अथ द्वितीयाध्यायः
विद्वद्भिः सेवितः सद्भिर् नित्यम् अद्वेषरागिभिः ।
हृदयेनाभ्यन्ज्ञातो यो धर्मस् तं निबोधत ॥ २.१ ॥
मेधातिथिः ...{Loading}...
प्रथमो ऽध्यायः शास्त्रप्रतिपाद्यार्थतत्त्वदर्शनार्थो ऽनुक्रान्तः । जगत्सृष्ट्यादिवर्णनं च तच्छेषम् एव व्याख्यातम् । इदानीं शास्त्रम् आरभते । तत्र प्रतिज्ञातो ऽर्थो जगत्सर्गादिवर्णनेन व्यवायाद् विस्मृत इत्य् अनुसंधानार्थं पुनः शिष्यान् प्रति बोधयति ।
-
यो धर्मो भवतां शुश्रूषितस् तम् इदानीं मयोच्यमानं निबोधत अवहिता भूत्वा शृणुत । प्रथमे ऽध्याये पञ्चषाः श्लोकाः प्रयोजनादिप्रतिपादनार्थाः । परिशिष्टम् अर्थवादरूपम् । तच् चेन् नातिसम्यग् अवधारितं न धर्मपरिज्ञाने महती क्षतिः । इह तु साक्षाद् धर्म उपदिश्यते । ततो ऽवधानवद्भिर् अवधारणीयो ऽयम् अर्थ इति पुनर् उपन्यासफलम् । धर्मशब्द उक्तार्थो ऽष्टकाद्यनुष्ठानवचनः । बाह्यदर्शनिनस् तु भस्मकपालादिधारणम् अपि धर्मं मन्यन्ते । तन्निवृत्त्यर्थं विद्वद्भिर् इत्यादीनि विशेषणपदानि । विद्वांसः शास्त्रसंस्कृतमतयः प्रमाणप्रमेयस्वरूपविज्ञानकुशलाः । ते च वेदार्थविदो विद्वांसः, नान्ये । यतो वेदाद् अन्यत्र धर्मं प्रति ये गृहीतप्रामाण्यास् ते विपरीतप्रमाणप्रमेयग्रहणाद् अविद्वांस एव । एतच् च मीमांसातस् तत्त्वतो निश्चीयते ।
-
सन्तः साधवः, प्रमाणपरिच्छिन्नार्थानुष्ठायिनो हिताहितप्राप्तिपरिहारार्थाय यत्नवन्तः । हिताहितं च दृष्टं प्रसिद्धम् । अदृष्टं च विधिप्रतिषेधलक्षणम् । तदनुष्ठानबाह्या असन्त उच्यन्ते । अत उभयम् अत्रोपात्तं ज्ञानम् अनुष्ठानं च । विद्यमानतावचनः सच्छब्दो न संभवति, आनर्थक्यात् । यद् धि येन सेव्यते तत् तेन विद्यमानेनैव ।
-
**सेवा **अनुष्ठानशीलता । भूतप्रत्ययेनानादिकालप्रवृत्तताम् आह । नायम् अष्टकादिधर्मो ऽद्यत्वे केनचित् प्रवर्तित इतरधर्मवत् । एतद् एव नित्यशब्देन दर्शयति । यावत्संसारम् एष धर्मः । बाह्यधर्मास् तु सर्वे मूर्खदुःशीलपुरुषप्रवर्तिताः कियन्तं कालं लब्धावसरा अपि पुनर् अन्तर्धीयन्ते । न हि व्यामोहो युगसहस्रानुवर्ती भवति । सम्यग्ज्ञानम् अविद्यया संच्छन्नम् अपि तत्क्षये निर्मलताम् एवैति । न हि तस्य निर्मलतया छेदः संभवति1 ।
- अद्वेषरागिभिः । इदं बाह्यधर्मानुष्ठाने द्वितीयं कारणम् । व्यामोहः पूर्वम् उक्तः । अनेन लोभादय उच्यन्ते, रागद्वेषग्रहणस्य प्रदर्शनार्थत्वात् । लोभेन मन्त्रतन्त्रादिषु प्रवर्तयन्ति । अथ वा रागद्वेषयोर् लोभो ऽन्तर्भूतः । आत्मनि2 ये भोगोपायास् तेषु रक्ताः3 उपायान्तरेण4 जीवितुं असमर्था5 लिङ्गधारणादिना जीवन्ति । तद् उक्तम्- “भस्मकपालादिधारणम्, नग्नता, काषाये च वाससी बुद्धिपौरुषहीनानां जीविका” इति । द्वेषो विपरीतानुष्ठानकारणम् । द्वेषप्रधाना हि नातीव तत्त्वावधारणे समर्था भवन्ति, अतो ऽधर्मम् एव धर्मत्वेनाध्यवस्यन्तीति । अथ वोभाव् अपि रागद्वेषौ तत्त्वावधारणे प्रतिबन्धकौ । सत्याम् अपि कस्यांचिच् छास्त्रवेदनमात्रायां लब्धे ऽपि विद्वद्व्यपदेशे रागद्वेषवत्तया विपरीतानुष्ठानं संभवति । जानाना अपि यथावच् छास्त्रं कस्यचिद् द्वेष्यस्योपघाताय प्रियस्य चोपकराय कौटसाक्ष्याद्यधर्मं सेवन्ते6 । तेषां वेदमूलम् एवानुष्ठानम् इत्य् अशक्यनिश्चयम्, कारणान्तरस्य रागद्वेषलक्षणस्य संभवात् । अतस् तत्प्रतिषेधः ।
- अत्र चोद्यते7 । सद्भिर् इति सच्छब्दः साधुतावचनो वर्णितः । कीदृशी च साधुता तस्य, यदि रागद्वेषाभ्याम् अधर्मे प्रवृत्तिः संभाव्यते । तस्माद् अद्वेषरागिभिर् इति न वक्तव्यम् ।
-
एवं तर्हि हेतुत्वेनोच्यते । यतो रागादिवर्जिता अतः सन्तो भवन्ति । रागद्वेषप्रधानत्वाभावश् चात्र प्रतिपाद्यते । न सर्वेण सर्वं तदभावयोग्यावस्थागतस्य हेतोर् निरन्वयम् उच्छिद्यते । तथा च श्रुतिः- “न ह वै सशरीरस्य सतः प्रियाप्रिययोर् अपहतिर् अस्ति” इति (छु ८.१२.१) ।
-
रागः विषयोपभोगगृध्नुता । तत्प्रतिषेधव्यापारो द्वेषः8 । लोभो मात्सर्यम् असाधारण्येन स्पृहा, “परस्य चैतन् मा भूद् विभवख्यात्यादि” । चित्तधर्मा एते । अथ वा चेतनावस्तु स्त्रीसुतसुहृद्बान्धवादिषु स्नेहो रागः, लोभो ऽचेतनेष्व् अपि धनादिषु स्पृहा ।
-
हृदयेन । हृदयशब्देन चित्तम् आचष्टे । अनुज्ञानं च हृदयस्य प्रसादः । एषा हि स्थितिः । अन्तर्हृदयवर्तीनि बुद्ध्यादितत्त्वानि । यद्य् अपि बाह्यहिंसाभक्ष्यभक्षणादिषु मूढा धर्मबुद्ध्या प्रवर्तन्ते, तथापि हृदयाक्रोशनं तेषां भवति । वैदिके त्व् अनुष्ठाने परितुष्यति मनः ।
-
तद् अस्य सर्वस्यायम् अर्थः । न मया तादृशो धर्म उच्यते यत्रैते दोषाः सन्ति । किं तु य एवंविधैर् महात्मभिर् अनुष्ठीयते स्वयं च यत्र चित्तं प्रवर्तयति वा । अत आदरातिशय उच्यमानेषु धर्मेषु युक्तः ।
-
अथ वा हृदयं वेदः । स ह्य् अधीतो भावनारूपेण हृदयस्थितो हृदयम् । ततश् च त्रितयम् अत्रोपात्तम् । यदि तावद् अविचार्यैव स्वाग्रहात् काचित् प्रवृत्तिः कस्यचित् तथाप्य् अत्रैव युक्ता । एतत् हृदयेनाभ्यनुज्ञात इत्य् अनेनोच्यते । अथाप्य् अयं न्यायः “महाजनो येन गतः स पन्थाः” (म्भ् ३. अप्प्। ३२.६८) इति, तद् अप्य् अत्रैवास्ति । विद्वांसो ह्य् अत्र निष्कामाः प्रवृत्तपूर्वा अनिन्द्याश् च लोके । अथाप्रामाणिकी प्रवृत्तिः, सापि वेदप्रामाण्यात् सिद्धैवेति । सर्वप्रकारं प्रवृत्त्याभिमुख्यम् अनेन जन्यते ।
-
अन्ये त्व् एतं श्लोकं सामान्येन धर्मलक्षणार्थं व्याचक्षते । एवंविधैर् यः सेव्यते स धर्मो ऽवगन्तव्यः । प्रत्यक्षवेदविहितस्य स्मार्तस्य वाचारतः प्राप्तस्य सर्वस्यैतल्लक्षणं विद्यते । अत्र तु य एतैः सेव्यते तं धर्मं निबोधतेति पाठो युक्तः ॥ २.१ ॥
कामात्मता न प्रशस्ता न चैवेहास्त्य् अकामता ।
काम्यो हि वेदाधिगमः कर्मयोगश् च वैदिकः ॥ २.२ ॥
मेधातिथिः ...{Loading}...
फलाभिलाषः कर्मप्रवृत्तेर् हेतुर् यस्य स कामात्मा, तद्भावः कामात्मता । तत्प्रधानता आत्मशब्देन प्रतिपाद्यते । सा न प्रशस्ता निन्दिता । अतश् च निन्दया प्रतिषेधानुमाने “न कर्तव्या” इति प्रतीयते । अर्थात् सौर्यादीनां सर्वेषां काम्यानां निषेधो ऽयम् । अथ वा किं विशेषेण ब्रूमः सौर्यादीनाम् इति । सर्वम् एव क्रियानुष्ठानं फलसिद्धर्थम्, न स्वरूपनिष्पत्तये । न च काचन निष्फला क्रिया । यद् अपि “न कुर्वीत वृथा चेष्टाम्” (म्ध् ४.६३) इति, “भस्मनि हुतम्” (म्ध् ३.१८१), “विषयान्तरे देशराजवार्ताद्यन्वेषणम्”, तत्रापि क्रियाफलं विद्यते । किं तु प्रधानफलं स्वर्गग्रामादि पुरुषस्य यद् दृष्टादृष्टयोर् उपयुज्यते तदभावाद् वृथा चेष्टेत्य् उच्यते ।
- अथोच्यते । भवतु क्रिया फलवती । तद्विषये ऽभिलाषो न कर्तव्यः, वस्तुस्वाभाव्यात् फलं भविष्यति । अत्रापि सौर्यादीनाम् अफलत्वम् । काम्यमानं फलं ज्ञातम् । नानिच्छोस् तद् भविष्यतीति । न च लौकिकी प्रवृत्तिर् दृश्यते फलाभिसंधिनिरपेक्षा । न चात्र विशेषः श्रुतौ-9 वैदिकेषु कर्मसु फलं नाभिसंधेयम् इति । तत्र फलवत्सु श्रुतेषु कामनानिषेधाद् अप्रवृत्तौ श्रुतिविरोधः । नित्येषु तु प्राप्तिर् एव नास्ति । विशेषानुपादानाच् च लौकिकव्यापारनिवृत्तौ दृष्टविरोधः । तद् इदम् आपतितम्- न किंचित् केनचित् कर्तव्यम्, सर्वैस् तूष्णींभूतैः स्थातव्यम् ।
-
उच्यते । यत् तावद् उक्तं काम्येषु सौर्यादिषु निषेधप्रसङ्ग इति, तत्र वक्ष्यति-
-
यथासंकल्पितांश् चेह सर्वान् कामान् समश्नुते । इति । (म्ध् २.५)
निषेधे हि कुतः संकल्पः, कुतश् च कामावाप्तिः । यद् अपि विशेषानुपादानाल् लौकिके ऽपि प्रसक्त इति, तत्रोपात्त एव विशेषः, “यो धर्मस् तं निबोधत” (म्ध् २.१) इति धर्मस्य प्रकृतत्वात् । यद् अप्य् उक्तं नित्येषु फलाश्रवणात् फलाभिसंधेः प्राप्तिर् एव नास्ति, किं निषेधेनेति, तत्राप्य् उच्यते- फलाभावात् कश्चित् सम्यक् शास्त्रार्थम् अजानानो न प्रवर्तेत, सौर्यादिषु च श्रुतफलेषु फलाभिसंधिपूर्विकां प्रवृत्तिं दृष्ट्वा सामान्यतो दृष्टेन “यत् कर्तव्यं तत् फलहेतोः क्रियते” इत्य् अश्रुतम् अपि फलम् अभिसंदधीत, तन्निवृत्त्यर्थम् इदम् आरभ्यते । यद्य् अप्य् अयं न्यायः- “यत् फलवच् छ्रुतं तत् तथैव कर्तव्यम्, यद् अपि10 निष्फलम् एव कर्तव्यतया शास्त्रेण यावज्जीवादिपदैर् विनैव विश्वजिन्न्यायेन फलकल्पनयावगमितं तस्यान्यथानुष्ठाने11 प्रसङ्ग एव नास्ति”, तथापि य एतं न्यायं प्रतिपत्तुम् असमर्थः स वचनेन प्रतिपाद्यते । न्यायतः प्रतिपत्तौ हि गौरवम्, वचनात् तु लघीयसी सुखप्रतिपत्तिर् इति सुहृद् भूत्वा प्रमाणसिद्धम् अर्थम् उपदिशति स्म ।
- 12 कामशब्दो ऽयं यद्य् अपि हृच्छयवचनो दृष्टस् तथापि तस्येहासंभवात् काम इच्छा अभिलाष इत्य् अनर्थान्तरम् । तत्र वक्ष्यमाणपर्यालोचनया फलाभिलाषेण न सर्वत्र प्रवर्तितव्यम् इत्य् अयम् अर्थः स्थास्यति ।
- परस् तु कामात्मताम् इच्छामात्रसंबन्धमात्रं पदार्थं मन्वानश् चोदयति- न चैवेहास्त्य् अकामतेति । न चेह लोके काचिद् अकामिनः प्रवृत्तिर् अस्तीत्य् अर्थः । आस्तां तावत् कृषिवाणिज्यादि व्युत्पन्नबुद्धिना क्रियमाणम्, यः स्वयं वेदाधिगमः वेदाध्ययनं बालः कार्यते पित्रादिना ताड्यमानः सो ऽपि न कामम् अन्तरेणोपपद्यते । अध्ययनं हि शब्दोच्चारणरूपम् । न चोच्चारणम् इच्छया विना निर्घातध्वनिवद् उत्तिष्ठति । इच्छति चेत् किम् इति ताड्यत इति । सैव तथेच्छोपजन्यते । अभिमते तु विषये स्वयम् उपजायत इत्य् एतावान् विशेषः । यश् चायं वैदिको वेदविहितः कर्मयोगो दर्शपूर्णमासादि कर्मानुष्ठाने नित्यत्वेनावगतः सो ऽपि न प्राप्नोति । न ह्य् अनिच्छतो देवतोद्देशेन स्वद्रव्यत्यागोपपत्तिः । तस्मात् कामात्मतानिषेधे सर्वश्रौतस्मार्तकर्मनिषेधः प्रसक्त इति ॥ २.२ ॥
संकल्पमूलः कामो वै यज्ञाः संकल्पसंभवाः।
व्रतानि यमधर्माश् च सर्वे संकल्पजाः स्मृताः ॥ २.३ ॥
मेधातिथिः ...{Loading}...
ततश् च यद् उक्तं यागस्य कामेन विना न स्वरूपनिष्पत्तिर् इति, तद् अनेन विस्पष्टं कृत्वा कथयति । संकल्पो यागादीनां मूलं कामस्य च । यागादींश् चिकीर्षन्न् अवशयं संकल्पं करोति । संकल्पे च क्रियमाणे तत्कारणेन कामेन संनिधातव्यम् अनिष्टेनापि । यथा पाकार्थिनो ज्वलनं कुर्वतस् तत्समानकारणो धूमो ऽप्य् अनिष्टो जायते । तत्र न शक्यं यज्ञादयः करिष्यन्ते, कामश् च न भविष्यतीति ।
-
अथ को ऽयं संकल्पो नाम यः सर्वक्रियामूलम् ।
-
उच्यते । यच् चेतःसंदर्शनं नाम, यदनन्तरं प्रार्थनाध्यवसायौ क्रमेण भवतः । एते हि मानसा व्यापाराः सर्वक्रियाप्रवृत्तिषु मूलतां प्रतिपद्यन्ते । न हि भौतिका व्यापारास् तम् अन्तरेण संभवन्ति । तथा हि, प्रथमं पदार्थस्वरूपनिरूपणम्- “अयं पदार्थ इमाम् अर्थक्रियां साधयति” इति यज् ज्ञानं स इह संकल्पो ऽभिप्रेतः । अनन्तरं प्रार्थना भवति इच्छा । सैव कामः । “कथम् अहम् इदम् अनेन साधयामि” इति इच्छायां सत्याम् अध्यवस्यति “करोमि” इति निश्चिनोति13 सो ऽध्यवसायः । ततः साधनोपादाने बाह्यव्यापारविषये प्रवर्तते । तथा हि, बुभुक्षित आदौ भुजिक्रियां पश्यति, तत इच्छति “भुञ्जीय” इति, ततो ऽध्यवस्यति “व्यापारान्तरेभ्यो विनिवृत्त्य भोजनं करोमि” इति, ततः कर्मकारणस्थानाधिकारिण आह “सज्जीकुरुत रसवतीम्, संचारयत” इति ।
-
नन्व् एवं सति न यज्ञादयः संकल्पमात्राद् भवन्ति, अपि तु संकल्पप्रार्थनाध्यवसायेभ्यः । तत्र किम् उच्यते “यज्ञाः संकल्पसंभवाः” इति ।
-
संकल्पस्याद्यकारणत्वाद् अदोषः । अत एवोत्तरत्र “नाकामस्य क्रिया काचिद् दृश्यते” इति वक्ष्यति ।
-
व्रतानि । मानसो ऽध्यवसायो व्रतम्- “इदं मया यावज्जीवं कर्तव्यम्” इति यद् विहितम् । यथा स्नातकव्रतानि । यमधर्माः प्रतिषेधरूपाः अहिंसादयः । कर्तव्येषु प्रवृत्तिः, निषिद्धेभ्यो निवृत्तिः, नान्तरेण संकल्पम् अस्ति ॥ २.३ ॥
अकामस्य क्रिया काचिद् दृश्यते नेह कर्हिचित् ।
यद् यद् धि कुरुते किंचित् तत् तत् कामस्य चेष्टितम् ॥ २.४ ॥
मेधातिथिः ...{Loading}...
पूर्वेण शास्त्रीये प्रवृत्तिनिवृत्ती संकल्पाधीने व्याख्याते । अनेन लौकिकेषु कर्मसु तदधीनतोच्यत इति विशेषः । नेह लोके कर्हिचित् कदाचिद् अपि जाग्रदवस्थायां क्रिया14 काचिद्15 अनुष्ठेयत्वेनानिच्छतः संभवति । यत् किंचिल् लौकिकं वैदिकं वा कुरुते कर्म विहितं प्रतिषिद्धं च तत् सर्वं कामस्य चेष्टितम् । ॥ २.४ ॥
हेतुत्वाच् चेष्टितं कामस्यैवेत्य् उक्तम् । तद् इदम् अतिसंकटम्, कामात्मता न प्रशस्ता, न चानया विना किंचिद् अनुष्ठानम् अस्ति । अत्र प्रतिविधत्ते ।
तेषु सम्यग् वर्तमानो गच्छत्य् अमरलोकताम् ।
यथासंकल्पितांश् चेह सर्वान् कामान् समश्नुते ॥ २.५ ॥
मेधातिथिः ...{Loading}...
तेषु कामेषु सम्यग् वर्तितव्यम् । का पुनः सम्यग्वृत्तिः । यद् यथाश्रुतं तत् तथैवानुष्ठेयम् । नित्येषु फलं नाभिसंधेयम्, अश्रुतत्वात् । काम्येषु त्व् अनिषेधः, तेषां तथाश्रुतत्वात् । फलसाधनतयैव तानि विधितो ऽवगम्यन्ते । फलानिच्छोस् तदनुष्ठानम् अश्रुतकरणं16 स्यात् । नित्येषु फलाभिसंधिर् व्यामोह एव । न ह्य् अभिसंधिमात्रात् प्रमाणतो ऽनवगते फलसाधनत्वे फलम् उत्पद्यते । एवं कुर्वन् गच्छति प्राप्नोत्य् अमरलोकताम् । अमराः देवाः, तेषां लोकः स्वर्गः । तन्निवासात् अमरेषु लोकशब्दः स्थानस्थानिनोर् अभेदात् “मञ्चाः क्रोशन्ति” इतिवत् । तेनायं समासः- अमराश् च ते लोकाश् च अमरलोकाः, तद्भावः अमरलोकता । देवजनत्वं प्राप्नोति देवत्वं प्राप्नोतीत्य् अर्थः । वृत्तानुरोधाद् एवम् उक्तम् । अथ वा, अमरांल् लोकयति पश्यत्य् अमरलोकः । “कर्मन्य् अण्17” (पाण् ३.२.१) । तदन्ताद् भवप्रत्ययः । देवदर्शी संपद्यते । अनेनापि प्रकारेण स्वर्गप्राप्तिर् एवोक्ता भवति । अथ वा, अमर इव लोक्यते लोके ।
- अर्थवादश् चायम् । नात्र स्वर्गः फलत्वेन विधीयते, नित्यानां फलाभावात्, काम्यानां च नानाफलश्रवणात् । तेन स्वर्गप्राप्त्या शास्त्रानुष्ठानसंपत्तिर् एवोच्यते लक्षणया । यद् अर्थं कर्मणाम्18 अनुष्ठानं तत् संपद्यत इत्य् अर्थः । तत्र नित्यानां प्रत्यवायानुत्पत्तिर् विध्यर्थसंपत्तिर् वा प्रयोजनम् । काम्येषु तु यथासंकल्पितान् यथाश्रुतं संकल्पितान् । प्रयोगकाले यस्य कर्मणो यत् फलं श्रुतं तत् संकल्प्य अभिसंधाय मनसा कामयित्वा “इदम् अहम् अतः फलं प्राप्नुयाम्” इति, ततः सर्वान् कामान् काम्यान् अर्थान् समश्नुते प्राप्नोति ।
-
अतः परिहृता संकटापत्तिः, यतो न सर्वविषयः कामो निषिध्यते । किं तर्हि, नित्येषु फलाभिलाषलक्षणः । साधनसंपत्तिस् तु काम्यैव ।
-
ब्रह्मवादिनस् तु सौर्यादीनां निषेधर्थं कामात्मतेति मन्यन्ते । फलार्थितया क्रियमाणा बन्धात्मका भवन्ति, निष्कामस् तु ब्रह्मार्पणन्यायेन कुर्वन् मुच्यते । तद् उक्तं भगवता कृष्णद्वैपायनेन “मा कर्मफलहेतुर् भूः” (भ्ग् २.४७) । तथा-
-
साधनानाम् अकृत्स्नत्वान् मौर्ख्यात् कर्मकृतस् तथा ।
-
फलस्य चाभिसंधानाद् अपवित्रो विधिः स्मृतः ॥ इति ।
बहवश् चात्र व्याख्याविकल्पाः, असारत्वात् तु न प्रदर्शिताः ॥ २.५ ॥
वेदो ऽखिलो धर्ममूलं स्मृतिशीले च तद्विदाम् ।
आचारश् चैव साधूनाम् आत्मनस् तुष्टिर् एव च ॥ २.६ ॥
मेधातिथिः ...{Loading}...
को ऽस्याभिसंबन्धः । यावता धर्मो ऽत्र वक्तव्यतया प्रतिज्ञातः । स च विधिप्रतिषेधलक्षणः । तत्र न वेदस्य धर्ममूलता विधेया- "वेदो धर्ममूलत्वेन ज्ञातव्यो धर्मप्रामाण्य आश्रयणीयः" इति,[^१९] अन्तरेणैवोपदेशं तत्सिद्धेः । न हि मन्वाद्युपदेशसमधिगम्यं वेदस्य धर्ममूलत्वम्, अपि तु अबाधितविषयप्रतीतिजनकत्वेन अपौरुषेयतया च पुरुषसंसर्गदोषैर् अपि मिथ्याभिधानाशङ्काभावात्, स्वतश् च शब्दस्यादुष्टत्वात्, प्रत्यक्षवत् स्वतःप्रामाण्यसिद्धिः ।
-
अथोच्यते- न्यायतः सिद्धं वेदस्य प्रामाण्यम् अनूद्य मन्वादिस्मृतीनां तन्मूलता वचनेन ज्ञाप्यत इति ।
-
तद् अपि न । तत्रापि पूर्वज्ञानसापेक्षत्वात्, स्मरणस्य भ्रान्तिविप्रलम्भादीनां महाजनपरिग्रहादिना निरस्तत्वात्, अतीन्द्रियार्थदर्शनस्याशक्यभावाच् च पुरुषस्य च स्वानुभवसिद्धेर् वेदार्थस्मरणस्य वेदमूलतैवावैष्यते । न हि वेदविदां कार्यार्थविषयं स्मरणं19 संभवति । वेदस्य च मूलत्वेन मूलान्तरकल्पनाया अनवसरः ।
- नाप्य् एतद् युज्यते वक्तुम्- “स्मृतिशीले च तद्विदाम्” इत्य् एतद् अप्य् अनूद्यते, बाह्यस्मृतीनाम् अप्रामाण्याय, यतस् तासां न्यायत एव सिद्धम् अप्रामाण्यम् । न हि शाक्यभोजकक्षपणकादीनां वेदसंयोगसंभवः, येन तन्मूलतया स्वविषये प्रमाणं स्युः, स्वयम् अनभ्युपगमात्, तैश् च वेदस्याप्रामाण्याभिधानात्, प्रत्यक्षवेदविरुद्धार्थोपदेशाच् च । तत्रासंभवस् तासु स्मृतिषु वेदाध्ययननिषेधात् । सति हि वेदाध्येतृत्वे बुद्धादीनां तन्मूलता स्यान् न वेति जायते विचारणा । यत्र तु तत्संबन्धो दूरापेतस् तत्र का तन्मूलताशङ्का । स्वयं च मूलान्तरं परंपरायातम् अभ्युपगच्छन्ति- “पश्याम्य् अहं भिक्षुकानां दिव्येन चक्षुषा सुगतिं दुर्गतिं च” ।20 एवं सर्व एव बाह्या भोजकपाञ्चरात्रिकनिर्ग्रन्थानार्थवादपाशुपतप्रभृतयः स्वसिद्धान्तानां प्रणेतॄन् पुरुषातिशयान् देवताविशेषांश् च प्रत्यक्षतदर्थदर्शिनो ऽभ्युपयन्ति, न वेदमूलम् अपि धर्मम् अभिमन्यन्ते । प्रत्यक्षेण च वेदेन विरुद्धास् तत्रार्था उपदिश्यन्ते । तथा हि, हिंसा चेद् धर्म उच्यते संसारमोचकादिभिः, सा चात्र प्रत्यक्षतः प्रतिषिद्धा । तथान्यत्र तीर्थस्नानम् अधर्मो ऽभ्युपेयते, इह तु “अहर् अहः स्नायत्,” “तीर्थानि सेवेत” इति च विधिः । तथाग्निष्टोमीयवधः क्वचित् पापहेतुर् इष्यते, स च ज्योतिष्टोमविधिना विरुद्धः । तथान्ये सर्वान् एव यागहोमान् आत्मार्थान् संमन्यन्ते, देवताभेदविधिभिर् नानादैवत्यास् ते ऽवगमिताः । अतो विरोधः ।
-
ये ऽप्य् आहुः, ग्रहणाग्रहणवद् उदितानुदितहोमकालवत् प्रत्यक्षश्रुतिविरोधदर्शनात्, स्यात् संभवः शाखान्तरस्योच्छिन्नस्यानुच्छिन्नस्य वा तद्विरुद्धार्थविधिपरस्य । अनन्ता हि वेदशाखाः । ताः कथम् एकस्य प्रत्यक्षाः । उत्सादश् च संभवतीति । तत्र स्यात् तादृशी वेदशाखा यस्याम् अयं नरास्थिपात्रभोजननग्नचर्यादिर् उपदिष्टो भवेत् ।
-
उच्यते । न वयं ब्रूमः वेदे21 विरुद्धार्थोपदेशासंभव22 इति । किं तु समकक्षत्वात् तयोर् विकल्पितप्रयोगयोर् अव्याघातः । इह तु कल्प्यो वेदः । न च प्रत्यक्षविरोधिकल्पनाया अवसरः । न च संभवमात्रेण तावता निश्चयः । निश्चितस् तु तद्विरुद्धप्रत्यक्षविधिः, अनिश्चितेन न वा निश्चितं बाध्यते । शाखोत्सादपक्षं चात्रैव श्लोके परस्तात् प्रपञ्चयिष्यामः । सर्वत्र च प्रत्यक्षश्रुतिभिर् मन्वादिस्मृतिनां व्यतिषङ्गः, क्वचिन् मन्त्रेण क्वचिद् देवतया क्वचिद् द्रव्यविधिभिः । न च बाह्यासु तत्संभवतीति तासाम् अप्रामाण्यम् ।
-
एवम् आचारस्यापि वेदविद्भिर् अदृष्टार्थतयाचर्यमाणस्य स्मृतिवद् एव प्रामाण्यम्, मूलसंभवात् । असाध्वाचारस्यापि दृष्टकारणादिसंभवाद् अविदुषां च भ्रान्त्यादिसंभवाद् अप्रामाण्यम् ।
-
एवम् आत्मनस् तुष्टेर् अपि ।
-
यदि च वेदस्मृत्याचाराणां मन्वाद्युपदेशसमधिगम्यं प्रामाण्यम्, मन्वादीनां कथम् । तत्राप्य् उपदेशान्तरात् “स्मार्तं च मनुर् अब्रवीत्” इत्यादेः । तत्र कथम् । तस्माद् इदं प्रमाणम् इदम् अप्रमाणम् इति युक्तित एतद् अवसेयम्, नोपदेशतः । तथा चायम् अनर्थकः श्लोकः । एतत्समानरूपा उत्तरे ऽपि ।
-
अत्रोच्यते । इह ये धर्मसूत्रकारा अव्युत्पन्नपुरुषव्युत्पादनार्थं पदार्थसंपादनपरतया ग्रन्थसंदर्भान् आरभन्ते, तत्र यथैवाष्टकादीनां वेदात् स्वयं कर्तव्यताम् अवगम्य, परावबोधनार्थम् उपनिबन्धः, एवं प्रमाणान्तरसिद्धस्य वेदप्रामाण्यादेः । सन्ति केचित् प्रतिपत्तारो ये न्यायतस् तत्त्वविवेचनासमर्थाः, ऊहापोहादिरूपबुद्ध्यभावात् । तान् प्रति न्यायसिद्धो ऽप्य् अर्थः सुहृदुपदेशवद् उपदिश्यते । तत्र यन् न्यायतः सिद्धं वेदस्य धर्ममूलत्वं तद् एवानेनानूद्यते- वेदो धर्ममूलम् । धर्मस्य मूलत्वेन वेदो विचार्य युक्त्या सिद्धः, नात्राप्रामाण्यशङ्का कर्तव्या । भवन्ति च लोके प्रमाणान्तरसिद्धानाम् अर्थानाम् उपदेष्टारः- “न त्वयाजीर्णे भोक्तव्यम्, अजीर्णप्रभवा हि रोगाः” । न चैतद् वक्तव्यम्- “ये न्यायतो वेदस्य धर्ममूलत्वं न शक्नुवन्ति प्रतिपत्तुम्, ते वचनाद् अपि न प्रत्येष्यन्ति” । यतो दृश्यते, य आप्तत्वेन प्रसिद्धास् तदीयं वचनम् अविचार्यैव केचन प्रमाणयन्ति । तद् एवं सर्वम् इदं प्रकरणं न्यायमूलम्, न वेदमूलम् । अन्यत्रापि व्यवहारस्मृत्यादौ यत्र न्यायमूलता तत्र यथावसरं दर्शयिष्यामः । अष्टकादीनां यथा वेदमूलता तथात्रैव निर्दिश्यते ।
-
वेदशब्देन ऋग्यजुःसामानि ब्राह्मणसहितान्य् उच्यन्ते । तानि चाध्येतॄणां वाक्यान्तरेभ्यः प्रसिद्धभेदानि । उपदेशपरंपरासंस्कृता अध्येतारः श्रुत्वैव “वेदो ऽयम्” इति प्रतिपद्यन्ते, यथा “ब्राह्मणो ऽयम्” इति । तत्र वाक्यसमूहे ऽपि “अग्निम् ईऌए” (र्व् १.१.१), “अग्निर् वै देवानाम् अवमः” (ऐत्ब् १.१.१) इत्यादादौ “सं सम् इद् युवसे” (र्व् १०.१९१.१) “अथ महाव्रतम्” (ऐता १.१.१) इत्यन्ते वेदशब्दः प्रयुज्यते, तदवयवभूतेषु केवलेषु वाक्येष्व् अपि । न च ग्रामादिशब्दवद् गौणमुख्यता विद्यते । तत्र समुदायेषु हि वृत्ताः शब्दा अवयवेष्व् अपि वर्तन्त इत्य् एष न्यायः । ग्रामशब्दो हि प्रसिद्धभूयिष्टप्रयोगः समुदाय एव, “ग्रामो दग्धः” इत्यादिपदसंबन्धात् तदवयवे वर्तते । कतिपयशालादाहे ऽपि लौकिका “ग्रामो दग्धः” इति प्रयुञ्जते । अथ वा तत्रापि समुदायवचन एव । दाहस् त्व् एकदेशवर्ती समुदायसंबन्धितया व्यपदिश्यते । अवयवद्वारक एव समुदायस्य क्रियासंबन्धः । एष एव समुदायस्य क्रियासंबन्धो यो ऽवयवानाम् । न ह्य् अवयवान् परिहाप्य समुदायो द्रष्टुं स्प्रष्टुं वा शक्यते ।
-
व्युत्पाद्यते च वेदशब्दः । विदन्त्य् अनन्यप्रमाणवेद्यं धर्मलक्षणम् अर्थम् अस्माद् इति वेदः । तच् च वेदनम् एकैकस्माद् वाक्याद् भवति, न यावान् ऋग्वेदादिशब्दवाच्यो ऽध्यायानुवाकस्मूहः । एवं च “उदाहरणे जिह्वाच्छेदः” (ग्ध् १२.५) इत्य् एकवाक्यविषयो ऽप्य् अयं दण्डः । “कृत्स्नो ऽधिगन्तव्यः” (म्ध् २.१६५) इति कृत्स्नग्रहणं सकलवेदवाक्याध्ययनप्राप्त्यर्थम् । अन्यथा कतिचिद्वाक्यान्य् अधीत्य कृती स्यात्, न पुनः कृत्स्नं वेदम् इति23 । अत्रैतन् निरूपयिष्यामः ।
- स च वेदो बहुधा भिन्नः । सहस्रवर्त्मा सामवेदः सात्यमुग्रिराणायनीयादिभेदेन, एकशतम् अध्वर्यूणां काठकवाजसनेयकादिभेदेन, एकविंशति बाह्वृच्या आश्वलायनैतरेयादिभेदेन, नवधा आथर्वणं मौदकपैप्पलादकादिभेदेन24 ।
- ननु नैव केचिद् आथर्वणं वेदं मन्यन्ते, यतः “त्रयी विद्या ऋचः सामानि यजूंषि” इति, “वेदैर् अशून्यस् त्रिभिर् एति सूर्यः” (त्ब् ३.१२.९.१), तथा “त्रैवेदिकं व्रतं चरेत्” (च्ड़्। म्ध् ३.१) इत्यादौ न क्वचिद् आथर्वणनामाप्य्25 अस्ति । प्रतिषेधश् च श्रूयते- “तस्माद् आथर्वणेन न शंसेत्” इति । अतस् त्रयीबाह्यान् आथर्वणिकान् पाषण्डिनः प्रतिजानते ।
-
तद् अयुक्तम्, अविभागेन शिष्टानां वेदव्यवहारात् । “श्रुतीर् अथर्वाङ्गिरसीः” (म्ध् ११.३३) इत्य् अत्रापि व्यवहारः । श्रुतिर् वेद इत्य् एको ऽर्थः । न च वेदशब्दवाच्यताग्निहोत्रादिवाक्यानाम् अपि धर्मप्रामाण्ये कारणम्, इतिहासायुर्वेदयोर् अपि वेदव्यवहारदर्शनात् “इतिहासपुराणं पञ्चमं वेदानां वेदम्” इति (छु ७.१.२) । किं तर्हि, अपौरुषेयत्वे सत्य् अनुष्ठेयार्थावबोधकत्वाद् विपर्ययाभावाच् च । तच् चाथर्ववेदे ऽपि सर्वम् अस्ति, ज्योतिष्टोमादिकर्मणां यजुर्वेदादिष्व् इव तत्राप्य् उपदेशात् । अभिचारमूलककर्मणां बाहुल्येन तत्रोपदेशाद् अवेदत्वम् इति विभ्रमः केषांचित् । अभिचारा हि परप्राणवियोगफलत्वात् प्रतिषिद्धाः । आथर्वणिकैश् च त एव प्राधान्येनानुष्ठीयन्ते राजपुरोहितैः, अतस् ते निन्द्यन्ते ।
-
यत् तु “वेदैर् अशून्यः” (त्ब् ३.१२.९.१) इत्यादाव् अथर्ववेदस्यानिर्देश इति, अर्थवादा एते । किं तत्र निर्देशेनानिर्देशेन वा । मन्त्रभेदाभिप्रायं वैतद् वचनम् “त्रयो वेदाः” (म्ध् २.२३०), “त्रयी विद्या” इत्यादि । न हि चतुर्थं मन्त्रजातम् अस्ति ऋग्यजुःसामव्यतिरेकेण, प्रैषनिविन्निगदेन्द्रगाथादीनाम् अत्रैवान्तर्भावात् । अथर्ववेदे चर्च एव मन्त्रत्वेन समाम्नाताः । अत ऋग्वेद एवायं मन्त्राभिप्रायेण । यस् तु प्रतिषेधः स विपरीतसाधनः, प्राप्तौ सत्यां प्रतिषेधोपपत्तेः । अयं वास्यार्थः- अथर्ववेदाधीतैर् मन्त्रैस् त्रैवेदिकं कर्म न मिश्रयेत् । वाचःस्तोमे सर्वा ऋचः सर्वाणि यजूंषि सर्वाणि सामानि विनियुक्तानि, तत्राथर्ववेदाधीतानां प्रतिषेधः ।
-
स वेदो विशिष्टः शब्दराशिर् अपौरुषेयो मन्त्रब्राह्मणाख्यो ऽनेकशाखाभेदभिन्नः, धर्मस्य मूलं प्रामाणं26 परिज्ञाने हेतुः । कारणं मूलम् । तच् च वेदस्मृत्योर् धर्मं प्रति ज्ञापकतयैव,27 न निर्वर्तकतया, न च स्थितिहेतुतया, वृक्षस्येव ।
- धर्मशब्दश् च प्राग् व्याख्यातः । यत् पुरुषस्य कर्तव्यं प्रत्यक्षाद्यवगम्यविलक्षणेन28 स्वभावेन श्रेयःसाधनम् । कृषिसेवादि भवति पुरुषस्य कर्तव्यम्,29 तस्य च तत्साधनत्वस्वभावो ऽन्वयव्यतिरेकाभ्याम् अवगम्यते । यादृशेन व्यापारेण कृष्यादेर् व्रीह्यादिसिद्धिः सापि प्रत्यक्षाद्यवगम्यैव । यागादेस् तु साधनत्वं येन च रूपेणापूर्वोत्पत्तिव्यवधानादिना, तन् न प्रत्यक्षाद्यवगम्यम् । श्रेयश् चाभिलषितस्वर्गग्रामादिफलप्राप्तिः सामान्यतः सुखशब्दवाच्या, व्याधिनिर्धनत्वासौख्यनरकादिफलप्राप्तिः सामान्यतो दुःखशब्दवाच्या, तत्परिहारश् च ।
-
अन्ये तु परमानन्दादिरूपं श्रेयः ।
-
अयं धर्मो ब्राह्मणवाक्येभ्यो ऽवगम्यते लिङादियुक्तेभ्यः । क्वचिच् च मन्त्रेभ्यो ऽपि “वसन्ताय कपिञ्जलान् आलभते” (म्स् ३.१४.१) इत्य् एवमादिभ्यः । तत्र कामपदयुक्तानि वाक्यानि फलार्थम् अनुष्ठानम् अवगमयन्ति- “सौर्यं चरुं निर्वपेद् ब्रह्मवर्चसकामः” (त्स् २.३.२.३), वैश्वदेवीं सांग्रहिणीं निर्वपेद् ग्रामकामः" (त्स् २.३.९.२) इति । तानि फलम् अनिच्छता न क्रियन्ते ।
-
अन्यानि यावज्जीवादिपदैर् नित्यतया समर्पितानि, तानि न फलहेतोर् अनुष्ठीयन्ते, फलस्याश्रुतत्वात्30 । न च “विश्वजिता यजेत” इत्यादिवद् अश्रुतफलत्वे ऽपि फलकल्पना, यतो यावज्जीवादिपदैर् विनैव फलेन कर्तव्यतयावगम्यन्ते । तत्राकरणे शास्त्रार्थातिक्रमदोषः । तत्र तत्परिहारार्थं तानि क्रियन्ते ।
-
प्रतिषेधानाम् अपि, “ब्राह्मणो न हन्तव्यः” “सुरा न पेया” इत्य् एषैव वार्ता । न हि फलार्थं प्रतिषिद्धवर्जनम्, अपि तु प्रत्यवायपरिहारार्थम् ।
-
अखिलः कृत्स्नः । न किंचित् पदं वर्णो मात्रा वा यन् न धर्माय ।
-
अत्र चोदयन्ति । ननु च विध्यर्थवादमन्त्रनामधेयात्मको वेदः, धर्मश् च कर्तव्यतास्वभावः, इत्य् उक्तम् । तत्र युक्तं यद् विधिवाक्यानि धर्म प्रमाणं स्युः । तेभ्यो हि यागादिविषया कर्तव्यता प्रतीयते । “अग्निहोत्रं जुहोति”, “दध्ना जुहोति”, “यद् अग्नये च प्रजापतये च सायं जुहोति”, “स्वर्गकामो जुहोति” इति । अत्र ह्य् अग्निहोत्राख्यं कर्म कर्तव्यतया प्रतीयते । “दध्ना” इति तत्रैव द्रव्यम् । “यद् अग्नये च” इति देवता । “स्वर्गकामः” इत्य् अधिकारः । यत् तु “अग्निर् वै सर्वा देवता” (ऐत्ब् १.१.४), “अग्निर् एव दैव्यो होता”, “स देवान् आह्वयति च जुहोति च” इत्यादयः, तथा “प्रजापतिर् वपाम् आत्मन उदक्खिदत्” इत्यादय, न तैः किंचित् कर्तव्यम् उपदिश्यते । केवलं पुरावृत्तम् अन्यद् वासांप्रतिकं भूतम् अनुवदन्ति । प्रजापतिना पुरा आत्मनो वपोत्खाता । उत्खिदतु, किम् अस्माकम् एतेन । तथाग्नेर् अपि सर्वदेवतात्मत्वं नाग्नेयकर्मण्य् उपयुज्यते, अग्निशब्देनोद्देशार्थनिवृत्तेः । अन्यदेवत्वे ऽन्यत्वाद् अग्नेर् उद्देश एव नास्ति । आवाहनस्यापि वचनान्तरेण “अग्निम् अग्न आवहे” (त्स् २.५.९.४) इत्यादिना विहितत्वात्, “स देवान् आह्वयति च जुहोति च” इत्यादिर् अनर्थकः । मन्त्रा अपि “न मृत्युर् आसीद् अमृतं न तर्हि” (र्व् १०.१२९.२) “सुदेवो अद्य पतेद् अनावृत्” (र्व् १०.९५.१४) इत्यादयो भाववृत्तपरिदेवनादिरूपार्थाभिधायिनः कं धर्मं प्रमिमते । तस्मिन् काले न मृत्युर् जातो नाप्य् अमृतं जीवितम् । प्राक् सृष्टेर् भूतानाम् अनुत्पन्नत्वान् न कस्यचिज् जीवितम् आसीन् नापि मृत्युः, प्रलये सर्वेषां मृतत्वात् । भवतु वा मृत्युर् मा वा, न किंचिद् एतेन कर्तय्वम् उपदिष्टं भवति । एवं सुदेवो ऽसौ महापुण्यो देवतुल्यो मनुष्यो यो ऽद्य प्रपतेच् छ्वब्र आत्मानं क्षिपेद् अनावृद् आवृत्तिः प्रत्युज्जीवनं यस्मात् प्रपातान् न भवति । उर्वश्या विप्रलब्धः पुरूरवाः परिदेव्यां चक्रे । तथा नामधेयम् । “उद्भिदा यजेत”, “बलभिदा यजेत” इत्यादि न कस्यचिद् अर्थस्य क्रियाया द्रव्यस्य वा विधायकम्, आख्यातेन क्रियाया विधानाद् अद्रव्यवचनत्वाच् च बलभिदादेः । सोमस्य चाव्यक्तचोदनत्वेन प्रकृतितः प्राप्तत्वान् न क्लेशेन द्रव्यवचनता कल्प्यते । तस्मान् नाम्ना न31 धर्म उपदिश्यते । अतः कथम् उच्यते कृत्स्नो वेदो धर्ममूलम् इति ।
-
उच्यते । अनयैवाशङ्कयाखिलग्रहणं कृतम्, यतः सर्वेषाम् एतेषां धर्मप्रतिपादनपरत्वम् । तथा हि, अर्थवादा नैव विधायकेभ्यो वाक्येभ्यः पृथगर्थाः येन धर्मं न प्रमिमीरन् । विभज्यमानसाकाङ्क्षत्वे विधिपरत्वावगमात्, तत्परत्वे च सिद्धायाम् एकवाक्यतायां, यथा तदर्थानुगुण्यं प्रतिपद्यन्ते तथा व्याख्येयाः । अतः प्रजापतेर् वपोत्खादनवचनं न स्वार्थनिष्ठम् । किं तर्हि, विधिशेषम् । न च विधेयं द्रव्यगुणादि अर्थवादेभ्यः प्रतीयत इति प्रकारान्तरेण विधेयार्थस्तावकत्वेन तच्छेषतां प्रतिपद्यन्ते । तद् अपि तत्र प्रतीयत एव । इत्थं नाम पशुयागः कर्तव्यो यद् असत्सु पशुषु गत्यन्त्राभावात् प्रजापतिनात्मैव पुशुत्वेन कल्पितो वपा चोत्खिन्ना । यतस् तत्सहितान्य् एव विधायकानि यत्रार्थवादाः सन्ति । यद्य् अपि तैर् विनापि भवति विध्यर्थावगतिः, विध्युद्देशाद् एव “वसन्ताय कपिञ्जलान् आलभते” (म्स् ३.१४.१) इति, तथापि न तेषाम् आनर्थक्यम् । तेषु हि सत्सु न केवलाद् अवगतिः । न च केनचित् कृतो वेदः, येनोच्यते “यथान्यत्र न सन्ति तथात्रापि मा भूवन्” । सत्स्व् अर्थवादेष्व् अस्माभिर् गतिर् वक्तव्या । सा चोक्ता । न चयम् अलौकिको ऽर्थः । लोके ऽपि हि स्तुतिपदानि दृश्यन्ते विधिशेषभूतान्य् एव । यथा भृतिदाने प्रवृत्तस्य स्वामिनः कश्चिद् भृतकः प्रीत्याचष्टे “साधुर् देवदत्तो नित्यसंनिहितः परिचर्याभूमिज्ञस् तत्परश् च” इति । अतो विधेयार्थस्तुतिद्वारेणार्थवादा विधायका एव । तथा क्वचिद् अर्थवादाद् एव विधेयविशेषावगतिः । यथा “अक्ताः शर्करा उपदधाति” (त्ब् ३.१२.५.१२) । अत्र ह्य् अञ्जनसाधनं सर्पिस्तैलादि यत्किंचिद् विधिनापेक्षितम् । “तेजो वै घृतम्” (ऐत्ब् ८.२०) इत्य् अर्थवादे घृतस्तुत्या घृतम् अध्यवसीयते । एवम् “प्रतितिष्ठन्ति य एता रात्रीर् उपयन्ति” (च्ड़्। ताण्ब् २३.२.४) इति रात्रिष्व् अर्थवादाद् अधिकारावगमः । तस्माद् अर्थवादा अपि धर्ममूलम् ।
-
मन्त्रास् तु केचिद् विधायका एव । यथा “वसन्ताय कपिञ्जलान्” (म्स् ३.१४.१) इति । आधारे देवताविधिर् मान्त्रवर्णिक एव । न हि तत्र देवता कर्मोत्पत्तिवाक्ये श्रुता, नापि वाक्यान्तरेण विहिता । मन्त्रस् तु विहितो नियुक्तः “इत32 इन्द्रः” (त्स् १.१.१२.१) इत्यादिः । अतो ऽस्मान् मन्त्रवर्णाद् देवताप्रतिपत्तिः । सहस्रशश् च मान्त्रवार्णिका देवताविधयः सन्ति । ये ऽप्य् अन्ये क्रियमाणानुवादिनस् ते ऽपि स्मृतिलक्षणं धर्मम् एव बुद्धं कुर्वन्तीति भवति धर्ममूलम् अनुष्ठेयार्थप्रकाशनेन ।
- नाम त्व् आख्यातार्थाद् अभिन्नार्थम् आख्यातार्थवत् सुप्रसिद्धधर्ममूलभावम् । गुणविधयश् च प्रायशो नामाश्रया33 एव । “शरदि वाजपेयेन यजेत” (आप्श् १८.१.१) “स्वाराज्यकामो वाजपेयेन” (त्ब् १.३.२.३) इति ।
-
तस्मात् सिद्धं कृत्स्नस्य वेदस्य धर्ममूलत्वम् ।
-
अन्ये तु, शेय्नादिवाक्यानां धर्मोत्पत्तिमत्त्वाभावम् आशङ्कमानाः, निषेधानां च “न लशुनं भक्षयेत्” इत्यादीनाम् अखिलग्रहणं मन्यन्ते । अभिचारा हि श्येनादयो मारणात्मानो हिंसारूपाः । क्रूरत्वाच् च हिंसाया अभिचाराणां च प्रतिषेधाद् अधर्मत्वम् । अतो न कृत्स्नो वेदो दर्ममूलम् । कर्तव्यश् च धर्म उक्तः । ब्रह्महत्यादिश् च न कर्तव्यः । अतः कथं तद्वाक्यानि धर्ममूलं स्युः । किं च, ये ऽपि पशुयागा अग्नीषोमीयादयस् ते ऽपि हिंसासाधकत्वाद् दूरापेतधर्मभावाः । हिंसा हि पापम् इति सर्वप्रवादेष्व् अभ्युपगमः । उक्तं च “यत्र प्राणिवधो धर्म अधर्मस् तत्र कीदृशः” ।
-
कथं पुनर् इयम् आशङ्कापनुद्यते । अखिलग्रहणात् । न ह्य् अस्यान्यत् प्रयोजनम् अस्ति । हेतुर् नोक्त इति चेत्, आगमग्रन्थो ऽयं सिद्धम् अर्थम् आह । हेत्वर्थिनो मीमांसातो विनीयन्ते । अस्माभिर् उक्तं य आगममात्रेण प्रतियन्ति तान् प्रत्य् एतद् उच्यते ।
-
विवरणकारास् तु युक्तिलेशमात्रं दर्शयन्ति । यद् उक्तम्, स्येनादयः प्रतिषिद्धत्वाद् अधर्म इति, तत् सत्यम् । तथापि प्रतिषिद्धेष्व् अपि तेषु यो ऽत्यन्तप्रवृद्धद्वेषः “न हिंस्याद् भूतानि” इत्य् अतिक्रान्तनिषेधाधिकारस् तस्य ते शत्रुवधलक्षणां प्रीतिम् अनुष्ठीयमानां निर्वर्तयन्तीत्य् एतावतांशेन वेदस्य धर्ममूलत्वं श्येनादिवाक्येष्व् अपि न विहन्यते । निषेधेष्व् अपि यो रागतः प्रवृत्तो हनने स निषेधे नियुज्यते । एतद् एव निषेधस्यानुष्ठानं यन्निषिध्यमानस्याननुष्ठानम् । अग्नीषोमीयादौ तु नैव हिंसाप्रतिषेधो ऽस्ति, द्वेषलक्षणाया लौकिक्या हिंसाया निषेधेन निषिद्धत्वात् । शास्त्रीया तु विधिलक्षणा न निषेधेन विषयीक्रियते, लौकिक्यां चरितार्थत्वान् निषेधस्य । न च सामान्यतो दृष्टेन हिंसात्वाल् लौकिकहिंसावद्34 वैदिक्याः पापहेतुत्वम् आपादयितुं शक्यते । यतो न हिंसात्वं पापहेतुत्वे कारणम्, अपि तु प्रतिषेधेन विषयीकरणम् । न चात्र प्रतिषेधो ऽस्तीत्य् उक्तम् ।
-
कैश्चित् तु मूलशब्दः कारणपर्यायो व्याख्यायते- धर्मस्य वेदो मूलं प्रतिष्ठाकारणं साक्षात् प्रणाड्या च । “स्वाध्यायम् अधीयीत” (ग्ध् ९.२६), “ऋग्वेदं धारयन् विप्रः” (म्ध् ११.२६१) इत्यादिचोदनासु साक्षात्, अग्निहोत्रादिकर्मस्वरूपज्ञापकतया प्रणाड्या ।
-
स्मृतिशीले च तद्विदाम् । अनुभूतार्थविषयं विज्ञानं स्मृतिर् उच्यते । तच्छब्देन वेदः प्रत्यवमृश्यते । तं विदन्ति तद्विदः । वेदार्थविदाम् “इदं कर्तव्यम्, इदं न कर्तव्यम्” इति यत् स्मरणं तद् अपि प्रमाणम् ।
-
ननु च स्मृतिर् न प्रमाणम् इत्य् आहुः । सा हि पूर्वप्रमाणावगतप्रमेयानुवादिनी नाधिकम् अर्थं परिच्छिनत्तीति वदन्ति ।
-
सत्यम् । ये स्मरन्ति तेषाम् आद्यम् एव तत्र शब्दादि प्रमाणम्, नात्मीया स्मृतिः । अस्माकं तु मन्वादिस्मृतिर् एव प्रमाणम् । न हि वयं ताम् अन्तरेणान्यतो ऽष्टकादिकर्तव्यताम् अवगच्छामः । तच् च मन्वादीनाम् ईदृशं स्मरणं तत्कृतेभ्यो वाक्येभ्यः स्मृतिपरंपरायातेभ्यो ऽवसीयते । तस्माच् च स्मरणाद् अनुभूतो ऽयम् अर्थः प्रमाणेन मन्वदिभिर् इति निश्चिनुमो, यत एते स्मरन्ति । न ह्य् अननुभूतस्य स्मरणोपपत्तिः ।
-
ननु कल्पयित्वा ग्रन्थम् उपनिबध्नीयुर् अननुभूयैव केनचित् प्रमाणेन,35 यथोत्पाद्य वस्तु कथानकं केचन कवयः कथयेयुः ।
- अत्रोच्यते । भवेद् एवं यद्य् अत्र कर्तव्यतोपदेशो न स्यात् । कर्तव्यतोपदेशो ह्य् अनुष्ठानार्थः । न च केचित्36 स्वेच्छया कल्पिते बुद्धिपूर्वव्यवहारिणो ऽनुष्ठातुम् अर्हन्ति । भ्रान्त्याप्य् अनुष्ठानसिद्धिर् इति चेत्, स्याद् अप्य् एकस्य भ्रान्तिः, सर्वस्य जगतो भ्रान्तिर् यावत् संसारभाविनी चेत्य् अलौकिकी कल्पना । न च संभवति मन्वादीनां वेदमूलत्वे भ्रान्त्यादेर् अवसरः ।
- अत एव प्रत्यक्षतो मन्वादयो धर्मान् ददृशुर् इति नाभ्युपगम्यते । इन्द्रियैर् अर्थानां संनिकर्षे यज् ज्ञानं तत् प्रत्यक्षम् । न च धर्मस्येन्द्रियैः संनिकर्षः संभवति, तस्य कर्तव्यतास्वभावत्वात् । असिद्धं च कर्तव्यम् । सिद्धवस्तुविषयश् च संनिकर्षः । अनुमानादीनि तदात्वे यद्य् अप्य् असन्तम् अर्थम् अवगमयन्ति, पिपीलिकाण्डसंचारेण हि भविष्यन्तीं वृष्टिम् अनुमिमते, तथापि न तेभ्यः कर्तव्यतावगतिः । तस्मात् कर्तव्यतास्मरणस्यानुरूपकारणकल्पनायां वेद एवोपदिश्यते । स च वेदो ऽनुमीयमानो मन्वादिभिर् उपलब्धः ।
(१) इदानीम् उत्सन्ना सा शाखा यस्याम् अमी स्मार्ता धर्मा आसन् । तथा किम् एका शाखा, अथ बह्व्यः । तासु च कश्चिद् अष्टकादिः कस्यांचिद् इत्य् एतद् अनुमानं प्रवर्तते ।
(२) अथ अद्यत्वे पठ्यन्त एव ताः शाखाः । किं तु विप्रकीर्णास् ते धर्माः । कस्यांचिच् छाखायाम् अष्टकादीनां कर्मणाम् उत्पत्तिः, कस्यांचिद् द्रव्यं, क्वचिद् देवता, क्वचिन् मन्त्र इत्य् एवं विप्रकीर्णानां मन्वादयो ऽङ्गोपसंहारं सुखावबोधार्थं चक्रुः ।
(३) अथ मन्त्रार्थवादलिङ्गमात्रप्रभवा एते धर्माः ।
(४) अथ अयम् अनादिर् अनुष्ठेयो ऽर्थो ऽविच्छिन्नपारंपर्यसंप्रदायायातो वेदवन् नित्यः ।
(५) उत अस्मदादीनाम् इव मन्वादीनाम् अपि परप्रत्ययानुष्ठानो नित्यानुमेयश्रुतिकः ।
-
इत्य् एवमादि बहुविकल्पं विचारयन्ति विवरणकाराः ।
-
एतावांस् तु निर्णयः । वैदिकम् एतद् अनुष्ठानम्, स्मार्तानां वैदिकैर् विधिभिर् व्यतिषङ्गावगमात्, अनुष्ठातॄणां च तद् दृष्ट्वानुष्ठानात् । व्यतिषङ्गश् च दर्शितः । क्वचिद् वैदिकम् अङ्गं प्रधानं स्मार्तम्, क्वचिद् एतद् एव विपरीतम्, क्वचिद् उत्पत्तिः, क्वचिद् अधिकारः, क्वचिद् अर्थवाद इति । एवं सर्व एव स्मार्ता वैदिकैर् व्यतिषक्ताः । निपुणतश् चैतन् निर्णीतम् अस्माभिः स्मृतिविवेके-
-
स्मार्तवैदिकयोर् नित्यं व्यतिषङ्गात् परस्परम् ।
-
कर्तृतः37 कर्मतो वापि वियुज्येते न जातु तौ ॥
-
प्रत्यक्षश्रुतिनिर्दिष्टं ये ऽनुतिष्ठन्ति केचन ।
-
त एव यदि कुर्वन्ति तथा स्याद् वेदमूलता ॥
-
प्रामाण्यकारणं मुख्यं वेदविद्भिः परिग्रहः ।
-
तद् उक्तं कर्तृसामान्याद् अनुमानं श्रुतीः प्रति ॥
विशेषनिर्धारणे तु न किंचित् प्रमाणम्, न च प्रयोजनम् ।
(१) उत्सादो ऽपि संभाव्यते । दृश्यन्ते हि प्रविरलाध्येतृका अद्यत्वे ऽपि शाखाः । ताभ्यः संभाव्यभाव्युत्सादाभ्यो विधिमात्रम् अर्थवादविरहितम् उद्धृत्योपनिबद्धं स्मृतिकारैर् इति कैश्चिद् अभ्युपगम्यते । “ब्राह्मणोक्ता विधयस् तेषाम् उत्सन्नाः पाठाः प्रयोगाद् अनुमीयन्ते” इत्य् आपस्तम्बः (आप्ध् १.४.१०) ।
- अत्र तु यैवं महाप्रयोजना शाखा, यस्यां सर्वे स्मार्ता गार्ह्याश् च सर्ववर्णाश्रमधर्मा आम्नाताः, तस्या उपेक्षणम् असंभाव्यम्, सर्वाध्येतॄणां चोत्सद इत्यादि बह्वदृष्टं प्रकल्प्यम् ।
(२) विप्रकीर्णानां त्व् अर्थवादगहनानां क्रत्वर्थपुरुषार्थतया च दुर्विज्ञानानां प्रयोगोन्नयनम् अभियुक्तानां न्यायतो निश्चितार्थानां घटते ।
- अस्मिंस् तु पक्षे विरोधद्वयस्यापि प्रत्यक्षश्रौतत्वाद् विकल्पे न38 स्मृतेर् बाधः । स च विशिष्टानां नाभिप्रेतः । स्मृतिकाराश् च बाधम् अनुमेयश्रुतिमूलत्वं च प्रतिपन्नाः । एवम् अप्य् आह गौतमः- “ऐकाश्रम्यं त्व् आचार्याः प्रत्यक्षविधानाद् गार्हस्त्यस्य” इति (ग्ध् ३.३५) । यदि हि मन्वादीनं प्रत्यक्षास् ताह् शाखा अभवन्, केयं वाचोयुक्तिर् “गर्हस्थ्यस्य प्रत्यक्षविधानात्” इति । ननु सर्व एवाश्रमाः प्रत्यक्षविधानाः । स्वमतम् एव चैतद् गौतमेनाचार्यापदेशेनोपदिष्टम् “तस्याश्रमविकल्पम्” (ग्ध् ३.१) इत्याद्य् उपक्रम्यानेनोपसंहृतत्वात्
(३) मन्त्रार्थवादप्रमाणभावो ऽप्य् अविरुद्धः । यद्य् अप्य् अर्थवादा विध्युद्देशस्तुतिपरा न स्वार्थस्य विधायकाः, तथापि केषांचिद् अन्यपरतैव नोपपद्यते यावत् स्वार्थविषयो विधिर् नावगमितः । यथा “स्तेनो हिरण्यस्य सुरां पिबंश् च” (छु ५.१०.९) इत्यादेः पञ्चाग्निविधिशेषतैवम् एतावतैव नोपपद्यते यावद् धिरण्यस्तेयादेः प्रतिषेधो नावगमितः । य एतां विद्यां अधीते स हिरण्यस्तेयाद्य् अप्य् आचरंस् तैश् च संवसन् न पतति, अन्यथा तु पततीत्य् अवगतिर् अविरुद्धा ।
- अथ “विध्युद्देशो विधेः प्रतिपादकः, नार्थवादः” इति केनैषा परिभाषा कृता । “एते पतन्ति चत्वारः” (छु ५.१०.९) इत्य् अत्राप्य् आख्यातश्रवणम् अस्ति । लिङादयो39 न सन्तीति चेत्, “प्रतितिष्ठन्ति” (च्ड़्। ताण्ब् २३.२.४) इति रात्रिष्व् अपि नैव लिङ्श्रुतिर्40 अस्ति । अथ तत्राधिकाराकांक्षायाम् एकवाक्यतायां सत्यां पञ्चमलकारादिकल्पनया विध्यवसायः, एवम् अत्रापि भविष्यति । बहवश् च द्रव्यदेवताविधयो ऽर्थवादावगम्याः सन्ति । तत्र यस्य विधेः शेषा अर्थवादास् तद्विधिनैव द्रव्यदेवतादेर् अपेक्षितत्वाद् विशेषसमर्पणमात्रे व्यापारान्तर्गतविशेषावगतिर् अर्थवादाधीना न दोषाय । इह तु तदसंबद्धस्य विध्यन्तरस्येष्यमाणत्वाद् वाक्यभेदापत्तिर् अतश् च न प्रकृतिशेषता । तदभावे च तन्मूला प्रतिषेधावगतिर् न स्यात् । अतश् च “अक्ताः शर्करा उपदधाति” (त्ब् ३.१२.५.१२), “तेजो वै घृतम्” (ऐत्ब् ८.२०) इत्य् अनेन वैषम्यम् इत्य् आहुः ।
-
तद् असत् । सत्य् अप्य् अर्थान्तरत्वे तदेकवाक्यतामूलत्वाद् अस्यावगतेर् नास्ति वाक्यभेदाभिचोद्यापत्तिः । मन्त्राः प्रयोगप्रकाशत्वेन रूपाद् एवावगतास् तस्य प्रयोगस्यान्यतो ऽसिद्धेः प्रकाशकत्वनिर्वहणाय प्रकाश्यम् कल्पयन्ति । न वासतोर् उत्पत्त्यधिकारयोः प्रकाशनम् अष्टकायाः संभवतीत्य् उत्पत्त्यधिकारविनियोगप्रयोगबोधका मन्त्राः । एवं मान्त्रवर्णिकाश् च विधयो ऽप्य् उपगम्यन्ते । यथाघारे देवताविधिः । चतुष्पाद् धि धर्मो ऽभ्युपगतः । तत्राल्पतरांशः श्रुतः, सकलेतरांशबोधहेतुस् तथाविध एव, विधौ संबन्धग्रहणाद् इति । सर्वथा तावत् संभवति वेदसंयोगः ।
-
मनुर् बहुभिर् बहुशाखाध्यायिभिः शिष्यैर् अन्यैश् च श्रोत्रियैः संगतस् तेभ्यः शाखाः श्रुत्वा ग्रन्थं चकार । ताश् च मूलत्वेन41 प्रदर्श्य ग्रन्थं42 प्रमाणीकृतवान् । एवम् अन्ये तत्प्रत्ययाद् अनुष्ठानम् आदृतवन्तो न मूलोपलम्भे यत्नं कुर्वन्ति । अस्माकं चैतद् अनुमानम् ।
- अतो विरोधे सत्य् अपि तुल्ये श्रौतत्वे बाधोपपत्तिः । प्रत्यक्षया श्रुत्या प्रयोगसंपत्तौ श्रुत्यन्तरं प्रत्य् आकाङ्क्षैव नास्ति । यथा सामिधेनीषु साप्तदश्यपाञ्चदश्ययोः पाञ्चदश्येन प्रकृतिर् अवरुद्धा साप्तदश्यं प्रत्यक्षश्रुतम् अपि नाकाङ्क्षति । आभिधानिको ह्य् अर्थः संनिकृष्यते, अभिहितार्थाकाङ्क्षावगम्यं प्रत्ययं विप्रकर्षाद् दुर्बलं बाधते । न चैतावताप्रामाण्यापत्तिः । यथा प्राकृतान्य् अङ्गानि विकृतिषु चोदकप्राप्तानि वैकृतिकैर् विरुद्ध्यमानानि बाध्यन्ते तद्वद् एव द्रष्टव्यम् ।
(४) यत्र संप्रदायाविच्छेदस्43 तत्र च परंपरापत्तिः । न हि तत्र कस्यचित् प्रमाणं प्रवृत्तम् ।
(५) नित्यानुमेयपक्षो ऽपि संप्रदायपक्षान् नातीव भिद्यते । मन्वादिस्मरणस्य वयं मूलं परीक्षितुं प्रवृत्ताः । यदि च तेषाम् अप्य् असाव् अनुमेयो वेदो वयम् इव, न ते स्मर्तारः । न च यः पदार्थो न कस्यचित् प्रत्यक्षस् तस्यानुमेयता संभवति, अन्वयासंभवात् । क्रियादिषु सामान्यतो ऽस्त्य् एव संबन्धदर्शनम् । यदि वार्थापत्त्यवसेयाः क्रियादयो न चेहान्यथानुपपत्तिर् अस्ति ।
- तस्माद् अस्ति मन्वादीनाम् अस्मिन्न् अर्थे वेदसंबन्धः, न पुनर् अयम् एव प्रकार इति निर्धारयितुं शक्यम् । द्रढीयसी कर्तव्यतावगतिर् वेदविदां वेदमूलैव युक्ता कल्पयितुं न भ्रान्त्यादिमूलेत्य् अवगत्यनुरूपकारणकल्पना कृता भवति । तत्रोत्सादविप्रकीर्णे44 मन्त्रार्थवादे प्रत्यक्षवेदानां कारणानां संभवात् कल्प्यत्वम् उपशेते । प्रत्यक्षो ऽपि विधिः क्वचिन् मूलत्वेन दृश्यते “न मलवद्वाससा सह संवसेत्” इति (च्ड़्। वध् १२.५) । स चाध्ययने चोपनयने च पठ्यते । तद् एतल् लेशतो ऽस्माभिर् उक्तम् । विस्तरस् तु स्मृतिविवकाज् ज्ञातव्यः ।
-
शाखाः काश्चित् समुत्सन्नाः पक्षो नैष मतो मम ।
-
पक्षे ऽस्मिन् न प्रमाणं हि बह्वदृष्टं प्रसज्यते ॥
-
उपपन्नतरः पक्षो विक्षिप्तानां ततस् ततः ।
-
उत्पत्त्यादिसमाहारः प्रायशो दृश्यते ह्य् अदः ॥
-
अनेकशिष्योपाध्यायैः श्रोत्रियैर् आदृतो ऽपरैः ।
-
शक्तो रचयितुं श्रुत्वा शाखां तां तां कुतश्चन ॥
-
उपपन्नस् तदानीं च दृष्टमूलैः परिग्रहः ।
-
निश्चयो ऽस्माकम् अप्य् अद्य यथा संभवतः स्थितः ॥
-
प्रयोगद्योतका मन्त्रा द्योतनं तस्य नामतः ।
-
नर्ते ऽधिकारोत्पत्तिभ्यां प्रयोगस्यास्ति संभवः ॥
-
विशिष्टदेवतालाभ आधारे मान्त्रवर्णिकः ।
-
प्रकाशकत्वान् मन्त्रस्य तन्निर्वहणहेतुकः ॥
-
या सिद्धरूप एकस्मिन् रूपान्तरगतिर्45 भवेत् ।
-
न सा स्वरूपनाशाय विश्वजित्य् अधिकारवत् ॥
-
प्रतिपन्ने विधौ युक्तं तत्संबन्धार्थकल्पनम् ।
-
गतिर् मन्त्रार्थवादेभ्यो न दृष्टा चेद् विधेः क्वचित् ॥
-
लिङादिगम्यं46 भगवान् विधिं स्मरति पाणिनिः ।
-
न शक्तास् ते विधिं वक्तुं सिद्धवस्त्वभिधायिनः ॥
-
व्याख्येयो गुणवादेन यो ऽर्थवादाद् अतत्परात् ।
-
अर्थो ऽधिगन्तुम् इष्येत कथं स्यात् तस्य सत्यता ॥
-
भिन्द्याद् वाक्यं न प्रतिष्ठा47 साकाङ्क्षा रात्रयो यतः ।
-
विशेषे तद्गते युक्ता वाक्यशेषावगम्यता ॥
-
स्तेयादीनां निषेधे ऽपि विध्यन्तरगतिर् ध्रुवा ।
-
ततश् च वाक्यभेदः स्यान् नोपन्यासस् ततः समः ॥
-
वाचःस्तोमे प्रयुज्यन्ते सर्वे मन्त्रविधिश्रुतेः ।
-
नाष्टकादौ विशेषो ऽस्ति हेतुर् मन्त्रस्य बोधने ॥
-
विना सामान्यसंबन्धाल् लिङ्गं च विनियोजकम् ।
-
न च नास्त्य् अस्य48 संबन्धो विना प्रकरणादिभिः ॥
-
परिहारं ब्रुवन्त्य् अत्र केचित् तन्मूलवादिनः ।
-
रत्रिषु प्रतितिष्ठन्तीत्य् असत्स्व् एव लिङादिषु ॥
-
पञ्चमेन लकारेण तदर्थगतिर् इष्यते ।
-
पतन्ति न म्लेछितवा इत्यादिषु तथा भवेत् ॥
-
ऋचां विधिर् वाचःस्तोमे49 सर्वदाशतयीर् इति ।
-
दशम्यो मण्डले ऽभ्यस्ता वर्जिताः पठिता बहिः ॥
-
सामान्यसंबन्धकारी समाख्यैवेति गीयते ।
-
समाख्या गृह्यमन्त्राणां तेन तेनास्ति कर्मणाम् ॥
-
पञ्चाग्निविद्याशेषत्वं हिरण्यस्तेननिन्दया ।
-
स्तेनो हिरण्यवाक्यस्य न विना तन्निषेधतः ॥
-
शेषत्वावगमो ऽर्थात् तु तदकर्तव्यता तु या ।
-
द्रढिम्ने शेषतायाः सा न पुनस् तद्विरोधिनी ॥
-
नित्यानुमेयपक्षो यो वाप्य् आगमपरंपरा ।
-
तयोर् अन्धप्रवाहत्वं न भेदः कश्चिद् ईक्ष्यते ॥
एवं च सति या गौतमेन प्रत्यक्षविधानता गार्हस्थ्यस्योक्ता (ग्ध् ३.३६) सा शब्दस्याव्यवहितव्यापाराभिप्रायेण । श्रवणान्तरं यो ऽर्थः प्रतीयते स प्रत्यक्षः । यस् तु प्रतीते ऽर्थे तत्सामर्थ्यपर्यालोचनया गम्यः स विलम्बितत्वात् प्रतिपत्तेर् न प्रत्यक्ष इति सर्वम् उपपन्नम् ।
-
स्मृतिशीले च तद्विदाम् । स्मृतिश् च शीलं च स्मृतिशीले । शीलं रागद्वेषप्रहाणम् आहुः । तच् च धर्ममूलं वेदस्मृतिवन् न ज्ञापकतया, किं तु निर्वर्तकत्वेन । रागद्वेषप्रहाणाद् धि धर्मो निर्वर्तते ।
-
ननु च “श्रेयःसाधनं धर्मः” इत्य् उक्तम् । रागद्वेषप्रहाणम् एव च तत्स्वभावम् । तत्रासति व्यतिरेके किम् उच्यते रागादिप्रहाणाद् धर्मो निर्वर्तत इति ।
-
उक्तम् अस्माभिः, धर्मशब्दो ऽयं स्मृतिकारैः कदाचिद् विधिनिषेधविषयभूतायां क्रियायां प्रयुज्यते, कदाचित् तदनुष्ठानजन्य आफलप्रदानावस्थायिनि कस्मिंश्चिद् अर्थे । तस्य च सद्भावे शब्द एव प्रमाणम् । यदि हि यागस् तथाविधं वस्त्व् अनुत्पाद्य विनश्येत् तदा कालान्तरे कुतः फलोत्पत्तिः । तद् एतद् वस्तु धर्मशब्देनात्राभिप्रेतम् । तस्य शीलं मूलम् इति न किंचिद् अनुपपन्नम् । तदभिप्राया एव व्यवहाराः ।
-
एक एव सुहृद् धर्मो निधने ऽप्य् अनुयाति यः । इति । (म्ध् ८.१७)
क्रियाया अनुष्ठानसमनन्तरम् एव नाशात्, कुतः कालान्तरान्वयः ।
-
अत्र चोद्यते । ननु सर्व एव श्रुतिस्मृतिविहितो ऽर्थो धर्मस्य मूलम् । शीलस्यापि तत्रान्तर्भावाद् भेदेनोपादानम् अनर्थकम् । विधायिष्यते च ।
-
इन्द्रियाणां जये योगं समतिष्ठेद् दिवानिशम् । (म्ध् ७.४४)
-
यस्मिञ् जिते जिताव् एतौ भवतः पञ्चकौ गणौ । (म्ध् २.९२) इति ।
अयम् एव मनसो जयो यो रागद्वेषयोः परित्याग इति वक्ष्यामः ।
- केचिद् आहुः- आदरार्थः पृथग् उपदेशः । एतद् धि सर्वकर्मणाम् अनुष्ठान उपयुज्यते, स्वप्रधानं च अग्निहोत्रादिकर्मवत् । सर्ववर्णधर्मश् चायं सर्वाश्रमधर्मश् च । अतः50 सामान्यधर्मलक्षणावसरे ऽस्मिन्न् उच्यते ।
- वयं तु ब्रूमः । समाधिः शीलम् उच्यते । तथा हि “शिल समाधौ” (ध्प् ५२३) इति धतुषु पठ्यते । समाधानं च मानसो धर्मः । यच् चेतसो ऽन्यविषयव्याक्षेपपरिहारेण शास्त्रार्थनिरूपणप्रवणता तच् छीलम् उच्यते । द्वन्द्वश् चायम् इतरेतरयोगे । तेन परस्परसापेक्षयोः स्मृतिशीलयोः धर्मं प्रति प्रामाण्यम् एवाभिप्रेतम्, न पूर्ववन् निर्वर्तकत्वम् । एतद् उक्तं भवति । समाधानवती या स्मृतिः सा प्रमाणम्, न स्मृतिमात्रम् । तेन सत्य् अपि वेदार्थवित्त्वे यद् अतत्पराणां51 स्मरणं न तद् धर्ममूलम्, भ्रान्त्यादिसंभवाच् छास्त्रार्थावधानशून्यानाम् । चशब्द इह पठ्यते । स तद्विदाम् इत्य् अस्माद् अनन्तरं द्रष्टव्यः । वृत्तानुरोधात् त्व् एवं पठितः । समुच्चयार्थश् चासौ पूर्वप्रकृतस्य च समुच्चेतव्यस्याभावात् तृतीये पादे यत् साधूनाम् इत्य् उक्तं तत् समुच्चिनोति ।
-
अतस् त्रीणि विशेषणान्य् अत्राश्रीयन्ते । विदुषाम् उपाध्यायाद् आगमितविद्यानाम्, तथा तदभ्यासपराणाम् अनुष्ठानपराणां च स्मृतिः प्रमाणम् । एतत् सर्वं मन्वादीनाम् आसीद् इति स्मर्यते । नान्यथा तत्कृतेषु ग्रन्थेषु शिष्टानां परिग्रहोपपत्तिः ।
-
यद्य् एवं स्पष्टम् एव वक्तव्यम्- मन्वादिवाक्यानि धर्ममूलम् इति । किम् एतेन लक्षणेन ।
-
सत्यम् । यः कथंचित् तत्प्रामाण्ये विप्रतिपाद्येत तं प्रति न्यायशास्त्रप्रसिद्धं प्रामान्यहेतुकथनम् एतत् । अद्यत्वे ऽपि यस्यैतद्धेतुसद्भावः सो ऽपि मन्वादिवद् ग्राह्यवाक्यः स्यात् । तथा च विदुषां प्रायश्चित्ताद्युपदेशे । तथाभूता एव परिषत्त्वेन प्रमाणीभवन्ति,
-
एको ऽपि वेदविद् धर्मं यो व्यवस्येद् द्विजोत्तमः । इति । (म्ध् १२.११३)
अत एव स्मर्तृपरिगणना “मनुर् विष्णुर् यमो ऽङ्गिराः” (य्ध् १.४) इति निर्मूला । तथा हि पैठीनसिबौधायनप्रचेतःप्रभृतयः शिष्टैर् एवंरूपाः स्मर्यन्ते, न च परिगणनायाम् अन्तर्भाविताः । सर्वथा यम्52 अविगानेन शिष्टाः स्मरन्ति वदन्ति वा एवंविधैर् गुणैर् युक्तम्, तेन चैतत्प्रणीतम् इति, तस्य वाक्यं सत्य् अपि पौरुषेयत्वे धर्मे प्रमाणं स्यात् । इति स्मृतिशीले च तद्विदाम् इत्य् अस्यार्थः ।
-
अद्यत्वे य एवंविधैर् गुणैर् युक्त ईदृशेनैव च हेतुना ग्रन्थम् उपनिबध्नीयात्, स उत्तरेषां मन्वादिवत् प्रमाणिभवेत् । इदानींतनानां तु यद् एव तत्र तस्य बोधकारणं तद् एव तेषाम् अस्तीति न तद्वाक्याद् अवगतिः । इदानींतनो हि यावन् मूलं न दर्शयति तावन् न विद्वांसस् तद्वाक्यं प्रमाणयन्ति । दर्शिते तु मूले प्रमाणीकृते ग्रन्थे कालान्तरे यदि कथंचिद् अष्टकादिमूलतुल्यता स्यात्, तदा तेषां शिष्टपरिग्रहान्य् अथानुपपत्त्या तन्मूलानुमानं युक्तम् ।
-
आचारश् चैव साधूनाम् । चशब्देन वेदविदाम् इति संबध्यते । पदद्वयेन शिष्टत्वं लक्ष्यते । शिष्टानां य आचारः सो ऽपि धर्मे मूलम् । आचारो व्यवहारः अनुष्ठानम् । यत्र श्रुतिस्मृतिवाक्यानि न सन्ति, शिष्टाश् च धर्मबुद्ध्यानुतिष्ठन्ति, तद् अपि वैदिकम् एव पूर्ववत् प्रतिपत्तव्यम् । यथा विवाहादौ कङ्कणबन्धनादि माङ्गलिकत्वेन यत् क्रियते, या च कन्यायास् तदहर् विवाहयिष्यमाणायाः प्रख्यातवृक्षयक्षचतुष्पथादिपूजा देशभेदेन, तथा चूडासंख्या देशभेदश् च, या चातिथ्यादीनाम् गुर्वादीनां चानुवृत्तिः प्रियहितवचनाभिवादनाभ्युत्थानादिरूपा, तथा पृश्निसूक्तं तृणपाणयो ऽधीयते, अश्वमेधं अश्वस्य घासम् अर्पयन्तः53 । ईदृश आचारः । एषो ऽपि हि स्वभावभेदेन पुरुषाणां मनःस्वास्थ्यदौःस्थ्यादिभेदेनानेकरूपः प्रतिविशेषम् आनन्त्याद् अशक्यो ग्रन्थेनोपनिबद्धुम् । यद् एव बहुशः प्रिय्म् अस्येत्य्54 उपलक्षितम्, तद् एवावसरान्तरे विपरीतं संपद्यते । तथा पर्युपासनं गृहस्थेनातिथेः क्रियमाणं कस्यचित् प्रीतिकरं “ममायं भृत्यवत् तिष्ठति”, अन्यस् त्व् अन्यथा “निर्यन्त्रणया न लभ्यत आसितुम्55 अस्मिन् संनिहिते” इति पर्युपासनयैव विरज्यति । न तत्र सामान्यतः शक्यं वेदानुमानम्, न विशेषतः । अष्टकादीनां तु नियतैकरूपसमस्तप्रयोगस्मरणम् इत्य् एष स्मृत्याचाराणां भेदः ।
- आत्मनस् तुष्टिर् एव च । धर्ममूलम् इत्य् अनुषज्यते, वेदविदां साधूनाम् इति च । अस्याश् च धर्ममूलत्वं प्रामाण्येनैवेत्य्56 आहुः । यत्र ह्य् एवंविधानाम् अनुष्ठेये ऽर्थे मनः प्रसीदति, द्वेषो न भवति, स धर्मः ।
-
ननु च यस्य प्रतिषिद्ध एवार्थे मनः प्रसीदेत्, स धर्मः प्राप्नोति । विहिते च किंकथिका स्यात्, स न धर्म इति ।
-
एवम् एतत् । ईदृशानां महात्मनां मतिमतां महाप्रभावो मनःप्रसादः, येनाधर्मो ऽपि धर्मताम् एति, धर्मश् चाधर्मताम्, न रागद्वेषादिदोषवताम्57 । यथा रुमायां यत्किंचिद् द्रव्यं प्रविशति तत् सर्वं लवणसात् संपद्यते, एवं वेदविदा सहसोत्पन्नेन मनःपरितोषेण सर्वं निर्मलीक्रियते । अतो यथा प्रतिषिद्धाम् अपि ग्रहणं षोडशिनि विधिनानुष्ठीयमानं न दोषाय । न चात्र ग्रहणवद् विकल्पः । प्रतिषेधा ह्य् आत्मतुष्टिव्यतिरेकेणान्यत्र विषये व्यवस्थाप्यन्ते ।
-
अथ वा नैव तेषाम् अधर्मे आत्मा परितुष्यति । यथा विषघ्नीम् एवौषधीं नकुलो दशति नान्याम् । अत उच्यते “नकुलो यां यां दशति सा सा विषघ्नी” इति ।
-
इह भवन्तश् चाहुः । ये वैकल्पिकाः पदार्थास् तेषु यस्मिन् पक्षे मनः प्रसीदति स पक्ष आश्रयितव्यः । वक्ष्यति च द्रव्यशुद्धौ प्रायश्चित्तेषु च।
-
तस्मिंस् तावत् तपः कुर्याद् यावत् तुष्टिकरं भवेत् । (म्ध् ११.२३२)
-
अथ वा यो ऽश्रद्दधानो नास्तिकतया तस्यानधिकारम् आह । नास्तिकस्य हि न वैदिकं कर्म कुर्वतो ऽप्य् आत्मा तुष्यति । अतस् तेन क्रियमाणम् अपि कर्म निष्फलम् एव ।
-
अथ वा सर्वकर्मविषयो भावप्रसाद उपदिश्यते । अनुष्ठानकाले क्रोधमोहशोकादि त्यक्त्वा प्रमुदितेन भाव्यम् । अतश् च शीलवद् अस्याः सर्वशेषतया धर्ममूलत्वाभिधानम् ॥ २.६ ॥
यः कश्चित् कस्यचिद् धर्मो मनुना परिकीर्तितः ।
स सर्वो ऽभिहितो वेदे सर्वज्ञानमयो हि सः ॥ २.७ ॥
मेधातिथिः ...{Loading}...
