मनुस्मृतिः
मेधातिथिकृतभाष्यसहिता
मनुम् एकाग्रम् आसीनम् अभिगम्य महर्षयः ।
प्रतिपूज्य यथान्यायम् इदं वचनम् अब्रुवन् ॥ १.१ ॥
मेधातिथिः ...{Loading}...
वेदान्तवेद्यतत्त्वाय
जगत्त्रितयहेतवे ।
प्रध्वस्ताशेषदोषाय
परस्मै ब्रह्मणे नमः ॥ १ ॥
चतुर्भिः पदश्लोकैर् विशिष्टकर्तृत्वम् अनन्यप्रमाणवेद्यपुरुषार्थोपदेशकत्वं चास्य शास्त्रस्य प्रपाद्यते प्रतिष्ठार्थम् । प्रतिष्ठिते हि शास्त्रे कर्तृभिः स्वर्गयशसी प्राप्येते यावत् संसारम् अनपायिनी च भवतः । शास्त्रं च प्रतिष्ठां लभते यदि तत्र केचिद् अध्ययनश्रवणचिन्तनादिषु प्रवर्तन्ते । न च बुद्धिपूर्वव्यवहारिणो ऽध्ययनादिष्व् अनवधृतप्रयोजनाः प्रवर्तितुम् अर्हन्ति । अतः “पुरुषार्थसिद्धाव् उपायपरिज्ञानार्थम् इदं शास्त्रम् आरभ्यते” इत्य् एतत् प्रतिपादनार्थं श्लोकचतुष्टयम् आचार्यः पपाठ ।
-
न च वाच्यम्- अन्तरेणैवादितः प्रयोजनवचनं वक्ष्यमाणशास्त्रपौर्वापर्यपर्यालोचनयैवेदं पर्यवस्यामः किं तत्प्रतिपादनार्थेन यत्नेनेति । किं च । उक्तम् अपि प्रयोजनं यावत् परस्तान् नावमृष्टं तावन् न निश्चीयते । न हि सर्वाणि पुरुषवचांस्य् अर्थे निश्चयनिमित्तम् । न चैष नियमः सर्वत्र प्रयोजनपरिज्ञानपूर्विकैव प्रवृत्तिः स्वाध्यायाद्ययने ऽतन्निबन्धनायाः प्रवृत्तेर् दर्शनात् । पौरुषेयेष्व् अपि ग्रन्थेषु नैव सर्वेषु प्रयोजनाभिधानम् आद्रियते । तथा हि । भगवान् पाणिनिर् अन्नुक्त्वैव प्रयोजनम् “अथ शब्दानुशासनम्” इति सूत्रसंदर्भम् आरभते ।
-
अत्रोच्यते । आरम्भे ऽनवधृतप्रयोजना नैव प्रथमतो ग्रन्थम् उपाददीरन् । अनुपादानाच् च कुतः शास्त्रं कार्त्स्न्येन पर्यालोचयेयुः । किं च पौर्वापर्यपर्यालोचनया यो ऽर्थो बुद्धिगोचरताम् आवहति स एव त्व् आदितः संक्षेपेणोच्यमानः सुग्रहो भवति । तद् उक्तम्-
-
इष्टं हि विदुषां लोके समासव्यासधारणम् । इति ।
-
यत् तु “उक्तम् अपि न निश्चीयते पौरुषेयेभ्यो वाक्येभ्यो ऽर्थनिश्चयाभावात् । एवम् एवायं पुरुषो वेदेति प्रत्ययो न त्व् एवमर्थः” इति । नात्र विवदामहे निश्चयो ऽस्ति नास्तीति । ग्रन्थगौरवप्रसङ्गात् । अर्थसंशये ऽपि प्रवृत्तिसिद्धौ नियतविषयसंशयोत्पत्तिर् नान्तरेण प्रयोजनवचनम् । अनुक्ते हि किम् इदं धर्मशास्त्रम् अर्थशास्त्रं काकदन्तपरीक्षादिलक्षणरूपं वेत्य् अपि संशयः स्यात् । अभिहिते तु प्रयोजने “अयं तावद् एवम् आह नः ऽश्रेयसः पन्थानं दर्शयामि; इति । न च मे प्रवृत्तस्य काचित् क्षतिर् अस्ति । भवतु, पर्यालोचयामि” इति प्रवृत्तिसिद्धिः ।
-
या तु स्वाध्यायाध्ययने प्रवृत्तिः साचार्यप्रयुक्तस्य, न स्वाधिकारप्रतिपत्त्या । न हि तदानीं बालत्वात् स्वाधिकारं प्रतिपत्तुम् उत्सहते । परप्रयुक्त्यैव च प्रवृत्तिसिद्धिः । नाधिकारप्रतिपादनेनापि चावेद्यते । अतस् तत्र प्रवृत्तस्य प्रयोजनम् अर्थावबोधो ऽतश् च प्रवृत्तिः । इह तु,
-
यो ऽनधीत्य द्विजो वेदम् अन्यत्र कुरुते श्रमम् । (म्ध् २.१६८)
इति गृहीतवेदस्याध्ययनाधिकारः । तदानीं चाभ्युत्पन्नबुद्धित्वात् प्रयोजनम् अन्विच्छति । भगवतः पुनः पाणिनेर् अतिसंक्षिप्तानि सूत्राणि । नैवार्थान्तराभिधानपरत्वाशङ्का । तत्र आकुमारं च यशः पाणिनेः प्रख्यातम् इति सुप्रसिद्धप्रयोजनत्वाद् अनुपन्यासः । अयं तु विततो ग्रन्थो ऽनेकार्थवादबहुलः सर्वपुरुषार्थोपयोगी । तत्र सुखावबोधार्थे प्रयोजनाभिधाने न किंचित् परिहीणम् ।
-
द्वये च प्रतिपत्तारो न्यायप्रतिसरणाः प्रसिद्धिप्रतिसरणाश् च । तत्र “मनुर् वै यत् किंचावदत् तद् भेषजम्” इति (म्स् २.१.५) ।
-
ऋचो यजूंषि सामानि मन्त्रा आर्थर्वणाश् च ये ।
-
सप्तर्षिभिस् तु यत् प्रोक्तं तत् सर्वं मनुर् अब्रवीत् ॥
