
चित्तधर्मोपदेशो ऽयम् । न स्पृहा कार्याभिप्रेतवस् तूपादानपरिहारेण निस्पृहत्वम्, अपि तु तत्कारणत्यागेन । भावश् चित्तधर्मो वात्मनो वाभिलाषलक्षणः । सर्वभावेषु । पदार्थवचनो द्वितीयो भावशब्दः । सर्वग्रहणेनावश्यकर्तव्येष्व् अपि पानभोजनादिषु शरीरस्थितिहेतुष्व् अभिष्वङ्गो निषिध्यते, न पुनर् इच्छा । सा ह्य् अस्य भाविनी वस्तुसामर्थ्यजा बुभुक्षा पिपासा च । भिन्ना चेच्छा स्पृहातः । रागानुबन्धिनी दैन्यनिमित्ता स्पृहा । इच्छा तु भोजनादौ भुक्तपीताहारपरिणामसमनन्तरं स्वयं उपजायते ॥ ६.८० ॥
अनेन विधिना सर्वांस् त्यक्त्वा सङ्गाञ्[^४४]** छनैः शनैः ।**
सर्वद्वन्द्वविनिर्मुक्तो ब्रह्मण्य् एवावतिष्ठते ॥ ६.८१ ॥
मेधातिथिः ...{Loading}...
सङ्गांस् त्यक्त्वा सर्वान् । गवाश्वहस्तिहिरण्यदासभार्याक्षेत्रायतनादिषु ममेदम् इति बुद्धिः सङ्गः । तत्त्यागाद् एकारामतायाः परिग्रहणेन च । एनं प्रथमम् उपाश्रित्यैनं प्राधान्येन, ततो ऽनेन विधिना पूर्वोक्तेन क्रियाकलापेन बाह्याध्यात्मिकेनानुष्ठितेन ब्रह्मणि चिद्रूपे ऽवतिष्ठते । न कर्माणि बध्नन्ति । सर्वद्वन्द्वैः शुभासुभकर्मार्थैः सुखदुःखैर् विनिर्मुक्तो भवति ॥ ६.८१ ॥
ध्यानिकं सर्वम् एवैतद् यद् एतद् अभिशब्दितम् ।
न ह्य् अनध्यात्मवित् कश्चित् क्रियाफलम् उपाश्नुते ॥ ६.८२ ॥
मेधातिथिः ...{Loading}...
ध्याने सति भवति ध्यानिकम् । ध्याने क्रियमाणे लभ्यते । किं तत् । यद् एतद् अनन्तरम् अभिशब्दितम् उक्तम् आभिमुख्येन, न तात्पर्येण प्रतिपादितम् । सुकृतदुष्कृतयोस् तयोः प्रियाप्रियहेतुत्वन्यासः । पुरुषस्य यद् अप्रियकर्तृत्वं तज् ज्वरस्येव पीडाहेतुत्वम् अग्नेर् इव दुरुपसर्पणदग्धृत्वम् । यथा नाग्निदग्धो ऽग्निं द्वेष्टि एवं पुरुषम् अप्य् अप्रियकारिणं मन्येत, न प्रतिषेद्धा स्यात् ।एतच् च ध्याने सति एकाग्रे चित्ते भवति । सर्वकालम् एतद् धृदयेनाभ्यसितव्यम् । यथा सुखदुःखे इमे कर्मणः फलम् । न राजा सुखस्य ग्रामादेर् दता, अपि तु मदीयायासेन प्रथमोपसर्पणलाभः । पूर्वकृतं पुण्यं कर्म दातृ, न राजा । एवं दण्डो नोद्वेजयिता, कर्माणि माम् उद्वेजयन्ति, न राजा, नापि शक्तो ऽन्यः कश्चित् । एतत् सर्वदा ध्यातव्यं चिन्तयितव्यम् । यद् अपि संसारवैराग्यजननायोक्तम् “अस्थिस्थूणम्” (म्ध् ६.७६) इत्यादि तद् अपि नित्यं भावनीयम् ।
- न ह्य् अनध्यात्मवित् ।
(१) अध्यत्मं चित्तम् अत्रोच्यते । यद् एतद् अभिशब्दितं न वेत्ति न निश्चिनोति नाभ्यासेन भावयति । स न क्रियाफलम् उपाश्नुते44 । परिव्राजकस्य या बैक्षचर्या क्रिया ग्रामैकरात्रवासादिश् च, न तत्फलं मोक्षाख्यं लभते । यावद् अस्थिस्थूणादिभावनया भावेनैव निरभिलाषता सर्वत्र नोत्पन्ना, यावच् च कर्मसु फलन्यासेन रागद्वेषप्रहाणं न कृतम् इत्य् अर्थः । तच् च नित्यं यदा एवं चित्तं पुज्यते तदा भवति, नाकस्माद् इति ।