यद् उक्तं वेदवित्संबन्धेन स्मृतेः प्रामाण्यम्, तद् अनेन प्रकटयति । यः कश्चिद् धर्मो वर्णधर्म आश्रमधर्मः संस्कारधर्मः सामान्यरूपो विशेषरूपश् च, कस्यचिद् ब्राह्मणादेर् वर्णस्य, मनुना परिकीर्तितः । स सर्वो ऽपि वेदे ऽभिहितः प्रतिपादितः । यथा चैतत् तथा पूर्वश्लोक उक्तम् । सर्वज्ञानमयो हि सः । सर्वेषां ज्ञानानाम् अदृष्टविषयाणां हेतुर् निमित्तं वेदः । सर्वैर् ज्ञानैर् निर्मित इवेति ज्ञाने58 तद्विकारत्वम् अध्यारोप्य मयट् कृतः । यो हि यद्विकारः स तन्मयस् तत्स्वभाव इत्य् उच्यते । वेदश् च ज्ञानहेतुत्वात् तन्मय इति । सत्कार्यदर्शने59 कारणं कार्यस्वभावम् इति । अथ वा सर्वज्ञानाद् धेतोः, आगतः “हेतुम् अनुष्येभ्यः” (पान् ४.३.८१) इति मयट् क्रियते ॥ २.७ ॥
सर्वं तु समवेक्ष्येदं निखिलं ज्ञानचक्षुषा ।
श्रुतिप्रामाण्यतो विद्वान् स्वधर्मे निविशेत वै ॥ २.८ ॥
मेधातिथिः ...{Loading}...
सर्वं60 ज्ञेयं कृतकाकृतकम्, शास्त्रगोचरं प्रत्यक्षादिगोचरम् अप्रत्यक्षादिगोचरम्,61 स्अमवेक्ष्यइतज् ज्ञानचक्षुषा तर्कव्याकरणनिरुक्तमीमांसादिविद्यास्थानश्रवणचिन्तनात्मकेन । चक्षुर् इव चक्षुः शास्त्राभ्यासः, ज्ञानस्य कारणत्वसामान्यात् । यथा चक्षुषा रूपं ज्ञायते, एवं शास्त्रेण धर्म इति सामान्यम् । समवेक्ष्य सम्यग् विचारपूर्वकं निरूप्य, श्रुतिप्रामान्यतो वेदप्रामाण्येन धर्मे निविशेत, धर्मम् अनुतिष्ठेत् ।
- सर्वेषु हि शास्त्रेषु सम्यग्ज्ञातेषु वेदप्रंआण्यम् एवावतिष्ठते, नाज्ञातेषु । तथा हि, तानि शास्त्राणि निपुणत्वेन चिन्तयन्, न तेषां प्रामाण्ये सम्यग् युक्तिर् अस्ति, वेदे त्व् अस्तीति निश्चिनोति । सर्वग्रहणं ज्ञेयविशेषणम् । निखिलशब्दश् च समवेक्ष्येति क्रियाविशेषणम् । निखिलं समवेक्ष्य निःशेषेण पूर्वपक्षेण शास्त्रान्तराणां प्रामाण्ये वेदस्य वाप्रामाण्ये यावन्त्यः काश्चन युक्तयः प्रतिभासन्ते ताः सर्वाः प्रदर्श्य, सिद्धान्तसिद्धैर् हेतुभिर् यथालक्षणलक्षितैर् निराकृत्य, स्वपक्षसाधने चोपन्यस्ते वेदप्रामाण्यम् अवतिष्ठत इति निखिलशब्देन प्रदर्श्यते । तेन तौ निखिलसर्वशब्दौ पर्यायाव् अपि भिन्नविषयत्वान् न पुनरुक्तौ । स्वग्रहणम् अनुवादः । यो ह्य् अन्यस्य धर्मः सो ऽन्यस्याधर्म एव ॥ २.८ ॥
श्रुतिस्मृत्युदितं धर्मम्[^६३]** अनुतिष्ठन् हि मानवः ।**
इह कीर्तिम् अवाप्नोति प्रेत्य चानुत्तमं सुखम् ॥ २.९ ॥
मेधातिथिः ...{Loading}...
यो नास्तिकतया वैदिकानि निष्फलानि कर्माणीति व्यामुह्य न तदनुष्ठाने प्रवर्तेत, तस्य प्रवृत्त्यर्थं सुहृद् भूत्वा दृष्टफलप्रदर्शनं करोति । तिष्ठतु तावद् अन्यत् फलम् । श्रुतौ स्मृतिषु च यद् उदितम् उक्तं धर्माख्यं कर्म तद् अनुतिष्ठन्न् **इह **अश्मिंल् लोके यावज् जीवति तावत् कीर्तिं प्रशस्यतां पूज्यतां सौभाग्यं लभते । न्याय्ये पथि स्थितो महापुण्यो ऽयम् इति सर्वेण पूज्यते । प्रियश् च सर्वस्य भवति । प्रेत्य देहान्तरे यस्माद् अन्यद् उत्तमं नास्ति तत् सुखं प्राप्नोति । प्रायेण स्वर्गकामस्याधिकारः, निरतिशया च प्रीतिः स्वर्गः, तत उच्यते अनुत्तमम् इति । तस्मान् नास्ति कस्यापि दृष्टफलार्थिनो ऽत्रैव प्रवृत्तिः प्रयुक्तेत्य्62 एवंपरम् एतत् ॥ २.९ ॥
श्रुतिस् तु वेदो विज्ञेयो धर्मशास्त्रं तु वै स्मृतिः ।
ते सर्वार्थेष्व् अमीमांस्ये ताभ्यां धर्मो हि निर्बभौ ॥ २.१० ॥
मेधातिथिः ...{Loading}...
किम् इदं शब्दार्थसंबन्धस्मरणम् अभिधानकोशशास्त्रम् "आत्मभूः परमेष्ठी" इत्यादिवत्, न धर्मशास्त्रम्, येनेदम् उच्यते- "श्रुतिस् तु वेदो विज्ञेयो धर्मशास्त्रं तु वै स्मृतिह्" इति ।
- उच्यते । इह सदाचारो न श्रुतिः, न स्मृतिः, निबन्धाभावात् । निबद्धाक्षरा हि स्मृतयः प्रसिद्धाः । अतस् तस्य स्मृतित्वम् उपपादयति । यत् कार्यं धर्मं शास्त्य् अर्थं63 तद् धर्मशास्त्रम् । यत्र धर्मः शिष्यते कर्तव्यतया प्रतीयते सा स्मृतिः । निबन्धानिबन्धाव् अप्रयोजकौ । शिष्टसमाचाराद् अपि धर्मस्य कर्तव्यतावगतिः । सो ऽपि स्मृतिर् एव । ततश् च यत्र कस्मैचित् कार्याय स्मृतेर् उपादानं तत्र सदाचारो ऽपि ग्रहीतव्यः ।
-
धर्मशास्त्रं चेत् स्मृतिर् वेदो ऽपि सर्वमुख्यं धर्मशासनम् इति तस्यापि स्मृतित्वप्रसङ्गः । तन्निवृत्त्यर्थम् आह- श्रुतिस् तु वेदो विज्ञेयः । यत्र श्रूयते धर्मानुशासनशब्दः सा श्रुतिः । यत्र च स्मर्यते सा स्मृतिः । तच् च समाचारे ऽप्य् अस्तीत्य् अतः सो ऽपि स्मृतिर् एव । न हि तत्राप्य् अस्मृतवैदिके शब्दे प्रामाण्यम् ।
-
अथ वा श्रुतिग्रहणं स्मृतेर् वेदतुल्यत्वार्थम् ।
-
किं पुनः श्रुतिस्मृतयोः समानं कार्यं यत् समाचारे64 ऽप्य् अन्येन प्राप्यते ।
- उच्यते । ते सर्वार्थेष्व् अमीमांस्ये । ते श्रुतिस्मृती । सर्वेष्व् अर्थेष्व् अत्यन्तासंभाव्येष्व् अपि दृष्टविषयैः प्रमाणैः, यथा तस्माद् एव हिंसालक्षणात् पदार्थात् क्वचिद् अभ्युदयः क्वचित् प्रत्यवायः, “सुरापानान् नरकः सोमपानात् पापशुद्धिः” इत्यादौ पक्षप्रतिपक्षगमनेन विचारो न कर्तव्यः । आशङ्कापक्षान्तरसंभावनं मीमांसनम् । यथा- “हिंसा चेत् पापहेतुः स्वरूपाविशेषाद् वैदिक्य् अपि तथा भवितुम् अर्हति; अथ वैदिक्य् अभ्युदयहेतुः, लौकिक्य् अपि तथा स्यात्, तद्रूपसमानत्वात्” । यस्य यद् रूपं वेदाद् अवगतं तस्य तद् विपरीतरूपसंभावनम् असत्तर्काश्रयैर् असम्यग्घेतुभिर् यद् विचारणं तत् सिद्धान्ताभिनिवेशः स इह प्रतिषिध्यते । न पुनर् अयम् अर्थो वेदस्याद्यः65 पूर्वपक्षः, उत स्विद् यः66 सिद्धान्त इत्य् एषा मीमांसा निषिध्यते । यतो वक्ष्यति-
-
यस् तर्केणानुसंधत्ते स धर्मं वेद नेतर । इति । (म्ध् १२.१०६)
-
किं पुनर् अयम् अदृष्टार्थो मीमांसनप्रतिषेधः ।
-
नेति ब्रूमः । ताभ्यां धर्मो हि निर्बभौ । अनेन तार्किकप्रमाणानां वेदार्थविपरीतसाधनानाम् आभासताम् आह । ईदृशा हि तेषां हेतवः- “वैदिकी हिंसा पापहेतुः, हिंसात्वात्, लौकिकहिंसावत्” । तत्र हिंसायां पापहेतुत्वं न कुतश्चिद् अन्यतः प्रमाणात् सिद्धम् अन्तरेणागमम् । एवं चेन् नास्ति हिंसायाः पापसाधनसिद्धौ हेतुः यावद् आगमः प्रामाण्येन नाभ्युपगतः । अभ्युपगते चागमप्रामाण्ये तद्विरुद्धो हेतुर् न युज्यते, अप्रामाण्यापत्तेर् आगमस्य । ततश् चेतरेतरव्याघातः । पूर्वं प्रामाण्येन परिग्रहः पश्चाद् अप्रामाण्यम् इति । सो ऽयं स्ववचनविरुद्धः पक्षः । नैनं तार्किका अन्य्मन्यन्ते, “मम माता वन्ध्या” इतिवत्, आगमविरुद्धश्67 च ।
-
अथोच्यते । नैवागमः प्रमाणम् । कथं तद्विरोधोद्भावनं दूषणम्, अनृतव्याघातपुनरुक्तदोषेभ्यः । कारीर्यादिकर्मणां तत्समनन्तरं फलार्थितयानुष्ठीयमानानां न नियमतो ऽनुष्ठानसमनन्तरं फलप्राप्तिः । कालान्तरे भविष्यतीति चेत्, उक्तम् अत्र ।
-
कृता शरदि कारीरी भृशं शुष्यत्सु शालिषु ।
-
वसन्ते जायते वृष्टिस् तस्या गोमरकः फलम्68 ॥ इति ।
यान्य् अप्य् अन्यत्रभाविफलानि ज्योतिष्टोमादीनि तत्रापि निरन्वयविनाशात् कर्मणो वर्षशते फलं भविष्यतीति निःसंदिग्धवैतालिकव्यवहारोपमम् एतत् । तस्माद् अनृतम् । व्याघातः- उदिते होतव्यम्, अनुदिते जुह्वतो दोषः- “प्रातः प्रातर् अनृतं ते वदन्ति पुरोदयाज् जुह्वति ये ऽग्निहोत्रम्” (ऐत्ब् ५.३१) । तथानुदिते होतव्यम्- “यथा अतिथये प्रद्रुताय दद्यात् तादृग् एतद् यज् जुहुयात्” (त्ब् २.१.२.१२) इत्य् एकत्रोदितहोमो विधीयते ऽनुदितहोमनिन्दया, तद् एव विपरीतम् अन्यत् । तत्र कः69 पक्ष आश्रीयताम् इत्य् अनध्यवसायः । यद् एवाग्निहोत्राद्य् एकस्यां शाखायां विद्यते तद् एव शाखान्तरे ऽपि । सर्वशाखाप्रत्ययम् एकं कर्मेत्य् अभ्युपगमः । ततश् च पुनरुक्तम् ।
- तत्रानृतम् एव तन् न भवतीत्य् एतेनैव पादेन प्रतिपाद्यते । यतो वेदाद् धर्म एव कर्तव्यतामात्रं यागादिविषयं निर्बभौ विभाति गम्यते, न पुनः कालविशेषः फलस्योत्पत्तौ, अधिकारवाक्येषु कालविशेषाश्रवणात् । विधितो हि फलं भवतीत्य् एतावद् गम्यते । कालावच्छेदो न विधिः । धात्वर्थसंबन्धिनो हि कालविभागा भूतभविष्यद्वर्तमानाः । न चैतद् धात्वर्थफलं70 किं तु वैधम् । धत्वर्थफलं हि तदानीम् एव निर्वर्तते देवतोद्देशेन द्रव्यत्यागो हविर्विकारादि । यदि कश्चित् कस्यचिद् आज्ञाकरो भवति, तेन प्रेष्यते “गच्छ, याहि ग्रामम्” इति । स आज्ञासंपादने प्रवृत्तः कदाचित् प्रारम्भ एव वेतनफलं लभते, कदाचिन् मध्ये, कदाचित् कृत आज्ञाविषये समन्तरम् अन्येदुर् वा कालान्तरे ऽथ वा । एवम् एतच् छास्त्रफलम् अनियतकालम् । दिव्यवृष्ट्यादेस् तु स्वाभाव्येन प्रत्यासत्तिमात्रं गम्यते, न तु तदहर् एवोत्पत्तिः ।
- प्रतिबन्धकानि च यथा फलस्यैवंविधस्य लोके भवन्ति, तथा वेदे ऽपि पुराकृतं दुष्कृतादि । तथा च वेद एवैतद् दर्शयति- “यदि न वर्षेत् तथैव वसेत्” इति । सर्वस्वारे तु विवदन्ते- “नैतत् क्रतुफलम् । अङ्गम् एतत् स्मरणम्71 । क्रतुफलं यः कामयेतानामयः स्वर्गलोकम् इयाम्”72 इति ।
यच् चोक्तं हिंसायां लोकवेदयोर् न विशेष इति, तत्र शास्त्रावगम्यो हि तस्या अयं स्वभावः, न प्रत्यक्षादिगोचरः । तत्र च भेदः । रागलक्षणा लौकिकी हिंसा, विधिलक्षणालौकिकी हिंसा । विधिलक्षणा त्व् अग्नीषोमीयस्येति महान् भेदः । तस्मान् न किंचिद् वेदे ऽनृतम् । व्याघातं परस्तात् परिहरिष्यति श्लोकेनैव ॥ २.१० ॥
यो ऽवमन्येत ते मूले हेतुशास्त्राश्रयाद् द्विजः ।
स साधुभिर् बहिष्कार्यो नास्तिको वेदनिन्दकः ॥ २.११ ॥
मेधातिथिः ...{Loading}...
असत्य् अप्रामाण्यहेतौ73 वेदस्य यो द्विजो हेतुशास्त्राश्रयात्, हेतुशास्त्रं नास्तिकतर्कशास्त्रं बौद्ध्चार्वाकादिशास्त्रम्, यत्र वेदो ऽधर्मायेति पुनः पुनर् उद्घुष्यते, तादृशं तर्कम् आश्रित्य यो ऽवज्ञां कुर्यात् श्रुतौ स्मृतौ च, केनचिद् अकार्यान् निवर्त्येत “मैवं कार्षीः, प्रतिषिद्धं वेदेन” इति, तम् अनादृत्य चिकीर्षेत्- “किं नाम74 यदि वेदे स्मृतिषु वा प्रतिषिद्धम्, न हि किंचित्75 तयोः सम्यक् प्रामाण्यम् अस्ति” इति कथयेत्, मनसा वा विचिन्तयेत् । तर्कशास्त्रेषु निबद्धादरो यदि दृश्येत, स साधुभिः शिष्टैर्76 बहिःकार्यः तिरस्कार्यस् तत्तत्कार्येभ्यो याजनाध्यापनातिथिसत्कारादिभ्यः । क्रियाविशेषस्यानिर्देशाद् विद्वदर्हेभ्य77 इति गम्यते । यतो ऽविदान् सम्यगसंस्कृतात्मा तार्किकगन्धितयैवं व्यवहरति । आसु च क्रियासु विदान् अधिक्रियते । अत एव पूर्वश्लोके विचार ईदृशः प्रतिषिध्यते यतस् तदवज्ञानपरतया क्रियते, न तु78 यतस् तदर्थविशेषजिज्ञासया । एवमर्थम् एव हेतुम् आह- नास्तिको वेदनिन्दकः । अतश् च पूर्वपक्षे यो वेदस्याप्रामाण्यं ब्रूयान् नासौ नास्तिकः स्यात् । सिद्धान्तदार्ढ्यार्थम् एव पूर्वपक्षे हेतुकथनम् । वेदनिन्दक इति स्मृतिग्रहणं न कृतम् । तुल्यत्वेनोभयोः प्रकृतत्वाद् अन्यतरनिर्देशेनैव सिद्धम् उभस्यापि ग्रहणम् इत्य् अभिप्रायः ॥ २.११ ॥
यस् त्व् एतम् अर्थम् अविदित्वा, वेदशब्दस्य विवक्षितार्थत्वम् एव मत्वा, स्मृतिनिन्दकस्य न बहिष्कारः, अनेन वेदनिन्दकस्यैव विहित79_ इति प्रतिपद्येत, तं प्रत्याह ।_
वेदः स्मृतिः सदाचारः स्वस्य च प्रियम् आत्मनः ।
एतच् चतुर्विधं प्राहुः साक्षाद् धर्मस्य लक्षणम् ॥ २.१२ ॥
मेधातिथिः ...{Loading}...
नात्र कश्चिद् विशेषः । वेदनिन्दाप्रतिषेधेन स्मृतिसदाचारात्मतुष्टीनाम् अपि निन्दकस्य बहिष्कारो ऽनेन विहितः । तेषाम् अपि वेदमूलधर्माभिधानम् । अतः स्मृत्यादिनिन्दको वेदनिन्दक एव ।
-
ननु श्लोकद्वयेन नार्थः । एवं वक्तव्यम्-
-
श्रुत्यादीन् आत्मतुष्ट्यन्तान् हेतुशास्त्राश्रयाद् द्विजः ।
-
यो निन्देत् स बहिष्कार्यः साधुभिर् नास्तिकत्वतः ॥
-
उच्यते । नाचार्या ग्रन्थगौरवं मन्यन्ते । बुद्धिगौरवं यत्नेन परिहरन्ति । तस्मिन् हि सति असम्यगवबोधो धर्मस्य । स च पुरुषार्थं विहन्ति । भेदनिर्देशे ऽपि हि चोदयेयुः- वेदग्रहणम् एव कर्तव्यम्, सर्वस्य धर्मस्य वैदिकत्वात् । तस्माद् विस्पष्टार्थं भेदेनोभयनिर्देशः, संक्षिप्तरुचीनां पूर्वश्लोकः, अन्येषां श्लोकद्वयम् ।
-
स्वस्य च प्रियम् आत्मनः इत्य् अनेन प्राग् उक्ता आत्मतुष्टिर् एवोक्ता । स्वग्रहणं वृत्तपूरणार्थम् । एतत् साक्षाद् धर्मस्य लक्षणम् निमित्तं ज्ञापकम्, न पुनः प्रत्यक्षम् । यथा नैरुक्तम् “साक्षात्कृतधर्माणः” इति (निर् १.२०) । विधाशब्दः प्रकारवचनः । एकम् एव धर्मे प्रमाणं वेदाख्यम् । तस्य त्व् एते भेदाः स्मृत्यादयः ।
-
अन्ये तूपसंहारार्थम् इमं श्लोकं व्याचक्षते, समाप्तं धर्मलक्षणप्रकरणम् इति । पुनःपाठः समाप्तिं सूचयति, यथा द्विरभ्यासो वेदाङ्गेषु “संस्थाजपेनोपतिष्ठन्त उपतिष्ठन्त” इति (आश्श् १.१३.१०) । तथा च पिण्डीकृत इव प्रागुक्तो ऽर्थो हृदि वर्तते । यथा नैयायिकाः “अनित्यः शब्दः”(न्सू-व् १.१.३३) इति प्रतिज्ञाय, साधनोपन्यासं कृत्वा, निगमयन्ति- “तस्माद् अनित्यः शब्दः” इति । प्रायेण चैषा ग्रन्थाकाराणां रीतिः । तथा महाभाष्यकारो ऽपि क्वचित् सूत्रं वार्तिकं वा पठित्वा व्याख्याय पुनः पठति ॥ २.१२ ॥
अर्थकामेष्व् असक्तानां धर्मज्ञानं विधीयते ।
धर्मं जिज्ञासमानानां प्रमाणं परमं श्रुतिः ॥ २.१३ ॥
मेधातिथिः ...{Loading}...
गोभूमिहिरण्यादिधनम् अर्थः । तत्र सक्तिस् तात्पर्येण तदर्जनरक्षणार्थं कृषिसेवादिव्यापारकरणम् । कामः स्त्रीसंभोगः । तत्र सक्तिः, नित्यं तदासेवनं तदङ्गानां च गीतवादित्रादीनाम् । तद्वर्जितानां पुरुषाणां धर्मज्ञानं धर्मावबोधो विधीयते विशेषेण धीयते, व्यवस्थितं भवति । “धीङ् आधाने”80 (ध्प् ११३६) इत्य् अस्यैतद् रूपम् ।
- किम् अर्थं पुनस् तत्र सक्तानां न81 भवति धर्मज्ञानम्, यावता ते ऽपि यथाक्षणं82 तदविरोधिन्य् अवसरे भोजनादाव् इतिहासश्रवणाद् अन्योपदेशात् समाचाराद् वा शक्नुवन्ति ज्ञातुम् । इत्य् अत आह- धर्मं जिज्ञासमानानाम् इति । मुख्यं प्रमाणं धर्मे वेदः, स च तैर् न शक्यो ज्ञातुम् । अत्यन्तदुर्विज्ञानो ह्य् असौ निगमनिरुक्तव्याकरणतर्कपुराणमीमांसाशास्त्रश्रवणम् अपेक्षते स्वार्थबोधे ।
-
न चेयान् ग्रन्थराशिः सर्वव्यापारपरित्यागेन विना शक्य आसादयितुम् । समाचारेतिहासादेः कतिपये धर्मा अवगम्यन्ते, न वेदादिवत् समस्ताङ्गयुक्तो ज्योतिष्टोमादिप्रयोगः । अत उक्तम्- प्रमाणं परमं श्रुतिः । न तु समाचारादेः प्रामाण्यापकर्षः । तद् उक्तम्-
-
यो ऽहेर् इव धनाद् भीतो मिष्टान्नाच् च विषाद् इव ।
-
राक्षसीभ्य इव स्त्रीभ्यः स विद्याम् अधिगच्छति ॥ (म्स्सं ४१२१)
-
अपरे त्व् अर्थकामा83 दृष्टफलैषिण उच्यन्ते । तत्र सक्तानां पूजाख्यात्यादिकामानां दृष्टफलार्थितया लोकपक्तिमात्रप्रयोजनानां न धर्मज्ञानं धर्मानुष्ठानं विधीयते उपदिश्यते ।
- ज्ञायते ऽस्मिन्न् इति ज्ञानम् अनुष्ठानम् इत्य् उच्यते । अनुष्ठीयमानो हि धर्मो व्यक्ततरो भवति, शास्त्रावगमकालतो ऽपि । अतो ऽनुष्ठानं धर्मज्ञानम् उच्यते । अत एतद् उक्तं भवति । यद्य् अपि धर्मानुष्ठानाल् लोकपक्त्यादि दृष्टं प्रयोजनम् उपलभ्यते,84 तथापि न तत्सिद्धिपरतया तत्र प्रवर्तितव्यम्, किं तर्हि, शास्त्रेण तच् चोदितम् इति कृत्वा । तथा च प्रवृत्तौ यदि दृष्टम् अपि भवति, भवतु, न विचार्यते । तथा च श्रुतिः स्वाध्यायस्य दृष्टं फलम् अनुवदति- “यशो लोकपक्तिः” इति, “लोकः पच्यमानश् चतुर्भिर् एनं भुनक्ति, अर्चया दानेनाज्येयतया85 चावध्यतया” इत्यादि (श्ब् ११.५.७.१) । श्लोकश् चात्र भवति ।
-
यथेक्षुहेतोर् इह सेचितं पयस् तृणानि वल्लीर् अपि च प्रसिञ्चति ।
-
तथा नरो धर्मपथेन संचरन् यशश् च कामांश् च वसूनि चाश्नुते ॥
-
ननु च यस्य यः स्वभावो ऽवगतः सो ऽन्योद्देशेनाप्य् अनुष्ठीयमानो न स्वभावच् च्यवते, करोत्य् एव तत्कार्यम् । यथा विषं औषधोद्देशेनापि पीतं हन्त्य् एव । अतो दृष्टार्थतयाप्य् अनुष्ठीयमानानि कर्माणि शास्त्रीयाण्य् अदृष्टार्थान्य् अपि भविष्यन्ति । को भवतो मत्सरो लोकावर्जनहेतुतया न प्रवर्तितव्यम् इति येनात्थ । अत आह । धर्मं जिज्ञासमानानाम् । वेदो धर्मे प्रमाणम् । तेन चैतद् उक्तम्- दृष्टफलकामार्थानां नादृष्टं भवति । न केवलम् अदृष्टं न भवति, यावत् प्रतिषिद्धसेवनाद् अधर्मो ऽपि भवति ॥ २.१३ ॥
श्रुतिद्वैधं तु यत्र स्यात् तत्र धर्माव् उभौ स्मृतौ ।
उभाव् अपि हि तौ धर्मौ सम्यग् उक्तौ मनीषिभिः ॥ २.१४ ॥
मेधातिथिः ...{Loading}...
प्राग् उक्तो व्याघातः परिह्रियते । यत्र श्रुत्योर् द्वैधम्, विरुद्धाभिधानम्, यं धर्मो ऽयम् इति काचिच् छ्रुतिर् आह, तम् एवाधर्मम् इत्य् अन्या । तत्र उभाव् अपि तौ धर्माव् अनुष्ठेयौ विकल्पेन ।
-
तुल्यबले हि ते श्रुती । तत्रेयं प्रमाणम् इयं नेत्य् अशक्यो विवेकः । अत “एकार्थतुल्यबलविरोधे विकल्पः” (च्ड़्। ग्ध् १.४) इत्य् उभाव् अपि तौ धर्माव् इत्य् उक्तम् । तत्र समुच्चयः प्राप्नोति । एवम् उभौ धर्मौ भवतः । अन्यथा एकः स्यात् ।
-
नेति ब्रूमः । पर्यायेणापि प्रयोगे नोभयशब्दस्य प्रवृत्तिविरोधः । न ह्य् अयं सापेक्ष्यद्वयविषय एव । न्याय्यश् च विकल्पः । यथाग्निहोत्राख्यम् एकं कर्म, तस्य कालत्रयम् उपदिष्टं । तत्र कर्म प्रधानम्, कालो गुणः । न चैकस्मिन् प्रयोगे कालत्रयसंभवः । न च कालानुरोधेन प्रोयोगावृत्तिर् युक्ता । नाङ्गानुरोधेन प्रधानम् आवर्तनीयम् । तस्मान् न्याय्यो ऽयम्, “तुल्यबलविरोधे विकल्पः” (ग्ध् १.४) इति वचनात्86 ।
-
उभाव् अपि हि तौ धर्मौ- ननु च को भेदस् तत्र धर्माव् इत्य् अस्माद् एतस्य ।
-
न कश्चित् । पूर्वेण स्वमतम् उपन्यस्तम् उत्तरेणान्यैर् अपि मनीषिभिर् एतद् एवोक्तम् इति स्वमतम् आचार्यान्तरमतसंवादेन द्रढयति ॥ २.१४ ॥
उदिते ऽनुदिते चैव समयाध्युषिते तथा ।
सर्वथा वर्तते यज्ञ इतीयं वैदिकी स्रुतिः ॥ २.१५ ॥
मेधातिथिः ...{Loading}...
उदाहरणम् इदं समनन्तरप्रदर्शिते87 विरोधे । य एते त्रयः काला इतरेतरनिन्दया होमस्य विहिताः, तत्रायम् अर्थः श्रुतिवाक्यानाम्- सर्वथा वर्तते यज्ञः । सर्वप्रकारो होमः प्रवर्तते, प्रवर्तनीय इत्य् अर्थः । या उदितहोमनिन्दा सा न तत्प्रतिषेधार्था, किं तर्ह्य् अनुदितहोमविध्यर्था । एवम् इतरत्रापि । तेनायम् अर्थ उक्तो भवति । सर्वथा कर्तव्य एतेषां कालानाम् अन्यतमस्मिन् काले । तत्र यस्मिन् कृतस् तत्र संपूर्णः शास्त्रार्थो भवति । इतीयं वैदिकी श्रुतिर् एवंपरा । अस्मिन्न् अर्थे ऽस्यास् तात्पर्यम्, न पुनर् निन्द्यमानप्रतिषेधे ।
- यज्ञः होमः, अत्राग्निहोत्राख्यो ऽभिप्रेतः, यागहोमयोर् यतो नात्यन्तं भेदः । देवताम् उद्दिश्य द्रव्यस्य स्वत्वत्यागः “नेदं मम, देवताया इदम्” इति यागः । एतच् च स्वरूपं होमे ऽप्य् अस्ति । अयं तु विशेषः- द्रव्यस्य88 होमे प्रक्षेपः अधिकः, आरोपणविशेषो89 ऽग्न्यादौ । अतो यज्ञशब्देनात्र होमस्याभिधानम् । होमे ह्य् एते कालाः श्रुताव् आम्नाताः, न यागमात्रे ।
-
उदितादिशब्दैश् च “उदिते होतव्यम्” इत्यादिका श्रुतिर् एकदेशेन लक्ष्यते । येयम् “उदिते होतव्यम्, नोदिते होतव्यम्” इति श्रुतिः सैवंपरेत्य् एवं योजना ।
-
समयाध्युषितशब्देन समुदायेनैवोषसः90 काल उच्यते ।
-
अन्ये तु पदद्वयम् एतद् इत्य् आहुः । समयशब्दः समीपवचनः समीपिनम् अपेक्षते । उदितानुदितयोः संनिधानात् तत्समीपी संध्याकालः । अध्युषितं रात्रेर् विवासकालः । व्युष्टायां रात्राव् इत्य् अर्थः । कासुचिच् छ्रुतिष्व् एवं पठितम्, कासुचिद् एवम् इति श्रुतिवाक्यानुकरणम् एषा स्मृतिः, तत्र किं पदद्वयम् एतद् उतैकम् इति तत एव निर्णयः ।
-
अतो विकल्पेनैकं होमाख्यं कर्म प्रति कालत्रयविधानान्91 नास्ति विरोधः । सिद्धरूपे हि वस्तुनीतरेतरविरुद्धरूपसमावेशासंभवात् स्याद् विरोधः, न साध्ये92 । साध्यं ह्य् अनेनापि सिध्यत्य् अनेनापित्य् अवगम्यते । तत्र कुतो विरोधः ।
- एष एव च स्मृतीनां विरुद्धानां विकल्पो न्याय्यः ॥ २.१५ ॥
निषेकादिश्मशानान्तो मन्त्रैर् यस्योदितो विधिः ।
तस्य शास्त्रे ऽधिकारो ऽस्मिञ् ज्ञेयो नान्यस्य कस्यचित् ॥ २.१६ ॥
मेधातिथिः ...{Loading}...
“विदुषा ब्राह्मणेनेदम् अध्येतव्यम्” (म्ध् १.१०३) इति पठन्ति । स चार्थवादः । तत्र तव्यप्रत्ययदर्शनात् कस्यचिद् विधिभ्रान्तिः स्यात् । तथा च सति क्षत्रियवैश्ययोर् अध्ययनं निवर्तत इत्य् एतदाशङ्कानिवृत्त्यर्थो ऽयं श्लोकः क्षत्रियवैश्ययोः प्राप्तिं दर्शयति । तथा यथाकामी शूद्रो ऽप्य् अप्रतिषेधाद् अध्येतुं प्रवर्तेत तन्निवृत्यर्थम् अपीत्य् एवम् इदं श्लोकं पूर्वे व्याचक्षरे ।
- शास्त्रशब्दो ऽयं मानवग्रन्थवचनः । अधिकारो मयैतद् अनुष्ठेयम् इत्य् अवगमः । न च शब्दराशेः सिद्धस्वभावस्यानुष्ठेयत्वावगतिः संभवति । न हि द्रव्यम् अनाश्रित्य क्रियाविशेषं साध्यतयावगम्यते । अतः शास्त्रविषयायां कस्यांचित् क्रियायाम् अधिकार इत्य् अवगम्यते । तत्र “कृभ्वस्तयस्” तावन् न विषयतया प्रतीयन्ते । भ्वस्त्योर् भवत्यर्थत्वात् । भ्वस्तिसंबन्धे ह्य् अयम् अर्थः प्रतीयते- “शास्त्रस्य यद् भवनं या च सत्ता ताम् अनुतिष्ठेत्” इति । न चान्यदीयायां सत्तायाम् अन्यस्यानुष्ठातृत्वसंभवः । करोत्यर्थे ऽपि न संभवति, पदानां नित्यत्वाद् वाक्यानां चान्येन कृतत्वात् । अतः शास्त्रसहचारिण्य् अध्ययनक्रिया प्रतीयते । अतो ऽयम् अर्थ उक्तो भवति । शास्त्राध्ययने तस्याधिकारः । यथैवाध्ययने तथैव तदर्थश्रवणे ऽपि93 ।
- ननु आदिमत्त्वान्94 मानवस्य ग्रन्थस्य कथं तद्विषयो विधिर् अनादिवेदमूल इति शक्यते वक्तुम् । उच्यते । यानि कानिचन शास्त्रप्रतिपादकानि वाक्यानि न तानि शूद्रेणाध्येयानीति शक्यते सामान्यतो ऽनुमानम् । यानि वेदवाक्यानि यानि तदर्थव्याख्यानवाक्यानि व्याख्यातॄणां तत्प्रतिरूपकाणि तान्य् अपि प्रवाहनित्यतया नित्यान्य् एव । अनुष्ठानं तु शास्त्रविषयः । तत्र चातुर्वर्णस्याधिकारः । ननु एवं सत्य् अनुपात्तकर्तृविशेषेषु सामान्यधर्मेषु शूद्रस्याधिकारप्रसङ्गः । यथा च95 न भवति तथा च96 तत्र तत्र कथयिष्यामः ।
- ननु कथम् अध्ययनावबोधाधिकारनिषेधे कर्माधिकारः । न ह्य् अविदितकर्मरूपस्य तदनुष्ठानसंभवः, न चाध्ययनम् अन्तरेण तदर्थावबोधसंभवः, न चावैद्यो ऽधिक्रियते । सत्यम् । परोपदेशाद् अपि यावत् तावत् सिद्ध्यति परिज्ञानम् । यं ब्राह्मणम् आश्रितः शूद्रो यो वार्थतः प्रवृत्तः स एनं शिक्षयिष्यतीदं कृत्वेदं कुर्व् इति । अतो न कर्मानुष्ठानप्रयुक्ते शूद्रस्याध्ययनवेदने, स्त्रीवत् परप्रत्ययाद् अप्य् अनुष्ठानसिद्धेः । यथा स्त्रीणां भर्तृविद्यैव प्रसङ्गाद् उपकरोति न कर्मश्रुतयो विद्यां प्रयुञ्जते । तेषाम् एव स्वप्रत्ययो ऽनुष्ठानहेतुर् येषां “स्वाध्यायो ऽध्येतव्यः” इति विधिर् अस्ति पुंसाम् । स च पुंसां त्रैवर्णिकानाम् । तेषाम् अपि नार्थज्ञानप्रयुक्ते ऽध्ययनवेदने, अपि तु विधिद्वयप्रयुक्ते आचार्यकरणविधिना स्वाध्यायाध्ययनविधिना97 च ।
-
निषेको गर्भाधानम्, स आदिर् यस्य संस्कारकलापस्य स निषेकादिः । गर्भाधानं च विवाहाद् अनन्तरं प्रथमोपगमे “विष्णुर् योनिं कल्पयतु” (र्व् १०.१८४.१) इति मन्त्रवत् केषांचिद् विहितम् । परेषाम् आ गर्भग्रहणात् प्रत्यृतु । श्मशानम् अन्तो ऽस्येति श्मशानान्तः । श्मशानशब्देन मृतश्रीराणि यत्र निधीयन्ते तत् स्थानम् उच्यते । तच् च साहचर्यात् प्रेतसंस्कारं पराचीम् इष्टिं लक्षयति । सा हि मन्त्रवती, न स्थानम् । अनेन च द्विजातयो लक्ष्यन्ते । तेषां हि मन्त्रवन्तः संस्काराः । द्विजातीनाम् इति नोक्तम् । विचित्रा श्लोकानां कृतिः स्वायंभुवस्यास्य मनोः ।
-
मन्त्रैर् उदित उक्तो विधिर् इति नायं संबन्धः । न हि मन्त्रा विधिं वदन्ति । किं तर्हि, प्रयोगावस्थस्य विधेयस्य स्मारकाः, न विधायकाः । तस्माद् एवं व्याख्येयम् । मन्त्रैर् युक्तः समन्त्रको येषाम् अयम् विधिर् इति ।
-
नान्यस्य कस्यचिद् इत्य् अनुवादः, द्विजातीनां नियतत्वात् । अथ वा कश्चिन् मन्येत द्विजातीनाम् अयं विहितो ऽवश्यकर्तव्यः । शूद्राणां त्व् अशिष्टो ऽप्रतिषिद्ध इति । तदाशङ्कानिवृत्त्यर्थम् इदम् उक्तम् ॥ २.१६ ॥
सरस्वतीदृषद्वत्योर् देवनद्योर् यद् अन्तरम् ।
तं देवनिर्मितं देशं ब्रह्मावर्तं प्रचक्षते ॥ २.१७ ॥
मेधातिथिः ...{Loading}...
उक्तानि धर्मे प्रमाणानि । विरोधे च विकल्पो ऽभिहितः । अधिकारिणश् च सामान्येनोक्ताः । इदानीं येषु योग्यतया धर्मो ऽनुष्टेयताम् आपद्यते ते देशा वर्ण्यन्ते । सरस्वती नाम नदी । अपरा दृषद्वती । तयोर् नद्योर् यद् अन्तरं मध्यं तं देशं ब्रह्मावर्त इत्य् अनया संज्ञया प्रचक्षते व्यवहरन्ति शिष्टाः । देवग्रहणम् अवध्यवधिमतोः स्तुत्यर्थम् । देवैः स निर्मितो ऽतः सर्वेभ्यो देशेभ्यः पावनतर इति ॥ २.१७ ॥
तस्मिन् देशे य आचारः पारंपर्यक्रमागतः ।
वर्णानां सान्तरालानां स सदाचर उच्यते ॥ २.१८ ॥
मेधातिथिः ...{Loading}...
अथास्मिन् देशे य आचारस् तस्य प्रामाण्ये किं विद्वत्ता शिष्टता चोपाधिर् अङ्गीक्रियते । अथाविदुषाम् अशिष्टानां च देशोपाधिर् एव प्रमाणम् । किं चातः । यदि नापेक्ष्यते, यत् तद् उक्तम् "आचारश् चैव साधूनाम्"(म्ध् २.६) इति विशेषणद्वयम् अनर्थकम् । न त्व् असाध्वाचारस्य धर्ममूलतोपपद्यते, वेदसंयोगासंभवात् । अथापेक्ष्यते, देशविशेषसंबन्धानुपकारः । न हि देशान्तरे ऽपि शिष्टसमाचारस्याप्रामाण्यं शक्यते वक्तुम् ।
-
उच्यते । प्रायिकम् एतद् अभिधानम् । प्रायोवृत्त्यासमिन् देशे शिष्टानां संभव इत्य् उक्तम्- तस्मिन् देशे य आचारः स सदाचार इति ।
-
अन्ये तु, देशान्तरे मातुलदुहितुः परिणयनाद् देशाचारनिषेधार्थम् इदम् इत्य् आहुः ।
-
तद् अयुक्तम् । अविशेषेणैवोक्तम्-
-
तद् देशकुलजातीनाम् अविरुद्धं प्रकल्पयेत् । (म्ध् ८.४६)
स च विरुद्धः “ऊर्ध्वं सप्तमात् पितृबन्धुभ्यः । । । मातृबन्धुभ्यश् च पञ्चमात्” (ग्ध् ४.३, ५) इत्य् एतेन । अस्मिन्न् अपि देशे ऽनुपनीतेन सह भोजनादिर् आचारो नैव धर्मत्वेनेष्यते । न च स्मृतिविरुद्धस्याचारस्य प्रामाण्यसंभवः, श्रुतिविप्रकर्षात् । आचारात् स्मृतिर् अनुमातव्या, स्मृतेः श्रुतिः । स्मृतिस् त्व् अव्यवहिताम् एव श्रुतिम् अनुमापयति । किं च कारणग्रहाच् चैवमादेर् आचारस्य । रूपवतीं मातुलकन्यां कामयमाना राजभयाद् ऊढवन्तः, कन्यागमनं98 दण्डो मा भूद् इति ।
- अन्ये त्व् अविद्वांसः “येनास्य पितरो याताः” (म्ध् ४.१७८) इत्य् अस्य यथाश्रुतम् अर्थं गृहीत्वा धर्मो ऽयम् इति प्रतिपन्नाः । अपि च99 “एतास् तिस्रस् तु भार्यार्थे नोपयच्छेत” (म्ध् ११.१७३) इति प्रायश्चित्तं श्रुतम् अपि, भ्रान्तिहेतुः “आभ्यस् तिसृभ्यो ऽन्या न प्रतिषिद्धा” इति । यथा चास्य नायम् अर्थस् तथा वक्ष्यामः ।
-
न च दृष्टकारणयोः स्मृत्याचारयोः प्रामाण्यम् । उक्तं भट्टपादैः-
-
विरुद्धा च विगीता च दृष्टार्था दृष्टकारणा ।
-
स्मृतिर् न श्रुतिमूला स्याद् या चैषा संभवश्रुतिः ॥[^१०२]
तस्मात् “एतान् द्विजातयो देशान् संश्रयेरन्” (म्ध् २.२४) इत्य् एतद्विधिशेषा देशप्रशंसार्थवादा एते ।
- परंपरैव पारंपर्यम् । अन्यस्माद् अन्यम् उपसंक्रामति, तस्माद् अन्यम्, ततो ऽप्य् अन्यम् इत्य् एवंरूपः प्रवाहः परंपरा । क्रमः तदविच्छेदः, तत आगतः संप्राप्तः । संकीर्णयोनयः अन्तरालाः । तत्सहितानां वर्णानाम् ॥ २.१८ ॥
कुरुक्षेत्रं च मत्स्याश् च पञ्चालाः शूरसेनकाः ।
एष ब्रह्मर्षिदेशो वै ब्रह्मावर्ताद् अनन्तरः॥ २.१९ ॥
मेधातिथिः ...{Loading}...
देशनामधेयान्य् एतानि । कुरुक्षेत्रं100 समन्तपञ्चकं प्रसिद्धम् । कुरवस् तत्र क्षयं गताः । “कुरु101 वा सुकृतं क्षिप्रम् अत्र त्राणं भविष्यति”102 इत्य् व्युत्पत्तिः । मत्स्यादयः शब्दा बहुवचनान्ता एव देशवचनाः । ब्रह्मर्षिदेश इति समुदायसंज्ञा । देवनिर्मितो देशो ब्रह्मावर्तः । देवेभ्यः किंचिन् न्यूना ब्रह्मर्षय इत्य् अतो ऽयं देशो ब्रह्मर्षिसंबन्धाद् ब्रह्मावर्तान् न्यूनः । तथा चाह- ब्रह्मावर्ताद् अनन्त्रः ईषद्भिन्नः । नञ् ईषदर्थः । यथा “अनुष्णां यवागूं पिबेद् आमयावी” इतीषदुष्णाम् उपदिशन्ति । अन्तरशब्दो भेदवचनः, “नारीपुरुषतोयानाम् अनतरं महद् अन्तरम्” इति यथा ॥ २.१९ ॥
एतद्देशप्रसूतस्य सकाशाद् अग्रजन्मनः ।
स्वं स्वं चरित्रं शिक्षेरन् पृथिव्यां सर्वमानवाः ॥ २.२० ॥
मेधातिथिः ...{Loading}...
एतेषु देशेषु कुरुक्षेत्रादिषु प्रसूतस्य अग्रजन्मनः ब्राह्मणस्य सकाशात् स्वं स्वं चरित्रम् आचारं शिक्षेरन् जिज्ञासेरन् । “तस्मिन् देशे” (म्ध् २.१८) इत्य् अनेनैतद् व्याख्यातम् ॥ २.२० ॥
हिमवद्विन्ध्ययोर् मध्यं यत् प्राग् विनशनाद् अपि ।
प्रत्यग् एव प्रयागाच् च मध्यदेशः प्रकीर्तितः ॥ २.२१ ॥
मेधातिथिः ...{Loading}...
उत्तरस्यां दिशि हिमवान् पर्वतः, दक्षिणस्यां विन्ध्यः । विनशनं सरस्वत्या अन्तर्धानदेशः । प्रयागः गङ्गायमुनयोः संगमः । एतान् देशान् अवधीकृत्य103 मध्यं मध्यदेशनामानं देशं विद्यात् । नात्युत्कृष्टो नातिनिकृष्ट इत्य् अतो ऽयं मध्यदेशः, न तु पृथिवीमध्यभवत्वात् ॥ २.२१ ॥
आ समुद्रात् तु वै पूर्वाद् आ समुदाच् च पश्चिमात् ।
तयोर् एवान्तरं गिर्योर् आर्यावर्तं विदुर् बुधाः ॥ २.२२ ॥
मेधातिथिः ...{Loading}...
आ पूर्वसमुद्राद् आ पश्चिमसमुद्राद् यो ऽन्तरालवर्ती देशअः, तथा तयोर् एव पूर्वश्लोकोपदिष्टयोर् गिर्योः पर्वतयोर् हिमवद्विन्ध्ययोर् यद् अन्तरं मध्यं स आर्यावर्तो देशो बुधैः शिष्टैर् उच्यते । आर्या वर्तन्ते तत्र पुनः पुनर् उद्भवन्त् । आक्रम्याक्रम्यापि न चिरं तत्र म्लेच्छाः स्थातारो भवन्ति । आङ् अत्र मर्यादायाम्, नाभिविधौ । तेन समुद्रद्वीपानि नार्यावर्तः । एते चतसृषु दिक्षु देशावधय उपात्ताः । प्राच्यां पूर्वसमुद्रः, प्रतीच्यां पश्चिमः, उदग्दक्षिणयोर् हिमवद्विन्ध्यौ । एतौ ह्य् अवधित्वेनोपात्तौ, न तयोर् आर्यावर्तत्वम् अस्ति । अतस् तत्र निवासाभावे प्राप्त इदम् आह ॥ २.२२ ॥
कृष्णसारस् तु चरति मृगो यत्र स्वभावतः ।
स ज्ञेयो यज्ञियो देशो म्लेच्छदेशस् त्व् अतः परः ॥ २.२३ ॥
मेधातिथिः ...{Loading}...
कृष्णश्वेतः कृष्णपीतो वा कृष्णसारङ्गो104 मृगो यत्र चरति निवसति । संभव उत्पत्तिर् यत्र देशे तस्य स्व्भावतः, न पुनर् देशान्तरात् प्राशस्त्योपायनादिना निमित्तेनानीतस्य कियन्तम् अपि कालं निवासः । स देशो यज्ञियो यागार्हो बोद्धव्यः । अतः कृष्णमृगचरणात् परो ऽन्यो म्लेच्छदेशः । म्लेच्छाः प्रसिद्धाः । चातुर्वर्ण्यजात्यपेताः प्रतिलोमजातीया अनधिकृता105 मेदान्ध्रशबरपुलिन्दादयः ।
-
न चानेन यागाधिकरणतास्य देशस्य विधीयते, “समे यजेत” इतिवत्, चरतीति वर्तमाननिर्देशात् । न हि यत्रैव चरितुं प्रवृत्तस् तदैव तत्र यागः शक्यः कर्तुम् । यागस्य हि देशो ऽधिकरणम्, तत्साधनकर्त्रादिकारकाश्रितद्रवादिधारणद्वारेण । न च द्वयोर् मूर्त्तयोर् एककाले एकदेशे स्थनसंभवः । न च कालान्तरलक्षणा न्याय्या, विधौ लक्षणाया अन्याय्यत्वात् । यथोकं शूर्पाधिकरणे- “एतद् धि क्रियत इत्य् उच्यते” (शब् १.२.२६) इति ।
-
ननु च नाभिव्यापक एवाधेयः, येन कृत्स्नाधाराभिव्याप्त्यैवाधिकरणार्थनिर्वृत्तिः स्यात्, “तिलेषु तैलम्” (श्वेउ १.१५) इतिवत् । किं तर्हि, एकदेशसंबन्धिनाप्य् आधेयेन भवति कृत्स्नस्याधारभावः, “प्रासाद आस्ते”, “रथं अधितिष्ठति” इति (च्ड़्। पाण् १.४.४५) । एवम् हि ग्रामनगरसमुदायस्य नदीपर्वतान्ताद्यवधिकस्य देशस्य प्रकृतत्वाद् एकदेशे ऽपि पर्वतारण्यादौ चरन् सर्वम् आधारीकरोति । तेनायम् अदोषः मूर्तयोर् नैकदेशः संभवति ।
-
उच्यते । नैवात्र यष्टव्यम् इति विधिर् अस्ति । जानातेः परो विधायकः106 श्रुतः, न यजेः । यागस्य तत्रार्हता श्रुता, यागार्हो ऽसौ देश इति । सा च यागार्हतासत्य्107 अपि विधौ घटते । एतेषु देशेषु यागाङ्गानि दर्भपलाशखदिरादीनि प्रायेण च भवन्ति । अधिकारिणश् च त्रैवर्णिका त्रैविद्याश्108 च तेष्व् एव देशेषु दृश्यन्ते । अत एतदवलम्बनो यागार्हतानुवादः । कृत्यो ऽपि “ज्ञेयः” इत्य् अध्यारोपितविध्यर्थः “जर्तिलयवाग्वा जुहुयाद्” (सेए मुरोय) इतिवद् विधिवन् निगदार्थवाद एव ।
- यच् चोक्तम् म्लेच्छदेशस् त्व् अतः परः इत्य् एषो ऽपि प्रायिको ऽनुवाद एव । प्रायेण ह्य् एषु देशेषु म्लेच्छा भवन्ति । न त्व् अनेन देशसंबन्धेन म्लेच्छा लक्ष्यन्ते,109 स्वतस् तेषां प्रसिद्धेर् ब्राह्मणादिजातिवत् । अथार्थद्वारेणायं शब्दः प्रवृत्तो म्लेच्छानां देश इति । तत्र यदि कथंचिद् ब्रह्मावर्तादिदेशम् अपि म्लेच्छा आक्रमेयुः, तत्रैवावस्थानं कुर्युः, भवेद् एवासौ म्लेच्छदेशः । तथा यदि कश्चित् क्षत्रियादिजातीयो राजा साध्वाचरणो म्लेच्छान् पराजयेत्, चातुर्वर्ण्यं वासयेत्, म्लेच्छांश् चार्यावर्त इव चाण्डालान् व्यवस्थापयेत्, सो ऽपि स्याद् यज्ञियः । यतो न भूमिः स्वतो दुष्टा, संसर्गाद् धि सा दुष्यत्य् अमेध्योपहतेव । अत उक्तदेशव्यतिरेकेणापि सति सामग्र्ये त्रैवर्णिकेनाकृष्णमृगचरणे ऽपि देशे यष्टव्यम् एव । तस्माद् अनुवादो ऽयम् स ज्ञेयो यज्ञियो देशो म्लेच्छदेशस् त्व् अतः परः इत्य् उत्तरविधिशेषः ॥ २.२३ ॥
एतान् द्विजातयो देशान् संश्रयेरन् प्रयत्नतः ।
शूद्रस् तु यस्मिंस् तस्मिन् वा निवसेद् वृत्तिकर्शितः ॥ २.२४ ॥
मेधातिथिः ...{Loading}...
यदर्थं देशसंज्ञाभेदकथनं तम् इदानीं विधिम् आह । एतान् ब्रह्मावर्तादीन् देशान् द्विजातयो देशान्तरे ऽपि जाताः संश्रयेरन्110 । जन्मदेशं त्यक्त्वा ब्रह्मावर्तादिदेशसंश्रयणं प्रयत्नेन कर्तव्यम् ।
- अत्र केचिद् आहुर् अदृष्टार्थ एवायम् एतद्देशसंश्रयणविधिः । सत्य् अपि देशान्तरे111 ऽधिकारसंभवे एतेषु देशेषु निवासः कर्तव्यः । तत्र कल्प्याधिकारत्वे,112 यदि वा गङ्गादितीर्थस्नानवद् एतद्देशनिवासविधिः पावनत्वेन कल्प्यते । यथैव काश्चिद् आपः पवित्रतरा एवं भूमिभागा अपि केचिद् एव पवित्राः, यथोक्तं पुराणे । यदि वा संश्रयणाद् एव स्वतन्त्रात् स्वर्गो विश्वजिद्वत् ।
- तत्रैतौ द्वाव् अपि पक्षाव् अप्राप्तौ । यद्य् अप्राप्तः संश्रयो विधीयते, कल्प्येताप्य् अधिकारः । तत्र चिन्त्यते । कतरः पक्षो युक्त इति । स तु नित्यकाम्यानाम्113 उक्तया रीत्या एतद्देश एवानुष्ठानसंभवाद् अधिकृतानां प्राप्त एव । न ह्य् एतद्देशव्यतिरेकेण कृत्स्नधर्मानुष्ठानसंभवः । तथा हि, हिमवति तावत् काश्मीरादौ शीतेनार्दिता न बहिः संध्योपासने ऽधिक्रियन्ते, न च यथाविधि स्वाध्यायसंभवः “प्राग् वोदग् वा ग्रामाद् उपनिष्क्रम्य” इति । न हि हेमन्तशिशिरयोर् अहर् अहर् नदीस्नानादिसंभवः ।
- इदम् एव च द्विजातय इति वचनलिङ्गम्114 । न कश्चिद् एव देशो ऽसति म्लेच्छसंबन्धे स्वत एव म्लेच्छदेशः । अन्यथा तद्देशसंबन्धान् म्लेच्छत्वे कथं द्विजातित्वम् ।
-
अथोच्यते । न गमनमात्रान् म्लेच्छता, अपि तु निवासात् । स चानेन प्रतिषिध्यते ।
-
तच् च न । संश्रयो ऽत्र श्रूयते । स च देशान्तरे भवतस् तत्त्यागेनान्यदेशसंबन्धः । न संश्रितस्यैव संश्रयणम् । अन्यथा एवम् एवावक्ष्यत्- एतान् देशांस् त्यक्त्वा नान्यत्र निवसेत् । अथ सिद्धे संश्रयणे तद्वचनम् अन्यनिवृत्तियर्थम् इति, परिसंख्या तथा स्यात् । तस्याश् च त्रयो दोषाः । अथ श्रुतार्थहानिर्115 लक्ष्यते- “एतान् देशान् न जह्यात्” इति । न श्रुतार्थसंभवे लक्षणा युक्ता । अत एव न भूतपूर्वगतिः । तस्माल् लिङ्गम्116 इदं न देशसंबन्धेन पुरुषा म्लेच्छाः, किं तर्हि, पुरुषसंबन्धेन म्लेच्छदेशता ।
- शूद्रस्य द्विजातिशुश्रूषाया विहितत्वात् तद्देशनिवासे सर्वदा प्राप्ते तत्राजीवतो देशान्तरनिवासो ऽभ्यनुज्ञायते । यदा बहुकुटुम्बतया शुश्रूषाशक्त्या वा यं द्विजातिम्117 आश्रितः स एनं118 बिभृयात्, तदा देशान्तरे संभवति धनार्जने निवसेत् । तत्रापि न म्लेच्छभूयिष्ठे, किं तर्हि, याज्ञिये, म्लेच्छावृते यानासनाशनादिक्रियानिमित्तस्य संसर्गस्यापरिहार्यत्वात् तद्भावापत्तिप्रसङ्गात् ।
एषा धर्मस्य वो योनिः समासेन प्रकीर्तिता ।
संभवश् चास्य सर्वस्य वर्णधर्मान् निबोधत ॥ २.२५ ॥
मेधातिथिः ...{Loading}...
अतिक्रान्तस्य सर्वस्य ग्रन्थार्थस्य पिण्डार्थकथनम् अविस्मरणार्थम् । योनिः कारणम् । समासेन संक्षेपेण । संभवश् चेति प्रथमाध्यायार्थावमर्शः । अस्य सर्वस्येति । जगन्निर्माणं बुद्ध्या प्रत्यक्षीकृत्य निर्दिशति । वर्णानुष्ठेया धर्मा वर्णधर्माः । तान् निबोधत । विस्तरेणेति विशेषः ।
- इह पञ्चप्रकारो धर्म इति स्मृतिविवरणकाराः प्रपञ्चयन्ति- वर्णधर्म आश्रमधर्मो वर्णाश्रमधर्मो नैमित्तिको122 गुणधर्मश् चेति । तत्र यो जातिमात्रम् अपेक्ष्य प्रवृत्तो न वयोविभागाश्रमादिकम् आश्रयति स वर्णधर्मः । यथा “ब्राह्मणो न हन्तव्यः,” ब्राह्मणेन सुरा न पेया" इति । जातिमात्रस्यान्त्याद् उच्छ्वासाद् एष धर्मः । आश्रमधर्मो यत्र जातिर् नापेक्ष्यते केवला, तदाश्रमप्रतिपत्तिर्123 आश्रीयते । यथा “ब्रह्मचारिणो ऽग्नीन्धनभिक्षाचरणे” (ग्ध् २.८) । वर्णाश्रमधर्म उभ्यापेक्षः । यथा “मौर्वी ज्या क्षत्रियस्य” (म्ध् २.४२) इत्यादिः । नाश्रमान्तरे न च जात्यन्तरस्य धारणम् अस्या उदाहरणम् । प्रथमोपादानं तूपनयनधर्मो124 नाश्रमधर्मः । उपनयनं चाश्रमार्थं125 नाश्रमधर्मः । नैमित्तिको द्रवशुद्ध्यादिः । गुणम् आश्रितो गुणधर्मः, “षड्भिः परिहार्यश् च” (ग्ध् ८.१२) इत्यादिः । बाहुश्रुत्येन गुणेनैते धर्माः । एवम् अभिषिक्तस्य क्षत्रियस्य ये धर्माः ।
- तद् एतद् वर्णग्रहणेन सर्वं गृहीतम् इति दर्शितम् । अवान्तरभेदस् तु तत126 एवावतिष्ठते । पुरुषत्वमात्राश्रिता अवर्णधर्मा अपि सन्ति । ते ऽपि भेदेन वाच्याः स्युः । एवम् अन्यो ऽपि भेदो ऽभ्यूह्यः । वर्णग्रहणं चात्र प्रदर्शनार्थम्, नान्तरप्रभवव्युदासार्थम् । पूर्वं प्रतिज्ञातत्वात् तदनुवादिनी ह्य् एषा प्रतिज्ञा ॥ २.२५ ॥
वैदिकैः कर्मभिः पुण्यैर् निषेकादिर् द्विजन्मनाम् ।
कार्यः शरीरसंस्कारः पावनः प्रेत्य चेह च ॥ २.२६
मन्त्रप्रयोगा वैदिककर्माणि । वेदा मन्त्रा इहाभिप्रेताः । तेषां यान्य् उच्चारणानि तानि तत्र भवानि । अतो ऽध्यात्मादित्वाठ् ठक् । वेदमूलत्वाद् वोपचरितो वैदिकशब्दः । कर्मशब्देन च इतिकर्तव्यतारूपं कर्म गृह्यते । ततश् च कर्मभिर् निषेकादिः संस्कारः कार्य इति साध्यसाधनभेदोपपत्तिः । प्रधानं निषेको मन्त्रोच्चारणम् इतिकर्तव्यता ।
- निषेको योनौ शुक्रनिक्षेपः । स आदिर् यस्य संस्कारकलापस्य वक्ष्यमाणस्योपनयनपर्यन्तस्य । एकवचनं शरीरसंस्कार इति समुदायापेक्षम् । संस्कारशब्देन च सगुणशरीरनिर्वर्तकम् उच्यते । तत्र निषेको निर्वर्तको ऽन्यानि127 विशेषजनकानि ।
- एतद् एवाह- पावन इति । पावयति अशुद्धताम् अपकर्षतीति पावनः । प्रेत्य चेह चेति । संस्कृतस्य सर्वत्रात्र दृष्टादृष्टफलेषु कर्मसु कारीरीज्योतिष्टोमादिष्व् अधिकाराद् उभयलोकोपकारकत्वम् आह । पुण्यैः शुभैर् मङ्गलैर् इति यावत् । सौभाग्यम् आवहन्ति दौभाग्यं चापनुदन्तीति पुण्यपावनशब्दयोर् अर्थभेदः । द्विजमनाम् इति शूद्रपर्युदासार्थम् । संस्कार्यनिर्देशश् चायम् । लक्षणया च त्रैवर्णिकाः प्रतीयन्ते । न हि तदानीं द्विजन्मानो भवन्ति ॥ २.२६ ॥
गार्भैर् होमैर् जातकर्मचौडमौञ्जीनिबन्धनैः ।
बैजिकं गार्भिकं चैनो द्विजानाम् अपमृज्यते ॥ २.२७ ॥
मेधातिथिः ...{Loading}...
उक्तं संस्कारप्रयोजनं पावनः शरीरसंस्कारः पुण्यश् च । तत्र पावनत्वम् उच्यते- दुष्टस्य दोषापकर्षणम् ।
-
कुतः पुनः शरीरस्य दुष्टतेत्य् आशङ्कायाम् आह । बैजिकं गार्भिकं चैन इति । बीजे भवं बीजनिमित्तं वा बैजिकम् । एवं गार्भिकम् । एनः पापम् अदृष्टं दुःखकारणम् । तस्य बीजगर्भयोर् निमित्तभावाद् शुचित्वमात्रम् इहोच्यते । शुक्रशोणिते पुरुषस्य बीजम् । ते च स्वभावाद् अशुचिनी । गर्भाधान्य् अपि दोषसंक्रान्त्या दुष्टैव । अतस् तन्निमित्तम् अशुचित्वं पुरुषस्य संस्कारैर् अपमृज्यते ऽपनुद्यते ।
-
तान् इदानीं128 कांश्चिन् नामधेयेन, कांश्चित् संस्कार्यविशेषोपलक्षितान् कृत्वा निर्दिशति । गार्भैर् होमैः । गर्भे संभ्हुते नार्याः क्रियन्ते । गर्भं वा ग्रहीतुम् गर्भप्रयोजनकत्वाद् गार्भाः । नारी तत्र द्वारमात्रम् । प्रयोजकस् तु गर्भ एव । अतस् तत्प्रयुक्तत्वाच् च तदर्था होमाः पुंसवनसीमन्तोन्नयनगर्भाधानानि । होमशब्द उपलक्षणार्थः कर्ममात्रस्य । न हि गर्भाधानं होमः । एतेषां च कर्मणां दर्व्यदेवतादिरूपं गृह्यस्मृतिभ्यो ऽवसातव्यम् । यथैव गार्भैर् होमैर् एवं जातकर्माख्येन संस्कारेण । एवं चौडेन । चूडार्थः चौडः । मौञ्जीनिबन्धनम् उपनयनम् । तत्र हि मुञ्जविकारो मेखला बध्यते । अतस् तेनोपनयनकर्मोपलक्ष्यते । बन्धनम् एव निबन्धनम् । निः वृत्तपूरणः । जातकर्मादीनि संस्कारनामधेयानि कृतद्वन्द्वानि करणविभक्त्या एनोपमार्जनस्य निर्दिश्यन्ते ।
- संस्कारश् च सर्वः संस्कार्ये कार्यान्तरशेषभूते कृतार्थे करिष्यमाणार्थे वा कंचिद् दृष्टम् अदृष्टं वा विशेषम् आदधाति । “व्रीहीन् अवहन्ति” (आप्श्१.२१.७) इति, “व्रीहिभिर् यजेत” (श्ब् ११.३.१.३) इति यागं निर्वर्तयिष्यतां तुषकणविप्रमोक्षो दृष्टो विशेष आदधाति129 । “शिरसो ऽवतार्य स्रजं शुचौ देशे निदधाति” इति उपभुक्ताया आकीर्णाकारायाः प्रतिपत्तिनियमाद् अदृष्टः स्रजो विशेषः । तत्रेमे संस्काराः श्रीरशुद्ध्यर्थाः श्रुताः । न च गन्धाध्यपकर्षणं मृद्वारिसंबन्धाद् इव शरीरे दृश्यते । तेनेयं जन्मादिकालशुद्धिवद् अदृष्टविशेषा शुद्धिर् वेदितव्या । एतया च शुद्ध्या पूतः श्रौतस्मार्तेषु कर्मस्व् अधिक्रियते । यथा मन्त्रपूतम् आज्यं होमे । लौकिके तु कार्ये द्रव्यशुद्ध्यैव शुद्धिर् यथाज्यस्य भोजनादौ । स्पृष्यता हि कुमारस्य “अद्भिर् गात्राणि शुद्ध्यन्ति” (म्ध् ५.१०८) इत्य् एतावतैव भवति । तथा चाह- “न तदुपस्पर्शनाद् अशौचम्” (ग्ध् २.३) इति ।
-
कथं पुनः कर्मार्थत्वम् एतेषाम् । युक्तम् उत्पवनस्याज्यद्वारकं प्रकरणेन विनियोगात् । अमी तु बाह्या न कस्यचित् कर्मणः प्रकरणे श्रुताः । अतः पुरुषद्वारिका कर्मार्थता दुर्भणा । न चासति कार्योपयोगे स्वरूपतः संस्कार एव निर्वर्त्यः । तथा सति संस्कार्तैव हीयेत प्रधानकर्मता स्यात् । अतश् च “कार्यः शरीरसंस्कार” इति, “कुमारे जाते पुरान्यैर् आलम्भात्” (आश्ग् १.१३.१) इति च द्वितीया श्रुतिर् बाध्येत, “शत्रूञ् जुहोति” इतिवद् विनियोगभङ्गः स्यात् । तत्र चाधिकारकल्पनेत्यादिबह्वसमञ्जसं प्राप्नोति ।
-
उच्यते । न वयं श्रुत्यादिप्रामाण्यापेक्षं130 तादर्थ्यम् अङ्गलक्षणं ब्रूमः, अपि तूपकारकत्वम् । तच् चानङ्गत्वे ऽप्य् उपपद्यते । यथाधानविधिः स्वाध्यायाध्ययनविधिश् च । न ह्य् अत्र श्रुत्यादयः सन्ति । यदाहवनीये जुहोतीत्याहवनीयादयो विनियुक्ताः । अलौकिकत्वाच् च तत्स्वरूपस्याधानविधिनैव सिद्धिः “वसन्ते ब्राह्मणो ऽग्नीन् आदधीत” इति (त्ब् १.१.२.६) । अत आहवनीयादिनिर्वृत्तिद्वारेणाधानं क्रतुषूपयुज्यते । न चाङ्गम् । अध्ययनविधिर् अप्य् अर्थावबोधद्वारेण क्रतूपकारकः । एवम् अमी संस्काराः । एतत्संकृतस्याध्ययनविधिः, निष्पादिताध्ययनविध्यर्थस्य131 विवाहः, कृतविवाहस्याधानम्, आहिताग्नेर् अधिकार इत्य् अस्ति संस्कारकार्योपयोगिता बाह्यपुरुषसंस्काराणाम् ।
- निषेकग्रहाच् च सर्वत्रापि पितुर् अधिकारः । तथा च जातकर्मणि मन्त्रः “आत्मा वै पुत्रनामासि” (श्ब् १४.९.४.२६) इति । तस्य ह्य् अपत्योत्पादनम् अपत्यानुशासनं च विहितम् । “ऋणानि त्रीण्य् अपाकृत्य” (म्ध् ६.३५) इति । “तस्माद् अनुशिष्टं पुत्रं लोक्यम् आहुः” (बाउ १.५.१७) इति । अनुशासनं च स्वाधिकारप्रतिपादनम्, तच् च वेदाध्यापनेनार्थावबोधपर्यन्तेन भवतीति वक्ष्यामः । अत एवोभयोपकारकाः संस्काराः, अपत्योत्पत्तिविधौ पितुर् माणवकस्य च संस्कृतसाध्यासु क्रियासु । तस्मात् पितुर् अधिकारस् तदभावे तत्स्थानापन्नस्य । तथा चाह “असंस्कृतास् तु संस्कार्या भ्रातृभिः पूर्वसंस्कृतैः” (य्ध् २.१२८) इति ॥ २.२७ ॥
येषु कर्मसु माणवकस्य संस्कारा उपकारकास् तान् इदानीम् उदाहरणमात्रेण दर्शयति ।
स्वाध्यायेन व्रतैर् होमैस् त्रैविद्येनेज्यया सुतैः ।
महायज्ञैश् च यज्ञैश् च ब्राह्मीयं क्रियते तनुः ॥ २.२८ ॥
मेधातिथिः ...{Loading}...
अध्ययनक्रिया स्वाध्यायशब्देनात्राभिप्रेता । तस्या एष विषयनिर्देशस् त्रैविद्येनेति । व्यवधाने ऽप्य् अर्थलक्षणः संबन्धो “यस्य येनार्थसंबन्धः” इति न्यायेन । अत एव सामानाधिकरण्ये ऽपि श्रुतेर्132 विषयविषयिभावो विभक्तिविपरिणामेन, त्रयाणां वेदानाम् अध्ययनेनेत्य् अर्थः । त्रय एव वेदाः त्रैविद्यं । चातुर्वर्ण्यादिवद् रूपसिद्धिः । अथ वा स्वाध्यायेन इति वेदाध्ययनम्, त्रैविद्येन इति तदर्थावबोधः । व्रतैः सावित्रादिभिर् ब्रह्मचारिकर्तृकैः133 । होमैर् व्रतादेशनकाले ये क्रियन्ते । यदि वा सायंप्रतः समिद्भिर् अगीन्धनं ब्रह्मचारिणो होमशब्देनाग्न्याधारसंबन्धसामान्याद् उच्यते । अथ किं समिदाधानं न होमो येनैवम् उच्यते संबन्धसामान्याद् इति । न भवतीति ब्रुवन्ति अदनीयद्रव्यसाध्यत्वाद् यागहोमयोः । कथं तर्हि,
- सायं प्रातश् च जुहुयात् ताभिर् अग्निम् अतन्द्रितः । (म्ध् २.१८६)
इत्य् उक्तम् । लक्षणया समिदाधानं होमशब्देनोच्यते । यथैव हूयमानं द्रव्यम् अग्नौ प्रक्षिप्यते एवं समिन्धनार्थाः समिधो ऽपि । अत एतेन सामान्येन समिन्दनम् एव होम इत्य् उच्यते । उत्पत्तिवाक्ये हि “समिधम् आदध्यात्” इति श्रुतम् । “जुहुयात् ताभिर् अग्निम्” इत्य् अग्निम् इत्य् अनुवादो ऽयम् अन्यार्थ इति परस्ताद् वक्ष्यामः । न चानुवादे लक्षणादोषः ।
-
इदं तु युक्तं यन् मेध्यमात्रद्रव्यसाध्यौ यागहोमौ । तथा च सति बह्व्यश् चोदना यथार्था भवन्ति । यथा “सूक्तवाकेन प्रस्तरं प्रहरति” (आप्श् ३.६.६) इति । तत्र हि प्रस्तरं द्रव्यम् आहुर् हरतिं च यजतिं । अथ वचनाद् असौ तादृश एव यागः । दर्भाश् चाप्य् अदनीयाः केषांचित् । कथं शाकलहोमे । तत्रापि हि “शकलान्य् अभ्यादधाति” इत्य् उत्पत्तिर् इति चेद् ग्रहयज्ञे का गतिः । ग्रहेभ्य एकैकस्यै समिधो जुहुयाद् अर्कादीनाम् । अतो यत्र जुहुयाद् इति देवतासंबन्धश् च काष्ठादेर् अपि श्रुत उत्पत्तिवाक्ये सो ऽपि होम एव ।
-
इज्यया देवर्षितर्पणेन । एष तावद् उपनीतस्य ब्रह्मचर्ये किर्याकलापः ।
-
इदानीं गृहस्थधर्माः । सुतैर् अपत्योत्पत्तिविधिना । महायज्ञैः पञ्चभिर् ब्रह्मयज्ञादिभिः । यज्ञैः श्रौतैर् ज्योतिष्टोमादिभिः ।
-
ननु यद्य् एषां कर्मणां किंचित् प्रयोजनं स्यात् तदा तदधिकारयोग्यतोत्पत्त्यर्था बाह्याः संस्कारा अर्थवन्तः स्युः । अत आह- ब्राह्मीयं क्रियते तनुः । ब्रह्म परमात्मा कारणपुरुषः, तस्येयं संबन्धिनी तनुः शरीरम्, एतैः श्रौतस्मार्तैः सर्वैः कर्मभिः क्रियते । ब्रह्मसंबन्धिता च तद्भावापत्तिलक्षणा । स हि परः पुरुषार्थः । संबन्धान्तराणि सर्वस्य कस्यचित् कारणत्वेन सिद्धत्वान् नाभिलषितव्यानि । ततो मोक्षप्राप्तिर् उक्ता भवति । ब्राह्मीत्य् अनेन तनुशब्देन च तदधिष्ठाता पुरुषो लक्ष्यते । तस्य ह्य् एते शरीरद्वारकाः संस्काराः । तस्यैव च मोक्षप्राप्तिः, शरीरस्य पञ्चतापत्तेः ।
-
अन्ये त्व् आहुर् ब्रह्मत्त्वप्राप्तौ योग्या क्रियते । न हि कर्मभिर् एव केवलैर् ब्रह्मत्वप्राप्तिः, प्रज्ञानकर्मसमुच्चयात् किल मोक्षः । एतैस् तु संस्कृत आत्मोपासनास्व् अधिक्रियते । तथा च श्रुतिः- “य एतद् अक्षरं गार्ग्य् अविदित्वा यजते जुहोति तपस् तप्यते अधीते ददात्य् अन्तवद् एवास्य तद् भवति” (बाउ ३.८.१०) इति ।
-
ननु च नैतेषां कर्मणां ब्रह्मप्राप्तिः फलं श्रुतम् । तथा हि नित्यानि तावद् अश्रुतफलान्य् एव । कल्पनायां च पौरुषेयत्वम् । यावज्जीवादिपदैश् च नित्यताया अवगमितत्वाद् विश्वजिन्न्यायो ऽपि नास्ति । अथास्माद् एव वचनाद् एतत्पलत्वम् इति यद् उच्येत, मोक्षार्थिनः तदाधिकारः स्यात् तथा च नित्यत्वहानिस् ततश् च श्रुतिविरोधः । निष्फलं न काश्चिद् अनुतिष्ठति तत्रानर्थक्यम् इति चेत् कामम् अनानुष्ठानम्134 ।
-
प्रमाणस्य प्रमेयावगतिर् अर्थः । सा चेत् कृता जातम् अर्थवत्त्वम् । अस्ति चात्र कर्तव्यतावगतिः । सत्यां च तस्याम् अकरणे शास्त्रार्थातिक्रमस् ततश् च प्रत्यवायः । ईदृश एवर्थे लिङादीनां वृद्धव्यवहारे व्युत्पत्तिः । यो हि भृत्यादिः कर्तव्यं न करोति कस्यचिद् आज्ञातुः स वेतनार्थी वेतनं न लभते, यदि वा प्रयवायेन योज्यते । तत्र फलस्याश्रुतत्वान् न फलानुत्पत्तिः प्रत्यवायः, अपि तु दुःखेन योजनं नित्येषु । एवं सर्वपुरुषाधिकारो नित्यः समर्थितो भवति । तस्मान् न नित्यानां किंचित् फलम् । काम्यानां त्व् अन्यद् एव फलम्, न मोक्षः, श्रुतत्वात् । तत्र कथम् एतत् सर्वकर्मानुष्ठानसाध्यः परः पुरुषार्थ इति ।
-
अत एव कैश्चिद् अर्थवादो ऽयम् इति व्याख्यायते । संस्कारविधिः स्तुत्यर्थः । अत्र च ब्राह्मीयम् इति यत्किंचिद् आलम्बनम् आश्रित्य गुणवादेन नीयते । ब्रह्म वेदस् तदुच्चारणार्था तत्कर्माधिकारिणी च । यत् तर्हि गौतमेनोक्तम्- “चत्वारिंशत् संस्काराः” (ग्ध् ८.८) इति, तत् कथम् । तत्र हि सोमसंस्थापि संस्कारत्वेनोक्ता । न च प्रधानकर्मणां संस्कारत्वोपपत्तिः । नाप्य् एतद् अर्थवादतया शक्यं व्याख्यातुम् अविशेषत्वात् ।
-
तत्राप्य् आत्मगुणशेषसंस्कारत्वाध्यारोपेण स्तुतिः । एवम् इहापि संस्कारैः संस्कारान् समानीकृत्य तुल्यफलताध्यारोपेण संस्काराणाम् अवश्यकर्तव्यताम् आचष्टे । तथा च संस्कारप्रकरणान् नोत्कृष्यते । स्तुतिः क्रियते इति च वर्तमानापदेशः । न विधिविभक्तिः । तत्र कुतो ब्रह्मप्राप्तेः फलत्वावगमः । न चात्र कर्माणि विधीयन्ते, येनाधिकाराकाङ्क्ष्यायां सत्य् अपि वर्तमाननिर्देशे रात्रिसत्रे प्रतिष्ठावत् फलनिर्देशः स्यात् । तस्मात् संस्कारस्तुत्यर्थम् एव सर्वम् एतद् उच्यते ।
-
ये ऽपि विभागेन वर्णयन्ति नित्यानां ब्रह्मप्राप्तिफलं काम्यानां तु यथाश्रुतम् एव तद् अप्य् अप्रमाणम्, सर्वस्यास्यार्थवादत्वात् । अन्तरेण च फलं नित्येष्व् अनुष्ठानसिद्धेः प्रतिपादितत्वात् । तद् उक्तम् “कामात्मता न प्रशस्ता” इति (म्ध् २.२) ॥ २.२८ ॥
प्राङ् नाभिवर्धनात् पुंसो जातकर्म विधीयते ।
मन्त्रवत् प्राशनं चास्य हिरण्यमधुसर्पिषाम् ॥ २.२९ ॥
मेधातिथिः ...{Loading}...