इत्याद्यर्थवादेतिहासपुराणादिभ्यः प्रख्यातप्रभावो लोके तत्प्रसिद्ध्यैव वा निरूपितमूलपातेन प्रजापतिनैतत् प्रणीतम् इत्य् एतावतैव श्रोत्रियाः प्रवर्तन्त इति । तान् प्रति कर्तृविशेषसंबन्धो ऽपि प्रवृत्त्यङ्गम् । अत एव च प्रश्नप्रतिवचनभङ्ग्या प्रयोजनोपन्यासः । महर्षयः प्रष्टारः प्रजापतिर् वक्ता, धर्मलक्षणश् चार्थो न लोकावगम्यः शास्त्रैकगोचरो ऽयम् । यत्र महर्षयो ऽपि संशेरत इत्य् एवंपर आदेशो ऽपि । स तैः पृष्ट इति नाहं पृष्ट इति । तथात्मनो ब्रह्मणो ऽकृत्रिमप्रतिमत्वं चेत्य् एवमादिः । तद्व्युत्पादनार्थो युक्तः शास्त्रारम्भ इति श्लोकचतुष्टयस्य तात्पर्यम् ।
-
यथा चानेन पुरुषार्थोपदेशपरता शास्त्रस्योच्यते तथा पदार्थयोजनात् प्रतिपादयिष्यामः ।
-
तत्र मनुम् अभिगम्य महर्षय इदं वचनम् अब्रुवन्- “धर्मान् नो वक्तुम् अर्हसि” (म्ध् १.२) इति । स पृष्टः प्रत्युवाच- “श्रूयताम्” इति (म्ध् १.४) । एवं प्रश्नप्रतिवचने एकार्थप्रतिपादके तात्पर्येण भवतः । अतो धर्मा अत्र प्रतिपाद्यन्त इत्य् उक्तं भवति । धर्मशब्दश् च लोके श्रेयःसाधने प्रत्यक्षादिभिर् लौकिकैः प्रमाणैः शब्दाद् इतरैर् अविहिते प्रयुज्यते । अतः स श्रूयताम् इति संबन्धे विशिष्टपुरुषार्थसाधनत्वम् उक्तं भवति ।
-
मनुर् नाम कश्चित् पुरुषविशेषो ऽनेकवेदशाखाध्ययनविज्ञानानुष्ठानसंपन्नः स्मृतिपरंपराप्रसिद्धः । तम् अभिगम्य आभिमुख्येन तत्समीपं गत्वा, व्यापारान्तरत्यागेन न यदृच्छया संगम्य । अनेन चाभिगमनप्रयत्नेन पृच्छ्यमानवस्तुगौरवं वक्तुश् च प्रामाण्यं ख्याप्यते । न ह्य् अकुशलः प्रतिवचने यत्नेन पृच्छ्यन्ते आगत्य ।
-
एकाग्रम् आसीनम् एकाग्रं स्थितम् एकाग्रं सन्तम् । न त्व् अत्र बृस्याद्युपवेशनम् आसनम् अनुपयोगात् । आसनेन स्वस्थवृत्तिता लक्ष्यते । तथाभूतः प्रतिवचनसमर्थो भवति । अभिगम्येति केवल एव मनुः कर्म । प्रश्नक्रियायास् त्व् एकाग्रम् आसीनम् इति विशेषणम् । कुशलप्रश्नानुरूपकथाप्रवृत्त्यादिनैकाग्रम् अविक्षिप्तमनस्कं ज्ञात्वा प्रश्नश्रवणे दत्तावधानम् इदं वचनम् अब्रुवन् ।
-
एकाग्रशब्दो रूढ्या निश्चलताम् आह । प्रत्याहारेण परिहृतरागादिदोषसंसर्गस्य विकल्पनिवृत्तौ तत्त्वावबोधचिन्तायां मनसः स्थैर्यम् एकाग्रता । तथाभूत एव च संनिहितरूपशब्दादिविषयावधारणे योग्यो भवति, न सदसद्विकल्पयुक्तः । अथ वा योगतो ऽग्रशब्दो मनसि वर्तते, अर्थग्रहणे चक्षुरादिभ्यो ऽग्रगामित्वात् । प्रथमप्रवृत्तियुक्तः पुरःसरो लोके ऽग्र उच्यते । एकस्मिन् ध्येये ग्राह्ये वाग्रम् अस्येति विग्रहः, व्यधिकरणानाम् अपि बहुव्रीहिर् गमकत्वात् । अत्रापि व्याक्षेपनिवृत्तिर् एवैकाग्रता ।
-
प्रतिपूज्य यथान्यायम् । न्यायः शास्त्रविहिता मर्यादा । ताम् अनतिक्रम्य यादृशी सास्त्रेणाभिवादनोपासनादिका गुरोः प्रथमोपसर्पणे पूजा विहिता तथा पूजयित्वा भक्त्यादरौ दर्शयित्वा ।
-
महर्षयः । ऋषिर् वेदः, तदध्ययनविज्ञानतदर्थानुष्ठानातिशययोगात् पुरुषे ऽप्य् ऋषिशब्दः । महान्तश् च ते1 ऋषयश् च । तेषाम् एव गुणानाम् अत्यन्तातिशयेन महान्तो भवन्ति । यथा “युधिष्ठिरः श्रेष्ठतमः कुरूणाम्” इति । अथ वा तपोविशेषात् पूजाख्यातिविशेषाद् वा महान्तः ।
- इदं वचनम् अब्रुवन् । उच्यते ऽनेनेति वचनम् । वक्ष्यमाणं द्वितीयश्लोकप्रश्नवाक्यम् इति, तद् एव प्रत्यासन्नत्वाद् इदम् इति प्रतिनिर्दिशति । येषाम् अपि प्रत्यक्षवस्तुप्रतिनिर्देशक इदंशब्दस् तेषाम् अपि बुद्धिस्थत्वात् प्रश्नस्य प्रत्यक्षता । अथ वोच्यत इति वचनं पृच्छ्यमानं वस्त्व् अब्रुवन्, वाक्यपक्ष इदं वाक्यम् उच्चारितवन्तः । कर्मसाधने तु वचनशब्द इदम् अपृच्छन् । द्विकर्मकश् च तदा ब्रूञ् अकथित्कर्मणा मनुना । तिसृणां क्रियाणां मनुः कर्म ॥ १.१ ॥
अभिगम्य प्रतिपूज्य किं अब्रुवन्न् इत्य् अपेक्षायां द्वितीयः श्लोकः ।
भगवन् सर्ववर्णानां यथावद् अनुपूर्वशः ।
अन्तरप्रभवानां च धर्मान् नो वक्तुम् अर्हसि ॥ १.२ ॥
मेधातिथिः ...{Loading}...