(२) अथ वा “ब्रह्मन्य् एवावतिष्ठते” (म्ध् ६.८१) इति एतस्य यद् एतद् अभिशब्दितम् इति परामर्शः । ब्रह्मण्य् अवस्थानं ध्यानिकम्, न तु क्रियानुष्ठानमात्रलभ्यम् । किं तद् ध्येयम् इत्य् अत आह- न ह्य् अनध्यात्मविद् इति । आत्मानम् अधिकृत्य यो ग्रन्थो वेदान्तादिः सो ऽध्यात्मम्, न वेद । अथ वात्मन्य् अधि यो निर्वृत्तस् तद् अध्यात्मम्, यथायम् आत्मा देहेन्द्रियमनोबुद्धिप्राणादिव्यतिरिक्तः नेषां नाशे नश्यति, कर्ता कर्मणां भोक्ता तत्फलानाम्, भेदग्राहाकृष्टस्य सर्वम् एतद् भवति । यदा त्व् अयम् अपहतपाप्मा न दोषैर् न कार्यैः स्पृश्यते, एकत्वाद् एष एव सर्वम् इदम्, न ततो ऽन्यद् व्यतिरिक्तम् अस्ति । प्रभासमात्रं पृथक्त्वम् । हरिसवर्णसोदकादिका उपनिषदो यो न वेद, ध्यानेनैकाग्रया संततया मत्या न दार्ढ्यम् उत्पादयति, स न यथोक्तं क्रियाफलं लभते । अत आत्मा वेदान्ताभिहितस्वरूपो नित्यम् आहारविहारकालं वर्जयित्वा ध्येय इति श्लोकार्थः ।
(३) अथ वा यद्य् अपि प्रव्रज्याधिकारस् तथापि गृहस्थस्यापि क्रियाफलग्रहेण निर्देशः, यदि क्रियाप्रधानः । अत एतद् उक्तं भवति । यद्य् अप्य् अग्निहोत्रादीनि कर्माणि कुर्वते गृहस्थाः, रहस्यविद्याविदश् च न भवन्ति, या विद्याः कर्मसूपविष्टा उद्गीथा “अथ वा यावती उद्गीथम् अन्वयन्ते” इत्यादिना तेन निपुणाः कर्मकाण्डज्ञा अपि, न ततः परिपूर्णफलं चिरकालभावि लभन्ते । एषो ऽर्थो वजसनेयके छान्दोग्ये च श्रुतिद्वये निदर्शितः । “यो वा एतद् अक्षरं गार्ग्य् अविदित्वा यजते जुहोति तपस् तप्यते बहून्य् अपि वर्षसहस्रान्य् अन्तवद् एव तद् भवति” (बाउ ३.८.१०) इति, तथा “यद् एव विद्यया करोति श्रद्धया उपनिषदा तद् एव वीर्यवत्तरं भवति” (छु १.१.१०) छन्दोग्योक्तम्45 । यस् तु यथोक्ताम् अध्यात्मोपदिष्टां विद्यां विदित्वा करोति तस्यैव फलातिशयः । उक्तं च “तद् य इत्थं विदुर् य इमे ऽरण्ये श्रद्धा तप इत्य् उपासते” (छु ५.१०.१) इति । यम् “अभिसंभवति” (छु ५.१०.१) इत्यादिविजानतां कर्मकारिणाम् अर्चिरादिमार्गेण ब्रह्मलोकप्राप्तिम् एषां श्रुतिर् आह ॥ ६.८२ ॥
एवम् आत्मज्ञानार्थं ध्येये विहिते वेदजपो न प्राप्तः तत्साधनतयातस् तं विधत्ते ।
अधियज्ञं ब्रह्म जपेद् आधिदैविकम् एव च ।
आध्यात्मिकं च सततं वेदान्ताभिहितं च यत् ॥ ६.८३ ॥
मेधातिथिः ...{Loading}...
जपमात्रम् अस्याभ्यनुज्ञायते, न पुनर् गृहस्थादिवद् अभ्यासार्थम् अध्ययनम् । यज्ञेष्व् अधि अधियज्ञं विधायकं46 ब्राह्मणम् । आधिदैविकम् अधिदैवं47 भवं देवताप्रकाशकमन्त्राः । तेषाम् एव विशेष आध्यात्मिकम् इति । “अहं मनुर् अभवम्48 अहं रुद्रेभिः” (र्व् ४.२६.१) इत्यादि । वेदान्त इति यद् अभिहितं तद् अपि कर्मज्ञानसमुच्चयं ब्रह्मत्वाय दर्शयति ॥ ६.८३ ॥
इदं शरणम् अज्ञानाम् इदम् एव विजानताम् ।
इदम् अन्विच्छतां स्वर्गम् इदम् आनन्त्यम् इच्छताम् ॥ ६.८४ ॥
मेधातिथिः ...{Loading}...