वर्धनं छेदनम् । जातकर्मेति कर्मनामधेयम् एतत् । रूपं चास्य गृह्यस्मृतिभ्यो ज्ञातव्यम् । कस्य पुनः कर्मणो जातकर्मेति नाम । तदर्थम् उक्तं प्राशनं हिरण्यमधुसर्पिषाम् । अस्य इति दारकं व्यपदिशन्ति, कर्म वा- अस्य जातकर्मण इदं प्रधानं यन् मन्त्रवत् प्राशनम् इति । समन्त्रकं मन्त्रेण कर्तव्यम् इत्य् अर्थः । मन्त्रस्य चेहानुक्तत्वात्, स्मृतीनां चैकार्थ्याद् यद् अन्यत्रोक्तं तद् अत्रापि प्रतीयते । तेन गृह्यस्मृतिषु ये मन्त्रा उपात्तास्135 तैर् मन्त्रवद् इति द्रष्टव्यम् ।
- यदि गृह्यस्मृतयो ऽपेक्षन्ते द्रव्यनिर्देशो136 ऽपि न कर्तव्यः । एवं हि तत्र पठ्यते- “सर्पिर्मधुनी हिरण्यनिकाषं हिरण्येन प्राशयेत्, प्र ते ददामि मधुनो घृतस्य” इति (आश्ग् १.१३.१) । किं च बह्व्यो गृह्यस्मृतयः, भिन्नाश् च प्रतिगृह्यमन्त्राः, अन्यापि भिन्नेतिकर्तव्यता, तत्र काश्रीयताम् इति न विद्मः । अथ चरणसमाख्या नियामिका भविष्यति, व्यर्थस् तर्हि जातकर्माद्युपदेशस् तत एव सिद्धेः । कठानां गृह्यं बह्वृचां आश्वलायनानां च गृह्यम् इति यद् येन समाख्यायते स तद् उक्तम् अनुष्ठास्यतीति ।
- उच्यते । द्रव्यादिनिर्देशेन137 सुस्पष्टं कर्मैकत्वम् इति प्रतीयते । तथा हि प्रत्यबिज्ञासिद्धिः । तद् द्रव्यम् एवेदं138 तन्नामधेयकं139 चेदं कर्मातस् तद् एवेदम् इति, भूयसा दृष्टं तद्गुणयोगेन प्रत्यभिज्ञायते । सति चैकत्वे यद् अङ्गजातं क्वचिन् नोक्तं तद् अविरुद्धम्140 अन्यत आनेतव्यम् । यथा सर्वशाखाप्रत्ययम् एकं कर्म, एवं सर्वस्मृतिप्रत्ययम् अपि । यत् तु बहुत्वाद् गृह्यस्मृतीनां141 काश्रीयताम् इत्य् अनध्यवसायः । सर्वासां प्रामाण्याविशेषाद् एकार्थानां च विकल्पः भिन्नार्थानां समुच्चयः । चरणसमाख्या तु नैव नियामिका । यतो न समाख्यया पुरुषस्य नियतः संबन्धः गोत्रप्रवरवत् । यैव शाखा येनाधीता स एव तथा समाख्यायते “कठो बह्वृचः” इति । न चाध्ययने नियमो ऽस्त्य् अनेनेयं शखाध्येतव्येति । अनेकशाखाध्ययनम् अप्य् अस्ति, “वेदान् अधीत्य” (म्ध् ३.२) इति । तत्र त्रिवेदाध्यायिनः सर्वे व्यपदेशाः प्रवर्तन्ते ।
- के ऽप्य् ऊचुः कौथुमाः कठा142 बह्वृच इति तत्रावश्यं विकल्प आस्थेयः । एकशाखाध्यायिनस् तु यद् गृह्यं यया शाखया समाख्यायते तदुक्तम् एव तस्य युक्तं कर्तुम् । एष हि तदुक्तम् एव शक्नोति कर्तुं तच्छाकामन्त्रा एव तेनाधीताः, शक्नोति तान् प्रयोक्तुम् । तम् एव वा वृतं वेद । वेदने च कर्मानुष्ठानार्थं वेदाध्ययनं येन तावतो मन्त्रान् कर्मोपयोगिनो ऽध्येष्यत इति ।
-
उच्यते । स्वाध्यायविधिवशेन वेदाध्ययनम् । अनधीतवेदस्य नाधिकारः । न च कर्मप्रयुक्तम् अध्ययनम् । अत इयं समाख्या मन्त्रविशेषविनियोगनिमित्तैव “कठानां गृह्यम्” “वाजसनेयिनां गृह्यम्” इति । यस्यां शाखायां ये मन्त्रा अधीतास् ते यत्र बाहुल्येन विनियुक्तास् तद्गृह्यं तथा समाख्यायते । प्रमाणं गृह्यस्मृतिः । सा कठानाम् इयम् इति व्यपदिश्यमाना बह्वृचानाम् अपि स्वार्थावगमनं करोत्य् एव । कर्तव्यता वेदस्य स्वार्थे स्मृतीनां च । अवगतायां च कर्तव्यतायां कर्तृविशेषाश्रवणे स्वाधिकारो न स्याद् यथा च तनूनपाति प्रयाजे वसिष्ठानाम्, निषेधाद् वा पतितम् । न चेह द्वयम् अप्य् अस्ति । न च शक्यं कल्पयितुं न हि कठानां बाह्वृच्यं न प्रमाणम्, बह्वृचानां वा काठकम्, यतो य एव कत्ःअः स एवाकथो ऽसति तच्छाकाध्ययने । गोत्रं तु नियतम् इत्य् असमानः ।
-
एष एवार्थः143 “स्वसूत्रं यः परित्यज्य परसूत्रेण वर्तते” इति । तद् एव स यद् अधीते तदर्थः शक्यो ऽनुष्ठातुम्144 । तेन यः145 स्वाधीतां शाखाम् अतिक्रम्य पित्राद्यधीतशाखया कर्माणि कुर्यात्, तद्गृह्यं च समाश्रयेत्, तस्य146 शाखात्यागदोषः । पित्रादीनां वा शाखात्यागः यैर् माणवकः क्रमाधीतां शाखां नाध्यापितः । मानवकस्यात्र दोषो नास्ति । यदा मृतपितृको जाबालवद् अयं बालः स्वयम् आचार्यम् आश्रयेत्, तदा “येनास्य पितरो याताः” (म्ध् ४.७८) इत्य् अनेन शास्त्रेण सैवाध्यतुं युक्ता स्यात् । अथात्मशाखाध्ययनं न संभवति, तदा स्वशाखात्यागः ।
-
अतः स्थितम् इदम् । सर्वं सर्वासु स्मृतिषु जातकर्माद्य् उपदिश्यते । तत्र भिन्नार्थम् अङ्गजातं स्मुच्चीयते, विरुद्धं विकल्प्यते समानार्थं च च ।
-
पुंस इति स्त्रीनपुंसकव्यावृत्त्यर्थम् ।
-
अन्ये त्व् अविवक्षितं पुमर्थं मन्यन्ते, द्विजन्मनाम् इति सामान्येन त्रैवर्णिकानां संस्कार्यत्वेन प्रकृतत्वात् । संस्कार्यश् च प्रधानम् उद्देशो न च प्रधाने लिङ्गसंख्यादिविशेषणं विवक्ष्यते । “ग्रहं संमार्ष्टि” इति सत्य् अप्य् एकवचने सर्वे ग्रहाः संमृज्यन्ते ।
-
ज्वरितं ज्वरम् उक्तं च दिनान्ते भोजयेन् नरम् ।
इति नार्या अपि ज्वरिताया एष एव भोजनकालः । तथा च प्राप्तप्रतिषेधः । स्त्रीणां “अमन्त्रिका तु कार्येयं स्त्रीणाम् आवृत्” इति (म्ध् २.६६) । नपुंसकानां च पाणिग्रहणदर्शनं “यद्य् अर्थिता तु दारैः स्यात् क्लीबादीनाम्” इति (म्ध् ९.२०३) ।
- तत्रोच्यते । नायं पुंशब्दो मनुष्यजातिवचनो नरशब्दवद् येन विभक्तिवाच्यं लिङ्गं न विवक्ष्येत । एष हि सर्वत्र147 स्थावरमूर्तामूर्तगतं लिङ्गविशेषं प्रसवरूपम् आचष्टे । प्रातिपदिकार्थो ह्य् अत्र लिङ्गम् । विभक्तिवाच्यस्य ह्य् अर्थस्य विवक्षाविवक्षे युज्येते । यतो न विभक्तेर् वचनम् एवैकं प्रयोजनम्, कर्माद्यर्थान्तराभिधानेनाप्य् अर्थवत्त्वात् । इह त्व् अविवक्षायाम् आनर्थक्यम् एव प्राप्नोति पुंश्पदस्य । यथा तत्रैव ग्रहप्रातिपदिकार्थो विवक्ष्यते वाक्यानर्थक्यपरिहाराय ।
- अथोच्येत- न प्रत्ययार्थमात्रस्य विवक्षा । कृत्स्नो ऽपि पदार्थ उद्दिश्यमानविशेषणं148 न विवक्ष्यते । यथा “यस्योभयं हविः” इति सत्य् अप्य् उभयपदश्रवणे दधिपयसोर् अन्यतरावृत्ताव् अपि तद् एव प्रायश्चित्तं । न विवक्षित उभयशब्दः ।
-
अत्र केचित् परिहारम् आहुः । नैतत् तेन समानम् । न हि हविरर्थः पञ्चशरावः । हविर्विनाशे हि नैमित्तिको ऽधिकारः । इह तु माणवकार्था एव संस्काराः ।
-
एष त्व् अप्रोयोजको विशेषः । वाक्यभेदभयाद् विशेषणविवक्षा नेष्यते । तादर्थ्ये ऽपि वाक्यभेदो नैवापैति । तस्माद् अयं परिहारः । एतद् एवोत्पत्तिवाक्यं जातकर्मणः । “वैदिकैः कर्मभिः” (म्ध् २.२६) इत्य् एतद् उपक्रमम् । तत्र पुमान् एव संस्कार्यतया निर्दिष्टः । तदविवक्षायां वाक्यानर्थक्यम्, यथा तत्रैव हविःपदं विवक्ष्यते ।
-
यद्य् एवं शूद्रस्यापि प्राप्तिं जतिविशेषानिर्देशात् । न प्राप्स्यति, मन्त्रसाध्यत्वात् । अथ वा द्विजन्मनाम् इति वाक्यशेषको भविष्यति । न च तदानीं विधेयार्थविषयत्वेन निर्दिष्टो येन तत एव संस्कार्यावगतौ पुंस इत्य् एतद् उभयपदवद् अविवक्षितम् आशङ्क्येत ।
-
स्त्रीणां त्व् अप्राप्ते ऽपि विधानम् उपपद्यते । क्लीबस्यापि दारदर्शनम् । वातरेता यः कॢइब उभयव्यञ्जनो ऽप्रवृत्तेन्द्रियो वा । बहुप्रकारव्यावृत्तिकरं जातकर्मादिसंस्कारकाले ऽपरिच्छेद्यत्वाच् छक्यप्रतीकारत्वाच् च । न च यो न नियतो धर्मः सो ऽधिकारं व्यावर्तयति, यथाद्रव्यत्वम्, न ह्य् अद्रव्यत्वं149 नियतं जातिवत् । य एवाद्रव्यः सो ऽपि द्रव्यवान् भवति । चिरम् अधनो भूत्वा भवत्य् अह्ना महाधनः । ईदृशस्यैव षण्ढस्य वधे पलालभारकशुद्धिः । स ह्य् असंस्कृतो ऽनुपनीतः शान्त्यै न कस्यचित् तिष्ठति ।
- अतः स्थितं पुंशाम् एवैते संस्कारा एभिर् विधीयन्ते । विध्यन्तरेण स्त्रीणाम् अमन्त्रकाः । नपुंसकस्य नैव सन्तीति ॥ २.२९ ॥
नामधेयं दशम्यां तु द्वादश्यां वास्य कारयेत् ।
पुण्ये तिथौ मुहूर्ते वा नक्षत्रे वा गुणान्विते ॥ २.३० ॥
मेधातिथिः ...{Loading}...
दशम्यां तिथौ द्वादश्यां वस्य दारकस्य नामधेयं कुर्वीत । णिजर्थो न विवक्षितः । तथा च गृह्यम्- “दशम्याम् उत्थाप्य पिता नाम करोति” (पार्ग् १.१७.१) इति । नामैव नामधेयम् । येन शब्देन कार्येष्व् आहूयते तन् नाम । “प्राङ् नाभिवर्धनात्” (म्ध् २.२९) इति जातकर्मणः प्रकृतत्वाज् जन्मनः प्रभृति दशमीद्वादश्यौ गृह्येते न चन्द्रतिथी ।
-
इह केचिद् दशमीग्रहणम् आशौचनिवृत्तिर् इत्य् उपलक्षणार्थं वर्णयन्ति । अतीतायाम् इति चाध्याहारः दशम्याम् अतीतायां ब्राह्मणस्य द्वादश्यां क्षत्रियस्य पञ्चदश्यां वैश्यस्येति ।
-
तद् अयुक्तं150 । लक्षणायां प्रमाणाभावाज् जातकर्मवद् आशौचे ऽपि करिष्यते । यदि तु ब्राह्मणभोजनं विहितं क्वचित् तदा युक्ता लक्षणा । यदि दशमीद्वादश्यौ वक्ष्यमाणगुणयुक्ते भवतः तदा तयोः कर्तव्यम् । अथ न, तदान्यस्मिन्न् अपि पुण्ये ऽहनि । पुण्यान्य् अहानि द्वितीयापञ्चम्यादीनि । पुण्यं प्रशस्तम्, नवमीचतुर्दश्यादयो रिक्तास् तिथयः अपुण्याः । मुहूर्तो लग्नं कुम्भादि । तस्मिन् पुण्ये पापग्रहैर् अनधिष्ठिते गुरुभ्यां च दृश्यमाने । लग्नशुद्धिर् ज्योतिषाद् अवगम्यते । नक्षत्रे च गुणयुक्ते । नक्षत्रं श्रविष्ठादि, तद् यस्मिन्न् अहनि गुणयुक्तं भवति । नक्षत्रगुणाश् च क्रूरग्रहपापग्रहविष्टिव्यतीपातविवर्जितम्151 । वाशब्दः समुच्चये । तेन प्रशस्तायां तिथौ नक्षत्रे च शुद्धे लग्न इत्य् उपदिष्टं भवति । समुच्चयश् च ज्योतिषावगम्यः । अयं च परमार्थः । दशमीद्वाधशमीभ्याम् अर्वाङ् न कर्तव्यम् । उत्तरकालं च यद् अहर् नक्षत्रं लग्नं परिशुद्धं तद् अहर् एव कर्तव्यम् ॥ २.३० ॥
इदानीं यादृशं नाम कर्तव्यं तन् नियमयति स्वरूपतो ऽर्थतश् च ।
मङ्गल्यं ब्राह्मणस्य स्यात् क्षत्रियस्य बलान्वितम् ।
वैश्यस्य धनसंयुक्तं शूद्रस्य तु जुगुप्सितम् ॥ २.३१ ॥
मेधातिथिः ...{Loading}...
तत्र स्वरूपम् अवधारयिष्यन्न् आह । मङ्गलाय हितं तत्र वा साधु माङ्गल्यम् इति व्युत्पत्तिः । “अभिमतस्यार्थस्य चिरजीवित्वबहुधनादेर् दृष्टादृष्टसुखफलस्य सिद्धिः” मङ्गलम् । तदभिधानम् एव शब्दस्य हितत्वं साधुत्वं चेति तद्धितसिद्धिः । साधुत्वं नाभिप्रेतार्थसिद्धिप्रतिपादनम् एव विवक्षितम् । किं तर्हि, य आशास्यते तद्वचनेनैव सिद्धिः । समासाद् आयुःसिद्धिः धनसिद्धिः पुत्रलाभ इत्यादेः प्रतीयते । तद्धिताद् वा हितनिमित्तप्रयोजनार्थीयात् । तत्र गृह्ये तद्धितान्तं प्रतिषिद्धम्- “कृतं कुर्यान् न तद्धितम्” (पार्ग् १.१७.२) इति । समासे ऽपि पदद्वयैकार्थीभावस् तत्र बह्वक्षरप्रयोगप्रसङ्गाः152 । यतो वक्ष्यति “शर्मवद् ब्राह्मणस्य” (म्ध् २.३२) इत्य् उपपदनियमम् । तत्र चतुरक्षरे त्र्यक्षरे वा नाम्नि शर्मशब्दे चोपपदे पञ्चाक्षरं षडक्षरं नाम भवति । तच् च प्रतिषिद्धम् “द्व्यक्षरं चतुरक्षरं वा कुर्यात्” (पार्ग् १.१७.२) इति । तेन यद् यत् किंचित् प्रायेण सर्वस्याभिलषणीयम् अगर्हितं पुत्रपशुग्रामकन्याधनादि तद्वचनाः शब्दा नामधेयत्वेन153 विनियोक्त्व्याः शर्मान्ताः । तेन गोशर्मा धनशर्मा हिरण्यशर्मा कल्याणशर्मा मङ्गल्यशर्मेत्यादिशब्दपरिग्रहः सिद्धो भवति ।
-
अथ वा मङ्गलं धर्मस् तत्साधनं मङ्गल्यं नाम । कतमत् पुनर् धर्मसाधनं नाम । य एते देवताशब्दाः इन्द्रो ऽग्निर् वायुः । तथा ऋषिशब्दाः । वसिष्ठो विश्वामित्रो मेधातिथिः । तेषाम् अपि धर्मसाधनम् अस्ति । ऋषींस् तर्पयेत् पुण्यकृतो मनसा ध्यायेद् इति ।
-
देवतानाम् ऋषीणां च द्विजानां पुण्यकर्मणाम् ।
-
प्रातः प्रबुद्धः श्रीकामो नरो नामानि कीर्तयेत् ॥ इति ।
मङ्गल्यग्रहणाच् च यद् अप्रशस्तं यमो मृत्युर् इत्यादि तन् निरस्यते, यच् चानर्थकं डित्थादि यदृच्छानिमित्तम् ।
- क्षत्रियस्य बलान्वितम् । बलसंयुक्तं बलवाचि । अन्वयः संबन्धह् । शब्दस्यार्थेन संबन्धः प्रतिपादकभाव एव । सामर्थ्यं बलं तद् येन येन154 प्रतिपाद्यते तादृशं नाम क्षत्रियस्य कर्तव्यम् । शत्रुंतपः दुर्योधनः प्रजापाल इत्यादि । येन155 विभागेन च नामनिर्देशो जातिचिह्नम् ।
- एवं वैश्यस्य धनसंयुक्तम् । न चात्र पर्याया एव गृह्यन्ते “धनं वित्तं स्वापतेयम्” (अम्क् २.९.९०) इति । किं तर्हि, येन प्रकारेण प्रतिपत्तिः । यदि वा धनादिशब्दप्रयोगाद् अर्थसंबन्धाद्156 वा, धनकर्मा महाधनः गोमान् धान्यग्रह इति ।
- एवं सर्वत्र द्रष्टव्यम् । तथा चान्वितादिशब्दप्रयोगो बलान्वितं धनसंयुक्तम् इति । इतरथा एवम् एवावक्ष्यद् “बलनामानि कुर्यात्” इति । स्वल्पत्वाद् बलाद्यर्थवाचिनाम्157 आनन्त्याच् च पुरुषव्यक्तीनां दुरवधाने भेदे व्यवहारोच्छेद एव स्यात् ।
- शूद्रस्य जुगुप्सितम् । कृपणको दीनः शबरक इत्यादि ॥ २.३१ ॥
शर्मवद् ब्राह्मणस्य स्याद् राज्ञो रक्षासमन्वितम् ।
वैश्यस्य पुष्टिसंयुक्तं शूद्रस्य प्रेष्यसंयुतम् ॥ २.३२ ॥
मेधातिथिः ...{Loading}...
अत्र स्वरूपग्रहणं पाठानुक्रमश् चादौ मङ्गल्यम् अन्ते शर्मशब्दः158 । तथा चोदाहृतम् । क्षत्रियादिनाम्नां तु नैतत् संभवति, रक्षाशब्दस्य स्त्रीलिङ्गस्य श्रवणात् पुंसां सामानाधिकरण्यानुपपत्तेः । तस्माद् एकोपक्रमत्वात् समाचाराच् च सर्वत्रार्थग्रहणं । वाक्यभेदाच् च समुच्चयः । यन् मङ्गल्यं तच् छर्मार्थवत् । शर्म159 शरणम् आश्रयः सुखं च । अर्थग्रहणात् स्वामिदत्तभभूत्यादिशब्दपरिग्रहः । इन्द्रस्वामीन्द्राश्रयः इन्द्रदत्तः160 । तदाश्रयता प्रतीयते । एवं सर्वत्रोन्नेयम् ।
-
अथ को ऽयं हेतुर् वाक्यभेदात् समुच्चय इति । “व्रीहिभिर् यजेत,” “यवैर् यजेत” इति किं न समुच्चय इति ।
-
उच्यते । लिङ्गदर्शनमात्रम् एतत् पौरुषेयत्वात् ग्रन्थस्य । विकल्पे ऽभिप्रेते मङ्गल्यं शर्मवद् वेति लाघवाद् अवक्ष्यत् । वाक्यभेदे हि द्विराख्यातोच्चारणम् । तद् गुरु भवति ।
-
रक्षा परिपालनम्, पुष्टिर् वृद्धिर् गुप्तिश् च । गोवृद्धो धनगुप्त इति । प्रेष्यो दासः । ब्राह्मणदासो देवदासो ब्राह्मणाश्रितो देवताश्रित इति ॥ २.३२ ॥
स्त्रीणां सुखोद्यम् अक्रूरं विस्पष्टार्थं मनोहरम् ।
मङ्गल्यं दीर्घवर्णान्तम् आशीर्वादाभिधानवत् ॥ २.३३ ॥
मेधातिथिः ...{Loading}...
पुंस इत्य् अधिकृतत्वात् स्त्रीणाम् अप्राप्तौ नियम्यते । सुखेनोद्यते सुखोद्यम् । स्त्रीबालैर् अपि यत् सुखेनोच्चारयितुं शक्यते तत् स्त्रीणां नाम कर्तव्यम् । बाहुल्येन स्त्रीणां स्त्रीभिर् बालैश् च व्यवहारस् तेषां च स्वकरणसौष्टवाभावान्161 न सर्वं संस्कृतं शब्दम् उच्चारयितुं शक्तिर् अस्ति । अतो विशेषेणोपदिश्यते । न तु162 पुंसाम् असुखोद्यम् अभ्यनुज्ञायते । उदाहरणं मङ्गलदेवी चारुदती सुवनदेत्यादि । प्रत्युदाहरणं शर्मिष्ठा सुश्लिष्टाङ्गीति । अक्रूरम् अक्रूरार्थवाचि । क्रूरार्थवाचि क्रूरार्थं डाकिनी परुषेति । विस्पष्टार्थं यस्यार्थो व्याख्यानगम्यो न भवति, श्रुत एव विदुषाम् अविदुषां वार्थप्रतीतिं करोति । अविस्पष्टार्थं यथा- कामनिधा कारीषगन्ध्येति । कामस्य निधेव निधा तया कामस् तत्रैव तिष्ठतीति । एवं यावन् न व्याख्यातं तावन् नावगम्यते । एवं कारीषगन्धेर् दुहिता कारीषगन्ध्येति व्याख्यानम् अपक्ष्यते । मनोहरं चित्ताह्लादकरम्- आश्रेयसी । विपरीतं तु- कालाक्षी । शर्मवती रुद्रवतीति मङ्गल्यम् । विपरीतम्- अभागा मदभागेति । दीर्घो वर्णो ऽन्ते यस्य । विपरीतम्- शरत् । आशिषं वदतीत्य् आशीर्वादम् । अभिधानं शब्दः । तयोर् विशेषणसमासः । तद् यस्मिन्न् अस्ति विद्यते तद् आशीर्वादाभिधानवत्- सपुत्रा बहुपुत्रा कुलवाहिकेति । एते ह्य् अर्था आशीर्विषया । वपरीता- अप्रशस्ता अलक्षणेति । अथ मङ्गल्यस्याशीर्वादस्य च को विशेषः । न कश्चित् । वृत्तपूर्णार्थं तु भेदेनोपादानम् ॥ २.३३ ॥
चतुर्थे मासि कर्तव्यं शिशोर् निष्क्रमणं गृहात् ।
षष्ठे ऽन्नप्राशनं मासि यद् वेष्टं मङ्गलं कुले ॥ २.३४ ॥
मेधातिथिः ...{Loading}...
जन्मचतुर्थमासे गृहाद् बहिर् निष्क्रमणम् आदित्यदर्शनं शिशोर् बालस्य कर्तव्यम् । त्रीन् मासान् गर्भगृह एव वासयेत् । शिशुग्रहणं शूद्रस्यापि प्राप्त्यर्थम् । एवं षष्ठे माश्य् अप्य् अन्नप्राशनम् । पञ्चमासान् क्षीराहार एव । यद् वा कुले दारकस्य स्रेयस्यं मङ्गल्यं पूतना शकुनिकैकवृक्षोपहारादि प्रसिद्धम् । कालविशेषे वा तत् कर्तव्यम् । अयं च संस्कारशेषः । तेन नामधेयम् उक्तलक्षणव्यतिरेकेणापि यथाकुलधर्मं लभ्यते । इन्द्रस्वामी इन्द्रशर्मा इन्द्रभूमिः इन्द्रघोष इन्द्ररात इन्द्रविष्णुः इन्द्रदेव इन्द्रज्योतिः इन्द्रयशा इत्यादि कुलभेदेनोपपन्नं भवति ॥ २.३४ ॥
चूडाकर्म द्विजातीनां सर्वेषाम् एव धर्मतः ।
प्रथमे ऽब्दे तृतीये वा कर्तव्यं श्रुतिचोदनात् ॥ २.३५ ॥
मेधातिथिः ...{Loading}...
चूडा शिखा । तदर्थं कर्म चूडाकर्म । केषुचिन् मूर्द्धदेशेषु केशानां स्थापनां रचनाविशेषश् चैतच् चूडाकर्मोच्यते । प्रथमवर्षे तृतीये वा । ग्रहसौस्थित्या163 विकल्पः । श्रुतिनोदनाद् इत्य् अनुवादस् तन्मूलतयैव प्रामाण्यस्योक्तत्वात् । अथ वा श्रुतिशब्देन न विधायकान्य् एव वाक्यान्य् उच्यन्ते । किं तर्हि, मन्त्राः । ते च चूडाकर्म “याञ् जनाः”164 (पार्ग् ३.२.२) इतिवद् अदृष्टं प्रकाशयन्ति- “यत् क्षुरेण मार्जयेत” (पार्ग् २.१.१९) इत्यादि तेन समन्त्रकम् एतत् कर्मेत्य् उक्तं भवति । विशेषापेक्षायां गार्ह्यो विधिर् अङ्गीक्रियते । अतः शूद्रस्य नायं संस्कारः, द्विजातिग्रहणाच् च । अनियतकालं तु केशवपनं शूद्रस्यार्थप्राप्तं न निवार्यते ॥ २.३५ ॥
गर्भाष्टमे ऽब्दे कुर्वीत ब्राह्मणस्यौपनायनम् ।
गर्भाद् एकादशे राज्ञो गर्भात् तु द्वादशे विशः ॥ २.३६ ॥
मेधातिथिः ...{Loading}...
गर्भस्थस्य यः संवत्सरस् तत आरभ्यते यो ऽष्टमो ऽब्दः । गर्भशब्देन165 साहचर्यात् संवत्सरो लक्ष्यते । न हि मुख्यया वृत्त्या गर्भस्य संवत्सरो ऽष्टम इति व्यपदेशं लभते । तस्मिन्न् औपनायनं ब्राह्मणस्य कुर्वीत । उपनयनम् एवौपनायनं स्वार्थिको ऽण् । “अन्येषाम् अपि दृश्यते” (पाण् ६.३.१८७) इत्य् उत्तर्पदस्य दीर्घः । छान्दसत्वाद् वोभयपदवृद्धिः । उपनयनम् इति हि एष संस्कारो वेदविदां गृह्यस्मृतिषु प्रसिद्धो माउज्ञीबन्धनापरपर्यायः । उपनीयते समीपं प्राप्यते येनाचार्यस्य स्वाध्यायाध्ययनार्थं कुड्यं कटं वा कर्तुं तद् उपनयनम् । विशिष्टस्य संस्कारकर्मणो नामधेयम् एतत् ।
- गर्भाद् एकादशे राज्ञः । गर्भात् प्रभृति गर्भाद् वा परो य एकादशो ऽब्दस् तत्र क्षत्रियस्य कर्तव्यम् । राजशब्दो ऽयं क्षत्रियजातिवचनो नाभिषेकादिगुणयोगम् अपेक्षते ग्रन्थेषु तथा प्रयोगदर्शनात्, ब्राह्मणादिजातिशब्दसाहचर्याच् च । गुणविधिषु च क्षत्रियशब्ददर्शनात् “क्षत्रियस्य तु मौर्वी” (म्ध् २.४२) इति । यस् तु राजशब्दस्य क्षत्रियाद् अन्यत्र जनपदेश्वरे वैश्यादौ प्रयोगः स गौण इति वक्ष्यामः । मुख्ये चासति गौणस्य ग्रहणम् । तथा च गृह्यकारः- “अष्टमे वर्षे ब्राह्मणम् उपनयेद् एकादशे क्षत्रियं द्वादशे वैश्यम्” (आश्ग् १.१७.१–४) इति । भगवांश् च पाणिनिः एवम् एव प्रतिपन्नो राज्ञः कर्म राज्यम् इति राज्यशब्दस्य राजशब्दं प्रति प्रकृतित्वं ब्रुवन्न् एव जनपदैश्वर्येण राजशब्दार्थप्रसिद्धिम् आह । एवं गर्भात् तु द्वादशे ऽब्दे विशः वैश्यस्य ॥ २.३६ ॥
ब्रह्मवर्चसकामस्य कार्यं विप्रस्य पञ्चमे ।
राज्ञो बलार्थिनः षष्ठे वैश्यस्येहार्थिनो ऽष्टमे ॥ २.३७ ॥
मेधातिथिः ...{Loading}...
पितृधर्मेणापत्यं व्यादिशति “ब्रह्मवर्चसी मे पुत्रः स्यात्” इति पितृकामनया पुत्रो व्यपदिष्टस् तत्कामस्येति । पुत्रस्य बालत्वान् नैवंविधा कामना संभवति ।
-
ननु चैवम् अन्यकृतात् कर्मण अन्यस्य फले ऽभ्युपगम्यमाने ऽकृताभ्यागमदोषापत्तिः । अकाम्यमानं च फलं भवत्य् एतद् अप्य् उत्क्रान्तशब्दप्रमाणन्यायमर्यादयोच्यते ।
-
नैष दोषः । स्येनवद् एतद् भविष्यति । श्येनम् अभिचरन् करोत्य् अभिचर्यमाणश् च म्रियते । अथोच्यते कामिन एवैतत् फलम् । शत्रुमरणं हि यजमानः कामयते । तद् एव प्राप्नोतीति नाकर्तृगामिता फलस्य । अत्रापि विशिष्टपुत्रवत्तालक्षणम् उपनेतुर् एव फलम् । यथा पुत्रस्यारोग्येण पितुः प्रीतिः, एवं ब्रह्मवर्चसेनाप्य् अतो ऽधिकृतस्य कर्तुश् च तत्फलम् अन्वयानुसारी हि शास्त्रार्थावसायः । इह च पुत्रस्य फलकामेनैवं कर्तव्यम् इत्य् अन्वयः प्रतीयते । न च यथाश्रुतान्वयत्यागे166 किंचन प्रमाणम् अस्ति । एतेन पितुर् और्धव्देहिकः पुत्रकृत उपकारो व्याख्यातः । तत्रापि हि पुत्रः कर्ता पितृतृप्तिश् च फलम् । तथा च लिङ्गं “अत्मा वै पुत्रनामासि” (पार्ग् १.१६.१८) इति । पित्रैव हि तावच् छ्राद्धम् आत्मसंप्रदानकं वस्तुतः कृतम् एव येनापत्योत्पादनम् एवमर्थम् एव कृतम् । यथा सर्वस्वारे मृतस्यार्भकावमानात् ये पराञ्चः पदार्थास् तेष्व् अपि यजमानस्यैव कर्तृत्वम् । “ब्राह्मणाह् संस्थापयत यज्ञम्” इत् प्रैषेण, दक्षिणाभिर् वरणेन वा प्रयोगसमाप्ताव् ऋत्विजां विनियोक्तृत्वात्, एवम् इहापि तादर्थ्येन पुत्रस्योत्पादनात्, यच् छ्राद्धादिकं पित्रर्थं क्रियते पित्रैव तत्कृतं भवति । अध्ययनविज्ञानसंपन्नं ब्रह्मवर्चसम् ।
- बलं सामर्थ्यम् आभ्यन्तरं ब्राह्मं च । उत्साहशक्तिर् महाप्राणता चेत्य् एतद्167 आभ्यन्तरम्, बाह्यं च हस्त्यश्वरथपदातिकोशसंपत् । तद् उक्तम्- “स्वाङ्गाभ्युच्चयं सांयौगिकानां चार्थानाम्” (निर् १.२) इति ।
-
ईहा चेष्टा । बहुना धनेन कृषिवाणिज्यादिव्यवहारः ।
-
सर्वत्र गर्भादिसंख्या च168 वर्षाणाम्, गर्भाद् इति ह्य् अनुवर्तते ॥ २.३७ ॥
आ ष्ōडशाद् ब्राह्मणस्य सावित्री नातिवर्तते ।
आ द्वाविंशात् क्षत्रबन्धोर् आ चतुर्विंशतेर् विशः ॥ २.३८ ॥
मेधातिथिः ...{Loading}...
एवं तावन् मुख्यकाम्याव् उपनयनकालाव् उक्तौ । इदानीं पितुर् अभावे व्याध्यादिना वा कथंचिद् अनुपनीते माणवके कालातिपत्ताव् अनुपनेयता प्राप्ता, सत्य् अपि कालस्याङ्गत्वे तदभावे ऽधिकारनिवृत्तेः,169 यथा सायंप्रातःकालातिपत्ताव् अग्निहोत्रस्याकरणे । अतो विहितकालव्यतिरेकेण प्रतिप्रसवार्थम् इदम् आरभ्यते । यावत् ष्ōडशं वर्षं गर्भाद् आरभ्य तावद् ब्राह्मणस्योपनयनर्हता न निवर्तते । सावित्रीशब्देन तदनुवचनसाधनम् उपनयनाख्यं कर्म लक्ष्यते । नातिवर्तते नातिक्रान्तकालं भवतीत्य् अर्थः ।
- एवम् आ द्वाविंशात् क्षत्रबन्धोः क्षत्रियजातीयस्येत्य् अर्थः । बन्धुशब्दो ऽयं क्वचित् कुत्सायां प्रवर्तते । यत् स्वं कथं वेत्स170 ब्रह्मबन्ध171 इति । ज्ञातिवचनः यथा,
-
ग्रामता जनता चैव बन्धुता च सहायता ।
-
महेन्द्रस्याप्य् अगम्यासौ भूमिभागभुजां कुतः ॥
द्रव्यवचनो “जात्यन्ताच्छ बन्धुनि” इति (पान् ५.४.९) । तत्र पूर्वयोर् अर्थयोर् असंभवात् तृतीयो ऽर्थो गृह्यते । द्वाविंशतेः पूरणो द्वाविंशो ऽब्दः तद्धितार्थः ।
-
आ चतुर्विंशतेर् विशः । प्राप्तो ऽप्य् अत्र पूरणप्रत्ययो वृत्तानुरोधान् न कृतः, प्रतीयते तु तदर्थः । न हि सुमुदायविषयायाश् चतुर्विंशतिसंख्याया अवधित्वेन संभवः । तदवयवस् तु चतुर्विंशो भवति संवत्सरो ऽवधिः । आङम् अभिविधौ व्याचक्षते ।
-
लिङ्गदर्शनं चोदाहरन्ति । “गायत्र्या ब्राह्मणम् उपनयीत, त्रिष्टुभा राजन्यम्, जगत्या वैश्यम्” इति । एतेषां च छंदसाम् इयता कालेन द्वौ पादौ पूर्येते । तावन्तं कालं बलवन्ति न त्यजन्ति स्वाश्रयभूतान् वर्णान् । तृतीये तु पादे ऽपक्रान्ते गतरसान्य् अतिवयांसि न्यूनसामर्थ्यानि भवन्ति समाप्तिम् उपयान्ति । यथा “पञ्चशता स्थविरो मनुष्यः” इति । अतश् च नैतेन वयम् उपासितानीति त्यजन्ति तं वर्णम् । ततो “न गायत्रो ब्राह्मणो, न त्रैष्टुभो राजन्यो, न जागतो वैश्यः” इति । सविता देवता यस्या ऋचः सा सवित्रीः; सा च गायत्री द्रष्टव्या प्रदर्शिता, गृह्याच् च । एवं क्षत्रियस्य त्रिष्टुप् सावित्री “आकृष्णेन” (र्व् १.३५.२) इति । वैश्यस्य जगती “विश्वा रूपाणि” (र्व् ५.८१.२) इति ॥ २.३८ ॥
अत ऊर्ध्वं त्रयो ऽप्य् एते यथाकालं असंस्कृताः ।
सावित्रीपतिता व्रात्या भवन्त्य् आर्यविघर्हिताः ॥ २.३९ ॥
मेधातिथिः ...{Loading}...
अस्मात् कालाद् ऊर्ध्वं परेण त्रयो ऽप्य् एते वर्णाः ब्राह्मणादयो यथाकालं यस्योपनयनकालः तत्रानुकल्पिके ऽप्य् असंस्कृता अकृतोपनयनाः सावित्रीपतिता उपनयनभ्रष्टा भवन्ति । व्रात्याश् च संज्ञया । आर्यैः शिष्टैः विगर्हिताः निन्दिताः । व्रात्यसंज्ञाव्यवहारप्रसिद्ध्यर्थो ऽयं श्लोकः । अनुपनेयत्वं तु पूर्वेणैव172 सिद्धम् ॥ २.३९ ॥
उक्तम् “आर्यैर् निन्दितः” इति । का पुनर् एषां निन्देत्य् आह ।
नैतैर् अपूतैर् विधिवद् आपद्य् अपि हि कर्हिचित् ।
ब्राःमान् यौनांश् च संबन्धान् नाचरेद् ब्राह्मणैः सह ॥ २.४० ॥
मेधातिथिः ...{Loading}...
एतैर् व्रात्यैर् अपूतैर् अकृतप्रायश्चित्तैर् विधिवद् यादृशो विधिः प्रायश्चित्ते173 शास्त्रेणोपदिष्टः तांश् चारयित्वा “त्रीन् कृच्छान्” इत्य् आपद्य् अपि हि कर्हिचित् कस्यांचिद् अप्य् आपदि न संबन्धान् आचरेत् कुर्यात् तैः सह ।
- किं सर्वसंबन्धनिषेधः । नेत्य् आह- ब्राह्मान् यौनांश् च । ब्रह्म वेदः । तन्निमित्ताः संबन्धा याजनाध्यापनप्रतिग्रहाः174 । न ते याज्याः न याजकाः कर्तव्याः । एवं नाध्याप्या नैतेभ्यो ऽध्येतव्यम् । वेदार्थं विदुषः प्रतिग्रहाधिकाराद् एषो ऽपि ब्राह्मसंबन्धो भवति । यौनः संबन्धः कन्याया दानादाने । ब्राह्मणग्रहणं प्रदर्शनार्थम् । अस्माच् च दोषदर्शनाद् व्रात्यतापरिहारार्थे पितुर् अभावे ऽपि व्युत्पन्नबुद्धिना माणवकेनाप्य् आत्मनात्मोपनाययितव्य इति प्रतीयते । काम्यो ह्य् अयम् आचार्यस्य विधिः । तत्राचार्यत्वम् अकामयमानो यदि कश्चिन् न पर्वर्तते तदा माणवकेन प्रार्थयितव्यो दक्षिणादिना175 । तथा च श्रुतिः- “सत्यकामो जाबालः हारिद्रुमतं176 गौतमम् इयाय ब्रह्मचर्यं भवति वक्ष्यामि” (छु ४.४.३) इति, स्वयम् आचार्यम् अभ्यर्थितवान् उपनयनार्थम् ॥ २.४० ॥
कार्ष्णरौरवबास्तानि चर्माणि ब्रह्मचारिणः ।
वसीरन्न् आनुपूर्व्येण शाणक्षौमाविकानि च ॥ २.४१ ॥
मेधातिथिः ...{Loading}...
कृष्णशब्दो यद्य् अपि कृष्णगुणयुक्तवस्तुमात्रे वर्तते “कृष्णा गौः, कृष्णः कम्बलः” इति, तथापीह स्मृत्यन्तराद् रौरवसाहचर्याच् च मृग एव प्रतीयते । रुरुर् मृगजातिविशेषः । बस्तः छागः । सर्वत्र विकारे ऽवयवे वा तद्धितः । कृष्णाजिनं ब्राह्मणो, रुरुचर्म क्षत्रियो, वैश्यश् छागचर्म वसीरन्न् आच्छादयेयुः । शणक्षुमोर्णास् तत्र कृतानि च वस्त्राणि । चशब्दः समुच्चये । तत्रानुत्तरीयाणि शाणादीनि । चर्माण्य् उत्तरीयान्य् औचित्यात् कौपीनाच्छादनानि च वस्त्राण्य् । आनुपूर्व्येण नैकैकस्य सर्वैर् अभिसंबन्धो नापि व्युत्क्रमेण । प्रथमस्य ब्रह्मचारिणः प्रथमेन चर्मणा वस्त्रेण च संबन्धो द्वितीयस्य द्वितीयस्थानस्थेन । तथा च दर्शितम् ।
- ननु चान्तरेणापि वचनं लोकत एवैतत् सिद्धम् “चूर्णिताक्षिप्तदग्धानां वज्रानिलहुताशनैः” (म्भ् ७.६६.१८) इति यथाक्रमं संबन्धप्रतिपत्तिः, चूर्णिता वज्रेणाक्षिप्ताः अनिलेन दग्धा अग्निनेति । उच्यते । भवेद् एतद् एवं यदि भेदेन निर्देशः स्यात् समसंख्यात्वं च । इह तु ब्रह्मचारिण इत्य् एकशब्दोपादानान् न क्रमो ऽवगम्यते । त्रयश् च ब्रह्मचारिणः । षड् अनुदेशिनः त्रीणि चर्माणि त्रीणि177 वस्त्राणि । आनुपूर्व्यग्रहणे178 तु सति वाक्यान्तरोपात्तः क्रम आश्रीयते । तथा च चर्मभिः संबध्य पुनर् ब्रह्मचारिपदम् आवर्त्य वासोभिः संबध्यते । ततः संख्यासाम्यसिद्धिः । ईदृश एव विषये भगवता पाणिनिना यत्नः कृतः “यथासंख्यम् अनुदेशः समानाम्” इति (पाण् १.३.१०) ॥ २.४१ ॥
मौञ्जी त्रिवृत् समा शल्क्ष्णा कार्या विप्रस्य मेखला ।
क्षत्रियस्य तु मौर्वी ज्या वैश्यस्य शणतान्तवी ॥ २.४२ ॥
मेधातिथिः ...{Loading}...
मुञ्जस् तृणजातिस् तद्विकारो मौञ्जी । सा ब्राह्मणस्य मेखला रशना कर्तव्या मध्यबन्धनी । त्रिवृत् त्रिगुणा । समा न क्वचित् सूक्ष्मा न क्वचित् सूक्ष्मतरा । किं तर्हि सर्वत एव समा । श्लक्ष्णा तनुत्वगुणयुक्ता परिघृष्टा च ।
- क्षत्रियस्य पुनर् ज्या धनुर्गुणः । सा कदाचिच् चर्ममयी भवति, कदाचित् तृणमयी, भङ्गोमादिरज्जुर् वा । तदर्थम् आह मौर्वीति । तया धनुषो ऽवतारितया श्रोणीबन्धः कर्तव्यः । यद्य् अपि त्रिवृत्तादिर् गुणो मेखलामात्राश्रितो मौञ्ज्या एव, तथापि ज्यायाः स्वरूपनाशप्रसङ्गान् न भवति ।
शणतन्तुविकारः शणतान्तवी । छान्दसत्वाद् उत्तरपदवृद्धिः । अथ वा केवलात् तन्तुशब्दात् तद्धिते कृते तदन्तस्य शणैः संबन्धः- शणानां तान्तवीति । प्रकृतेर्[^१८२] विकारः शणतान्तवी प्रकृतिसंबन्धितया व्यपदिश्यते । “गव्यं घृतम्” “देवदत्तस्य पौत्रः” इति । तन्तुः सूत्रं शणमौञ्जीवत् कर्तव्या । गृह्यकारैर् वैश्यमेखलायाः त्रिवृत्तादिधर्मः सुस्पष्ट एवोक्तः ॥ २.४२ ॥
मुञ्जालाभे तु कर्तव्याः कुशाश्मन्तकबल्वजैः ।
त्रिवृत्ता ग्रन्थिनैकेन त्रिभिः पञ्चभिर् एव वा ॥ २.४३ ॥
मेधातिथिः ...{Loading}...
आदिशब्दलोपम् अत्र स्मरन्ति । मुञ्जाद्यलाभ इति । कर्तव्या इति च बहुवचनम् उपपन्नतरम् । भिन्नजातिसंबन्धितया सुव्यक्तो मेखलाभेदः । एकजातिसंबन्धित्वे तु केवलव्यक्तिभेदालम्बनं बहुवचनं स्यात् । विप्रस्येति च प्रकृतस्य बहुवचनेन परिणामः कर्तव्यः । विकल्पश् चैकविषयत्वे स्यात् । न च संभवत्यां गतौ विकल्पो युक्तः ।
-
तेन मुञ्जाभावे कौशी । ज्याया अभावे ऽश्मन्तकेन । शाणानां बल्वजैः। तृणौषधिवचनात् कुशादयः । प्रतिनिधिनियमश् चायम् । कुशाद्यभावे ऽप्य् अन्यन् मुञ्जादिसदृशम् उपादेयम् ।
-
त्रिवृत्ता ग्रन्थिनैकेन । नायं ग्रन्थिसंख्याभेदो वर्णभेदेन । अपि तु प्रत्येकं विकल्पः । कुशादिमेखलास्व् अप्य् अयं ग्रन्थिभेदो धर्मभेदश् चोद्यमानः स्मृत्यन्तरसमाचारस्यानित्यत्वे ऽपि द्रष्टव्यः ॥ २.४३ ॥
कार्पासम् उपवीतं स्याद् विप्रस्योर्ध्ववृतं त्रिवृत् ।
शणसूत्रमयं राज्ञो वैश्यस्याविकसौत्रिकम् ॥ २.४४ ॥
मेधातिथिः ...{Loading}...
उपवीतशब्देन वासो विन्यासविशेष उच्यते । वक्ष्यति “उद्धृते दक्षिणे पाणौ” (म्ध् २.६३) इति । तच् च धर्ममात्रम् । तस्य न कार्पासता संभवत्य् अतो धर्मेण धर्मी लक्ष्यते, यस्यासौ विन्यासस् तत् कार्पासम् उच्यते । अर्श आदित्वाद् वा मत्वर्थीयो ऽकारः कर्तव्यः, उपवीतवद् उपवीतम् इति ।
- ऊर्ध्ववृत्तम् ऊर्ध्वां दिशं दिशं प्रतिवर्त्यते वेष्ट्यते । त्रिवृत् त्रिगुणम् । कर्तनिकाभ्यो लब्धसूत्रभावस्य त्रिगुणीकृतस्येदम् ऊर्ध्वनिवर्तनं179 विधीयते । संहत्य तन्तुत्रयम् ऊर्ध्ववेष्टनेन रज्ज्वाकारं कृत्वा तेनोपवीतं कुर्यात् । सा च रज्जुर् एकैव धारयितव्या, तिस्रः पञ्च सप्त वा । यज्ञसंबन्धाद् धि तद् यज्ञोपवीताख्यां180 लभते । यज्ञार्थो ऽयम् उद्यते इति भक्त्योपचर्यते । तत्रेष्टिपशुसोमानां यज्ञरूपतयैकत्वाद् एकतन्तुकं क्रियते । अग्नित्रयसाध्यत्वाद् अहीनैकाहसत्रभेदाद् वा त्रितन्तुकम् । सोमसंस्थानां सप्तसङ्ख्यत्वात् सप्त वा तन्तवः । “त्रीणि सवनानि त्रिसंध्येन” इति पञ्च । सूत्राभावे181 पटादिनापि कर्तव्यम् । स्मृत्यन्तर एवम् उक्तम् ।
- अविः मेषस् तस्य सूत्रं तेन कृतं आविकसूत्रिकम् । अध्यात्मादित्वाट् ठञ् कर्तव्यः । “अविकसूत्रिकम्” इति वा पठितव्यम् । तत्र च मत्वर्थीयेन ठना रूपसिद्धिः ॥ २.४४ ॥
ब्राह्मणो बैल्वपालाशौ क्षत्रियो वाटखादिरौ ।
पैलवौदुम्बरौ वैश्यो दण्डान् अर्हन्ति धर्मतः ॥ २.४५ ॥
मेधातिथिः ...{Loading}...
सत्य् अपि द्वन्द्वनिर्देशे गुणविधिष्व् एकत्वश्रवणात् “केशान्तकः” (म्ध् २.४६) इति “प्रतिगृह्येप्सितं दण्डम्” (म्ध् २.४८) इति च विकल्पितम् एकदण्डधारं प्रतीयते । “बैल्वः पालाशो ब्राह्मणस्य दण्डः” (च्ड़्। पार्ग् २.५.२५) इति गृह्ये । गौतमीये चैकदण्डग्रहणम् एवोक्तम् (च्ड़्। ग्ध् १.२२) । इह केवला दण्डसत्ता श्रूयते- दण्डान् अर्हन्ति । दण्डा एते ब्रह्मचारिणां योज्याः । कस्यां क्रियायाम् इत्य् एतद् अत्र चोक्तम् उत्तरत्र भविष्यति “प्रतिगृह्येप्सितम्” (म्ध् २.४८) इति । तस्मिंश् च ग्रहणे दण्डस्योपायत्वाद् विवक्षितम् एकत्वम् अत इह द्विवचननिर्देशः । देवश् चेद् वर्षेद् बहवः कृषिं कुर्युर् इति यथा प्राप्तानुवादः । बिल्वपलाशवटखदिरपीलूदुम्बरा182 वृक्षजातिविशेषनामधेयानि । बिल्वस्य विकारो ऽवयवो वा बैल्वः । एवं सर्वत्र । प्रदर्शनार्थाश् चैते । “यज्ञिया वा सर्वेषाम्” (ग्ध् १.२४) इति वचनात् । एतान् दण्डान् वक्ष्यमाणे कार्ये अर्हन्ति । धर्मतः शास्त्रतः ॥ २.४५ ॥
केशान्तिको ब्राह्मणस्य दण्डः कार्यः प्रमाणतः ।
ललाटसंमितो राज्ञः स्यात् तु नासान्तिको विशः ॥ २.४६ ॥
मेधातिथिः ...{Loading}...
आकारविशेषवचनो दण्डशब्दः । दीर्घं काष्ठं183 संमितायामं दण्ड इत्य् उच्यते । कियत् तस्य दैर्घ्यम् इत्य् अपेक्षायाम् आह । केशान्तं गच्छति प्राप्नोति केशान्तगो मूर्द्धप्रमाणः । पादाग्राद् आरभ्य मूर्द्धावधिः केशान्तगः । केशा वान्तो ऽस्येति केशान्तकः । समासान्तः ककारः । प्रमाणतः प्रमाणेनानेन युक्तो दण्डः कार्यः कारयितव्यः ब्राह्मणस्याचार्येण । ललाटसंमितः ललाटान्तम् इतः ललाटन्तप्रमाणः । ललाटमात्रे चतुरङ्गुलेन मीयमानस्य दण्डशब्दवाच्यत्वाभावाद् एवं व्याख्यायते- पादाग्राद् आरभ्य यावल् ललाटान्तं प्राप्तः । एवं विशो वैश्यस्य नासान्तग इति ॥ २.४६ ॥
ऋजवस् ते तु सर्वे स्युर् अव्रणाः सौम्यदर्शनाः ।
अनुद्वेगकरा नॄणां सत्वचो ऽनग्निदूषिताः ॥ २.४७ ॥
मेधातिथिः ...{Loading}...
ऋजवः अवक्राः । सर्वे इत्य् अनुवादः, प्रकृतत्वाविशेषात् । अव्रणा अच्छिद्राः । सौम्यं प्रियकरं184 दर्शनम् एषां ते सौम्यदर्शनाः वर्णपरिशुद्धाः, अकण्टकिताश् च । अनुद्वेगकराः । नैतैः कश्चिद् उद्वेजयितव्यः स्वा वा मनुष्यो वा । नृणाम् इति प्रदर्शनार्थम् । सत्वच अतष्टाः । अनग्निदूषिताः वैद्युतेन दावोत्थेन वास्पृष्टाः ॥ २.४७ ॥
प्रतिगृह्येप्सितं दण्डम् उपस्थाय च भास्करम् ।
प्रदक्षिणं परीत्याग्निं चरेद् भैक्षं यथाविधि ॥ २.४८ ॥
मेधातिथिः ...{Loading}...
प्रावृतेषु चर्मसु मेखलाबन्धनं कर्तव्यम् । आबध्य मेखलाम् उपनयनं कर्तव्यम् । कृते चोपवीते दण्डग्रहणम् । दण्डं गृहीत्वा भास्कर आदित्य उपस्थेयः । अभिमुखं स्थित्वादित्यदैवतैर् मन्त्रैर्185 उपस्थानम्186 आदित्यस्य कर्तव्यम् । गृह्यान् मन्त्रावगमः । अन्या चेतिकर्तव्यता तत एव । यत् सर्वसाधारणं तद् इहोच्यते ।
- प्रदक्षिणं परीत्य सर्वतो गत्व्आग्निम् । चरेत् कुर्यात् । **भैक्षम् । **भिक्षाणाम् समूहो भैक्षम् । तच् चरेद् याचेत । यथाविधीति वक्ष्यमाणविध्यनुवादः । भिक्षाशब्देन स्वल्पपरिमाणं भक्ताद्य् उच्यते ॥ २.४८ ॥
भवत्पूर्वं चरेद् भैक्षम् उपनीतो द्विजोत्तमः ।
भवन्मध्यं तु राजन्यो वैश्यस् तु भवदुत्तरम् ॥ २.४९ ॥
मेधातिथिः ...{Loading}...
भिक्षाप्रार्थनावाक्यम् अत्र भैक्षशब्देनोच्यते । तस्य हि भवच्छब्दपूर्वता संभवति, न भक्तादेर् अर्थस्य । स्त्रीणां च प्रथमं भिक्ष्यमाणतयोपदेशात् प्रार्थनायां च प्रार्थ्यमानस्य संबोध्यत्वात् संबुद्धिविभक्त्यन्तः स्त्रीलिङ्गो भवच्छब्दः प्रयोक्तव्यः । क्रम एव चात्रादृष्टार्थो नियम्यते । यथार्थं तु शब्दप्रोयोगो “भवति भिक्षां देहि” इति ।
- कुतः पुनः संस्कृतशब्दार्थलाभः यावता स्त्रियः संबोध्यन्ते । ताश् च संस्कृतं नावबुद्ध्यन्ते । नित्यम् उपनयनम् । तस्य च शब्दोच्चारणम् अङ्गत्वेनोक्तम् इति । अनित्याश् चापभ्रंशाः । न तैर् नित्यस्य संयोग उपपद्यते । तथैव च शिष्टा असाधून् उपश्रुत्यैकदेशसादृश्येन साधून् संस्मृत्यार्थं प्रतियन्त्य् असाधुर् अनुमानेन वाचक इति दर्शनेन गाशब्दो हि सादृश्याद् गोशब्दम् अनुमापयति । ततो ऽर्थप्रतिपत्तेः, एवं स्त्रियः सादृश्यात् साधुभ्यः असाधून् उत्पन्नसंबन्धात् स्मृत्वा तेभ्यो ऽर्थं प्रत्येष्यन्ति । स्वल्पाक्षरं चैतत् पदत्रयं सर्वत्र प्रसिद्धं स्त्रीभिर् अपि सुज्ञानम् । एवं भवन्मध्यं क्षत्रियः “भिक्षां भवति देहि” इति । तथा वैश्यो भवच्छब्द उत्तरम् अस्येति, भवदुत्तरं वाक्यं समासार्थः187 ।
- उपनीत इति भूतप्रत्ययनिर्देशाद् आन्वहिके ऽपि वृत्त्यर्थे भैक्ष्यचरणे ऽयम् एव विधिर् इति दर्शयति । “एष प्रोक्तो हि द्विजातीनाम् औपनायनिकः” (म्ध् २.६८) इत्य् अत्रोपनयनप्रकरणम् उपसंहरन्न् उपनयनाङ्गस्यापि भैक्ष्यस्यायम् एव विधिर् इत्य् आह । अन्यथाकरणाद् उपनयनाङ्गम् एवैतत् स्याद् यदि वा भूतप्रत्ययसामर्थ्यात्188 प्रकरणं बाधित्वा वृत्त्यर्थ एव भैक्ष्ये । उपनीयमानस्य तदङ्गं यद्भैक्षं यच् चाहर् अहर् वृत्त्यर्थं तत्र सर्वत्रायं धर्मः ॥ २.४९ ॥
मातरं वा स्वसारं वा मातुर् वा भगिनीं निजाम् ।
भिक्षेत भिक्षां प्रथमं या चैनं नावमानयेत् ॥ २.५० ॥
मेधातिथिः ...{Loading}...
मात्रादयः शब्दाः प्रसिद्धार्थाः । निजा सोदर्या । या चैनं न विमानयेत् । विमानना अवज्ञानम्, न दीयत इति प्रत्याख्यानम् । तथा च गृह्यम्- “अप्रत्याख्यायिनम् अग्रे भिक्षेताप्रत्याख्यायिनीं वा” (आश्ग् १.२२.६–७) इति । तद् एव हि मुख्यं प्राथम्यं यद् उपनीयमानस्य । अहर् अहस् तु न विमाननाभयम् आश्रयणीयम् ॥ २.५० ॥
समाहृत्य तु तद् भक्षं यावद् अर्थम् अमायया ।
निवेद्य गुरवे ऽश्नीयाद् आचम्य प्राङ्मुखः शुचिः ॥ २.५१ ॥
मेधातिथिः ...{Loading}...
समाहृत्य्एति शब्दो बह्वीभ्य आहरणं दर्शयति । नैकस्याः सकाशात् बह्व्यो ग्रहीतव्याः । तद् इति यस्यानन्तरं शब्दसंनिधिर् वृत्त्यर्थस्य, न प्राकरणिकस्योपनयनाङ्गस्य । तस्य हि गृह्यकारैः- “अनुप्रवचनीयं श्रपयेत्” (आश्ग् १.२२.१२) इति विहितम्, न भोजनम् । “तिष्ठेद् अहःशेषम्” (आश्ग् १.२२.१) इति च कृतप्रातराशस्य चोपनयनम् । अतो नोपनयनाङ्गं भैक्षभोजनम् ।
- यावदर्थं यावता बैक्ष्येण तृप्ताख्यप्रयोजननिर्वृत्तिः । न बहु भिक्षितव्यम् । अमायया निवेद गुरवे न कदन्नेन संस्कृतम् अन्नं प्रच्छाद्य कदन्नं गुरोः प्रकाशयेत् । कदन्नं189 किल एष न ग्रहीष्यतीत्य् अनया बुद्ध्या । निवेदनम् “इदं प्राप्तम्” इति प्रकटीकरणम् । अगृहीते गुरुणा अनुज्ञातो अश्नीयात् । कथं पुनर् निवेदनम् अदृष्टसंस्कारार्थम् एव न भवति, इतिहासप्रामाण्यात् । तथा च भगवान् व्यासः त्रितकूपाख्याने “गुरुणा गृहीतम्” इति दर्शितवान् । “अनुज्ञातो भुञ्जीत” (ग्ध् २.३९) इति यत् क्वचिच् छ्रूयते । आचम्य प्राङ्मुखः । आचमने प्राङ्मुखतेयम् आनन्तर्याद् इति केचित् । तद् अयुक्तम् । “प्रागुदङ्मुखः” (म्ध् २.६१) इत्य् आचमने दिङ्नियमो भविष्यति । तस्माद् भोजनेनैव संबन्धः । शुचिः । चाण्डालादिदर्शनम् अशुचि देशाक्रमनिष्ठीवनादि कृताचमनस्य भोजनकाले ऽनेन निषिध्यते ॥ २.५१ ॥
आयुष्यं प्राङ्मुखो भुङ्क्ते यशस्यं दक्षिणामुखः ।
श्रियं प्रत्यङ्मुखो भुङ्क्ते ऋतं भुङ्क्ते ह्य् उदङ्मुखः ॥ २.५२ ॥
मेधातिथिः ...{Loading}...
निष्कामस्य प्राङ्मुखस्य भोजनं विहितं नित्यतया । इदानीं काम्या विधय उच्यन्ते । आयुषे हितं आयुष्यं प्राङ्मुखो भुङ्क्त इति । यदि तद्भोजनाद् आयुः प्राप्यते तत आयुष्यं तद् भवति, तेनायम् अर्थः संपद्यते- आयुष्कामः प्राङ्मुखो भुञ्जीत190 । अधिकारद्वयं प्राच्याम्, नित्यं काम्यं च । आयुष्कामः फलम् अभिसंदधीत । इतरस् तु न तथेति । यथा नित्यम् अग्निहोत्रम्, स्वर्गकामस्य चासकृत्प्रयोगात् तन्त्रेण फलकामस्य नित्यो ऽप्य् अधिकारो निर्वर्तते । एवं यशःकामो दक्षिणामुखः । इमे काम्या एव विधयः । श्रियम् इच्छन् । श्रियन् क्यजन्ताच्छता कृतः । श्रियै हितं वा श्रियम् इति मकारान्तः पाठः, आयुष्यादिवत् । प्राण्यङ्गत्वात् स्वार्थे भुजिर् वर्तते । तथा191 ऋतं192** भुङ्क्त** इति । श्रियं भोजनात् प्राप्नोतीति । तथा च द्वितीयान्तः पाठः श्रियम् इति । तादर्थ्ये वा चतुर्थी “श्रियै प्रत्यग्” इति । ऋतं सत्यं यज्ञश् च, तत्फलं वा स्वर्गः । स्वर्गकाम उदङ्मुखो भुञ्जीत । अन्तरेणापि विधिप्रत्ययम् अप्राप्तत्वाद् विध्यर्थावगतिः पञ्चमलकारादिकल्पनया । एवम् एतद् दिग्विभागेन भोजनं फलविशेषार्थम् ।
-
विदिग्भोजनं त्व् अर्थप्राप्तं नित्येन प्राङ्मुखतानियमेनापोद्यते । अयं च काम्यो विधिर् न ब्रह्मचारिण एव भैक्ष्यभोजनविषयः, अपि तु गृहस्थादीनाम् अपि भोजनमात्राश्रितः । तथा चाश्नीयाद् इति प्रकृते भुङ्क्त इत्य् आख्यातान्तरनिर्देशो लिङ्गम् । इतरथाश्नीयाद् इति यतो निःसंदिग्धा प्रकृतविषयता प्रतीयते तद् एव निरदैक्ष्यत् । भुङ्क्त इति तु निर्देशे किं प्रकृत एवार्थः शब्दान्तरेण निर्दिष्टः, उत शब्दार्थतया भोजनमात्रम् इति संदेहे आख्यातावृत्ताव् अर्थान्तरावगतिर् न प्रकृतप्रत्यभिज्ञानम् एव ।
-
यत् तु विधिप्रत्ययाभावाद् अर्थवाद एवायं पूर्वशेष इति चोक्तः परिहारः वचनानि त्व् अपूर्वत्वाद् इति । न च पूर्वैकवाक्यताहेतुर् विभज्यमानसाकाङ्क्षत्वादिर् अस्ति । यद्य् अप्य् उत्तरेषां चैतद् अवरोधीत्य् अनेनातिदेशेन ब्रह्मचारिधर्मो ऽपि पुरुषमात्रविषयः स्यात् फलं तु न स्यात् । गुणकामनायां हि नातिदेशात् प्रवृत्तिम् अनुमन्यन्ते । “गोदोहनेन पशुकामस्य प्रणयेत्” (आश्श् १.१६.२), “खादिरं वीर्यकामस्य” (षड्ब् ४.४) इति विकृतेषु नेष्यते कैश्चित् ॥ २.५२ ॥
उपस्पृश्य द्विजो नित्यम् अन्नम् अद्यात् समाहितः ।
भुक्त्वा चोपस्पृशेत् सम्यग् अद्भिः खानि च संस्पृशेत् ॥ २.५३ ॥
मेधातिथिः ...{Loading}...
आचमनोपस्पृशतिशब्दौ समानार्थौ शुद्ध्यर्थसंस्कारविशेषवचनौ शिष्टव्यवहाराद् अवगम्येते । यद्य् उपस्पृशतिर् अर्थान्तरे पठितश् चमुर् अप्य् अदनमात्रे तथापि विशेष एव सोपसर्गयोः प्रयोगदर्शनात् तदर्थतैव प्रतीयते । स्पृशेः सामान्यविषयत्वे ऽपि प्रयोगो नियामकः । गडिर् वदनैकदेशे पठ्यते । स च कपोल एव गण्ड इति प्रयुज्यते, नैकदेशान्तरे । “पुष्यसिद्ध्यौ” (पाण् ३.१.११६) नक्षत्रमात्रे पठ्येते, विशेषे च वर्तेते । धाय्याशब्दः सामिधेनीमात्रे पठ्यते, आवापिकीषु च वर्तते । अतो ऽप एवाचम्येत्य् अर्थः । स एवोपस्पृश्येत्य् अस्यापि193 । स च परस्ताद् विधायिष्यते । सामानाधिकरण्यं चानयोर् दृश्यते नित्यकालम् उपस्पृशेद् इत्य् अभिधाय त्रिर् आचामेद् इत्य् आह । अतः समारार्थः ।
-
उक्ते ऽप्य् आचम्येति भोजनार्थतयाचमने पुनर्वचनम् आनन्तर्यार्थम्, अनन्तरम् एव भुञ्जीत, न व्यापारान्तरेण व्यवदधीत । तथा च भगवान् व्यासः-
-
पञ्चार्द्रा भुञ्जते नित्यं तेषु वत्स्याम्य् अहं हरे ।
श्रीः किलैवम् आह । द्वौ हस्तौ द्वौ च पादाव् आस्यं च एषा पञ्चार्द्रता । सा194 चोपस्पर्शनान्तरं भुञ्जानस्य भवति, न विलम्बमानस्य । इहापि वक्ष्यत्य् “आर्द्रपादस् तु भुञ्जीत” (म्ध् ४.७६) इति स्नातकव्रतेषु । तस्यापौनरुक्त्यं च वक्ष्यामः । नित्यग्रहणं प्रकरणाद् ब्रह्मचारीभोजनधर्मो195 मा विज्ञायि, भोजनमात्रधर्मो यथा स्याद् उपदेशत एव ।
-
अत्र द्विजग्रहणं भोक्तृमात्रधर्मार्थं चाहुः नित्यग्रहणं चानुवादम् । न ते सम्यङ् मन्यन्ते । यदि द्विजशब्दः प्रकृते ब्रह्मचारिणि न समाविशेत् तदा स्याद् अपि । यदा तु तस्याप्य् एतद् अभिधानं तदा नान्तरेण नित्यग्रहणं प्रकरणबाधोपलभ्यते ।
-
समाहितः । भुज्यमानं द्रव्यं स्वात्मशक्तिं चावेक्षमाणः । अन्यचेतस्कस्य हि गुरुविरुद्धविदाहिवर्जनं196 सात्म्यभोजनं च न स्यात् । भुक्त्वा चोपस्पृशेत् । स्नेहादिलेपापनयनं द्रव्यशुद्धाव् उक्तम् । कृते तस्मिन् भुक्तवत इदम् आचमनं विधीयते ।
-
अत्र केचिन् मन्यन्ते शुद्ध्यर्थम् एकम् आचमनम्, “सुप्त्वा क्षुत्वा च भुक्त्वा च” (म्ध् ५.१४५) इति अनेनादृष्टार्थं द्वितीयं कर्तव्यम् । एवं च पठ्यते " आचान्तः पुनर् आचामेत्" (य्ध् १.१९६) इति । एतत् पञ्चमे स्थापयिष्यामः ।
-
सम्यग् इति वैधताम् आचमनपदार्थस्यानुवदति । “यादृशो विधिर् उक्तस् तं सर्वम् अनुतिष्ठेत्” । अद्भिः खानि च संस्पृशेत् । खानि छिद्राणि शीर्षण्यानि । ननु चैतद् उक्तम् एव “खानि चैव स्पृशेद् अद्भिः” (म्ध् २.६०) इति । आत्मशिरसोर् व्यावृत्त्यर्थम् इति केचित् । यदा शुचिः सन्न् अभोजनार्थतयैवाचामति । येषां च भोजनोत्तरकालम् एकं शुद्ध्यर्थम् आचमनम् अपरम् अदृष्टार्थं तत्रादृष्टार्थ आत्मशिरसी न स्पृश्येते, शुद्ध्यर्थं तु तादृशम् उत्पन्नम् । तस्य संपूर्णाङ्गस्य प्रयोगो वक्ष्यते “शौचेप्सुः सर्वदाचामेत्” इति (म्ध् २.६१) । यद्197 वा विधिप्रत्यभिज्ञानार्थं शास्त्रीयम् एतद् आचमनं न लौकिकम् इति । ज्ञाताङ्गविशेषसंबन्धस्य तदङ्गिनिर्देशे तद् एवेदम् इति प्रत्यभिज्ञानसिद्धिः । अतश् च यत्राचामेद् इति श्रुतं तत्र न यस्य कस्यचिद् द्रव्यस्य भक्षणमात्रं प्रतीयते, किं तर्हि शास्त्रीयस्य संस्कारस्य सपरिकरस्येति यद् उक्तं तद् दर्शितं भवति ॥ २.५३ ॥
पूजयेद् अशनं नित्यम् अद्याच् चैतद् अकुत्सयन् ।
दृष्ट्वा हृष्येत् पसीदेच् च प्रतिनन्देच् च सर्वशः ॥ २.५४ ॥
मेधातिथिः ...{Loading}...
अश्यत इत्य् अशनं भक्तसक्त्वपूपाद्य्198 उच्यते । तद् अशनार्थम् आनीतं देवतारूपेण पश्येत्- “एषा वै परमा देवता यद् अन्नम्” । तस्य सर्वेषां भूतानां स्रष्टृत्वेन स्थितिहेतुतया च यद्दर्शनं सास्य पूजा । अथ वा प्राणार्थत्वेन भावनं ध्यायन्-199 “यजन् मम यद् अर्थत्वं संपूजयति मां सदा” इति । नमस्कारादिना वा प्रणम्य ग्रहणं पूजा ।
- अद्याच् चैतद् अकुत्सयन् । कदन्नतया दुःसंस्कारोपग्रहणेन वा कुत्साहेतुसंभवे नान्नं कुत्सयेत् । “किम् इदम् अश्यते, अरुचिकरं धातुवैषम्यजनकम्” इत्य् एवमादिनाभिधानेन नाक्षिपेत् । यदि तु तद्रूपं भवति तदा नाद्यान् न कुत्सयन्न् अद्यात् ।
दृष्ट्वैव हृष्येत् । पुत्रस्त्र्यादिसंदर्शनेन चिरप्रवासप्रत्यगत इव् तुष्येत प्रीयेत । प्रसीदेच् च । निमित्तान्तरजम् अपि कालुष्यम् अन्नदर्शनेन हित्वा मनःप्रसादम् आश्रयेत् । प्रतिनन्देच् च । समृद्ध्या शंसनं प्रतिनन्दनम् । “नित्ययुक्ता एतेन स्याम” इत्य् आदरोपदर्शनम् अभिनन्दनम् । सर्वशः सर्वदा । “अन्यतरस्याम्” इति व्यवस्थितविभाषाविज्ञानात् सप्तम्यर्थे शम् कर्तव्यः । सर्वदेति वा पठितव्यम् ॥ २.५४ ॥
पूजितं ह्य् अशनं नित्यं बलम् ऊर्जं च यच्छति ।
अपूजितं तु तद् भुक्तम् उभयं नाशयेद् इदम् ॥ २.५५ ॥
मेधातिथिः ...{Loading}...
पूर्वविधिशेषो ऽयम् अर्थवादः, न तु फलविधिः । फलविधौ200 हि काम्यो ऽयं विधिः स्याद् ऊर्जकामस्य बलकामस्य च । ततश् च नित्यशब्दो नोपपद्येत पूजितं ह्य् अशनं नित्यम् इति । अतो ऽयं यावज्जीविकः प्राङ्मुखता नियमः । अपूजितं भुक्तं ह्य् उभयं नाशयेद् बलम् ऊर्जं च । बलं सामर्थ्यम् अनायासेन भारोद्यमनादिशक्तता । कृशस्याप्य् ऊर्जं महाप्राणता । अङ्गोपचयः महाकायो महाबलश् च भवति ॥ २.५५ ॥
नोच्छिष्टं कस्यचिद् दद्यान् नाद्याद् एतत् तथान्तरा ।
न चैवात्यशनं कुर्यान् न चोच्छिष्टः क्वचिद् व्रजेत् ॥ २.५६ ॥
मेधातिथिः ...{Loading}...
पात्रीस्थम् अन्नम् आस्यस्पर्शदूषितम् उच्छिष्टम् उच्यते । तन् न कस्यचिद् दद्याद् अनेनैव सिद्धे स्नातकव्रतेषु यः शूद्रविषयः प्रतिषेधः स तत्रैव निरूपयिष्यते । चतुर्थ्यां प्राप्तायां षष्ठी संबन्धमात्रनिषेधार्था । ये ऽपि दत्तम् इदम् अस्मभ्यम् इति न विदुस् तेषाम् अपि भोजनाय न201 प्रकल्प्यं202 श्वबिडालादीनाम् । न ह्य् अत्र ददात्यर्थः परिपूर्णः203 स्वत्वनिवृत्तिमात्रं दातुः, परस्य स्वत्वापत्तिर्204 नास्ति ।
-
अन्तराशब्दो मध्यवचनः । द्वौ भोजनकालौ सायं प्रातश् च । ततो ऽन्यस्मिन् काले न भुञ्जीत । अथ वा व्यवधाने अन्तराशब्दः । त्यक्तभोजनव्यापारः क्रियान्तरेण व्यवधाय पुनस् तद् एव प्राक्पात्रगृहीतं न भुञ्जीत । स्मृत्यन्तरे तु विशेषः पठ्यते- “उत्थानाचमनव्यापेतम्” इति (च्ड़्। ग्ध् १७.१९) । केचित् तु विच्छेदम् अन्तरम् आचक्षते । “सव्येन पाणिना पात्रम् अन्वालभ्य दक्षिणेनावदाय प्राणायास्ये जुहोति” इति श्रूयते । तत्र यः सव्येन पात्रस्यानुग्रहस् तदनन्तरम् ।
-
न चैवात्यशनम् अतिमात्रम् अशनं कुर्यात् । एतच् चानारोग्यकारणं गुरुविरुद्धादीनां प्रदर्शनार्थम् । हेतूपदेशान् मात्राशितायाश् चायुर्वेदाद् अतिमात्रता बोद्धव्या । यावद् अशितम् अन्नम् उदरपूरं न करोति सम्यग् जीर्यति तावद् अशितव्यम् । त्रयः कुक्षेर् भागाः, अध्यर्धम् अन्नस्य भागार्धं पानस्य भागो दोषसंचाराय । अन्यथानारोग्यम् ।
-
न चोच्छित्ष्टः क्वचिद् व्रजेत् । अतश् चोच्छिष्टम् अपनीय शुचित्वम् आपादिते तस्मिन्न् एव देश आचान्तव्यम् ॥ २.५६ ॥
अनारोग्यम् अनायुष्यम् अस्वर्ग्यं चातिभोजनम् ।
अपुण्यं लोकविद्विष्टं तस्मात् तत् परिवर्जयेत् ॥ २.५७ ॥
मेधातिथिः ...{Loading}...
दृष्टमूलताम् अत्यशनप्रतिषेधस्याचष्टे205 । अनारोग्यं व्याध्युत्पत्तिर् ज्वरोदरादिपीडा । विषूचिकादिना जीवितनाश अनायुष्यम् । “सर्वत एवात्मानं गोपायेत्” (ग्ध् ९.३४) इति शरीरपरिरक्षादिव्यतिक्रमाद् अस्वर्ग्यम् । नरकप्राप्तिः स्वर्गाभावेन प्रतिपद्यते । अपुण्यं दौर्भाग्यकरम् । लोकविद्विष्टं बहुभोजितया निन्द्यते । तस्मात् कारणाद् अत्यशनं परिवर्जयेत्, न कुर्यात् ॥ २.५७ ॥
ब्राह्मेण विप्रस् तीर्थेन नित्यकालम् उपस्पृशेत् ।
कायत्रैदशिकाभ्यां वा न पित्र्येण कदाचन ॥ २.५८ ॥
मेधातिथिः ...{Loading}...
तीर्थशब्देन पवित्रम् उदकाधिकरणम् उच्यते । तारणाय पापप्रमोचनाय च तिष्ठतीति तीर्थम् । क्वचित् तु तरन्त्य् अनेनेति तीर्थम् उदकावतरणमार्गः । इह तूदकाधारकरतलैकदेश उच्यते । स्तुत्या वा तीर्थशब्दप्रयोगः । न हि तत्र नित्यस्था आपः । तेन उपस्पृशेद् आचामेत् । ब्राह्मेणेत्य् एतद् अपि स्तुत्यर्थम् एव । ब्रह्मा देवतास्येति । न हि तीर्थस्य देवता भवत्य् अयागरूपत्वाद् अमन्त्रत्वाच् च । यागरूपतां च केनचिद् धर्मेण शुद्धिहेतुत्वादिनाध्यारोप्य देवतातद्धितः । नित्यकालं शौचार्थे कर्माङ्गे च । कः प्रजापतिः, स देवतास्येति कायम् । एवं त्रिदशा देवता अस्येति त्रैदशिकम् । त्रिदशशब्दाद् देवताणिकृते स्वार्थे कः । देवतात्वं च पूर्ववत् । एभिस् तीर्थैर् उपस्पृशेत् । विप्रग्रहणम् अविवक्षितम् । यतः क्षत्रियादीनं विशेषं वक्ष्यति । न चासत्यां सामान्यतः प्राप्तौ विशेषविधानम् उपपद्यते, “कण्ठगाभिस् तु भूमिपः” (म्ध् २.६२) इत्यादि । न पित्र्येण पितृदैवत्येन कदाचिद् अपि । स्फोटपिटकादिना ब्राह्मादितीर्थेष्व् अयोग्यताम् आयातेष्व् अपि ।
- ननु चाविधानाद्206 एव पित्र्यस्याप्राप्तिः । अस्त्य् अत्राशङ्का । पितृतीर्थज्ञापनार्थं तावत् पित्र्यं तयोर् अध207 इत्य् अवश्यं वक्तव्यम् । न च तस्येह कार्यं निर्दिश्यते । कार्याकाङ्क्षायां208 प्रकृतत्वात् तेन कार्येण संबन्ध आशङ्क्येत । अद्य पुनः प्रतिषेधे सति पित्र्यम् इति समाख्ययैव कार्यावगतिः, उदकतर्पणादि पितृकर्म एतेन तीर्थेन कर्तव्यम् । एवं स्तुतिर् अन्वयिनी भवति । श्रुतिनोदितत्वाच् च ब्राह्मादीनां तदभावे प्राप्ताशङ्कानिवृत्त्यर्थं युक्तम् अस्याभिधानम् ॥ २.५८ ॥
अङ्गुष्ठमूलस्य तले ब्राह्मं तीर्थं प्रचक्षते ।
कायम् अङ्गुलिमूले ऽग्रे दैवं पित्र्यं तयोर् अधः ॥ २.५९ ॥
मेधातिथिः ...{Loading}...
अङ्गुष्ठस्य मूलम् अधोभागः । तस्य तलप्रदेशो ब्राह्मं तीर्थम् । हस्ताभ्यन्तरं तलम् आह । महारेखान्तम् अभिमुखम् आत्मनो ब्राह्मं हस्तमध्ये । अङ्गुलीनां मूले दण्डरेखाया ऊर्ध्वं कायम् । अग्रे अङ्गुलीनां दैवम्209 । उपसर्जनीभूतो ऽपि मूले अङ्गुलिशब्दः सापेक्षत्वाद् अग्रशब्दस्य210 संबध्यते । पित्र्यं तयोर् अधः । अत्रापि गुणीभूतस्याङ्गुलीशब्दस्याङ्गुष्टस्य च संबन्धः । प्रदेशिनी चात्राङ्गुलिर् विवक्षिता । तयोर् अध अन्तरं पित्र्यम् । स्मृत्यन्तरशिष्टप्रसिद्धिसामर्थ्याद् एवं व्याख्यायते, यथाश्रुतान्वयासंभवात् । यथा च शङ्खः- “अङ्गुष्ठस्याधरतः प्राग् अग्रायाश् च रेखाया ब्राह्मं तीर्थम्, प्रदेशिन्यङ्गुष्ठयोर् अन्तरा पित्र्यम्, कनिष्ठातलयोः211 पूर्वेणा पर्वण् कायम्, अग्रम्212 अङ्गुलीनां दैविकम्” इति ॥ २.५९ ॥
त्रिर् आचामेद् अपः पूर्वं द्विः प्रमृज्यात् ततो मुखम् ।
खानि चैव स्पृशेद् अद्भिर् आत्मानं शिर एव च ॥ २.६० ॥
मेधातिथिः ...{Loading}...