ऐश्वर्यौदार्ययशोवीर्यादौ भगशब्दः । सो ऽस्यास्तीति, मनुः । तेन संबोधनं भगवन्न् इति । वर्णशब्दश् च तिसृषु ब्राह्मणादिजातिषु वर्तते । सर्वग्रहणं शूद्रावरोधार्थम् । इतरथा महर्षीणां प्रष्टृत्वात् त्रैवर्णिकविषये च प्रश्नः कृतः स्यात् । अन्तरं तन्मध्यम् । द्वयोर् जात्योः संकराद् एकाप्य् अपरिपूर्णा जातिः । अन्तरे प्रभव उत्पत्तिर् येषां ते अन्तरप्रभवाः अनुलोमप्रतिलोमा मूर्धावसिक्ताम्बष्ठक्षत्तृवैदेहिकादयः2 । न हि ते मातापित्रोर् अन्यतरयापि जात्या व्यपदेष्टुं युज्यन्ते । यथा रासभाश्वसंयोगतः खरो न रासभो नाश्वो जात्यन्तरम् एव । अतः वर्णग्रहणेनाग्रहणात् पृथग् उपादीयन्ते ।
- ननु अनुलोमा मातृजातीया इष्यन्ते । नेति ब्रूमः । सदृशान् एव तान् आहुर् इति मातृजातिसदृशास् ते न तज्जातीया एव । सो ऽप्य् एषां धर्मो वाचनिको न वस्तुस्वभावसिद्धः । अतः प्रमाणान्तरगोचरत्वाद् धर्मपक्षपतितत्वे शास्त्रोपदेशार्हा एव । प्रतिलोमानाम् अप्य् अहिंसादयो धर्मा वक्ष्यन्ते । यत् तु धर्महीना इति तद्व्रतोपवासादिधर्माभावाभिप्रायेण । सर्वपुरुषोपकारिता चानेन शास्त्रस्य प्रदर्श्यते ।
यथावत् । “अर्हत्य् अर्थे वतिः” येन प्रकारेणानुष्ठानम् अर्हति । इदं नित्यम् इदं काम्यम् इदम् अङ्गम् इदं प्रधानं द्रव्यदेशकालकर्त्रादिनियमश् च प्रकारो ऽर्हतेर् विषयः ।
अनुपूर्वशः** । आनुपूर्वी3 क्रमः । येन क्रमेणानुष्ठेयानि सो ऽप्य् उच्यताम् । “जातकर्मानन्तरं चौडमौञ्जीनिबन्धनेत्यादि” । यथावद् इत्य् अत्र पदार्थविषयं कार्त्स्न्यम् उपात्तम् । क्रमस् तु पदार्थो न भवत्य् अतः पृथग् अनुपूर्वश इत्य् उपात्तम् ।
J : anupūrvaḥ
-
धर्मशब्दः कर्तव्याकर्तव्यतयोर् विधिप्रतिषेधयोर् अदृष्टार्थोस् तद्विषयायां च क्रियायां दृष्टप्रयोगः । तस्य तु किम् उभयं पदार्थ उतान्यतरत्र गौण इति नायं विचारः क्रियते । ग्रन्थान्तरे विस्तरेण कृतत्वाद् इहानुपयोगाच् च । सर्वथा तावत् “अष्टकाः कर्तव्याः” “न कलञ्जं भक्षयेत्” इत्यादाव् अष्टकाविषया कर्तव्यता प्रतीयते, कलञ्जभक्षणविषयश् च प्रतिषेधः । तद् अष्टकाख्यं कर्म धर्मस् तद्विषया वा कर्तव्यतेति फले न विशेषः । धर्मरूपोपदेशाच् च यत् तद्विपरीतम् अधर्मो ऽसाव् इत्य् अर्थात् सिध्यति । अतो धर्माधर्माव् उभाव् अपि शास्त्रस्य विषय इत्य् उक्तं भवति । तत्राष्टकाकरणं धर्मो ब्रह्महत्यादिवर्जनं च धर्मः । अष्टकानाम् अकरणम् अधर्मो ब्रह्महत्यायाश् च करणम् अधर्मः । अयं धर्माधर्मयोर् विवेकः ।
-
**अर्हसीति **सामर्थ्यलक्षणया योग्यतया प्रवचनाधिकारम् आचार्यस्याहुः । यतस् त्वं समर्थो धर्मान् वक्तुम्, अतो ऽधिकृतः सन्न् अध्येष्यसे ब्रूहीति । यो यत्राधिकृतस् तत् तेन कर्तव्यम् इति सामर्थ्यगम्यं ब्रूहीत्य् अध्येषणापदम् अध्याह्रियते ॥ १.२ ॥
उक्तम् अदृष्टार्थे व्यापारमात्रे धर्मशब्दो वर्तते । तत्र यथाष्टकादौ तस्य प्रयोग एवं चैत्यवन्दनादाव् अपीति । तत्र कतमे धर्मा अत्रोच्यन्त इति संशये धर्मविशेषप्रतिपादनार्थम् उक्तसामर्थ्योपादनार्थं4_ च “त्वम् एक इति” ।_
त्वम् एको ह्य् अस्य सर्वस्य विधानस्य स्वयंभुवः ।
अचिन्त्यस्याप्रमेयस्य कार्यतत्वार्थवित् प्रभो ॥ १.३ ॥
मेधातिथिः ...{Loading}...