इदम् इति वेदाख्यं ब्रह्माचष्टे । सो ऽपि ब्रह्मैव । तथा चोक्तम् ।
-
द्वे ब्रह्मणी वेदितव्ये शब्दब्रह्म परं च यत् ।
-
शब्दब्रह्मणि निष्णातः परं ब्रह्माधिगच्छति ॥ इति । (मैतु ६.२२)
अध्ययनं विज्ञानम्, तदर्थानुष्ठानेन निष्णातता । पूर्वस्य विधेर् अयम् अर्थवादः । अज्ञानाम् अतदर्थविदां जपादिष्व् अधिकारेण । तथा च भगवता व्यासेन सिद्धिर् जापकानां दर्शिता । अथ वा अज्ञा अनात्मज्ञाः शास्त्रानवगतात्मतत्वा49 अपि तदुपासनापरा अलब्धचित्तस्थैर्यास् तेषां वेदः शरणम् । जपेन कर्मानुष्ठानेन तावत्या च विद्यया । नरकेषु कीटपतङ्गादियोनिषु चानुपपत्तेः ।
- इदम् एव विजानताम् । कथं पुनर् विदुषां शरणम् अत आह । इदम् अन्विच्छतां स्वर्गम् । एतावद् एते कर्मकाण्डज्ञा आत्मन्य् अलब्धमनःप्रतिष्ट्ःआ वा, तेषां कर्मानुष्ठानात् स्वर्गादिफलं लभ्यते । इतरे त्यक्तसङ्गाः प्रक्षीणरागादिदोषा ज्ञानात्मतत्त्वोपासनापरास्50 तेषाम् आनन्त्यम् अपुनरावृत्तिर् इति । सर्वेषां वेद एव शरणम्, नान्यः पन्था अस्तीत्य् अर्थः ॥ ६.८४ ॥
अनेन क्रमयोगेन परिव्रजति यो द्विजः ।
स विधूयेह पाप्मानं परं ब्रह्माधिगच्छति ॥ ६.८५ ॥
मेधातिथिः ...{Loading}...
क्रमेण योगो ऽनुष्ठानम् । आत्मज्ञानकर्मणोः समुच्चये यः क्रम उक्तः, तेन ऋणापाकरणं कृत्वेत्य् अर्थः । विधूय पाप्मानम् अश्व इव रोमरजांसि, तथैवात्मविद्यया । यथोक्तम् “यथा पुष्करपलाश आपो न श्लिष्यन्त्य् एवम् एतद्विदि पापं कर्म न श्लिष्यति” (छु ४.१४.३) इति । परं ब्रह्माधिगच्छति । तद्रूपः संपद्यते निवृत्तभेदग्रह इति विद्याश्रमफलविधिः ॥ ६.८५ ॥
एष धर्मो ऽनुशिष्टो वो यतीनां नियतात्मनाम् ।
वेदसंन्यासिकानां तु कर्मयोगं निबोधत ॥ ६.८६ ॥
मेधातिथिः ...{Loading}...
वेदस्य संन्यासः त्यागः, स एषाम् अस्तीति वेदसंन्यासिकाः । वेदशब्देन यागहोमादेः कर्मणस् त्याग उच्यते, न पुनर् जपत्यागः । आत्मचिन्तनं तु विहितम् एव । केवलं धनसाध्याः शरीरक्लेशसाध्याश् च तीर्थयात्रादय उपवासादयश् च निषिध्यन्ते । यानि त्व् आत्मैकसाधनसाध्यानि संध्याजपादिकर्माणि51 तेषाम् अनिषेधः । तद् एतत् स्वस्थान एव दर्शयिष्यामः । आद्येनार्धेन प्रव्रज्याश्रमोपसंहारः । उत्तरेण वेदसंन्यासिकस्य कर्मोपदेशप्रतिज्ञा ॥ ६.८६ ॥
ब्रह्मचारी गृहस्थश् च वानप्रस्थो यतिस् तथा ।
एते गृहस्थप्रभवाश् चत्वारः पृथग् आश्रमाः ॥ ६.८७ ॥
मेधातिथिः ...{Loading}...
सर्वे ऽपि क्रमशस् त्व् एते यथाशास्त्रं निषेविताः ।
यथोक्तकारिणं विप्रं नयन्ति परमां गतिम् ॥ ६.८८ ॥
मेधातिथिः ...{Loading}...