अन्यतमेन तीर्थेन त्रिर् अप उदकम् आचामेद् आस्येन जठरं प्रवेशयेत् । तत उदकभक्षणान्तरं द्विर् अभ्यासेन मुखम् ओष्ठद्वयं परिमृज्यात् । ओष्ठश्लिष्टानाम् उदकावयवानां सोदकेन हस्तेनापनयनं प्रमार्जनम् अत्र । कुतः पुनर् हस्तेनेति । समाचारात् तीर्थाधिकाराद् वा । तीर्थेनैवाद्भिर् इति चोत्तरत्र श्रुतम् अत्राप्य् अपकृष्यते । दृष्टर्थत्वाच् च प्रमार्जनस्य मुखशब्द एकदेशे यथोक्ते वर्तते । खानि छिद्राणि चोपस्पृशेद् अद्भिर् हस्तगृहीताभिः स्पर्शनम् एवोपस्पर्शनम् । मुखस्य च प्रकृतत्वान् मुख्यानाम् एव खानाम् एष स्पर्शनविधिः । गौतमश् चाह- “खानि चोपस्पृशेच् छीर्षण्यानि” (ग्ध् १.३६) । आत्मानम् इति हृदयं नाभिं वा निर्दिशति । उपनिषत्सु हि “अन्तर्हृदयम् आत्मानं पश्येत्” इति कथ्यते । अतो हृदयस्यायं स्पर्शः क्षेत्रज्ञस्यात्मनो विभोः । अमूर्तस्य न स्पर्शसंभवः । “नाभिम् आलभेत” (आश्श् १.१३.१) इति क्वचित् स्मर्यते, तेन नाभिं मन्यामहे । शिरः प्रसिद्धम् । स्मृतीनां चैकार्थ्यात् “आ मणिबन्धात् पाणी प्रक्षाल्य” (ग्ध् १.३६) इत्य् एवमादि लभ्यते । तथा अशब्दकरणं वाङ्नियमः पादाभ्युक्षणम् । महाभारते प्रक्षालनम् अपि पादयोर् दर्शितम् ॥ २.६० ॥
अनुष्णाभिर् अफेनाभिर् अद्भिस् तीर्थेन धर्मवित् ।
शौचेप्सुः सर्वदाचामेद् एकान्ते प्रागुदङ्मुखः ॥ २.६१ ॥
मेधातिथिः ...{Loading}...
उष्णशब्दः क्वाथोपलक्षणार्थः । तथा हि पट्ःयते- “अशृताभिर् अद्भिः” इति । एवं च ग्रीष्मोष्मतप्ताः स्वभावोष्णाश् च न प्रतिषिध्यन्ते । फेनग्रहणं बुद्बुदानाम् अपि प्रदर्शनार्थम् । पठितं च “हीनाभिः फेनबुद्बुदैः” (य्ध् १.२०) इति । तीर्थेन धर्मविद् इति वृत्तपूरणम् एव । शौचम् आप्तुम् इच्छुः शौचेप्सुः । शुद्धिकाम इत्य् अर्थः । नान्यथा शुद्धो भवति । सर्वदा । न प्रकरणाद् भोजन एव । किं तर्हि, न रेतोविण्मूत्रादिशुद्धिष्व्213 अपि । अपां भक्षणे कर्मत्वात् तृतीयानिर्देशः, न भक्षमाणानाम् एवायं धर्मः, अपि तु कारणभूतानाम् अपि पादाभ्युक्षणादौ । वयं तु ब्रूमो भक्षणे ऽपि करणम् एवापो न हि तासाम् आचमनं संस्कारः । एकान्ते शुचौ देशे । एकान्तो हि जनैर् अनाकीर्णः प्रायेण शुचिर् भवति ।
- प्रगुदङ्मुखः । मुखशब्दः प्रत्येकम् अभिसंबध्यते । “प्राङ्मुख उदङ्मुखो वा " एवं हि गौतमेन पठितम् (ग्ध् १.३५) । विग्रहश् चैवं कर्तव्यः प्रागुदङ्मुखम् अस्येति । नायं द्वंद्वगर्भो बहुव्रीहिः, अपि तु बहुव्रीहिर् एव । द्वंद्वगर्भतायां समाहारे समासान्तेनाकारेण भवितव्यम् । इतरेतरयोगो ऽपि नैव । न हि युगपद् उभयदिङ्मुखता संभवति । तत्र कश्चिद् आचमनभागः प्राङ्मुखेन कर्तव्यः कश्चिद् उदङ्मुखेनेत्य् आपतति, न चैकदेश आचमनम् । न च दिगर्थ उपादेयो येन परस्परापेक्षे संबध्येयाताम् । नापि दक्षिणपूर्वादिवत् प्रागुदक्शब्दो ऽपराजिताया दिशो वाचकत्वेन् प्रसिद्धो येन दिक्समासबहुव्रीहिर् ज्ञायते । तस्मान् नायं वृत्त्यन्तरगर्भो बहुव्रीहिः । अतो विकल्पः । उदाहृतं च स्मृत्यन्तरे- “प्राङ्मुख उदङ्मुखो वा शौचम् आरभेत” इति (ग्ध् १.३५) । यथा “बृहद्रथन्तरसाम षडहे” इति केषुचिद् अहःसु214 बृहत् केषुचिद् रथन्तरम्, न त्व् एकस्मिन्न् अहनि समस्तोभयसामत्वम् । २.६१ ॥
उक्तम् आचमनं तीर्थेनापां भक्षणम् । परिमाणं तु नोक्तम् । अतस् तद् अवधारणार्थम् आह ।
हृद्गाभिः पूयते विप्रः कण्ठगाभिस् तु भूमिपः ।
वैश्यो ऽद्भिः प्राशिताभिस् तु शूद्रः स्पृष्टाभिर् अन्ततः ॥ २.६२ ॥
मेधातिथिः ...{Loading}...
हृदयं गच्छन्ति प्राप्नुवन्ति हृद्गाः । “अन्येष्व् अपि दृश्यते” (पाण् ३.२.१०१) इति गभेर् डः । “हृदयस्य हृद्” (पाण् ६.३.५०) इति योगविभागाद् धृदादेशः । पूयते पवित्रतां प्राप्नोत्य् अशुचित्वं व्यावर्तते । आप215 ईषदूनचुलुकमात्रप्रमाणः, कण्ठगाभिस् ताभिः कण्ठमात्रव्यापिनीभिः भूमिपः क्षत्रियः । भूमेर् आधिपत्यं क्षत्रियस्य विहितम् । तेन प्रसिद्धेन कर्मणा क्षत्रियजातिर् लक्ष्यते । आधिपत्यविवक्षायां राजधर्मेष्व् एवावक्ष्यत् । वैश्यः प्राशिताभिर् अन्तरास्यप्रवेशिताभिः । कण्ठम् अप्राप्ता अपि शुद्धिहेतवो वैश्यस्य । शूद्रः स्पृष्टाभिर् अन्तत अन्तेनेति । आद्यादित्वात् तृतीयार्थे तसिः । अन्तशब्दो ऽयं समीपवचनो ऽस्ति । उदकान्तं गत उदकसमीपम् इति गम्यते । अस्त्य् अवयववचनः । वस्त्रान्तो वसनान्त इत्य् उभयत्रापि वर्तमानः संबन्ध्यन्तरम् अपेक्ष्यते, कस्य216 समीपं कस्य वावयव इति । तत्रेह येन स्थानेन वर्णान्तराणाम् आचमनं विहितम्, तीर्थैर् जिह्वोष्ठेन च तदन्तेनेति प्रतीयते । समीपवचनस् तु न संभाव्यः विधीयमानस्याचमनस्य तत्साध्यत्वासंभवात् । स्पर्शे ऽपि प्राशनम् अस्ति । जिह्वौष्ठेन हि स्पृश्यमानस्य रसास्वादनम् अवश्यंभावि । तत्र वैश्यपरिमाणात् किंचिन्न्यूनतात्र विवक्षिता । जिह्वामूलं यावद् वैश्यस्य, जिह्वाग्रं शूद्रस्य । द्रवत्वाद् उदकस्यापरिहार्यो ऽवध्यतिक्रमः, अवश्यप्राप्तौ त्व् अशुद्धिः । सर्वश् चायं तीर्थविभागो दक्षिणहस्तस्योपस्पर्शने हस्तस्यौचित्याद् दक्षिणाचारतायाश् च पुरुषधर्मतया विहितत्वात् । एवमर्थम् एव चास्मिन्न् अवधाव् इदम् उच्यते ॥ २.६२ ॥
उद्धृते दक्षिणे पाणाव् उपवीत्य् उच्यते द्विजः ।
सव्ये प्राचीन आवीती निवीती कण्ठसज्जने ॥ २.६३ ॥
मेधातिथिः ...{Loading}...
ननु च लोकतः सिद्धाः पदार्था धर्मशास्त्रे ऽप्य् आश्रीयन्ते । न पदार्थसंविज्ञानार्थानि मन्वादिवाक्यानि, व्याकरणाभिधानकाण्डस्मृतिवत् । उक्तम् अस्माभिर् यो नातिप्रसिद्धो ऽर्थस् तं चेल् लक्षयन्ति किम् उपालम्भम् अर्हन्ति । अस्ति चात्र किंचित् प्रयोजनम् अन्यद् अपि । आचमनक्रमम् उच्यमानम् उपसंव्यानादिकम् आचमनाङ्गं यथा विज्ञायते । यद्य् अप्य् उपवीतधारणं व्रतार्थतया पुरुषार्थतया वा सर्वदा प्राप्तं तथापि तेन विनाचमनं कृतम् अप्य्[^२२१] अपरिपूर्णम्[^२२२] एव स्यात्[^२२३] । असत्य् अस्मिन् वचने व्रते वैगुण्यं पुरुषदोषश् च स्यात् । अथ पुनर् अन्तरेणोपवीतम् आचमनं कृतम् अप्य् अकृतसमम्, दोषश् च स्याद् अप्य् अशुचिना कृतम् अपां भक्षणम् इति ।
- कथं पुनः केवलस्योपवीतस्यैवाचमनाङ्गता यावतान्यद् अप्य् अत्र निर्दिष्टं प्राचीनावीति च । उच्यते । प्राचीनावीतं स्वशब्देनैव पित्र्ये कर्मणि विहितम्, तत्रार्थवत्तायाम् उपयातायां नाकृतार्थेनोपवीतेन विकल्पितुम् अर्हति । निवीतम् अप्य् अभिचारे ऽर्थवत् । यद्य् अप्य् अत्र निवीतस्य विनियोगो नास्ति, तथापि स्मृतीनां चैकार्थ्याद् अन्यत्र यो विनियोगस् तेनेहाप्य् अर्थवत्ता भवत्य् एव । पाणिग्रहणं बाहूपलक्षणार्थम् उद्धृतबाहुर् यतो लोक उपवीतीत्य् उच्यते । सार्वकालिकं चोपवीतं वक्ष्यामः । न च केवलपाणाव् उद्धृत उपवीती । सव्ये उद्धृते प्राचीनावीती । समासपदान् नामधेयम् । असमासस् तु वृत्तानुरोधितया । कण्ठसज्जने । कण्ठे सज्जनं सङ्गः217 स्थापनम् । यदा वस्त्रस्य सूत्रस्य वान्यतरो ऽपि बाहुर् उद्ध्रियते तदा निवीती भवति ॥ २.६३ ॥
मेखलाम् अजिनं दण्डम् उपवीतं कमण्डलुम् ।
अप्सु प्रास्य विनष्टानि गृह्णीतान्यानि मन्त्रवत् ॥ २.६४ ॥
मेधातिथिः ...{Loading}...
विनष्टानाम् अप्सु प्रासनम् अन्येषां च ग्रहणम् अत्र विधीयते । प्रासनग्रहणयोः पौर्वापर्यं यथाश्रुतम् एव । अस्माच् च पुनर् उपादानान् नैषाम् उपनयनाङ्गतैव । तदङ्गत्वे हि तत्प्रयोगापवर्गितैव स्यात् । किं तर्हि, यावद् ब्रह्मचर्यं धारणम् ।
-
अथ किम् उपनयनकाल एव प्राक् कर्मनिष्पत्तेः दैवान् मानुषाद् वा प्रतिबलाद् विनष्टानां प्रतिपत्तिर् न संभवति । प्रयोगसमाप्त्यर्थं च पुनरुपादानम्, यथा कपालस्य, येनैवम् उच्यत अस्मात् पुनरुपादानाद् धारणम् अनुमीयते ।
-
उच्यते । ग्रहणं तावद् दण्डस्य चोदितम्, मेखलाया बन्धनम् । तत्र सूत्रस्य218 विन्यासस् तावद् उपनयनाङ्गत्वेनावश्यं कर्तव्यम् । कृते तस्मिन् कृतः शास्त्रार्थः । उत्तरकालं किं तैर् नष्टैर् अनष्टैर् वा । अङ्गनाशे च प्रतिपत्तिविशेषः कर्मोपकारको भवति । न च तेषां किंचन कार्यम् आम्नातं येन तत्सिद्ध्यर्थं विशिष्टे काले वाचनिकम् उपादानम् । अकृतत्वाच् च कार्यस्य तत्प्रयुक्तं पुनरुपादानम् अर्थसिद्धम् उच्यते । तस्मात् प्रतिपत्तिविधानाद् उपादानवचनाच् च धारणम् अङ्गम्, न च प्रयोगापवर्गि । यतः कमण्डलुनोपनयनोत्तरकालानुवर्तिना तुल्यवन् निर्देशात् तेषाम् अप्य् उत्तरत्रानुवृत्तिः प्रतीयते । सा च व्रताङ्गम् । अत उभयार्था मेखलादयः- प्रकरणाद् उपनयनार्थाः, निवृत्ते चोपनयने दर्शनाद् यावद् ब्रह्मचर्यभाविनः । कमण्डलुश्219 चोदकार्थः कर्तव्यो ऽस्माद् एव प्रतिपत्तिविधानात् । अन्यथा यदा कमण्डलुस् तदेयं प्रतिपत्तिर् इति पाक्षिकत्वं स्यात् ।
-
तत्र दण्डधारणं प्रतिगृह्य दण्डं भिक्षां चरेद् इति क्रमाद् भैक्ष्यचर्याङ्गत्वम् एव प्राप्तं समाचाराद् अभैक्षे ऽर्थे ऽपि भ्रमणे भवत्य् एव । न तु सर्वदैव करतलधृतदण्डस्य स्थानासनशयनभोजनादीनि । तथा च स्वाध्याये ब्रह्माञ्जलिं वक्ष्यति ।
-
मन्त्रवद् इत्य् उपनयनविधिना ग्रहणम् अनुवदति । तत्र च मेखलाया मन्त्रः, न दण्डस्य ॥ २.६४ ॥
केशान्तः षोडशे वर्षे ब्राह्मणस्य विधीयते ।
राजन्यबन्धोर् द्वाविंशे वैश्यस्य द्व्यधिके ततः ॥ २.६५ ॥
मेधातिथिः ...{Loading}...
केशान्तो नाम संस्करः । स गर्भ**षोडशे वर्षे ब्राह्मणस्य **कर्तव्यः । तस्य च स्वरूपपरिज्ञाने गृह्यम् एव शरणम् । द्वे वर्षे ऽधिके यस्य द्वाविंशस्य तस्मिन् द्व्यधिके द्वाविंशे । अथ वा कालमात्रम् अन्यपदार्थः । ततो द्वाविंशाद् वर्षाद् द्व्यधिके काले । वैश्यस्येति । द्विशब्दस्य च वर्षाण्य् एव संख्येयानि प्रकृतानि हि तानि ॥ २.६५ ॥
अमन्त्रिका तु कर्येयं स्त्रीणाम् आवृद् अशेषतः ।
संस्कारार्थं शरीरस्य यथाकालं यथाक्रमम् ॥ २.६६ ॥
मेधातिथिः ...{Loading}...
इयम् आवृद् अशेषतः स्त्रीणाम् अमन्त्रिका कार्या । जातकर्मण आरभ्य इयं संस्काराणाम् आवृत् परिपाठी । सेतिकर्तव्यताकः संस्कारकलाप इति यावत् । संस्कारार्थं शुद्ध्यर्थं शरीरस्य पुंसाम् इव220 स्त्रीणाम् अपि प्रयोजनम् आह । यथाकालम् । यस्मिन् काले यः संस्कार उक्तस् तं कालम् अनतिक्रम्य । पदार्थानतिवृत्तौ “यथासादृश्ये” (पाण् २.१.७) अव्ययीभावः । एवं क्रमे ऽपि द्रष्टव्यम् । मन्त्रमात्ररहिताया आवृतो विहितत्वाद् अयथाकालक्रमप्राप्तिर् एव नास्तीत्य् अतो221 निषेधो नित्यानुवादो वृत्तपूरणार्थः । एतावद् विवक्षितं स्त्रीणां चैते अमन्त्रका इति ॥ २.६६ ॥
पूर्वेणावृद्वचनेन जातकर्मादिवद् उपनयने ऽप्य् अमन्त्रके प्राप्ते222_ तन्निवृत्त्यर्त्यम् आरभ्यते ।_
वैवाहिको विधिः स्त्रीणां संस्कारो वैदिकः स्मृतः ।
पतिसेवा गुरौ वासो गृहार्थो ऽग्निपरिक्रिया ॥ ६७ ॥
वेदग्रहणार्थो वैदिकः संस्कार उपनयनाख्यो यः स स्त्रीणां वैवाहिको विधिः । विवाहे भवो विवाहविषयो विवाहसाध्यः । अतो विवाहस्योपनयनस्थाने विहितत्वात् तदापत्तिवचनं223 विवाहस्य224 । तस्य च225 निवृत्तिर् यदि विवाहस् तत्कार्यकरः ।
- हन्त प्राप्तं वेदाध्ययनम्, प्राप्ता च व्रतचर्या, उपनयनं नाम मा भूत् । एतद्226 उभयम् अपि निवर्तयति- पतिसेवा गुरौ वासः । पतिं यत् सेवत उपचरत्य् आराधयति स एवास्या गुरौ वसतिः । गुरौ वसत्याध्ययनं कर्तव्यं न चास्या गुरौ वासो ऽस्त्य् अतः कुतो ऽध्ययनम् । गृहार्थो गृहकृत्यानि रन्धनपारिणह्यप्रत्यवेक्षणादीनि यानि नवमे वक्ष्यते । “अर्थस्य संग्रहे चैनाम्” इत्यादि (म्ध् ९.११) । सायंप्रातर् ब्रह्मचारिणो यत् समिदाधानं तद् एवास्या गृहकृत्यम् । अग्निक्रियया च यावान् यमनियमसमूहो ब्रह्मचारिणः स सर्व उपलक्ष्यते ।
- एवं चैतद् उक्तं विवाहस्योपनयनापत्त्य । यथैव पुरुषस्यायोपनयनात्227 प्रभृति श्रौताः स्मार्ता आचारप्राप्ताश् च विधयो भवन्ति, प्राक्तनं228 कामचारवादभक्षत्वम्,229 एवं स्त्रीणां प्राग् विवाहात् कामचारः, परस्मात् श्रौतस्मार्तेष्व् अधिकारः ।
- एवं वा पदयोजना । विवाह एव स्त्रीणां वैदिकः संस्कार उपनयनम् । अनुपनयने ऽपि विवाहे भक्त्योपनयनत्वम् उच्यते । किं तद् उपनयनेन विवाहस्य साम्यं येनास्य तद्व्यपदेश अत आह पतिसेवेत्यादि ॥ २.६७ ॥
प्रकरणोपसंहारः ।
एष प्रोक्तो द्विजातीनाम् औपनायनिको विधिः ।
उत्पत्तिव्यञ्जकः पुण्यः कर्मयोगं निबोधत ॥ २.६८ ॥
मेधातिथिः ...{Loading}...
एतावद् उपनयनप्रकरणम् । अत्र यद् उक्तं तत् सर्वम् उपनयनार्थम् । ननु केशान्तो ऽप्य् एवं प्राप्नोति । न, अनिर्वृत्ते उपनयने स्वकाले तस्य विधानात् । प्रकरणे ऽपि पठितस्य वाक्याद् अन्यार्थता भवति । तथा च केशान्तः समावृत्तस्यापि कैश्चिद् इष्यते ।
- उपनयने भव औपनायनिकः । उत्तरपदस्य दीर्घत्वम् पूर्ववत् । उत्पत्तिः, मातापित्रोः230 सकाशाज् जन्म । तां व्यनक्ति प्रकाशयति सगुणतां करोतीत्य् उत्पत्तिव्यञ्जकः । जातो ऽप्य् अजातसमो ऽनुपनीतो ऽधिकाराभावात् । अतो ऽयं विधिर् उत्पत्तिव्यञ्जकः । पुण्य इत्य् उक्तार्थः231 । उपनीतस्य येन कर्मणा योगः संबन्धो ऽधिकारः, यत् तेनोपनीतेन कर्तव्यम्, तद् इदानीं वक्षयाणं निबोधत ॥ २.६८ ॥
उपनीय गुरुः शिष्यं शिक्षयेच् छौचम् आदितः ।
आचारम् अग्निकार्यं च संध्योपासनम् एव च ॥ २.६९ ॥
मेधातिथिः ...{Loading}...
शिक्षयेद् व्युत्पादयेच् छौचम् आदितः । आदित इति वचनेनाचारादिभ्यः प्राग् उपदेशः शौचस्य नेष्यते232 । किं तर्हि, अनियतक्रमकाः परस्परम् एते । केवलम् उपनयनानन्तरं व्रतादेशनं वक्ष्यति । आदिष्टवेदव्रतस्य च वेदाध्ययनम् । अतो ऽग्नीन्धनसंध्योपासनयोः समन्त्रकत्वाद् अकृते व्रतादेशे मन्त्रोच्चारणम् अप्राप्तं विधीयते । शौचं चानियतकालम्, तद् अवश्यं233 तदहर् एवोपदेष्टव्यम् । एवम् आचारो ऽपि । अत इदम् आदित इति वचनम् आदरार्थं न प्रथमोपदेश्यतां शौचस्य विधत्ते । शौचम् “एका लिङ्गे” इत्याद्याचमनान्तम् (म्ध् ५.१३६–१४५) । आचारो गुर्वादीनां प्रत्युत्थानासनदानाभिवादनादिः234 । अग्निकार्यम् अग्न्याधानकार्यं समित्समिन्धनम् । संध्यायाम् आदित्यस्योपासनं तत्स्वरूपभावनं संध्याया उपासनम् । एवं वा “पूर्वां संध्याम्” (य्ध् १.१०१) इत्यादि । एष व्रतधर्मः ॥ २.६९ ॥
अध्ययनधर्मान् इदानीम् आह ।
अध्येष्यमाणस् त्व् आचान्तो यथाशास्त्रम् उदङ्मुखः ।
ब्रह्माञ्जलिकृतो ऽध्याप्यो लघुवासा जितेन्द्रियः ॥ २.७० ॥
मेधातिथिः ...{Loading}...
प्रत्यासन्ने भविष्यति ऌडयं द्रष्टव्यः । अध्ययने प्रवर्तमानः, अध्ययनम् आरभमाणः, अध्येतुम् इच्छन्न् इति यावत् । उदङ्मुखो ऽध्याप्यः । गौतमीये तु प्राङ्मुखो वा शिष्यः प्रत्यङ्मुख आचार्यः इति (ग्ध् १.५४) । आचान्तो यथाशास्त्रम् इति । प्रागुक्तम् आचमनविधिं स्मारयति । ब्रह्माञ्जलिः कृतो येनेति । आहिताग्न्यादेर् आकृतिगणत्वान् निष्ठान्तस्य परनिपातः । “ब्रह्माञ्जलिकृद्” इति वा पाठः । लघुवासा धौतवासाः । प्रक्षालनेन लघुनी वाससी भवतः । अतो लघुत्वेन वाससः शुद्धिर् लक्ष्यते । अथ वायं रोमादिस्थूलवसनः चित्तव्याक्षेपे ताड्यमानो न प्रहारं वेदयेत् ततश् च न युक्तः पठेत् । अपनीयमाने तु वाससि गुरोः खेदः स्यात् । निरावरणे च काये रज्ज्वादिना ताड्यमानो महतीं बालो वेदनाम् अनुभवेत् । अतो दृष्टार्थं लघुवासस्त्वम् । जितानि नियमितानीन्द्रियाण्य् उभयान्य् अपि येन स जितेन्द्रियः । न इतस् ततो वीक्षेत, यत् किंचिन् न शृणुयात्, अध्ययने ऽवहितो भवेत्, इत्य् उक्तं भवति ॥ २.७० ॥
ब्रह्मारम्भे ऽवसाने च पादौ ग्राह्यौ गुरोः सदा ।
संहत्य हस्ताव् अध्येयं स हि ब्रह्माञ्जलिः स्मृतः ॥ २.७१ ॥
मेधातिथिः ...{Loading}...
ब्रह्मशब्दो ऽयम् अनेकार्थो ऽप्य् अध्ययनाधिकाराद् अत्र वेदवचनः प्रतीयते । तस्य्आरम्भे । निमित्तसप्तम्य् एषा । अध्ययनाधिकाराद् एव च तद्विषयाध्ययनक्रिया, तस्यायम् आरम्भः, प्रथमावृत्तिः पुरुषस्य । तत्रेदं पादग्रहणम् । वेदस्य तु यान्य् आद्यक्षराणि “अग्निम् ईऌए” (र्व् १.१.१), “इषे त्वा” (त्स् १.१.१.१), “अग्न आयाहि” (स्व् १.१) इति, न सो ऽत्रारम्भ उच्यते । न हि तस्य निमित्तभावः संभावितः, नित्यत्वात् । कादाचित्कं हि निमित्तं भवति । तेनैतद् उक्तं भवति- वेदाध्ययनम् आरिप्समानो गुरोः पादसंग्रहणं कुर्यात्, कृत्वा ततः स्वाध्यायाक्षरान्य् उच्चारयेत्, न पुनः प्रवृत्ताध्ययनक्रियः पादौ गृह्णीयात् ।
-
ननु चाद्यक्रियाक्षण आरम्भः, स च निमित्तम् । विद्यमानस्य च निमित्तत्वं युक्तं जीवनस्येव । अत्र गेहदाहाद्यतीतम् अपि निमित्तं तत्र तथैव श्रवणम् । तस्मात् सहप्रयोग एवाध्ययनपादोपसंग्रहणयोर् युक्तः ।
-
उच्यते । अध्यापनाध्यवसाय आरम्भ उच्यते, नाद्यः क्रियाक्षणः । यदैव गुरुर् अधीष्येत्य् आह तदैवाध्यवस्यति मानवकः । अतस् तदनन्तरं पादोपग्रहः । उपकारप्रवृत्तस्य गुरोश् चित्तप्रसादनम् एतत् । यथा लोके कश्चिद् उपकारप्रवृत्तं सभाजयति वाचा “ननु त्वया वयम् अस्मात् पापान् मोचिताः” इति । अनक्षरा चेयम् अध्येषणा “उपसन्नो ऽस्म्य् अध्ययनाय235” इति । न हि गुरुर् उपरोध्यो ऽध्यापयेति । केवलम् उपसदनम् अस्य कर्तव्यं संबोधार्थम् अवसरो ऽध्ययनस्येति । अतः कृतोपसदनस्य वेदाक्षरोच्चरणम् । अपि च संहत्य हस्ताव् अधेतव्यम् इत्य् उच्यते । तत्राधीयानः पादोपसंग्रहणविधिम् अतिक्रमेत ।
- अवसानं समाप्तिर् अध्ययनाद् उपरमः । यद्य् अपि ब्रह्मशब्द आरम्भे गुणभूतस् तथाप्य् अवसानस्य सापेक्षत्वात् संनिहितत्वाद् ब्रह्मपदेनैव संबन्धः प्रतीयते, अन्यस्याश्रुतत्वात् । सदाग्रहणम् अन्वहं भाविप्रयोगारम्भावसानयोर् एष विधिर् यथा स्याद् इतरथा य एव व्रतादेशानन्तरो मुख्यप्रारम्भः तत्रैव स्यात् । अथान्वारम्भणीया दर्शपूर्णमासारम्भे चोदिता य एवाधानानन्तरभावी दर्शपूर्णमासप्रयोगारम्भः तत्रैव भवति, न मासिकप्रयोगारम्भे । 236प्रातर् आरभ्य यावद् आह्निकं न निवृत्तं प्रपाठकद्वयमात्रपरिमाणम्, तावद् एकैव साध्ययनक्रियेति । अन्तरा कथंचिद् विच्छेदे ऽपि पुनः प्रवृत्तौ नारम्भशब्दवाच्यतास्तीति न पुनः पादोपसदनं क्रियते । स्मृत्यन्तरे च पठ्यते- “पादोपग्रहणं गुरोः प्रातर् अन्वहम्” इति ।
- संहत्य संलग्नौ संश्लिष्टौ परस्परं कृत्वा अध्येयम् । कच्छप237 इति यः संनिवेशो हस्तयोः प्रसिद्धस् तथा कर्तव्यः । स हि ब्रह्माञ्जलिः । पदार्थकथनम् एतत् ॥ २.७१ ॥
व्यत्यस्तपाणिना कार्यम् उपसंग्रहणं गुरोः ।
सव्येन सव्यः स्प्रष्टव्यो दक्षिणेन च दक्षिणः ॥ २.७२ ॥
मेधातिथिः ...{Loading}...
यद् उपसंग्रहणं पूर्वश्लोके गुरोर् उक्तं तद् व्यत्यस्तपाणिना कार्यम् । कीदृशः पुनः पाण्योर् व्यत्यासः कर्तव्य इत्य् अत आह । सव्येन हस्तेन सव्यः पादः स्प्रष्टव्यः स्पर्शः कर्तव्यः, न तु चिरं निपीड्यासितव्यम् । एष च व्यत्यासो युगपद् इतरेतरदिक्संचारेण हस्तयोर् भवति । अग्रतः स्थितेन संमुखेन गुरोर् उपसंग्रहणं कर्तव्यम् । तत्र वामो दक्षिणमार्गं नीयते, दक्षिणो वामम् इत्य् एवं सव्येन सव्यः स्पृष्टो भवति, दक्षिणेन च दक्षिण इत्य् एष पाणिव्यत्यासः ।
- अन्ये तु “विन्यस्तपाणिना” इति पठन्ति । स्पर्शाद् एव च विन्यासे सिद्धे नाग्नितप्तायःपिण्डस्पर्शनवद् दाहभयाद् अङ्गुल्यग्रमात्रेण स्पर्शनं न238 कर्तव्यम्, अपि तु हस्तौ विन्यसितव्यौ निधातव्यौ । पीडनं तु पीडाकरं निषिद्धम् इति वर्णयन्ति ॥ २.७२ ॥
अध्येष्यमाणं तु गुरुर् नित्यकालम् अतन्द्रितः ।
अधीष्व भो इति ब्रूयाद् विरामो ऽस्त्व् इति चारमेत् ॥ २.७३ ॥
मेधातिथिः ...{Loading}...
अध्येष्यमाणम् इत्यादीनि प्राग्व्याख्यातानि पदानि । गुरोर् अयं नियोगः । गुरोर् यदा माणवको ऽध्यापयितुम् अभिलषितस् तदा अधीष्व भो इत्य् आमन्त्रयितव्यः । अनामन्त्रितेन न गुरुः खेदयितव्यः “उपदिशानुवाकम्” इति । उक्तं च । “आहूतश् चाप्य् अधीयीत” (य्ध् १.२७) इति । विरामो ऽस्त्व् इत्य् एतं शब्दं समुच्चार्य्आरमेत् निवर्तेत । कः । गुरुर् एव, प्रथमान्तनिर्देशात् । अथ वा गुरुणोत्सृष्टो निवर्तेत, न स्वेच्छया । एवं चैतद् व्याख्यायते-239 “यदा गुरुर् विरामो ऽस्त्व् इति ब्रूयात्, तदा विरमेद् ब्रह्मचारी” ।
- अन्ये त्व् अध्येतृमात्रस्य शिष्याणाम् उपाध्यायस्य च उपरमणकाले धर्मम् इमम् इच्छन्ति । तथा च स्मृत्यन्तरम्- “स्वाध्यायम् अधीत्य विरमणकाले प्रदेशिन्या पृथिवीम् आलभ्य स्वस्तीति यजुःषु240 ब्रूयात्, विस्पष्टम्241 इति सामसु, विरामः परमास्व् ऋक्षु, आरमस् त्व् अथर्वसु” ।
अतन्द्रित अनलसः । तन्द्रालस्यम् । तद्योगात् पुरुषस् तन्द्रित इत्य् उच्यते । त्यक्त्वालस्यम् अतन्द्रितः । अनुवादश् चायम् । नात्र तन्द्रा श्रमः । न त्व् इयम् आशङ्का कर्तव्या- “य अतन्द्रितस् तस्यायं विधिः, आलस्यवतस् त्व् अन्यः” ॥ २.७३ ॥
ब्रह्मणः प्रणवं कुर्याद् आदाव् अन्ते च सर्वदा ।
स्रवत्य् अन्ॐकृतं पूर्वं परस्ताच् च विशीर्यति ॥ २.७४ ॥
मेधातिथिः ...{Loading}...
अत्रापि पूर्वोक्तेन न्यायेन ब्रह्मण आदाव् अन्ते च प्रणवं कुर्यात् । ब्रह्मविषयाया अध्ययनक्रियाया इति द्रष्टव्यम् । प्रणवशब्द ॐकारवचनः । तथा च वक्ष्यति- स्रवत्य् अन्ॐकृतम् इति । सर्वदाग्रहणम् अध्ययनविधिमात्रधर्मो यथा स्याद् इतरथा प्रकरणाद् ग्रहणार्थ एव ब्रह्मचारिणः स्यात् । अस्मिंस् तु सति यो ऽप्य् अविस्मरणार्थो यच् च “अहर् अहः स्वाध्यायम् अधीयीत” इति गृहस्थादीनाम्, तत्र सर्वत्र सिद्धं भवति । संध्याजपादौ तु स्वशब्देन विधास्यति- “एतद् अक्षरम् एतां च” (म्ध् २.७८) इति । न चायं वेदधर्मो येन यत्र कुत्रचिद् वैदिकवाक्योच्चारणम् आरभेत, तत्र प्राप्नुयात् । अतो होममन्त्रजपशास्त्रानुवचनयाज्यादीनाम् आरम्भे नास्ति प्रणवः, अन्यत्राप्य् उदाहरणार्थे वैदिकवाक्यव्याहारे । तस्मात् स्थितं प्राकरणिकस्वाध्यायाध्ययनविधिधर्मार्थं सर्वदाग्रहणम् । प्रणवप्रयोगस्यान्वाहिकारम्भार्थता तु नित्यकालग्रहणानुवृत्त्यैव सिद्धा ।
- अस्यार्थवादः स्रवत्य् अन्ॐकृतम् । पूर्वं प्रारम्भे अन्ॐकृतं ब्रह्म स्रवति । ओमा कृतं242 ॐशब्देन संस्कृतम् । साधनं कृतेति समासः । अथ वा ॐकृत243 उच्चारितो यस्मिन् ब्रह्मणि तद् ॐकृतं सुखादित्वात् परनिपातः । परस्ताच् च समाप्तौ । चकारेणान्ॐकृतम् इति संबध्यते । स्रवति विशीर्यति इत्य् उभाभ्याम् अपि नैष्फल्यम् अध्ययनस्य प्रतिपाद्यते । अधीतं ब्रह्म यस्मिन् कर्मणि विनियुज्येत तन् निष्फलं भवतीति निन्दार्थवादश् च । पाकार्थं निषिक्तस्याप्राप्तपाकक्षीरादेर् अवच्छिद्रिते भाजने य इतस् ततो विक्षेपः प्रक्षरणं तत् स्रवतीत्य् उच्यते । लब्धपाकस्य244 पिण्डीभूतस्य भोग्यतां प्राप्तस्य यो विनाशः स विशरणम् ॥ २.७४ ॥
प्राक्कूलान् पर्युपासीनः पवित्रैश् चैव पावितः ।
प्राणायामैस् त्रिभिः पूतस् तत ॐकारम् अर्हति ॥ २.७५ ॥
मेधातिथिः ...{Loading}...
कूलशब्दो दर्भाग्रवचनः । तान् पर्युपासीनः तेषु प्रागग्रेषु दर्भेषूपविष्ट इत्य् अर्थः । “अधिशीङ्स्थासाम्” (पाण् १.४.४६) स्था आ आसाम् इत्य् आङा प्रश्लेषात् कर्मत्वम् । परि उप आ आसीन इति इहाप्य् आङा श्लिष्टनिर्दिष्टो द्रष्टव्यः । पर्युपशब्दाव् अनर्थकौ ।
- पवित्रैर् दर्भैर् एव पावितः245 शुचित्वम् आपादितः । अघमर्षणादिस् तु246 मन्त्रो नेह पवित्रशब्देनोच्यते, ब्रह्मचारिणस् तदानीम् अनधीतत्वात् तेषाम् । न च दर्भाः स्वसत्तामात्रेण कांचित् क्रियाम् अकुर्वतः पावने करणं भवन्तीति । अवान्तरव्यापारापेक्षया स्मृत्यन्तरे प्राणोपस्पर्शनं प्रतीयते । आह च गौतमः- “प्राणोपस्पर्शनं दर्भैः । प्राक्कूलेष्व् आसनं च” (ग्ध् १.४८, ५०) ।
-
प्राणायामैस् त्रिभिः पूतः । मुखनासिकासंचारी वायुः प्राणस् तस्यायामो निरोधः शरीरे धारणंम्,बहिर् निष्क्रमणनिषेधः, तस्य स्मृत्यन्तरे धरणकालस्य मानं समाम्नातम् । मन्त्रानुस्मरणं च ।
-
प्रतिप्रणवसंयुक्तां गायत्रीं शिरसा सह ।
-
त्रिर् जपेद् आयतप्राणः प्राणायामः स उच्यते ॥ (च्ड़्। वध् २५.१३)
वसिष्ठेन भगवता महाव्याहृतयो ऽप्य् उक्ताः । मन्त्रावसान एव निरोधावधिर् अन्यस्यानाम्नातत्वात् सर्वस्मृतीनां चासति विरोध एकार्थत्वाद् इहाप्य् एवम् एवानुष्ठानम् ।
- ननु एवम् इतरेतराश्रयः स्याद् अकृतेषु247 प्राणायामेषु ॐकारो न कर्तव्यः, न च्ॐकारेण विना प्राणायामो निवर्तते । नैष दोषः । “त्रिर् जपेत्” इति प्राणायामेषु मानसव्यापारेण्ॐकारस्य स्मरणम् उच्यते । न हि निरुद्धप्राणस्य शब्दोच्चरणं संभवति । यद्य् अपि जपः कश्चिद् वाग्व्यापारसाध्यो भवति । स्वाध्यायाध्ययने तु पुनर् उच्चारणं विवक्षितम् । अध्ययनक्रियाया एवंरूपत्वाच् छब्दक्रियायां ह्य् अयं248 धातुः, श्रोत्रग्राह्यश् च शब्दो न केवलेन मनसा गृह्यते ।
- न चायम् ॐकारधर्मो येनान्यत्रापि तस्मिन्न् उच्चार्यमाणे ऽपि प्रसज्येत । उक्तं च “स्वाध्यायारम्भे कर्तव्यः” इति । ॐकारधर्मत्वे हि लौकिकेषु वाक्येष्व् ओम् इति ब्रूम इत्यादिषु प्रसज्येत । गौतमेन तु पठितम्- “प्राणायामास् त्रयः पञ्चदश मात्राः” इति (ग्ध् १.४९) । मात्राशब्देन चाविकृतस्य स्वरस्याकारादेर् यावान् कालः स उच्यते । तत्र विरोधात् स्मृत्यन्तरोक्तः कालो नास्ति, न च मन्त्रस्मरणं तत्रान्ॐकारा अपि प्राणायामाः सन्तीति नेतरेतराश्रयदोषापत्तिः । तत ॐकारम् अर्हति कर्तुम् इति शेषः । यदायं समुदाय एव रूढिरूपेण प्रणववचनः । यदा तु करणं कारः । ओम् इत्य् एतस्य कार उच्चारणम् ॐकारस् तदा नास्ति पदान्तरापेक्षा । प्रणवशब्देन कर्तव्यताम् उक्त्वात्र्ॐकारम् इत्य् अनुवदत्य् अत एताव् एकार्थौ । तथा च दर्शितम् ॥ २.७५ ॥
अकारं चाप्य् उकारं च मकारं च प्रजापतिः ।
वेदत्रयान् निरदुहद् भूर् भुवः स्वर् इतीति च ॥ २.७६ ॥
मेधातिथिः ...{Loading}...
पूर्वस्य विधेर् अर्थवादः । अक्षरत्रयसमाहाररूप ॐकारस् तत्रैकैकस्य व्युत्पत्तिम् आह । वेदत्रयात् त्रिभ्यो वेदेभ्यः निरदुहद् उद्धृतवान् यथा दध्नो घृतम् उद्ध्रियते । न केवलम् अक्षरत्रयं यावद् इदम् अपरं भूर् भुवः स्वर् इति ॥ २.७६ ॥
त्रिभ्य एव तु वेदेभ्यः पादं पादम् अदूदुहत् ।
तद् इत्य् ऋचो ऽस्याः सावित्र्याः परमेष्ठी प्रजापतिः ॥ २.७७ ॥
मेधातिथिः ...{Loading}...
अयं “तत् सवितुर् वरेण्यम्” (र्व् ३.६२.१०) इत्य् एतस्याः गायत्र्याः उत्पत्त्यर्थ्वादो विधानार्थः । पूर्वश्लोके चार्थवादाद् एव व्याहृतीनाम् अपि विधानम् । क्रमस् तु पाठावगम्यः । वक्ष्यति च-
- एतद् अक्षरम् एतां च जपन् व्याहृतिपूर्विकाम् । इति । (म्ध् २.७८)
अदूदुहद् उद्धृतवान् इति । यद्य् अपि तद् इत्य् एतत् प्रतीकेन “तत् सवितुर् वृणीमहे” (र्व् ३.८२.१) इति वा शक्यते सक्षयितुम्, न तु सा त्रिपदेति । त्रिपदैव249 ग्राह्या । त्रिपदा चैव सावित्रीति । कश्यपादयो ऽपि प्रजापतयः सन्ति । अतो विशिनष्टि परमेष्ठीति हिरण्यगर्भः । स हि परमे स्थाने ऽनावृत्तिलक्षणे स्थितः । आदरातिशयार्थं चैतत् सावित्र्याः । साक्षात् किलेयं सर्वमुख्येन प्रजापतिना वेदेभ्यः समुद्धृतेति ॥ २.७७ ॥
एतद् अक्षरम् एतां च जपन् व्याहृतिपूर्विकाम् ।
संध्ययोर् वेदविद् विप्रो वेदपुण्येन युज्यते ॥ २.७८ ॥
मेधातिथिः ...{Loading}...
सत्य् अपि स्वाध्यायविधिप्रकरण एकवाक्यात्250 संध्याजपविधिर् अयम् । तत्र गायत्र्या अनुवादः, प्रणवव्याहृतीनाम् अप्राप्तविधिः ।
- अत्र कश्चिद् आह । नायं संध्याविधिर् अप्रकरणात् । विधिर् हि भवन् ब्रह्मचारिणः स्यात्, तस्य प्रकृतत्वात् । न च तस्य संभवति । इह हि वेदविद् इत्य् उच्यते । न च तस्य प्रथमोपनीतस्य वेदवित्त्वम् अस्ति । अपि च फलम् अत्र श्रूयते- वेदपुण्येन युज्यते । नित्यस्य संध्योपासनविधिः न फलार्थः । न चैतद् विद्मः किम् इदं वेदपुण्यं नाम फलं येन योगो ऽयं जप उच्यते । यदि तावद् वेदाध्ययनत्वाद् यत्251 पुण्यम् अभिप्रेतं तदवाप्तिर् वेदपुण्येन योगो ऽभिप्रेतस् तत्र यः तावद् अयं प्रकृतः स्वाध्यायविधिस् तस्य नार्थावबोधाद् ऋते किंचित् पलम् अस्त्य् अश्रुतत्वाद् दृष्टत्वाच् चार्थावबोधस्य कल्पनापि नास्ति । यश् च गृहस्थादीनां विधिः “अहर् अहः स्वाध्यायम् अधीयीत” इति, सो ऽपि नित्य एव । यत् तत्र फलश्रवणं “पयो दधि घृतं मधु” इति, सो ऽर्थवाद एव । तस्मान् नायं विधिः । विधौ हि सर्वम् एतद् विवक्षितव्यम् । यदा त्व् अयम् अर्थवादस् तदा जपन् इति प्रकृतम् अध्ययनम् उच्यते, वेदपुण्येन इत्य् एतद् अपि यथाकथंचिन् नीयते ।
- अत्रोच्यते । वाक्येन प्रकरणं बाध्यत इत्य् उक्तम् एव । यत एव वेदवित्पदं संध्यापदं च न प्रकृतविषयतयान्वेति,252 तत एवान्यत्रायम् विधिः । संध्ययोर् एतत् त्रयं जपेद् इत्य् एतावान् विधिः । वेदवित्पदम् अनुवदिष्यते । गृहस्थादीनां वेदवित्त्वस्य संभवात् ब्रह्मचारिणो वेदवित्त्वं न संभवतीति चेत्, किं तदीयेन संभवेन । यथा प्राप्तानुवादे हि सर्वाश्रमिणाम् अधिकारः । कर्तृविशेषणे हि वेदवित्पदे ब्रह्मचारिणो नाधिकारः स्यात् । कथं पुनर् अस्यानुवादः । वाक्यभेदप्रसङ्गात् । विधौ संध्याविधौ प्राप्ते प्रणवव्याहृतयस् तावद् अप्राप्तास् तत्र विधातव्याः । तत्र यद्य् अपरं वेदविद् इति253 विधीयते तदा वाक्यभेदः स्यात् । प्राप्ते हि कर्मणि नानेकार्थविधानं संभवति । प्रणवव्याहृतीनां तु नानुवादः संभवति ।
-
तेनायम् अत्र वाक्यार्थः । संध्ययोर् यत् सावित्रीं जपेद् इत्य् उक्तं तत्रायम् अपरो गुणः प्रणवव्याहृतिपूर्विकां ताम् जपेत् । विप्रग्रहणं च तदा प्रदर्शनार्थम् एव ।
-
यद् अप्य् उक्तम्- फलम् अत्र श्रूयते, नित्यश् चायं विधिः संध्यायाः । को नामायं विरोधः । नित्य एव तस्मिन् गुणे कामो भविष्यति । प्रणवव्याहृतिगुणकात् तस्माद् इदं फलम् इति । यथा गोदोहनप्रणयनकाद् अग्निहोत्रात् पशवः फलम्- “गोदोहनेन पशुकामस्य प्रणयेत्” इति वाक्यसामर्थ्येन । अध्येतुश् चैतद् उक्तम्, न त्व् अयं काम्यो विधिः । स्मृत्यन्तरे हि नित्य एवायं विधिः स्पष्ट एवोक्तः-
-
गायत्रीं शिरसा सार्धं जपेद् व्याहृतिपूर्विकाम् । इति । (य्ध् १.२३)
फलानाम् अवगमो254 भवतैवोक्तः ।
-
अयं ह्य् अर्थो वेदपुण्येन्एति । वेदे यत् संध्योपासनात् पुण्यम् उक्तं तेन त्रिकम् एतज् जपन् युज्यते, न केवलं गायत्रीम् । पुण्यं च धर्मः, वेदमूलत्वात् स्मृतीनां स्मृत्युक्तम् अपि वेदपुण्यतया व्यपदिश्यते, वेदस्य पुण्यं वेदपुण्यम् । किं च वेदस्य पुण्यम् । यत् तेन प्रतिपाद्यते । पठ्यमानद् वेदाद् यज् जायते, तद् अपि शक्यते तस्येति वक्तुम्, किं त्व् असाधारणत्वात् प्रतिपाद्यम् एव युक्तं व्यपदेष्टुं नोत्पाद्यम् । यागादयो धर्मम् उत्पादयन्ति, प्रतिपादकस् तु वेद एव ।
-
ये ऽप्य् अन्त्यस्य पादस्य सामर्थ्यम् आहुः- यद् उक्तं “नित्यस्वाद्यायः” इति तत्र संध्यायां त्रिकजपाद् एव कृतार्था भवन्तीति । तद् अप्य् असत् । एवं सति तेन विधिना विकल्पेत । तत्र च पाक्षिको नित्यस्वाध्ययताया बाधः स्यात् । न चाबाधे संभवति बाधो ऽभ्युपगन्तव्यः ।
-
एतद् अक्षरम् इत्य् ॐकारस्य प्रतिनिर्देशः ।
-
ननु च नैतद् एकम् अक्षरम् । द्वे वा त्रीणि वा । उच्यते । अक्षरशब्देन केवलं स्वर उच्यते, व्यञ्जनसंयोगश् च । तत्रेह यादृशः प्रकृतः तादृशस्याभिधानम् ।
एतां च “तत् सवितुर् वरेण्यम्” इति सावित्रीम् । व्याहृतयः पूर्वा यस्यास् ताम् व्याहृतिपूर्विकां । तिस्रः प्रकृता एव ता व्याहृतयो गृह्यन्ते, प्रकृतपरत्वाद् अस्य, न सप्त सत्यान्ताः ॥ २.७८ ॥
सहस्रकृत्वस् त्व् अभ्यस्य बहिर् एतत् त्रिकं द्विजः ।
महतो ऽप्य् एनसो मासात् त्वचेवाहिर् विमुच्यते ॥ २.७९ ॥
मेधातिथिः ...{Loading}...
बहिर् इत्य् अनावृतो देश उच्यते । तेनैतद् उक्तं भवति । ग्रामनगराभ्यां बहिर् अरण्ये नदीपुलिनादौ । सहस्रवारान् अभ्यस्य आवर्त्य । ननु255 कृत्वसुचो ऽप्य् आवृत्तिः प्रतिपाद्यते, अभ्यस्येत्य् अनेनापि । तत्र पौनरुक्त्यम् । सामान्यविशेषभावाद् अदोषः । अभ्यस्येत्य् अनेन सामान्यतो ऽभ्यास उक्तस् तत्र विशेषापेक्षायां सहस्रकृत्वेति । न च कृत्वसुजन्ताद् एवोभयावगतिस् तस्य क्रियाविशेषापेक्षत्वात् । न हि देवदत्तः पञ्चकृत्वो ऽह्न इत्य् उक्ते, यावद् भुङ्क्त इति नोच्यते तावाद् वाक्यार्थः समाप्यते ।
-
ननु चाभ्यस्येत्य् अनेनापि न काचिद् विशिष्टा क्रियोपात्ता । सत्यम् । जपः प्रकृतस् तम् अभ्यस्येति प्रतीयते । आवृत्तिः पौनःपुण्येन सेवा ।
-
महतो ऽप्य् एनसः । महत् पापं च ब्रह्महत्यादि । ततो ऽपि मुच्यते, किं पुनर् उपपातकेभ्यः । अपिः संभावने, न समुच्चये । भेदोपादानेन समुच्चयावगमो यथा देवदत्तस्यात्र प्रभुत्वं यज्ञदत्तस्यापि । इह न तथा निर्देशः ।
-
केभ्यः पुनर् उपपातकेभ्यो ऽयं मोक्ष उच्यते । गोवधादीन्य् उपपातकानि । तानि च प्रतिपापम् आम्नातप्रायश्चित्तानि सरहस्यानि । यानि वा संवेत्ति न कृतान्य् अनुक्तपरिहाराण्य् अवश्यंभावितया च ज्ञायते कृतानीति । तेषाम् अपि नित्यानि संध्योपासनादीन्य् अपनोदकानि । यदि चैतत् प्रायश्चित्तं स्यात् तदा तत्रैवावक्ष्यत्- “जपेद् वै नियताहारः त्रिर् वै वेदस्य संहिताम्” (म्ध् ११.७६) इतिवत्256 । प्रायश्चित्ते चास्मिन् प्रायश्चित्तप्रकणम् एवानर्थकं स्यात् । को हि दैवशप्तो257 जपमात्रसाध्यां निष्कृतिं हित्वा कृच्छ्रेषु शरीरप्राणहरेष्व् अध्यवस्येत् । उक्तं च ।
- अर्के258 चेन् मधु विन्देत किम् अर्थं पर्वतं व्रजेत् ।
- इष्टस्यार्थस्य संप्राप्तौ को विद्वान् यत्नम् आचरेत् ॥
तथा,
- पणलभ्यं हि न प्राज्ञः क्रीणाति दशभिः पणैः ॥ इति ।
न च प्रकृतेनैकवाक्यताबीजं किंचिद् विभज्यमानसापेक्षत्वाद्य् अस्ति येन तच्छेषतया ऽर्थवाद उच्यते ।
-
अत्रोच्यते । विधिर् एवायम् । पापप्रमोचनार्थ एवायं प्रयोगः । यत् तूक्तं “विषमशिष्टैर् विकल्पो न सिध्यति” इति जपप्रायश्चित्त एवास्मिन् विकल्पार्थो भविष्यति । अघमर्षणादिभिः सर्वपापापनोदनम् उक्तम्, तेनास्य विकल्पः । अघमर्षणे हि त्र्यहम् उपवास उक्तः । इहाश्नन्न् एव मासिकेन प्रयोगेण शुध्यति । ततो न दूरविप्रकृष्टेन तपसा प्रमीयते, येन विषमशिष्टता स्यात् ।
-
अथ वा पूर्वकृतस्यैनसः शुद्धिर् एषा ग्रहादौस्थित्यादिसूचिते दैवे दोषे । तस्मान् मोक्षः । अनिष्टम् एन उच्यते । तस्मान् मुच्यते । तत्फलेन न संबध्यत इत्य् अर्थः ।
-
त्वचेवहिः । जीर्णया त्वचा मुक्तः सर्पो यथा भवति । निरवशेषेण पापनाश एतेन प्रतिपाद्यते । यत् तु दौश्चर्मादिसूचितं259 पूर्वकृतम् अशुभं तत्र स्मृत्यन्तरे प्रायश्चित्तम् आम्नातं बहु । तत् प्रायश्चित्तेष्व् एव निदर्शयिष्यामः । एतद् एवाभिप्रेत्योक्तम् ।
- जपतां जुह्वतां चैव विनिपातो न दृश्यते । (म्ध् ४.१४६) इति ॥ २.७९॥
एतयर्चा विसंयुक्तः काले च क्रियया स्वया।
ब्रह्मक्षत्रियविड्योनिर् गर्हणां याति साधुषु ॥ २.८० ॥
मेधातिथिः ...{Loading}...
एतया सावित्र्या । विसंयुक्तो हीनसंध्योपासनस् त्यक्तस्वाध्यायश् च । गर्हणां निन्दां साधुषु विशिष्टेषु याति प्राप्नोति । कीदृशीं गर्हणां प्राप्नोत्य् अत आह- काले च क्रियया स्वया । कालः “आ षोडशाद्” (म्ध् २.३८) इत्य् अस्मिन् वियुक्ते गते निन्द्यते । एवम् उपनीतो ऽपि स्वाध्यायारम्भयोग्यः सावित्रीवर्जितो व्रात्य एव भवति । त्रयाणां या साधारणी स्वक्रिया सेह निर्दिष्टा । सा चोपनयनम् एव । कालशब्दश् चैवमर्थवान् । अध्ययनादिस्वकर्मविवक्षायाम् एतावद् एव वाच्यं स्यात् यत् क्रियया स्वयेति । योनिशब्दो जन्मपर्यायो जात्यर्थं गमयति । विप्रादिजातीय इत्य् अर्थः । अर्थवादो ऽयं व्रात्यप्रायश्चित्तार्थः ॥ २.८० ॥
ॐकारपूर्विकास् तिस्रो महाव्याहृतयो ऽव्ययाः ।
त्रिपदा चैव सावित्री विज्ञेयं ब्रह्मणो मुखम् ॥ २.८१ ॥
मेधातिथिः ...{Loading}...
ॐकारः पूर्वो यासां ता ॐकारपूर्विकाः । महाव्याहृतयः प्रकृता एव भूर् भुवः स्वर् इत्य् एते शब्दा अभिधीयन्ते । अव्यया अविनाशिन्यः । फलस्य दीर्घकालत्वाद् एवम् उच्यते । अन्यथा “सर्व एव शब्दा नित्याः” इति विशेषणम् अनर्थकम् । त्रिपदा “तत् सवितुर्” इत्य् एषा सावित्री ब्रह्मणो मुखम् । आद्यत्वान् मुखव्यपदेशः अतश् चारम्भे अध्येयम् एतद् इत्य् अस्यैवार्थवादः । अथ वा मुखं द्वारम् उपायो ब्रह्मप्राप्तिर् अनेन भवतीत्य् एतद् एवाह ॥ २.८१ ॥
यो ऽधीते ऽहन्य् अहन्य् एतां त्रीणि वर्षाण्य् अतन्द्रितः ।
स ब्रह्म परम् अभ्येति वायुभूतः खमूर्तिमान् ॥ २.८२ ॥
मेधातिथिः ...{Loading}...
आकाश इव सर्वव्यापी विभुः संपद्यते, खमूर्तिः खस्वभाववान् भवति । न तु मूर्तिः शरीरम्, आकाशस्य शरीराभावात् । अथ किम् इदं ब्रह्म, यद् रूपापत्तिर् उच्यते । परमात्मानन्दरूपः, यस्येमे क्षेत्रज्ञाः पवनजवोद्धतस्य वारिराशेर् इवोर्मयः । ते यथा प्रशान्तावस्थे तस्मिंस् तद्रूपा भवन्ति । एवम् अमी तद्रूपा आत्मानः संपद्यन्ते । विशेषतश् च सर्वम् एतद् द्वादशे वक्ष्यते । अध्ययनम् इदं गायत्र्याश् चोदितं न जपो, न चावृत्तिगणनास्ति । अतन्द्रित इतिवचनाद् बहुकृत्वः करणं प्रतीयते । सकृत्प्रयोगे हि नास्ति तन्द्राशङ्का । मोक्षार्थिनो ऽयं विधिः ॥ २.८२ ॥
एकाक्षरं परं ब्रह्म प्राणायामाः परं तपः ।
सावित्र्यास् तु परं नास्ति मौनात् सत्यं विशिष्यते ॥ २.८३ ॥
मेधातिथिः ...{Loading}...
ॐकार एकाक्षरम् । तत् परं ब्रह्म, ब्रह्मप्राप्तिहुत्वात् । “तज्जपस् तदर्थभावनम्260” (य्सू १.२८) तया261 ब्रह्मप्राप्तेर् एवम् उच्यते । ओम् इति ब्रह्माभिधानम् । एवं ह्य् आहुः- “तस्य वाचकः प्रणवः” इति (य्सू १.२७) । तत्परं प्रकृष्टं कुतः । अन्याभ्यः ब्रह्मोपासनाभ्यः । “अन्नं ब्रह्मेत्य् उपासीत” (तु २.२.१), “आदित्यो ब्रह्मेत्य् आदेशः” (छु ३.१९.१) इति एवमाद्याभ्य उपासनाभ्यः ॐकारोपासना प्रकृष्यते, अध्ययनाद् एव तत्प्राप्त्यभिधानात्, शब्दस्यैव च ब्रह्मत्वेन श्रवणात् । “शब्दब्रह्मणि निष्णातः परं ब्रह्माधिगच्छति” इति (मैतु ६.२२) । सर्वो ह्य् अर्थो वाग्व्यवहारानतीतः, वाचश् च सर्वस्या ॐकारो मूलम् । तथा च श्रुतिः- “तद् यथा शंकुना सर्वाणि पत्राणि संतृण्णान्य् एवम् ॐकारेण सर्वा वाक् संतृण्णा । ॐकार एवेदं सर्वम्” इति (छु २.२३.३) । संतर्दनम् अनुसृतिः262 आश्रयभावापत्तिर् वा । कथं पुनः सर्वा वाग् ॐकारेण संतृण्णा । वैदिक्यास् तावद् ॐकारपूर्वकत्वम् उक्तम् । लौकिक्या अपि- “तदादीनि वाक्यानि स्युः” इत्य् आपस्तम्बवचनात् (आप्ध् १.१३.९) । उपनिषद्भाष्ये चैतद् अन्यथा व्याख्यातम् । तत् त्व् इहानुपयोगान् न प्रदर्शितम् । प्राणायामशब्द आचमनवद् विशिष्टेतिकर्तव्यताके प्राणनिरोधे वर्तते । परं तपः चान्द्रायणादिभ्यः । किं पुनस् तस्य श्रैष्ठ्यम् । भक्तिर् एषा । सावित्र्याः परं मन्त्रज्ञानं नास्ति । एषाम् इति प्रशंसा । मौनात् सत्यं विशिष्यते । मौनं वाङ्नियम उच्यते । तस्य च263 यत् फलं ततो ऽधिकं सत्यवचनात् प्राप्यते । सत्यवचने विध्यर्थो ऽपि तथानुष्ठितो भवति । मौने तु केवलम् अनृतप्रतिषेधानुष्ठानम् एव । अर्थवादो ऽयं श्लोकः ॥ २.८३ ॥
क्षरन्ति सर्वा वैदिक्यो जुहोतियजतिक्रियाः ।
अक्षरं त्व् अक्षरं ज्ञेयं ब्रह्म चैव प्रजापतिः ॥ २.८४ ॥
मेधातिथिः ...{Loading}...
यावन्तः केचन वैदिका होमा अग्निहोत्रादयः, ये च यागा ज्योतिष्ठोमादयः, ते सर्वे क्षरन्ति न परिपूर्णा भवन्ति । फलं वा तदीयं स्रवत्य् आशु विनश्यति । अक्षरं त्व् एतद् ॐकाराख्यम् अक्षरं ज्ञेयम् अक्षयफलम् । ब्रह्मीभूतस्य न पुनः संसारापत्तिः । अतो ऽक्षयफलत्वाद् अक्षरम् उच्यते । एको ऽक्षरशब्द उद्देश्यः संज्ञाशब्दो द्वितीयो यौगिकः क्रियाशब्दः । ब्रह्म च तद् एव । प्रजापतिश् च्ॐकार एव । स्तुतिर् एषा । जुहोतियजतीति धातुनिर्देशस् तयोः क्रियाप्रतिपाद्यार्था यागहोमाः । व्यक्त्यपेक्षं बहुत्वम् । अथ वा धात्वर्थनिर्देश एवायं जुहोतियजतीति । क्रियास् तद्व्यतिरिक्ता दानाद्याः । द्वन्द्वश् चायम्- जुहोतियजतीति च क्रियाश् च । होमयागौ प्राधान्यात् पृथग् उपादीयेते ।
- अत्रोक्ता264 ॐकारस्य स्तुतिः केवलस्यापि जपविधानार्थेति केचित् । न हि प्रकृतविधिशेषतैवात्र, पुनः परामर्शाभावात् । वैश्वानरे ह्य् अष्टत्वादीनाम् “यद् अष्टाकपालो भवति, गायत्र्या चैनं ब्रह्मवर्चसेन पुनाति, यन् नवकपालस् त्रिवृतैवास्मिंस् तेजो दधाति” इति । सर्वत्र वैश्वानरपदापेक्षया तदेकवाक्यत्वे संभवति न वाक्यभेदकल्पनया विध्यन्तरसंभवः । इह त्व् अक्षरं ज्ञेयम् इति न पूर्वापेक्षा, नापि सावित्र्यादीनां पुनः परामर्शो ऽस्ति । अतः स्वपदार्थैर् एव वाक्यार्थपरिसमाप्तेर् नान्यशेषता । ज्ञेयम् इत्य् अत्र कृत्वो विधायकः । ब्रह्मपदेन च संबन्धाद् ब्रह्मरूपतया ज्ञेयम् उपास्यं भावनीयम् । भाव्यमाने च तस्मिन् मानसजप उक्तो भवति ॥ २.८४ ॥
विधियज्ञाज् जपयज्ञो विशिष्टो दशभिर् गुणैः ।
उपांशुः स्याच् छतगुणः साहस्रो मानसः स्मृतः ॥ २.८५ ॥
मेधातिथिः ...{Loading}...
विधिविषयो यज्ञो विधियज्ञो ज्योतिष्टोमादिः । यत् कर्म यजेतेति चोदितम्, बाह्येन265 व्यापारेण ऋत्विगादिसर्वाङ्गसंपत्त्या क्रियते स विधियज्ञ इहोच्यते । जपस् तु न यज्ञः । प्रशंसया यज्ञ उपचारेणोच्यते । अतो नासौ विधियज्ञः । स विशिष्टः प्रकृष्टः श्रेष्ठो यज्ञो ज्योतिष्टोमादेर् दशभिर् गुणैः । महाफलत्वम् एतेन जपस्योच्यते । यद् एव यागात् फलं तद् एव बहुतरं जपात्266 पाप्यते । न च यागेभ्यः श्रौतेभ्यो जपस्याधिकफलत्वं युक्तम् । तथा हि सति कः शरीरधनपरिक्षयरूपेषु यागेष्व् अध्यवस्येत् । तस्मात् प्रशंसैषा । पूर्णाहुत्या सर्वान् कामान् अवाप्नोतीतिवत् । एतावद् अस्यार्थः, तद् एव स्वर्गादिफलम् अवाप्यते, किं तु लोकवत् प्रयत्नविशेषात् । फलपरिमाणविशेषो ऽविशेषित्वात् यज्ञस्य, स्वर्गग्रामपुत्रपश्वादि यस्य यज्ञस्य यत् फलं तत् तज्जपात् प्राप्यते । उपांशुः शतगुणः, यद् अन्यो न शृणोति समीपस्थो ऽपि । सहस्र गुणः साहस्रो मानसः मनोव्यापारमात्रेण267 यश् चिन्त्यते । जपमात्रविषय उपांशुत्वादिगुणः, प्रकृतस्य यो ऽधीतेत्य् अनेन विच्छेदात्, तेन य प्रायश्चित्तादौ जपो यः शान्तिको यश् चाभ्युदयिकः सर्वत्रैते गुणाः । सहस्रम् अस्यास्तीति साहस्रः । गुणानां प्रकृतत्वात् सहस्रगुणसद्भावः प्रतीयते । गुणशब्दश् चावयववचनः । फलभूमा च संबन्धाद् अवगम्यते ॥ २.८५ ॥
ये पाकयज्ञाश् चत्वारो विधियज्ञसमन्विताः ।
सर्वे ते जपयज्ञस्य कलां नार्हन्ति षोडशीम् ॥ २.८६ ॥
मेधातिथिः ...{Loading}...
महायज्ञाः पाकयज्ञा उच्यन्ते, ब्रह्मयज्ञं वर्जयित्वा चत्वारो यज्ञा भवन्ति । विधियज्ञा उक्तास् तैः समन्विताः सहिताः । कलाम् अंशं षोडशीं नार्हन्ति । षोडशेन भागेन न समा भवन्ति । अथ वार्हतिः प्राप्त्यङ्गे मूल्यपणने वर्तते । अर्हशब्दात् तिपं कृत्वा अर्हन्ति रूपम् ॥ २.८६ ॥
जप्येनैव तु संसिध्येद् ब्राह्मणो नात्र संशयः ।
कुर्याद् अन्यन् न वा कुर्यान् मैत्रो ब्राह्मण उच्यते ॥ २.८७ ॥
मेधातिथिः ...{Loading}...
जप्येनैव सिद्धिं काम्यफलावाप्तिं ब्रह्मप्राप्तिं वा प्राप्नुयात् । नात्र हृदि सङ्का कर्तव्या । यज् ज्योतिष्टोमादिभ्यो महाप्रयासेभ्यो भावनाभ्यश् च यल् लब्धव्यं यज् जपेन कथं सिध्यतीति । सिध्यत्य् एव ।
- कुर्याद् अन्यद् अनित्यं268 ज्योतिष्टोमादि । अथ वा तद् अपि न कुर्याद् यतो मैत्रो ब्राह्मण उच्यते । मित्रम् एव मैत्रम् । सर्वभूतमैत्रीरतेन ब्राह्मणेन भवितव्यम् । अग्निष्ॐइयपशुहिंसायां च कुतो मैत्री । अयम् अर्थवाद् एव, न पुनः पश्वङ्गकर्मप्रतिषेधः, पूर्वशेषत्वावगतेः । प्रत्यक्षश्रुतिविहितत्वाच् च तेषाम् । अतिक्रान्तो जपविधिः ॥ २.८८ ॥
इन्द्रियाणां विचरतां विषयेष्व् अपहारिषु ।
संयमे यत्नम् आतिष्ठेद् विद्वान् यन्तेव वाजिनाम् ॥ २.८८ ॥
मेधातिथिः ...{Loading}...
इन्द्रियाणां संयमे यत्नम् आतिष्ठेद् इत्य् एतावाञ् छास्त्रार्थः । परिशिष्टो ऽर्थवादः, आ संध्योपासनविधेः (म्ध् २.१०१) । संयमः प्रतिषिद्धेषु विषयेषु प्रवृत्तिपरिहारो269 ऽप्रतिषिद्धेष्व् अप्य् अतिसक्तिवर्जनम् । तत्र प्रतिषिद्धपरिहारस् तैर् एव प्रतिषेधैः सिद्धः । अप्रतिसिद्धेष्व् अप्य् अतिसक्तिनिषेधार्थो ऽयं श्लोकसंघातः । एतद् एवाह । विचरतां विषयेषु स्वातन्त्र्येण वस्तुशक्त्या प्रवर्तमानानाम् । अपहारिषु विषयेष्व् अपहरन्त्य् आकर्षन्त्य् आत्मसात्कुर्वन्ति पारतन्त्र्यम् आपादयन्ति पुरुषं त अपहारिणो270 विषया मनोहरा य उच्यन्ते । तत्र विचरतां विविधं विशेषेण चरताम् । यदीन्द्रियाणि विशेषेण न चरेयुर् अपरिहारिणो ऽपि तदा विषयाः किं कुर्युः । भवन्तु वा निरङ्कुशानीन्द्रियाणि, यदि विषयाः प्रत्याख्यायिकास् तथापि सुसंयमः पुरुषेणात्मा । यतस् तूभयं सापराधम् अतो यत्न आस्थेयः, दुर्नियमानि ह्य् एतानि ।
- नियन्तेव वाजिनाम् । यन्ता सारथिर् अश्वानां यथा रथयुक्तानां स्वभावतो विचलनशीलानां संयमे नियमे यत्नं करोति, ते271 न तदानिच्छया उन्मार्गेण वहन्ति, विधेयतां तस्य भजन्त, एवम् इन्द्रियाणि विधेयीकर्तव्यानि ॥ २.८८ ॥
एकादशेन्द्रियाण्य् आहुर् यानि पूर्वे मनीषिणः ।
तानि सम्यक् प्रवक्ष्यामि यथावद् अनुपूर्वशः ॥ २.८९ ॥
मेधातिथिः ...{Loading}...
संख्यानिर्देशो ऽयं प्रमाणान्तरगम्यो न शास्त्रार्थः,272 सौहार्देन तु व्युत्पाद्यते । तानि पूर्वे मनीषिण आहुः । परस्तान् नामतः कर्मतश् च वक्ष्यामि । आनुपूर्व्यम् अनाकुलता । पूर्वग्रहणान् नेयं तार्किकैर् एव व्यवस्था कल्पिता, किं तु पूर्वेषाम् अप्य् आचार्याणां स्थितैव । एताम् अजानन्तो नागमिका273 इति लोकैर् उपहस्यन्ते,274 इत्य् अतो ऽयं वेदितव्यः275 । प्रसिद्धाः पदार्था व्याख्याताश् च प्राक् ॥ २.८९ ॥
श्रोत्रं त्वक् चक्षुषी जिह्वा नासिका चैव पञ्चमी ।
पायूपस्थं हस्तपादं वाक् चैव दशमी स्मृता ॥ २.९० ॥
मेधातिथिः ...{Loading}...
श्रोत्रादीनि प्रसिद्धानि । अधिष्ठानभेदाच् चक्षुषी इति द्विवचनम् । अन्यत्र तदाधारायाः शक्तेर् एकत्वाद् एकवचनम् । उपस्थः शुक्रोत्सर्जनः पुंसो रजस्276 तदाधारश् च स्त्रियाः । द्वन्द्वनिर्दिष्टयोः प्राण्यङ्गत्वाद् एकवद्भावः (पाण् २.४.२) । वाक् ताल्वादिः277 शब्दाभिव्यञ्जकः शरीरावयववचनः । नामनिर्देशो ऽयम् ॥ २.९० ॥
बुद्धीन्द्रियाणि पञ्चैषां श्रोत्रादीन्य् अनुपूर्वशः ।
कर्मेन्द्रियाणि पञ्चैषां पाय्वादीनि प्रचक्षते ॥ २.९१ ॥
मेधातिथिः ...{Loading}...
कार्यम् इदानीम् एषाम् आह स्वरूपावधारणार्थम् । न हि तानि प्रयक्षानि । बुद्धीन्द्रियाणि278 बुद्धेर् इन्द्रियाणि279 जनकानि कार्यकरणानि । कार्यकरणसंबन्धे षष्ठी । श्रोत्रादीन्य् अनुपूर्वशः । आदिशब्दस्य प्रकारार्थता मा विज्ञायीति । अनुपूर्वशः क्रमेणेत्य् अर्थः । क्रमश् च संनिवेशापेक्षो भवत्य् अतः पूर्वश्लोकोक्ता व्यवस्थाश्रीयते । कर्मेन्द्रियाणि । परिस्पन्दात्मकम् अत्र कर्म विवक्षितम् ॥ २.९१ ॥
एकादशं मनो ज्ञेयं स्वगुणेनोभयात्मकम् ।
यस्मिन् जिते जिताव् एतौ भवतः पञ्चकौ गणौ ॥ २.९२ ॥
मेधातिथिः ...{Loading}...
एकादशसंख्यापूरकं मन इन्द्रियाणाम् । स्वो गुणो मनसः संकल्पः । तेनोभयं शुभम् अशुभं वा संकल्प्यते । अथ वा बुद्धीन्द्रियेषु कर्मेन्द्रियेषु स्वविषयप्रवृत्तौ संकल्पमूलत्वाद् उभयात्मकम् उच्यते । यस्मिञ् जिते एतौ बुद्धीन्द्रियवर्गः कर्मेन्द्रियवर्गश् च पञ्चकौ प्राक्प्रदर्शितपरिमाणौ जितौ भतः । तत्त्वाख्यानम् एतत्280 ॥ २.९२ ॥
इन्द्रियाणां प्रसङ्गेन दोषम् ऋच्छत्य् असंशयम् ।
संनियम्य तु तान्य् एव ततः सिद्धिं निगच्छति281** ॥ २.९३ ॥**
मेधातिथिः ...{Loading}...
प्रसङ्गस् तत्परता । तेन हेतुभूतेन दोषं282 दृष्टम् अदृष्टं च ऋच्छति प्राप्नोति । नात्र संशयो निश्चितम् एतत् । संनियम्य तानि इन्द्रियाणि ततः सिद्धिम् अभिप्रेतार्थावाप्तिं श्रौतस्मार्तकर्मणाम् अनुष्ठानफलं निःशेषं गच्छति प्राप्नोति ॥ २.९३ ॥
न जातु कामः कामानाम् उपभोगेन शाम्यति ।
हविषा कृष्णवर्त्मेव भूय एवाभिवर्धते ॥ २.९४ ॥
मेधातिथिः ...{Loading}...
तिष्ठतु तावद् विषयाभिलाषः, शास्त्रोपदेशान् न क्रियते । किं तु दृष्टम् एव सुखं तावन् निवृत्तेर् भवति । तथा हि सेव्यमाना विषया अपि अधिकं गर्द्धम् उत्पादयन्त्य् उदरपूरं भुक्तवतस् तृप्तस्यातिसौहित्यम् अपि गतवतो भवति हृदयसमीहा- “किम् इति शक्नोमि अन्यद् भोक्तुम्,” अशक्त्या तु न प्रवर्तते । ततो नैषा भोगेन शक्या निवृत्तिर् न कदाचित् कामो ऽभिलाषः कामानां काम्यमानानां स्पृहणीयानाम् अर्थानाम् उपभोगेन सेवया शाम्यति निवर्तते । भूयो ऽधिकतरं वर्धते । हविषा घृतेन कृष्णवर्त्मा अग्निर् इव ।
-
दुःखरूपश् चाभिलाषः । अनुपभुक्तरसस्य त्व् अभिलाषानुत्पत्तिः । तत्त्वप्रसंख्यानम् एतत् । उक्तं च ।
-
यत् पृथिव्यां व्रीहियवं हिरण्यं पशवस् स्त्रियः ।
-
नालम् एकस्य तत् सर्वम् इति मत्वा शमं व्रजेत् ॥ २.९४ ॥
यश् चैतान् प्राप्नुयात् सर्वान् यश् चैतान् केवलांस् त्यजेत् ।
प्रापणात् सर्वकामानां परित्यागो विशिष्यते ॥ २.९५ ॥
मेधातिथिः ...{Loading}...
पूर्वोक्तं हेतुत्वेनोपजीव्यायं निगमश्लोकः पठितः । यदा सेवया वर्धते कामः अतो य एतान् कामान् कामी सर्वान् प्राप्नुयात् सेवेतानेकमण्डलेश्वर इव तरुणः, यश् चैतांश् त्यजति केवलानि ईषद् अपि न स्पृशति नैष्ठिक एव बालः । तयोर् यः प्रापको भोक्ता तस्मात् स विशिष्यते, अतिशयेन श्रेष्ठो भवति, यः परित्यजेद् इति । एतच् चात्मप्रत्यक्षम् ॥ २.९५ ॥
न तथैतानि शक्यन्ते संनियन्तुम् असेवया ।
विषयेषु प्रदुष्टानि283** यथा ज्ञानेन नित्यशः ॥ २.९६ ॥**
मेधातिथिः ...{Loading}...
यद्य् एवम् अरण्यवास एव तर्हि प्राप्ते,284 न हि तत्र विषया संनिधीयन्ते । असंनिहिताश् च न सेविष्यन्ते । तदर्थम् आह- नासेवया इन्द्रियाणि नियन्तव्यानीति । निःसुखः स्यात् । अथ च स्मरन्ति- “न285 पूर्वाह्णमधंदिनापराह्णान् अफलान् कुर्याद् यथाशक्तिधर्मार्थकामेभ्यः” (ग्ध् ९.४६) । न च शरीरधारणम् असेवया भवति । किं तु गर्द्धनिषेधो ऽयम् उच्यते । स च गर्द्धः सत्याम् अपि सेवयां286 ज्ञानेन विषयगतदोषज्ञानेन “अस्थिस्थूणं स्नायुयुतम्”287 (म्ध् ६.७६) इत्यादिशास्त्रोक्तेन, स्वसंविदा च विपाकविरसतया । किं विपाकफलम् एवादिदोषभावनया वैराग्याभ्यासेन288 क्रमेण स्पृहा निवर्तते । न तु सहसैव त्यक्तुं शक्यते । किं तु नित्यशः नित्यकालम् । ज्ञानविशेषणम् एतत् । प्रदुष्टानि प्रवृत्तानि । दोषत्वात् प्रवृत्तान्य् एव प्रदुष्टान्य्289 उच्यन्ते290 । अयं शस्291 तत्र तत्र, नित्यशः अनुपूर्वशः सर्वशः पूर्वश इति, व्यासमनुप्रभृतिभिर् महामुनिभिः प्रयुज्यते । तस्य साधुत्वे यत्नः कर्तव्यः । तत्र शस्विधौ “एकवचनाच् च वीप्सायाम्” (पाण् ५.४.४३) इति पठ्यते । तत्र वीप्सार्थः कथंचित् द्योतयितव्यः । अन्ये तु शसस् तिष्ठत्यर्थस्य क्विपि रूपं वर्णयन्ति । क्रियाविशेषणं चैतत् नपुंसकम् । नित्यस्थितेन ज्ञानेनेत्य् अर्थः ॥ २.९६ ॥
वेदास् त्यागश् च यज्ञाश् च नियमाश् च तपांसि च ।
न विप्रदुष्टभावस्य सिद्धिं गच्छन्ति कर्हिचित् ॥ २.९७ ॥
मेधातिथिः ...{Loading}...
अयम् अत्र विधिर् एव । वेदास् तद्विषयम् अध्यननजपादि । त्यागो दानं लक्षणया । अथ वाप्रतिषिद्धस्यापि मधुमांसभक्षणादेर् निवृत्तिः फलदेत्य् (च्ड़्। म्ध् ५.५६) अनेन वर्जनम् । विप्रदुष्टो भावश् चित्तं यस्य तस्य । सिद्धिं न गच्छन्ति फलसाधकानि न भवन्ति, कस्मिंश्चिद् अपि काले । अतो ऽनुष्ठानकाले नाभिप्रेतादिगतमानसेन भवितव्यम् । शक्यं तर्हि सर्वेतरविकल्पतिरस्करेण कर्मणि मन आधेयम् । अङ्गं हि कर्मसु विषयचिन्तात्यागो ऽनेन वाक्येन विहितः । तदभावे कर्मनैष्फल्यं स्यात् । एष हि भावदोषो यत् कर्मानुष्ठाने प्रवृत्तस्य तत्परतात्यागेन व्यसनेषु मनो ऽवधानम् ॥ २.९७ ॥
श्रुत्वा स्पृष्ट्वा च दृष्ट्वा च भुक्त्वा घ्रात्वा च यो नरः ।
न हृष्यति ग्लायति वा स विज्ञेयो जितेन्द्रियः ॥ २.९८ ॥
मेधातिथिः ...{Loading}...