त्वम् एव एको ऽसहायो ऽद्वितीयः । सर्वस्य विधानस्य कार्यतत्वार्थवित् । विधानं शास्त्रं विधीयन्ते ऽनेन कर्माणीति । तस्य स्वयंभुवो नित्यस्याकृतकस्यापौरुषेयस्य वेदाख्यस्य । सर्वस्य प्रत्यक्षाक्षरस्यानुमेयाक्षरस्य च । “अग्निहोत्रं जुहुयाद् अयं5 सहस्रमानव इत्य् एतया6 आहवनीयम् उपतिष्ठते” इति प्रत्यक्ष एव वेदो ऽयं होमं विधत्ते । एतयेति च तृतीयया प्रत्यक्षस्यैव मन्त्रस्याहवनीयोपस्थाने विनियोगः । “अष्टकाः कर्तव्याः” इत्य् अत्र तु स्मृत्यानुमीयते वेदः । “बर्हिर् वेदसदनं दामि” इति लिङ्गाद् अनेन बर्हिर् लुनातीति श्रुतेर् अनुमानम् । अयं हि मन्त्रो दर्शपूर्णमासप्रकरणे पठितो बर्हिर् लवनं च तत्राम्नातम् । अनेन मन्त्रेण लुनीयात् इत्य् एतत् तु नास्ति । मन्त्रः पुना रूपाद् बर्हिर्लवनप्रकाशनसमर्थः । प्रकरणात् सामान्यतः सिद्धो दर्शपूर्णमाससंबन्धः । स्वसामर्थ्येन तु बर्हिर्लवने प्रयुज्यते । एष ह्य् अत्र प्रतीतिः । प्रकरणाद् दर्शपूर्णमासाव् अनेन मन्त्रेण कुर्यात् । कथम् इति । यथा शक्नुयाद् इत्य् अनुक्तापि शक्तिः सर्वत्र सहकारिणी । किं च शक्नोति मन्त्रः कर्तुं । बर्हिर्लवनं प्रकाशयितुम् । ततः प्रकरणात् स्वसामर्थ्याच् चानेन मन्त्रेण “बर्हिर् लुनाति” इति बुद्धौ शब्द आगच्छति । सविकल्पकविज्ञानैः पूर्वं शब्दः प्रतीयत इति । स बुद्धिस्थः शब्दो ऽनुमेयो वेद उच्यते । वेदत्वं च तस्य दर्शपूर्णमासवाक्यमन्त्रवाक्याभ्यां श्रुत्यन्तराभ्यां स्वसामर्थ्येनोत्थापितत्वाद् इति कुमारिलपक्षः ।
- अथ वा विधिर् विधानम् अनुष्ठानं प्रयोजनसंपत्तिः । तस्य स्वयंभुवो नित्यस्यानादिपरंपरायातस्य, स्वयंभुवा वेदेन वा प्रतिपाद्यस्य, सर्वस्य श्रूयमाणाक्षरप्रतिपाद्यस्य प्रतिपन्नार्थसामर्थ्यगम्यस्य च । द्विविधो हि वैदिको विधिः । कश्चित् साक्षाच् छब्दप्रतिपाद्य्ः । यथा “सौरं चरुं निर्वपेत् ब्रह्मवर्चसकामः” इति सौर्ये चरौ7 ब्रह्मवर्चसकामो ऽधिक्रियते । तस्य चरोर् ब्रह्मवर्चसं साधयत इयम् इतिकर्तव्यता आग्नेयवद् इत्य् अवगम्यते8 । उभयत्रापि चेयं प्रतीतिः शब्दावगममूलत्वात्9 शब्द एव । उभाव् अपि शब्दाद् अभिधानतः प्रतीयते, तथा अभिधेयप्रतिपत्तितः । विशेषस् तु व्यवधानादिकृतो न शब्दतां विहन्ति । यथा वापीथम् उदकं हस्तेनाभिहतं प्रदेशान्तरम् अभिहन्ति तद् अपि हतसंयोगेनैवाभिहतं भवति न तु साक्षात् । शर्कराणां रेचककर्मण्याद्यप्रयत्नकृता एवोत्प्लुत्योत्प्लुत्य पाताः । तादृशम् एततत् । वैकृते कर्मणि विशिष्टेतिकर्तव्यतासंबन्धः । एवं “विश्वजिता यजेत” इत्य् उत्पत्तिर् नाधिकारशून्यास्तीति स्वर्गकाम इत्य् अधिकारावगतिः प्रतिपन्नार्थसामर्थ्यगम्या । अतो10 वैरूप्यं विधानस्य सर्वस्येतिपदं सर्वस्य तात्पर्यम् एवं रूपं, वेदमूलाः स्मृतय इति ज्ञापयितुम् । द्वितीये चैतद् दर्शयिष्यामः ।
-
ननु लिङ्गादिप्रतिपाद्यो ऽर्थः कर्तव्यतारूपो विधिः । स च सर्वत्र प्रत्यक्षशब्दप्रतिपाद्य एव । तत्र किम् उच्यते द्विविधो हि वैदिको विधिर् इति । निर्वपेद् इति कर्तव्यतावगम्यते । इतिकर्तव्यतार्थसामर्थ्यगम्या उक्तेन प्रकारेण ।
-
नैष दोषः । निर्वपेद् यजेतेति न केवले धात्वर्थविषयत्वे ऽवगते परिपूर्णा कर्तव्यता भवति । यावद् अंशान्तराण्य् अधिकारेतिकर्तव्यताप्रयोगरूपाणि नावगतानि । एतैर् अंशैर् विततरूपो विधिः प्रतीयते । अतो ऽंशरूपाण्य् अपि विधिशब्दाभिलप्यतया न विरुद्धानि ।
-
एतद् एवाह । अचिन्त्यस्येति । अप्रत्यक्षस्येत्य् अर्थः । प्रत्यक्षं ह्य् अनुभूयत इत्य् उच्यते, न चिन्त्यते इति, न स्मर्यत इति । अप्रमेयस्य कल्प्यस्य प्रायशः स्मृतिवाक्यमूलस्य । न हि प्रत्यक्षेण प्रमीयते । अतो ऽप्रेमेयस्येत्य् उच्यते । अथ वाप्रमेयस्येयत्तया परिमातुम् अशक्यस्यातिमहत्त्वात् । अनेकशाखाभेदभिन्नो वेदो न शक्यते सर्वैः प्रमातुम् । अत एवाचिन्त्यस्य । यद् अतिबहु तद् दुर्ग्रहत्वाद् अचिन्त्यम् इत्य् उच्यते । यथा च लोके वक्तारो भवन्ति, “अन्येषां का गतिः, चिन्तयितुम् अप्य् एतन् न युज्यते” इति । मनः किल सर्वविषयम् । अयं चातिमहत्त्वात् तस्यापि न विषय इति । पदद्वयेन बाह्यान्तःकरणविषयतया महत्त्वस्य ख्यापनेनाचार्यः प्रोत्साह्यते । त्वयैव केवलेनैवंविधो वेद आगमितो ऽतस् तस्य यः कार्यरूपस् तत्त्वार्थस् तम् वेत्सि जानीषे ।
-