ननु च संन्यासिककर्माणि वक्ष्यामीति प्रतिज्ञयाश्रमानुक्रमणम् अप्रकृतम् ।
-
केचिद् आहुर् न संन्यास आश्रमान्तरम् अत्रैवान्तर्भावो ऽस्येति दर्शयितुम् । स च कस्मिन् । गृहस्थे ऽन्तर्भावितः । गृहे हि वासस् तस्य ।
-
अन्यैस् तु प्रव्रज्यायाम्, सङ्गत्यागसामान्यात् । अतो52 नास्यान्तर्भावे प्रयोजनं पुरुषधर्मैर् यतिधर्मैश् च न यागादाव् अधिकरिष्यति, वैशेषिकैश् च स्वशब्दविधानात् । अनाश्रमित्वात्, “संवत्सरम् अनाश्रमी” इति प्रायश्चित्तप्रसङ्गाद् इति चेत्, वचनेनैवास्या व्यवस्थाया विदितत्वात् कुतः प्रायश्चित्तप्राप्तिः ।
तस्माद् गृहस्थादितुल्यतया संन्यासिकं प्रशंसितुम् आश्रमान्तरसंकीर्तनम् । तच् च समुच्चयं द्रढयितुम् । गृहस्थानाम् अवस्थितिर् एषाम् इत्य् अर्थः । गृहस्थः प्रभवः स्थितिहेतुर् एषाम् इति विग्रहः ॥ ६.८७–८८ ॥
सर्वेषाम् अपि चैतेषां वेदश्रुतिविधानतः ।
गृहस्थ उच्यते श्रेष्ठः स त्रीन् एतान् बिभर्ति हि ॥ ६.८९ ॥
मेधातिथिः ...{Loading}...
इदम् अयुक्तं वर्तते । वेदशास्त्रश्रुत्या गार्हस्थस्य विधानं प्रतिज्ञायते, इतरेषां च भर्तव्यत्वम् । गार्हस्थस्य प्रत्यक्षश्रुतिविधानेनैवाश्रमान्तराणां सद्भावः । संनिहिततपःस्मृतिभ्यो बलीयसी श्रुतिः । अथोच्येत- नैवायम् अभिसंबन्धः क्रियते वेदश्रुत्याविधानाद् इति । अयम्[^५४] अभिसंबन्धः[^५५] । सत्य् अपि चैतस्मिन्[^५६] विधाने[^५७] गृहस्थस्य श्रैष्ठ्यं तद्भरणनिमित्तं **स त्रीन् एतान्** इत्य् अनेन प्रतिपाद्यते, तत्र वक्तव्यं कथम्, आस्रमान्तराणां श्रुतत्वात् — श्रौतत्वे च स्पष्टेयं स्मृतिर् विरुध्यते- "प्रत्यक्षविधानाद् गार्हस्थ्यस्य" (ग्ध् ३.३६) इत्यादिना । न च[^५८] संबन्धान्तरसंभवः । अथोच्येत "गृही भूत्वा वनी भवेत् वनी भूत्वा प्रव्रजेत्" (जाबु ४) इति जाबालश्रुतिम् अपेक्ष्य सर्वान्य् एव श्रुतानीति स्मृतिविरोधस् तावद् अपरिहृत एव । किं च नैषा श्रुतिर् विधात्री । न ह्य् एतत् श्रुतम्- "एवं वने वा विहर्तव्यम् इमानि वनस्थेनैव कर्माणि कर्तव्यानीमानि प्रव्रजितेन" इति, यथादानात् प्रभृत्य् आ चरमेष्टि[^५९] सर्वं गृहस्थकर्म प्रत्यक्षम् उक्तं[^६०] नैवम् आश्रमान्तराणाम्[^६१] । केवलं नाममात्रं श्रूयते "गृही भूत्वा" इत्यादि । तस्मात् पूर्वापरविरुद्धं गार्हस्थ्यमूलम्[^६२] आश्रमाणाम् इवोपदिश्यते[^६३] ।
- अत्रोच्यते । सत्यम् आधानात् प्रभृति गृहकर्माणि प्रत्यक्षश्रुतानि कृतदारपरिग्रहस्य । तत्र विवाहे प्रयुक्तिनिरूपनात् किं कर्म श्रुतिभिः प्रयुज्यते । अग्निहोत्रादिभिः स्वाहाधिकारः53 श्रुतेः, अथापत्योत्पत्तिविधिना, उत दृष्टेन पुरुषार्थेन ।
-
ननु रागः स्त्रीमात्रं प्रयुङ्क्ते न विवाहम् । येन विना यन् न निष्पद्यते तत् तस्य प्रयोजकम् इति न्यायः । रागिणां च स्त्रीमात्रेण गृह्यकर्मनिर्वृत्तिः । किम् इति विवाहम् अपेक्षेरन् ।
-
सत्यम् । यदि वचनान्तरे स्त्रीमात्रे54 गमनं निषिद्धं स्यात् । समाने ऽपि सर्वत्र वेदाधिगमे शास्त्रतो गम्यागम्यविवेकः । अतश् च धीरप्रकृतीनां न विवाहम् अन्तरेण स्वार्थसंपत्तिर् इति युक्तैव वेदस्य प्रयोजकाशंका ।
- यद्य् एवं सर्वस्य न प्रयोजकानि सन्ति55 । सर्वेषां तस्मिन् सत्य् अर्थनिवृत्तौ किं तेन निरूपितेन । यो ऽस्ति विवाहप्रयोजकः सो ऽस्तु । आश्रमान्तराणि प्रत्यक्षविधाने गार्हस्थस्य कथम् उपपद्यन्त इत्य् एतदधिकृता56 विवाहप्रयुक्तिचिन्ता57 तु केनांशेन संगच्छते ।