श्रुत्वा वंशगीतादिध्वनिम्, “त्वं बृहस्पतिः” इत्यादिवचनं श्रुत्वा, न हृष्यति । रूक्षपरुषाक्रोशवाचः श्रुत्वा न ग्लायति, न मनोदुःखं भजति292 । ग्लानिः खेदः । स्पृष्ट्वा राङ्कवकौशेयादिवस्त्रम् अजलोमकुतपं च समत्वेनानुभवति । एवं सुवेषतरुणीजननटप्रेक्षासु शत्रुदर्शने च समः । बहुघृतं क्षीरषष्टिकान्293 कोद्रवांश् च समं भोजने । देवदारुतैलं कर्पूरादि च तुल्यं जिघ्रतः । तथा कर्तव्यं यथा केवलैर् मानसैः सुखदुःखैर् न स्पृश्यते । एवं तेन जितानीन्द्रियाणि भवन्ति । न त्व् अप्रवृत्त्यैव । इयत्पर्यन्तः संयमः आश्रयणीयः ॥ २.९८ ॥
ननु च ब्रह्मचारिणा स्त्रीसंबन्धो यत्नेन वर्ज्यः, संस्कृतभिक्षालाभस् तु किम् इति निषिध्यते । अत आह ।[^३०१]
इन्द्रियाणां तु सर्वेषां यद्य् एकं क्षरतीन्द्रियम् ।
तेनास्य क्षरति प्रज्ञा दृतेः पादाद् इवोदकम् ॥ २.९९ ॥
मेधातिथिः ...{Loading}...
निर्धारणे षष्ठी । एकम् एव यदीन्द्रियं क्षरति, स्वातन्त्र्येण स्वविषये वर्तमानं न निवार्यते, ततो ऽस्य क्षरति प्रज्ञा धैर्यम् इन्द्रियान्तरविषयम् अपि । दृतिश् छागादिचर्मोदकाद्याहरणभाजनम् । तस्य संवृतेष्व् अपीतरेषु यद्य् एकस्माद् उदकं पादात् स्रवति, सर्वं रिच्यते । ज्ञानाभ्याससंभृतं धैर्यं सम्यक्ज्ञानम् एव वा । विषयगृध्नुतया तद्गतमानसस्य न तत्त्वतो युक्तिशास्त्रगम्या अर्थाः सम्यक् पर्तिभासन्ते ॥ २.९९ ॥
वशे कृत्वेन्द्रियग्रामं संयम्य च मनस् तथा ।
सर्वान् संसाधयेद् अर्थान् अक्षिण्वन् योगतस् तनुम् ॥ २.१०० ॥
मेधातिथिः ...{Loading}...
उपसंहरति । सत्य् अपीन्द्रियत्वे मनसः प्राधान्यात् पृथग् उपादानम् । ग्रामः संघातः । विधेयीकृत्येन्द्रियाणि294 तथा मनः । सर्वान् अर्थाञ् श्रौतस्मार्तकर्मसाध्यान् संसाधयेन् निष्पादयेत् । तनुं शरीरम् अक्षिण्वन्न् अपीडयन् । योगतः युक्त्या । सहसा कस्यचित् कठिनासनकृष्णाजिनादिप्रावरणात्295 पीडा भवति सुकुमारप्रकृतेः296 । तदर्थम् इदम् उच्यते । येषां सुशीलितं सुसंस्कृतं भोजनं मृदुशय्यादि, न तैः सहसा तत् त्यक्तव्यम् अपि तु क्रमेण सात्म्यताम् आनेतव्यं तद्विपरीतम् । योगः क्रमेण प्रवृत्तिर् उच्यते । तत्र च योगतो वशे कृत्वेति297 संबन्धः । यथास्थानम् एव वा योगत इति योजनीयम् । युक्त्या औचित्यतः शरीरं नापनयेत् । यद् उचितं शरीरस्य न तज् झट् इति निवर्तयेत् । तात्पर्यं वा योगः298 । तृतीयर्थे तसिः । तात्पर्येण शरीरं रक्षेत् ॥ २.१०० ॥
पूर्वां संध्यां जपंस् तिष्ठेत् सावित्रीम् आर्कदर्शनात् ।
पश्चिमां तु सदासीनः सम्यग् ऋक्षविभावनात् ॥ २.१०१ ॥
मेधातिथिः ...{Loading}...
संमुखे प्रातः पूर्वा संध्या । आदित्यास्तमये पश्चिमा । तां तिष्ठेत् जपन् सावित्रीम् । आसनाद् उत्थाय निवृत्तगतिर् एकत्र देशे स्यात् । सावित्री उक्तैव “तत् सवितुर् वरेण्यम्” इति । तस्या ह्य् अनुवादाः । ॐकारादिविधिः श्लोके संध्याजपार्थम् “एतद् अक्षरम् एतां च” इति (म्ध् २.७८) । आर्कदर्शनाद् इति । यावद् भगवान् आदित्यो दृष्टः । जपस्थानयोर् अयम् एव विनिर्देशः ।
- ननु किम्299 विधिना, अर्कोदय एव संध्या निवर्तते । तथा हि, न सर्वं तमः क्षीणं नापि परिपूर्णः प्रकाश एषा संध्या । उक्तं च-
- दिवि प्रकाशो भुवि चान्धकारः कालः स सावित्र इति प्रदिष्टः ।
निरुक्ते ऽप्य् उक्तम्- “अधोभागः300 सावित्रः इति पशुसमाम्नाये विज्ञायते । कस्मात् सामान्याद् अधस्ताद् रामो ऽधस्तात् कृष्णः” इति (निर् १२.१३) । आदित्योदये च सर्वतस् तमो निवर्तते । उभयधर्मानिवृत्तौ च संध्या- रात्रिधर्मे ऽहर्धर्मे च । अत्यन्तसंयोगे चैषा द्वितीया संध्याम् इति । तेन यावत् संध्याकालं तिष्ठेद् इत्य् उक्तं भवति । ततः परं स्वातन्त्र्यं स्थितम् एव ।
- केचिद् आहुर् नैवेयम् अत्यन्तसंयोगे द्वितीया । किं तर्हि “कालश् चाकर्मकाणां कर्मसंज्ञो भवति” इति301 वार्तिककारस् तत्र “कर्मणि द्वितीया” (पाण् २.३.२) इत्य् एव द्वितीया । यत् तु “कालाध्वनोर् अत्यन्तसंयोगे” (पाण् २.३.५) इति तद् यत्र क्रियावाची शब्दो न प्रयुज्यते । क्रोशं कुटिला नदी, सर्वरात्रं कल्याणी । यत्र302 च सकर्मको धातुः- मासम् अधीयत इति303 तस्य विषयः । इह पुनः संध्यां तिष्ठेद् इति तिष्ठतिर् अकर्मकः । अतो विधिनिर्देशः कृत्स्नसंध्याप्राप्त्यर्थं स्थानासनयोः कर्तुम्304 । आरम्भकालस् त्व् इह नोक्तः, संध्याशब्देनैव समर्पितत्वात् । य एव हि संध्याकालस्यारम्भः स एव तद्विधेः305 । न हि पूर्णमास्यादिकालवद् दीर्घः संध्याकालः, यदि विलम्बः स्याद् दुर्लक्षो ह्य् असाव् अतिसूक्ष्मत्वात् तुलान्तरयोर् इव नामोन्नासौ । अलक्ष्यपौर्वापर्यौ रात्रेर् विरामो ऽह्नश् च प्रारम्भः306 । अतिशीघ्रगतिर् भगवान् भास्करस् तस्य यथा निर्भुक्ते राशौ राश्यन्तरसंक्रमणं307 त्रुटिमात्रकालम् इच्छन्ति ज्यौतिषिकाः । एवं देवसारम्भावसानयोर् अप्य् उदयास्तमयौ । प्रागुदयाद् रात्रिर् उदिते ऽहः । अनेन च नास्ति संध्या, आदित्योदयेनैव रात्रिविरामात् । अत एवोदयास्तमयसमीपयोर् अनुष्ठानप्रवृत्तिः । स्पष्टे च सूर्ये नक्षत्रेषु च निवृत्तिर् यतो य इयन्तं कालम् उपास्ते तेनावश्यं मुख्ये काले विधिर् निर्वर्तितो भवति । अत एव च यावान् सावित्रः कालः सेह संध्याभिप्रेता न ज्योतिःशास्त्रगणिता । सा चोक्ता पुरस्तात् ।
-
यद्य् एवं येषाम् अयम् एवाग्निहोत्रकालस् तेषां संध्याविधेर् अभावः प्रसक्तः ।
-
केयं परिनोदना । श्रौतेन स्मार्तस्य बाधो युक्त एव ।308 नैव चात्र विरोधः । तिष्ठतापि शक्यं होतुम् आसीनेन च ।
-
ननु च न केवले स्थानासने संध्ययोर् विहिते, किं तु त्रिकजपो ऽपि । तच् च सावित्रीं जपन् कथं होममन्त्रम् उच्चारयेत् ।
-
अस्तु जपस्य बाधः । प्रधाने तावत् स्थानासने न विरुध्येते । “गुणलोपे च मुख्यस्य” (प्म्स् १०.२.६२) इत्य् अनेन न्यायेन जपस्याङ्गत्वाद् बाधो युक्तः । तयोश् च प्रधानत्वं साक्षाद् विधिसंबन्धात् तिष्ठेद् आसीतेति309 च । जपस्य तु गुणत्वम्, शत्रन्तत्वाज् जपतेर् लक्षणत्वावगमात् । अधिकारसंबन्धश् च स्थानासनयोर् एव, “न तिष्ठति तु यः पूर्वाम्” तथा “तिष्ठन् नैशम् एनो व्यपोहति” इति (म्ध् १.१०३, १०२ ) ।
-
यत् तु केनचिद् उक्तम्- तिष्ठतिर् अत्र गुणः, प्रधानं जपकर्म । ततो हि फलम् अश्रौष्मेति । तत्रोच्यते । नैवायं कामिनो ऽधिकारः । कुतः फलश्रवणम् । यत् तु प्रणवादिवाक्ये “वेदपुण्येन युज्यते” (म्ध् २.७८) इति फलानुवादभ्रमः, स तत्रैव निर्णीतः । तस्मात् स्थानासने प्रधाने ।
-
अथ वा अग्निहोत्रिणः सकृत् सावित्रीं जपिष्यन्ति त्रिर् आवर्तयिष्यन्ति वा । न तावताग्निहोत्रस्य कालातिपत्तिः । अश्नन् सायं विनिर्मुक्त इति न तावता विहन्यते । अश्नशब्दः चिरकालवचनः । तावता च कृतः संध्यार्थो भवति । अर्कदर्शनपर्यन्तता ह्य् अङ्गम् एव । उदितहोमिनां कृतसंध्यानाम् एवाग्निहोत्रहोमः ।
-
गौतमेन तु “सज्योतिष्या ज्योतिषो दर्शनात्” इति (ग्ध् २.११) सूत्रस्यार्थः । एतावान् कालः संध्योच्यते । न विध्यङ्गम् । तत्रैतावति काले नास्त्य् आवृत्तिः । यथा “पौर्णमास्यां यजेत” (श्ब् ११.१.३.६) इति न कालानुरोधेन कर्मण आवृत्तिः, तथा पूर्वां संध्यां सनक्षत्रां पश्चिमां सदिवाकराम् इति, तद् अपि काललक्षणम् एतावान् काल इह संध्याशब्देनोच्यते । तत्र सांध्यो विधिर् अनुष्ठेयः । तत्रेयति संध्याशब्दवाच्ये काले च मुहूर्तमात्रे यदि त्रिचतुरासु कालकलासु स्थानासनजपान् कुर्यात्, संपन्न एव विध्यर्थः । न ह्य् अत्र कृत्स्नकालव्याप्तिः श्रुता310 मनोर् इव । सर्वथाग्निहोत्रसंध्याविधी समानकालाव् अपि शक्याव् अनुष्ठातुम् ।
- सदाशब्दो नित्यताम् आह । उभयसंध्याशेषः । आसीत आसनम् अनूर्ध्वतावस्थानम् उपविष्टो भवेत् । ऋक्षं नक्षत्रम् । आ तद्विभावनात् । आर्कदर्शनाद् इति य आकारः स इहानुषक्तव्यः । सम्यक्शब्दो दर्शनविभावनयोर् विशेषणम् । सम्यग् यदा परिपूर्णमण्डल आदित्यो भवति, नक्षत्राणि च भास्वन्ति स्वभासा युक्तानि नादित्यतेजोऽभिभूतानि ॥ २.१०१ ॥
पूर्वां संध्यां जपंस् तिष्ठन् नैशम् एनो व्यपोहति ।
पश्चिमां तु समासीनो मलं हन्ति दिवाकृतम् ॥ २.१०२ ॥
मेधातिथिः ...{Loading}...
अयम् अत्राधिकार उच्यते । एनः प्रतिषिद्धसेवनाज् जातो दोषस् तं व्यपोहत्य् अपनुदति । निशि भवं नैशं रात्रौ कृतम् । एवं मलम् एनःशब्देन समानार्थम् ।
- न च सर्वस्य दिवाकृतस्य नैशिकस्य चैतत् प्रायश्चित्तम् । तथा सति कृच्छ्राद्युपदेशप्रायश्चित्तविशेषो311 ऽनर्थकः स्यात् । "
- अर्के312 चेन् मधु विन्देत किमर्थं पर्वतं व्रजेत् ।
इति लौकिकात् प्रवादात् । किं तर्हि यद् असेवितं313 कृतम् अशक्यपरिहारम् अनाम्नातप्रायश्चित्तविशेषं लघीय एनस् तद् अपैति । यदा सुप्तस्य हस्तचारशय्यापरिवर्तनादिना सूक्ष्मप्राणिवधो गुह्याङ्गकण्डूकर्षणं नाकस्मात्314 स्पृशेद् इति प्रतिषिद्धम्, लालास्रवादिना चाशुचित्वम् अतत्कालकृताशौचस्यावस्थाने315 प्रतिषिद्धसेवनादि । एतदभिप्रायम् एवेदम्-
- सर्वदैवाशुचिर् ज्ञेयः संध्योपासनवर्जितः । इति ।
न चानित्यतापत्तिः, एवंविधस्य दोषस्य सर्वदाभावात् । दिवा च पथि गच्छन्न् अन्यस्त्रीमुखसंधानसंपन्नं तज्जन्यचित्तविकारोन्मीलने क्रुद्धाश्लीलसंभाषणम्316 । तत्संध्याविधी अपनुदतः ॥ २.१०२ ॥
न तिष्ठति तु यः पूर्वां नोपास्ते यश् च पश्चिमाम् ।
स शूद्रवद् बहिष्कार्यः सर्वस्माद् द्विजकर्मणः ॥ २.१०३ ॥
मेधातिथिः ...{Loading}...
अनेनाननुष्ठानप्रत्यवायं वदन् नित्यताम् एव समर्थयति । यः प्रातः संध्यायां नोर्ध्व आस्ते, न च पश्चिमायाम् उपविष्टो भवति, स शूद्रतुल्यो वेदितव्यः । सर्वस्माद् द्विजातिकर्मणः आतिथ्यादिसत्कारसंप्रदानादितो बहिष्कार्यो ऽपनोद्यः । अतः शूद्रसमानतानिरासार्थं नित्यम् अनुष्ठेया संध्या । इदम् अधिकारवाक्यम् । अत्र च स्थानासन एवोपात्ते जपे । यस्य चाधिकारसंबन्धस् तत्प्रधानम्, अन्यत् तत्सम्बन्धम् अङ्गम् ॥ २.१०३ ॥
अपां समीपे नियतो नैत्यकं विधिम् आस्थितः ।
सावित्रीम् अप्य् अधीयीत गत्वारण्यं समाहितः ॥ २.१०४॥
मेधातिथिः ...{Loading}...
अयम् अपरः स्वाध्यायविधिः । प्रकरणान्तरे ऽश्रुतत्वात् पूर्वस्माद् ग्रहणार्थाद् भिद्यते ।
-
बहिर् ग्रामान् निर्जनो देश अरण्यम् । तद् गत्वा प्राप्य आपां समीपे नदीवाप्यादिस्थाने । तदभावे कमण्डल्वादिभाजनस्थानाम् अपि । नियतः शुचिर् यत्नवान् वा । समाहितः परित्यक्तचित्तव्याक्षेपः । सावित्रीम् अप्य् अधीयीत । यदि बहुसूक्तानुवाकाध्यायादि कयाचित् कार्यातिपत्त्या न शक्यते । नैत्यकं विधिम् आस्थितः । नित्य एव नैत्यकः । नित्यो ऽयं विधिर् इत्य् एवं स्थितप्रज्ञः । ग्रहणार्थश् च स्वाध्यायाध्ययनविधिः प्रकृतिः, अयं विकारः संस्तदीयान् धर्मान् गृह्णाति । तेन “ब्रह्मणः प्रणवम्,” “प्राक्कूलान्” (म्ध् १.७४, ७५) इत्यादिधर्मो भवति ।
-
अन्ये तु विधिर् विधा प्रकार इत्य्कर्तव्यतेत्यादि चक्षते । नित्ये ब्रह्मचारिणावश्यकर्तव्ये स्वाध्यायाध्ययने317 विधेतिकर्तव्यता ताम् आश्रितः । अस्य तु विधेस् तदा नित्यत्वं “ब्रह्मसत्रं हि तत् स्मृतम्” (म्ध् २.१०६) इत्यादिवाक्येभ्यो ऽवसातव्यम् ।
- आद्यम् एव व्याख्यानं युक्तरूपं दृश्यते । न हि विधिशब्दः प्रकारवचनतया प्रसिद्धः । यदि च नैत्यकशब्देन ब्रह्मचारिणो विधिर् उच्यते तदा “नैत्यके नास्त्य् अनध्यायः” (म्ध् २.१०६) इत्य् अत्रापि नैत्यकशब्देन तस्यैवाभिधानं स्यात् ततश् चानध्ययनिषेधस् तत्रैव318 प्रसज्येत ॥ १०४ ॥
वेदोपकरणे चैव स्वाध्याये चैव नैत्यके ।
नानुरोधो ऽस्त्य् अनध्याये होममन्त्रेषु चैव हि ॥ २.१०५ ॥
मेधातिथिः ...{Loading}...
उपकरणम् उपकारकं वेदाङ्गं कल्पसूत्रनिरुकाद्य् उच्यते । तस्मिन् पठ्यमाने ऽनध्याये ऽप्य् अनुरोध आदरो नास्ति । अनध्याये होममन्त्रेषु चैव ह्य् अनध्याया नादरणीयाः319 । अनध्यायेष्व् अध्येतव्यम् । न निरोध इति वा पाठः । निवृत्तिर् अनध्यायेष्व् अध्ययनस्य नास्ति ।
- यद्य् अप्य् अध्ययनविधिधर्मो ऽनध्यायेष्व् अनध्ययनम्, अध्ययनविधिश् च स्वाध्यायविषयः, स्वाध्यायश् च वेदो, न च वेदशब्दवाच्यान्य् अङ्गानि, तथापि वेदवाक्यमिश्रत्वात् तद्बुद्धिः320 स्याद् इति स्पष्टार्थम् उच्यते ।
-
दृष्टान्तो वायम् । वेदाङ्गेष्व् इव वेदे ऽप्य् अनध्यायो नास्ति ।
-
होममन्त्रेष्व् अग्निहोत्रहोमे ये मन्त्रा अन्यस्मिन् वा सावित्रादिशान्तिहोमे । एतच् च प्रदर्शनार्थम् । शश्वज्जपप्रैषादिमन्त्राणां कर्माङ्गानां वैदिकवाक्योच्चारणमात्रधर्मो ऽनध्यायानध्ययनं स्वाध्यायाध्ययनविधिप्रयुक्त इति मन्यमानो होमादिमन्त्रेषु चतुर्दश्यादिष्व् अनुच्चारणं प्रपद्येत यः, स न्यायसिद्धेनार्थेनानूद्यमानेन प्रतिबोध्यते । स्वाध्यायाध्ययनविधिप्रयुक्तम् अनध्यायानुक्रमणं न वेदधर्मः, ततो नास्ति कर्माङ्गमन्त्रेष्व् अनध्यायः । नैत्यके स्वाध्याये पूर्वेण वाक्येन सर्वाश्रमिणां विहिते नित्ये स्वाध्यायविधौ ॥ २.१०५ ॥
नैत्यके नास्त्य् अनध्यायो ब्रह्मसत्रं हि तत् स्मृतम् ।
ब्रह्माहुतिहुतं पुण्यम् अनध्यायवषट्कृतम् ॥ २.१०६ ॥
मेधातिथिः ...{Loading}...
पूर्वविधिशेषो ऽयम् अर्थवादः । एतेन हेतुना नैत्यके नास्त्य् अनध्यायो यतो ब्रह्मस्त्रं तत् स्मृतम् । सततप्रवृत्तं सत्रं यथा सहस्रसंवत्सरादिसत्रं न कदाचिच् छिद्यत इत्य् अतः सत्रम् एवम् इदम् अपि । ब्रह्माध्ययननिर्वर्त्यं ब्रह्मसत्रम्, सत्रत्वाच् च न कदाचिद् विच्छेत्तव्यम् । विच्छेदे हि सत्रत्वं न स्यात् ।
सत्रत्वम् इदानीं रूपकभङ्ग्या योजयति । ब्रह्म अध्ययनम् आहुतिहुतम् अन्यत् सत्रं सोमाहुत्या हूयते । जुहोतिर् अनिवृत्तौ[^३२९] वर्तते, अनेकार्थात्वाद् धातूनाम् । ब्रह्मशब्देन तद्विषयाध्ययनक्रिया लक्ष्यते । ब्रह्माध्ययनम् आहुतिर् इव “उपमितं व्याघ्रादिभिः” (पाण् २.१.५६) इति समासः । अनध्याये यद् अध्ययनं तेन वषट्कृतम् । यथा याज्यान्त अविच्छेदो वषट्कारेण क्रियत एवं चतुर्दश्याद्यनध्यायाध्ययनं वषट्कारस्थानीयम् । वषट्शब्देन वौष्ट्शब्दो लक्ष्यते । तेन कृतं युक्तं संस्कृतम् । साधनंक्रेति समासः ॥ २.१०६ ॥
यः स्वाध्यायम् अधीते ऽब्दं विधिना नियतः शुचिः ।
तस्य नित्यं क्षरत्य् एष पयो दधि घृतं मधु ॥ २.१०७ ॥
मेधातिथिः ...{Loading}...
प्रकृतविधिशेषो ऽयम् । स च नित्यः समधिगतः । नित्ये च फलश्रवणम् अर्थवादः । न च विधिविभक्तिर् विद्यते । येन “एकस्य तूभयत्वे संयोगः पृथक्त्वम्” (प्म्स् ४.३.५) इत्य् अनेन न्यायेनाधिकारान्तरहेतुः पयःप्रभ्र्तिः स्यात् । लब्धे च नित्ये ऽधिकारे रात्रिसत्रन्यायो ऽपि नास्ति, येन पयआदीनि निष्फलत्वेन कल्पेरन् । तस्माद् अर्थवाद एवायम्, अधीयानस्य लोकपक्त्या प्रतिग्रहादिना गोलाभात् पयःप्रभृतेः प्रक्षरणानुवादस्यालम्बनम् ।
-
स्वाध्यायं वेदम् अधीते ऽब्दं संवत्सरं विधिना प्राक्कूलाध्यासनेन नियतः संयतेन्द्रियः शुचिः स्नानादिना तस्य पुरुषस्य नित्यं यावज्जीवं क्षरति स्रवति ददाति । एषः स्वाध्यायः । पयोदध्ईति ।
-
अन्ये तु धर्मार्थकाममोक्षान् पयआदिभिः शब्दैर् अभिहितान् मन्यन्ते । पयः शुद्धिसामान्याद् धर्मः, दधि पुष्टिहेतुत्वाद् अर्थः, स्नेहसामान्यात् घृतं कामः, सर्वरसैक्यान् मधु मोक्षः । यावान् कश्चन पुरुषार्थः स सर्वो वेदाध्ययनात् संवत्सरेणैव प्राप्यते, किं पुनर् बहुना कालेन ।
-
अर्थवादत्वात् पयआदिशब्दानां को ऽर्थो युक्त इति नाभिनिवेष्टव्यम् ॥ २.१०७ ॥
अग्नीन्धनं भैक्षचर्याम् अधःशय्यां गुरोर् हितम् ।
आ समावर्तनात् कुर्यात् कृतोपनयनो द्विजः ॥ २.१०८ ॥
मेधातिथिः ...{Loading}...
सायंप्रातः समिद्भिर् अग्नेर् आदीपनम् अगीन्धनम् । अपर्यङ्कारोहणम् अधःशय्या । न तु स्थण्डिलशायित्वम् एव । गुरवे हितम् उदकुम्भाद्याहरणं शुश्रूषणलक्षणम् । यत् तु तदुपकारकरणं तद् यावज्जीविकम् । एतद् आ ब्रह्मचर्यसमाप्तेर् गुरुकुलनिवृत्तिलक्षणात् स्नानात् कर्तव्यम्, स्वाध्यायाध्ययनविध्यर्थत्वात् । ब्रह्मचर्यस्य तद्धर्माणां च यावद् ग्रहणम् अनुवृत्तिस् तन्निवृत्त्या च निवृत्तिः सिद्धैवेति ।
- अग्नीन्धनादीनां पुनर्वचनं तद्व्यतिरिक्तस्यातिक्रान्तस्य धर्मकलापस्योत्तरेषाम् अप्य् आश्रमिणाम् अनुष्ठानार्थम् । तथा च गौतमः- “उत्तरेषां चैतद् अविरोधि321” इति (ग्ध् ३.९) ।
- अथैवं कस्मान् न भवति एते यावद् ब्रह्मचर्यभाविनः, अन्ये पुनर् अर्वाग् अपि निवर्तन्त इति । स्मृत्यन्तरम् अत्रदर्शितम्322 । प्रधानकानानुवर्तिनश् च नियमा इत्य् एष न्यायः सत्यां गतौ323 स्यात् ।
- गुरवे हितम् इति हितयोगे चतुर्थी (पाण् २.१.३६) न्याय्या ॥ २.१०८ ॥
आचार्यपुत्रः शुश्रूषुर् ज्ञानदो धार्मिकः शुचिः ।
आप्तः शक्तो ऽर्थदः साधुः स्वो ऽध्याप्या दश धर्मतः ॥ २.१०९ ॥
मेधातिथिः ...{Loading}...
वक्ष्यति324 “सर्वेषाम् एव दानानां ब्रह्मदानं विशिष्यते” (म्ध् ४.२३३) इति । तत्र कीदृशाय विद्या दातव्या इति पात्रलक्षणार्थः श्लोकः । ब्रह्मचारिधर्मप्रसङ्गेनाध्यापनविधिर् अयम् उच्यते ।
- आचार्यस्य पुत्रः । शुश्रूषा परिचर्या गृहोपयोगि शक्तितः कर्म करणं शरीरसंवाहनं च । ज्ञानादः यः कश्चिद् ग्रन्थ आचार्यस्य न विदितः, शिष्येण कथंचिच् छिक्षितो ऽर्थकामकलाविषयो धर्मविषयो वा । विद्याविनियमेनेदम् अध्यापनम् । धार्मिकः अग्निहोत्रादिकर्मानुष्ठानप्रधानः । शुचिर् मृद्वारिशुद्धः अर्थशुद्धश् च । गोबलीवर्दवत् पदत्रयस्य पुनर् उक्तम्- धार्मिकः शुचिः साधुर् इति । आप्तः सुहृद्बान्धवादिः पर्त्यासन्नः । शक्तः ग्रहणधारणसमर्थः । अर्थदः325 । स्वः पुत्रः उपनीतश् च । पूर्वे326 अन्योपनीता अप्य् अध्याप्याः ।
- ननु च धर्मत इत्य् उच्यते, एतैर् अध्यापितैर् धर्मो भवति । अर्थदश् च दृष्टेनोपकरोति । तत्र कुतो ऽदृष्टकल्पना । केनोक्तं कल्पनेति327 । श्रुते का कल्पना । साक्षाद् एव हि श्रुतम् अध्याप्या दश धर्मत इति ।
- उपाध्यायस् त्व् आह धर्मशास्त्रव्यवस्थोच्यते । एतैर् अध्यापितैर् धर्मातिक्रमो न भवति, न पुनर् अर्थदे अध्यापिते विद्यादानलक्षणो धर्मो भवति ॥ २.१०९ ॥
नापृष्टः कस्यचिद् ब्रूयान् न चान्यायेन पृच्छतः ।
जानन्न् अपि हि मेधावी जडवल् लोक आचरेत् ॥ २.११० ॥
मेधातिथिः ...{Loading}...
अधीयानेनानुपसन्नेन यदि नाशितम् अपाक्षरं विस्वरं वाधीतं तदापृष्टेन न वक्तव्यम्- “नाशितं त्वयैवम् एतत् पठितव्यम्” इति । शिष्यस्य त्व् अपृच्छतो ऽपि वक्तव्यम् । पृच्छमानो ऽपि यद्य् अन्यायेन पृच्छति तथापि न वक्तव्यम् । प्रशयपूर्वकम् “अस्मिन् वस्तुनि मे संदेहस् तद् उपदेष्टुम् अर्हसि” इति शिष्यधर्मेण प्रश्नो न्यायेन । अन्यथा तु जानन्न् अपि जडवन् मूक इव लोके वर्तेत आचरेद् अज्ञ इव तूष्णीम् आसीत ।
- शास्त्रविषयो ऽयम् अपृष्टसंदेहापनयननिषेधः । व्यवहारे तु वक्ष्यति- “नियुक्तो वानियुक्तो वा धर्मज्ञो वक्तुम् अर्हति” इति । अन्ये त्व् अविशेषेणेच्छन्ति ॥ २.११० ॥
अधर्मेण च यः प्राह यश् चाधर्मेण पृच्छति ।
तयोर् अन्यतरः प्रैति विद्वेषं वाधिगच्छति ॥ २.१११ ॥
मेधातिथिः ...{Loading}...
अस्य प्रतिषेधस्यातिक्रमे दोषम् आह । अधर्मेण पृष्टो ऽन्यायपृष्टश् च यः प्रब्रवीति “एवम् एतद् उक्तम् अध्येतुम्” इति । यश् च पृच्छति । ताव् उभाव् अपि म्रियेते अप्राप्तकालौ । अथैको व्यतिक्रमकारी स एव म्रियते । यद्य् अन्यायेन पृष्टो न वक्ति तदा प्रष्टैव वाथ प्रतिवक्ति तदोभाव् अपि । अनेनान्यायप्रश्ने दोषदर्शनेन प्रष्टुर् न्याय्यः प्रश्नविधिः । दिद्वेषं वा द्वेष्यतां लोके प्राप्नोति ॥ २.१११ ॥
धर्मार्थौ यत्र न स्यातां शुश्रूषा वापि तद्विधा ।
तत्र विद्या न वप्तव्या328** शुभं बीजम् इवोषरे ॥ २.११२ ॥**
मेधातिथिः ...{Loading}...
यद् उक्तम् “अध्याप्या दश धर्मतः” (म्ध् २.१०९) इति तस्यैवायं प्रकारान्तरेण संक्षेपतः प्रतिनिर्देशः, नापूर्वार्थाभिधानम्, प्रकृतानुवादत्वात् । अर्थशब्द उपकारमात्रलक्षणापरो द्रष्टव्यः, विद्याविनिमयेनापि पूर्वम् अध्ययनस्योक्तत्वात् । तद्विधा अध्यापनानुरूपा । महति महती स्वल्पे स्वल्पेति । तत्र विद्या । विद्यते ज्ञायते यया सर्वो ऽर्थ इति सा विद्या पाठो ऽर्थावबोधश् च । अनुपकारी नाध्याप्यः, न चास्यार्थविवरणं कर्तव्यम् ।
- उषरो भूमिभाग उच्यते, यस्मिन्न् अखिले ऽपि मृत्तिकादोषाद् बीजं न प्ररोहति । शुभं श्रेष्ठं व्रीह्यादिकं लाङ्गलादिनोप्यते । एवं विद्यापि क्षेत्रे ह्य् उप्ता महाफला भवति । न चैतन् मन्तव्यम्, अर्थम् आदाय यद् अध्यापनं सा भृतिः । न हि पणपरिमाणसंभाषणपूर्विका तत्र प्रवृत्तिः- “यदेयद् ददासि तदैतद् अध्यापयामि” इति । एतद् भृते रूपम् । न पुनर् अर्थोपकारगन्धमात्रेण ।
यत् तु न पूर्वं किंचिद् गुरवे उपकुर्वीतेति, नासौ पूर्वोपकारप्रतिषेधः, किं तु स्नास्यतावशम् आज्ञप्तेन गुर्वर्थो यथाशक्ति संपाद्यः । तच्छेष एव प्रतिषेधो न पृथग् वाक्यम्[^३३८] ॥ २.११२ ॥
विद्ययैव समं कामं मर्तव्यं ब्रह्मवादिना ।
आपद्य् अपि हि घोरायां न त्व् एनाम् इरिणे वपेत् ॥ २.११३ ॥
मेधातिथिः ...{Loading}...
समंशब्दः सहार्थे । अप्रतिपादितया स्वदेह एव जर्जरितया329 युक्तं ब्रह्मवादिनो वेदाध्यायिनो मरणम्, न पुनर् अपात्रे प्रतिपादनम् ।
- अनेन च ज्ञायते- अध्यापनम् अप्य् अधीतवेदेनावश्यं कर्तव्यम्, न केवलं वृत्त्यर्थम् । नापि वार्यादिदानवत् फलकामस्यैवाधिकारः । तथा च श्रुतिः- “यो हि विद्याम् अधीत्यार्थिने न ब्रूयात् स कार्यहा स्यात् । श्रेयसो द्वारम् अपावृणुयात् । अध्यापयेन् महद् एतद् यशस्यं वाचो ऽधिकारं कवयो वदन्ति । अस्मिन् योगे सर्वम् इदं प्रतिष्ठितम् । य एवं विदुर् अमृता ते भवन्ति” । “स कार्यहा स्यात्” इत्य् अनेनानध्यापने दोषम् अनुवदन्ती330 श्रुतिर् एवावश्यकर्तव्यतां ज्ञापयति ।
- इरिणे, पूर्वोक्तप्रयोजनत्रयाभावो यत्र । आपद्य् अपि हि घोरायां कष्टायाम् अपि । कष्टा आपदुक्तशिष्याभावः । एतच् चावश्यकर्तव्ये सत्य् उपपद्यते । नित्यत्वे हि मुख्याभावे प्रतिनिधिशिष्योपादानेनाध्यपननिवृत्तिः331 प्राप्ता । व्रीह्यभाववन् नीवारैः । अतो ऽस्याम् अवस्थायाम् अध्यापनाधिकारनिवृत्तिर् एव । यथोक्तलक्षणातिथ्यभावे ऽतिथिपूजानिवृत्तिः । वपेद् इति लक्षणया बीजधर्मेणाध्यपनम् उच्यते । बीजं किल क्षेत्रोप्तं बहुफलं भवत्य् एवं विद्यापि ।
- अन्ये332 तु धनाभावनिमित्ताम् आपदम् आचक्षते । अत्यन्तदुर्गतेनापि नेरिणे वप्तव्येति वरं म्रियताम्333 । “सर्वत एवात्मानं गोपायेत्” (ग्ध् ९.३४) इति नैष विधिर् अतिक्रान्तो भवति सत्य् अपि तथाविधाध्यापने वृत्त्युपाये ।
- तद् एतद् अयुक्तम् । अर्थदो नैवेरिणम्, पूर्वोक्तानुवादत्वाद् इरिणशब्दस्य । यदि चार्थदो ऽपि न भवति कथम् आपदि तत्र प्रवृत्तिः संभाव्यते, या निषिध्यते ॥ २.११३ ॥
विद्या ब्राह्मणम् एत्याह शेवधिष्टे ऽस्मि रक्ष माम् ।
असूयकाय माम् मादास् तथा स्यां वीर्यवत्तमा ॥ २.११४ ॥
मेधातिथिः ...{Loading}...
अयम् अप्य् अर्थवाद एव । विद्या मूर्तिमती कंचिद् उपाध्यायम् आगत्य आह प्रोक्तवती । शेवधिर् निधिस् तव अस्मि रक्ष माम् । का पुनस् ते रक्षा । असूयकाय कुत्साकराय निन्दकाय मां मादाः । निन्दकं माध्यापय । तथा चैवम् अहं वीर्यवत्तमा अतिशयेन तव कार्यकारिणी334 भवामि । वीर्यं कार्यनिवृत्तौ सामर्थ्यातिशयः । “शेवधिष्टे ऽस्मि” इति कृतषत्वं पठितं तच्छान्दसप्रयोगानुकरणम् ॥ २.११४ ॥
यम् एव तु शुचिं विद्या[^३४५]** नियतं ब्रह्मचारिणम् ।**
तस्मै मां ब्रूहि विप्राय निधिपायाप्रमादिने ॥ २.११५ ॥
मेधातिथिः ...{Loading}...
यं शिष्यं शुचिं जानीयाः335 नियतं संयतेन्द्रियं यत्नपरं ब्रह्मचारिणं तस्मै मां ब्रूहि । यो हि निधिं पाति रक्षति । यतो ऽसाव् अप्रमादी न प्रमाद्यति न स्खलति, तत्परत्वात् । शक्ताप्तार्थदादीनां सर्वशिष्याणाम् एतद्गुणसंयोगे देयेत्य् अस्माद् अर्थवादाद् गम्यते ॥ २.११५ ॥
ब्रह्म यस् त्व् अननुज्ञातम् अधीयानाद् अवाप्नुयात् ।
स ब्रह्मस्तेयसंयुक्तो नरकं प्रतिपद्यते ॥ २.११६ ॥
मेधातिथिः ...{Loading}...
यो ऽभ्यासार्थम् अधीयानस्यान्यं चोद्दिश्यैवं व्याचक्षाणस्य तत्संनिकर्षम् अन्य आगत्य तद्ब्रह्मापूर्वं गृह्णीयात् संदेहं वापनुदेत् तस्यैष दोष उच्यते । यावद् अनुज्ञाम् असौ न दाप्यते, “यथैते त्वत्सकाशाद् अधीयत एवम् अप्य् अहम् अप्य् अधीयीयेत्य् अनुज्ञातुम् अर्हसि” इति लब्धानुज्ञां शिक्षेत । अन्यथा तु यद्ब्रह्माध्ययनं तत् स्तेयम् इव । सो ऽध्येतानेन ब्रह्मचौरेण संयुक्तो नरकं महायातनास्थानं प्राप्नोति ।
- अधीयानाद् इति पञ्चमी “आख्यातोपयोगे” (पाण् १.४.२९) इति । अपायस्य वा गम्यमानत्वाद् ब्रह्म ह्य् अध्येतुर् निष्क्रामतीव । ल्यब्लोपे वा कर्मणि । अधीयानं श्रुत्वाप्नोति शिक्षते ॥ २.११६ ॥
लौकिकं वैदिकं वापि तथाध्यात्मिकम् एव वा ।
आददीत यतो ज्ञानं तं पूर्वम् अभिवादयेत् ॥ २.११७ ॥
मेधातिथिः ...{Loading}...
अतिक्रान्तं प्रासङ्गिकम् । अभिवादनविधिर् इदानीं प्रक्रम्यते ।
- लोके भवं लौकिकं लोकाचारशिक्षणम् । अथ वा गीतवादित्रकलानां ज्ञानं वात्स्यायनविशाखिकलाविषयग्रन्थज्ञानं वा । वैदिकं विधिनोदितं वेदवेदाङ्गस्मृतिविषयम् । आध्यात्मिकविद्यात्मोपनिषद्विद्या । आत्मोपचाराद् वा शरीरस्य वैदिकम् । एतज् ज्ञानं यतः शिक्षेत तं पूर्वम् उपदेष्टारं पुरुषम् अभिवादयेत् । प्रथमसंगमे यद् आशीःप्रयोगार्थं वक्ष्यमाणस्वरूपेण प्रयोगेण शब्देन संमुखीकरणं सो ऽभिवादयतेर् अर्थः । पूर्वम् इति प्रथमम् । तेनासौ संबोध्यः, न पुनस् तदीयं वचनम् अपेक्षितव्यम् । तदा हि प्रत्यभिवादयिता भवेत् । अभिवादयेद्336 इत्य् अनेनैव सिद्धत्वात् पूर्वशब्दो ऽनर्थक इति चेत् तन् न । सति ह्य् अस्मिन्न् अयम् अर्थो लभ्यते । धातूपसर्गार्थपर्यालोचनया ह्य् आभिमुख्येन वदनमात्रं प्रतीयते । अन्येनापि संबोधितस्य भवत्य् एव । ये तु पूर्वं स्वयोनिगुरुभ्य337 इति व्याचक्षते, तद् अप्रकृतसंशब्दितम् इत्य् उपक्ष्यम् ॥ २.११७ ॥
सावित्रीमात्रसारो ऽपि वरं विप्रः सुयन्त्रितः ।
नायन्त्रितस् त्रिवेदो ऽपि सर्वाशी सर्वविक्रयी ॥ २.११८ ॥
मेधातिथिः ...{Loading}...
अभिवादनाद्याचारविधेः स्तुतिर् इयम् । सावित्रीमात्रं सारं प्रधानं यस्य स एवम् उच्यते, सावित्रीमात्राध्ययनः । वरं श्रेष्ठो विप्रो यदि सुयन्त्रितो भवति शास्त्रनिगृहीतात्मा । अयन्त्रितस् त्रिवेदो ऽपि शास्त्रविद् अपि । सर्वाशी338 सर्वम् अश्नाति लोकाचारगर्हितं साक्षाद् अप्रतिषिद्धम् अपि । एवं सर्वविक्रयी । प्रदर्शनार्थाव् अशनविक्रयाव् अन्यस्यापि प्रतिषिद्धस्य ।
- एतद् उक्तं भवति । यथान्यनियमत्यागान् निन्द्यते एवं प्रत्युत्थानादित्यागाद् अपि । अथ कथं वरं विप्र इति, यावता वरो विप्र इति भवितव्यम् । केचिद् आहुः सामान्योपक्रमस्य विशेषस्याभिधानात्, वरम् एतत्, किं तत्, यत् सुयन्त्रितो विप्र इति । अन्ये त्व् आहुर् आविष्टलिङ्गो वरशब्दो नपुंसकलिङ्गो ऽप्य् अस्ति ॥ २.११८ ॥
शय्यासने ऽध्याचरिते श्रेयसा न समाविशेत् ।
शय्यासनस्थश् चैवैनं प्रत्युत्थायाभिवादयेत् ॥ २.११९ ॥
मेधातिथिः ...{Loading}...
शय्या चासनं चेति “जातिर् अप्राणिनाम्” (पाण् २.४.६) इति द्वन्द्वैकवद्भावः । तस्मिन् श्रेयसा विद्याद्यधिकेन गुर्वादिना च न समाविशेन् न सहासीत । किं सर्वस्मिन्न् एव । नेत्य् आह । अध्याचरिते कल्पिते शय्यात्वेनासनत्वेन च । यत् तु शिलाफलकादिस् तत्र न दोषः । वक्ष्यति च “आसीत339 गुरुणा सार्धम्” (म्ध् २.२०४) इति तस्यैवायम् अनुवादः ।
-
अन्ये व्याचक्षत अध्याचरिते अधिष्ठित इति । न समाविशेत् तत्रोत्तरकालम् अपि, न केवलं सहासनप्रतिषेधः । स हि वक्ष्यमाणेनैव सिद्धः । विधौ च संभवति नानुवादो युक्तः ।
-
तत्र केचिद् आचारतो भेदं व्याचक्षते । यद् गुरोर् असाधारण्येन शय्यात्वेनासनत्वेन च विज्ञातम्, यत्र गुरुः शेते आस्ते च, तत्र शिष्यः प्रत्यक्षं प्रोक्षं च नोपविशेत् । यत्र तु कथंचिद् एते क्रिये गुरुणा कृते तत्र गुरोर् अप्रत्यक्षं प्रतिषेधः । ईदृशम् एव्आध्याचरितम् उच्यते, न स्वस्वामिसंबन्धेन यद् अधिष्ठानम् ।
-
शय्यासनस्थस्य च यदि श्रेयान् आगच्छति तदा तत उत्थायाभिवादनं कर्तव्यम् । यत् तु “यानासनस्थः” (म्ध् २.२०२) इति तद् गुरूद्दिष्टम्340 अवरोहणम् । शय्यासनत्याग एव भूमिष्ठेन कर्तव्य इति तस्यार्थः । इदं त्व् अगुरोः श्रेयसः प्रत्युत्थानम् आसनस्थस्यैव संभवति ॥ २.११९ ॥
ऊर्ध्वं प्राणा ह्य् उत्क्रामन्ति यूनः स्थविर आयति ।
प्रत्युत्थानाभिवादाभ्यां पुनस् तान् प्रतिपद्यते ॥ २.१२० ॥
मेधातिथिः ...{Loading}...
पूर्वस्यार्थवादः । स्थविरे वृद्धवयस्य् आयात्य् आगच्छति, यूनस् तरुणस्य ऊर्ध्वं प्राणाः जीवितहेतवो ऽन्तर्मरुत ऊर्ध्वम् आस्याद् बहिर् निक्रामन्ति । अपानवृत्तिं परित्यज्य जीवविच्छेदं चिकीर्षन्ति । प्रत्युत्थाय यद् अभिवादनं क्रियते तेन यथापूर्वं जीवितस्थेम्ने कल्पन्ते । प्रतिपद्यते प्रत्युज्जीवति ॥ २.१२० ॥
अभिवादनशीलस्य नित्यं वृद्धोपसेविनः ।
चत्वारि संप्रवर्धन्ते आयुर् धर्मो यश्ō बलम् ॥ २.१२१ ॥
मेधातिथिः ...{Loading}...
सर्वान् एव प्रति पूर्वाभिभाषिता यथार्हाभिवादनशीलता न पुनर् अभिवादनशब्दोच्चारणम् एव । शीलशब्देन प्रयोजनापेक्षाभाव उच्यते । नित्यं वृद्धान् उपसेवते प्रियवचनादिना । यथाशक्त्या ह्य् उपकारेण चाराधयते । तस्य चत्वारि संप्रवर्धन्ते । आयुर् धर्मो ऽमुत्र स्वर्गादिफलपादपः । यशोबले च प्रागुक्ते । अर्थवादो ऽप्य् अयं फलावगमहेतुः ॥ २.१२१ ॥
अभिवादात् परं विप्रो ज्यायांसम् अभिवादयन् ।
असौ नामाहम् अस्मीति स्वं नाम परिकीर्तयेत् ॥ २.१२२ ॥
मेधातिथिः ...{Loading}...
येअन् शब्देन परः संबोध्यते, आशिषं प्रति प्रयोज्यते, कुशलप्रश्नं वा कार्यते, सो ऽभिवादः । अस्माद् अभिवादाद् अभिवादप्रतिपादकाच् छब्दात् परम् अव्यवहितपूर्वं इमं341 शब्दम् उच्चारयेत्- असौ नामाहम् अस्मीत्य् । असाव् इति सर्वनाम सर्वविशेषप्रतिपादकम् । अभिमुखीकरणार्थो ऽयम् ईदृशः शब्दप्रयोगः “मया त्वम् अभिवाद्यसे आशीर्वादार्थम् अभिमुखीक्रियसे” । ततो ऽध्येषणाम् अवगम्य प्रत्यभिवादम् आशीर्दानादि कर्तुम् आरभते ।
- न च सामान्यवाचिना सर्वनाम्ना प्रयुज्यमानेनैतद्342 उक्तं भवतीदं नामधेयेन मयाभिवाद्यसे इत्य् अतो ऽध्येषणाम् अनवबुध्य कस्याशिषं प्रयुङ्क्ताम् ।अपि च स्वनाम परिकीर्तयेद् इति श्रुतम् । तत्रासौ देवदत्तनामाहम् इत्य् उक्तेनाभिवादनं प्रतिपद्येत । असाव् इत्य् एतस्य पदस्यानर्थक्याद् अर्थानवसायः ।
-
स्मृत्यन्तरतन्त्रेणापि व्यवहरन्ति च सूत्रकाराः । यथा पाणिनिः- “कर्मणि द्वितीया” (पाण् २.३.२) इति द्वितीयादिशब्दैः । इहाप्य् असाव् इति । “स्वं नामातिदिशत” इति यज्ञसूत्रे ऽपि परिभाषितम् । यद्य् एवं स्वं नामेत्य् अनेनैव सिद्धे ऽसौ नामेत्य् अनर्थकम् । नामशब्दप्रयोगार्थम् । कथम् । स्वं नाम कीर्तयेद् इदं नामाहम् इति । अनेन स्वरूपेणाहम् अस्मीति । समानार्थत्वाद् विकल्पं मन्यन्ते ।
-
अत्र श्लोकद्वये343 एतावद् अभिवादनवाक्यस्य रूपं सिद्धम्- “अभिवादये देवदत्तनामाहं भोः” । उत्तरेण श्लोकेन भोर् इत्य् एतद् विधास्यते । ज्यायांसम् इति वचनात् समहीनानाम् अप्य् अभिवादनम् अस्ति, न त्व् अयं प्रकारः, ज्यायोविषयत्वाद् अस्य ॥ २.१२२ ॥
नामधेयस्य ये केचिद् अभिवादं न जानते ।
तान् प्राज्ञो ऽहम् इति ब्रूयात् स्त्रियः सर्वास् तथैव च ॥ २.१२३ ॥
मेधातिथिः ...{Loading}...
वित्ताद्याधिक्येनाविदुषो ऽपि यथाविध्य् अभिवाद्यतायां प्राप्तायां तन्निवृत्त्यर्थम् इदम् । ये केचिद् अविद्वांसो नामधेयस्य संस्कृतस्योच्चारितस्य अभिवादम् अभिवादार्थम् । अभिवादिता एतेन वयम् इत्य् अवैय्याकरणा न जानतेम् संस्कृतं नावबुध्यन्ते, तान् प्राज्ञो नारीश् चाभिवाद्याः । एते न संस्कृतम् उच्यमानं प्रतिपद्यते, तत्र विध्येकदेशं स्वनामग्रहणं हित्वा “अभिवादये ऽहम्” इत्य् एतावद् एव ब्रूयात् । तद् अपि चेन् नावबुध्यन्ते, लौकिकेनापभ्रंशेनाप्य् अभिवाद्या इत्य् एवमर्थं प्राज्ञग्रहणम् । तदीयाम् अबोधशक्तिं ज्ञात्वोहितव्यो ऽभिवादप्रयोगो नोपदेश एवादर्तव्यः । स्त्रियो ऽप्य्344 एवम् एव । सर्वग्रहणं गुरुपत्नीनां संस्कृतप्रयोगज्ञानाम् अपि ।
-
अन्ये तु य उपनामिकया प्रसिद्धो वनमालीवर्ण इति, पितृकृतं यत् तस्य नाम तन् न प्रसिद्धम्, यत् प्रसिद्धं न तन् नामेत्य् अतो ऽसौ स्वनाम कीर्तयेत् ।
-
अन्ये तु प्रत्यभिवादं न जानत इति वर्णयन्ति । “प्रत्यभिवादे ऽशूद्रे” (पाण् ८.२.८३) इति नामान्ते प्लुतो विहितः । तं ये न विदुस् तेष्व् अहम् इत्य् एव वाच्यम् । व्याकरणप्रयोजनोपन्यासप्रसङ्गेन चैतन् महाभाष्यकारेण प्रदर्शितम् ।
-
अविद्वांसः प्रत्यभिवादे नाम्नो ये न प्लुतिं विदुः ।
-
कामं तेषु तु विप्रोष्य स्त्रीष्व् इवायम् अहं वदेत् ॥ (पत् इ- ३)
स्मृत्यन्तरसामर्थ्याद् एवायम् अभिवादशब्दः प्रत्यभिवादे वर्तत इत्य् आहुः ।
- यदि चैतद् एवं न व्याख्यायते तदा नाभिवाद्यः स विदुषेति सर्वेण सर्वम् अभिवादप्रतिषेधः आश्रीयमाणे “अयम् अहं वदेद्” इति स्मृत्यन्तरविरोधः । अस्मिंस् त्व् एवं व्याख्याते स प्रतिषेधः स्तुत्यालम्बनो न विधायक एतद् अर्थानुसारितया नीयते ॥ २.१२३ ॥
भोःशब्दं कीर्तयेद् अन्ते स्वस्य नाम्नो ऽभिवादने ।
नाम्नां स्वरूपभावो हि भोभाव ऋषिभिः स्मृतः ॥ २.१२४ ॥
मेधातिथिः ...{Loading}...
स्वस्य नाम्नो ऽन्ते भोःशब्दं कीर्तयेत् । स्वग्रहणम् अभिवाद्यमानप्रतिषेधार्थम् । परिशिष्टो ऽर्थवादः । न च नामाक्षराणाम् एवान्ते ऽपि तु ततः परेषाम् “अहम् अस्मि” इति । एष हि तत्रेतिकरणं प्रयोगावधारणार्थम् । एवम् एव प्रयोक्तव्यः । अपि च “देवदत्तो भो अहम्” इति दुःशिष्टे प्रयोगे विलम्बितायां प्रतिपत्तौ संमुखीभावश् चिरेण स्यात् तत्र कार्यविरोधः । व्यवहितसंबन्धे कश्चिन् नैवावधानवान् स्यात् ।
- स्वरूपभावः स्वरूपस्य सत्ता । अथ वाभिवाद्यनाम्नां स्वरूपे भवति, तत्स्थाने भवत्य् अतस् तन्नामनिवृत्तिः । भावसाधनः कर्तृसाधनो वा भावशब्दः । स्वरूपभाव इति सप्तम्यन्तो वा पठितव्यः । भोभावः345 । भो इत्य् एतस्य यद् भवनं यत् स्वरूपं तन् नाम्नां स्वरूपम् । यथैव नाम गृहीत्वा कस्यचित् संबोधनं क्रियते “देवदत्त श्रूयताम्” इति, एवं भोःशब्दो ऽप्य् आमन्त्रितविभक्त्यन्तः संबोधनायैवं ऋषिभिः स्मर्यते ॥ २.१२४ ॥
आयुष्मान् भव सौम्येति वाच्यो विप्रो ऽभिवादने ।
अकारश् चास्य नाम्नो ऽन्ते वाच्यः पूर्वाक्षरः प्लुतः ॥ २.१२५ ॥
मेधातिथिः ...{Loading}...
अभिवादने कृते प्रत्यभिवादः पित्राभिवादयिता एवं वाच्यः आयुष्मान् भव सौमेति । इत्य्शब्दः प्रकारे । आयुष्मान् एधि दीर्घायुर् भूयाश् चिरञ्जीवेत्य् एवमादिशब्दपरिग्रहः शिष्टाचारप्रसिद्धो भवति ।
- अकारश् चास्य प्रत्यभिवाद्यस्य यन् नाम तदन्ते यो ऽकारः स प्लुतः कर्तव्यः । प्लुत इति त्रिमात्रस्य संज्ञा । अकारग्रहणम् इकारादीनाम् अपि प्रदर्शनार्थम् । अजपेक्षम् एव चान्तत्वं द्रष्टव्यम् । व्यज्ञनान्तस्यापि यो ऽन्त्यः स्वरस् तस्य भवति । पूर्वाक्षर एव प्लुतभाविनो ऽकारस्य विशेषणम् एतत् । अक्षरम् अत्र व्यञ्जनम् । तत्र पूर्वश्लिष्टः346 स एवम् उच्यते । एतद् उक्तं भवति । पूर्व एव नागन्तुर् अकारः प्लुतः कर्तव्यः । किं तर्हि, य एव नाम्नि विद्यते स एव प्लावयितव्यः ।
- सर्वं चैतद् एवं व्याख्यानं भगवतः पाणिनेः स्मृतिसामर्थ्येन347 । शब्दार्थप्रयोगे च मन्वादिभ्यो ऽधिकतरः प्रामाण्ये भगवान् पाणिनिः । स च “प्रत्यभिवादे ऽशूद्रे” (पाण् ८.२.८३) टेः प्लुतिं स्मरति । टिशब्देन यो ऽन्त्योच् तदादिशब्दरूपम् उच्यते ।
- विप्रग्रहणम् अविवक्षितम् । क्षत्रियादीनाम् अप्य् एष एव विधिः । स्मृत्यन्तरसमाचारो ह्य् एवम् एव स्थितः । न चैषां विध्यन्तरम् अस्ति । अत्रोदाहरणम् “आयुष्मान् देवदत्त३” । व्यञ्जनान्तस्य “आयुष्मान् एधि सोमशर्म३न्” ॥ २.१२५ ॥
यो न वेत्त्य् अभिवादस्य विप्रः प्रत्यभिवादनम् ।
नाभिवाद्यः स विदुषा यथा शूद्रस् तथैव सः ॥ २.१२६ ॥
मेधातिथिः ...{Loading}...
यो न वेत्ति प्रत्यभिवादनम् इत्य् एवं वाच्यम् अभिवादस्येत्य् अतिरिच्यते, न संगच्छते । नैवम् । अभिवादस्य अनुरूपं प्रत्यभिवादनम् इत्य् एवं योजना क्रियते । येन स्वनामोच्चार्याभिवादनं कृतं तस्य नामान्ते प्लुतिः कर्तव्या । यस् त्व् “अहं भो” इत्य् एवम् अभिवदेन् न तस्य नामोच्चारणं348 नापि प्लुतिर् इति ।
- नाभिवाद्य इत्य् अभिवादनशब्दोच्चारणप्रतिषेधः । यथा विहितम् अभिवादनं कर्तव्यम्, न पुनर् “अहं भो” इत्यादि, तस्य प्राग् दर्शितत्वात् । यथा शूद्र इति च दृष्टान्तेनैतद् एव ज्ञायते । शूद्रस्यापि वृद्धवयसो ऽभिवाद्यत्वं पूर्वाभिभाष्यत्वम् इष्यते । विदुषेति पादपूरणार्थम् ॥ २.१२६ ॥
**ब्राह्मणं कुशलं पृच्छेत् क्षत्रबन्दुम् अनामयम् । **
वैश्यं क्षेमं समागम्य शूद्रम् आरोग्यम् एव च ॥ २.१२७ ॥
मेधातिथिः ...{Loading}...
कृताभिवादनप्रत्यभिवादनयोः सौहार्दे प्राप्ते जिज्ञसाप्रश्ने जातिभेदाश्रयः शब्दनियमो ऽयम् इष्यते । प्रष्टव्यानां जातिनियमो ऽयम्, न प्रष्टॄणाम् । नात्यन्तभिन्नार्थत्वाच् च एतेषां स्वरूपनियमो ऽयं विधीयते । आरोग्यानामयशब्दौ समानर्थौ । एवं क्षेमकुशलशब्दाव् अपि नात्यन्तभिन्नौ । कुशलशब्दो यद्य् अपि प्रावीण्यवचनस् तथापीह संयोगिनाम् अर्थानां शरीराणां चानपाये वर्तते । एते ऽवश्यं प्रयोक्तव्याः । अन्येषाम् अपि यथाप्रतिभं विशेषजिज्ञासयाप्रतिषेधः349 । तथा महाभारते कस्मिंश्चिद् अध्याये दर्शितम् ।
- केचिद् इह समागम्येति लिङ्गान् न गुर्वादिविषयो ऽयं प्रश्नः, किं तर्हि सवयसाम् एव । अभिगमनं हि गुरौ विहितम्, न यदृच्छया समागमः । अभिगमने ऽपि समागमो ऽस्तीति यत्किंचिद् एतत् ॥ २.१२७ ॥
अवाच्यो दीक्षितो नाम्ना यवीयान् अपि यो भवेत् ।
भोभवत्पूर्वकं त्व् एनम् अभिभाषेत धर्मवित् ॥ २.१२८ ॥
मेधातिथिः ...{Loading}...
प्रत्यभिवादनकाल अन्यत्र च दीक्षितो ज्योतिष्टोमादिषु दीक्षणीयातः प्रभृत्या अवभृथान् नाम्ना न वाच्यस् तस्य यन् नामधेयं तन् नोच्चारयितव्यम् । यवीयान् कनीयान् अचिरकालजातः । अपिशब्दात् ज्येष्ठस्यादीक्षितस्यापि नामग्रहणनिषेधो ऽनुमीयते । तथा च गौतमः- “नामगोत्रे गुरोः समानतो निर्दिशेत्” (ग्ध् २.२३) । मानः पूजा, तत्पूर्वकं नाम ग्रहीतव्यम्- तत्रेश्वरो जनार्दनमिश्र इति ।
-
कथं तर्हि दीक्षितेन कार्यार्थं संभाषः कर्तव्यः । भोभवत्पूर्वकम् । भोःशब्दं पूर्वं प्रयुज्य, एनं दीक्षितम् अभिभाषेत, दीक्षितयजमानादिशब्दैर् यौगिकैः । न तु भोःशब्दपूर्वकं नामग्रहणम् अभ्यनुज्ञायते ।
-
भोभवच्छब्दः पूर्वो यस्याभिभाषणस्य तद् एवम् उक्ते द्वयोश् चैतयोः शब्दयोर् एकत्र वाक्ये प्रयोगाभावाद् व्यवस्थां व्याचक्षते । यदा तेन सह संभाषणं भवति तदामन्त्रितविभक्त्यन्तेन भोःशब्देन संबोध्यः । यदा तु तदीयगुणाख्यानं परोक्षं करोति- “तत्रभवता दीक्षितेनैवं कृतम्,” “तत्रभवान् एवं करोति” इत्य् एवं प्रयोक्तव्यम् । भवद् इति च प्रातिपदिकमात्रम् उपात्तम्, यथा विभक्त्या संबन्धम् उपैति तदन्तं प्रयोक्तव्यम् ॥ २.१२८ ॥
परपत्नी तु या स्त्री स्याद् असंबद्धा च योनितः।
तां ब्रूयाद् भवतीत्य् एवं सुभगे भगिनीति च ॥ २.१२९ ॥
मेधातिथिः ...{Loading}...
अर्थप्रयुक्तं संभाषणं स्त्रिया सह यदा भवति तदैवं कर्तव्यम् । या तावत् परस्य पत्नी सा “भवति सुभगे” अथ वा “भवति बगिनि” । भवच्छब्दो ऽयं स्त्रीप्रत्ययान्तः संबुद्धौ कृतह्रस्वः । भवतीत्य् अत्रेतिकरणं पदार्थविपर्यासकृतस्वरूपं परं350 बोधयति, सुभगे भगिनीत्य् अत्र प्रकारे । ब्रूयाद् इत्य् अधिकाराच् छब्दस्वरूपग्रहणं सिद्धम् । आचार्यतायां351 च मातर् यशस्विनि, कनीयसी च दुहितर् आयुष्मतीत्य् एवमादिभिः शब्दैः संभाष्या । पत्नीग्रहणात् कन्याया नैष विधिः । असंबद्धा च योनितः । मातृपक्षपितृपक्षाभ्यां या ज्ञातित्वं नागता मातुलदुहित्रादिस् तासाम् अन्यं विधिं वक्ष्यति “ज्ञातिसंबन्धियोषितः” इति (म्ध् २.१३२) ।
- ननु च तेनैव तत्सिद्धम्,352 अस्योत्सर्गस्यान्यत्र चरितार्थत्वात् किम् असंबद्धा चेत्य् अनेन । नात्र पौनरुक्त्योद्भावने यतितव्यम्, पद्यग्रन्थो ऽयम् ॥ २.१२९ ॥
मातुलांश् च पितृव्यांश् च श्वशुरान् ऋत्विजो गुरून् ।
असाव् अहम् इति ब्रूयात् प्रत्युत्थाय यवीयसः ॥ २.१३० ॥
मेधातिथिः ...{Loading}...
गुरून् इति वचननिर्देशान् न य एवात्र गुरुर् उक्तः स एव गृह्यते । किं तर्हि गौतमीय (ग्ध् ६.२०) इव सामान्यशब्दो वित्तादिज्येष्ठवचनः । तान् यवीयसो भागिनेयादेः स्ववयोपेक्षया हीनवयसः । असाव् अहम् इति स्वं नाम निर्दिश्यते । तत्परश् चाहंशब्दो ऽभ्यनुज्ञायते । एतच् च प्रत्युत्थायागतानां कर्तव्यम् । अभिवादने भोःशब्दप्रयोगो निषिध्यते । उक्तं च गौतमीये “प्रत्युत्तानम् अभिवाद्याः”353 इति ॥ २.१३० ॥
मातृष्वसा मातुलानी श्वश्रूर् अथ पितृष्वसा ।
संपूज्या गुरुपत्नीवत् समास् ता गुरुभार्यया ॥ २.१३१ ॥
मेधातिथिः ...{Loading}...
एताश् च गुरुपत्नीवत् संपूज्याः प्रत्युत्थानाभिवादनासनदानादिभिः । गुरुपत्नीवत् इत्य् अनेनैव सिद्धे समास्ता इति वचनम् अन्यद् अप्य् आज्ञादि गुरुपत्नीकार्यं कदाचिद् अनुजानाति । इतरथा प्रकरणात् संपूज्या इत्य् अभिवादनविषयम् एव स्यात् । पलितवयसश् च स्त्रियः स्मर्यन्ते । कनीयसीनाम् अप्य् एष एवाभिवादनविधिः ॥ २.१३१ ॥
भ्रातुर् भार्योपसंग्राह्या सवर्णाहन्य् अह्न्य् अपि ।
विप्रोष्य तूपसंग्राह्या ज्ञातिसंबन्धियोषितः ॥ २.१३२ ॥
मेधातिथिः ...{Loading}...
भ्रातुर् ज्येष्ठस्येति द्रष्टव्यम् । उपसंग्राह्या पादयोर् अभिवाद्या । सवर्णा समानजातीया । क्षत्रियादिस्त्रीणां तु ज्ञातिसंबन्धिधर्मो भ्रातुर् भार्याणाम् अपि । विप्रोष्य ज्ञातिसंबन्धियोषितः । विप्रोष्य प्रवासात् प्रत्यागतेन । न हि प्रोषितस्योपसंग्रहणसंभवः । ज्ञातयः पितृपक्षाः पितृव्यादयः, संबन्धिनो मातृपक्षाः श्वशुरादयश् च, तेषां ज्येष्ठानां याः स्त्रियः । पूजारूपत्वाद् उपसंग्रहणस्य, न कनीयांसः पूजाम् अर्हन्ति ॥ २.१३२ ॥
पितुर् भगिन्यां मातुश् च ज्यायस्यां च स्वसर्य् अपि ।
मातृवद् वृत्तिम् आतिष्ठेन् माता ताभ्यो गरीयसी ॥ २.१३३ ॥
मेधातिथिः ...{Loading}...
पितुश् च या भगिनी मातुश् च या भगिनी तस्याम्, स्वसरि चात्मीयायां ज्येष्ठायां भगिन्यां मातृवद् वृत्तिर् अतिदिश्यते ।
-
ननु च मातृष्वसुः पितृष्वसुश् चायम् उक्त एव धर्मो “मातृष्वसा मातुलानी” (म्ध् २.१३१) इत्य् अत्र । अथोच्यते । तत्र गुरुपत्नीवद् इत्य् उक्तम् । इह तु मातृवद् वृत्तिर् इत्य् उच्यत इति । नैष भेदः । तुल्या हि गुरुपत्न्यां मातरि च वृत्तिः ।
-
केचिद् आहुः माता ताभ्यो गरीयसीत्य् एतद् वक्तुम् अनूद्यते भगिन्योः पितुर् मातुश् च गरीयस्त्वम् । यदा माताज्ञां ददाति स्वस्रादयश् च तदा मातुर् आज्ञा क्रियते न तासाम् । न चैतद् वाच्यम् एतद् अपि सिद्धम् “माता गौरवेणातिरिच्यते” (म्ध् २.१४५) इति, अर्थवादत्त्वात् तस्य ।
-
अन्ये तु गुरुपत्न्या मातुश् च वृत्तिभेदं मन्यन्ते । गुरुपत्न्याः पूर्वाज्ञाद्यावश्यकम् । मातुश् तु शैशवात् वाल्लभ्येनान्यथात्वम्354 अपि । लालनात् तत्रोभयापदेशान् मातृष्वसुः पितृष्वसुश् च व्यवस्था । शैशवे लालनं तुल्यम् एव स्वस्यां स्वसरि । अतीतशैशवस्य तु गुरुपत्नीवत् संपूज्यत्वम् इति । न चानेनैवैतत् सिध्यति । असति हि वाक्यद्वये मातृवद् वृत्तिर् इत्य् एतावता प्राकरणिकी अभिवादननिवृत्तिर् एव विज्ञायेत ॥ २.१३३ ॥
अथ पुनः स्नेहवृत्तिर् अतिदिश्यते ।[^३६६]
दशाब्दाख्यं पौरसख्यं पञ्चाब्दाख्यं कलाभृताम् ।
त्र्यब्दपूर्वं श्रोत्रियाणां स्वल्पेनापि स्वयोनिषु ॥ २.१३४ ॥
मेधातिथिः ...{Loading}...
उक्तं पूर्वम् “प्राणा ह्य् उत्क्रामन्ति यूनः स्थविर आयति” (म्ध् २.१२०) इति । तत्र कियद्भिर् वर्षैः स्थाविर्यं भवति । लोके हि शिरःपालित्ये स्थविरव्यवहारः, तन्निरूपणार्थम् इदम् ।
-
दशभिर् वर्षैर् जन्मनो ऽधिकैर् अपि पौराणां सख्यम् आख्यायते । तेन दशवर्षाधिको ज्येष्ठो भवति, अपि तु मित्रवद् व्यवहर्तव्यः । यथोक्तं भो भवन्न् इति वयस्येति । दशभ्यो वर्षेभ्य ऊर्ध्वं ज्येष्ठः । आख्यानम् आख्या । दशाब्दा आख्या यस्य सक्यस्य । त्रिपदो बहुव्रीहिः । आख्यानिमित्तत्वाद् वर्षाणां सामानाधिकरण्यम्, निमित्तनिमित्तिनोर् भेदस्याविवक्षितत्वात् । एतावांश् च समासान्तर्भूतो ऽर्थः- यः पूर्वजो दशवर्षाणां यावत् स सखैव भवति ।
-
पुरे भवाः पौराः तेषाम् । पुरग्रहणं प्रदर्शनार्थम्, ग्रामवासिनाम् अप्य् एष एव न्यायः । ये केचिद् एकस्मिन् ग्रामे वसन्ति355 तावद् यस्मिन्356 परस्परप्रत्यासत्तिहेतुर् विद्यते ते सखायः ।
-
ये तु कलां कांचन बिभ्रति शिल्पगीतवाद्यादिकां तेषां पञ्चवर्षाणि यो ऽधिकः स सखा, तत ऊर्ध्वं ज्येष्ठः । त्रयो ऽब्दाः पूर्वे यस्य तच् छ्रोतियाणां सख्यम् ।
-
अल्पेनापि कालेन स्वयोनिष्व् एकवंश्येषु कतिचिद् अहानि यो ऽधिकः स ज्येष्ठः । कियान् पुनः स्वल्पकालः । न तावद् अब्दः । त्र्यब्दपूर्वम् इति निर्दिश्याल्पेनेत्य् उच्यमानस् ततो न्यूनः प्रतीयते । एकवचननिर्देशाच् च न वर्षद्वयम् । नाप्य् एको ऽब्दः, स्वल्पेनेति वेशेषणानुपपत्तेः । परिच्छिन्नपरिमाणो ह्य् अब्दवाच्यो ऽर्थस् तस्याहोरात्रमात्रेण न्यूनस्य नाब्दत्वम् अस्ति । तस्माद् अल्पेनेति कालसामान्यम् अपेक्षते । संवत्सराद् अवरश् च तस्य विशेषः । अपिशब्दश् चैव शब्दस्यार्थे द्रष्टव्यः । अल्पेनैव कालेन सख्यम्, बहुना तु ज्येष्ठत्वम् एव । एतच् च समानगुणानां समानजातीयानां च द्रष्टव्यम् । एतेन लौकिकं स्थविरलक्षणं निवर्तितसापेक्षिकम् आश्रितम् ।
-
अन्ये तु व्यचक्षते । नानेन स्थविरत्वं लक्ष्यते, किं तर्हि सखित्वम् एव । यथाश्रुतत्यागेन स्थविरलक्षणं स्यत्, “इयता कालेन सखा परतस् तु ज्येष्ठः” इति । अयं च श्लोकार्थः । एकत्र पुरे वसन्ति दशवर्षाणि यावत् तानि मित्राणि । कलाश् चतुःषष्टिस् तद्विदां संगत्या पञ्चभिर् वर्षैः । स्वयोनिषु स्वल्पेनापि च कालेन सह वसतां मित्रत्वम् एव । अतश् च सर्वो वयसा तुल्यो वयस्यः, किं तर्हि एतद् एव । समानवयस्त्वे चैतल्लक्षणम्357 ।
- युक्तम् एतत् । किं तूत्तरश्लोको विरुध्यते । तत्र हि जातेः प्राधान्यम्, न वयसः । यदि चात्रेयता कालेन ज्यैष्ठ्यम् उक्तं भवति तदा विजातीयानाम् अप्य् आशङ्क्यमानं न निवर्त्यत इति युक्तम् । पूर्वे च व्याख्यातार आद्यम् एव व्याख्यानं मन्यन्ते ॥ २.१३४ ॥
ब्राह्मणं दशवर्षं तु शतवर्षं तु भूमिपम् ।
पितापुत्रौ विजानीयाद् ब्राह्मणस् तु तयोः पिता ॥ २.१३५ ॥
मेधातिथिः ...{Loading}...
दशवर्षाणि जातस्य यस्य स भवति दशवर्षः परिच्छेदकः कालः, तस्य परिच्छेद्यो ब्राह्मणः श्रुतः । न च तस्योच्चनीचतादि कार्श्यादि वा कालेन परिमातुं शक्यम्, किं तर्हि तदीया काचित् क्रिया । सा च जन्मनः प्रभृति नित्यसमवायिनी प्राणधारणलक्षणैव । एवं शतवर्षम् इति । पितापुत्रौ तौ द्रष्टव्यौ । तयोः संप्रधार्यमाणयोर् ब्राह्मणः पिता । चिरवृद्धेनापि क्षत्रियेण स्वल्पवर्षो ऽपि ब्राह्मणः प्रत्युत्तायाभिवाद्यश् चेति प्रकरणार्थः ॥ २.१३५ ॥
वित्तं बन्धुर् वयः कर्म विद्या भवति पञ्चमी ।
एतानि मान्यस्थानानि गरीयो यद् यद् उत्तरम् ॥ २.१३६ ॥
मेधातिथिः ...{Loading}...
उक्तं जातेर् उत्कर्षहेतुत्वम् । हीनजातीयेनोत्तमजातीयः पूज्यः । इदानीं समानजातीयानां य अभिवादनादिपूजाहेतवस् तेषां बलाबलम् उच्यते । तत्र वयसः पुनर् अभिधानं बलाबलर्थम् । वित्तादिसंबन्धो ऽत्र सर्वत्र पूजाहेतुः । वित्तवत्त्वं बन्धुमत्त्वं मानस्थानम् इति । अयम् अत्रार्थः । न358 विशिष्टबन्धुतैव359 पितृव्यमातुलादिरूपता मानकारणं बन्धुमान्यो बहुबन्धुः स पूज्यः । वयः प्रकृष्टम् इति ज्ञेयम् । ईदृश एव चार्थे प्रायेणायं प्रयुज्यते ।
- पित्रा पुत्रो वयःस्थो ऽपि सततं वाच्य एव सः । इति ।
यावच् च वयः पूजाहेतुः तद् उक्तम् एव “दशाब्दाख्यम्” (म्ध् २.१३४) इति । कर्म श्रौतं स्मार्थं तदनुष्ठानपरता । विद्या साङ्गसोपकरणवेदार्थज्ञानम्360 ।
-
ननु विद्वान् यजते विद्वान् याजयतीत्य् अविद्यस्य कर्मानुष्ठानानधिकारात्, विद्यया विना कथं कर्मणां मानहेतुता । नैष दोषः । पकर्षो ऽत्राभिप्रेतः । अतिशयवती विद्या मानहेतुः । स्वल्पविद्यस्याप्य् अनुष्ठानोपपत्तिः । यो यावज् जानाति स तवत्य् अधिक्रियते । न विद्याया वाचनिकम् अधिकारहेतुत्वम् अपि तु सामर्थ्यलक्षणम् । अविदितकर्मस्वरूपो ह्य् अवैद्यस् तिर्यक्कर्मा क्वाधिक्रियताम् । शक्यं ह्य् अनेन कतिचित्स्मृतिवाक्यान्य् उपश्रुत्य जपतपस्यम् अनुष्ठातुम् । अग्निहोत्रादिकर्मणां तु वेदवाक्यावबोध उपकरोति । तत्रापि यो यावज् जानाति स तावत्य् अधिक्रियते । अग्निहोत्रवाक्यानां यो ऽर्थं वेत्ति स तत्राधिक्रियते । क्रत्वन्तरज्ञानं न तत्रोपकारकम् ।
-
अथोच्यते । “वेदः कृत्स्नो ऽधिगन्तव्यः” (म्ध् २.१६५) इति कृत्स्नवेदविषयो ऽयं विधिर् अवबोधपर्यन्तः । तत्र कृत्स्नस्य वेदस्यावबोधे कर्तव्ये कुतो ऽयं प्रतिभागावबोधसंभवः, येनोच्यते “यो ऽग्निहोत्रवाक्यस्यार्थं वेत्ति वाक्यान्तरार्थम् अविद्वान् अप्य् अधिक्रियते” इति । अत्रोच्यते । एकशाखाध्ययनं तावद् अवश्यं कर्तव्यम् । तत्र येनैकशाखाधीता तस्याश् चार्थो ऽवधृतः, सो ऽनवधृतशाखान्तरार्थो ऽधिक्रियते ।
-
ननु च सर्वत्रैक एव शास्त्रार्थः । यदि नाम पदवर्णानुपूर्वीभेदः, शास्त्ररूपं त्व् अभिन्नम्361 । पदार्थन्यायव्युत्पत्त्या वावबोधः । न च प्रतिशाखं पदार्था भिद्यन्ते362 । नापि न्यायः । तत्र येनैव हेतुनैकस्याः शाखाया अर्थो ऽवधर्यते शाखान्तरे ऽप्य् असाव् अस्ति, न व्युत्पत्त्यन्तरम् अपेक्षते । तत्र यद्य् एका शाखावगता, सर्वा एवावगता भवन्ति ।
- सत्यम् । यान्य् एकस्याम् अग्निहोत्रादीन्य् उपदिष्टानि तेषां शाखान्तरे ऽप्य् उपदिश्यमानानां मा भूद् भेदः363 । किं तु कस्यांचिच् छाखायां कानिचित् कर्माणि नैवोपदिश्यन्ते । यथा बाह्वृचे आश्वलायनके दर्शपूर्णमासौ श्येनादिर् आभिचारकः364, अन्ये च सोमयागवाजपेयबृहस्पतिसवादयः । तत्र यत् तच्छाखाधीनम् अग्निहोत्रज्योतिष्टोमादि तत्राधिक्रियते । शाखान्तरं त्व् अनधीतम् अश्रुतं कथं तद्विहितानि365 कर्माण्य् तच्छाखाध्यायी वेत्तु । न चैते सोमयागा नित्या, येनाननुष्ठानप्रत्यवायभयात् परिज्ञानाय शाखान्तरम् अन्विष्यते । आधानं तु यद्य् अपि तत्र न पठितं तत्राप्य् “उद्धराहवनीयम्” (ऐत्ब् ५.२६; आश्श् २.२.१) इत्य् आहवनीयस्य विधानम् । लोकात् तदर्थम् अनवबुध्यमानः को ऽयम् आहवनीयो यस्याधानम् इति शाखान्तरम् अन्विष्यति । ततः शाखान्तरे पठ्यमानम् आधानप्रकरणं सर्वं पर्यालोचयति । एवम् आमावास्येन वा हविषेष्ट्वा पौर्णमासेन वेति श्रुत्वा कीदृशम् अनयोः कर्मणो रूपम् इति तथैव शाखान्तरं गवेषयते । एवम् अन्यद् अपि यत् काम्यं नित्यं चानुष्ठेयं तस्य यत् किंचिद् अङ्गजातं तत्र नाम्नातम् आध्वर्यवम् औद्गात्रं वा तत् परिज्ञाय तथैव शाखान्तराधिगमः366 । यत् तु शाखान्तराधीतम् अनुष्ठेयं तस्य न वेदनसंभवः । अनेकशाखाध्यायिनस् तु तदर्थपरस्य सर्वम् एतत् प्रत्यक्षम् इति । अस्तीदृशीं विद्याम् अन्तरेणापि कर्मानुष्ठानम् । अथ वा ईषद्व्युत्पत्त्यापि संभवत्य् अनुष्ठानं ।
- यस्य तु निर्मला विद्या, व्याख्येयानि विद्यास्थानानि, तस्य विद्या मान्यतास्थानम्367 । गरीय इति द्वयोर् द्वयोः संप्रधारणे ऽयम् ईयसुन्प्रत्ययः । चतुर्दशविद्यास्थनज्ञः पङ्ग्वन्धनिर्धनादिर् अनधिकृतो ऽपि विद्ययैव पूज्यते ।
- तेषां विरोधे बलाबलम् आह- गरीयो यद् यद् उत्तरम् । एकस्य वित्तम् अन्यस्य बहुबन्धुता, तत्र वित्तवतो बन्धुमान् मान्यः । यस्माच् च यत् परं तत् तस्माद् गुरुतरम्368 । तथा बन्धोर् वयः ततः पूर्वस्माद् अपि वित्तात् तद् गुरु सिद्धम् । अत उपपन्नम् “श्रुतं तु सर्वेभ्यो गरीयस् तन्मूलत्वाद् धर्मस्य” इति गौतमवचनम् (ग्ध् ६.२१–२२) ।
- गरीय इति कथं प्रकर्षप्रत्ययो यावता नैव पूर्वस्य गुरुत्वम् । यदि हि द्वे गुरुणी369 तत्रोत्तरीयस्य गरीयस्त्वम् अस्ति । तर्हि पूर्वापेक्षया वित्तस्य नास्तीति चेत्, समुदाये सामान्येन गुरुत्वे ऽपेक्षिते अपरस्य प्रकर्षविवक्षायां युज्यत ईयसून् ।
- मानः पूजा तस्य स्थानं कारणम् । “मान्यस्थानानि” इति वा पाठे ऽन्तर्भूतभावार्थो द्रष्टव्यः । “मान्यत्वस्थानानि” मान्यत्वकारणानि ॥ २.१३६ ॥
एकैकगुणसंबन्धे परस्य ज्यायस्त्वम् उक्तम् । यत्रेदानीं द्वौ पूर्वाव् एकस्य भवतो ऽपरस्यैकः पर इति तत्र कथम् इत्य् अत आह ।
पञ्चानां त्रिषु वर्णेषु भूयांसि गुणवन्ति च ।
यत्र स्युः सो ऽत्र मानार्हः शूद्रो ऽपि दशमीं गतः ॥ २.१३७ ॥
मेधातिथिः ...{Loading}...