कार्यम् अनुष्ठेयम् उच्यते । यत्र पुरुषो ऽनुष्ठातृत्वेन विनियुज्यते- इदं त्वया कर्तव्यम्, इदं त्वया न कर्तव्यम् इत्य्; अग्निहोत्रादि कर्तव्यम् कलञ्जभक्षणादि न कर्तव्यम् । प्रतिषेधो ऽप्य् अनुष्ठानम् एव । यद् ब्राह्मणवधस्याननुष्ठानं तद् एव प्रतिषेधस्यानुष्ठानम् । प्रवृत्तिश् च क्रिया निवृत्तिश् च क्रियेति । न हि परिस्पन्दनमानसाधनसाध्यम् एवानुष्ठानम् उच्यते । किं तर्हि । प्राप्ते तद्रूपे तन्निवृत्तिर् अपि । यथा “हितसेवी चिरायुः” इति । यः प्राप्ते काले भुङ्के ऽप्राप्ते न भुङ्के । अभोजनम् अपि हितम् एव ।
-
अथ वा कार्यशब्दः प्रदर्शनार्थो विधेः प्रतिषेधस्य च । एतावद् एव11 वेदस्य तत्त्वरूपः पारमार्थिको ऽर्थः । यस् त्व्12 इतिवृत्तसंवर्णनरूपः “सो ऽरोदीद् यद् अरोदीत् तद् रुद्रस्य रुद्रत्वम्” (त्स् १.५.१.१; निर् १०.५) इति स न तत्त्वार्थः, विध्यन्तरेणैकवाक्यत्वात् प्रशंसापरत्वेन स्वार्थनिष्ठत्वाभावात् । अस्ति ह्य् अत्र विध्यन्तरम् “तस्माद् बर्हिषि रजतं न देयम्” (त्स् १.५.१.२) इति । “सो ऽरोदीत्” इत्यादीनि “पुरास्य संवत्सराद् गृहे रोदनं भवति” इत्यन्तानि (स् १.५.१.१–२) तद् एकवाक्यतापन्नानि बर्हिषि रजतदाननिन्दया तत् प्रतिषेधं स्तुवन्ति । तद् उक्तं “साध्ये ऽर्थे वेदः प्रमाणं, न सिद्धरूपे” । अर्थवादानां हि सिद्धरूपो ऽर्थः । न हि तदर्थस्य कर्तव्यता प्रतीयते । विध्युपदेशपरत्वं च प्रतीयते । यदि च स्वार्थपरा अपि स्युस् तदा विधिपरत्वं व्याहन्येत । ततश् च प्रतीयमानैकवाक्यता बाध्येत । न च संभवत्य् एकवाक्यत्वे वाक्यभेदो न्याय्यः । न च साध्यस्य सिद्धार्थपरत्वेनैकवाक्यता घटते । तथा हि न किंचिद् वेदेनोपदिश्यते कर्तव्यम् । अतश् चाप्रमाणम् एव वेदः स्यात् । विध्यर्थता चावगम्यमाना लिङादीनां त्यक्ता स्यात् । तस्मात् कार्यरूपो13 वेदस्य तत्त्वार्थ इति मनुर् भगवान् आह । जैमिनिनाप्य् उक्तं कार्ये ऽर्थे वेदः प्रमाणम् “चोदनालक्षणो ऽर्थो धर्मः” (प्म्स् १.१.२) इति ।
- अतश् च निरवशेषपदार्थपरिज्ञानातिशययोगाद् धर्मप्रवचनसामर्थ्यं सिद्धवद् उपादाय, प्रभो इत्य् आमन्त्रणम् । “हे प्रभो धर्माभिधानशक्त त्वम् अनुब्रूहि धर्मान्” इति । एवम् अनया त्रिश्लोक्या धर्मान् पृष्ट उत्तरेण श्लोकेन प्रतिजज्ञे ॥ १.३ ॥
स तैः पृष्टस् तथा सम्यग् अमितौजा महात्मभिः ।
प्रत्युवाचार्च्य तान् सर्वान् महर्षीञ्च् छ्रूयताम् इति ॥ १.४ ॥
मेधातिथिः ...{Loading}...
स मनुर् अमितौजास् तैर् महर्षिभिर् महात्मभिः पृष्टस् तथा तान् प्रत्युवाच । श्रूयताम् इति । तथा तेन प्रागुक्तेन प्रकारेण । पृच्छ्यमानवस्तु प्रश्नविधिश् च प्रकारवचने तथाशब्दे ऽन्तर्भूतः । तेनायम् अर्थस् तथा पृष्टस् तान् धर्मान् पृष्टः प्रत्युवाच । अथ वा तथेति प्रकारमात्रम् आचष्टे । पृष्ट इति पूर्वश्लोकात् पृच्छ्यमानविशेषो बुद्धौ विपरिवर्तत एव । तेन यत् पृष्टस् तत् प्रत्युवाच श्रूयताम् इति प्रश्नप्रतिवचनयोर् एककर्मता सिद्धा भवति । तदा च तथाशब्दः श्लोकपूरणार्थः । आद्ये तु व्याख्याने तथाशब्दोपात्तैव प्रश्नप्रतिवचनयोर् एककर्मता । सम्यक्शब्दः प्रतिवचनविशेषणम् । सम्यक् प्रत्युवाच । प्रसन्नेन मनसा न क्रोधादियोगेन । अमितौजा अक्षीणवाग्विभवः- अमितम् अनन्तम् ओजो वीर्यम् अभिधानसामर्थ्यम् अस्येति । महात्मतया महर्षीणां धर्मप्रष्ट्रत्वं महर्षित्वं चाविरुद्धम् इत्य् आह- महर्षीन् इति । “परार्थकारी सततं महात्मा” इत्य् उच्यते । तेन यद्य् अपि स्वयं विदांसो ऽधिगतयाथातथ्याः, अन्यथा महर्षित्वानुपपत्तेः, तथापि पराथम् अपृच्छन् । मनुः प्रख्याततरप्रमाणभावः । एतेन यद् उच्यते तल् लोकेनाद्रियते । प्रत्ययतो ऽयं समुपास्यते ऽतः शास्त्रावतारार्थम् उपाध्यायीकुर्मः । अस्माभिश् च पृच्छ्यमानः प्रमाणतरीकरिष्यते जनेनेति । अत एव्आर्च्य तान् सर्वान् इत्य् अर्चनम् अविरुद्धम् । अन्यथा शिष्यस्योपाध्यायात् कीदृश्य् अर्चेति । अर्चयतेर् आङ्पूर्वस्य ल्यबन्तस्य रूपम् आर्च्येति । पाठान्त्रम् “अर्चयित्वा तान्” इति ।
-
अत्र यद् उच्यते । यदि मनुनायं ग्रन्थः कृतः परापदेशो न युक्तः “स तैः पृष्टः प्रत्युवाच” इति । “अहं पृष्टः प्रत्यब्रवम्” इति न्याय्यम् । अथान्यतर एव ग्रन्थस्य कर्ता मानवव्यपदेशः कथम् इति ।
-
तद् अचोद्यं । प्रायेण ग्रन्थकाराः स्वमतं परापदेशेन ब्रुवते- “अत्राह,” “अत्र परिहरन्ति” इति नैवम् “अहं तैः पृष्टः” इति । यो यः पूर्वतरः स स प्रमाणतरो लोकेनाभ्युपगम्यते14- “तत् प्रमाणं बादरायणस्य” इति । अथ वा भृगुप्रोक्ता संहितेयं । मानवी तु स्मृतिरूपनिबद्धेति मानवव्यपदेशः । प्रत्युवाच तान् महर्षीन् । किं तत् । यद् अहं पृष्टस् तत् श्रूयताम् इति ॥ १.४ ॥
आसीद् इदं तमोभूतम् अप्रज्ञातम् अलक्षणम् ।
अप्रतर्क्यम् अविज्ञेयं प्रसुप्तम् इव सर्वतः ॥ १.५ ॥
मेधातिथिः ...{Loading}...