-
उच्यते । यावद् उक्तं सर्वेषाम् अर्थसिद्धिर् इति ।
-
सत्यम् । एकेन प्रयुक्ताव् अन्यस्य प्रसङ्गाद् उपकारसिद्धौ न पृथक्प्रयोक्तृत्वकल्पना । यथा व्रीहयः पुरुषार्थेन जीवनेन प्रयुक्ताः कर्मसु विनियुज्यन्ते । न कर्मणि धनार्जनं प्रयुज्यते । यथा वा विद्या सत्य् अप्य् वैदस्यानधिकारे58 न प्रयुज्यते, स्वाध्यायविधिनैव तत्सिद्धेः । एवम् इह कामतः प्रवृत्तिसिद्धेर् न कर्मश्रुतयः प्रयोक्तव्याः । तेनाकृतविवाहम् अपि कृत्यकर्मविधय उपपत्स्यन्ते ।
-
अतश् च यो ब्रह्मचर्य एव कथंचित् परिपक्वकषायः स न विवक्षते । ततः स द्वितीयत्वाभावान् नाधिकरिष्यते । अतश् च श्रौतेष्व् अनधिकारात् तादृशस्याश्रमान्तरतापत्स्येत ।
-
अन्ये मन्यन्ते । नायं धनतुल्यो विवाहः । यथा धनेन विना जीवनम् अनुपपन्नम् इति, स वै जीवेद् धनतः, एवं न स्त्रियम् अन्तरेण जीवनाभाव इत्य् अत एव न दृष्टं नियमिनः प्रयोजनं संभवतीति धर्माधिकारार्थो ऽपि प्रयुक्तो विवाहः । अवश्यं चैतद् एवं विज्ञेयम् अधिकारोत्पत्त्यर्थे यत्नः कर्तव्य इति । इतरथा हि कृतोत्सर्गस्याशुचित्वाद् अधिकारापनये जननादि शुद्धकालावस्थे च संपादयतो न नित्यकर्मातिक्रमः स्यात् । ततश् च केनार्थेन मृतादिशुद्धौ क्लेशम् आदध्यात् । तद् अपि विहितम् एवेति चेत्, एवं तावन्मात्रस्यातिक्रमो न पुनर् विधिसहस्रस्य ।
-
अथोच्येत कस्य पुनर् विधेर् अयं व्यापारो यदधिकृतत्वसंपत्त्यर्थम् अधिकृतः स्याम् इति पुरुषेण यत्नः कर्तव्य इत्य् उपदिशति । एतावद् अग्निहोत्रादिविधयस् ते यस्याम्नायस् तद्विषयां कर्त्व्यतां गमयन्ति, न त्व् अग्नीनाम् उत्पत्तिं प्रजुञ्जते । अग्नयो ऽपि काम्येषु लिप्सया प्रवर्तमानेन तदधिकारसिद्ध्यर्थम् अधीयते । तथा हि तेषु जातेष्व् आहिताग्नित्वे यावज्जीवश्रुतयः । भार्यावतश् चाधाने ऽधिकारः । यथैवाधिकारिणम् आत्मानं कर्तुम् अग्नीन् आधत्ते, एवं भार्याम् अप्य् उपयच्छते । अतो न कस्यचिद् विधेर् अर्थो विहितो यदि नाग्निहोत्रादिष्व् अधिकारो जनयितव्यः । न च विवाहविधिर् एव स्वार्थकर्तव्यताम् अवगमयति, नित्याग्निहोत्रादिश्रुतिवत् संस्कारकर्मत्वाद् अधिकारश्रवणभावाच् च ।
-
अत्र पूर्वे वदन्ति । ऋणत्रयापाकरणश्रुतिर् अस्ति “जायमानो वै59 ब्राह्मणस् त्रिभिर् ऋणवा जायते” (त्स् ६.३.१०.५) इत्यादि । एषा श्रुतिर् जातमात्रनिबन्धना । न चात्र जन्म द्वितीयम् उपनयनाख्यम् अभिप्रेतम्, प्राक् ततस् तिर्यक्समानधर्मत्वात् ।60 जन्मनि सति यावता कालेनाधिकारावगमो भवति तद् एव ऋणश्रुत्या परिगृह्यते । ततश् च विदुषः सतः सत्य् अधिकारे यः कन्यां याचमानो न प्राप्नुयाद् यावत् सर्वतः पलितस् तस्य वानप्रस्थादाव् अधिकारः । स ह्य् एतन् निश्चिनोति — यौवन एव कन्या सर्वथा याचते, 61 कथयन्त्य् अन्ये — कृष्णकेशस्यैवाधानं श्रुतम्, भार्यामरणं वर्जयित्वा न सर्वतः पलितेनाधातव्यम् इति श्रुत्यर्थं व्याचक्षते ।
- कर्मसंबन्धाद् गृहस्थः श्रेष्ठः । अत आश्रमस्यैव श्रैष्ठ्यम् उक्तं भवति । त्रीन् एतान् इति । इदम् अपरं श्रैष्ठ्यकारणं यद् अन्येषाम् आश्रमाणां भरणम् । तद् उक्तम् “ज्ञानेनान्नेन च” (म्ध् ३.६८) इति ॥ ६.८९ ॥
एष एवार्थो दृष्टान्तेन दृढीक्रियते ।
यथा नदीनदाः सर्वे सागरे यान्ति संस्थितिम् ।
तथैवाश्रमिणः सर्वे गृहस्थे यान्ति संस्थितिम् ॥ ६.९० ॥
मेधातिथिः ...{Loading}...