पञ्चानाम् एतेषां मानस्थानानां370 यत्र भूयांसि बहून्य् असर्वाणि स मान्यः । तत्र परत्वम् नातीवादर्तव्यम्371 । एकस्य वित्तबन्धू द्वे अन्यो वृद्धवयाः । तत्र पूर्वे बाधके । सत्य् अपि बहुत्वे यदि न श्रेष्ठानि भवन्ति, एकं चैकस्यात्युत्कृष्टम्, तदा साम्यम् । न पुनः परबाधकत्वम् । गरीय एकापेक्षया चरितार्थत्वात्372 । यदि तु भूयांसि गुनवन्त्य् अत्युत्कृष्टानि तदा साम्ये ऽपि संख्यया परेषां, पूर्वाणि परैश् च समसंख्यानि, तदा न पूर्वतरतया373 बाध्यबाधकभावः । किं तर्हि सामान्यम् एव ।
-
ननु च यत्र गुणवन्ति स्युः सो ऽत्र मानार्ह इत्य् अभिधानेन समसंख्यस्यापि पूर्वस्य बाधकत्वम् एव युक्तम् । नैवम् । तुल्यत्वे गुणानाम् एतस्य चरितार्थत्वात् । यथैको ऽपि विद्यावान् अपरो ऽपि, तयोर् यस्य गुणवती प्रकृष्टा विद्या स प्रशस्यते । एवं सर्वत्र ।
-
त्रिषु वर्णेषु ब्राह्मणक्षत्रियवैश्येषु । यद्य् एते गुणा भूयांसः प्रकृष्टाश् च क्षत्रियस्यापि भवन्ति तदा हीनगुणेन ब्राह्मणेन जात्युत्कृष्टेनापि क्षत्रियः पूज्यः । एवं क्षत्रियेण वैश्यः । एवं त्रिभिर् अपि द्विजातिभिः शूद्रो ऽपि दशमीम् इतः । दशमी अन्त्यावस्थोच्यते । अत्यन्तवार्धकोपलक्षणम् एतत् । एवं च वित्तबन्धू शूद्रस्य न374 माने हेतू त्रैवर्णिकान् प्रति, दशमीग्रहणात् । कर्मविद्ये तु नैव तस्य संभवतो ऽनधिकारात् ।
- भूयांसीत्य् आधिक्यमात्रं विवक्षितं न बहुत्वसंख्यैव । तेन द्विविषयतापि सिद्धा भवति । न ह्य् अयं संख्यावाच्येव बहुशब्द इत्य् अत्र प्रमाणम् अस्ति । भूयःशब्दश् चायं न बहुशब्द आधिक्ये च तत्र तत्र दृष्टः प्रयोगः । “भूयांश् चात्र परिहारः,” “भूयसाभ्य्दयेन योक्ष्ये” इति प्रत्ययार्थबहुत्वम् अपि न विवक्षितम् । “जात्याख्यायाम्” (पाण् १.२.५८) ह्य् एतद् बहुवचनम् । विवक्षायां हि एकस्य गुणवतो मानहेतुत्वं न स्यात् । ततश् च पूर्वो ऽवगतिर् बाध्यते375 । शूद्रो ऽपि दशमीम् इत्य् अत्र च केवलस्यैव वयसः प्रकर्षे मानहेतुत्वं ब्रुवन्न् अविवक्षां दर्शयति । समाचारश् चैवम् एव ॥ २.१३७ ॥
चक्रिणो दशमीस्थस्य रोगिणो भारिणः स्त्रियाः ।
स्नातकस्य च राज्ञश् च पन्था देयो वरस्य च ॥ २.१३८ ॥
मेधातिथिः ...{Loading}...
अयम् अन्यः पूजाप्रकारः प्रासङ्गिक उच्यते । चक्री रथिको गन्त्र्यादियानाधिरूढः । तस्य पन्था देयः । येन भूमिभागेन ग्रामादि देशान्तरं गम्यते स पद्धतिः पन्था उच्यते । तत्र यदि पृष्ठतः संमुखतो वा रथिक आगच्छेत् तदा तद्गमनोपरोधिनः पथिप्रदेशात्376 पदातिर् अपक्रामेत् । दशमीस्थो ऽत्यन्तपरिणतवयाः । रोगी व्याधिनात्यन्तपीडितः । भारी गृहीतव्रीह्यादिगुरुद्रव्यः । सो ऽपि यथोपसर्तुम् अशक्तो ऽनुग्राह्यः । स्त्रिया अनपेक्ष्य जातिगुणभर्तृसंबन्धान् स्त्रीत्वमात्रेणैव । राजा च विषयेश्वरो ऽत्राभिप्रेतः, न क्षत्रिय एव । तथा चोत्तरत्र पार्तिवग्रहणेन निगमने, पृथिव्या ईश्वरः पार्थिवः ।
-
ननु चोपक्रमे राजशब्दश्रवणाद् वाक्यान्तरगतः पार्थिवशब्दस् तत्पर एव युक्तः । राजशब्दो हि क्षत्रियजातिवचनो विज्ञातः । स तावद् अनुपजातविरोधित्वाद् उपक्रमगतो मुख्यार्थो ग्राह्यः । बलादिवाक्ये तु तत्सापेक्षक्षत्रियजातिविहितेन धर्मेण पृथिवीपालनाख्येन पार्थिवशब्दस्य प्रयोगसंभवेन जात्यन्तरविषयत्वम् अयुक्तम् ।
-
अत्रोच्यते । मान्यतात्र श्रुता । स्नातको नृपमानभागीति । तत्र क्षत्रियजातीयमात्रान् मान्यत्वं स्नातकस्य सिद्धम् एव, “ब्राह्मणं दशवर्षम्” (म्ध् २.१३५) इति । तत्र हि भूमिपशब्दः क्षत्रियजातिमात्रोपलक्षणार्थ इत्य् उक्तम् । उपलक्षणत्वाच् च राजजातेः क्षत्रियस्यापि प्रजेश्वरस्यायं धर्मो विज्ञायते ।
-
वरो विवाहाय प्रवृत्तः । एतेषां पन्था देयः । त्यागमात्रं च ददत्यर्थः । त्यागश् च पथो ऽपसरणम् । अत एव चतुर्थी न कृता ॥ २.१३८ ॥
तेषां तु समवेतानां मान्यौ स्नातकपार्थिवौ ।
राजस्नातकयोश् चैव स्नातको नृपमानभाक् ॥ २.१३९ ॥
मेधातिथिः ...{Loading}...
तेषां तु समवेतानाम् एकत्र संनिपतितानां मान्यौ स्नातकपार्थिवौ, प्रकृतेन पथोदानेन । नृपमानभाक् नृपस्य सकाशान् मानं भजते लभते । षष्ठी निर्धारणे (पाण् २.३.४१) । चक्र्यादीनां त्व् अन्योय्नं विकल्पः । स च शक्त्यपेक्षः ॥ २.१३९ ॥
उपनीय तु यः शिष्यं वेदम् अध्यापयेद् द्विजः ।
सकल्पं सरहस्यं च तम् आचार्यं प्रचक्षते ॥ २.१४० ॥
मेधातिथिः ...{Loading}...
आचार्यादिशब्दानाम् एवार्थनिरूपणार्थम् इदम् आरभ्यते । सोपचारो हि लोके एषां प्रयोगः । न च शब्दार्थसंबन्धस्य स्मर्तृभिर् आचार्यपाणिनिप्रभृतिभिर् एतन् निरूपितम् । इयं चाचार्यपदार्थस्मृतिर् व्यवहारमूला, न वेदमूला, पाणिन्यादिस्मृतिवत् । न ह्य् अत्र किंचित् कर्तव्यम् उपदिश्यते । अस्य शब्दस्यायम् अर्थ इति सिद्धरूपो ऽयम् अर्थः, न साध्यरूपः ।
-
उपनीय उपनयनं कृत्वा यो वेदम् अध्यापयति ग्राहयति स आचार्यः । ग्रहणं चात्राध्येत्रन्तरनिरपेक्षं वाक्यानुपूर्वीस्मरणम् । कल्पशब्दः सर्वाङ्गप्रदर्शनार्थः । रहस्यम् उपनिषदः । यद्य् अपि ते ऽपि वेदशब्देनैव गृहीतास् तथापि द्वितीयस् तेषां व्यपदेशो ऽस्ति, वेदान्ता इत्य् अन्तशब्दं समीपवचनं मन्यमानो नैते वेदा इति मन्येत तदाशङ्कानिवृत्त्यर्थं रहस्यग्रहणम् ।
-
अन्ये तु रहस्यं वेदार्थं वर्णयन्ति । तेन न स्वरूपग्रहणमात्राद् आचार्यकनिष्पत्तिः,377 अपि तु तद्व्याख्यानसहितात् । तथा चाभिधानकोशे ऽभिहितम्- “विवृणोति च मन्त्रार्थान् आचार्यः सो ऽभिधीयते” (म्भ् १४. अप्प्। ४- २५२८) इति । मन्त्रग्रहणं वेदवाक्योपलक्षणार्थम् ।
- अस्मिंश् च व्याख्याने ऽर्थावबोधो ऽप्य् आचार्यकरणविधिप्रयुक्तः स्यान् न केवलं संपाठमात्रम् । ततश् च सर्वस्य सर्वः378 स्वाध्यायविधेर्379 अनुष्ठापकः स्यात् । अस्तु परप्रयुक्ते ऽप्य् अनुष्ठाने स्वाध्यायविधेर् ब्रह्मचारिणः स्वार्थसिद्धिः । यदा तर्हि काम्यत्वाद् आचार्यकरणविधेर् आचार्यो न प्रवर्तते, तदा स्वाध्यायविध्यर्थानुष्ठानं न प्राप्नोति । ततश् च नित्यः380 स्वाधायविधिः स्यात् । न च रहस्यशब्दो वेदार्थवचनतया प्रसिद्धः । तस्मात् पूर्वम् एव रहस्यग्रहणस्य प्रयोजनम् । प्राधान्याद् वा पृथग् उपादानम् । यत् तु “विवृणोति च मन्त्रार्थान्” इत्य् अस्मृतिर् एवैषा, मन्त्रशब्दस्योपलक्षणत्वे प्रमाणाभावात् । तस्मात् पाठाभिप्रायम् अस्य विधेः प्रयोजकत्वम्381 । अतो वेदस्वरूपग्रहणे माणवकस्य जाते आचार्यकरणविधिनिर्वृत्तिः382 ॥ २.१४० ॥
एकदेशं तु वेदस्य वेदाङ्गान्य् अपि वा पुनः ।
यो ऽध्यापयति वृत्त्यर्थम् उपाध्यायः स उच्यते ॥ २.१४१ ॥
मेधातिथिः ...{Loading}...
वेदस्यैकदेशो383 मन्त्रः ब्राह्मणं वा । वेदवर्जितानि वा केवलान्य् अङ्गान्य् एव यो ऽध्यापयति तथा सर्वम् अपि वेदम् । वृत्थ्यर्थं जीविकार्थम्, नाचार्यकरणविधिवशेन, स उपाध्यायो नाचार्यः । अन्येनोपनीतं यः कृत्स्नम् अपि वेदम् अध्यापयति नासाव् आचार्यः । उपनीयापि यः कृत्स्नं वेदं नाध्यापयति सो ऽपि नाचार्यः ।
-
यद्य् एवम् एकदेशग्रहणम् उपाध्यायलक्षणे कृतम् आचार्यलक्षणे उपनयनग्रहणम्, यस् तर्ह्य् अनुपनेता कृत्स्नवेदाध्यापकश् च, तस्य किं लक्षणम् । नासाव् आचार्यो नाप्य् उपाध्यायः । न चापि नामान्तरं तस्य श्रुतम् ।
-
उच्यते । “अल्पं वा बहु वा यस्य श्रुतस्य” (म्ध् २.१४९) इत्य् अनेन गुरुर् असाव् आचार्यान् न्यून उपाध्यायाद् अप्य् अधिकः । अपि पुनः शब्दौ पादपूरणार्थौ ॥ २.१४१ ॥
निषेकादीनि कर्माणि यः करोति यथाविधि ।
संभावयति चान्नेन स विप्रो गुरुर् उच्यते ॥ २.१४२ ॥
मेधातिथिः ...{Loading}...
निषेकग्रहणात् पितुर् अयं गुरुत्वोपदेशः । निषेको रेतःसेकः, स आदिर् येषां कर्मणाम् । आदिग्रहणात् सर्वे संस्कारा गृह्यन्ते । तानि यः करोत्य् अन्नेन च यः संभावयति संवर्धयति । “चैवेनम्” इति वा पाठः । अर्थस् तु स एव, अन्नेनैव संभावनोपपत्तेः । अर्थान्तरनिर्देशः एनं कुमारम् ।
- ननु चान्वादेशः । न चेह कुमारस्य पूर्वम् उपदेशः । नैवम् । कस्यान्यस्य निषेकादीनि क्रियन्ते ।384 सामर्थ्याद् अपि निर्देशो न निर्देशत एव । तानि यः करोति । एवम् आभ्यां गुणाभ्यां हीनः केवलजनकत्वे पितैव भवति न गुरुः । न चैवं मन्तव्यम् असति गुरुत्वे नासौ मान्यः । सर्वप्रथमम् असाव् एव मान्यः । तथा च भगवान् व्यासः-
-
प्रभुः शरीरप्रभवः प्रियकृत् प्राणदो गुरुः ।
-
हितानाम् उपदेष्टा च प्रथ्यक्षं दैवतं पिता ॥ इति ।
विप्रग्रहणं प्रदर्शनार्थम् ॥ २.१४२ ॥
अग्न्याधेयं पाकयज्ञान् अग्निष्टोमादिकान् मखान् ।
य करोति वृतो यस्य स तस्यर्त्विग् इहोच्यते ॥ २.१४३ ॥
मेधातिथिः ...{Loading}...
आहवनीयादीनाम् अग्नीनाम् उत्पादककर्म अग्न्याधेयम् उच्यते । “वसन्ते ब्राह्मणो ऽग्नीन् आदधीत” (त्ब् १.१.२.६) इति विहितम् । पाकयज्ञा दर्शपूर्णमासादयः । अग्निष्टोमादयो मखाः सोमयागः । मखशब्दः क्रतुपर्यायः । एतानि कर्माणि यस्य यः करोति स तस्यर्त्विग् इत्य् उच्यते । यस्य तस्येतिशब्दौ संबन्धितां दर्शयतः । यस्यैवैतानि कर्माणि करोति तस्यैवासाव् ऋत्विग् उच्यते नान्यस्य । सर्व एत आचार्यादयः संबन्धिशब्दाः । वृतः प्रार्थितः शास्त्रीयेण विधिना कृतवरणः । मान्यताप्रसङ्गाद् ऋत्विक्संज्ञोपदेशो ऽत्र न हि ब्रह्मचारिधर्मेषु ऋत्विजाम् अवसरः । आचार्यादिवत् पूज्य इत्य् अस्मिन्न् अवधौ तल्लक्षणम् उच्यते ॥ २.१४३ ॥
य आवृणोत्य् अवितथं ब्रह्मणा श्रवणाव् उभौ ।
स माता स पिता ज्ञेयस् तं न द्रुह्येत् कदाचन ॥ २.१४४ ॥
मेधातिथिः ...{Loading}...
य उभौ श्रवणौ ब्रह्मणा वेदाध्यापनेन आवृणोति स माता स पिता ज्ञेयः । नेदम् अध्यापकस्य मतापितृशब्दवाच्यताविधानम् । आचार्यादिशब्दवत् प्रसिद्धार्थौ हि पितृमातृशब्दौ । जनकः पिता । जननी माता । उपचारेणाध्यापकस्तुत्यर्थं प्रयुज्येते । यथा गौर् वाहीक इति । लोके ह्य् अन्त्यन्तोपकारकौ मातापितरौ प्रथितौ, तौ हितं जनयतो भक्तादिना पुष्णीतः, स्वशरीरानपेक्षम् अपि पुत्रहिते प्रवर्तेते । अतो महोपकारकत्वात् ताभ्याम् उपाध्यायः स्तूयते । यो विद्यायां उपकरोति स सर्वोपकारकेभ्यः श्रेयान् । अवितथं क्रियाविशेषणम् एतत् । अवितथेन सत्येन ब्रह्मणानक्षरविस्वरवर्णितेन तन् न द्रुह्येत385 । अपकारो द्रोहस् तद् उपरि अवज्ञानं च । कदाचन निष्पन्नग्रन्थग्रहणे386 तदुत्तरकालम् अपि न द्रुह्येत । तथा च निरुक्तकारः-
- अध्यापिता ये गुरून् नाद्रियन्ते विप्रा वाचा मनसा कर्मणा वा ।
नाद्रियन्ते अवज्ञां कुर्वन्ति ।
- यथैव ते
शिष्या ।
- न गुरोर् भोजनीयाः
न भोगाय कल्पन्ते ।
- तथैव तान् न भुनक्ति श्रुतं तत् । (निर् २.४)
पाठान्तरम् “आतृणत्ति” इति । अर्थात् कर्णौ387 भिनत्ति विध्यतीत्य् उपमयाध्यापनम् एवोच्यते ।
- अविद्धकर्णः किल स स्मृतो नरः श्रुतं न यस्य श्रुतिगोचरं गतम् । इति । सर्वाध्यापकानाम् आचार्योपाध्यायगुरूणाम् अयं कृतविध्यस्यापि द्रोहप्रतिषेधः ॥ २.१४४ ॥
उपाध्यायान् दशाचार्य आचार्याणां शतं पिता ।
सहस्रं तु पितॄन् माता गौरवेणातिरिच्यते ॥ २.१४५ ॥
मेधातिथिः ...{Loading}...
स्तुत्यक्रमेण प्रकृष्टपूर्वविधानम् । उपाध्यायाच् छ्रेष्ट आचार्यस् तस्मात् पिता ततो ऽपि मातेति । दशादिसंख्यानिर्देशः स्तुतिमात्रम् । पूर्वस्मात् पूर्वस्मात् परस्य परस्यातिशयो विवक्षितः । अत एव सहस्रं पितुर् इति वचनम् ।
-
उपाध्यायान् दशातिरिच्यते । दशभ्य उपाध्यायेभ्यो ऽधिकः । कथं पुनर् अत्र द्वितीया । अतिर् अयं कर्मप्रवचनीयः । उपाध्यायान् अतिक्रम्यातिक्रम्यातिरिच्यते गौरवेण सातिशयेन युज्यते । अथ वाधिक्यम् अतिरेकः तद्धेतुके ऽभिभवे धातुर् वर्तते । गौरवाधिक्येनोपाध्यायान् अभिभवति । अतिरिच्यत इति कर्मकर्तरि द्वितीया चाविरुद्धा “दुहिपच्योर् बहुलं सकर्मकयोः” (पाण् वार् १४ ओन् ३.१.८७) इति बहुलग्रहणात् ।
-
ननु चानन्तरम् एव वक्ष्यति “गरीयान् ब्रह्मदः पिता” इति, इह चाचार्यात् पितुर् आधिक्यम् उच्यते तद् इतरेतरव्याहतम् । नैष दोषः । इहाचार्यो नैरुक्तदर्शनेनाध्यापकः, संस्कारमात्रेणाचारोपदेशमात्रेण चाभिप्रेतः- आचार्य आचारं ग्राहयतीति । न चैष नियमः स्वशास्त्रसिद्धाभिर् एव संज्ञाभिर् व्यवहारः । गुरुशब्दो ह्य् अत्र पितरि परिभाषितः, आचार्ये च तत्र तत्र प्रयुज्यते । तेन स्वल्पोपकाराद् उपनयनमात्रकराद् आचारग्राहकाद् अध्यापनरहिताद् इदं पितुर् ज्यायस्त्वम् ।
-
अस्मिंश् च क्रमे विवक्षिते समवाय एतेषां माता प्रथमं वन्द्या ततः पिता तत आचार्यस् तत उपाध्यायः ॥ २.१४५ ॥
मुख्याचार्यसंनिधौ पितरि च संस्कर्तरि संनिहिते कः388_ क्रमः । अत आह । _
उत्पादकब्रह्मदत्रोर् गरीयान् ब्रह्मदः पिता ।
ब्रह्मजन्म हि विप्रस्य प्रेत्य चेह च शाश्वतम् ॥ २.१४६ ॥
मेधातिथिः ...{Loading}...
उत्पादको जनकः ब्रह्मदाता अध्यापकः तौ द्वाव् अपि पितरौ । तयोः पित्रोर् गरीयान् पिता यो ब्रह्मदः । अतः पित्राचार्यसमवाये आचार्यः प्रथमम् अभिवाद्यः ।
- अत्र हेतुरूपम् अर्थवादम् आह । ब्रह्मजन्म हि, ब्रह्मग्रहणार्थं जन्म ब्रह्मजन्म । शाकपार्थिवादित्वात् समासः (च्ड़्। पाण् वार् ८ ओन् २.१.६९) । अस्मिन् समासे उपनयनं ब्रह्मजन्म । अथ वा ब्रह्मग्रहणम् एव जन्म । तद् विप्रस्य शाश्वतं नित्यं प्रेत्योपकारकम् इह चोपकारकम् ॥ २.१४६ ॥
कामान् माता पिता चैनं यद् उत्पादयतो मिथः ।
संभूतिं तस्य तां विद्याद् यद् योनाव् अभिजायते ॥ २.१४७ ॥
मेधातिथिः ...{Loading}...
श्लोकद्वयम् अर्थवादः । मातापितरौ यद् एनं दारकम् उत्पादयतो जनयतो मिथो रहसि परस्परं तत् कामाद् धेतोर् मन्मथपरवशौ । संभूतिं तस्य तां विद्यात् । तस्य दारकस्य संभवोत्पत्तिर् यद् योनौ मातृकुक्षाव् अभिजायते ऽङ्गप्रत्यङ्गानि लभते । संभवश् च येषां भावानां ते तथैव विनश्यन्ति । अतः किं तेन संभवेन यस्यानन्तरभावी विनाशः ॥ २.१४७ ॥
आचार्यस् त्व् अस्य यां जातिं विधिवद् वेदपारगः ।
उत्पादयति सावित्र्या सा सत्या साजरामरा ॥ २.१४८ ॥
मेधातिथिः ...{Loading}...
आचार्यात् तु यत् तस्य जन्म तद् अविनाशि । गृहीते वेदे ऽवगते च तदर्थे कर्मानुष्ठानात् स्वर्गापवर्गप्राप्तिर् इत्य् अस्य सर्वस्याचार्यमुलत्वात् स श्रेष्ठः ।
- यां जातिम् उत्पादयति यं संस्कारम् उपनयनाख्यं द्वितीयं जन्मेति जन्मसंस्तुतिं निर्वर्तयति, सावित्र्या तदनुवचनेन सा जातिः सत्या साजरामरा । यद्य् अप्य् एते ऽभिन्नार्थाः शब्दास् तथापीहोपनयनाख्यस्य जन्मनो मातृजन्मनः सकाशाङ् गुणातिशयविवक्षायां प्रयुक्ताः । न हि जरामृत्यू प्राणिनाम् इव जातेः संभवतः । अविनाशित्वं त्व् एकेनैव शब्देन शक्यते प्रतिपादयितुम् । न च तत् प्रतिपाद्यते । वेदपारग आचार्यो यां जातिं विधिवत् सावित्र्या उपनयनाङ्गकलापेन, सावित्रीशब्दस्य तल्लक्षणत्वात्, उत्पादयति सा श्रेयसीति पदयोजना । जातिर् जन्म ॥ २.१४८ ॥
अल्पं वा बहु वा यस्य श्रुतस्योपकरोति यः ।
तम् अपीह गुरुं विद्याच् छ्रुतोपक्रियया तया ॥ २.१४९ ॥
मेधातिथिः ...{Loading}...
य उपाध्यायो यस्य माणवकस्य्ओपकरोति श्रुतस्य श्रुतेनेत्य् अर्थः । अल्पं वा बहु वा क्रियाविशेषणम् एतत् । तम् अपि स्वल्पश्रुतोपकारिणं गुरुं विद्यात् ।
- एवं तु योजना ज्यायसी । यस्य श्रुतस्य सामानाधिकरण्ये वेदविषयस्य वेदाङ्गविषयस्य वा शास्त्रान्तरविषयस्य तर्ककलाशास्त्रस्य यद् अल्पं बहु वा तेनोपकरोतीत्य् अध्याहारः । श्रुतं च तदुपक्रिया चासौ श्रुतोपक्रिया तया, उपकारक्रियया तद्धेतुत्वाच् छ्रुतम् उपक्रियेति सामानाधिकरण्यम् । गुरुवृत्तिस् तत्र कर्तव्या तद्व्यपदेशो वा तत्राचार्यादिशब्दवत् स्मर्यते ॥ २.१४९ ॥
ब्राह्मस्य जन्मनः कर्ता स्वधर्मस्य च शासिता ।
बालो ऽपि विप्रो वृद्धस्य पिता भवति धर्मतः ॥ २.१५० ॥
मेधातिथिः ...{Loading}...
ब्रह्मग्रहणार्थं जन्म ब्राह्मम् उपनयनं तस्य कर्ता । स्वधर्मस्य शासिता उपदेष्टा, वेदार्थव्याख्यानेन । स तादृशो बालो ऽपि ब्राह्मणो वृद्धस्य ज्येष्टस्य389 पिता भवति । पितृतुल्या तत्र वृत्तिः कर्तव्या ज्येष्ठेनापि ।
- कथं पुनः कनीयाञ् ज्येष्ठम् उपनयते । अष्टमे ह्य् उपनयनम् । यावच् च नाधीतश्रुतवेदस् तावन् नाचार्यकरणविधाव् अधिक्रियते । एवं तर्हि नोपनयनम् अत्र390 ब्राह्म391 जन्म, किं तर्हि स्वाध्यायग्रहणम् एव । तस्य कर्ता अध्यापयिता । स्वधर्मस्य वेदार्थस्य शासिता व्याख्याता पिता भवति । धर्मतः पितृधर्मास् तत्र कर्तव्याः । धर्मत इति धर्मनिमित्तं तत्र पितृत्वम् । न च ते धर्मा अध्यापकव्याख्यात्रोः पितृसंबन्धिनः सिद्धाः सन्ति । अतो विधीयते ब्राह्मणवत् क्षत्रिये वर्तितव्यम् इति ॥ २.१५० ॥
अध्यापयामास पितॄन् शिशुर् आङ्गिरसः कविः ।
पुत्रका इति होवाच ज्ञानेन परिगृह्य तान् ॥ २.१५१ ॥
मेधातिथिः ...{Loading}...
पूर्वस्य पितृवद् वृत्तिविधेर् अर्थवादो ऽयं परकृतिनामा । अङ्गिरसः पुत्रः कविर् नाम शिशुर् बालः पितृतुल्यान् पितृव्यमातुलतत्पुत्रादीन् अधिकवयसो ऽध्यपयाञ् चकार अध्यापितवान् । स चाह्वाननिमित्तेषु तान्** पुत्रका** आगच्छत इत्य् आजुहाव । ज्ञानेन परिगृह्य तान् स्वीकृत्य शिष्यान् कृत्वा ॥ २.१५१ ॥
ते तम् अर्थम् अपृच्छन्त देवान् आगतमन्यवः ।
देवाश् चैतान् समेत्योचुर् न्याय्यं वः शिशुर् उक्तवान् ॥ २.१५२ ॥
मेधातिथिः ...{Loading}...
ते पित्रादिस्थानीया पुत्रका इत्य् आह्वानेन आगतमन्यव उत्पन्नक्रोधास् तम् अर्थं पुत्रशब्दाह्वानं देवान् पृष्टवन्तः । अनेन बालेन वयम् एवम् आहूयामहे । किम् एतद् युक्तम् । ते देवाः पृष्टाः सन्तः सर्वे समवायं कृतवन्तः समेत्य एकमत्यं स्थापयित्व्ऐतान् कवेः पितॄन् ऊचुर् उक्तवन्तो न्याय्यं युक्तं वो युष्मान् शिशुर् उक्तवान् ॥ २.१५२ ॥
अज्ञो भवति वै बालः पिता भवति मन्त्रदः ।
अज्ञं हि बालम् इत्य् आहुः पितेत्य् एव तु मन्त्रदम् ॥ २.१५३ ॥
मेधातिथिः ...{Loading}...
यस्मान्392 न च वयसा स्वल्पेन बालो भवति किं तर्ह्य् अज्ञो मूखो वृद्धो ऽपि यः । मन्त्रद उपलक्षणम् । मन्त्रान् वेदान् यो ददात्य् अध्यापयति विवृणोति च स पिता भवति । वैशब्द आगमान्तरसूचकः । देवानाम् अप्य् एष आगमः पुराण एव । तथा चैतिह्यसूचकः परोपदेश आहुर् इति । अज्ञं मूर्खं बालम् इत्य् आहुर् अस्मत्पूर्वे ऽपि । पितेति मन्त्रदम् । इतिकरणं स्वरूपपरताम् बोधयति । यतः परतः श्रूयते । बाल इत्य् एतेन शब्देनाज्ञमात्रः । अतश् च बालशब्दाद् द्वितीयाया अभावः । छान्दोग्ये शैशवं ब्राह्मणम् एतद् वस्तुतः स्मृतिकारेण वर्णितम् ॥ २.१५३ ॥
न हायनैर् न पलितैर् न वित्तेन न बन्धुभिः ।
ऋषयश् चक्रिरे धर्मं यो ऽनूचानः स नो महान् ॥ २.१५४ ॥
मेधातिथिः ...{Loading}...
इयम् अपराध्यापकप्रशंसा । हायनशब्दः संवत्सरपर्यायः । न बहुभिर् वर्षैः परिणतवया महान् पूज्यो भवति, न पलितैः केशश्मश्रुरोमभिः शुक्लैः, न वित्तेन बहुना, न बन्धुभिः । प्रागुक्तानि मान्यस्थानान्य् आपद्यन्ते । समुदितैर् न महान् भवति, किं तर्हि एकयैव विद्यया । यस्माद् ऋषयश् चक्रिरे । ऋषिर् दर्शनात् । निःशेषवेदार्थदर्शिनो निश्चित्येमं धर्मं व्यवस्थापितवन्तः । यो ऽनूचानः, अनुवचनम् अध्यापनं कृत्स्नाङ्गस्य वेदस्य, स नो ऽस्माकं महाञ् छ्रेष्ठः । करोतिर्393 व्यवस्थापने वर्तते, नाभूतजनने ॥ २.१५४ ॥
विप्राणां ज्ञानतो ज्यैष्ठ्यं क्षत्रियाणां तु वीर्यतः ।
वैश्यानां धान्यधनतः शूद्राणाम् एव जन्मतः ॥ २.१५५ ॥
मेधातिथिः ...{Loading}...
अयम् अप्य् अर्थवाद एव । यद् उक्तं वित्तादिभ्यः समुदितेभ्यः केवलापि विद्या ज्यायसीति तद् एव सप्रपञ्चम् अनेन निर्दिश्यते ।
- ब्राह्मणानां ज्ञानेन ज्यैष्ठ्यं न वित्तादिभिः, क्षत्रियाणां वीर्यतः ।वीर्यं द्रव्यस्य कौशलं दृढप्राणता च । वैश्यानां धान्यधनतः । धान्यस्य पृथगुपादानाद् धनशब्दो हिरन्यादिवचनः, ब्राह्मणपरिव्राजकवत् । बहुधनो वैश्यः स ज्येष्ठः । आद्यादित्वात् तृतीयार्थे तसिः । “हेतौ तृतीया” (पाण् २.३.२३) ॥ २.१५५ ॥
न तेन वृद्धो भवति येनास्य पलितं शिरः ।
यो वै युवाप्य् अधीयानस् तं देवाः स्थविरं विदुः ॥ २.१५६ ॥
मेधातिथिः ...{Loading}...
न तेन वृद्ध उच्यते येनास्य पलितं धवलं शिरः शिरःस्थाः केशाः । कथं तर्हि यो वै युवापि तरुणो ऽपि अथ चाधीते तं देवाः स्थविरं विदुः ब्रुवते । देवाः किल सर्वस्य वेदितार इति प्रशंसा ॥ २.१५६ ॥
यथा काष्ठमयो हस्ती यथा चर्ममयो मृगः ।
यश् च विप्रो ऽनधीयानस् त्रयस् ते नाम बिभ्रति ॥ २.१५७ ॥
मेधातिथिः ...{Loading}...
इयम् अध्ययनाध्येतृस्तुतिः। काष्ठमयो दारुणा394 यः क्रियते क्रकचादिना हस्त्याकृतिः, स यथा निष्फलः, न हस्तिकार्यं राज्ञां शत्रुवधादि करोति, एवं यो ब्राह्मणो नाधीते स काष्ठतुल्यः, न क्वचिद् अधिकारी । चर्ममयो मृगः चर्मविकारो ऽन्यो ऽपि यो मृगः स निष्फलो नाखेटकादिकार्यं करोति । त्रय एते नाममात्रं बिभ्रति, न तस्यार्थम् ॥ २.१५७ ॥
यथा षण्ड्ःओ ऽफलः स्त्रीषु यथा गौर् गवि चाफला ।
यथा चाज्ञे ऽफलं दानं तथा विप्रो ऽनृचो ऽफलः ॥ २.१५८ ॥
मेधातिथिः ...{Loading}...
षण्ढो नपुंसक उभव्यञ्जनो ऽशक्तः स्त्रीगमने, यथा स्त्रीष्व् अफलः । यथा गौर् गवि स्त्रीगौः स्त्रीगव्याम्395 एवं तथा विप्रो ऽनृचो ऽनधीयानो ऽफलः ॥ २.१५८ ॥
सप्ताष्टश्लोकाः अध्येतृवेदित्रोः प्रशंसार्था अतिक्रान्ताः। इदानीम् अश्रद्धस्य शिष्यस्याधीयानस्येतस् ततश् चित्तं व्याक्षिप्यते ।
अहिंसयैव भूतानां कार्यं श्रेयो ऽनुशासनम् ।
वाक् चैव मधुरा श्लक्ष्णा प्रयोज्या धर्मम् इच्छता ॥ २.१५९ ॥
मेधातिथिः ...{Loading}...
अध्यापयितुः क्रोधोत्पत्तौ ताडनपरुषभाषणाद्यम् अत्यर्थं प्राप्तं निषिध्यते । अहिंसया अताडनेन भूतानां भार्यापुत्रदासशिष्यसोदर्याणाम् । श्रेयोऽर्थम् अनुशासनं कार्यम् । भूतग्रहणान् मा शिष्यस्यैव विज्ञायि । दृष्टादृष्टफलावाप्तिः श्रेयः तदर्थम् अनुशासनम् । अग्रन्थको वोपदेशः, शास्त्राध्यापनव्याख्याने वा । यथासंभवम् अतिताडनं क्रोशनं चात्र प्रतिषिध्यते । ईषत्ताडनं त्व् अभ्यनुज्ञातम् एव “रज्ज्वा वेणुदलेन वा” (म्ध् ८.२९९) इति । कथं तर्हि मार्गे स्थाप्याः । वाक् चैव मधुरा सान्त्वपूर्विका । प्रियया वाचा श्लक्ष्णया नोच्चैर् उद्धतेन काकरूक्षेण स्वरेण, प्रियेणापि “अधीष्व पुत्रक मा चित्तम् अन्यत्राबद्धाः श्रद्धया समाप्य शीघ्रं प्रपाठकं तत्क्षणं विहरिष्यसि शुशुभिः सवयोभिः” । यस् तु न तथा श्रद्धाम् उपैति तस्योक्तो विधिः- “वेणुदेनेन” इति । प्रोयोज्या वक्तव्या । धर्मम् इच्छता । एवं सातिशयो ऽध्यापनधर्मो भवति ॥ २.१५९ ॥
यस्य वाङ्मनसे शुद्धे सम्यग्गुप्ते च सर्वदा ।
स वै सर्वम् अवाप्नोति वेदान्तोपगतं फलम् ॥ २.१६० ॥
मेधातिथिः ...{Loading}...
यस्याध्यापयितुर् अन्यस्य वा संक्षोभहेतौ सति वाङ्मनसी शुद्धे न कालुष्यं गच्छतः । सम्यग्गुप्ते चोत्पन्ने ऽपि कालुष्ये न परद्रोहव्यवसायो न च तत्पीडार्थः कर्मारम्भः, एतत् सम्यग्गोपनं वाङ्मनसयोः । सर्वदाग्रहणं पुरुषमात्रधर्मार्थं, नाध्यापयितुर् एव अध्यापनकाले । स वै सर्वम् अवाप्नोति । वेदान्ता वेदसिद्धान्ताः । सिद्धशब्दस्यात्यन्तं सिद्ध इति “सिद्धे शब्दार्थसंबन्धे” (पाण् वार् इन् पत् इ- ६) इत्य् अत्रात्यन्तशब्दस्येव लोपः । वैदिकेषु वाक्येषु य सिद्धान्तो व्यवस्थितार्थो ऽस्य कर्मण इदं फलम् इत्य् उपगतः, अभ्युपगतो वेदविद्भिः, तत्फलं सर्वं प्राप्नोति । एवम् च वदता वाङ्मनससंयमस्यानेन वाक्येन क्रतुषु396 पुरुषोभयधर्मतोक्ता भवति । केवलपुरुषधर्मातिक्रमे ह्य् असति क्रतुवैगुण्ये397 ऽसंयतो ऽपि वाङ्मनसाभ्यां किम् इति कृत्स्नं फलं न प्राप्नोति, येनोच्यते “संयमी सर्वम् आप्नोति” इति ।
-
अन्ये तु वेदान्तान् रहस्यब्राह्मणान् व्याचक्षते । तेषु यद् अभ्युपगतं फलं नित्यानां कर्मणां निष्फलानां च यमनियमानां तत्फलं ब्रह्मप्राप्तिलक्षणं सर्वम् आप्नोति । कथं पुनर् नित्यानि ब्रह्मप्राप्त्यर्थानीति चेद् अस्ति केषांचिद् दर्शनम् ।
-
अथ वा वेदस्यान्तो ऽध्यापनसमाप्तिस् ततो यत् फलम् आचार्यकरणविधिस् तत् प्राप्नोति । एवं तु व्याख्याने ऽध्यापनविध्यर्थतैव स्यात् ॥ २.१६० ॥
नारुन्तुदः स्याद् आर्तो ऽपि न परद्रोहकर्मधीः।
ययास्योद्विजते वाचा नालोक्यां ताम् उदीरयेत् ॥ २.१६१ ॥
मेधातिथिः ...{Loading}...
अयम् अपरः पुरुषार्थमात्रधर्मः । अरूंषि मर्माणि तुदति व्यथयतीत्य् अरुंतुदो मर्मस्पर्शिनीर् वाचो ऽत्यन्तोद्वेजनकरीर् आक्रोशवाचो यो वदति । आर्तः पीडितो ऽपि परेण न तादृशम् अप्रियं भाषेत । तथा परद्रोहः परापकारः तदर्थं कर्म तद्धीश् च न कर्तव्या । अथ वा परद्रोहश् चासौ कर्म च तत्र धीः बुद्धिर् अपि न कर्तव्या । यया वाचा नर्मप्रयुक्तयापि पर उद्विजते अथ च तां वाचं नोदीरयेत् । वाक्यैकदेशम् अपि तादृशं नोच्चारयेद् यत एकदेशाद् अर्थप्रकरणादिनार्थान्तरसूचनं प्रतीयते । यतः सा वाग् अलोक्या स्वर्गादिलोकप्राप्तिप्रतिबन्धिनी ॥ २.१६१ ॥
संमानाद् ब्राह्मणो नित्यम् उद्विजेत विषाद् इव ।
अमृतस्येव चाकाङ्क्षेद् अवमानस्य सर्वदा ॥ २.१६२ ॥
मेधातिथिः ...{Loading}...
भिक्षमाणस्य ब्रह्मचारिणो गृहे वोपाध्यायस्य जीविकयाध्यापयतो यत्र संमानं न स्यान् न तेन चित्तसंक्षोभम् आददीत, अपि तु संमानाद् एव्ओद्विजेत पूजयैव दीयमानं न बहु मन्येत । अमृतम् इवाकाङ्क्षेद् अभिलषेद् अवमानम् अवज्ञां सर्वदा । उत्कण्ठासामान्यात् अधीगर्थत्वम्398 आकाङ्क्षेर् आरोप्य षष्ठी कृता (पाण् २.३.५२) ।
- ननु चानर्चितम् अभोज्यम् (म्ध् ४.२१४) । सत्यं चित्तसंक्षोभप्रतिषेधार्थम् एतत् । न तु तादृशस्य भोज्यतोच्यते । संमानावमनयोः समेन भवितव्यं न पुनर् अवमानं प्रार्थनीयम् । ब्रह्मचारिणस् त्व् अवमतम् अपि भिक्षादानम् । न चायं प्रतिग्रहः, “यो ऽर्चितं प्रतिगृह्णाति” (म्ध् ४.२३६) इत्त्य् एतस्य येन विषयः स्यात् ॥ २.१६२ ॥
सुखं ह्य् अवमतः शेते सुखं च प्रतिबुध्यते ।
सुखं चरति लोके ऽस्मिन्न् अवमन्ता विनश्यति ॥ २.१६३ ॥
मेधातिथिः ...{Loading}...
पूर्वस्य विधेर् अर्थवादो ऽयं फलदर्शनार्थः । सो ऽवमानान् न क्षुभ्यति स सुखं शेते । अन्यथा द्वेषेण दह्यमानो न कथंचिन् निद्रां लभते । प्रतिबुद्धश् च तच्चिन्तापरो न सुखं विन्दति । उत्थितश् च शयनात् कार्येषु सुखं चरति । यस् त्व् अवमानस्य कर्ता स तेन पापेन विनश्यति399 ॥ २.१६३ ॥
अनेन क्रमयोगेन संस्कृतात्मा द्विजः शनैः ।
गुरौ वसन् संचिनुयाद् ब्रह्माधिगमिकं तपः ॥ २.१६४ ॥
मेधातिथिः ...{Loading}...
संस्कृतात्मा उपनीतो द्विजो ऽनेन क्रमयोगेन तपः संचिनुयात् । “अध्येष्यमाण” (म्ध् २.७०) इत्य् अत आरभ्य यद् ब्रह्मचारिणः कर्तव्यम् उक्तम्, तस्य “अनेन” (म्ध् २.१६४) इति प्रत्यवमर्शः । अनेन विधिसंघातेन क्रमयोगेन क्रमेणानुष्ठीयमानेन तप आत्मसंस्कारं निष्कल्मषत्वलक्षणम् । यथा तपसा चान्द्रायणादिना निष्कल्मषत्वं भवत्य् एवम् अनेनापि वेदग्रहणार्थेन यमनियमसमूहेन । अतः संचिनुयात् शनैर् अत्वरयार्जयेच् च वर्धयेच् च । क्रमः परिपाटी इदं कृत्वेदं कर्तव्यं, “ॐकारपूर्विकाः” इत्यादिः । तेन योगः संबन्धो यस्यानुष्ठानस्येति यावत् । ब्रह्मणः आधिगमिकम् अधिगमार्थम् । अध्ययनबोधाव् अधिगमः ॥ २.१६४ ॥
तपोविशेषैर् विविधैर् व्रतैश् च विधिचोदितैः ।
वेदः कृत्स्नो ऽधिगन्तव्यः सरहस्यो द्विजन्मना ॥ २.१६५ ॥
मेधातिथिः ...{Loading}...
तपोविशेषैः कृच्छ्रचान्द्रायणादिभिर् विविधैर् बहुप्रकारैर् एकाहारचतुर्थकालाहारादिभिर् अभिक्षिण्वता शरीरम् । व्रतैश् चोपनिषद्महानाम्निकादिभिः । विधिनोदितैर् गृह्यस्मृतिष्व् आम्नातैर् अनुष्ठीयमानैर् वेदः कृत्स्नो ऽधिगन्तव्यः ।
-
ये तु पूर्वश्लोके तपः शब्दो ब्रह्मचारिधर्मे प्रयुक्त इहापि तपोविशेषास् त एवाभिप्रेता इत्य् आहुः, न ते सम्यङ् मन्यन्ते, व्रतशब्देनैव तेषां संगृहीतत्वात् । व्रतम् इति हि शास्त्रतो नियम उच्यते । सामान्यशब्दत्वाच् च व्रतशब्दस्य महानाम्निकादीनाम् अपि ग्रहणसिद्धिः । तस्मात् तपांस्य् उपवासादीन्य् अभिप्रेतानि ।
-
इह केचिद् वेद इत्य् अत्रैकवचनं विवक्षितं मन्यन्ते । यद्य् अपि तव्यप्रत्ययनिर्देशाद् विनियोगतो वेदस्य प्राधान्यं संस्कार्यतया प्रतीयते, तथापि विधितो वस्तुतश् चार्थावबोधे गुणभाव एव । गुणे च संविवक्षिते ऽर्थावबोधपर्यन्तो ह्य् अयं वेदविषयो माणवकस्य व्यापारो विधिवृत्तपर्यालोचनयावसीयते । अयं ह्य् अत्र विध्यर्थः “अधीतेन वेदेनार्थावबोधं कुर्यात्” न संस्कार्यत्वम् अन्यथा निर्वहति । सर्वो हि कार्यान्तरे शेषभूतः संस्क्रियते । वेदस्य च दृष्टम् एव कार्यम् अधीतस्य स्वार्थबोधजनकत्वम् अन्यथा “सक्तूञ् जुहोति” इतिवत् प्राधान्यं श्रुतम् अप्य् उत्सृज्येत । धातुर् अप्य् अवबोधार्थ एव । अधिगमनं हि ज्ञानम् उच्यते । “सर्वे गत्यर्था ज्ञानार्थाः” इति स्मृतम् । स्वरूपग्रहणं च वेदस्य प्राग् एव विहितम् “संहत्य हस्ताव् अध्येयम्” इत्यादिना (म्ध् २.७१) । तस्यैवार्थग्रहणपर्यन्ततानेन प्रतिपाद्यते । विवक्षाम् एव मत्वानेकवेदाध्ययनम् अप्राप्तं प्रतिप्रसविष्यते “वेदान् अधीत्य” (म्ध् ३.२) इति । यद्य् अप्य् अनेकवेदाध्ययनम् अस्ति क्वैकत्वविवक्षोपयुज्यते । बाढम् उपयुज्यते । एकस्याम् एव शाखायाम् अधीतायां “स्वाध्यायो ऽध्येतव्यः” इति विध्यर्थनिवृत्तिः । इच्छातस् त्व् अनेकवेदाध्ययनम्। यदि न विधिचोदितं क उन्मत्तो दन्तकलशिकयात्मानं क्लेशयिष्यति । अस्त्य् एवात्र विध्यन्तरं “वेदान् अधीत्य” इति तच् च फलकामस्य । फलं च स्वर्गः । अथास्य विधेर् वाक्यशेषे किंचिद् आम्नायते, घृतकुल्यादयो ऽन्यद् वा, ततस् तद् एव भवितुम् अर्हति । ब्रह्मचारिणो हि विधिर् अर्थावबोधविषयो दृष्टप्रयोजनश् च, अवबोधस्य कर्मानुष्ठानोपयोगदर्शनाद्400 विदुषः कर्मण्य् अधिकारात् । एकैकवेदाध्ययनम् अदृष्टायैव । अन्यथैकवेदाध्ययनेनैव स्वाध्यायविधिनिर्वृत्तेर् असति धर्माय विधौ वेदान् अधीत्येत्यादिवचनम् अनर्थकम् एव स्यात् ।
-
अत्रोयते । कथम् अयं पक्षः संगच्छेत यावतैको ऽयं विधिर् वेदो ऽधिगन्तव्य इति, स चेत् संस्कारविधित्वाद् दृष्टकर्मानुष्ठानोपयोगाच् च नादृष्टार्थः कल्प्यते, तद् अनेकवेदाध्ययने ऽपि तुल्यम् । तत्रापि ह्य् अयं प्रकारो ऽस्त्य् एव । वैरूप्यं च स्यात् । क्वचिद् आधानविधिवद् अवबोधद्वारेण नित्यकाम्यकर्मसंबन्धः, क्वचित् साक्षात् फलार्थतेति ।
-
अथ मतम् “वेदान् अधीत्य” इति विध्यन्तरम् एतत्, न वाचार्यकरणविधिप्रयोज्यम्401 । तत् फलकाम एवात्राधिक्रियत इति ।
-
तद् असत् । न चैतद् विध्यन्तरम् । प्रकृतस्यैव विधेर् असत्यां संख्याविवक्षायां पञ्चषट्सप्तादिशाखाध्ययनं यावच्छक्तिप्राप्तं त्रयं नियमयति । न चाधीयीतेति विधिर् अत्र श्रूयते । अपि तु “गृहस्थाश्रमम् आवसेत्” (म्ध् ३.२) इत्य् अयम् अत्र विधिः ।
-
यद् अपि संख्याया विवक्षितत्वम् उक्तं तद् अत्यन्तासंबद्धम् । विनियोगतो हि संख्याविवक्षा, नोपपादनतः । स च विनियोगः स्वाध्यायार्थम् अध्ययनम् आह । नार्थेन गुणभावेन द्वितीयान्ताभ्याम् अवगतं प्राधान्यम् अपैति । एवं ह्य् आश्रीयमाणे ग्रहे ऽप्य् एकत्वं विवक्ष्येत “ग्रहं संमार्ष्टि” इति । प्रधानभूतस्यापि हि तस्य संमार्गं प्रत्यस्त्य् एव साधनभावः । न त्व् असौ शब्देनाभिधीयते । यथा402 ग्रहैर् जुहोतीति होमे ऽपि गुणभावः । तस्माद् अभिधानविनियोगाभ्यां प्राधान्यं स्वाध्यायस्य । सति च प्राधान्ये न विवक्षितम् एकत्वम् ।
-
हन्त तर्हि यद्य् एकेनापि वेदेन गृहीतेन निवर्तेत स्वाध्यायविध्यर्थः, वक्तव्यम् अनेकवेदाध्ययनप्रयोजनम् । तृतीये वक्ष्यामः ।
-
ननु यद्य् अवबोधपर्यन्तो ऽयं विधिस् तदा गृहीते ऽपि स्वरूपतो वेदे यावदर्थावबोधो न जातस् तावदन्तरा मधुमांसादियमनियमानुष्ठानम् अव्यावृत्तं स्यात् । तत्र को दोषः । शिष्टसमाचारविरोधः । न हि शिष्टा अधीते वेदे तदर्थम् उपशृण्वन्तो ऽपि मधुमांसादि वर्जयन्ति ।
-
नैष दोषः । अस्ति हि स्मृत्यन्तरं “वेदम् अधीत्य स्नायात्” इति (बौग् २.५.६) । तत्राधीत्येति पाठमात्रम् उच्यते । स्नायाद् इति च स्वकालस्वाध्यायविध्यङ्गयमनियमनिवृत्तिर् लक्ष्यते । यथैव मधुमांसे प्रतिषिद्धे एवं स्नानम् अपि । तत्र स्नानम् अनुज्ञायमानं साहचर्यान् मधुमांसादीन्य् अपि तुल्यप्रकरणत्वाद् अनुजानाति । स्त्रीसंप्रयोगस् तु वचनान्तरेण “अविप्लुतब्रह्मचर्यः” (म्ध् ३.२) इति प्रतिषिद्धः । तद्व्यतिक्रमे च न स्वाध्यायविधेर् अर्थावबोधकाले किंचित् परिहीणम् । न हि तस्याम् अवस्थायां तदङ्गम्, सर्वेषां यमनियमानां ग्रहणान्तत्वात् । पुरुषार्थस् त्व् अयं प्रतिषेधः । अत एव कथंचिद् विप्लवे नावकीर्णिप्रायश्चित्तम् । 403व्रस्थस्य हि रेतःसेको विकारः, न च व्रतस्थश् चान्द्रायणादिनानेनोपपातकप्रायश्चित्तेनाधिक्रियते ।
-
किं पुनः स्नायाद् इति लक्षणत्वे कारणम् । उच्यते । न तावद् इदं स्नानम् अद्भिः शरीरक्षालनरूपम्, अदृष्टार्थत्वप्रसङ्गात् । ब्रह्मचारिनियमानां चावध्यप्रेक्षत्वाद् अस्य चावधिसमर्पकत्वेनापेक्षितार्थविधिनोपपत्तेः । न पुनर् एवं तेषाम् अवध्यन्तरापेक्षा । स्वाध्यायविध्यर्था हि ते ऽतस् तन्निवृत्तिर् एव तेषाम् अवधिः । तस्य च निवृत्तिर् विषयनिवृत्त्या । अध्ययनं च तस्य विषयः । तन्निवृत्तिः प्रत्यक्षैव ।
-
सत्यम्, यद् यस्य श्रुतविषयनिष्ठतैव स्यात् । अश्रुतो ऽप्य् अस्य विषयः फलभूतो ऽर्थाधिगमो ऽपि संस्कारविधित्वान्यथानुपपत्त्या विषयताम् आपन्नः । यतः श्रुताध्ययननिष्ठत्वे विधित्वम् एवास्य व्याहन्येत । विधेर् हि स्वार्थानुष्ठापकत्वं रूपम् । स्वार्थश् च कार्यकरणेतिकर्तव्यतात्मकः404 । तच् च विध्यर्थव्यतिरेकेण नान्यत् किंचित् । न कार्यं करणं विषयः, एकपदोपादानात् । अधीयीतेत्य् अध्ययनादिधात्वार्थावच्छिन्नो405 भावार्थः । यमनियमानुष्ठणम् इतिकर्तव्यता । न तत्र तावद् अस्य विधेः स्वार्थानुष्ठापकत्वसंभवः । यतो विषयानुष्ठानद्वारिका सर्वा विधीनां स्वार्थानुष्ठानसंपत्तिः । तस्यास्य विषयानुष्ठानं विध्यन्तरवशाद् एव सिद्धम् । आचार्यस्य हि विधिर् अस्ति “उपनीय शिष्यं वेदम् अध्यापयेत्” (म्ध् २.१४०) इति । न चाध्यापनम् अन्तरेणाध्ययनसिद्धिः । अत आचार्यः स्वविधिसंपत्त्यर्थम् अध्ययने माणवकं प्रवर्तयति स्वयं च ज्ञात्वा नाचार्येणाप्रवर्तितस्यानुष्ठानसंभवः । अतो ऽवश्यम् आचार्यविधिप्रयुक्तता एषितव्या । तत्प्रयुक्तत्वे सति सिद्धम् अनुष्ठानम् इति न स्वाध्यायाध्ययने माणवकस्य विधिना कश्चिद् अर्थः । अतः प्रयोक्तृत्वासंभवात् कीदृशी विधिरूपतास्य विधेः । स्वरूपनाशे प्रसक्ते स प्रकारो ऽन्विष्यते, यथास्य प्रयोक्तृत्वं लभ्यते । तत्र निश्चितस् तावद् अयं संस्कारविधिः । न च निष्फलः संस्कारः । अध्ययने सति यादृशस्य तादृशस्यार्थबन्धस्य दर्शनात् तस्य च सकलतत्कर्मानुष्ठानोपयोगित्वात् । अतः श्रुताध्ययनविषयसंबद्धावबोधकर्तव्यतातो विधिः प्रतीयते । यद्य् अपि च वस्तुस्वाभाव्येन वाक्यग्रहणसमन्तरम् अवबोधो जायते, न तु निश्चितरूपो भवति । अतो येन प्रकारेण निश्चयो भवति तस्मिन्न् अंशे विधेः प्रयोक्तृत्वम् । निश्चयो विचार्य संशायादिव्युदासेन भवति । न च विचारो ऽन्यतः प्राप्तः । नाचार्यविधेः, तस्याध्ययनमात्रेण निवृत्तेः । नापि दृष्टकार्यप्रयुक्तः, किं विचारम् अन्तरेण पुरुषस्य न सिद्ध्येद् यदर्थं प्रवर्तेत ।
-
यदृच्छया ग्रामादिकामस्येव विचारो ऽपि प्राप्त इति चेत्, एवं तर्ह्य् अनियतत्वात् पुरुषेच्छायाः कश्चिन् न विचारयेत् । यदि विचारयेन् नाध्ययनसमनन्तरम् । अतो ऽस्यांशस्याप्राप्तत्वाद् यावद् अप्राप्तं विधेर् विषय इत्य् अस्ति विधेर् व्यापारः । तस्माद् अध्यनस्यान्यतः प्राप्तत्वात् तत्संबन्धस्यावबोधस्यानिश्चितरूपस्य वस्तुस्वाभाव्येनोत्पत्तेस् तादृशस्य न क्वचिद् अर्थवत्त्वात् सत्य् अपि तस्मिन् संस्कारकत्वान् निर्व्यूढे निश्चितस्यैव फलवत्कर्मानुष्ठानोपयोगित्वान् निश्चयस्य विचारसाध्यत्वात् तस्य च नियतकालावश्यकर्तव्यताप्राप्तेस् तन्निवृत्त्यर्थं विचारपर्यवसायी विधिर् अयम् अवतिष्ठते ।
-
अतो भवत्य् आकाङ्क्षा नियमानाम् । किं श्रुताध्ययनपर्यवसानावधिर् उताक्षिप्तनिश्चितावबोधजननार्थविचारपर्यवसानः । अतो ऽस्यां अपेक्षायां “वेदम् अधीत्य स्नायात्” इत्य् अनेनावधिसमर्पणं क्रियते । तत्र प्रकृतस्यापेक्षायाश् चाविशेषाद् युक्ता लक्षणा ।
-
ननु किम् इदम् उच्यते ऽश्रुतोवबोधः, यावता “अधिगन्तव्यः” (म्ध् २.१६५) इति श्रूयत एव । वेदे स्मृतिषु चान्यासु “वेदम् अधीते,” “स्वाध्यायो ऽध्येतव्यः” इति च पठ्यते । मानव्या अपि स्मृतेर् एतत् स्मृतिमूलत्वाद् अभिन्नार्थतैव । आक्षिप्तावबोधाभिप्रायो ऽयम् अधिगमः । यदि वा स्वरूपग्रहणम् एवाधिगमः । अवबोधपर्यन्तता तु तेनैव न्यायेन लभ्यते । न च विसमञ्जसम् एको ऽयं विधिस् तस्य च विषयांशः कश्चिद् आचार्यविधिना प्रयुज्यते, कस्यचिद् अंशस्य स एव प्रयोजक इति वैरूप्यम् । किम् अत्रानुपपन्नम्, अर्थभूतस्यैवावगमात् ।
-
यत् तूक्तम् “अनेकवेदाध्ययनम् अदृष्टार्थं युक्तम्” इति, तस्य “षट्त्रिंशदाब्दिकम्” (म्ध् ३.१) इत्य् अत्र परिहारं वक्ष्यामः ।
-
वेदशब्दो मन्त्रब्राह्मणवाक्यसमुदायात्मिका शाखाम् आचष्टे । तदवयवे ऽपि वाक्ये वेदशब्दस्य प्रयोगदर्शनात् तदाशङ्कानिवृत्त्यर्थः कृत्स्नशब्दः । यद्य् अप्य् एकस्मिन् वाक्ये ऽधीते वाक्यान्तरस्यापि वेदशब्दवाच्यत्वाद् अनिवृत्तम्406 अध्ययनं संस्कारकर्मत्वाद् ग्रहवत्, तथापि विस्पष्टार्थं कृत्स्नग्रहणम् ।
-
अन्ये त्व् अङ्गविषयं कृत्स्नशब्दं वर्णयन्ति । वेदशब्दो ह्य् उक्तपरिमाणस्य वाक्यसमुदायस्य वाचकः । तत्र ऋङ्मात्रेणापि न्यूने न स्वाध्यायो ऽधीतो भवति । तस्मात् कृत्स्नशब्दो ऽङ्गाध्ययनप्राप्त्यर्थः । तथा च स्मृत्यन्तरम् “ब्राह्मणेन निष्कारणो धर्मः षडङ्गो वेदो ऽध्येयः” इति ।
-
ननु यो वेदः स कृत्स्न इत्य् एतद् अत्र प्रतीयते । न चाङ्गानि वेदशब्दवाच्यानि । तत्र कूतो ऽङ्गैः407 साहित्य । या त्व् एषा स्मृतिः- “षडङ्गो वेदो ऽध्येयः” इति, तत्र स्वशब्देनाङ्गान्य् उपात्तानि । इह तु वेदविशेषणत्वात् कृत्स्नशब्दस्य कथम् इवाङ्गानि गृह्येरन् ।
-
उच्यते । “स्वाध्यायो ऽध्येतव्यः” इति मूलैवैषा स्मृतिः । सा चावबोधपर्यन्ता व्यवस्थापिता । अवबोधश् च नान्तरेणाङ्गानि कल्पत इत्य् अर्थसिद्धम् अङ्गानाम् उपादानम् । अतो निगमनिरुक्तव्याकरणमीमांसावेदनम् अपि विध्याक्षिप्तम् । एवम् अर्थम् अङ्गानाम् उपादानम् अङ्गीकृत्य कृत्स्नशब्दो द्योतकत्वेन युक्त उपादातुम् । तत्र यथारम्भकाणि पुरुषस्य हस्तपादादीन्य् अङ्गान्य् उच्यन्ते, नैवं वेदस्य निरुक्तादीन्य् आरम्भकाणि । अथ च भक्त्याङ्ग्त्वेन वेदस्योच्यन्ते । न किल तैर् विना वेदः स्वार्थाय प्रभवन्त्य् अतो ऽङ्गानीवाध्यासो ऽत्र । एवम् अध्यारोपितवेदत्वेन कृत्स्नशब्द उपपद्यते ।
-
सरहस्य इति । रहस्यम् उपनिषदः । सत्य् अपि वेदत्वे प्राधान्यात् पृथग् उपादानम् ॥ २.१६५ ॥
वेदम् एव सदाभ्यस्येत् तपस् तप्स्यन् द्विजोत्तमः ।
वेदाभ्यासो हि विप्रस्य तपः परम् इहोच्यते ॥ २.१६६ ॥
मेधातिथिः ...{Loading}...
प्रकृतशेषतया प्राप्त एव ग्रहणार्थो ऽभ्यासो ऽनूद्यते स्तुत्यर्थम्, न पुनर् विध्यन्तरम् । सदाशब्दो ग्रणकालापेक्ष एव । तपःशब्दः शरीरक्लेशजननेष्व् आहारनिरोधादिषु शास्त्रीयेषु408 वर्तते । इह तु तज्जन्यात्मसंस्कारो वराभिशापादिसामर्थ्यं लक्षणयोच्यते । तत् तपस् तप्स्यन् तपसार्जयितुम् इच्छन्, अर्जनाङ्गे संतापे धातुर् वर्तते । कर्मकर्तृत्वस्याविवक्षितत्वात् परस्मैपदम् । हेतुरूपो द्वितीयश्लोकार्धो ऽर्थवादः409 । वेदाभ्यासो हि यावत् किंचित् प्रकृष्टं तपः, ततः परं श्रेष्ठं वेदाभ्यासस् तत्तुल्यफलताम् आरोप्य स्तूयते ॥ २.१६६ ॥
आ हैव स नखाग्रेभ्यः परमं तप्यते तपः ।
यः स्रग्व्य् अपि द्विजो ऽधीते स्वाध्यायं शक्तितो ऽन्वहम् ॥ २.१६७ ॥
मेधातिथिः ...{Loading}...
अयम् अपरो वाजसनेयकस्वाध्यायविधिर् ब्राह्मणे ऽर्थवादानुवादः । आ नखाग्रेभ्य एवेति संबन्धः । हशब्द ऐतिह्यसूचकः । परमशब्दात् तपसः प्रकर्षे प्रतिपन्ने नखाग्रग्रहणं प्रकृष्टस्यापि प्रकर्षम् आह । नखाग्राणि निर्जीवानि तान्य् अपि तपसानेन व्याप्यन्ते । तपो हि कृच्छ्रादिकं नखाग्राणाम् अव्यापकत्वान् न निःशेषफलप्रदम् । इदं तु तान्य् अपि व्याप्नोतीति प्रशंसा । तप्यते तप इति । “तपस् तपः कर्मकस्यैव” (पाण् ३.१.८८) इति यगामनेपदे । यः स्रग्व्य् अपि । स्रग् अस्यास्तीति स्रग्वी, कृतकुसुमदामा पुरुष उच्यते । अनेन च ब्रह्मचारिनियमत्यागं दर्शयति । परित्यज्यापि ब्रह्मचारिधर्मान् यदि शक्तितो यावच् छक्नोति स्वल्पम् अप्य् अन्वहं प्रत्यहं वेदम् अधीते सो ऽपि प्रकृष्टेन पुरुषार्थेन युज्यते । स्तुतिर् इयं न पुनर् नियमत्यागे ऽध्ययनम् उच्यते ॥ २.१६७ ॥
यो ऽनधीत्य द्विजो वेदम् अन्यत्र कुरुते श्रमम् ।
स जीवन्न् एव शूद्रत्वम् आशु गच्छति सान्वयः ॥ २.१६८ ॥
मेधातिथिः ...{Loading}...
येषां तावत् कृत्स्नशब्दो ऽङ्गपरिग्रहार्थः, तेषाम् अनियतक्रमे ऽध्ययने प्राप्ते क्रमो नियम्यते । प्रथमं वेदो ऽध्येतव्यः, ततो ऽङ्गानि । येषां तु वेदस्यैवासाकल्प्याशङ्कानिवृत्त्यर्थम्, तेषां त्रैविद्यव्रतान्तरं वेदस्यैव प्राप्तम् अध्ययनम् । अगृहीते वेदे ऽङ्गानाम् अध्ययनं नाभ्यनुज्ञायते410 ।
-
यो द्विजो वेदम् अनधीत्यान्यत्र शास्त्रे अङ्गेषु तर्कशास्त्रग्रन्थेषु वा श्रमम् अभियोगातिशयं कुरुते स जीवन्न् एव शूद्रत्वम् आप्नोति । आशु क्षिप्रम् । सान्वयः पुत्रपौत्रादिसंतत्या सह । श्रमो यत्नातिशयस् तन्निषेधायोगात् तत्समाप्तौ यथावसरम् अन्यान्य् अपि विद्यास्थानानि पठ्यन्ते । शूद्रत्वप्राप्तिवचनं निन्दातिशयः । द्विज इति वचनाद् उपनीतस्यायं क्रमनियमः । प्राक् चोपनयनाद् अङ्गाध्ययनम् अनिषिद्धं शिक्षाव्याकरणादि यद् वेदवाक्यैर् न मिश्रितम् ।
-
ननु च स्वाध्यायविधिनाङ्गान्य् आक्षिप्यन्ते । तं च विधिम् आचार्यप्रयुक्तो माणवको ऽनुतिष्ठति । प्राग् उपनयनाद् असत्य् आचार्ये कुतो ऽङ्गाध्ययनसंभवः । नैष दोषः । “तस्माद् अनुशिष्टं पुत्रं लोक्यम् आहुः” (बाउ १.५.१७) इति पित्रा यः संस्कर्तव्यः । स एनं प्राग् उपनयनाद् व्याकरणाद्य् अध्यापयिष्यति ॥ २.१६८ ॥
द्विजातीनां तत्र तत्राधिकारः श्रुतः । तत्राचार्यादिशब्दवत् सुहृत्त्वात् तदर्थनिरूपणार्थम् आह ।
मातुर् अग्रे ऽधिजननं द्वितीयं मौञ्जिबन्धने ।
तृतीयं यज्ञदीक्षायां द्विजस्य श्रुतिचोदनात् ॥ २.१६९ ॥
मेधातिथिः ...{Loading}...
मातुः सकाशाद् अग्रे आदाव् अधिजननं जन्म पुरुषस्य । द्वितीयं मौञ्जिबन्धने उपनयने । “ङ्यापोर् बहुलम्” (पाण् ६.३.६३) इति ह्रस्वः । तृतीयं ज्योतिष्टोमादियज्ञदीक्षायाम् । दीक्षापि जन्मत्वेन श्रूयते- “पुनर् वारं तद् ऋत्विजो गर्भं कुर्वन्ति यद् दीक्षयन्ति” इति (ऐत्ब् १.३) । त्रीणि जन्मानि द्विजस्य श्रुतिनोदितानि ।
-
ननु एवं सति त्रिजः प्राप्नोति । अस्तु । द्विजव्यपदेशे तावद् उपनयनं निमित्तम् । तद्व्यपदेशनिबन्धश् च श्रौतस्मार्तसामयिकाचारिककर्माधिकारः । प्रथमतृतीयजन्माभिधानं द्वितीयजन्मस्तुत्यर्थम् । सर्वजन्मश्रेष्ठं तत् । अदीक्षितो हि यज्ञ एव नाधिक्रियते, अनुपनीतस् तु न क्वचिद् एव ।
-
अन्ये त्व् आद्यत्वसामान्याद् आधानं यज्ञदीक्षां मन्यन्ते । तस्यापि जन्मसंभवो ऽस्ति “अजात एवासौ यो ऽग्नीन् नाधत्त” इति ॥ २.१६९ ॥
तत्र यद् ब्रह्मजन्मास्य मौञ्जीबन्धनचिह्नितम् ।
तत्रास्य माता सावित्री पिता त्व् आचार्य उच्यते ॥ २.१७० ॥
मेधातिथिः ...{Loading}...
तत्र एतेषु त्रिजन्मसु411 यद् एतद् ब्रह्मजन्म उपनयनं मौञ्जीबन्धनचिह्नितं मेखलाबन्धनेनोपलक्षितम् । तत्रास्य माता सावित्री । तया ह्य् अनूक्तया तन्निष्पन्नं भवति । अनेन च सावित्र्यनुवचनम् उपनयने प्रधानं दर्शयति, तदर्थं ह्य् असौ समीपम् आनीयते । पिताचार्यः । मातापितृनिर्वर्त्यं जन्म । अतो रूपकभङ्ग्या तत्राप्य् आचार्यसावित्र्यौ मातापितराव् उक्तौ ॥ २.१७० ॥
मौञ्जीबन्धनचिह्नितम् इत्य् उक्तम् । तत्र रज्ज्वासञ्जनाद् आचार्यः पितृवन् मान्यः स्यात् तदर्थम् उच्यते ।
वेदप्रदानाद् आचार्यं पितरं परिचक्षते ।
न ह्य् अस्मिन् युज्यते कर्म किंचिद् आ मौञ्जिबन्धनात् ॥ २.१७१ ॥
मेधातिथिः ...{Loading}...
वेदप्रदानाद् आचार्यं पितरं परिचक्षते । कृत्स्नवेदाध्यापनान् नोपनयनाङ्गभूतसावित्र्यनुवचनमात्राद् एव । प्रदानं माणवकस्य वेदाक्षरोच्चारणे स्वीकारोत्पादनम्412 । यद्य् एवम्, यावन् नाचार्येण पितृत्वं प्राप्तं तावन् न माणवको द्वितीयं जन्म समश्नुते । अप्राप्तद्विजभावश् च प्राग् इवोपनयनात् कामचारः स्यात् । अत आह- न ह्य् अस्मिन् प्राङ् मौञ्जिबन्धनाद् अस्य माणवकस्य किंचित् कर्म श्रौतस्मार्तम् आचारप्रतिष्ठं वादृष्टार्थं प्रयुज्यते, न तत्राधिक्रियते । उपनयनसमनन्तरम् एव सर्वैर् द्विजातिपुरुषधर्मैर्413 अधिक्रियते ।
- ननु अवैद्यत्वात् तस्याम् अवस्थायां कथम् अधिक्रियताम् । एतदर्थम् एवोक्तम्- “गुरौ शिष्यश् च याज्यश् च” इति (म्ध् ८.३१७) । आचार्येणासौ शिक्षयितव्यः । तद् उक्तम् “शौचाचारांश् च शिक्षयेत्”414 (य्ध् १.१५) । यथा च गौतमः- “उपनयनादिर् नियमः” इति (ग्ध् २.६) । आचार्यस्य तु वेदसमापनान्तो व्यापारः ॥ २.१७१ ॥
नाभिव्याहारयेद् ब्रह्म स्वधानिनयनाद् ऋते ।
शूद्रेण हि समस् तावद् यावद् वेदे न जायते ॥ २.१७२ ॥
मेधातिथिः ...{Loading}...
“आ मौञ्जिबन्धनात्” इत्य् अनुवर्तते । यदि वा यावद् वेदे न जायत इत्य् अर्थवादतो ऽवधिपरिनिश्चयः । ब्रह्म वेदस् तन् नोच्चारयेत् । पितुर् अयम् उपदेशः । यथा मद्यपानादिभ्यो रक्षेत् तथा वेदाक्षरोच्चारणात् ।
-
केचित् त्व् इमम् एव ब्रह्माभिव्याहारनिषेधं प्राग् उपनयाद् व्याकरणाद्यङ्गध्ययने ज्ञापकं वर्णयन्ति । णिजर्थं व्याचक्षते- पित्रा न वचनीयः, बाल्यात् तु कानिचिद् अव्यक्तानि वेदवाक्यानि स्वयं पठतो न दोषः ।
-
एतत् तु न युक्तम् । स्मृत्यन्तरे हि पठ्यते- “न ब्रह्माभिव्याहरेत्” इति (ग्ध् २.५) । अर्थवादे च श्रुतं शूद्रेण हि समस् तावद् इति । यथा शूद्रो दुष्यति तद्वद् अयम् अपीत्य् उक्तं भवति ।
-
स्वधाशब्देन पितृभ्यः कल्पितम् अन्नम् इहोच्यते । अथ वा पित्र्यं कर्म स्वधाशब्देनोच्यते । तन् निनीयते त्यज्यते प्राप्यते येन मन्त्रेण स स्वधानिनयनः- “शुन्धन्तां पितरः” (आश्श् २.६.१४) इत्यादिः । तं वर्जयित्वान्यमन्त्रो नोच्चारयितव्यः । अनुपनीतेनोदकदाननवश्राद्धादि पितुः कर्तव्यम् इत्य् अस्माद् एव प्रतीयते । पार्वणश्राद्धादौ त्व् अग्निमत्त्वाभावाद् अनधिकारः । पिण्डान्वाहार्यके415 हि तद् वक्ष्यते । तृतीये चैतन् निपुणम् उपपादयिष्यामः ॥ २.१७२ ॥
कृतोपनयनस्यास्य व्रतादेशनम् इष्यते ।
ब्रह्मणो ग्रहणं चैव क्रमेण विधिपूर्वकम् ॥ १७३ ॥
“उपनीय गुरुः शिष्यम्” (म्ध् २.६९) इत्य् अनेन शौचाचाराध्ययनानां क्रम उक्तः । अतश् च तेनैव क्रमेण पठेत् । उपनयनानन्तरम् अध्ययने प्राप्ते क्रमान्तरार्थम् इदम् आरभ्यते ।
- उपनीतस्य त्रैविद्यादिव्रतं च कर्तव्यम् । ततः “स्वाध्यायो ऽध्येतव्यः” । कृतोपनयनस्य ब्रह्मचारिणो व्रतादेशनम् इष्यते क्रियते चाचार्यैः । शास्त्रवशेनैवम् इष्यते । अतश् च कर्तव्यतैवैषणा प्रतिपाद्यते । ततो ब्रह्मणो वेदस्य ग्रहणं क्रमेणानेन विधिपूर्वकम् इत्य् अनुवादः416 श्लोकपूरणार्थः ॥ २.१७३ ॥
यद्य् अस्य विहितं चर्म यत् सूत्रं या च मेखला ।
यो दण्डो यच् च वसनं तद् तद् अस्य व्रतेष्व् अपि ॥ २.१७४ ॥
मेधातिथिः ...{Loading}...
गृह्यकारैर् व्रतनामधेयकानि कर्माण्य् उपदिष्टानि । “संवत्सरं वेदं भागं वा किंचिज् जिघृक्षत” । इयं व्रतचर्या यो यमनियमसमूहः । तत्र पूर्वव्रतसमाप्तौ व्रतान्तरारम्भे उपनयने ये विधयस् तादृश एव व्रतादेशेषु । अथ प्रागुपात्तानां का प्रतिपत्तिः । अप्सु प्रासनम् । ननु च तद् उक्तं प्रागुपात्तानाम् । विनष्टानां का प्रतिपत्तिः । विनाशे शास्त्रनोदितं चैषां कार्यम् अन्योपादानाच् च तेषां निवृत्तिः । यच् चर्म यस्य ब्रह्मचारिणो विहितं यथा “कार्ष्णं ब्राह्मणस्य रौरवं क्षत्रियस्य” (च्ड़्। म्ध् २.४१) इति । एवं दण्डादिष्व् अपि द्रष्टव्यम् । तस्य व्रतेष्व् अपि । प्रकृतत्वाद्417 व्रतशब्दो व्रतादेशे वर्तते ॥ २.१७४ ॥
सेवेतेमांस् तु नियमान् ब्रह्मचारी गुरौ वसन् ।
संनियम्येन्द्रियग्रामं तपोवृद्ध्यर्थम् आत्मनः ॥ २.१७५ ॥
मेधातिथिः ...{Loading}...
वक्ष्यमाणस्य यमनियमसमूहस्य पृथक्प्रकरणत्वेन श्लोको ऽयं गौरवख्यापनार्थः । एवं तु यत् पूर्वम् उक्तं तद् अवश्यकर्तव्यम् । इदं तु ततो गुरुतरम् अनुष्ठीयमानं महते फलाय ।
-
ब्रह्मचारिग्रहणं प्रकरणान्तरत्वेनातद्धर्माशङ्कयानुसंधानार्थम्- यदि ब्रह्मचारिधर्म एव आसीत् किं तर्हीदम् उच्यते प्रकरणान्तरम् इति । पूर्वेभ्य एतेषाम् अतिशयात् समानधर्मत्वाद् एतावता वैलक्षण्येन प्रकरणान्तरत्वव्यवहारः । परिशिष्टानि पदानि श्लोकपूरणार्थतयानूद्यन्ते ।
-
सेवेत अनुतिष्ठेत । इमान् वक्ष्यमाणान् । बुद्धौ संनिहितत्वाद् इदमा निर्दिश्यन्ते । गुरौ वसन् गुरुसमीपे विद्याध्ययनार्थं वसन् इति नित्यसंनिधानम् आह418 । संनियम्येन्द्रियग्रामं प्रागुक्तेन मार्गेण । तपोवृद्ध्यर्थम् अध्ययनविध्यनुष्ठानजन्यात्मसंस्कारार्थम्419 ॥ २.१७५ ॥
तानीदानीं पूर्वेण प्रतिज्ञातान् नियमान्420_ आह ।_
नित्यं स्नात्वा शुचिः कुर्याद् देवर्षिपितृतर्पणम् ।
देवताभ्यर्चनं चैव समिदाधानम् एव च ॥ २.१७६ ॥
मेधातिथिः ...{Loading}...