क्व अस्ताः क्व निपतिताः । शास्त्रोक्तनिपतितधर्मान् पृष्टस् तान् एव वक्तव्यतया प्रतिज्ञाय जगतो ऽव्याकृतावस्थावर्णनम् अप्रकृतम् अपुरुषार्थं च । सो ऽयं सत्यो जनप्रवादः "आम्रान् पृष्टः कोविदारान् आचष्टे" इति । न चास्मिन् वस्तुनि प्रमाणं न च प्रयोजनम् इत्य् अतः सर्व एवायम् अध्यायो नाध्येतव्यः ।
-
उच्यते । शास्त्रस्य महाप्रयोजत्वम् अनेन सर्वेण प्रतिपाद्यते । ब्रह्माद्याः स्थावरपर्यन्ताः संसारगतयो धर्माधर्मनिमित्ता अत्र प्रतिपाद्यन्ते ।
-
तमसा बहुरूपेण वेष्टिताः कर्महेतुना" (म्ध् १.४९) इति ।
वक्ष्यति च-
-
एता दृष्ट्वा तु जीवस्य गतीः स्वेनैव चेतसा ।
-
धर्मतो ऽधर्मतश् चैव धर्मे दध्यात् सदा मनः ॥ इति । (म्ध् १२.२३)
ततश् च निरतिशयैश्वर्यहेतुर् धर्मस् तद्विपरीतश् चाधर्मस् तद्रूपपरिज्ञानार्थम् इदं शास्त्रं महाप्रयोजनम् अध्येतव्यम् इत्य् अध्यायतात्पर्यम् । सूत्रं त्व् अत्र मन्त्रार्थवादाः सामान्यतो दृष्टं च । तथा च मन्त्रः ।
-
तम आसीत् तमसा गूऌहम् अग्रे ऽप्रकेतम् सलिलं सर्वम् आ इदम् ।
-
तुच्छेनाभ्वपिहितं यदासीत् तपसस्15 तन् महिनाजयतैकम् ॥ (र्व् १०.१२९.३)
चन्द्रार्काग्न्यादिषु बाह्याध्यात्मिकेषु महाप्रलये प्रकाशकेषु नष्टेषु तम एव केवलम् आसीत् । तद् अपि तमः स्थूलरूपतमसा गूढं संवृत्तम् । न हि तदानीं कश्चिद् अपि ज्ञातास्ति । अतो ज्ञातुर् अभावान् न कस्यचित् ज्ञानम् अस्तीति तमसा गूढम् उच्यते । अग्ने भूतसृष्टेः प्राक् अप्रकेतम् अज्ञातं सर्वं आः आसीत् । इदं सलिलं सरणधर्मकम् क्रियावत् यत् किंचिच् चेष्टावत् तत् सर्वं निश्चेष्टम् आसीत् । तुच्छेन सूक्ष्मेणाभु स्थूलम् अपिहितं प्रकृत्यात्मनि विशेषरूपं लीनम् इत्य् अर्थः । एतावताव्याकृतावस्था जगतो द्योतिता । चतुर्थेन पादेनाद्या सृष्ट्यवस्थोच्यते । तपसस्16 तन् महिना महत्त्वेन एकं यद् आसीत् तद् अजायत विशेषात्मनाभिव्यज्यते स्म । कर्मवाशात् पुनः प्रादुर् बभूवेत्य् अर्थः । अथ वा तस्याम् अवस्थायां तपःकर्मणा17 महत्त्वेन हिरण्यगर्भ आत्मनाजायत प्रादुर् आसीत् । यथा वक्ष्यति “ततः स्वयंभूः” इति (म्ध् १.६ ) ।
-
सामान्यतो दृष्टेन महाप्रलयो ऽपि संभाव्यते । यस्य ह्य् एकदेशे नाशो दृष्टस् तस्य सर्वस्यापि नाशो दृश्यते । यथा शालापि क्वचिद् दह्यमाना दृष्टा कदाचित् सर्वो ग्रामो दह्यते । ये च कर्तृपूर्वा भावास् ते सर्वे विनश्वरा गृहप्रासादादयः । कर्तृपूर्वं चेदं जगत् सरित्समुद्रशैलाद्यात्मकम् । अतो गृहादिवन् नङ्क्ष्यतीति संभाव्यते । कर्तृपूर्वतैव न सिद्धेति चेत्, तन्निवेशविशेषवत्वादिना गृहादिवत् सापि साध्यत इत्यादि सामान्यतो दृष्टम् ।
-
न च प्रमाणशुद्धौ तदूषणे वा प्रयतामहे ऽनिन्दंपरत्वाच् छास्त्रस्य । एतद् धि यावन् न विचार्य निरूपितं तावन् न सम्यग् अवधार्यते । तथानिरूपणे च तर्कशास्त्रता स्यान् न धर्मशास्त्रता ग्रन्थविस्तरश् च प्रसज्यते ।
-
प्रक्रियाबहुलं चेदं सर्वम् उपन्यसिष्यते । क्वचित् पौराणी प्रक्रिया, क्वचित् सांख्यानाम् । न तया ज्ञातयाज्ञातया वा कश्चिद् धर्माधर्मयोर् विशेष इति निपुणतया न निरूप्यते । अर्थिता चेत् तत एवान्वेष्या । पदार्थयोजनाव्याख्यानमात्रं त्व् अध्यायस्योपदिश्यते तद् एव करिष्यामः । तात्पर्यम् उपदर्शितम् एव ।
-
आसीद् इदं जगत् तमोभूतं तम इव । भूतशब्दो ऽनेकार्थो ऽप्य्18 उपमायां प्रयुक्तः । यथा “यत् तद् भिन्नेष्व् अभिन्नं छिन्नेष्व् अच्छिन्नं सामान्यभूतं स शब्दः” इति सामान्यभूत इति सामान्यम् इवेत्य् अर्थः । किं तमसा जगतः सादृश्यम् अत आह- अप्रज्ञातम् । विशेषाणां स्वभावानां विकाराणां प्रकृताव् उपलयनाद् अतः प्रत्यकेणाज्ञातम् । अनुमानात् तर्हि ज्ञायेत । तद् अपि चालक्षणम् । लक्षणं लिङ्गं चिह्नम्, तद् अपि तस्याम् अवस्थायां प्रलीनम् एव, सर्वविकाराणां विशेषात्मना विनष्टत्वात् । अप्रतर्क्यम् । यद्रूपम् आसीत् तर्कयितुम् अपि न तद्रूपतया शक्यम् । तर्कप्रकारम्19 अनुमानं निषेधति । न सामान्यतो दृष्टम् अनुमानम् अस्ति । तद्रूपकावेदकं न विशेषतो दृष्टम् अतश् चाविज्ञेयम् ।
- नैव तर्ह्य् आसीद् असद् एवाजायतेति प्राप्तम् एतन् निषेधति- प्रसुप्तम् इव सर्वतः । नासतः सत उत्पत्तिः । उक्तं च “सद् एव सोम्येदम् अग्र आसीत् । कथम् असतः सज् जायेत” (छु ६.२.१–२) इत्याद्य् उपनिषत्सु । अतश् चाविज्ञेयम् अवच्छेदविषयैः प्रमाणैः । आगमात् तादृशाद् एव गम्यते । प्रसुप्तम् इव जाग्रत्स्वप्नवत्तां परित्यज्य संप्रसादावस्था सुषुप्तिर् दृष्टान्तत्वेनोपात्ता । यथा “अयम् आत्मा सुषुप्त्यवस्थायां निःसंबोधक्लेशप्रध्वस्ताशेषविकप आस्ते, न च नास्तीति शक्यते वक्तुम्, प्रबुद्धस्य सुखम् अस्वाप्सम्” इति प्रत्यभिज्ञानदर्शनात् । एवं जगदागमात् सिद्धार्थरूपाद् आभासानुमानेभ्यश् च तार्किकाणाम् अवसीयते । आसीद् इति । वर्तमाना तु सावस्था न कस्यचित्20 विज्ञेयेत्य् अत उक्तम् अविज्ञेयम् । सर्वतो नैकदेशप्रलय इत्य् अर्थः ॥ १.५ ॥
ततः स्वयंभूर् भगवान् अव्यक्तो व्यञ्जयन्न् इदम् ।
महाभूतादिवृत्तौजाः प्रादुर् आसीत् तमोनुदः ॥ १.६ ॥
मेधातिथिः ...{Loading}...