नद्यो गङ्गादयः । भिद्यादयो नदाः । केनचिद् आदारसंनिवेशभेदेन रसभेदेन च नदीनदयोर् निर्देशभेदः । एकत्वविधानं तु रूढ्या । लिङ्गभेदो62 भार्यादारशब्दवत् । संस्थितिर् आश्रयः । समुद्रो यथा सर्वजलाश्रय एवं गृहस्थः सर्वधर्मान् अधिकृतवान् ॥ ६.९० ॥
चतुर्भिर् अपि चैवैतैर् नित्यम् आश्रमिभिर् द्विजैः ।
दशलक्षणको धर्मः सेवितव्यः प्रयत्नतः ॥ ६.९१ ॥
मेधातिथिः ...{Loading}...
वक्ष्यमाणोपन्यासार्थः श्लोकः । दशलक्षणानि यस्य्एति बहुव्रीहिः । लक्षणं स्वरूपम् । सेवितव्यः सर्वकालम् अनुष्ठेयः । उक्तानाम् अप्य् एतेषां प्रधानत्वाय पुनर्वचनम् । ज्ञानकर्मसमुच्चयपक्षश् चानेन पुनर्वचनेन दृढीकृतः ॥ ६.९१ ॥
धृतिः क्षमा दमो ऽस्तेयं शौचम् इन्द्रियनिग्रहः ।
धीर् विद्या सत्यम् अक्रोधो दशकं धर्मलक्षणम् ॥ ६.९२ ॥
मेधातिथिः ...{Loading}...
धृत्यादय आत्मगुणाः । तत्र धृतिर् नाम धनादिसंक्षये सत्वाश्रयः । यदि क्षीणं ततः किं । शक्यम् अर्जयितुम् इति । एवम् इष्टवियोगादौ संसारगतिर् इयम् ईदृशीति प्रचलतश् चित्तस्य यथापूर्वम् अवस्थापनम् । क्षमा अपराधमर्षणम् । कस्मिंश्चिद् अपराद्धरि प्रत्युद्वेजनानारम्भः । दमः अनौद्धत्यं विद्यामदादित्यागः । अस्तेयं प्रसिद्धम् । शौचम् आहारादिशुद्धिः । इन्द्रियसंयम अप्रतिषिद्धेष्व् विषयेष्व् अप्रसङ्गः । धीः सम्यग्ज्ञानं प्रतिपक्षसंशयादिनिराकरणम् । विद्यात्मज्ञानम् । कर्माध्यात्मज्ञानभेदेन धीविद्ययोर् भेदः । एतत् पौनरुक्त्यतया63 धीविद्येति पठन्ति । तन् न सम्यक्, भेदस्य दर्शितत्वात् । अन्यत् प्रसिद्धम् । अक्रोधः उत्पत्स्यमानस्यानुत्पत्तिः । क्षमा कृते ऽप्य् अपकारे ऽपकारानारम्भः ॥ ६.९२ ॥
दश लक्षणानि धर्मस्य ये विप्राः समधीयते ।
अधीत्य चानुवर्तन्ते ते यान्ति परमां गतिम् ॥ ६.९३ ॥
मेधातिथिः ...{Loading}...
पूर्वस्य विधेः फलकथनम् । अध्ययनात् फलश्रुतिर् अनुष्ठानश्रुत्यर्था ॥ ६.९३ ॥
दशलक्षणकं धर्मम् अनुतिष्ठन् समाहितः ।
वेदान्तं विधिवच् छ्रुत्वा संन्यसेद् अनृणो द्विजः ॥ ६.९४ ॥
मेधातिथिः ...{Loading}...