प्रत्यहं स्नात्वा शुचिः स्नानेनापनीताशुचिभावो देवर्षिपितृतर्पणं कुर्यात् । यदि पुनः शुचिः न421 तदावश्यं स्नायात् । शुचिग्रहणेन शुद्धिहेतुतयात्र स्नानस्योपदिष्टत्वान् न स्नातकव्रतवत् तदनुष्ठेयम् । अत एव स्मृत्यन्तरे च स्नानं प्रतिषिद्धम् । स प्रतिषेधो मृदा स्नानस्य प्रसाधनलक्षणस्य । गौतमेन तु स्नानम् एवं विहितम्- “दण्द इवाप्सु परिप्लवते” (च्ड़्। आप्ध् १.२.३०) । मलापकर्षणं करनिघर्षणादिना न422 कर्तव्यम् । असत्य् अमेध्यादिसंसर्गे, न यत् स्वेदजं वस्त्ररेणुसंयोगादिसहजं मलं तद् अशुचित्वम् आपादयति । तद् धि नियतरूपम् एव । तथा च ब्राह्मणं “किं नु मलं किम् अजिनं किम् उ श्मश्रूणि किं तपः” (ऐत्ब् ७.१३) इति धर्मसाधनताम् एवंविधस्य मलधारणस्य दर्शयति ।
- कथं पुनः स्नानस्य शौचार्थता प्रतीयते । न पुनः स्नातः शुचिश् चोभयविशिष्टो देवकार्ये विनियुज्यते । स्नातस्याशुचित्वाभावात्, कृतशौचाचमनादेः स्नानविधानात्, “स्नात्वा चाचान्तः पुनर् आचामेत्” (वध् ३.३८) इति च स्नातस्यापि शुचिर् इत्य् एतावता यादृशी सुद्धिस् तस्यां विज्ञायमानायां स्नानम् अपि सति निमित्ते प्राप्तं पुनर् उच्यते । स्मृत्यन्तरं चेदम् असत्य्423 अशुचित्वे निमित्ते प्रतिषेधार्थम् । तथा च “वेदम् अधीत्य स्नायात्” (बौग् २.५.६) इति समाप्ते स्वाध्यायविधौ प्रतिप्रसविष्यति ।
-
कुर्याद् देवर्षिपितृतर्पणम् । उदकदानं देवादिभ्यो गृहस्थधर्मेषु यद् उक्तं तादृशम् एव प्रतीयते, तर्पणशब्दसाहचर्यात् । “यद् एव तर्पयत्य् अद्भिः” (म्ध् ३.२८३) इति, तथा “देवतास् तर्पयति” (आश्ग् ३.४.१) इति गृह्यकारैर् उदकसाधनो ऽयं विधिर् उक्तः । उदकतर्पणम् इति चैतत् संविज्ञायते । ते देवा गृह्यकारैः पठिता अग्निप्रजापतिब्रह्मेत्यादयः । तेषां च तर्पणं न सौहित्योत्पादनम्, किं तर्हि तदुद्देशेनोदकाञ्जलिप्रक्षेपः । अतो ऽयम् उदकद्रव्यको याग एवोक्तो भवति । न ह्य् अन्यथा देवतात्वं भवति । यागसंप्रदानं हि सेति स्मर्यते, न तृप्तेः कर्त्री ।
-
एतावद् धि देवतालक्षणम्- सूक्तभाजो हविर्भाजश् च देवताः । तत्र सूक्तं स्तुत्यतया भजन्ते, हविः संप्रदानतया । तर्प्यत्वेन चोदकदानसंप्रदानताम् एव गुणवृत्त्या वक्ति । गुर्वादिसंप्रदानं गवादिना तदुद्दिश्यमानस्वाम्येन424 प्रतीयते । देवतापि संप्रदानभूतः425 । संप्रदानत्वसाम्यात् तृप्यन्तीत्य् उच्यते । यदि देवतातृप्त्यर्थम् एतत् स्यात् तदा संस्कारकर्मोदकतर्पणं स्यात् । न च देवतानां संस्कार्यत्वोपपत्तिः । न हि ताः क्वचिद् उपयुक्ता उपयोक्ष्यन्ते वा । न चाकृताकरिष्यमाणकार्यस्य426 संस्कारतोपपत्तिः ।
- ऋषयो ये यस्यार्षेयाः । यथा पराशराणां वसिष्ठशक्तिपारशर्या इति427 । गृह्यकारैस् तु मन्त्रदृश ऋषयस् तर्पणीयत्वेनोक्ताः, मधुच्छन्दो गृत्समदो विश्वामित्र इति । अविशेषाभिधानाद् ऋषिशब्दस्योभये ऽपि प्राप्ताः । विशेषस्मृतित्वात् गृह्यस्मृतेस् त एव ग्रहीतुं न्याय्याः ।
-
पितरः पूर्वप्रेताः पितृपितामहाः सपिण्डाः समानोदकाश् च । पितॄणां तर्पणं तर्पणम् एव । एतच् च श्राद्धविधौ प्रत्यक्षेण वक्ष्यते ।
-
देवताभ्यर्चनम् । अत्र केचिच् चिरन्तना विचारयांचक्रुः- का एता देवता नाम यासाम् इदम् अभ्यर्चनम् उच्यते । यदि तावच् चित्रपुस्तकन्यस्तः चतुर्भुजो वज्रहस्त इत्याद्याः, प्रतिकृतय इति लौकिका व्यवहरन्ति । अतो गौणस् तत्र देवताव्यवहारः । अथ याः सूक्तहविःसंबन्धिन्यो वैदिकीभ्यश् चोदनाभ्यो मन्त्रवाक्येभ्यश् चावगम्यन्ते, शब्दार्थसंबन्धविदश् च स्मरन्ति “अग्निः अग्नीषोमौ मित्रावरुणौ इन्द्रो विष्णुः” इति । यद्य् एवं तत्क्रियासंबन्धितयैव तेषां देवतात्वं नार्थसंबन्धितया । तत्रापि यस्यैव हविषो या देवता तेन चोदिता तस्यैव सा भवति । तथा हि आग्नेयो ऽष्टाकपाल इत्य् आग्नेये पुरोडाशे देवता,428 न सौर्ये चरौ । अयं च तेषां निर्णयः- मुख्यासंभवाद् गौणस्यैव ग्रहणं न्याय्यम्, समाचाराच् च । अतः प्रतिमानाम् एवैतत् पूजाविधानम् । यच् चात्र तत्त्वं तद् “व्रतवद् देवदैवत्ये” इत्य् अत्र वक्ष्यामः (च्ड़्। म्ध् २.१८९) ।
- समिदाधानं सायम्प्रातर् अग्नौ दारुशकलप्रक्षेपणम् ॥ २.१७६ ॥
वर्जयेन् मधु मांसं च गन्धं माल्यं रसान् स्त्रियः ।
शुक्तानि यानि सर्वाणि प्राणिनां चैव हिंसनम् ॥ २.१७७ ॥
मेधातिथिः ...{Loading}...
मधु सारघम् । माध्वीकस्य तु मद्यत्वात् प्राग् अप्य् उपनयनात् प्रतिषेधो “नित्यं मद्यं ब्राह्मणो वर्जयेत्” (च्ड़्। ग्ध् २.२०) इति । मांसं प्रोक्षिताद्य् अपि । गन्धशब्देन सुरभित्वातिशययुक्तानि कर्पूरागुरुप्रभृतीनि द्रव्याणि संबन्धिलक्षणया प्रतिषिध्यन्ते । तेषाम् अनुलेपनाद्युपभोगप्रतिषेधः । गन्धस् तु स्वदेशान् निर्गत आगच्छतीत्य् अशक्यो निषेद्धुम् । तत्राप्य् आकस्मिकस्याप्य् अप्रतिषेधात्, भोगेच्छया त्व् अगुरुधूपादौ दोष एव । अत उपाध्यायेन चन्दनवृक्षादिच्छेदने नियुक्तस्य तद्गन्धस्याघ्राणे वस्तुस्वभावत उत्पद्यमाने न दोषः । माल्यसाहचर्याच् चेदृशो गन्धः प्रतीयते । यस् तु नेदृशो हृदयोन्मादकरः कुष्ठघृतपूतिदार्वादिगन्धस् तस्याप्रतिषेधः429 । माल्यं कुसुमं ग्रथितम् । रसाः मधुराम्लादयः ।
- ननु च नीरसस्य भोज्यत्वासंबवात् प्राणवृत्तिर् एव न स्यात् । सत्यम् । उद्रिक्तरसाः केवला गुडादयो निषिध्यन्ते । संस्कारकरणे द्रव्यान्तर्गतानाम् अपि प्रतिषेधः । अथ वात्यन्तरसिनः संस्कृतस्यान्नस्य सक्तिप्रतिषेधो430 ऽयम् । यथोक्तम्-
-
यो ऽहेर् इव धनाद् भीतो मिष्टान्नाच् च विषाद् इव ।
-
राक्षसीभ्य इव स्त्रीभ्यः स विद्याम् अधिगच्छति ॥ इति । (म्स्सं ४१२१)
-
अन्ये तु शृङ्गारादीन् मन्यन्ते । नाटकादिप्रेक्षणेन काव्यश्रवणेन वा रसपुष्टिर् न कर्तव्या431 । अन्येषां तु दर्शनम्, इक्ष्वामलकादीनां यो ऽन्तर्द्रवरूपोदकवत् स रसस् तस्य निष्पीडितस्य पृथक् कृतस्य432 प्रतिषेधो न पुनस् तदन्तर्गतस्य । तच् चैतद् अयुक्तम् । न हि रसशब्दो द्रवपर्यायः प्रसिद्धः । यत्र च यस्योचितम् उपभोगान्तत्वं तद् एव तस्य निषिध्यते । तेन मधुमांस्योर् भोजने प्रतिषेधः, न दर्शनस्पर्शनयोः । गन्धमाल्यस्यापि सरीरमण्डनाभिमानतयोपादानं निषिध्यते, न तु कथंचिद् धस्तादिना ग्रहणम् । एवं स्त्रियो मैथुनसंबन्धेन । तदाशङ्कयैव च प्रेकणालम्भौ निषेत्स्यति । तथा च गौतमः- “स्त्रीप्रेक्षणालम्भने मैथुनशङ्कायाम्” इति (ग्ध् २.१६) ।
- शुक्तानि प्राप्ताम्लरसानि433 केवलात् परिवासाद् द्रव्यान्तरसंसर्गाद् वाम्लताम् आपन्नानि । तेषां च द्विजातिधर्मत्वाद् एव सिद्धः प्रतिषेधः । पुनर्ग्रहणं गौणशुक्तपरिग्रहणार्थम् । तेन रूक्षपरुषा वाचो निषिद्धा भवन्ति । यद् उक्तं गौतमेन “शुक्ता वाचः"इति (ग्ध् २.१९), तद् इदं सर्वग्रहणं चास्यैवार्थस्याविष्करणार्थम् । रसशुक्तान्य् अनूद्य सर्वाणीति विधीयते । ततो गौणपरिग्रहः सिद्धो भवति ।
- ये त्व् एवं व्याचक्षते शुक्तशब्देन रसप्रतिषेधः सर्वशब्देनामानसानि434 वचांसि, त इदं प्रष्टव्याः । अर्थप्रतिषिद्धानां प्रतिषेधार्थं सर्वग्रहणं कस्मान् न भवति । तथा सति च दध्यादेः शुक्तीभूतस्य प्रतिषेधः प्राप्नोति । यदि तु प्राप्तिम् आश्रित्य पुनः प्रतिषेध उक्तार्थो व्याख्यायते, तथा सति न कश्चिद् दोषः ।
- प्राणिनां मशकमक्षिकादीनां बाल्याद् धिंसने प्राप्ते यत्नतः परिहारार्थं पुनः प्रतिषेधः । स्वाध्यायविध्यङ्गत्वार्थो वा । न केवलं हिंसायां पुरुषार्थप्रतिषेधातिक्रमो435 यावत् स्वाध्यायविध्यर्थातिक्रमो ऽपि । शुक्तादिष्व् अप्य् एवं कस्मान् न कल्प्यत इति चेद् अस्ति तत्र विषयान्तरे सावकाशत्वम्, एकरूपस्य विषयस्य व्यर्थत्वं सति गत्यन्तरे गरीयः ॥ २.१७७ ॥
अभ्यङ्गम् अञ्जनं चाक्ष्णोर् उपानच्छत्रधारणम् ।
कामं क्रोधं च लोभं च नर्तनं गीतवादनम् ॥ २.१७८ ॥
मेधातिथिः ...{Loading}...
घृततैलादिना स्नेहेन शिरःशरीरम्रक्षणम् अभ्यङ्गः । अञ्जनं चाक्ष्णोः । अक्षिग्रहणं वृत्तपूरणार्थम् । अनयोश् चापि देहमण्डनार्थतया प्रतिषेधो नौषधार्थतया, गन्धमाल्यादिसाहचर्यात् । उपानहौ चर्मपादुके, न केवले । छत्रधारणं च स्वहस्तेन परहस्तेन वोभयस्यापि निषेधः । कामो रागः436 । मन्मथस्य स्त्रीप्रतिषेधाद् एव सिद्धः । क्रोधो रोषः । लोभो मोहः । अहंकारममकारौ चित्तधर्माव् एते । नर्तनं प्राकृतपुरुषाणां हर्षाय गात्रविक्षेपो भरतादिदृष्टाभिनयप्रयोगश् च । गीतं षड्जादिस्वरप्रदर्शनम् । वादनं437 वीणावंशादिभिः स्वरवच्छब्दकरणं पणवमृदङ्गाद्यभिघातश् च तालानुवृत्त्या ॥ २.१७८ ॥
द्यूतं च जनवादं च परिवादं तथानृतम् ।
स्त्रीणां च प्रेक्षणालम्भाव्438** उपघातं परस्य च ॥ २.१७९॥**
मेधातिथिः ...{Loading}...
द्यूतम् अक्षक्रीडा । समाह्वयः कुक्कुटादिभिः प्रतिषिद्धः, द्यूतशब्दस्य सामान्यशब्दत्वात् । जनैर् वादः अकारणेन लौकिकेष्व् अर्थेषु वाक्कलहः, देशवार्ताद्यन्वेषणं प्रश्नो वा । परिवादः असूयया परदोषकथनम् । अनृतम् अन्यथा दृष्टम् अन्यथा च श्रुतं यद् अन्यथोच्यते । “सर्वत्र वर्जयेत्” इत्य् अनुषङ्गाद् द्वितीया । स्त्रीणां च प्रेक्षणालम्भौ । अवयवसंस्थाननिरूपणं प्रेक्षणम् इदम् अस्याः शोभते ऽङ्गम् इदं नेति । आलम्भः आलिङ्गनम् । मैथुनशङ्कायां चैतौ प्रतिषिध्येते बालस्य यथातथम् । परस्योपघातो ऽपकारः कस्यांचिद् अर्थसिद्धौ प्रबन्धः । कन्यालाभादौ पृच्छ्यमानेन अयोग्यस्याप्य् अयोग्यत्वं439 न वक्तव्यम्, तूष्णीम् आसितव्यम्, अनृतप्रतिषेधात् ॥ २.१७९ ॥
एकः शयीत सर्वत्र न रेतः स्कन्दयेत् क्वचित् ।
कामाद् धि स्कन्दयन् रेतो हिनस्ति व्रतम् आत्मनः ॥ २.१८० ॥
मेधातिथिः ...{Loading}...
एकः शयीत सर्वत्र न रेतः स्कन्दयेत् क्वचित्, अयोनाव् अपि, योनौ440 स्त्रीप्रतिषेधाद् एव सिद्धत्वात् । अत्रार्थवादः कामाद् धि स्कन्दयन् । इच्छात्र कामः । हस्तव्यापारादिनायोनौ मैथुनेन च रेतः शुक्रं स्कन्दयन् क्षरयन् हिनस्ति नाशयति ब्रह्मचर्य**व्रतम् आत्मनः **॥ २.१८० ॥
स्वप्ने सिक्त्वा ब्रह्मचारी द्विजः शुक्रम् अकामतः ।
स्नात्वार्कम् अर्चयित्वा त्रिः पुनर् माम् इत्य् ऋचं जपेत् ॥ २.१८१ ॥
मेधातिथिः ...{Loading}...
कामाद् व्रतलोपेनावकीर्णिप्रायश्चित्तम्,441 अकामात् त्व् इदम् आह । स्वप्नग्रहणम् अविवक्षितम्, अकामत इत्य् एतद् एव निमित्तम् । न हि स्वप्ने कामसंभवः । अतो यद्य् असुप्तस्यापि कथंचिद् अनिच्छया स्वमलासृगवयववत् प्रक्षरति शुक्रं तत्राप्य् एतद् एव प्रायश्चित्तम् । अकामतो रेतः सिक्त्वेदं प्रायश्चित्तं कुर्यात्, पुनर् माम् इत्य्442** **एतद्443 ऋचं जपेत् ॥ २.१८१ ॥
उदकुम्भं सुमनसो गोशकृन्मृत्तिकाकुशान् ।
आहरेद् यावद् अर्थानि भैक्षं चाहर् अहश् चरेत् ॥ २.१८२ ॥
मेधातिथिः ...{Loading}...
यावद्भिर् अर्थः प्रयोजनम् उपाध्यायस्य सिध्यति तावद् उदकुम्भादि आहरेत् । प्रदर्शनार्थं चैतत् । अन्यद् अपि गृहोपयोगि यद् अगर्हितं कर्म तत् कुर्यात् । गर्हितं गुरुव्यतिरेकेणोच्छिष्टापमार्जनादि न कारयितव्य इत्य् एवमर्थो ऽयं श्लोकः । यतः सामान्येन शुश्रूषा गुरौ विहिता । यावान् अर्थ एषाम् इति विग्रहः ।
- भैक्षं चाहर् अहश् चरेत् । सिद्धम् अन्नम् अत्यन्ताल्पं यात्राविषयं भैक्षम् अत्रोच्यते । “नैकान्नादी” इति444 (म्ध् २.१८८) प्रतिषेधे ऽन्नशब्दोपादानाद् अन्नं प्रतीयते । “समाहृत्य भैक्षं निवेद्याश्नीयात्” (च्ड़्। म्ध् २.५१) इति सामानाधिकरण्यात् सिद्धान्नप्रतिपत्तिः । शुष्के ह्य् अन्ने भिक्षिते कुतस् तस्याशनम् । समाहृत्य गुरुगृहे पच्यमानस्य भैक्षप्रकृतिता स्यान् न भैक्षता । प्रसिद्ध्या चेदृशम् एव भैक्षम् उच्यते । अहर् अहः । ननु “बैक्षेण वर्तयेन् नित्यम्” (म्ध् २.१८८) इत्य् एतस्माद् एव सुद्धम् अहर् अहश् चरणं सिध्यति । वृत्तिविधानार्थं नित्यग्रहणम् । पर्युषितेनापि घृतादिस्नेहसंयुक्तेन स्याद् वृत्तिस् तदर्थम् इदम्- अहर् अहर् भिक्षित्वाशितव्यम् । न पुनर् एकस्मिन्न् अहनि भिक्षितम् अपरेद्युः परिवास्य यत् किंचित् स्नेहयुक्तम् इति प्रतिप्रसवेन भुञ्जीत ॥ २.१८२ ॥
येभ्यो भैक्षम् आसादयितव्यं तान् वक्ति ।
वेदयज्ञैर् अहीनानां प्रशस्तानां स्वकर्मसु ।
ब्रह्मचार्य् आहरेद् भैक्षं गृहेभ्यः प्रयतो ऽन्वहम् ॥ २.१८३ ॥
मेधातिथिः ...{Loading}...
वेदज्ञैश् च य अहीना वेदाध्ययनेन संयुक्ताः यज्ञानां च सत्य् अधिकारे कर्तार अहीना अवर्जिता तदुपेता इति यावत् । स्वकर्मसु च प्रशस्ताः । येषां यज्ञ्ē ऽधिकारो नास्त्य् अन्यस्मिन् शस्ते कर्मणि तत्पराः । अथ वा स्वकर्मप्रशस्तास् ते उच्यन्ते ये स्ववृत्ताव् एव संतुष्टा न वार्द्धुषिकादिवृत्त्युपजीविनः । तेषां गृहेभ्यो भैक्षम् आहरेद् याचित्वा गृह्णीयात् प्रयतः शुचिः । अन्वहम् इत्य् अनुवादः ॥ २.१८३ ॥
गुरोः कुले न भिक्षेत न ज्ञातिकुलबन्धुषु ।
अलाभे त्व् अन्यगेहानां पूर्वं पूर्वं विवर्जयेत् ॥ २.१८४ ॥
मेधातिथिः ...{Loading}...
सत्य् अप्य् एतद्गुणयोगे गुरुगृहे न भिक्षेत । पूर्वं कुलं वंशस् ततो गुरोर् ये पितृव्यादयस् तेभ्यो ऽपि न ग्रहीतव्यम् । ज्ञातयो ब्रह्मचारिणः पितृपक्षाः, तेषां कुले । बन्धुषु च मातृपक्षेषु मातुलादिषु । नैवम् अभिसंबन्धः कर्तव्यो गुरुज्ञात्यादिष्व् इति, यतो445 गुरोः कुल इति कुलशब्देनैव तेषां संगृहीतत्वात् । कुतस् तर्हि भिक्षेत । एतद्व्यतिरेकेणान्यगेहेभ्यः । अलाभे ऽसंभवे ऽन्यगेहानां सर्व एव यदि ग्रामो गुरुज्ञातिबन्धुभिर् व्याप्तो भवत्य् अन्ये नैव सन्त्य्446, सन्तो447 वान्नं न ददति । एतेष्व् अपि गृहेषु भिक्षितव्यम् । अन्याभावे प्रथमं बन्धुं भिक्षेत, तदभावे ज्ञातिं, तदभावे गुरुकुलम् ॥ २.१८४ ॥
सर्वं वापि चरेद् ग्रामं पूर्वोक्तानाम् असंभवे ।
नियम्य प्रयतो वाचम् अभिशस्तांस् तु वर्जयेत् ॥ २.१८५ ॥
मेधातिथिः ...{Loading}...
पूर्वोक्तानां वेदयज्ञैर् अहीनानां असंभवे सर्वं ग्रामम् अनपेक्षवर्णविभागं विचरेत् भ्राम्येज् जीवनर्थम् । केवलम् अभिशस्तान् कृतपातकत्वेन प्रसिद्धान् अदृष्टपातकान् अपि वर्जयित्वा । तथा च गौतमः- “सार्ववर्णिकं भैक्ष्यचरणम् अभिशस्तपतितवर्जम्” (ग्ध् २.३५) । नियम्य वाचं भिक्षावाक्यं वर्जयित्वा आ भैक्षलाभाद् अन्यां वाचं नोच्चरेत् ॥ २.१८५ ॥
दूराद् आहृत्य समिधः संनिदध्याद् विहायसि ।
सायंप्रातश् च जुहुयात् ताभिर् अग्निम् अतन्द्रितः ॥ २.१८६ ॥
मेधातिथिः ...{Loading}...
दूरग्रहणम् अपरिगृहीतदेशोपलक्षणार्थम् । ग्रामात् किल दूरम् अरण्यम्, न च तत्र कस्यचित् परिग्रहः । अनुपलक्षणे हि दूरार्थे कियद् दूरम् इत्य् अनवस्थितः शास्त्रार्थः स्यात् । आहृत्य आनीय । संनिदध्यात् स्थापयेत् । विहायसि गृहस्योपरि । न हि निरालम्बने ऽन्तरिक्षे निधानं संभवति । ताभिः सायंप्रातर् जुहुयात् । आहरणं तु तात्कालिकम् अन्यदा वेच्छया । विहायसि448 निधानम् अदृष्टार्थम् इत्य् आहुः । अन्ये तु ब्रुवते संप्रत्यानीय्मानं वृक्षाद् दारु आर्द्रं भवतीति, गृहस्योपरि अन्यस्य वा प्रकारादेस् तत एवावगन्तव्यम् ॥ २.१८६ ॥
अकृत्वा भैक्षचरणम् असमिध्य च पावकम् ।
अनातुरः सप्तरात्रम् अवकीर्णिव्रतं चरेत् ॥ २.१८७ ॥
मेधातिथिः ...{Loading}...
अग्नीन्धनभैक्षचरणे नैरन्तर्येण सप्तरात्रं सप्ताहम् अकृत्वा449 । अनातुरः अव्याधितस्य सन्450 अवकीर्णिव्रतं नाम प्रायश्चित्तम् एकादशे (म्ध् ११.११७) वक्ष्यमाणस्वरूपं चरेत् कुर्यात् । दोषगुरुत्वख्यापनार्थम्, न451 त्व् एतद् अत्र प्रायश्चित्तम् एव । स्मृत्यन्तरे ह्य् अत्रालपम् अन्यत् प्रायश्चित्तम् उक्तम्- “आज्यहोमः सवितुर् वा रेतस्यास्याम्” इति (च्ड़्। ग्ध् २३.२०) । इहापि च लिङ्गं यदि प्रायश्चित्तम् इदम् अभविष्यत् तदा स्त्रीगमनम् इवावकीर्णिप्रायश्चित्तप्रकरणे निमित्तत्वेनापठिष्यत् ।
- ये तु व्याचक्षते सप्तरात्रम् एतद् उभयम् अवश्यकर्तव्यम् । अकरणात् तत्र दोषः । कृतसप्तरात्रस्य तु परतो ऽक्रियायां न दोषः । तानि च सप्ताहानि प्राथम्याद् उपनयनात् प्रभृति गृह्यन्ते । तद् एतद् अयुक्तम् “आ समावर्तनात् कुर्यात्” (म्ध् २.१०८) इति विरोधात् । उपरितनानन्तरश्लोकविरोधाच् च ॥ २.१८७ ॥
बैक्षेण वर्त्तयेन्[^४६४]** नित्यं नैकान्नादी भवेद् व्रती ।**
भैक्षेण व्रतिनो वृत्तिर् उपवाससमा स्मृता ॥ २.१८८ ॥
मेधातिथिः ...{Loading}...
ननु च "भैक्षम् अहर् अहश् चरेत्" (म्ध् २.१८२) इति श्रुतम् एवैतत् । एवं हि भैक्षचर्या दृष्टार्था भवति । उक्तं च "निवेद्य गुरवे ऽश्नीयात्" (म्ध् २.५१) इति । न च तदशनं भैक्षसंस्कारः येन वृत्त्यर्थः स्यात् ।
-
केचिद् आहुः- अनूद्यते नैकान्नादी भवेद् व्रतीति वक्तुम् ।
-
एतद् अप्य् असत्, भैक्षशब्देनैवैकान्नादनस्य निषेधात् । भिक्षाणां समूहो भैक्षम् उच्यते । ततः कुत एकान्नादनप्राप्तिः । तस्य पित्र्येभ्यो ऽनुज्ञानार्थं452 सर्वम् एतद् अनूद्यते । बैक्षेण वर्तयेद् अत्मानं भैक्षभोजनेन पालयेत् । जीवितस्थितिं453 कुर्यान् नैकस्य संबन्धि अन्नम् अद्यान् नैकभिक्षान्नं भुञ्जीत ।
-
न पुनर् इयम् आशङ्का कर्तव्या “नैकस्वामिकं भुञ्जीत, अपि तु बहुस्वामिकम् अविभक्तभ्रातृसंबन्धि” । एकस्यान्नम् एकं वान्नम् एकान्नम्, तद् अत्ति भुङ्के एकान्नादी । व्रती ब्रह्मचारी । प्रकर्णाद् एव लब्धः, श्लोकपूरणार्थो व्रतिशब्दः ।
-
अत्रार्थवादः454 । भैक्षेणैव केवलेन व्रतिनो या वृत्तिः शरीरधारणम् उपवासतुल्यफला सा वृत्तिः स्मर्यते ॥ २.१८८ ॥
व्रतवद् देवदैवत्ये पित्र्ये कर्मण्य् अथर्षिवत् ।
कामम् अभ्यर्थितो ऽश्नीयाद् व्रतम् अस्य न लुप्यते ॥ २.१८९ ॥
मेधातिथिः ...{Loading}...
अयम् अपवादो निमित्तविशेषे भैक्षवृत्त्युपदेशस्य । देवदैवत्ये देवोद्देशेन ब्राह्मणभोजने क्रियमाणे, पित्र्ये च पितॄन् उद्दिश्याभ्यर्थितो ऽध्येषितः, कामम् एकान्नम् अश्नीयात् । न तु स्वयं याचेत । तच् च455 व्रतवद् व्रताविरुद्धं456 मधुमांसवर्जितम् इत्य् अर्थः । व्रतवद् ऋषिवद् इति च शब्दद्वयेनैक एवार्थ उच्यते, न पुनर् ग्रामारण्ययोः कर्मभेदेन व्यवस्था । वृत्तानुरोधात् तु द्विरभिधानम् । ऋषिर् वैखानसस् तदशनाभ्यनुज्ञाने मांसम् अपि ब्रह्मचारिणो ऽनुज्ञातं स्यात् । तस्य हि “वैष्कम् अप्य् उपभुञ्जीत” (ग्ध् ३.३१) इति मांसाशनम् अप्य् अस्ति । देवा देवता यस्य तद् देवदैवत्यम् । तच् चाग्निहोत्रदर्शपूर्णमासादिषु दैवेषु कर्मसु ब्राह्मणभोजनम् आम्नातम्, आग्रहायण्यादिषु चाम्नातम्457 “ब्राह्मणान् भोजयित्वा स्वस्त्ययनं वाचयेत्” इति । तत्रेयम् अनुज्ञा ।
- अन्ये तु सप्तम्यादाव् आदित्यादिदेवोद्देशेन यत् क्रियते ब्राह्मणभोजनं तद् देवदैवत्यं मन्यन्ते । तद् असत् । न हि भुजेर् देवतासंबन्धो ऽस्ति, अयागसाधनत्वात् तस्य । न तूद्देश्यमात्रं458 देवता, “उपाध्यायाय गां ददाति,” “गृहं संमार्ष्टि” इत्य् उपाध्याये गृहे ऽपि प्रसङ्गात् । भुजेर् हि प्रत्यक्षो भोक्त्रा संबन्धः । आदित्यस् तु न कारकम्, न चोद्देश्यो गृहवत्, न तदर्थं भोजनम् । द्वितीया हि भोक्त्रर्थतां ज्ञापयति, नादित्यार्थताम् । न चैतत् क्वचिन् नोदितम् “आदित्याद्युद्देशेन ब्राह्मणान् भोजयेत्” इति ।
-
समाचाराद् विधिः कल्प्यत इति चेन्, न, तस्योपलभ्यमानमूलत्वात् । अस्ति हि मूलम्, बाह्याः स्मृतयः । तत्र तर्हि ब्राह्मणभोजनेन देवताः प्रीणयेद् इति शास्त्रार्थः । न चायम् अर्थः शक्यः कल्पयितुम् । न हि देवताप्रीतिप्रधानः शास्त्रार्थः, किं तर्हि विध्यर्थप्रधानः । न चास्मिन् विध्यर्थ आदित्यादीनां देवताभिमतानां विषयद्वारकः संबन्धः, नाप्य् अधिकारद्वारकः । न हि भेदनादिवन् निमित्तम्, नापि पश्वादिवत् स्वसंबन्धितया काम्यते, अभोग्यरूपत्वात् । अथ तद्गता तुष्टिः काम्यते । साप्य् आत्मसिद्धौ प्रमाणान्तरम् अपेक्षते । न च तद् अस्ति । न ह्य् आदित्यादितुष्टिः प्रत्यक्षादिसिद्धा पश्वादिवद् येन काम्येन परेष्टिविधिना युज्येत ।
-
अथ तु मत्प्रभुर् इत् स्वाभिप्रेतेन फलेन् यजयिष्यन्तीति । एतद् अपि प्रमाणाभावाद् उपेक्षणीयम् । न चास्मिन्न् अर्थे विधिः प्रमाणम् । स हि ज्ञातस्यानुष्ठातृविशेषणस्य स्वसंबन्धितया पुरुषं नियुङ्क्ते, न पुनः काम्यमानस्य सद्भावम् अवगमयति । प्रमाणान्तरावगतं हि काम्यम् अनुष्ठातृविशेषणम्, अनुष्ठानसाध्यम्459 अनुष्ठातृसंबन्धीति विधिः प्रमाणम् इति मिमीते ।
- अथायं यागस् तस्य च भोजनं प्रतिपत्तिः । भवतु, यदि शिष्टसमाचारः । भोजनं तावन् न देवतासंबन्धि साक्षाद् इति न साध्यम् । यागव्यवहितस् तु संबन्धो न निवार्यते । न चात्र यागबुद्ध्या प्रवर्तते, किं तर्हि ब्राह्मणेषु भोजितेषु देवता तुष्यतीति । अतो न देवता भोजनकारकं न कारकविशेषणम् । ततो न विषयत्वेन460 संबन्धः । उद्देश्यत्वम् अप्य् आदित्यादीनां नास्ति । भोजने हि स उद्दिश्यते यस्मै भोजनं दीयते । तच् च ब्राह्मणेभ्यः । न चोद्देश्यमात्रं देवता “उपाध्यायाय गां ददाति,” “गृहं संमार्ष्टि” इति गृहोपाध्याययोर् अपि प्रसङ्गात् ।
-
ननु च पित्र्ये कथं ब्राह्मणभोजनम् । तत्रापि हि न पितरौ देवताः स्युः । न च होमस्य पित्र्यत्वम्, देवतान्तरश्रवणात् । आदित्यादिप्रीतेर् इव पितृप्रीतेः प्रमाणान्तरासिद्धत्वान् न विधेः संबन्धः साध्यतया ।
-
अत्र वदन्ति । सिद्धा ह्य् अत्र पितृप्रीतिः । आत्मनाम् अविनाशित्वात् पितरः सिद्धास् तेषां च शरीरसंबन्धः क्रियते कर्मभ्यः461 । तद्भोजनं ह्य् अत्र प्रधानम् । तस्य हि फलं श्रुतम् “भोजयन् पुष्कलं फलम् आप्नोति” (च्ड़्। म्ध् ३.११९ [१२९]) । तच् च फलं पितॄणां तस्य तृप्तिः स्याद् इति । तृप्तिश् च प्रीतिमात्रं न मनुष्याणाम् इव भुजिक्रियाफलं सौहित्यलक्षणम् उत्पद्यते । काचित् पितॄणां प्रीतिः स्वकर्मवशतो यत्र तर जाताव् उत्पन्नानाम् । प्रीतिमात्रवचनो ऽयं धातुः सौहित्यं तु विशेषः । स प्रमाणान्तरावसेयः ।
- न चात्रैतच् चोदनीयम्- पुत्रः कर्ता, पितृषु462 कथं कर्तृगामिफलम् । न हीमानि कर्माणि वैदिकानि परस्य फलदानीति463 न्ययविदो वदन्ति ।
- यतः पितर एवात्राधिकारिणः कर्तारश् च । अपत्योत्पादनेनैव सर्वम् एतत् पितृभिः कृतम् । एवम् अर्थम् एवासाव् उत्पादितः “दृष्टादृष्टम् उपकारं करिष्यति” इति । ततश् च यथा सर्वस्वारे ऽभावाद् औत्तरकालिकेष्व् अङ्गेषु “ब्राह्मणाः संस्थापयत मे यज्ञम्” इति प्रैष्यं मृतस्य कर्तृत्वम् । एवम् अत्रापि द्रष्टव्यम् । एतावान् विशेषः । तत्राधिकारान्तरप्रयुक्ता464 जीविकार्थिनो भृतिपरिक्रीता ऋत्विजः कर्तारः । इह तु तद्विधिप्रयुक्त एव पुत्रः । यथैवोत्पत्तिविधिप्रयुक्तस्य पुत्रार्थेषु पितुः संस्कारेषु अधिकारो ऽनुशासनपर्यन्तत्वात्465 तस्य विधेः, एवं पित्रर्थे श्राद्धादौ पुत्रस्य । तथैव जीविनः पितुः “वृद्धौ तु मातापितरौ” (म्ध् १११.५ अद्देद् वेर्से) इत्य् अवश्यं कर्तव्यम् । एवं दिष्टं गतं तस्यापि ।
- न चायं वैश्वानरवत् काम्यो ऽधिकारः । “वैश्वानरं द्वादशकपालं निर्वपेत् पुत्रे जाते । यस्मिन्466 जात एताम् इष्टिं निर्वपति । पूत एव स तेजस्व्य् अन्नाद इन्द्रियवान् ह467 भवति” (त्स् २.२.५.३) इति । एवमादिपुत्रफलार्थिनो ऽधिकारः पितुर् वैश्वानरे न चूडादिष्व् इवावश्यकः । इह तु “पित्र्यम् आ निधनात् कार्यम्” (म्ध् ३.२६९ [२७९]) इति यावज्जीविकः468 ।
- न469 कर्तुर् वैदिकं फलम् इत्य् एतद् अन्यथा परिष्क्रियते470 । यथैव वैश्वानरविशिष्टपुत्रवत्तालक्षणं पितुर् एव फलं, नाकर्तृगामिता फलस्य, एवम् इहापि पुत्रस्यैव तत्फलं या पितुः प्रीतिः । उभयथा पितृकर्तृगामिता फलस्य न विरुध्यते । अपत्योत्पादनेनैवैतादृशस्य फलस्येष्टत्वात्, पितॄणाम् अपि नाकामितफलापत्तिः ।
- यदि न श्राद्धे471 पितरो देवताः, कथं तर्हि पित्र्यम् एतत् कर्मेति देवतातद्धितः ।
- उद्देश्यत्वसामान्याद्472 इति वदामः । “युष्मदुपकारार्थम् इदं ब्राह्मणभोजनम्” इति पितर उपदिश्यन्ते । पिण्डपितृयज्ञे तु पितरो देवता एव । न श्राद्धे पितॄणां देवतात्वं मन्यन्ते । यत् तु ब्राह्मणा भोज्यन्ते तद् यथाग्नौ होम आज्यपुरोडाशादीनां473 ह्य् अवदानस्य । तादृशम् एतत् । तथा च ब्राह्मणाः पितृत्वम् आपद्यन्ते । अतो ऽन्नपरिवेषणकाले पितर एवोद्देश्या “युष्मभ्यम् इदं न मम” इति । ब्राह्मणास् त्व् आहवनीयस्थानीयाः । एतावान् विशेषो यद् आहवनीये हविः प्रक्षिप्यते, ब्राह्मणानां तु संनिधाप्यते, ते तु स्वयम् उपाददत इति ।
न च “श्राद्धं यागो न तत्र[^४८७] देवतार्थः स्वाहाकारः,” स्विष्टकृदादिषु दर्शणात् । अतो यागो ऽपि सन् श्राद्धकर्म पित्र्यर्थं भविष्यति । पितॄणां देवतात्वं फलभावित्वं न विरोत्स्यते[^४८८] । तृतीये किंचिद् अनुक्तम् एव तत्संबद्धं वक्ष्यामः ।
**तस्मान् नादित्यादयो ब्राह्मणभोजने देवता इति स्थितम् । **
- ननु चाव्यापकम् एतद् अपि लक्षणम्- यागे उद्देश्यः देवता” इत्य् अन्तरेणापि यागसंबन्धे देवताव्यवहारदर्शनात् । “देवतानां च पूजनम्,” “दैवतान्य् अभिगच्छेत्” इति न पूजा474 नाप्य् आभिमुख्येन गमनं पादविहारात्मकं देवताः प्रति संभवति ।
-
नैष दोषः । यत्र देवताचोदना तत्रैतत् पूजाविधानं भविष्यति, वैश्वदेवदेवतास्व् अग्निहोत्रादिसंबन्धिनीषु वा ।
-
ननु चैवम् अपि नोपपद्यते । न हि देवतायाः पूज्यत्वं संभवति, स्वरूपहानिप्रसङ्गात् । पूजाकर्मत्वे हि475 यागसंप्रदानता स्यात् । उक्तम् “न क्रियान्तरस्य किंचिद् भवति” इति । शक्तिर् हि कारकम्, सा च प्रतिक्रियं भिद्यते476 । कार्यावगम्यत्वाच् च तस्या यावत् कार्यं भेदो न्याय्यः । अतो यत् संप्रदानं तत् संप्रदानम् एव, न तस्य कर्मापत्तिः । कथं तर्हि “पाचकाय देहि” पचेः कर्ता ददातेः संप्रदानम् । “शरैः क्षताङ्गः प्रियया कटाक्षैर् निरीक्ष्यमाणो विवशो जगाम” । उक्तो ऽत्र परिहारः । शक्तिशक्तिमतोर् भेदस्यौपचारिकत्वात् सिद्धम् “व्रजति भुक्त्वा” इति । तस्माद् यदि पूजाविषयम् एतत्, न देवतालाभः, अथ देवता आदित्यादयः, न पूजाविधिः । न हि देवतायां सिद्धायाम् उद्दिश्य पूजा विधीयते । न ह्य् आदित्यादीनां देवतासामान्यशब्दः, गोशब्दवच् छागलेयादीनाम् ।
- अत्रोच्यते । सत्यं नादित्यादयः स्वरूपतो देवताः । संबन्धिशब्दो ऽयम् । विधित एव देवतार्थो477 ऽवगन्तव्यो “यस्य हविषश् चोद्यते सा तस्य देवता” इति । स एवाग्निर् आग्नेयाद् अन्यत्र न देवतेत्य् उक्तम् । किं तु न पूजाविधिः पूज्यमानम् अन्तरेण संभवति । देवताश् च पूज्यत्वेन श्रुताः । तत्र यदि देवतार्थे मुख्येन पूजा संभवति तदा याग एव पूजा विज्ञेया । तस्य चारुपत्वाद् असति द्रव्यदेवताश्रवणे पूर्वाह्णकालविध्यर्थो ऽयम् अनुवादो विज्ञेयः । अतः पूर्वाह्णे दैवतानि कर्तव्यानीत्य् उक्तं भवति ।
- किम् उच्यते देवता न श्रूयते । यावता न साक्षाद् देवताशब्दो ऽस्ति । नायं सामान्यवचनो देवताशब्दः478 । यासाम् अन्यत्र देवतात्वं दृष्टं तासाम् एतत् पूजाविधानम् । तेनाग्निर् आदित्यो रुद्र इन्द्रो विष्णुः सरस्वतीत्य् एवमादयः पूज्याः । पूजार्थं च धूपदीपमाल्योपहारादीनां निवेदनम् । तत्रग्नेस् तावत् साक्षात् संबन्धः । तच् च479 आदित्यस्य दूरदेशवर्तित्वाच् छुचौ देशे480 तदुद्देशेन गन्धादिप्रक्षेपः । इन्द्रादीनां स्वरूपस्याप्रत्यक्षत्वाद् इन्द्रादिशब्दोद्देशेनैव तथा विधानम् । यद्य् अपि पूज्यमानप्रधाना पूजा, तथापि हि पूज्यमानानां कार्यान्तरशेषभावे पूजैव कर्तव्यतया विज्ञायते । द्रव्यप्रधाने हि न विधिविषयत्वसंभवः । “तानि द्वैधं गुणप्रधानभूतानि” (प्म्स् २.१.६) इति, “यैस् तु द्रव्यं चिकीर्ष्यते” (प्म्स् २.१.७) इति ।
- न्याय्यं तु स्तुतिशास्त्रादिवत् । यथा न स्तुतिः स्तुत्यर्था एव्म् इयम् अपि पूजा न पूज्यार्था । स्तौतिसंसत्योर् निर्देशो नास्तीति चेत्, अत्रोक्तं द्वितीया, सक्तुषु दर्शनात् । एवं “मृदं गां दैवतं प्रदक्षिणानि कुर्वीत” इति दक्षिणाचारता विधीयते । दक्षिणेन दैवानि कर्माणि कर्तव्यानि । न हि मृदादिवद् देवताया481 दक्षिणेन मार्गेण स्थानम् अमूर्तत्वात् युज्यते ।
-
एवं “दैवतान्य् अभिगच्छेत्” इति । पादविहारव्यापारेण देवतासमीपप्राप्त्यसंभवाद् गमेश् च ज्ञानार्थत्वाद् अभिगमनं स्मरणात् किं विशिष्यते । देवता अभिगच्छेत्, कर्मकाले मनसा ध्यायेच् चित्तव्याक्षेपताम् आकुलताख्यां परिहरेद् इत्य् अर्थः । तथा चोपलभ्यमानमूलैवेयं स्मृतिर् भवति । यस्यै देवतायै हविर् गृहीतं स्यात् तां मनसा ध्यायेद् इति ।
-
ननु चैतद् अप्य् उद्देश्यत्वान्यथानुपपत्तेः प्राप्तम् एव । सव्याक्षेपस्याकुलस्य च संभवाद् अदोषः । एवं देवस्वं देवपशवो देवद्रव्यम् इत्यादयो व्यवहारास् तादर्थ्येनोपकल्पितेषु पश्वादिषु द्रष्टव्याः ।
-
दण्डाधिकारे तु प्रतिकृतिविषयम् एव देवताव्यवहारम् इच्छन्ति । अन्यथा व्यवस्थाभङ्गः स्यात् । कल्पितदेवतारूपाणां प्रतिकृतीनां कल्पितेनैव स्वस्वामिभावेन यत् संबन्धि तद् एव “देवब्राह्मणराज्ञां तु द्रव्यं विज्ञेयम् उत्तमम्” (न्स्म् १४.१५) इत्यादिषु देवद्रव्यम् । न हि देवतानां स्वस्वामिभावो ऽस्ति, मुख्यार्थासंभवाद् गौण एवार्थो ग्राह्यः ।
-
कः पुनर् अत्र गौणो ऽर्थः । सर्वत्र हि साधारणगुणयोगाद् गौणार्थावगतिः482 । अग्निर्483 माणवक इत्यादिषु शुक्ले484 माणवके तद्गुणदर्शनात् । ते च गुणाः प्रत्यक्षाद्यवसेयाः485 । इह तु देवतार्थस्य कार्यावगम्यत्वात् कार्यतः स्वरूपविशेषानवगमात् कुतः प्रतिकृतिषु साधारणगुणावसायः ।
ब्राह्मणस्यैव कर्मैतद् उपदिष्टं मनीषिभिः ।
राजन्यवैश्ययोस् त्व् एवं नैतत् कर्म विधीयते ॥ २.१९० ॥
मेधातिथिः ...{Loading}...
यद् एतद् एकान्नभोजनकर्मादिष्टम् एतद् ब्राह्मणस्यैव मनीषिभिर् विद्वद्भिर् वेदाद् उपलभ्य्ओपदिष्टं क्षत्रियवैश्ययोस् तु नैतद् इच्छन्ति । न कदाचित् तयोर् अभैक्ष्यभोजनम् ।
- ननु च श्राद्धभोजने ब्राह्मणानाम् एवाधिकारः । “ये तत्र भोजनीयाः स्युर् ये च वर्ज्या द्विजोत्तमाः । अर्हत्तमाय विप्राय” (म्ध् ३.१२४ [११४]) इति वचनाद् ब्राह्मणस्यैव प्रतिग्रहाधिकारः490 । तत्र कुतो ऽयं प्रतिषेधो राजन्यवैश्ययोर् इति । प्रतिप्रसवश् चायं नापूर्वविधिः । प्राप्तिसव्यपेक्षाश् च प्रतिषेधा भवन्ति ।
- उच्यते । भुक्तवतां ब्राह्मणानाम् एव शिष्टस्यान्नस्य प्रतिपत्तिर् आम्नाता- “ज्ञातिप्रायं प्रकल्पयेत्” (म्ध् ३.२६४ [२५४]) इति । न च तत्र जात्यपेक्षा, यस्य ज्ञातिः स तेन भोजयितव्यः । न च तत्र क्षत्रियादयः प्रतिग्रहीतृतया संबध्यन्ते, अपि तु ज्ञातयः । अतो ऽस्याः प्राप्तेः प्रतिषेधः ॥ २.१९० ॥
चोदितो गुरुणा नित्यम् अप्रचोदित एव वा ।
कुर्याद् अध्ययने योगम् आचार्यस्य हितेषु च ॥ २.१९१ ॥
मेधातिथिः ...{Loading}...
नोदितो491 गुरुणानियुक्तो ऽपि कुर्याद् अध्ययने योगं यत्नम् । ननु चाहूतो ऽधीयीत इत्य् उक्तम् । कथम् अप्रणोदितस्य योग उच्यते । गृहीतवेदैकदेशस्य परिशेषकगुणार्थम् एतद् उच्यते । न तत्राचार्यनियोगो ऽपेक्षितव्यः । एवम् आचार्याय हितं यद् उदकुम्भाहरणादि श्रान्तसंवाहनादि तद् अप्य् अनियुक्तेन कर्तव्यम् ॥ २.१९१ ॥
शरीरं चैव वाचं च बुद्धीन्द्रियमनांसि च ।
नियम्य प्राञ्जलिस् तिष्ठेद् वीक्षमाणो गुरोर् मुखम् ॥ २.१९२ ॥
मेधातिथिः ...{Loading}...
कुतश्चिद् आगतो गुरोर् मुखं वीक्षमाणस् तिष्ठेन् नोपविशेत् । नियम्य च शरीरं । पादहस्तचालनहसितानि न कुर्यात्, न किंचिद् वदेत्, अनुपयोगि । बुद्धीन्द्रियाणि नियच्छेत् । यद् आश्चर्यरूपं किंचिद् गुरुसकाशे न तत् पुनः पुनर् भावयेत् । श्रोत्रादीन्य् अपि । चक्षुर्नियमस् तु गुरुवक्त्रप्रेक्षणाद् एव सिद्धः । मनश् च नियच्छेच् छास्त्रीयान् विकल्पान् गृहकुशूलाद्यारम्भान् मनसा वर्जयेत् । उक्तस् तु “संयमे यत्नम्” (म्ध् २.८८) इति सक्तिप्रतिषेधार्थः492 स प्रतिषेधः । गुरुसंनिधौ स्वल्पो ऽपीन्द्रियाणाम् अप्रतिषिद्धे ऽपि विषये प्रसरो न देयः । प्राञ्जलिर् ऊर्ध्वकृतकरकपोतः ॥ २.१९२ ॥
नित्यम् उद्धृतपाणिः स्यात् साद्वाचारः सुसंवृतः ।
आस्यताम् इति चोक्तः सन्न् आसीताभिमुखं गुरोः ॥ २.१९३ ॥
मेधातिथिः ...{Loading}...
न केवलं सूत्रकात् पानिर् उद्धर्तव्यः, अपि तु वाससो ऽपि । नित्यग्रहणं न तिष्ठत एवायं पाण्युद्धारः, नाप्य् अध्ययनवेलायां, किं तर्हि ततो ऽन्यत्रापि । साध्वाचारः साधुः अनिन्द्यः493 आचारो वाग्व्यवहारादिः कार्यः । अश्लीलादिभाषणम् असंनिधाने ऽपि गुरोर् नित्यग्रहणान् न कर्तव्यम् । सुसंवृतः वाङ्मनश्चक्षुर्भिः नियतात्मा । स्वल्पो ऽपि दोषस् तं परिहरेत् । अनावृतो लोक उच्यते यो यथाकामी, तद्विपरीतः सुसंवृतः ।
- अन्ये तु मन्यन्ते वस्त्रेणाच्छादितशरीरो गुरुसंनिधौ भवेत् नोत्तरीयम् अवतारयेत् ।
एवं तिष्ठेत् । यदा तु गुरुण्**आस्यताम् इत्य् उक्त **एतेन शब्देन भ्रूविक्षेपादिना वा विधेः प्रतिपादनार्थत्वात्, प्रतिपादनं च न शब्दव्यापार एव । तदा आसीत उपविशेत् । अभिमुखं संमुखम्[^५०९] ॥ २.१९३ ॥
हीनान्नवस्त्रवेषः स्यात् सर्वदा गुरुसंनिधौ ।
उत्तिष्ठेत् प्रथमं चास्य चरमं चैव संविशेत् ॥ २.१९४ ॥
मेधातिथिः ...{Loading}...
हीनं न्यूनम् अन्नं भुञ्जीत गुरुसंनिधौ । न्यूनता च परिमाणतः क्वचित् क्वचित् संस्कारतः । यदि संस्कृतम् आज्यदधिक्षीरादिव्यञ्जनं494 भिक्षातो लब्धं स्यात्, तदा यदि गुरुणा तादृशम् अन्नं न भुक्तं स्याद् एककाले च गुरुणा सह भोजने । यदि गुरोस् तादृशम् अन्नं गृहे न सिद्धं स्यात्, तदा तत् तेन नाशितव्यम् । अथ गुरोर् अपि तादृशम् अन्नं स्यात् तदापचयः कर्तव्यः । वस्त्रं यदि गुरोर् और्णं स्यात्, तदा न कार्पासादि शिष्येण प्रावरीतव्यम् । वेष आभरणमण्डनादिः । सो ऽपि हीनः । सर्वदा ब्रह्मचर्यात् परेणापि495 । अत एव वेषग्रहणम् । न च ब्रह्मचारिणो मण्डनम् इष्यते । उत्तिष्ठेत्496 प्रथमं चास्य शय्याया रात्र्युपरमे, आसनाद् वा उत्थानावसरं बुद्ध्वा, प्रथमं पूर्वं गुरोर् उत्थिष्ठेत् । चरमं पश्चात् स्वापकाले सुप्ते गुरौ संविशेच् छय्यां समाश्रयेद् आसने चोपविशेत् ॥ २.१९४ ॥
प्रतिश्रवणसंभाषे शयानो न समाचरेत् ।
नासीनो न च भुञ्जानो न तिष्ठन् न पराङ्मुखः ॥ २.१९५ ॥
मेधातिथिः ...{Loading}...
प्रतिश्रवणम् आहूयमानस्य कार्ये नियुज्यमानस्य गुरुसंबन्धिवचनाकर्णनम् । संभाषा गुरुणा सहोक्तिप्रत्युक्तिकरणम् । ते प्रतिशवणसंभाशे । शयानः स्वे स्रस्तरे निक्षिप्तगात्रः । न समाचरेन् न कुर्यात् । नासीन आसने चोपविष्टः । न भुञ्जानः । न तिष्ठन्न् एकस्मिन्न् एव देशे ऽविचलन्न् ऊर्ध्वं स्थितः । न पुनः पराङ्मुखः । यस्यां दिशि497 गुरुर् दृश्यते ततः परावृत्य स्थितो498 न कुर्यात् ॥ २.१९५ ॥
आसीनस्य स्थितः कुर्याद् अभिगच्छंस् तु तिष्ठतः ।
प्रत्युद्गम्य त्व् आव्रजतः पश्चाद् धावंस् तु धावतः ॥ २.१९६ ॥
मेधातिथिः ...{Loading}...
कथं तर्हि । आसीनो यदाज्ञां ददाति तदा स्थित आसनाद् उत्थाय प्रतिश्रवणसंभाषे कुर्यात् । अभिगच्छंस् तु तिष्ठतः । तिष्ठन् गुरुर् यदादिशति तदाभिगच्छंस् तदभिमुखः कतिचित् पदानि गत्वा । आव्रजत आगच्छतः **प्रत्युद्गम्य, **अभिमुखम् एव गत्वा । प्रतिर् आभिमुख्ये । धावतो वेगेन गच्छतः पश्चाद् धावन् । पश्चाद् वा वसतस् तथा499 ॥ २.१९६ ॥
पराङ्मुखस्याभिमुखो दूरस्थस्यैत्य चान्तिकम् ।
प्रणम्य तु शयानस्य निदेशे चैव तिष्ठतः ॥ २.१९७ ॥
मेधातिथिः ...{Loading}...
तथा पराङ्मुखस्य गुरोः संमुखोपविष्टः शिष्यः । यदि गुरुः परावृत्य कथंचित् स्थितः प्रेष्यति, तां दिशं गत्वाभिमुखीभूय पूर्वोक्तं कर्तव्यम् । दूरस्थस्य समीपं अन्तिकम् एत्य आगत्य प्राप्य । आसीनस्यापि शयानस्य प्रणम्य प्रह्वो भूत्वा गात्राण्य् अवनमय्य । निदेशे निकटे तिष्ठतो ऽपि प्रणम्यैव यत् प्राग् उक्तम् अभिगच्छन्न् इति ॥ २.१९७ ॥
नीचं शय्यासनं चास्य नित्यं स्याद्[^५१६]** गुरुसंनिधौ ।**
गुरोस् तु चक्षुर्विषये न यथेष्टासनो भवेत् ॥ २.१९८ ॥
मेधातिथिः ...{Loading}...
नीचम् अनुन्नतं गुरुशय्याद्यपेक्षया च नीचत्वम् । नित्यग्रहणाद् ब्रह्मचर्याद् उत्तरकालम् अपि । गुरोश् च दृष्टिगोचरे, यत्र500 गुरुः पश्यति तत्र न यथेष्टम् आसीत, पादप्रसारणाङ्गनिषङ्गादिना । आसनग्रहणं चेष्टामात्रोपलक्षणार्थम् । यथेष्टचेष्टो न भवेत् ॥ २.१९८ ॥
नोदाहरेद् अस्य नाम परोक्षम् अपि केवलम् ।
न चैवास्यानुकुर्वीत गतिभाषितचेष्टितम् ॥ २.१९९ ॥
मेधातिथिः ...{Loading}...
नोदाहरेन् नोच्चारयेद् अस्य गुरोर् नाम केवलं उपाध्यायाचार्यभट्टाद्युपपदरहितं परोक्षम् अपि । न चैवास्यानुकुर्वीत सदृशं न कुर्यान् नाट्यकार इव । गतिः- एवम् अस्मद्गुरुर् अपक्रामति । भाषितम्- द्रुतविलम्बितमध्यमत्वादि । चेष्टितम्- एवं भुङ्क्ते एवम् उष्णीषं बध्नाति एवं परिवर्तत इत्यादि । उपहासबुद्ध्यायम् अनुकरणप्रतिषेधः ॥ २.१९९ ॥
गुरोर् यत्र परीवादो निन्दा वापि प्रवर्तते ।
कर्णौ तत्र पिधातव्यौ गन्तव्यं वा ततो ऽन्यतः ॥ २.२०० ॥
मेधातिथिः ...{Loading}...
यत्र देशे दुर्जनसंपाते गुरोः परीवादः संभूतदोषानुकथनं निन्दा अविद्यमानानां दोषाणाम् अभिधानं प्रवर्तते तत्र कर्णौ पिधातव्याव् अङ्गुल्यादिना संवरीतव्यौ । ततः प्रेदेशाद् वान्यत्र गन्तव्यम् ॥ २.२०० ॥
परीवादात् खरो भवति श्वा वै भवति निन्दकः ।
परिभोक्ता कृमिर् भवति कीटो भवति मत्सरी ॥ २.२०१ ॥
मेधातिथिः ...{Loading}...
पूर्वप्रतिषेधशेषो501 ऽयम् अर्थवादः । अत एवं व्याख्येयम् । परीवादाञ् छ्रुत्वा खरो भवति । हेतौ ल्यप्लोपे वा कर्मणि पञ्चमी- परीवादं श्रुत्वा । निन्दको निन्दाश्रावी, उपचारान् निन्दक उच्यते । तथा संस्कर्तावघातकः । श्रवणनिषेधाद् एव साक्षात् करणनिषेधसिद्धिः । परिभोक्ता यो गुरुम् उपजीवति कुसृत्यानुवर्तते । मत्सरी गुरुसमृद्धिम् अभ्युच्चयं न सहते ऽन्तर् दह्यते । अनयोर् अप्राप्तत्वाद् अपूर्वो विधिः । परिवादपरीवादयोर् “घञ्य् अमनुष्ये502 बहुलम्” (पाण् ६.३.१२२) इति दीर्घत्वादीर्घत्वे ॥ २.२०१ ॥
दूरस्थो नार्चयेद् एनं न क्रुद्धो नान्तिके स्त्रियाः ।
यानासनस्थश् चैवैनम् अवरुह्याभिवादयेत् ॥ २.२०२ ॥
मेधातिथिः ...{Loading}...
अत्र परप्रेषणेन गन्धमाल्यादेर् अर्पणं प्रतिषिध्यते । स्वयंकृते परेण च कारिते तुल्यं कर्तृत्वम् । प्रयोजके ऽपि कर्तृत्वस्मरणाद् इत्य् एतया बुद्ध्या प्राप्ते परमुखेनार्चने प्रतिषेधः । अशक्तौ ग्रामान्तरस्थस्य न दोषः, ग्रामान्तरं गच्छत्य् उपाध्याये भवान् अभिवादयतां स गत्वा तम्503 अभिवादयत इत्यादिव्यवहारदर्शनात् । न क्रुद्धः । गुरौ क्रोधासंभवाद् अन्यनिमित्ते ऽपि क्रोधे पूजाकाले तत्त्यागेन चित्तप्रसादो504 ऽभिधीयते । क्रुद्धम् इत्य् अन्ये पठन्ति । नान्तिके समीपे स्त्रियाः कामिन्याः स्थितम् । गुर्वाराधनपरत्वाच् छुश्रूषाकलापस्य येन चित्तखेद आशङ्क्यते स निषिध्यते । अतः स्त्रिया इत्य् एवं व्याख्यातम् । यानं गन्त्र्यादि । आसनं पीठिकामञ्चादि । ततो ऽवरुह्य अवतीर्य अभिवादयेत् ।
-
“शय्यासनस्थः” (म्ध् २.११९) इत्य् अत्रासनाद् उत्थानम् उक्तम्, अनेनावरोहणं विधीयते । मञ्चाद् वासनाद् उत्थानम् अनवरोहतो ऽपि संभवति । अवरोहणं तर्हि अनुत्थितस्य च न संभवति । अतो ऽनेनैव सिद्धे शय्यासनेत्य् अत्रासनग्रहणम् अनर्थकम् ।
-
नानर्थकम् । यदि शिष्यः पराङ्मुखः प्रत्यग्देशाद् आगतं गुरुं मन्येत तदासनस्थ एव संभ्रमपरावृत्तस् तदभिमुखीभूत उत्तिष्ठेन् न तूत्थायाभिपरावर्तेत । तथा ह्य् उत्थानक्रियया संमुखीभवनं व्यवधीयेत । ततः कुप्येद् गुरुः । पराङ्मुखस्योत्तिष्ठतो गुरुर् एवम् अपि मन्येत- “नायं ममाभ्युत्थितो निमित्तान्तरकृतम् एवास्याभ्युत्थानम्” । तस्माद् अर्थवद् उभयत्राप्य् आसनग्रहणम् ॥ २.२०२ ॥
प्रतिवातानुवाते च नासीत गुरुणा सह ।
असंश्रवे चैव गुरोर् न किंचिद् अपि कीर्तयेत् ॥ २.२०३ ॥
मेधातिथिः ...{Loading}...
यस्यां दिशि गुरुर् व्यवस्थितस् ततो देशाद् यदा वायुः शिष्यदेशम् आगच्छति शिष्यदेशाच् च505 गुरुदेशं ते प्रतिवातानुवाते । एकं प्रतिवातम् अपरम् अनुवातम् । तदपेक्षया गुरुणा सह नासीत, अपि तु तिर्यग्वातसेवी गुरोर् भवेत् । अविद्यमानः संश्रवो यत्र तस्मिन्न् असंश्रवे न किंचिद् अपि गुरुगतम् अन्यगतं वा कीर्तयेत् । यत्र गुरुर् व्यक्तं न शृणोति, ओष्ठसंचलनादिना शिष्यसंबन्धिना जानाति किंचिद् अयम् एतेन संभाषते, तन् न कीर्तयेत् ॥ २.२०३ ॥
गोऽश्वोष्ट्रयानप्रासादप्रस्तरेषु कटेषु च ।
आसीत गुरुणा सार्धं शिलाफलकनौषु च ॥ २.२०४ ॥
मेधातिथिः ...{Loading}...
यानशब्दः प्रत्येकम् अभिसंबध्यते । गोऽश्वोष्ट्रैर् उक्तं यानं गोऽश्वोष्ट्रयानम् । दधिघटादिवत् समासे युक्तशब्दस्य लोपः । केवलेषु तु अश्वपृष्टादिष्व् आरोहणं नास्ति । यदि स्वतन्त्रो यानशब्दो विज्ञायेत तदा स्याद् अप्य् अनुज्ञा । समाचारात् तु कादाचित्कम् अनुज्ञानं दृश्यते । प्रासाद उपरिगृहादीनां या भूमिस् तस्यां गृहादिभूमिवत् सिद्धं सहासनम् । प्रस्तरः दर्भादितृणाकीर्णः आस्तरः । कटः तु506 शरवीरणादिकृतः प्रसिद्धः । शिला गिरिशिखरादाव् अन्यत्र वा । फलकं दारुमयम् आसनं पोतवर्तादि । नौर् जलतरणसंप्लवः । तेन पोतादाव् अपि सिद्धं भवति ॥ २.२०४ ॥
गुरोर् गुरौ संनिहिते गुरुवद् वृत्तिम् आचरेत् ।
न चानिसृष्टो गुरुणा स्वान् गुरून् अभिवादयेत् ॥ २.२०५ ॥
मेधातिथिः ...{Loading}...
उक्ता गुरुवृत्तिर् इदानीम् अन्यत्रातिदिश्यते । अध्ययनधर्मत्वात् सर्वस्यास्य गुरुर् अत्राचार्यो विज्ञेयः । तस्य यो गुरुस् तस्मिन् संनिहिते गुरुवद् वर्तितव्यम् । संनिहित इति न तद्गृहगमनम् अभिवादनाद्यर्थं कर्तव्यम् । गुरुगृहे वसन् गुरुणानिसृष्टो अननुज्ञातः स्वान् गुरून् मातापितृप्रभृतीन् नाभिवादयितुं गच्छेत्, न पुनर् गुरुगृहे स्थितस्य यद् स्वे गुरव आगच्छन्ति तदा तदभिवादने गुर्वज्ञापेक्षितव्या । कुत एतत्, मातापित्रोर् अत्यन्तमान्यत्वात् । पितृव्यमातुलादीनाम् अप्य् अभिवादनप्रवृत्तस्य न कश्चिद् गुरुवृत्तेर् विघ्नः । आराधनार्थ एवायं सर्वः प्रयासः । मातापितृगुरुसंनिपाते कः क्रमो ऽभिवादनस्येत्य् उक्तम् “सर्वमहती माता” । पित्राचार्ययोस् तु विकल्पः । यतः पितृत्वाध्यारोपेणाचार्यस्य गौरवं विहितम् । अतः पिता श्रेष्ठः । यतश् चोक्तम् “गरीयान् ब्रह्मदः पिता” (म्ध् २.१४६) इति तत आचार्यः । अतो ऽयम् विकल्पः ॥ २.२०५ ॥
विद्यागुरुष्व् एतम्[^५२४]** एव नित्या वृत्तिः स्वयोनिषु ।**
प्रतिषेधत्सु चाधर्माद् धितं चोपदिशत्स्व् अपि ॥ २.२०६ ॥
मेधातिथिः ...{Loading}...
अयम् अप्य् अतिदेशः । आचार्याद् अन्ये उपाध्यायादयो विद्यागुरवः । तेष्व् एवम् एव वर्तितव्यम्, “शरीरं चैव” (म्ध् २.१९२) इत्यादिकृत्या । स्वयोनिषु ज्येष्ठभ्रातृपितृव्यादिषु । नित्या वृत्तिर् गुरुवृत्तिः । विद्यागुरूणां त्व् आचार्यव्यतिरेकेण यावद्विद्याग्रहणम् । अधर्माद् अकार्यात् परदारगमनादेः प्रतिषेधत्सु वयस्येष्व् अपि । अभ्यन्तरगत्यारूढतयाकार्यं चिकीर्षन्यः सुहृदादिस् तम्- “आ केशग्रहणान् मित्रम् अकार्येभ्यो निवर्तयेत्” (म्भ् ५.९१.११) इति । तस्मिन् समहीनवयस्के ऽपि गुरुवद् वर्तितव्यम् । हितं च विधिरूपम् अग्रन्थकम् उपदिशत्सु । अथ वा हितस्योपदेष्टारो ऽभिजना उच्यन्ते ॥ २.२०६ ॥
श्रेयःसु गुरुवद् वृत्तिं नित्यम् एव समाचरेत् ।
गुरुपुत्रे तथाचार्ये गुरोश् चैव स्वबन्धुषु ॥ २.२०७ ॥
मेधातिथिः ...{Loading}...
श्रेयांस आत्मापेक्षया वित्तवयोविद्याद्यतिशययुक्ताः । तेषु गुरुवद् वृत्तिं यथासंभवम् अभिवादनप्रत्युत्थानादि सर्वदैव समाचरेत् । बहवो ऽत्र शब्दा गतार्थाः प्रयुज्यन्ते । तेषां वृत्तवशात् प्रयोगो न दुष्यति । श्रेयःस्व् इत्य् एतावाद् वक्तव्यम् । गुरुवद् इत्य् आक्षिप्यते । वृत्तिम् इत्यादि प्राप्तम् एव । तद् एतत् सर्वस्मिन्न् एवास्मिन् ग्रन्थे स्वयम् उत्प्रेक्ष्यम् ।
- गुरुपुत्रे तथाचार्ये । आचार्यग्रहणेनाध्यापकत्वं लक्ष्यते । यद्य् असंनिहिते गुरौ तत्पुत्रो ऽध्यापयति कतिचिद् अहानि तदा तस्मिन् गुरुवद् वृत्तिः । पाठान्तरम्- “गुरुपुत्रेष्व् अथार्येषु507” । आर्यशब्दो508 गुणवद्ब्राह्मणजातिवचनः । शूद्राच् चार्यो509 ज्यायान् इति प्रयोगदर्शनात्510 । न च सर्वस्मिन् गुरुपुत्रे वृत्तिर् एषा विधीयते । गुरोश् चैव स्वबन्धुषु । स्वग्रहणं गुरुवंश्यर्थम्511 । गुरुवंशसंबन्धितैवात्र निमित्तम्, न वयोविद्याद्यपेक्ष्यते ॥ २.२०७ ॥
बालः समानजन्मा वा शिष्यो वा यज्ञकर्मणि ।
अध्यापयन् गुरुसुतो गुरुवन् मानम् अर्हति ॥ २.२०८ ॥
मेधातिथिः ...{Loading}...
ये न पठन्ति गुरुपुत्रविशेषणार्थं पूर्वत्राचार्यग्रहणम्, तेषाम् अध्यापयितरि गुणवति समानजातीये सर्वगुरुवृत्तिः प्राप्तानेन विशेषेणावस्थाप्यते । **अध्यापयन् गुरुसुतो गुरुवन् मानं** पूजाम् **अर्हति,** नानाध्यापयन् ।
-
ननु च विद्याग्रहणनिमित्तत्वाद् गुरुवृत्तिर् अध्यापयद् गुरुवद् गुरुपुत्रे ऽप्य् अध्यापयितरि प्राप्तैव । शैशवब्राह्मणनिदर्शनात् कनीयसो ऽपि सिद्धेत्य् अतो बालः समानजन्मा वा इत्य् एवमर्थम् अपि न वक्तव्यम् ।
-
सत्यम् । यो वेदं वेदैकदेशं वाध्यापयति तस्यानाचार्यस्याप्य् एषा वृत्तिर् उक्ता । अयं तु न ग्राहकः, केवलं कतिचिदहान्य् अहर्भागं वाध्यापयति, अतो नाचार्यो नोपाध्याय इत्य् अप्राप्तौ विधिर् अयम् । अस्माद् एव वचनाद् अन्यस्य भग्नमन्त्रादेर् अध्यापकस्य न सर्वा गुरुवृत्तिः कर्तव्येति विज्ञायते ।
-
ये च पूर्वत्राचार्यशब्दं पठन्ति तेषाम् उत्तरार्थम् इदम् अनूद्यते । “उत्सादनं च” (म्ध् २.२०९) इति वक्ष्यति ।
-
शिष्यो वा यज्ञकर्मणि । यज्ञकर्मग्रहणं प्रदर्शनार्थम् । क्वचिद् अङ्गे वेदैकदेशे मन्त्रभागे कस्मिंश्चिद् ब्राह्मणभागे वा, तथापि गुरुवत् पूज्यः यदि तु गुरुपुत्रः । तस्माद् अनेन प्रकारेण कांचिद् विद्यां शिक्षेत, तदा तेन तस्मिन् गुरुवद् वर्तितव्यम् इत्य् उक्तम्, एवम् अर्थवादत्वाद् अस्यारम्भस्य ।
-
ये तु व्याचक्षते- अध्यापयन्न् इत्य् अनेनाध्यापनसामर्थ्यं लक्ष्यते, अध्यापनसमर्थश् चेद् अध्यापयतु, मा वाध्यापयेत्, गृहीतवेदश् चेद् गुरुवद् द्रष्टव्यः — तेषाम् शाब्दम् एतद् व्याख्यानं सत्यं भवति । शता लक्षणार्थः, स तु क्रियायाः “लक्षणहेत्वोः क्रियायाः” (पाण् ३.२.१२६) इति । क्रिया चात्र श्रुता- गुरुवन् मानम् अर्हति ॥ २.२०८ ॥
उत्सादनं च गात्राणां स्नापनोच्छिष्टभोजने ।
न कुर्याद् गुरुपुत्रस्य पादयोश् चावनेजनम् ॥ २.२०९ ॥
मेधातिथिः ...{Loading}...
अभ्यक्तस्योद्वर्तनम् उत्सादनं न कुर्यात् । गुरुपुत्रस्य । पादयोश् चावनेजनं प्रक्षालनम् । अस्माद् एव प्रतिषेधाद् गुराव् एतद् अनुक्तम् अपि कर्तव्यतया प्रतीयते । यदा तु गुरुपुत्र एव गुरुः संपद्यते कृत्स्नवेदाध्यापनोपयोगितया, तदा स्वनिमित्तं तत्रोच्छिष्टभोजनाद्य् अस्ति । तद् अनेन न512 प्रतिषिध्यते । आतिदेशिकस्यानेन निषेधो नौपदेशिकस्य ॥ २.२०९ ॥
गुरुवत् प्रतिपूज्याः स्युः सवर्णा गुरुयोषितः ।
असवर्णास् तु संपूज्याः प्रत्युत्थानाभिवादनैः ॥ २.२१० ॥
मेधातिथिः ...{Loading}...
गुरुयोषितो गुरुपत्न्यः । सवर्णाः समानजातीयाः । गुरुवत् प्रतिपूज्या आज्ञाकरणादिना । असवर्णास् तु केवलैः प्रत्युत्थानाभिवादनैः । बहुवचनाद् आद्यर्थो ऽत्रान्तर्भवति । तेन हि प्रियहितादि गत्याद्य् अननुकरणाद्य् अप्य् अतिदिश्यते ॥ २.२१० ॥
अभ्यञ्जनं स्नापनं च गात्रोत्सादनम् एव च ।
गुरुपत्न्या न कार्याणि केशानां च प्रसाधनम् ॥ २.२११ ॥
मेधातिथिः ...{Loading}...
घृततैलादिना केशकायोपदेहनम् अभ्यञ्जनम् । गात्राणाम् उत्सादनम् उद्वर्तनम् । कार्यसामान्यात् पादधावनम् अपि । सर्वथा शरीरस्पर्शसाध्या या काचिद् अनुवृत्तिः सा सर्वा प्रतिषिध्यते । वक्ष्यति च513 हेतुं “स्वभाव एष नारीणाम्” (म्ध् २.२१३) इति । केशानां च प्रसाधनं विन्यासरचनादिकरणम्, कुङ्कुमसिन्दूरादिना सीमन्तोत्थापनम् । प्रदर्शनार्थं चैतद् उक्तम् । तेन देहप्रसाधनम् अपि चन्दनानुलेपनानि निषिध्यन्ते ॥ २.२११ ॥
गुरुपत्नी तु युवतिर् नाभिवाद्येह पादयोः ।
पूर्णविंशतिवर्षेण गुणदोषौ विजानता ॥ २.२१२ ॥
मेधातिथिः ...{Loading}...
पूर्णविंशतिवर्षेण तरुणेनेत्य् अर्थः । बालस्य आ षोडशाद् वर्षाद् अदोषः । पूर्णानि विंशतिवर्षाणि यस्य स एवम् उच्यते । अयं कालो514 यौवनोद्भेदोपलक्षणार्थः । अत एवाह गुणदोषौ विजानता । कामजे सुखदुःखे गुणदोषाव् अभिप्रेतौ स्त्रीगतौ च स्वाकृतिदुराकृतिलक्षणौ धर्यचापले वा । सर्वथातन्त्रा विंशतिसंख्या ॥ २.२१२ ॥
स्वभाव एष नारीणां नराणाम् इह दूषणम् ।
अतो ऽर्थान् न प्रमाद्यन्ति प्रमदासु विपश्चितः ॥ २.२१३ ॥
मेधातिथिः ...{Loading}...
एषा प्रकृतिः स्त्रीणां यन् नराणां धैर्यच्यावनम् । सङ्गाद् धि515 स्त्रियः पुरुषान् व्रताच् चावयेयुः । अतो ऽर्थात् त्व् अस्माद् धेतोर् न प्रमाद्यन्ति । दूरत एव स्त्रियः परिहरन्ति । प्रमादः स्पर्शादिकरणम् । वस्तुस्वभावो ऽयं यत् तरुणी स्पृष्टा कामकृतं चित्तसंक्षोभं जनयति । तत्र चित्तसंक्षोभो ऽपि प्रतिषिद्धः तिष्ठतु तावद् अपरो ग्राम्यधर्मसंरम्भः । प्रमदाः स्त्रियः ॥ २.२१३ ॥
अविद्वांसम् अलं लोके विद्वांसम् अपि वा पुनः ।
प्रमदा ह्य् उत्पथं नेतुं कामक्रोधवशानुगम् ॥ २.२१४ ॥
मेधातिथिः ...{Loading}...
न चैतन् मन्तव्यम्- “नियमितानि येन चिरम् इन्द्रियाणि, अतिगुरुपातकं गुरुदारेषु दुष्टेन भावेन प्रेक्षणम् अपीति य एवं वेद तस्य न दोषः पादस्पर्शादौ” इति । यत एवंविधान् अपि दोषान् यो जानीते, यो वा न किंचिज् जानीते, तौ स्त्रीविषये समानौ । यतो नात्र विद्वत्ता प्रभवति । शक्नुवन्ति स्त्रियः सर्वं उत्पथम्516 अमार्गं लोकशास्त्रविरुद्धं विषयं नेतुं प्रापयितुं कामक्रोधवशानुगं सन्तम् । कामक्रोधाभ्यां यः संबध्यत इत्य् अर्थः ।
- अवथाविशेषोपलक्षणार्थं चैतत् । अत्यन्तबालं अत्यन्तवृद्धं च प्राप्तयोगप्रकर्षणं च वर्जयित्वा, येन निरन्वयम् उच्छिन्ना517 संसारपुरुषधर्मास् तद्व्यतिरेकेण, न कश्चित् पुरुषो ऽस्ति यः स्त्रीभिर् नाकृष्यते, अयः कान्तेनेव लोहः । न चात्र स्त्रीणां प्रभविष्णुता, वस्तुस्वाभाव्यात् तरुणीजनदर्शने पुंसाम् उन्मथ्यते चित्तम्, विशेषतो ब्रह्मचारिणाम् ॥ २.२१४ ॥
मात्रा स्वस्रा दुहित्रा वा न विविक्तासनो भवेत् ।
बलवान् इन्द्रियग्रामो विद्वांसम् अपि कर्षति ॥ २.२१५ ॥
मेधातिथिः ...{Loading}...
अतो विविकासनः निर्जने शून्ये गृहादौ नासीत । नापि निःशङ्कम् अङ्गस्पर्षादि कुर्यात् । अतिचपलो हीन्द्रियसंघातो विद्वांसम् अपि शास्त्रनिगृहीतात्मानम् अपि कर्षति हरति परतन्त्रीकरोति ॥ २.२१५ ॥
कामं तु गुरुपत्नीनां युवतीनां युवा भुवि ।
विधिवद् वन्दनं कुर्याद् असाव् अहम् इति ब्रुवन् ॥ २.२१६ ॥
मेधातिथिः ...{Loading}...
कामम् इत्य् अरुचिं सूचयति । उत्तरेण चैतत् संबध्यते “विप्रोष्य पादग्रहणम्” (म्ध् २.२१७) इति । भुवि तु पादवन्दनम् इष्यत एव । युवतीनां युवा द्वयोर् यूनोर् अयं विधिः । यदि बालो ब्रह्मचारी वृद्धा वा गुरुपत्नी तदा पादोपसंग्रहणम् अविरुद्धम् । असाव् अहम् इति प्राग् उक्तस्य विधेर् अनुवादः । विधिवद् इति व्यस्तपाणिना ॥ २.२१६ ॥
विप्रोष्य पादग्रहणम् अन्वहं चाभिवादनम् ।
गुरुदारेषु कुर्वीत सतां धर्मम् अनुस्मरन् ॥ २.२१७ ॥
मेधातिथिः ...{Loading}...
प्रवासाद् एत्य पादयोर् ग्रहणं “सव्येन सव्यम्” (म्ध् २.७२) इति । अन्वहम् अहन्य् अहनि । अभिवादनं भूमौ । सतां शिष्टानां एष धर्म आचार इत्य् अनुस्मरन् ॥ २.२१७ ॥
यथा खनन् खनित्रेण नरो वार्य् अधिगच्छति ।
तथा गुरुगतां विद्यां शुश्रूषुर् अधिगच्छति ॥ २.२१८ ॥
मेधातिथिः ...{Loading}...
सर्वस्य शुश्रूषाविधेः फलम् इदम् । गुर्वाराधनद्वारेण स्वाध्यायविध्यर्थवादः518 । यथा काश्चिन् मनुष्यः खनित्रेण कुद्दालादिना भूमिं खनन् वारि प्राप्नोति, नाक्लेशेन, एवम् अयं विद्यां गुरुगतां शुश्रूषुः गुरुसेवापरो ऽधिगच्छति ॥ २.२१८ ॥
मुण्डो वा जटिलो वा स्याद् अथ वा स्याच् छिकाजटः ।
नैनं ग्रामे ऽभिनिम्लोचेत् सूर्यो नाभ्युदियात् क्वचित् ॥ २.२१९ ॥
मेधातिथिः ...{Loading}...
मुण्डः सर्वतः केशवपनं कारयेत् । जटिलो वा । जाटा519 परस्परम् अत्यन्तं संलग्नकेशाः,520 तद्वाञ् जटिलः । शिखाजटः521 शिखैव वा जटा यस्य । जटाकारां शिखां धारयेत्, प्रैशिष्टे मुण्डः । तथा च कुर्याद् यथा ग्रामे स्थितस्य सूर्यो नाभिनिम्लोचेन् नास्तं गच्छेत् । ग्रामग्रहणम् नगरस्यापि प्रदर्शनार्थम् । अस्तमयसमयम् अरण्ये संभावयेत् । एवं ग्रामे नाभ्युदियाद् उदयो ऽपि सूर्यस्य यथारण्यस्थस्य ब्रह्म्चारिणो भवति तथा कुर्यात् । एनं प्रकृतं ब्रह्मचारिणम् ।
- अन्ये तु ग्रामशब्दं ग्राम्येषु धर्मेषु स्वापादिषु वर्तमानं न निम्लोचेद् इत्य् एवमर्थं वर्णयन्ति । तथा च उत्तरत्र शयानम् इत्य् आह । ततो ऽयं संध्ययोः स्वप्नप्रतिषेधः, नारण्ये तत्कालावस्थानम् । बालो हि ब्रह्मचारी बिभीयात् । गौतमेन तु बहिःसंध्यत्वं परतो गोदानाद् उक्तम् (ग्ध् २.१०) । गोदानव्रतं च षोडशवर्षे, तदा च प्राप्तः शक्नोत्य् अरण्ये संध्याम् उपासितुम् ॥ २.२१९ ॥
तं चेद् अभ्युदियात् सूर्यः शयानं कामचारतः ।
निम्लोचेद् वाप्य् अविज्ञानाज् जपन्न् उपवसेद् दिनम् ॥ २.२२० ॥
मेधातिथिः ...{Loading}...