तस्या महारात्र्या अनन्तरम् । स्वयं भवतीति स्वयंभूः । स्वेच्छया कृतशरीरपरिग्रहो न संसार्यात्मवत् कर्मपरतन्त्रं शरीरग्रहणम् अस्य । अव्यक्तो ध्यानयोगाभ्यासभावनावर्जितानाम् अप्रकाशः । अथ वा “अव्यक्तम् इदम्” इत्य् एवं पठितव्यम् । इदम् अव्यकावस्थं व्यञ्जयन् स्थूलरूपैर् विकारैः प्रकाशम् आनयन् । यद् इच्छया पुनर् जगत् प्रादुर् भवति । प्रादुर् आसीत् । प्रादुःशब्दः प्राकाश्ये । तमोनुदः । तमो महाप्रलयावस्था, ताम् नुदति विनाशयति पुनर् जगत् सृजत्य् अतस् तमोनुदः । महाभूतानि पृथिव्यादीनि । आदिग्रहणात् तद्गुणाः शब्दादयो गृह्यन्ते । तेषु वृत्तं प्राप्तम् ओजो वीर्यं सृष्टिसामर्थ्यं यस्य स एवमुक्तः । स्वयम् असमर्थानि महाभूतानि जगन् निर्वर्तयितुम् । यदा तु तेन तत्र शक्तिर् आधीयते तदा वृक्षाद्यात्मना21 विक्रियन्ते । न तु प्रकृतिशक्त्यवस्थानि प्रकृतिरूपापन्नानि महाभूतानि जगत्सर्गादौ महाभूतशब्देनाभिप्रेतानि । पाठान्तरम् “महाभूतानुवृत्तौजाः” इति । अनुवृत्तम् अनुगतम् इति प्रागुक्त एवार्थः ॥ १.६ ॥
यो ऽसाव् अतीन्द्रियग्राह्यः सूक्ष्मो ऽव्यक्तः सनातनः ।
सर्वभूतमयो ऽचिन्त्यः स एष22** स्वयम् उद्बभौ ॥ १.७ ॥**
मेधातिथिः ...{Loading}...
यो ऽसाव् इति सर्वनामभ्यां सामान्यतः प्रसिद्धम् इव परं ब्रह्मओद्दिशति । यो ऽसौ वेदान्तेष्व् अन्यासु चाध्यात्मविद्यास्व् इतिहासपुराणेषु च प्रसिद्धो वक्ष्यमाणैर् धर्मैः स एष प्रादुर् आसीद् इत्य् अत्रोक्तः । स्वयम् उद्बभाव् उद्भूतः शरीरग्रहणं कृतवान् । भातिर् अनेकार्थत्वाद् उद्भवे वर्तते । अथ वा दीप्त्यर्थ एव । स्वयंप्रकाश आसीन् नादित्याद्यालोकापेक्षः । इन्द्रियाणाम् अत्ययो23 ऽतीन्द्रियम् । अव्ययीभावः । अतीन्द्रियग्राह्यः सुप्सुपेतिसमासः । इन्द्रियाण्य् अतिक्रम्य गृह्यते, न कदाचिद् इन्द्रियस्य गोचरः । अन्यद् एव तद् योगजज्ञानं येन गृह्यते । अथ वेन्द्रियाण्य् अतिक्रान्तम् अतीन्द्रियम् मन उच्यते । परोक्षत्वाद् इन्द्रियाणाम् अविषयः । यथा च वैशेषिकाः “युगपज् ज्ञानानुत्पत्तिर् मनसो लिङ्गम्” (न्यास् १.१.१६) इत्य् आनुमानिकत्वं मनसः प्रतिपन्नाः । तेन गृह्यते । तथा च भवान् व्यासः-
-
नैवासौ चक्षुषा ग्राह्यो न तु शिष्टैर् अपीन्द्रियैः ।
-
मनसा तु प्रसन्नेन24 गृह्यते सूक्ष्मदर्शिभिः ॥ इति ।
प्रसन्नेन रागादिदोषैर् अकलुषितेन तदुपासनापरत्वेन लब्धसूक्ष्मदर्शनशक्तिभिः । सूक्ष्म इव सूक्ष्मो ऽनुः । न ह्य् असाव् अणुस्थूलादिविकल्पानाम् आश्रयः । सर्वविकल्पातीतो ह्य् असौ । उक्तं च-
-
यः सर्वपरिकल्पानाम् आभासे ऽप्य् अनवस्थितः ।
-
तर्कागमानुमानेन बहुधा परिकल्पितः ॥
-
व्यतीतो भेदसंसर्गाद् भावाभावौ क्रमाक्रमौ ।
-
सत्यानृते च विश्वात्मा स विवेकात् प्रकाशते ॥ इति ।
सूक्ष्मत्वाद् अवक्तः सनातनो ऽव्यक्तस्वाभाविकेनानादिनिधनेनैश्वर्येण युक्तः । येषाम् अपि कर्मप्राप्यं हैरण्यगर्भं पदं तन्मते ऽपि सनातनत्वं सत्य् अप्य् आदिमत्त्वे ऽन्तत्वाभावात् । न हि सर्गादिफलभोक्तृत्वावस्था कदाचिद् अपैति ।
-