संन्यसेद् अनृणः । यदा ऋणत्रयम् अपाकीर्णं तदा संन्यास इत्य् एवमर्थम् एतत् । समानकाले प्रव्रज्यायां नाधिक्रियते । एवं संन्यासे ऽपि । वेदान्तान् विधिवत् । अविदितवेदान्तार्थस्य नास्ति संन्यासः । यद्य् अपि स्वाध्यायविध्यनुष्ठानाक्षिप्तं कर्म विधिशास्त्रवद् वेदान्तज्ञानम् अपि, स्वाध्यायशब्दवाच्यत्वाविशेषात्, तथापि वेदान्तानां पुनर् उपन्यासो वेशेषार्थः । तत्परेण भवितव्यम् ।
-
अथ संन्यसेद् इति कः शास्त्रार्थः । को ऽयं संन्यासो नाम ।
-
ममेदम् इति परिग्रहत्यागः ।
-
ननु “वेदसंन्यासिकाः” (म्ध् ६.८६) इत्य् उक्तम् । तत्रेदं प्रतीयते- वेदस्य वेदार्थस्य वा संन्यासः, न च वैदिककर्मसिद्ध्यर्था ये प्रतिग्रहादयस् तेषां संन्यासः ।
-
“इदम् आनन्त्यम् इच्छताम्” (म्ध् ६.८४) इत्य् अध्ययनस्य ज्ञानप्राधान्ये ऽपि विहितत्वात् । अग्निहोत्रादीनां तु द्रव्यसाध्यत्वाद् असति ममकारे त्याग एव । स चायं धर्मापादको मृतभार्यस्य परनिष्ठस्य वा कृतसंप्रतिविधानस्य । वाजसनेयके हि पठ्यते “यदा प्रैष्यन् मन्यते ऽथ पुत्रम् आह” (बाउ १.५.१७) इत्यादि । अग्निसमारोपणं च तदा विहितम् अजीर्णस्य च “जरया ह वा एतस्मान् मुच्यते इत्य् आमनन्ति” । यानि चाद्रव्यसाध्यानि संध्योपासनादीनि नित्याग्निहोत्रादीनि तेषाम् अनिषेधात् तत्र आ अन्त्याद् उच्छ्वासाद् अधिकारः ॥ ६.९४ ॥
संन्यस्य सर्वकर्माणि कर्मदोषान् अपानुदन् ।
नियतो वेदम् अभ्यस्य पुत्रैश्वर्ये सुखं वसेत् ॥ ६.९५ ॥
मेधातिथिः ...{Loading}...
वेदम् अभ्यसेति वेदस्यात्यागम् आह । दर्शितम् एतत् । अभ्यस्यन्न् इति शतृप्रत्ययान्तपाठो वा । पुत्रैश्वर्ये सुखं वसेत् । पुत्रग्रहणम् उतपन्नस्य पुत्रस्य । अन्यो ऽपि यस् तत्स्थानः पौरादिस् तत्रापि युक्तो गृहान्तरन्यास इत्य् आहुः ॥ ६.९५ ॥
एवं संन्यस्य कर्माणि स्वकार्यपरमो ऽस्पृहः ।
संयासेनापहत्यैनः प्राप्नोति परमां गतिम् ॥ ६.९६ ॥
मेधातिथिः ...{Loading}...
स्वकार्यम् आत्मोपासनं परमं प्रधानम् अस्येति स्वकार्यपरमः । अस्पृहः मनसापि स्पृहा न क्वचित् कर्तव्या ॥ ६.९६ ॥
एष वो ऽभिहितो धर्मो ब्राह्मणस्य चतुर्विधः ।
पुण्यो ऽक्ष्यफलः प्रेत्य राज्ञां धर्मं निबोधत ॥ ६.९७ ॥
मेधातिथिः ...{Loading}...
चतुर्विधो धर्मश् चातुराश्रम्यम् । ब्राह्मणस्य सर्वम् एतद् विहितम् ।
- ननु च “एवं गृहाश्रमे स्थित्वा विधिवत् स्नातको द्विजः” (म्ध् ६.१) इति द्विजग्रहणम् उपक्रमे श्रुतम् । तस्य चानुपजातविरोधित्वात् त्रैवर्णिकार्थिता निश्चिता । अतश् चेदं ब्राह्मणग्रहणं त्रैवर्णिकप्रदर्शनार्थम् एव युक्तम् । यद्य् एकवाक्यतोपक्रमोपसंहार्योर् न स्यात् तदा नैवं स्यात्64 । एकवाक्यत्वे तु बलवद् उपक्रमार्थः शक्यः प्रतिपत्तुम् ।
-
कृत्स्नवाक्यपर्यालोचनया यो ऽर्थः स निश्चीयते । अतो द्विजग्रहणं ब्राह्मणपरतयोपसंहर्तव्यम् । अस्ति ब्राह्मणस्य द्विजातित्वम्, न तु सर्वेषु द्विजातिषु ब्राह्मण्यम् । अत्रापि द्विजशब्दार्थे संभवति नन्वयिनि लक्षणा न्याय्या । तथा च महाभारते शूद्रस्यापि त्रय आश्रमाः श्रूयन्ते- “शुश्रूषाकृतकृत्यस्य” इति उपक्रम्य “आश्रमा विहिताः सर्वे वर्जयित्वा निरामिषम्” (म्भ् १२.६३.१२–१३) । पारिव्राज्यम् इत्य् आर्थः । नैवं तस्यायम् अर्थः, सर्व आश्रमास् तु न कर्तव्याः । किं तर्हि, शुश्रूषयापत्योत्पादनेन च सर्वाश्रमफलं लभते । द्विजातीन् शुश्रूषमाणो गार्हस्थ्येन सर्वाश्रमफलं लभते, परिव्राजकफलं मोक्षं वर्जयित्वा ।