अत्रेदं प्रायश्चित्तं चरेत् । ब्रह्मचारिणं शयानं निद्रावशं गतम्522 अभ्युदियात् स्वेनोदयेनाभिव्याप्तदोषं कुर्यात् । “अभिर् अभागे” (पाण् १.४.९१) इति कर्मप्रवचनीयत्वम् । ततो द्वितीया शयानम् इति । इत्थंभूतं सुप्तम् इति लक्षणं वा स्वापकाले यद्य् उद्येत । जपन्न् उपवसेद् दिनम् ।
- केचिद् आहुः523- “प्रातर् अतिक्रमे दिनं जपोववासौ, रात्रौ तु भोजनम्, पश्चिमातिक्रमे तु रात्रौ जपोपवासौ, प्रातर्भोजनम् इति । दिनशब्दः प्रदर्शनार्थः” । गौतमवचनं चाप्य् उदाहरन्ति- “तिष्ठेद् अहर् अभुञ्जानो ऽभ्यस्तम् इतश् च रात्रिं जपन् सावित्रीम्” (ग्ध् २३.२१) इति ।
-
तद् अयुक्तम् । उभयत्रापि दिवैव प्रायश्चित्तं युक्तम्, दिनशब्दस्य प्रदर्शनार्थत्वे प्रमाणाभावात् । न ह्य् अस्य तत्सापेक्षस्य स्वार्थप्रतिपादनम् । निरपेक्षं चैतत् । तस्माद् विकल्पो युक्तः । तत्र यस्य सर्वां रात्रिं जाग्रतो न व्याधिः प्रवर्तते स रात्रौ जपिष्यति, अन्यस् तु दिवैव । जपश् च गौतमवचनात् सावित्र्या एव ।
-
ननु अत्र कथं गौतमः प्रमाणीक्रियते
-
उच्यते । सापेक्षम् इदं वाक्यं जपेद् इति, जपनीयस्यानिर्देशात् । सत्याम् अपेक्षायां श्रुत्यन्तराद् युक्ता विशेषावगतिः । इह तु कालस्य निर्देशः । नास्ति कालान्तरं प्रत्यपेक्षेति न गौतमो ऽपेक्षते । अथ वा संध्यातिक्रमे प्रायश्चित्ताभिधानात् सावित्रीजपः सिद्ध एव । युक्तं च सावित्र्यास् तु परं नास्तीति ।
-
कामचारतः524 । ज्ञात्वैव संध्याकाले यः स्वपिति । अविज्ञानात्525 । चिरसुप्तस्य संध्याकालो ऽयं वर्तत इत्य् अनवबोधो ऽविज्ञानम् । एतद् उक्तं भवति । इच्छया प्रमादकृते चातिक्रमे एतद् एव प्रायश्चित्तम् । यः पुनर् अभ्युदितानस्तमित्संध्याम् अतिक्रामति तस्य प्रायश्चित्तम् अभोजनं नित्यानाम्, कर्मणां समतिक्रम इति । अथ वा यः कामचारेण526 शास्त्रातिक्रमणं करोति तस्य तद् अविज्ञानम् एव ॥ २.२२० ॥
सूर्येण ह्य् अभिनिम्लुक्तः शयानो ऽभ्युदितश् च यः ।
प्रायश्चित्तम् अकुर्वाणो युक्तः स्यान् महतैनसा ॥ २.२२१ ॥
मेधातिथिः ...{Loading}...
पूर्वप्रायाश्चित्तविधेर् अयम् अर्थवादः । निम्लोचनेनाभिदुष्टः अभिनिम्लुक्तः । एवम् अभ्युदितः । प्रायश्चित्तं पूर्वोक्तं न करोति । तदा महता पापेन संबध्यते, न स्वल्पेन । नरकादिदुःखोपभोग्निमित्तम् अदृष्टपापम् उच्यते ॥ २.२२१ ॥
आचम्य प्रयतो नित्यम् उभे संध्ये समाहितः ।
शुचौ देशे जपञ् जप्यम् उपासीत यथाविधि ॥ २.२२२ ॥
मेधातिथिः ...{Loading}...
एवं महान् दोषो ऽभ्युदयनिम्लोचनयोः । तस्माद् आचम्य प्रयतस् तत्परः समाहितः परिहृतचित्ततत्कर्म्विक्षेपः527 । शुचौ देशे जपञ् जप्यं प्रणवव्याहृतिसावित्र्याख्यम् । उपासीत उभे संध्ये । संध्ययोर् एवात्रोपास्यत्वम् । उपासनं च तत्र भावविशेषः । अथ वोभे संध्ये प्रत्युपासीत भगवन्तं सवितारम् । मन्त्रो हि तद्देवत्यो ऽतस् तम् एवोपासीत । संहृतसकलविकल्पस् तद्गतैकमना भवेत् । प्रागुक्तस्य विधेः शेषो ऽनुवादः । उपासनं केवलं विधेयम् ।
- अन्ये तु “शुचौ देश इत्य् एतद्विध्यर्थो ऽयं श्लोकः” इत्य् आहुस् । तेषां पौनरुक्त्यम् । सर्वस्यैव कर्तव्यस्य “शुचिना कर्म कर्तव्यम्” इति विहितम् । अशुचिदेशसंबन्धे च का शुचिता ॥ २.२२२ ॥
यदि स्त्री यद्य् अवरजः श्रेयः किंचित् समाचरेत् ।
तत् सर्वम् आचरेद् युक्तो यत्र वास्य रमेन् मनः ॥ २.२२३ ॥
मेधातिथिः ...{Loading}...
यदि स्त्री आचार्यानी । अवरजः कनीयान् । आचार्याद् उपलभ्य श्रेयः धर्मादित्रिवर्गं528 समाचरेत्, तत् सर्वम् आचरेत् । संभवति हि तयोस् तदाचार्यसंपर्कात् परिज्ञानम् । शूद्रो वाचार्यभृतक529 अवरजः । स यद्य् उपदिशेत् “एवं पायुलिङ्गौ मृद्वारिणा प्रक्षाल्येते, निपुणौ हस्तौ प्रक्षालय, विस्मृतस् ते मृद्वारिक्रमः, त्वदीय आचार्यो ऽसकृन् मया पायुप्रक्षालने जलं ददता दृष्टपूर्वः, पूर्वम् अद्भिः530 शौचं करोति ततो मृद्भिः” इत्य् एवमादि समाचरेत् तत्समाचाराद्युपपन्न उपदिशेत् । तथा चाचार्यानी आचमनं शिक्षयेत् । तत् सर्वम् आचरेद् युक्तः श्रद्दया । न स्त्रीशूद्राचरितम् इत्य् अवजानीत ।
- समाचरेद् इति च समाचारपूर्वक उपदेश एवात्राभिप्रेतः । वक्ष्यति च “धर्मः शौचं । । । समादेयानि सर्वतः” (म्ध् २.२४०) इति । आचार्येणैव कदाचिद् आदिष्टं भवति “ब्राह्मणि आचमय पुत्रस्थानीयम् एतं यथाविधिपूर्वकम्531 । ब्रूयाच् च532 “अस्य मूत्रपुरीषशुद्ध्यर्थं मृद्वारिणी देये” इति । तत्र तदीयवचनम् अनुष्ठेयम्, एवम् “मृदो गृहाण,” एवम् “अद्भिः प्रक्षालय533” इति । अथ वा गुरुगृहे534 लोहोपलजलशुद्ध्यादिः स्त्रीशूद्राभ्यां समाचर्यमाणः535 प्रमाणीकर्तव्यः । एतावदाचारस्य स्त्रीशूद्रसंबन्धिनः प्रामाण्यार्थो ऽयं श्लोको युज्यते ।
- ननु सर्वस्याचारस्यावेदवित्संबन्धिनः प्रामाण्यं घटते । अनुक्तम् एतत् । न हि स्वल्पो ऽप्य् आचार अवेदविदां प्रमाणीभवति । अथास्ति मूलं वेदवित्संबन्धः स एव536 तर्हि प्रमाणम्, किं स्त्रीग्रहणेन537 । न चैवंविधे विषये स्त्रीशूद्राचारस्य प्रामाण्यम् अभिप्रेतम् । तथा हि सति प्रामाण्याभिधानप्रकरण एवावक्ष्यत् । तस्माच् छ्रेयः पदार्थनिरूपणार्थो ऽयम् उपोद्घात इति परमार्थः ।
- यद् वाचार्यवचसां प्रामाण्यानुवादो ऽयम् । यत्538 स्त्रीशुद्राव् अपि ब्रूयातां तद् अप्य् अनुष्ठातुं युक्तम्, किं पुनर् आचार्योपदिष्टम् ।
- यत्र चास्य रमेत् परितुष्येन् मनः । एतद् अप्य् “आत्मनस् तुष्ठिः” (म्ध् २.६) इत्य् अत्र व्याख्यातम् । सर्वथा नास्य श्लोकस्यातीव प्रयोजनम् अस्ति ॥ २.२२३ ॥
धर्मार्थव् उच्यते श्रेयः कामार्थौ धर्म एव च ।
अर्थ एवेह वा श्रेयस् त्रिवर्ग इति तु स्थितिः ॥ २.२२४ ॥
मेधातिथिः ...{Loading}...
यत् प्रशस्यं यद् आचर्यमाणं दृष्टादृष्टे नोपहन्ति यच् छ्रेयो लोक उच्यते, किं पुनस् तद् इति सुहृद् भूत्वान्वाचष्टे । नायं वेदमूलो ऽर्थः, नाचार्यादिशब्दवत् पदार्थकथनम् । किं तर्हि, श्रेयोऽर्थी सर्वः पुरुषः प्रवर्तते । तत्रेदम् उच्यते- इदं श्रेयः, एतदर्थं यत्नः कर्तव्यः । तत्र मतान्तराणि तावद् उपन्यस्यति ।
-
केषांचित् मतं धर्मार्थौ श्रेयः । धर्मः शास्त्रविहितौ विधिप्रतिषेधौ । अर्थो गोभूमिहिरण्यादिः । एतद् एव श्रेयः, एतदधीनत्वात् पुरुषप्रीतेः ।
-
अपरं मतं कामार्थाव् इति । कामस् तावन् मुख्य एव पुरुषार्थः । प्रीतिर् हि श्रेयः, अर्थो ऽपि तत्साधनत्वात् । एवं हि चार्वाकाः आहुः- “काम एवैकः पुरुषार्थस् तस्य साधनम् अर्थः धर्मो ऽपि यद्य् अस्ति” ।
-
धर्म एव सर्वेभ्यः श्रेयान्, सर्वस्य तन्मूलत्वाच् च । उक्तं च “धर्माद् अर्थश् च कामश् च” (म्भ् १८.५.४९) इति ।
-
अर्थ539 एवेति वणिजः प्रयोगजीविनः ।
- सिद्धान्तस् तु त्रिवर्ग इति तु स्थितिः । अतो धर्माविरोधिनाव् अर्थकामाव् अपि सेवितव्यौ, न तद्विरोधिनौ । तथा च गौतमः- “न पूर्वाह्णमध्यंदिनापराह्णान् अफलान् कुर्यात् यथाशक्ति धर्मार्थकामेभ्यः” इति (ग्ध् ९.४६) । त्र्यात्मको वर्गस् त्रिवर्गः । त्रिषु समुदितेष्व् अयं रूढः ॥ २.२२४ ॥
आचार्यश् च पिता चैव माता भ्राता च पूर्वजः ।
नार्त्तेनाप्य् अवमन्तव्या ब्राह्मणेन विशेषतः॥ २.२२५ ॥
मेधातिथिः ...{Loading}...
अन्यो ऽपि न कश्चिद् अवमन्तव्यः, एते पुनर् विशेषतः । प्रायश्चित्ताधिक्यम् अत्रेत्य् अर्थः । आर्त्तेन तैः पीडितेनाप्य् । अवमानम् अवज्ञा, प्राप्तायाः पूजाया अकरणं न्यक्कारश् चानादराख्यः । ब्राह्मणग्रहणं पूरणार्थम् ॥ २.२२५ ॥
आचार्यो ब्रह्मणो मूर्तिः पिता मूर्तिः प्रजापतेः ।
माता पृथिव्या मूर्तिस् तु भ्राता स्वो मूर्तिर् आत्मनः ॥ २.२२६ ॥
मेधातिथिः ...{Loading}...
पूर्वस्यायम् अर्थवादः । यत् परं ब्रह्म वेदान्तोपनिषत्प्रसिद्धं तस्य आचार्यो मूर्तिः शरीरम् । मूर्तिर् इव् मूर्तिः । प्रजापतेर् हिरण्यगर्भस्य पिता । येयं पृथिवी सैव माता, भारसहत्वसामान्यात् । भ्राता च स्वः सोदर्यः आत्मनः क्षेत्रज्ञस्येति प्रशंसा । एते सर्वे देवतारूपाः महत्त्वयुक्ता अवमता घ्नन्ति, प्रसादिता अभिप्रेतैः कामैर् योजयन्ति । एवं तत्समा आचार्यादय इति स्तुतिः ॥ २.२२६ ॥
यं मातापितरौ क्लेशं सहेते संभवे नृणाम् ।
न तस्य निष्कृतिः शक्या कर्तुं वर्षशतैर् अपि ॥ २.२२७ ॥
मेधातिथिः ...{Loading}...
भूतार्थानुवादेनेयम् अपरा प्रशंसा । क्लेशं दुःखं माता च पिता च नॄणाम् अपत्यानां संभवे गर्भात् प्रभृति याव्द् दशमाद् वर्षात् । मातुः क्लेशः गर्भधारणम् । प्रसवः प्राणहरः स्त्रीणाम् । जातस्य च संवरणयोगः क्लेशः । स सर्वस्य स्वयं संवेद्यः । पितुर् अप्य् उपनयनात् प्रभृति आ वेदार्थव्याख्यानात् । संभवशब्देनात्र गर्भादाहम् उच्यते । तद् धि न क्लेशावहम्, किं तर्हि तदुत्तरकालभाविन्य एताः क्रियाः, ता हि क्लेशसाध्याः । न तस्य क्लेशस्य निष्कृतिर् आनृण्यं प्रत्युपकारसमत्वं शक्यं कर्तुं वर्षशतैर् जन्मभिर् बहुभिः, किं पुनर् एकेन जन्मना । असंख्यधनदानेन महत्या वापद उद्धरणेन मातापित्रोर् निष्कृतिर् इति ॥ २.२२७ ॥
तयोर् नित्यं प्रियं कुर्याद् आचार्यस्य च सर्वदा ।
तेष्व् एव त्रिषु तुष्टेषु तपः सर्वं समाप्यते ॥ २.२२८ ॥
मेधातिथिः ...{Loading}...
तस्मात् तयोर् मातापित्रोर् आचार्यस्य च सर्वदा यावज्जीवं यत् प्रियं तेषां तत् कुर्यात्, न सकृद् द्विस् त्रिर् वा कृत्वा कृती भवेत् । तेष्व् एवाचार्यादिषु त्रिषु तुष्टेषु540 भक्त्याराधितेषु तपः सर्वं बहून् वर्षगणांश् चान्द्रायणादितपस् तप्त्वा यत् फलं प्राप्यते तत् तत्परितोषाद् एव लभ्यत इति ॥ २.२२८ ॥
तेषां त्रयाणां शुश्रूषा परमं तप उच्यते ।
न तैर् अनभ्यनुज्ञातो धर्मम् अन्यं समाचरेत् ॥ २.२२९ ॥
मेधातिथिः ...{Loading}...
कथं पुनस् तपःफलम् अतपसा मात्रादिशुश्रूषया । यस्मात् एतच् च सर्वोत्तमं तपो यत् तेषां पादसेवनम् । तैर् अननुज्ञातो माणवकः धर्मम् अन्यं तत्सेवाविरोधिनं तीर्थस्नानादिरूपं व्रतोपवासादि च शरीरशोषणया तेषां चित्तखेदकरम् । ज्योतिष्टोमानुष्ठाने ऽप्य् अनुज्ञा ग्रहीतव्या । यतो ऽवमानप्रतिषेधः कृतः541 । महारम्भेषु च कर्मसु बहुधनव्ययायाससाध्येषु मुह्यमाना अवमन्तवाः542 भवेयुः । नित्यकर्मानुष्ठाने त्व् अनुज्ञा543 नोपकारिणी ॥ २.२२९ ॥
त एव हि त्रयो लोकास् त एव त्रय आश्रमाः ।
त एव हि त्रयो वेदास् त एवोक्तास् त्रयो ऽग्नयः ॥ २.२३० ॥
मेधातिथिः ...{Loading}...
कार्यकारणयोर् अभेदाद् एवम् उच्यते । त्रयाणां लोकानां प्राप्तिहेतुत्वात् त एव त्रयो लोका उच्यन्ते । त एव च त्रयः प्रथमाद् ब्रह्मचर्याद् अन्ये त्रय आश्रमाः । गार्हस्थ्यादिभिर् त्रिभिर् आश्रमैर् यत् फलं प्राप्यते तत् तैस् त्रिभिस् तुष्टैः । त एव त्रयो वेदा वेदत्रयजपतुल्यफलत्वात् । त एव त्रयो ऽग्नयः । अग्निसाध्यकर्मानुष्ठानफलावाप्तेस् तच् छ्रुश्रूषातः । एषापि प्रशंसैव ॥ २.२३० ॥
पिता वै गार्हपत्यो ऽग्निर् माताग्निर् दक्षिणः स्मृतः ।
गुरुर् आहवनीयस् तु साग्नित्रेता गरीयसी ॥ २.२३१ ॥
मेधातिथिः ...{Loading}...
केनचित् सामान्येनायं पित्रादीनां गार्हपत्यादिव्यपदेशः । साग्नित्रेता आधानाग्नित्रेता या गरीयसी महाफला । त्राणं त्राणार्थम् इता प्राप्ता त्रेता इति शब्दव्युत्पत्तिः ॥ २.२३१ ॥
त्रिष्व् अप्रमाद्यन्न् एतेषु त्रींल् लोकान् विजयेद् गृही ।
दीप्यमानः स्ववपुषा देववद् दिवि मोदते ॥ २.२३२ ॥
मेधातिथिः ...{Loading}...
एतेष्व् अप्रमाद्यन्न् आराधने ऽस्खलन् । तथा च तदाराधात् त्रीन् लोकाञ् जयेत् स्वीकुर्याद् आधिपत्यम् आप्नुयात् । गृही । गृहस्थावस्थस्य हि पुत्रस्य पित्रादीनां तत्कृतम् आराधनम् उपयुज्यते । तदा हि तौ वृद्धौ भवतः । दीप्यमानः शोभमानः प्रकाशमानो वा स्वेनैव तेजसा । देववद् आदित्यवद् दिवि लोके मोदते ॥ २.२३२ ॥
इमं लोकं मातृभक्त्या पितृभक्त्या तु मध्यमम् ।
गुरुशुश्रूषया त्व् एवं ब्रह्मलोकं समश्नुते ॥ २.२३३ ॥
मेधातिथिः ...{Loading}...
अयं लोकः पृथिवी । भारसहत्वात् तुल्या माता पृथिव्या । पितृभक्त्या मध्यमो लोको ऽन्तरिक्षम् । प्रजापतिः पितोक्तः । मध्यमस्थानश् च प्रजापतिर् नैरुक्तानाम् । स हि वर्षकर्मणां प्रजानां पाता वा पालयिता वा । ब्रह्मलोकम् आदित्यलोकम् । आदित्यो ब्रह्मेत्यादेशः । लोकः स्थानविशेषस् तम् अश्नुते प्राप्नोति ।
- अर्थवादा एते । तत्र नाभिनिवेष्टव्यम् । न च लोकाधिपत्यकामस्य तदाराधनाधिकारः । नायं काम्यो विधिः । पितृत्वम् एवात्र निमित्तम्, अकरणे शास्त्रातिक्रमः ॥ २.२३३ ॥
सर्वे तस्यादृता धर्मा यस्यैते त्रय आदृताः ।
अनादृतास् तु यसैते सर्वास् तस्याफलाः क्रियाः ॥ २.२३४ ॥
मेधातिथिः ...{Loading}...
आदृताः सत्कृताः । आदृतवचनेन प्रत्युपकारपरत्वं लक्ष्यते । यो ह्य् आदृतो भवति स परितुष्टः प्रत्युपकाराय यतते । अथ वा आदृतः परितुष्टः उच्यते । धर्मस्य चानन्त्यात् परितोषानुपपत्तेः फलदानोत्सुकत्वं लक्ष्यते । सर्वाणि तस्य कर्माण्य् आशु फलदायीनि भवन्ति । यस्यैते त्रय आदृताः शुश्रूषया परितुष्टाः । एतैस् त्व् अनाराधितैर् यत् फलकामेन किंचित् क्रियते शुभं कर्म तत् सर्वं निष्फलम् । सर्वाः क्रियाः सर्वाणि श्रौतस्मार्तानि कर्माणि ।
- अर्थवादो ऽयम् । पुरुषार्थो ह्य् आराधनविधिः । तदतिक्रमे पुरुषः प्रत्यवयन् महता पापेन कर्मोपार्जिते ऽपीष्टफलभोगे प्रतिबध्यते । अत उच्यते सर्वास् तस्याफलाः क्रिया इति ॥ २.२३४ ॥
यावत् त्रयस् ते जीवेयुस् तावन् नान्यं समाचरेत् ।
तेष्व् एव नित्यं शुश्रूषां कुर्यात् प्रियहिते रतः ॥ २.२३५ ॥
मेधातिथिः ...{Loading}...
उक्तार्थो ऽयं श्लोकः । नान्यं समाचरेद् दृष्टम् अदृष्टं वा तदनुज्ञानम् अन्तरेणेत्य् उक्तम् । तेष्व् एव नित्यं शुश्रूषां कुर्यात् । प्रियहिते रतः । प्रियं च हितं च तत् । यत् प्रीतिकरं तत् प्रियं यत् पालनं तद् धितम् ॥ २.२३५ ॥
तेषाम् अनुप्रोधेन पारत्र्यं यद् यद् आचरेत् ।
तत् तन् निवेदयेत् तेभ्यो मनोवचनकर्मभिः ॥ २.२३६ ॥
मेधातिथिः ...{Loading}...
परत्र जन्मान्तरे यस्य फलं भुज्यते तत् पारत्र्यम् । छान्दसं रूपम् एतत् । शुश्रूषाया अविरोधेनान्यं यं यं धर्मं समाचरेत् तं तं निवेदयेत् तेभ्यस् तान् ज्ञापयेत् । अनुपरोधग्रहणम् एवमर्थं कृतम् । यत् तेषां विरोधि तत्र नैवानुज्ञां544 दापयितव्याः545 । कश्चिद् ऋजुप्रकृतिर् अभ्यर्थमान आत्मपराधर्मम्546 अवगणय्यानुजानाति, तन्निवृत्त्यर्थम् एतत् । मनोवचनकर्मभिः । न निवेदनम् अदृष्टार्थम् अपि तु यादृशम् अनुज्ञानं तादृशम् एव कर्मणा दर्शयेत् ।
- अथ वैवं547 संबन्धः कर्तव्यः । मनोवचनकर्मभिः पारत्र्यं यद् यद् आचरेत् तत् तन् निवेदयेत् तेभ्य इति ॥ २.२३६ ॥
त्रिष्व् एतेष्व् इति कृत्यं हि पुरुषस्य समाप्यते ।
एष धर्मः परः साक्षाद् उपधर्मो ऽन्य उच्यते ॥ २.२३७ ॥
मेधातिथिः ...{Loading}...
इतिशब्दः समाप्तिवचनः कार्त्स्न्यं गमयति । यत्किंचन पुरुषस्य कर्तव्यं यावान् कश्चन पुरुषार्थः स एतेष्व् आराधितेषु समाप्यते परिपूर्णम् अनुष्ठितो भवति । एष धर्मः परः श्रेष्ठः साक्षात्त्वेन । अन्यश् चाग्निहोत्रादिर् उपधर्मः प्रतिहारस्थानीयो न साक्षाद् राजवत्, इति प्रशंसा । अवमानप्रतिषेधः, प्रियहितकरणम्, तद्विरोधिनः कर्तव्यस्याननुष्ठानम्, अविरोधिनो ऽप्य् अननुज्ञातस्य च । परिशिष्टः श्लोकसंघातो ऽर्थवादः ॥ २.२३७ ॥
श्रद्दधानः शुभां विद्याम् आददीतावराद् अपि ।
अन्त्याद् अपि परं धर्मं स्त्रीरत्नं दुष्कुलाद् अपि ॥ २.२३८ ॥
मेधातिथिः ...{Loading}...
श्रद्दधान आस्तिक्योपगृहीतान्तरात्माभियुक्तो यः शिष्यः स शुभां विद्यां न्यायशास्त्रादितर्कविद्याम् । अथ वा या शोभते केवलं सा विशद-काव्य-भरतादि-विद्या-विभूषिता, मन्त्र-विद्या वा न धर्मोपयोगिनी, ताम् अवराद् अपि हीनजातीयाद् अप्य् आददीत शिक्षते ।(5)
- न त्व् अत्र शुभा वेदविद्या वेदितव्या, आपदि विधिर् भविष्यति (म्ध् २.२४१), अनापदि तु नैवेष्यते । या त्व् अशुभा548 शाम्भवी549 मायाकुहकादि वा तां न क्वचित् ।(4)
- अन्त्यश् चाण्डालस् तस्माद् अपि यः परो धर्मः श्रुति-स्मृत्य्-अपेक्षया परो ऽन्यो लौकिकः । धर्म-शब्दो व्यवस्थायाम् अपि प्रयुज्यते । “एषो ऽत्र धर्मः” इति यदि चण्डालो ऽपि ब्रूते- “अत्र प्रदेशे मा चिरं स्था,” “मा वास्मिन्न् अम्भसि स्नासीः,” “एषो ऽत्र ग्रामीणानां धर्मो राज्ञा कृता वा मर्यादा” इति । न चैवं मन्तव्यम्- “उपाध्यायवचनं मया कर्तव्यं धिक् चाण्डालं जाल्मं550 यो मां नियुङ्क्ते” इति ।
-
न पुनर् इयं बुद्धिः कर्तव्या- परो धर्मो ब्रह्मतत्त्वज्ञानम् । न हि चण्डालादेस् तत्परिज्ञानसंभवः, वेदार्थवित्त्वाभावात् । न चान्यतस् तत्संबवः । न हि वृश्चिक-मन्त्राक्षर-वद् ब्रह्मोपदेशो ऽस्ति ।
-
स्त्रीरत्नम् इव । स्त्री चासौ रत्नं च तद् इति वा । “उपमितं व्याघ्रादिभिः” (पाण् २.१.५६) “विशेषणं विशेष्येन” (पाण् २.१.५७) इति वा । यदा यत्किंचिद् उत्कृष्टं वस्तु तद् रत्नम् उच्यते तदा विशेषणम् इति । अथ तु मरकत-पद्मरागादीन्य् एव रत्न-शब्द-वाच्यान्य् उत्कर्ष-सामान्याद् अन्यत्र प्रयोगः, तदोपमितम् इति । या स्त्री कान्ति-संस्थान-लावण्यातिशयवती551 अथ दान्य-बहु-धन-सुतादि-शुभ-लक्षणा सा दुष्कुलाद् +धीन-क्रियादेर् अप्य् आनेया । “अब्राह्मणात्” (म्ध् २.२४१) इत्य् अस्य विधेर् अयम् उपोद्घातः552 । अलाबेन तु प्रदर्शितः ॥ २.२३८ ॥
विषाद् अप्य् अमृतं ग्राह्यं बालाद् अपि सुभाषितम् ।
अमित्राद् अपि सद्वृत्तम् अमेध्याद् अपि काञ्चनम् ॥ २.२३९ ॥
मेधातिथिः ...{Loading}...
पूर्व इमौ चापद्य् अब्राह्मणाद् अप्य् अध्येतव्यम् (म्ध् २.१४१) इत्य् अस्य विधेः शेषः । अनेन लोकप्रवादो दृष्टान्तीक्रियते553 । एवं हि लौकिका आहुः- “असतस् सद् उपादेयम्” ।
- विषे ऽपि यद् अमृतं तद् ग्राह्यम् एव, यथा हंस उदकात् क्षीरं गृह्णाति । रसायनेषु केषुचित् विषं इत्य् एतद् अभिप्रेत्योक्तम् । बालो ऽपि यत् किंचिद् अकस्मात् सुभाषितं माङ्गलिकं प्रस्थानादौ वक्ति तद् ग्राह्यम् । अमित्रादेर् अपि सतां यद् वृत्तं शिष्टाचारः । न द्वेष्यस्554 तेनैतद् आचरितम् इति त्याज्यः555 । प्रसिद्धतरो556 ऽयं दृष्टान्तः- अमेध्याद् अपि काञ्चनं सुवर्णम् । असदाश्रयाद् अप्य् एते यथा557 गृह्यते तद्वद् अब्राह्मणाद् अध्ययनम् इति ॥ २.२३९ ॥
स्त्रियो रत्नान्य् अथो विद्या धर्मः शौचं सुभाषितम् ।
विविधानि च शिल्पानि समादेयानि सर्वतः ॥ २.२४० ॥
मेधातिथिः ...{Loading}...
रत्नानि मणयः शम्बरपुलिन्दादिभ्यो ऽप्य् उपात्ताः शुद्धास् तद्वद् विद्याद्य् अपीति । शिल्पानि च विचित्रपत्रच्छेद्यादीन्य् अदुष्टान्य् अगर्हितानि चैलनिर्णेजनपटरञ्जनबन्धादीनि558 । सर्वतो जातिविशेषम् अनपेक्ष्य समादेयानि स्वीकर्तव्यानि निश्चितातिधैर्यभावैः । “विषाद् अप्य् अमृतम्” (म्ध् २.२३९) इत्य् एवमादिभिर् अनेकवाक्यत्वात्559 समानप्रक्रमत्वेन सर्व एते ऽर्थवादाः ॥ २.२४० ॥
अब्राह्मणाद् अध्ययनम् आपत्-काले विधीयते ।
अनुव्रज्या च शुश्रूषा यावद् अध्ययनं गुरोः ॥ २.२४१ ॥
मेधातिथिः ...{Loading}...
अयं त्व् अत्र560 विधिः । आपद्561 ब्राह्मणाध्यापकभावः । आपदः काल आपत्कालः । आपद् इत्येव सिद्धे कालग्रहणं वृत्तपूरणार्थम् । पाठान्तरम् आपत्कल्प इति । कल्पनं कल्प आपद्य् एषां कल्पना विधीयते उपदिश्यते । यद् आचार्यः प्रारब्धाध्यपनः प्रायश्चित्तेनान्येन वा निमित्तेन शिष्यं हित्वा देशान्तरं व्रजेत्, न च ब्राह्मणो ऽन्यो ऽध्यापकस् तस्मिन् देशे लभ्यते, बालत्वाद् दूरदेशगमनम् अशक्यम्, तदा ऽब्राह्मणात्562 क्षत्रियात् तदभावे वैश्याद् अध्ययनम् । प्रकृतत्वात्, “वेदः कृत्स्नः” (म्ध् २.१६५) इति, वेदग्रहणं विधीयते ।
- यद्य् अप्य् अत्राब्राह्मणशब्दो ब्राह्मणजातेर् अन्यत्र जातित्रये वर्तमानं पुरुषत्वम् आचष्टे, तथापि नेह शूद्रस्य ग्रहणम्, तस्याध्यापनाधिकाराभावात् । सत्य् अध्ययने ऽध्यापकत्वम् । अथ “शास्त्रातिक्रमेण शूद्रस्याप्य् अधितवेदत्वस्य संभवः, क्षत्रियवैशययोर् अध्यापकत्वस्येव” । तद् अपि न । यतो धारणे शरीरभेदस् तस्याम्नातः । ततो दण्डमहत्वान् महद् एतद् अकार्यम् अनुमीयते । निन्दितकर्माभ्यासे पतनं तत्संसर्गाच् च ब्रह्मचारिणो ऽत्यन्तदुष्टता स्यात्563 । “क्षत्रियवैशयोर् अध्यापकत्वनिषेधात् निषेधात् तुल्यदोषः” इति चेद् अस्त्य् अत्र विशेषः । यत्र दण्डप्रायश्चित्ते गुरुणी तत्र महादोषता, स्वपयोस् तु स्वल्पदोषता । न च क्षत्रियवैश्ययोर् अध्यापने महती दण्डप्रायश्चित्ते, शूद्रसेव । किं च द्वे निन्दिते कर्मण्य् अध्ययनम् अध्यापनं च, क्षत्रियवैश्ययोस् त्व् एकम् एव । निषिद्धाध्यापनसंसर्गस् त्व् अनेनैवानुज्ञातः, नासौ दोषकरः । निषिद्धाध्ययनेन तु शूद्रेण संसर्गे न किंचित् प्रंआणम् अस्ति ।
- अनुव्रज्या च शुश्रूषा । वन्दनपादप्रक्षालनादिशुश्रूषाप्रतिषेधार्थम्564 अनुव्रज्यैव शुश्रूषा, नान्येति । यावद् अध्ययनं यावद् ग्रहणम् ॥ २.२४१ ॥
नाब्राह्मणे गुरौ शिष्यो वासम् आत्यन्तिकं वसेत् ।
ब्राह्मणे वाननूचाने565** काङ्क्षन् गतिम् अनुत्तमाम् ॥ २.२४२ ॥**
मेधातिथिः ...{Loading}...
अब्राह्मणे गुरौ वासो ऽध्ययनाय पूर्वेणोक्तो नैष्ठिकस्यापि प्राप्तो विशेषेण566 निषिध्यते । आत्यन्तिकं वासं यावज्जीविकम् । न वसेन् न कुर्यात् । वासं वसेद् इति । सामान्यविशेषभावाद् वासं वसेद् इति संबन्धः कल्प्यः । गुरुविषयो वासस् तं वसेत् । समाप्ताध्ययनो ऽन्यत्र गच्छेत् ।
-
ननु चाध्ययनमात्रम् अनुज्ञातम् आत्यन्तिकस्य वासस्य कुतः प्राप्तिः ।
-
नैष दोषः । गुरौ तस्य वास उक्तः, अध्यापयिता च गुरुर् उक्तः । अतो भवत्य् आशङ्का ।
-
ब्राह्मणे वाननूचाने । वाशब्दो ऽप्य् अर्थः । ब्राह्मणो ऽपि अद्य् अनूचानो वृत्ताभिजनसंपन्नो न भवति, न च व्याख्यानाध्ययनशील्ः । अनुवचनेनैते ऽपि गुणा लक्ष्यन्ते यतो ऽननुवक्तर्यर्हाभावाद्567 एवावासः सिद्धः । गतिर् अत्र सुखातिशयप्राप्तिर् विवक्षिता । अनुत्तमा, यस्या अन्योत्तमा नास्ति, तां काङ्क्षन् परमात्मानन्दरूपं मोक्षम् ॥ २.२४२ ॥
यदि त्व् आत्यन्तिकं वासं रोचयेत् गुरोः कुले ।
युक्तः परिचरेद् एनम् आ शरीरविमोक्षणात् ॥ २.२४३ ॥
मेधातिथिः ...{Loading}...
अत्यन्तं भवम् आत्यन्तिकं वासं गुरोः कुले नैष्ठिकं ब्रह्मचर्यं यदि रोचयेत् तदा युक्तस् तत्परः परिचरेद् एनं गुरुम्, आ श्रीरस्य विमोक्षणात् पाताद् यावच्छरीरं ध्रियत इत्य् अर्थः ॥ २.२४३ ॥
आ समाप्तेः शरीरस्य यस् तु शुश्रूषते गुरुम् ।
स गच्छत्य् अञ्जसा विप्रो ब्रह्मणः सद्म शाश्वतम् ॥ २.२४४ ॥
मेधातिथिः ...{Loading}...
नैष्ठिकब्रह्मचर्यस्य फलविधिर् अयम् । शरीरस्य समाप्तिर् जीवितत्यागः । आ ततः कालाद् यो गुरुं शुश्रूषते परिचरति । स गच्छति विप्रो ब्रह्मणः सद्म सदनं स्थानं शाश्वतम्, न पुनः संसारं प्रतिपद्यत इति यावत् । अञ्जसा अक्लिष्टेन मार्गेण । न गत्यन्तरेण तिर्यक्त्वेन मनुष्यादिजन्मना व्यवधीयते । ब्रह्मशब्देन चेतिहासदर्शने568 देवविशेषश्569 चतुर्वक्त्रः, तस्य सद्म स्थानविशेषः, दिवि विद्यते । वेदान्तवादिनां तु ब्रह्म परमात्मा, तस्य सद्म स्वरूपम् एव, तद्भावापत्तिः ॥ २.२४४ ॥
न पूर्वं गुरवे किंचिद् उपकुर्वीत धर्मवित् ।
स्नास्यंस् तु गुरुणाज्ञप्तः शक्त्या गुर्वर्थम् आहरेत् ॥ २.२४५ ॥
मेधातिथिः ...{Loading}...
नैष्ठिकस्यायं गुरवे ऽर्थदानं570 प्रतिषिध्यते, स्नास्यतो गुर्वर्थविधानात् । न च नैष्ठिकस्य स्नानम् अस्ति । प्रकृतश् च नैष्ठिक एव । उपकुर्वाणस्य तु उपनयनात् प्रभृति यावत् स्नानम् अस्त्य् एव सति संभवे यथाशक्त्या दानम् ।
-
पूर्वं स्नानाद् गुरवे किंचिद् उपकुर्वीत दद्यात्, ददात्यर्थे धातुः सोपसर्गो ऽतश् च स्वसाध्या चतुर्थी । अथ वा क्रियाग्रहणम् अपि कर्तव्यम् इति, ततः संप्रदानत्वम् । धर्मवित्पदम् अनुवादः । स्नास्यंस् तु स्नानकाले प्राप्ते गुरुणा आदीष्टम् “अमुम् अर्थम् आहर” इति । ततः शक्त्या यावन्तं शक्नोति तावन्तम् । गुर्वर्थम् । गुरोर् इदं गुर्वर्थम् । गुरोर् येन प्रयोजनं तम् आहरेद् उपनयेत् ।
-
ननु अयं नैष्ठिकस्य गुर्वर्थकरणप्रतिषेधः ।
-
न ह्य् एते द्वे वाक्ये, एकेन प्रतिषेधः, अपरेण गुर्वर्थविधिः । स्नाने गुर्वर्थो ऽवश्यं कर्तव्यम् इत्य् अयं विधिः । प्रतिषेधस् तच्छेषः । उपकारप्रतिषेधे571 च सर्वशुश्रूषाविधिर् अनर्थकः स्यात् । न च दानम् एवोपकारः, येन धनोपकार एव निषिध्येत, नान्यः प्रियहितादिः । अर्थवादत्वे त्व् अयथार्थता न दोषः । गम्यते चात्रैकवाक्यता ॥ २.२४५ ॥
क्षेत्रं हिरण्यं गाम् अस्वं छत्रोपहहम् अन्ततः[^५९०]** ।**
धान्यं वासांसि शाकं वा572** गुरवे प्रीतिम् आहरन्**573** ॥ २.२४६ ॥**
मेधातिथिः ...{Loading}...
उक्तम् उद्दिष्टं गुर्वर्थं कुर्यात् तत्र न सर्वं कर्तव्यम् इत्य् एवमर्थो ऽयं श्लोकः । यदि गुरुर् विरुद्धम् आदिशेत्, “अमुष्यस्त्रियम् आहर” इति, “सर्वस्वं वा देहि” इति, तन् न कर्तवम् । किं तर्हि **क्षेत्रम्, **धान्यानां भवनभूमिः क्षेत्रम् उच्यते । हिरण्यं सुवर्णम् । वाशब्दो विकल्पार्थः । न समुदितानि देयानि । अन्ततः अन्याभावे छत्रोपनहम् अपि । द्वन्द्वनिर्देशात् साहित्यदानम् । वासांसीति सर्वत्र संख्या न विवक्षिता । प्रीतिम् आहरन्न् इति एतद् आहरेद् इति पूर्वसंबन्धः574 । “प्रीतम् आहरेद्” इति वा पाठे अत्रैव क्रियापरिसमाप्तिः । “प्रीतिम् आवहेद्” इति वा । प्रीतिम् उत्पादयितुं575 धान्याद्य् आहरेत् । स्वतन्त्रैव वा प्रीतिर् आहार्यतयोच्यते । ततश् च द्रव्योपदेशस्य प्रदर्शनार्थता576 सिद्धा भवति । अन्यद् अपि यद् एवंविधं प्रीतिजनकं मणिमुक्ताप्रवालहस्त्यश्वगन्त्रीरथादि577 तद् अपि देयम् इति गम्यते । तथा च गौतमः- “विद्यान्ते गुरुर्578 अर्थेन निमन्त्र्यः” (ग्ध् २.४८) । आहरेद् यदि स्याद् आत्मीयं शक्त्यागतं तदा, न चेद् याच्ञादिनार्जयेत्579 ॥ २.२४६ ॥
आचार्ये तु खलु प्रेते गुरुपुत्रे गुणान्विते ।
गुरुदारे सपिण्डे वा गुरुवद् वृत्तिम् आचरेत् ॥ २.२४७ ॥
मेधातिथिः ...{Loading}...
नैष्ठिकस्यायम् उपदेशः । असत्य् आचार्ये, तत्पुत्रे श्रोत्रियत्वादिगुणयुक्ते, गुरुपत्न्याम् आचार्याण्यां वा, सपिण्डे वा गुरोर् एव, वसेत् । तत्र च गुरुवद् वृत्तिम् आचरेद् भैक्षनिवेदनादि सर्वं कुर्यात् । दारशब्दो बहुवचनान्तो भार्यावचनो वैयाकरणैः स्मर्यते । स्मृतिकारास् त्व् एकवचनान्तम् अपि प्रयुञ्जते- “धर्मप्रजासंपन्ने580 दारे नान्यां कुर्वीत” (आप्ध् २.११.१२) इति ॥ २.२४७ ॥
एत्ष्व् अविद्यमानेषु स्थानासनविहारवान् ।
प्रयुञ्जानो ऽग्निशुश्रूषां साधयेद् देहम् आत्मनः ॥ २.२४८ ॥
मेधातिथिः ...{Loading}...
अविद्यमानता सर्वेषाम् अभावः, यदि वा गुणहीनता । एतेष्व् असत्स्व् अग्निशुश्रूषां प्रयुञ्जीत, अग्निशरणोपलेपनम् अग्नीन्धनम् आचार्यवत् संनिधाननियमाद् भृत्यवद्581 अहोरात्रासनम् एषाग्नेः शुश्रूषा तां582 कुर्वन् देहं साधयेत् शरीरं क्षपयेत् । यथान्धश् चक्षुष्मान् उच्यते एवं साधयेद् इति । स्थानासन एव विहारः तद्वान्, न कदाचिद् आसीत एवं विहरेत् ।
- अन्ये तु मन्यन्ते- स्थानाय स्वस्तिकादिना यद् आसनं ध्यानकाले तत् स्थानासनम्, विहारो ऽन्यो भिक्षाचरणादिः ॥ २.२४८ ॥
एवं चरति यो विप्रो ब्रह्मचर्यम् अविप्लुतः ।
स गच्छत्य् उत्तमस्थानं न चेह जायते पुनः ॥ २.२४९ ॥
मेधातिथिः ...{Loading}...
एवम् इति नैष्ठिकवृत्तिं प्रत्यवमृशति । एवं यो ब्रह्मचर्यं चरत्य् अविप्लुतः अस्खलः स प्राप्नोत्य् उत्तमस्थानं धाम परमात्मप्राप्तिलक्षणम् । न चेह पुनर् जायते न संसारम् आपद्यते । ब्रह्मरूपं संपद्यत इति ॥ २.२४९ ॥
इति मानवे धर्मशास्त्रे भृगुप्रोक्तायां संहितायां
द्वितीयो ऽध्यायः
इति श्रीभट्टमेधातिथिविरचिते मनुभाष्ये
द्वितीयो ऽध्यायः
-
M G J: saṃbhava iti (I follow DK 5: 604) ↩︎
-
DK (5: 604): ātmano ↩︎
-
G 1st ed.: ātmani yogopabhoge cāraktāḥ ↩︎
-
M: ātmani ye bhogopayogāsareṇa ↩︎
-
G 1st ed.: samarthā ↩︎
-
G 1st ed.: sevanti ↩︎
-
M G: cocyate ↩︎
-
G: rāgadveṣaḥ ↩︎
-
DK (5: 607) suggests: śruto ↩︎
-
M G J: yadāpi (I follow DK 5: 607) ↩︎
-
M G: tathānyathānuṣṭhāne ↩︎
-
M G add: na caivehāsty akāmatā ↩︎
-
G: niścinomīti ↩︎
-
M G 1st ed. omit kriyā ↩︎
-
M G 1st ed.: kiṃcid ↩︎
-
M G 1st ed.: -kāraṇaṃ ↩︎
-
J: kamaṇyam ↩︎
-
M G 1st ed.: kamaṇy ↩︎
-
DK (5: 90) suggests adding: na (causing a double negative). ↩︎
-
M G J DK (5: 90) read bhikṣūṇām in the genitive, and Jha translates: “good and bad conditions of Bhikṣus.” A variant in five manuscripts recorded by Gharpure reads: bhikṣāva. I think this is probably a wrong transcription of bhikṣave, written in the old Nāgari pṛṣṭhamātrā. Now, this is not standard Sanskrit, but the form is found in Pāli and even more significantly in Gāndhāri Buddhist manuscripts from north-western India. Perhaps, Medhātithi living in Kashmir, had access to these kinds of Buddhist texts. We do find texts similar to the one cited by Medhātithi in several Buddhist texts: paśyāmy ahaṃ bhikṣavaḥ divyena cakṣuṣā viśuddhenātikrāntamānuṣyakena satvāṃ cyavantāṃ upapadyantāṃ suvarṇāṃ durvavarṇāṃ sugatāṃ durgatāṃ . . . (_Mahāvastu, _ed. Senart, III: 448). ↩︎
-
M G 1st ed.: veda ↩︎
-
M G 1st ed.: -deśāt saṃbhava ↩︎
-
G: syāt | punaś ca vedaḥ kṛtsna iti ↩︎
-
J: modaka- ↩︎
-
M G: ātharvaṇānāmapy ↩︎
-
M G: prāmāṇya ↩︎
-
M G J: dharmapratijñāpakatayaiva (I follow DK 5: 92) ↩︎
-
G: -avagamyaṃ ↩︎
-
G omits: puruṣasya kartavyam ↩︎
-
M G: phalasyāsyāśrutatvāt ↩︎
-
M G: nāmnāyena ↩︎
-
DK (5: 93): yata (= RV 8.61.13) ↩︎
-
M G J: nāmāśraya ↩︎
-
DK (5: 94): laukikavad ↩︎
-
G: -badhnīyur ananubhūtakena pramāṇena (this may be due to Gharpure’s attempt to “correct” the readings; both M and J have the same reading) ↩︎
-
DK (5: 94): kenacit ↩︎
-
G: karmataḥ (clearly a mistake perpetuated in G 2nd ed. also) ↩︎
-
DK (5: 95): vikalpena (as instrumental) ↩︎
-
G 1st ed.: liṅgādayo ↩︎
-
G 1st ed.: liṅgaśrutir ↩︎
-
G: mūlatve ↩︎
-
DK (5: 96) omits: granthaṃ ↩︎
-
J DK (5: 96): saṃpradāyavicchedas (this could be a typo) ↩︎
-
G: -viprakīrṇa ↩︎
-
G: kriyāntaragatir ↩︎
-
G: liṅgādigamyaṃ ↩︎
-
M G: pratiṣṭhāḥ ↩︎
-
G: nāstasya ↩︎
-
M G J: vācistome ↩︎
-
M G: taiḥ ↩︎
-
M G: etatparāṇāṃ ↩︎
-
M G: yām ↩︎
-
The reading here is confused and corrupt. M G 1st ed. J: aśvamedham aśvaṃ yathā samarpayantaḥ; PK (5: 98): thinks yathā samarpayantaḥ should be changed to yavasam arpayantaḥ; G 2nd ed. emends the texts based on Śabara 2.4.2.8: aśvamedhamātraṃ ghāsaṃ samarpayantaḥ. What I have given is a conjectural emendation; in the reading: yathāsamarpayanti, Mandlik (whom everyone follows) probably read wrongly “thāsam” for “ghāsam”. ↩︎
-
M G 1st ed.: priyety ↩︎
-
G 1st ed.: āsitam ↩︎
-
M G: -mūlatva- ↩︎
-
M G J all read: roga-. I think this is an error, especially because the absence of rāga, along with dveṣa, has been a constant theme in the commentary on verse 6. DK (5: 98) has the correct reading. ↩︎
-
DK (5: 100) suggests: vede ↩︎
-
M G: yatkāryadarśane ↩︎
-
M G 1st ed.: sarva ↩︎
-
DK (5: 101) omits: apratyakṣādigocaram (probably a typo) ↩︎
-
DK (5: 611): pravṛttir yuktety ↩︎
-
Reading corrupt here. M G 1st ed.: kāryaṃ dharmaprāptyarthaṃ; G 2nd ed.: kāryaṃ dharmaśāstrārthaṃ; J: kāryadharmaśāstyarthaṃ; I follow DK (5: 102); DK places artham within parentheses to indicate doubt about its authenticiy. The reading is clearly doubtful. ↩︎
-
DK (5: 103): sadācāre (but see samācāre three sentences before) ↩︎
-
G: vedasyāsyādyaḥ; DK (5: 103) suggests deleting ādyaḥ ↩︎
-
DK (5: 103) suggests: svid ayaṃ ↩︎
-
G 1st ed.: -viruddhādiś; G 2nd ed,: -viruddhā ↩︎
-
M G: tasyādau na bhavet phalam; DK (5: 103): tasyedaṃ na bhavet phalam ↩︎
-
M G J: tatraikaḥ (I follow DK) ↩︎
-
J: dhātvarthaḥ phalaṃ ↩︎
-
DK (5: 104): etan maraṇam ↩︎
-
DK: iyāt ↩︎
-
M G 1st ed.: asatyaprāmāṇyahetor; J G 2nd ed.: asatyāprāmāṇyahetor (I follow DK 5: 105) ↩︎
-
M G add: vede ↩︎
-
M G: kiṃ for na hi kiṃcit ↩︎
-
M G: śiṣyair ↩︎
-
M G 1st ed.: -arhābhya ↩︎
-
M G: nanu ↩︎
-
G: vihitaṃ ↩︎
-
M G: dhā ādhāre. Madhav Deshpande notes in private communication: “The Dhatupatha as given in the NSP edition of the Siddhanta-Kaumudi with Tattvabodhini, 7th edn 1933, p. 734, lists two different roots, 1) डुधाञ् धारणपोषणयो: (जुहोत्यादि), 2) धीङ् आधारे (दिवादि). While धीयते can be a passive form of धा-दधाति, it can be a simple middle form of धी-धीयते from the 4th conjugation. It appears that Medhatithi prefers the latter interpretation.” ↩︎
-
M G omit: na ↩︎
-
M G: yathālakṣaṇaṃ ↩︎
-
M G 1st ed.: arthakāma ↩︎
-
M G: upalakṣyate ↩︎
-
M G J: dānenājeyatayā ↩︎
-
M G: na vacanāt ↩︎
-
M G: idam anantara- ↩︎
-
M G 1st ed.: yaṣṭavyasya; G 2nd ed.: yad dravyasya; DK (5: 115) places dravyasya after home ↩︎
-
DK (5: 115): prakṣepaḥ adhikaraṇaviśeṣe ↩︎
-
M G: -auṣasaḥ ↩︎
-
M G 1st ed.: -traye ‘pi śrutividhānān ↩︎
-
M G 1st ed.: saṃbhavaḥ | tasmād virodho na sādhya | ↩︎
-
J omit: tadartha- ↩︎
-
M G 1st ed.: na cādi- ↩︎
-
J omit: ca ↩︎
-
J omit: ca ↩︎
-
M G: -dhyayanaṃ vidhinā ↩︎
-
DK (5: 117) suggests: kanyāgamane ↩︎
-
DK (5: 117) suggests: yathā ca ↩︎
-
M G: kurukṣetre ↩︎
-
M G: kuruta ↩︎
-
M G: bhavati ↩︎
-
M G: avadhīn kṛtvā ↩︎
-
J: kṛṣṇasārākhyo ↩︎
-
M G J: pratilomajātīyānadhikṛtā ↩︎
-
M G 1st ed.: -vidhāyaka ↩︎
-
M G: yāgārhatā saty ↩︎
-
M G 1st ed.: vaidyāś; G 2nd ed.: traividyavaidyāś ↩︎
-
M G: vakṣyante ↩︎
-
M G: jātā āśrayeran ↩︎
-
M G: deśāntare ‘py adhi- ↩︎
-
M G: kalpādhikāratve ↩︎
-
M G: tv anityakāmyānām ↩︎
-
M G: vacanaṃ liṅgam ↩︎
-
M G: arthahānir; J: atha hānir ↩︎
-
M G 1st ed.: liṅgād ↩︎
-
M G 1st ed.: vā dvijātiyam ↩︎
-
DK (5: 762) suggests: enaṃ na ↩︎
-
M G 1st ed.: varṣakṛtatvena ↩︎
-
G: atiniyamam ↩︎
-
M G: place this sentence as an introduction to verse 25. ↩︎
-
J adds: dharmo ↩︎
-
J: yadāśrama- ↩︎
-
G: tūpanayanaṃ dharmo ↩︎
-
M G: vāśramārthaṃ ↩︎
-
M G 1st ed.: -bhedas tu nety ↩︎
-
M G: tatra niṣakādyāni ↩︎
-
M G: tānīdānīṃ ↩︎
-
J omits: ādadhāti ↩︎
-
M G: -āpekṣyaṃ ↩︎
-
M G: niṣpādito ‘dhyayana- ↩︎
-
M G: śrute ↩︎
-
M G: brahmacārī- ↩︎
-
M G 1st ed.: kāmanānuṣṭhānāt; G 2nd ed.: kāmamanuṣṭhānāt ↩︎
-
G 1st ed.: upāyās ↩︎
-
M G: draṣṭavyanirdeśo ↩︎
-
M G: dṛṣṭādinirdeśena ↩︎
-
G 1st ed.: tad evedaṃ ↩︎
-
M: tadevetannāmadheyakaṃ ↩︎
-
M G 1st ed.: anibaddam ↩︎
-
M G: gṛhye smṛtīnāṃ ↩︎
-
M G: ūcuḥ kaṭho ↩︎
-
M G connection this with the previous: asamāna evārthaḥ ↩︎
-
M G here have a very different reading: yady etad asti tad eva kva tarhi | svakaṃ yad adhītaṃ tadarthaḥ śakyo ’nuṣṭhātum | ↩︎
-
M G omit: yaḥ ↩︎
-
M G: na tasya ↩︎
-
M G 1st ed.: sarvasva ↩︎
-
M G: upadiśya- ↩︎
-
M: adravya; G: adravyatva ↩︎
-
G: tad uktaṃ ↩︎
-
M G 1st ed.: -viṣṭipātavivarjitam ↩︎
-
M G: -prasaṅgo ↩︎
-
G adds: matyā ↩︎
-
J omits one yena ↩︎
-
M G 1st ed. omit: yena ↩︎
-
M G: -prayogādarśasaṃbandhād ↩︎
-
M G: balārthavācinām ↩︎
-
M G: ete śarmaśabdāḥ ↩︎
-
G omits: śarma ↩︎
-
M G: indrāvato ‘pi ↩︎
-
M G: svakāraṇa- ↩︎
-
M G 1st ed.: tat tu ↩︎
-
J: -sausthiyāpekṣā ↩︎
-
M G: cūḍākarmavyañjanā ↩︎
-
M G: garbhaśabde ↩︎
-
M G 1st ed.: yathāśrutānavāparo ↩︎
-
M G: -prāṇatā cetad ↩︎
-
J omits: ca ↩︎
-
M G: -nivṛtte ↩︎
-
M G: ceccha ↩︎
-
M G: -bandhāv; J: -bandhav; this is probably a vocative: brahmabandho ↩︎
-
M G: pūrveṇa ca ↩︎
-
G 1st ed.: prāyaścitta ↩︎
-
M G give accusative plurals: -mittān saṃbandhān …-pratigrahān ↩︎
-
M G 1st ed. omit: kāmyo hy ayam . . . dakṣiṇādinā | ↩︎
-
M G 1st ed.: sahahāridrumaṃtaṃ; G 2nd ed.: hāridrumaṃtaṃ ↩︎
-
M G 1st ed. omit: trīṇi ↩︎
-
M G: ānupūrvagrahaṇe ↩︎
-
M G 1st ed.: triguṇīkṛtavedamūrdhani vartanaṃ ↩︎
-
G: -ākhyaṃ ↩︎
-
M G: pañcasūtrābhāve ↩︎
-
M G: -ūdumbara ↩︎
-
M G: kāṇḍa ↩︎
-
M G: priyaṃkaraṃ ↩︎
-
M G 1st ed. omit: mantrair ↩︎
-
M G: abhidhānam ↩︎
-
J: samārtham ↩︎
-
M G 1st ed. : yadi vā na pratyaya- ↩︎
-
M G 1st ed.: tadannaṃ ↩︎
-
G: bhuṅkte ↩︎
-
M: yathā ↩︎
-
G 1st ed.: kṛtaṃ ↩︎
-
M G omit: asyāpi ↩︎
-
M G: yā ↩︎
-
M G: brahmacārīdharmabhojanatā ↩︎
-
M G 1st ed.: -viruddhavādivarjanaṃ ↩︎
-
M G: yadi ↩︎
-
M G 1st ed.: -saktupūpādy ↩︎
-
M G 1st ed.: dhyānaṃ ↩︎
-
M G 1st ed.: phalavidho ↩︎
-
M G 1st ed. omit: na ↩︎
-
M G 1st ed.: prakalpaṃ ↩︎
-
M G: paripūrṇa ↩︎
-
M G J: satvāpattir; my reading is conjectural, and based also on Jha’s translation of this sentence. ↩︎
-
M G 1st ed.: -mūlatānatyśana- ↩︎
-
M G 1st ed.: cāvidhānavad ↩︎
-
M G omit: adha ↩︎
-
M G: -kāṅkṣāya ↩︎
-
G: evaṃ; J adds: evaṃ after daivaṃ; G misread daivaṃ as evaṃ, and J added this misreading to the original daivam ↩︎
-
J: agraśabde ↩︎
-
M G: kaṇiṣṭhāntaralayoḥ ↩︎
-
M G: -layoḥ kāyaṃ pūrveṇāgram ↩︎
-
M G 1st ed.: netaro viṇmūtrādi- ↩︎
-
M G: aharahaḥsu ↩︎
-
M G: sparśa ↩︎
-
M G 1st ed.: asya ↩︎
-
G 1st ed.: saṅga ↩︎
-
G: sūtrakasya ↩︎
-
M G 1st ed.: kamaṇḍalunā ↩︎
-
M G 1st ed.: pauṃsnam eva ↩︎
-
J: nāsti | atyato ↩︎
-
M G 1st ed. add: tadāpattivacanaṃ vivāhasya; this is included in the third sentence of the commentary. ↩︎
-
G 2nd ed. adds: ca ↩︎
-
M G 1st ed. omit: tadāpattivacanaṃ vivāhasya; see the note before last. ↩︎
-
M G omit: ca ↩︎
-
M G 1st ed.: bhavad ↩︎
-
M G 1st ed.: manuṣyāyopanayanāt (M: manuṣyoyo-) ↩︎
-
M: prākkṛtaṃ ↩︎
-
J: kāmacāraḥ karmākṣamatvam ↩︎
-
M G: tanmātāpitroḥ ↩︎
-
M G: uktārtham ↩︎
-
M G 1st ed.: śaucasyeṣyate ↩︎
-
G 1st ed.: tadavaśiṣṭaṃ ↩︎
-
M G: -vādanādibhiḥ; J: -vādanādi (mine is a conjectural emendation) ↩︎
-
M G 1st ed.: upasannāḥ smādhyayanāya ↩︎
-
M G add before prātar: na māsikaprayogārambhe prātaḥ ↩︎
-
MG: kacchapakarṇa ↩︎
-
J omits: na ↩︎
-
M G 1st ed.: evaṃ ca tad ākhyāyate ↩︎
-
M G omit: yajuḥṣu; J: yajur; the reading yajuḥṣu is a conjecture based on sāmasu and ṛkṣu that follow. ↩︎
-
M G: vispṛṣṭam ↩︎
-
M G: om iti kṛtaṃ ↩︎
-
M G: oṃkṛtam ↩︎
-
M G: tac ca pākasya ↩︎
-
M G 1st ed.: evam āditaḥ ↩︎
-
M G 1st ed.: -marṣaṇādiṣu ↩︎
-
J: kṛteṣu ↩︎
-
M G 1st ed. omit: hy ayaṃ ↩︎
-
J: tripadā ca ↩︎
-
M G: -prakaraṇaikavākyāt; J: -prakaraṇe vākyāt; my conjectural emendation is based on the necessity of a locative to parallel sati. Probably the double sandhi was used in MG (-raṇa + eka- = raṇaika). ↩︎
-
J omits: yat ↩︎
-
M G 1st ed.: -viṣayatayābhyeti ↩︎
-
M G 1st ed.: vedavidi ↩︎
-
G: avagame ↩︎
-
M G: na tu ↩︎
-
M: iti cet; G: iti ca ↩︎
-
M G: daivavaśaprāpto ↩︎
-
J: atke ↩︎
-
M G 1st ed.: dauścayādi- ↩︎
-
J: bhāvanā (mine is a conjectural reading) ↩︎
-
M G: -bhāvanayā (omit tayā) ↩︎
-
M G 1st ed.: antarddhānam anusmṛtiḥ; G 2nd ed.: antarddhānam anusaṃtardanam anusmṛtiḥ ↩︎
-
M G add: niyame ucyate ↩︎
-
M G 1st ed.: atha yuktā ↩︎
-
M G: brāhmaṇa ↩︎
-
M G: bahutarajapāt ↩︎
-
M G 1st ed. omit: mano ↩︎
-
M G 1st ed.: kuryān nityaṃ ↩︎
-
G 1st ed.: apravṛttiḥ parihāro ↩︎
-
M: puruṣānapahāriṇo; G 1st ed.: puruṣāpahāriṇo; G 2nd ed.: puruṣaapahāriṇo ↩︎
-
M G omit: te ↩︎
-
M G: padārthaḥ ↩︎
-
M G 1st ed.: ajānato nāgamika ↩︎
-
M G 1st ed.: api hasyate ↩︎
-
M G: ye veditavyāḥ ↩︎
-
M G 1st ed.: javas ↩︎
-
M G: tālvādi ↩︎
-
G omits: buddhīndriyāṇi ↩︎
-
M omits: buddher indriyāṇi ↩︎
-
M G omit: tattvākhyānam etat ↩︎
-
M G 1st ed.: niyacchati ↩︎
-
M G omit: doṣaṃ ↩︎
-
M G J all read: prajuṣṭāni; but Medh’s commentary clearly presupposes praduṣṭāni ↩︎
-
J: prāptam | ↩︎
-
The readings here are quite confused. I follow Jha. M G 1st ed.: tadartham āha: na sevayā indriyāṇi niyantavyānīti | athocyate | niḥsukhaḥ syād iti hi smaranti | asaṃnihitāś ca na seviṣyante | tadartham āha | nāsevayā indriyāṇi niyantavyānīti; G 2nd ed.: tadartham āha: nāsevayā indriyāṇi niyantavyānīti | athocyate | niḥsukhaḥ syād iti hi smaranti | ↩︎
-
M G 1st ed.: satyāpi sevayā ↩︎
-
M G: asthisthūṇāsnāyuyutam ↩︎
-
G 2nd ed. adds: satāpi ↩︎
-
M G: praduṣṭāny eva pravṛttāny ↩︎
-
M G: ucyate ↩︎
-
M G: ayam aṃśas ↩︎
-
M G 1st ed.: bhajati ↩︎
-
J: -ṣaṣṭikāṃ ↩︎
-
M G 1st ed.: vidhehi kṛtyendriyāṇi ↩︎
-
M G: -prāvaraṇa ↩︎
-
M G: sukumāratvāt prakṛtes ↩︎
-
M G: vaśīkṛtveti ↩︎
-
M G 1st ed. add: tṛtīyāyogaḥ ↩︎
-
G 1st ed. adds: atra ↩︎
-
The editions of the Nirukta read: adhorāmaḥ. ↩︎
-
This is not an exact citation of Kātyāyana’s _Vārttika _(on Pāṇ 1.4.51; in Patañjali, _Mahābhāṣya _I: 336) where it reads: kālabhāvādhvagantavyāḥ karmasaṃjñā hy akarmaṇām. ↩︎
-
M G 1st ed.: ubhayatra ↩︎
-
M G 1st ed. add: satyaṃ ↩︎
-
M G: kartavyaḥ ↩︎
-
M G add: śrotriyasyāpi ↩︎
-
M G 1st ed. here read: -āparyāv adhinivāso ‘hnaś ca ↩︎
-
M G 1st ed. add: tu ↩︎
-
M G add: gṛhyāgnihomena vikalpitam ↩︎
-
M G: āsīta veti ↩︎
-
M G: śrutau ↩︎
-
M G: -upadeśaḥ ↩︎
-
J: atke ↩︎
-
J: anucitaṃ ↩︎
-
M G 1st ed.: -karṣaṇenākasmāt ↩︎
-
M G 1st ed.: etatkāla- ↩︎
-
M G 1st ed.: -saṃbhāṣaṇe ↩︎
-
M G 1st ed.: -dhyayana ↩︎
-
M G add: na ↩︎
-
M G: nādaraṇīyā ↩︎
-
M G 1st ed.: -miśratvabuddhiḥ; G 2nd ed.: -miśratvāt buddhiḥ ↩︎
-
M G 1st ed.: avirodhāt ↩︎
-
M G: smṛtyantaramātradarśita- ↩︎
-
M G 1st ed. add: bādhitaḥ ↩︎
-
M omits: vakṣyati; G: tad vakṣyati ↩︎
-
M G omit: arthadaḥ ↩︎
-
M G 1st ed.: pūrvaḥ ↩︎
-
M G: kalpam iti ↩︎
-
M G: vaktavyā ↩︎
-
M G 1st ed.: jaritatayā ↩︎
-
M G: anuvadantīti ↩︎
-
J: -nirvṛttiḥ ↩︎
-
M G: ye ↩︎
-
M G 1st ed.: mriyatā ↩︎
-
M G 1st ed,: kārakarī ↩︎
-
M G: jānīyān ↩︎
-
M G 1st ed.: pratyabhivādayitābhivādayed ↩︎
-
M G 1st ed.: svayogi- ↩︎
-
M G omit: sarvāśī ↩︎
-
M G 1st ed.: āsīd ↩︎
-
M G: guruviṣayam ↩︎
-
M G 1st ed. omit: imaṃ ↩︎
-
M G: prayojyamā- ↩︎
-
M G 1st ed. omit: -dvaye ↩︎
-
M G: striyāpy ↩︎
-
J: bhāvaḥ (omits bho) ↩︎
-
M G: pūrvasmin yasmin śliṣṭaḥ ↩︎
-
M G 1st ed.: spṛśati sāmarthyena ↩︎
-
M G: nāmnoccāraṇaṃ ↩︎
-
M G 1st ed.: viśeṣe jijñā- ↩︎
-
J omits: paraṃ ↩︎
-
M G: ākāryatāyāṃ ↩︎
-
M G: ca naivaitat siddham ↩︎
-
M G 1st ed.: abhivādya ↩︎
-
M G: vātsalyenānyathātvam ↩︎
-
M G 1st ed.: santi ↩︎
-
M G: tān yaḥ kaścit ↩︎
-
M -tvaivaillakṣaṇam; G 1st ed.: tve vaitallakṣaṇam ↩︎
-
M omits: na ↩︎
-
M G 1st ed.: viśiṣṭatā bandhutaiva ↩︎
-
M G: sāntā sopakaraṇa- ↩︎
-
M G 1st ed.: śāstrarūpatvaṃ bhinnaṃ ↩︎
-
G 1st ed.: vidyante (probably a typo) ↩︎
-
M G 1st ed.: upadiśyamānānāmabhūdbhedaḥ ↩︎
-
M G: śyenādir eṣa evābhicārakaḥ ↩︎
-
M G 1st ed.: tadviditāni ↩︎
-
M G: śākhāntarad bhidyate ↩︎
-
M G 1st ed.: vidyā mānyatatsthānam ↩︎
-
M G 1st ed.: tasmāttaraṃ guru ↩︎
-
M G 1st ed.: rūpiṇī ↩︎
-
M G: mānyasthānānāṃ ↩︎
-
M: paratvam ādartavyam; G 1st ed.: paratvam āhartavyam ↩︎
-
J: variṣṭhatvāt ↩︎
-
J: pūrvaparatayā ↩︎
-
M G omit: na ↩︎
-
J: bādhyeta ↩︎
-
J: pathāgradeśāt ↩︎
-
M G 1st ed.: ācāryakaniṣpattiḥ ↩︎
-
M G 1st ed.: sarveṇa sarva- ↩︎
-
M G 1st ed.: -vidhir ↩︎
-
M G: nitya ↩︎
-
M G: aprayojakatvam ↩︎
-
M G: -nivṛttiḥ ↩︎
-
G J: vaidasyaika- ↩︎
-
M G place here: tāni yaḥ karoti (M = yat) ↩︎
-
M G 1st ed. J: duṣyeta ↩︎
-
M G 1st ed.: niṣpannam api granthagrahaṇe; G 2nd ed.: niṣpannaṃ granthagrahaṇe ↩︎
-
M G 1st ed.: arthakarṇau ↩︎
-
M G: tatra ↩︎
-
M G 1st ed. add: tarkakalāśastrasya vā yad alpaṃ vā bahu vā tena ↩︎
-
M G 1st ed.: -yanamantraṃ ↩︎
-
M G 1st ed.: brahma ↩︎
-
G 1st ed. omits: yasmān ↩︎
-
M G: karoti ↩︎
-
M G: vāraṇo ↩︎
-
M G: strīgavyā ↩︎
-
M G: ṛtuṣu ↩︎
-
M G: ṛtuvaiguṇye ↩︎
-
The text is corrupt here. M G 1st ed.: adhītāttvartham; J: adhīrārthatvam ↩︎
-
M G 1st ed. omit: yas tv . . . vinaśyati ↩︎
-
M G: -payogād arthādarśanād ↩︎
-
M G 1st ed.: vācārya- ↩︎
-
M G: tathā ↩︎
-
M G add: atha ↩︎
-
M G: kāryakāraṇeti- ↩︎
-
M G 1st ed.: adhyayanādiḥ dhātv- ↩︎
-
M G: eva nivṛttam ↩︎
-
M G: kūtāṅgaiḥ ↩︎
-
M G omit: śāstrīyeṣu ↩︎
-
M G 1st ed.: dvitīyaślokārthavādaḥ; G 2nd ed.: dvitīyaślokārdho ‘py arthavādaḥ ↩︎
-
M G 1st ed.: agṛhīte ‘pi tasminn adhyayanam abhyanujñāyate ↩︎
-
M G: dvijanmasu ↩︎
-
M G 1st ed.: pradānaṃ svīkārotpādanaṃ vedākṣaroccāraṇe māṇavakasya ↩︎
-
M G 1st ed.: sarvair hi jātipuruṣadharmair ↩︎
-
J omits: ācāryeṇāsau śikṣayitavyaḥ | tad uktam “śaucācārāṃś ca śikṣayet” ↩︎
-
M G 1st ed.: -hāryakaṃ ↩︎
-
M G 1st ed.: arthavādaḥ ↩︎
-
M G 1st ed.: kṛtatvāt ↩︎
-
M G 1st ed.: vasan | niyamān āha | ↩︎
-
M G 1st ed.: adhyāyavidhy- ↩︎
-
M G 1st ed.: pratijñātān pūrveṇa niyamān; G 2nd ed: niyamān pūrveṇa pratijñātān ↩︎
-
M G 1st ed.: punar na śuciḥ ↩︎
-
J omits: na ↩︎
-
M G: cedaṃ saty ↩︎
-
M G 1st ed.: -mānaṃ svāmyena ↩︎
-
M G 1st ed.: saṃpradānam ataḥ; G 2nd ed.: saṃpradānabhūta ↩︎
-
M G 1st ed.: na vā kṛtāḥ kariṣyamāṇakāryasya ↩︎
-
M G 1st ed.: vasiṣṭhaśāktapāraśaryeti; G 2nd ed.: vasiṣṭhaśaktipāraśaryeiti ↩︎
-
M G 1st ed.: āgneye devatāpuroḍāśe ↩︎
-
M G 1st ed,: tasya pratiṣedhaḥ ↩︎
-
M G 1st ed.: vātyantamasaṃskṛtasyānnasya uktipratiṣedho ↩︎
-
M G 1st ed.: vaktavyā; G 2nd ed.: vartavyā ↩︎
-
M G omit: pṛthak kṛtasya ↩︎
-
M G 1st ed.: prāptāsvarasāni ↩︎
-
M G: sarvaśabdena mānasāni ↩︎
-
M G: puruṣārthaḥ pratiṣedhātikramo ↩︎
-
M G 1st ed. omit: rāgaḥ ↩︎
-
M G 1st ed.: vāditraṃ ↩︎
-
M G: -ālambham ↩︎
-
M G 1st ed: prayogyasyāpy ayogatvaṃ; G 2nd ed.: ayogyasyāpy ayogatvaṃ ↩︎
-
M G: yaunau ↩︎
-
M G 1st ed.: vratalopo nāva- ↩︎
-
M G 1st ed.: punar mām ity ↩︎
-
J omits: etad ↩︎
-
M G 1st ed.: naikānnādi (omits iti); G 2nd ed.: naikānnādīni ↩︎
-
J omits: yato ↩︎
-
M G 1st ed. omit: santi ↩︎
-
G 2nd ed.: nivasaṃto ↩︎
-
M G 1st ed.: vihāyasa ↩︎
-
M G 1st ed. add: niyamya vicchdyete | kālo niyatas tu tayor api | ↩︎
-
M G 1st ed.: anāturasyāvyādhitasya sato ↩︎
-
M G omit: na ↩︎
-
M G 1st ed.: pitrye ‘bhyanujñānārthaṃ ↩︎
-
M G 1st ed.: jīvitaḥ sthitiṃ ↩︎
-
M G 1st ed.: arthavādaḥ; both M and G connect this with vratiśabdaḥ ↩︎
-
M G 1st ed.: tasya ↩︎
-
M G: -viruddha ↩︎
-
M G: cāmnātaṃ ↩︎
-
M G 1st ed.: tūddeśamātraṃ ↩︎
-
M G omit: anuṣṭhānasādhyam ↩︎
-
M G 1st ed.: viṣayo na hi ↩︎
-
M G 1st ed. omit karmabhyaḥ, and add: karmākhye prādhānyam upādhyāyāya gāṃ dadāti ↩︎
-
M G 1st ed. omit: pitṛṣu ↩︎
-
M G 1st ed.: parasparakarmādīnīti ↩︎
-
M G: sūtrādhikā- ↩︎
-
M G: adhikārānu- ↩︎
-
M G: tasmin ↩︎
-
J: na; The TS reading is: indriyāvī paśumaṇ bhavati ↩︎
-
M G 1st ed.: yāvajjīvikālāt ↩︎
-
M G 1st ed. omits: na ↩︎
-
M G 1st ed.: parikriyate ↩︎
-
M G 1st ed.: śrāddhena ↩︎
-
M G: anuddeśyatvasāmānyād ↩︎
-
M G 1st ed.: homājyapuroḍāśādīnāṃ ↩︎
-
M G 1st ed.: yāgo ↩︎
-
M G: ‘pi ↩︎
-
M G 1st ed.: vibhidyate ↩︎
-
M G 1st ed.: nārtho ↩︎
-
M G: devatārthaḥ ↩︎
-
J omits: tac ca ↩︎
-
M G 1st ed.: chucāvakāśe ↩︎
-
M G 1st ed.: mṛdādi taddevatāyā ↩︎
-
M G 1st ed. places sarvatra . . . gatiḥ after -darśanāt ↩︎
-
M G 1st ed.: kāryaṃ prasādhaye ya evāgnir ↩︎
-
M G 1st ed.: naivaṃ śuklo ↩︎
-
M G 1st ed.: pratyakṣāhyavaseyāḥ ↩︎
-
J: pratipadyamānāḥ ↩︎
-
M G: apaśyantīti ↩︎
-
M G 1st ed.: krator viśeṣāvagatisāhacaryād itivat; G 2nd ed.: krator viśeṣāvagatisāhacaryād iti cet ↩︎
-
M G: ca ↩︎
-
M G 1st ed.: -dhikāraṃ ↩︎
-
G 2nd ed.: codito ↩︎
-
M G: śakti- ↩︎
-
M G: sādhvanindyaḥ ↩︎
-
M G 1st ed.: ājyaghaṭitakṣīrādivyañjanaṃ; G 2nd ed.: ājyaṃ dadhighaṭitakṣīrādivyañjanaṃ; J: ājyaṃ dadhikṣīrādivyañjanaṃ ↩︎
-
M G: paro ‘pi ↩︎
-
M G 1st ed.: uttiṣṭhan ↩︎
-
M G omit: diśi ↩︎
-
J: sthitir ↩︎
-
J omits: paścād vā vasatas tathā ↩︎
-
M G in place of yatra reads: nāsthatavyam ↩︎
-
M G: pūrvapratiṣedhe śeṣo ↩︎
-
M G J: ghañamanuṣye; my version follows Pāṇini’s reading ↩︎
-
M G: mātulam ↩︎
-
M G: tattyāgenāyaṃ prasādo ↩︎
-
M G: śiṣyadeśāt ↩︎
-
M G: na tu ↩︎
-
M G: athācārye ↩︎
-
M G: ācāryaśabdo ↩︎
-
G 2nd ed.: śūdrācāryo ↩︎
-
M G 1st ed.: śūdrācāryau carmaṇi vyāyacchete tayor ācāryaṃ varṇaṃ jāpayantīti prayogadarśanāt ↩︎
-
M G 1st ed.: -arthi ↩︎
-
M G 1st ed. omit: na ↩︎
-
M G 1st ed.: yaṃ ↩︎
-
M G 1st ed.: nyāyo ↩︎
-
M G1st ed.: dhairyavyāvartasaṅgād dhi ↩︎
-
M G 1st ed.: mukhyam ↩︎
-
M G 1st ed.: utthitāḥ ↩︎
-
M G 1st ed.: -vidhyarthatā ↩︎
-
M G: jāṭāḥ ↩︎
-
M G: itaretarasaṃlagnakeśāḥ ↩︎
-
M G omit: śikhājaṭaḥ ↩︎
-
M G 1st ed.: nidrāvagatam; G 2nd ed.: nidrāvaśagatam ↩︎
-
M G omit: abhir abhāge . . . kecid āhuḥ ↩︎
-
M G 1st ed.: kāmakārataḥ ↩︎
-
M G 1st ed.: ajñānāt ↩︎
-
M G 1st ed.: kāmakāreṇa ↩︎
-
M G 1st ed.: -karmā vijñeyaḥ ↩︎
-
M G 1st ed.: karmādinā trivargaṃ; G 2nd ed.: karmādinā dharmādi trivargaṃ ↩︎
-
M G 1st ed.: vācārajanaka ↩︎
-
M G 1st ed.: dṛṣṭapūrvaḥ mṛdbhiḥ; G 2nd ed.: dṛṣṭapūrvam adbhiḥ ↩︎
-
M G 1st ed.: tathā vidhipūrvaṃ; G 2nd 3d.: yathāvidhipūrvaṃ ↩︎
-
M G: ca brūyād ↩︎
-
M G 1st ed.: prakṣālayed ↩︎
-
M G 1st ed.: gurugṛhāl ↩︎
-
M G: samācāryamāṇaḥ ↩︎
-
M G: evaṃ for sa eva ↩︎
-
M G 1st ed.: pramāṇaṃ śūdragrahaṇena, G 2nd ed.: strīśūdragrahaṇena ↩︎
-
M G 1st ed. omit: yat ↩︎
-
M G 1st ed.: arthata ↩︎
-
M G 1st ed.: puruṣeṣu ↩︎
-
M G 1st ed.: yat te manaḥpratiṣedhakṛto ↩︎
-
M G 1st ed. : -sādhyeṣu vyāpṛcchya mātā ca mataṃmatyā; G 2nd ed.: -sādhyeṣu vyāpṛcchya mātā nāvamantavyā ↩︎
-
M G 1st ed.: ājñā ↩︎
-
G 2nd ed.: tenaivānujñāṃ ↩︎
-
M G 1st ed.: virodhi tat tair ājñāpayitavyam ↩︎
-
M G: ātmaparo ‘dharmam ↩︎
-
M G: caivaṃ ↩︎
-
M G 2nd ed.: ca śubhā ↩︎
-
M G 1st ed.: yā ca śubhā śāśvatī ↩︎
-
M G omit: jālmam ↩︎
-
M G 1st ed. omit: kānti- ↩︎
-
M G: ayam apavādo ↩︎
-
M G 1st ed.: dṛṣṭaṃ na kriyate ↩︎
-
M G 1st ed.: dveṣas ↩︎
-
M G 1st ed.: nyāyāt ↩︎
-
M G: siddhataro ↩︎
-
M G: asadāśrayāt prāpyate tathā ↩︎
-
M G 1st ed.: -paṭajanaka-; G 2nd ed.: -paṭajana- ↩︎
-
M G: anekavākyād vā ↩︎
-
M G: ayaṃ tatra ↩︎
-
M G 1st ed.: āpanna ↩︎
-
M G 1st ed.: tadā brāhmaṇaḥ ↩︎
-
M G 1st ed.: na cedaṃ mahatvān mahad etad ācāryakam anumīyate ninditakarmābhyāse patanāt tatsaṃsargāc ca brahmacāriṇām kiṃ tu duṣṭatā syān niṣedhāt tulyadoṣa iti ced asty atra viśeṣaḥ | ↩︎
-
M G: na vandana- ↩︎
-
M G J: cānanūcāne ↩︎
-
M G 1st ed.: viśeṣe ↩︎
-
M G 1st ed.: yato nanu vaktaryathā ↩︎
-
M G 1st ed.: ceti sahādarśane ↩︎
-
M G 1st ed. omit: devaviśeṣaś; G 2nd ed: devaviśeṣaś ca ↩︎
-
M G: ‘rghadānaṃ ↩︎
-
M G 1st ed.: pratiṣedha upakārapratiṣedhe ↩︎
-
M G: śākaṃ ca vāsāṃsi ↩︎
-
M G: āvahet ↩︎
-
M G: pūrvaṃ saṃbandhaḥ ↩︎
-
M G: utpādayed ↩︎
-
M G: darśanārthatā ↩︎
-
M G 1st ed.: -aśvagantrī- ↩︎
-
M G J: gurum ↩︎
-
M G’s reading assumes that this is all part of the Gautama quotation: nimantryāhared yadi syād ātmīyaṃ śaktyāgataṃ tadā dadyān nāvedyāstrādinārjayet ↩︎
-
M G 1st ed.: dharmaprayāsayatne ↩︎
-
M G: vṛttavad ↩︎
-
M G 1st ed.: śuśrūṣaitāṃ; G 2nd ed.: śuśrūṣatāṃ ↩︎