-
अतो ब्राह्मणधर्म एव चातुराश्रम्यम् इति सिद्धम् ॥ ६.९७ ॥
इति मानवे धर्मशास्त्रे भृगुप्रोक्तायां संहितायां
षष्ठो ऽध्यायः ॥
इति भट्टवीरस्वामिसूनोर् भट्टमेधातिथिकृतौ
मनुभाष्ये षष्ठो ऽध्यायः ॥
-
M G 1st ed.: kanyāyāṃ putrasyāpi ↩︎
-
G 1st ed.: ca ↩︎
-
M G omit: na ↩︎
-
M G: bahiḥ kapāṭakaṃ ↩︎
-
M G: nirvṛttir ↩︎
-
This is the reading in all editions. It may be a mistake for caṃkramet. ↩︎
-
M G: evāvakāśāśrayaḥ ↩︎
-
M G: saṃtapya vaneṣv ādyaiḥ ↩︎
-
M G 1st ed.: pitṛlokavāso; G 2nd ed.: pitṛlokavāso kāmo ↩︎
-
M G: -otpattīs ↩︎
-
M G 1st ed.: na ↩︎
-
M G 1st ed. omit: yaḥ ↩︎
-
M G: ye ↩︎
-
M G 1st ed.: nāvaśyā ↩︎
-
M G 1st ed.: tatra ↩︎
-
M G 1st ed. omit: upahṛteṣu ↩︎
-
M G 1st ed.: ‘saṃkusuko ↩︎
-
M G: gṛhā- ↩︎
-
M G: mūlaphalamulodakādibhir ↩︎
-
M G: -kleśāṃs tu ↩︎
-
M G: śatrusaṃgrahagamanādibhiḥ ↩︎
-
M G: -vaikalya- ↩︎
-
M G: -ādir ↩︎
-
M G 1st ed. omit: na ↩︎
-
M G: pūrvaślokārtho ’nuvādaḥ ↩︎
-
M G 1st ed.: uddhriyeta ↩︎
-
M G: evedam ↩︎
-
M G: upaghāte ↩︎
-
M G 1st ed.: naivaṃparavānyaḥ ↩︎
-
M G: anapāvṛtādiguṇaviśiṣṭaṃ ↩︎
-
M G omit: sa ↩︎
-
M G 1st ed.: vidhyarthasaṃpannena; G 2nd ed: vidhyarthasaṃpatter anyat ↩︎
-
M G: sarvaviṣayatvālābhād ↩︎
-
M G: auṣadhena ↩︎
-
M G 1st ed.: jalaukobhūmisūtakān ↩︎
-
M G 1st ed.: nānyad ↩︎
-
M G 1st ed.: tata upari atha vā ↩︎
-
M G: spṛhayāluḥ ↩︎
-
M G 1st ed.: avekṣyam ↩︎
-
M G 1st ed.: tṛptatā ↩︎
-
M G 1st ed.: śarīreṇa ↩︎
-
M G 1st ed.: na pratyuktam ↩︎
-
M G 1st ed.: kṛcchra- ↩︎
-
M G 1st ed.: annakriyārthaṃ daleṣu parituṣṭaḥ ↩︎
-
Reading chandogyoktam is conjectura; it is omitted by J, and M G read: chandogyokta ↩︎
-
M G 1st ed.: vidhāya karma ↩︎
-
M G: adhidaiva- ↩︎
-
M G 1st ed. add: ahaṃ bhavam ↩︎
-
M G 1st ed.: śāstrād avagatātmatatvānavagatātmatatvā; G 2nd ed.: śāstrād anavagatātmatatvā ↩︎
-
M G 1st ed.: prekṣaṇīyarāgādidoṣajñā ātma-; G 2nd ed.: prekṣaṇīyarāgādidoṣāṃ jñānātma- ↩︎
-
M G: -japādikakarmāṇi ↩︎
-
M G 1st ed.: yato ↩︎
-
M G 1st ed.: svāhākāraḥ; G 2nd ed.: svāhākāra- ↩︎
-
M G 1st ed.: strīmātra- ↩︎
-
M G: santu ↩︎
-
M G 1st ed.: adhikṛtaṃ ↩︎
-
M G 1st ed.: vivāhaprayuktiṃ vinā ↩︎
-
M G 1st ed.: api veda- ↩︎
-
J omits: vai ↩︎
-
M G 1st ed. add: ādhāne ↩︎
-
M G 1st ed.: yauvane vā yā kanyā sarvataram idānīṃ yācate ↩︎
-
M G: liṅgabhede ↩︎
-
M G 1st ed.: paunaruktatayā ↩︎
-
M G omit: tadā naivaṃ syāt ↩︎