सर्वाणि भूतानि मया स्रष्टव्यानीत्य् एवंभावितचित्तो भूतात्मा एवंसंपन्नः सर्वभूतमय इत्य् उच्यते । यथा मृन्मयो घटो मृद्विकारत्वान् मृद्भिर् आरब्धशरीर एवं यः कश्चित् किंचिद् अत्यन्तं भावयति स तन्मय इत्य् उपचाराद् उच्यते । यथा स्त्रीमयो ऽयं पुरुषः ऋङ्मयो यजुर्मय इति । अथ वाद्वैतदर्शने- नैव चेतनाचेतनानि भूतानि पृथक्त्वेन सन्ति, तस्यैवायं विवर्तः । अतो विवर्तानां भूतमयत्वात् तैश् च तस्याभेदाद् युक्तम् एव तन्मयत्वम् । कथं पुनर् एकस्य नानारूपविवर्तितोपपत्तिर् एकत्वाद् विरोधिनी उचयते । एवम् आहुर् विवर्तवादिनः । यथा समुद्राद् वायुनाभिहता ऊर्मयः समुत्तिष्ठन्ति, ते च न ततो भिद्यन्ते नापि लिप्यन्ते । सर्वथा बेधाभेदाभ्याम् अनिर्वाच्याः, एवम् अयं ब्रह्मणो विश्वविवर्तः । अपिशब्दश् चात्र द्रष्टव्यः । स्वरूपे स्थितो ऽग्राह्यो विवर्तावस्थायाम् इन्द्रियग्राह्यः । एवं सूक्ष्मः । अपिशब्दात् स्थूलावस्थायां स्थूलः । अव्यक्तो व्यक्तश् च । शाश्वतो ऽशाश्वक्तश् च । भूतमयस् तद्रूपहितश् च । विवर्तावस्थाभेदेनैव व्याख्येयम् ।
-
अचिन्त्यः आश्चर्यरूपः सर्वविलक्षणया शक्त्या योगात् ॥ १.७ ॥
सो ऽभिधाय शरीरात् स्वात् सिसृक्षुर् विविधाः प्रजाः ।
अप एव ससर्जादौ तासु वीर्यम् अवासृजत् ॥ १.८ ॥
मेधातिथिः ...{Loading}...
स पूर्वनिर्दिष्टविशेषणैः “हिरण्यगर्भः समवर्तताग्रे” (र्व् १०.१२१.१) इत्यादिभिर् मन्त्रैर् लब्धहिरण्यगर्भाभिधानः । प्रजाः विविधा नानारूपाः सिसृक्षुः स्रष्टुम् इच्छन्न् अपः उदकम् आदौ प्रथमं ससर्ज उत्पादितवान् । शरीरात् स्वात् यत् तेन गृहीतं सरीरम् । अद्वैतदर्शने प्रधानम् एव तस्येदं शरीरम्, तद् इच्छानुवर्तित्वात् स्वतः25 शरीरनिर्माणहेतुत्वाच्26 च । सर्वलोकानां शरीरं किं भौतिकेन व्यापारेण कुद्दालखननादिना ससर्ज । नेत्य् आह । कथं तर्हि । अभिध्याय । " आप उत्पद्यन्ताम्" एवम् इच्छामात्रेण । अत्रेत्थं चोच्यते । पृथिव्यादीनां तदानीम् अभावाद् अपां सृष्टानां क आधारः । अन्येभ्य इदम् उच्यते । स्रष्टुर् अपि परमेश्वरस्य गृहीतशरीरस्य क आधार इत्य् अपि वाच्यम् । अथ विलक्षणैश्वर्यातिशययोगाद् अन्यैव सा कर्तृशक्तिर् असंचोद्या प्रकृतधर्मसामान्येनेत्य् एवम् एष्व् अपि द्रष्टव्यम् । तासु वीर्यं शुक्रम् अवासृजत् न्यषिञ्चत् ॥ १.८ ॥
तद् अण्डम् अभवद् धैमं सहस्रांशुसमप्रभम् ।
तस्मिञ् जज्ञे स्वयं ब्रह्मा सर्वलोकपितामहः ॥ १.९ ॥
मेधातिथिः ...{Loading}...
प्रथमं प्रधानं सर्वतोभवं मृद्रूपं संपद्यते । हिरण्यगर्भवीर्यसंयोगात् काठिन्यं प्रतिपद्यते । तद् अण्डं सम्अभवद् इत्य् उच्यते । हेम्न इदं हैमं स्वर्णमयम् इत्य् अर्थः । अंशुसामान्यात्27 तस्य सुवर्णमयस्य । ननु नागमिको ऽयम् अर्थः, न चात्र इवशब्दः श्रूयते, तत्र कथम् उपचारतो व्याख्यानम् असति प्रमाणान्तरे । उच्यते । वक्ष्यति “ताभ्यां स शकलाभ्यां तु दिवं भूमिं च निर्ममे” (म्ध् १.१३) इति । इयं च भूमिर् मृन्मयी न सर्वतः सुवर्णमयीत्य् अत उपचार आश्रितः । सहस्रांशुर् आदित्य इत्य् अर्थः । अंशवो रश्मयस् तत्तुल्या प्रभा दीप्तिस् तस्याण्डस्य । तस्मिन्न् अण्डे स्वयं ब्रह्मा जज्ञे जातो28 संभूतः । ब्रह्मा हिरण्यगर्भ एव । स्वयम् इति उक्तार्थम् । योगशक्त्या प्रग्गृहीतं शरीरं परित्यज्यान्तरण्डम् अनुप्राविशत् । अथ वाशरीर एवापः ससर्ज । ततो ऽन्तरण्डं स्वशरीरं जग्राह ।
- अथ वान्यो “यो ऽसौ” (म्ध् १.७) इत्य् अत्र निर्दिष्टः अन्यश् चायम् अण्डजो ब्रह्मेति । तथा च वक्ष्यति “तद्विसृष्टः” (म्ध् १.११) इति । तेनेष्वरेण सृष्टः । कथं तर्हि स्वयं जज्ञे स्वयंभूतश् च तत्र ब्रह्मोच्यते । नैष दोषः । पितृनाम्ना पुत्रो व्यपदिश्यते । “आत्मा हि जज्ञ आत्मनः” इति । अनिदंपरेभ्य आगमेभ्यो लिखितम् आचार्येण, न चात्राभिनिवेष्टव्यम् । “स एव स्वयं जायताम् अन्यो वा तेन सृज्यताम्” इति न धर्माभिधान उपयुज्यत इत्य् उक्तम् । सर्वलोकानां पितामह इति संज्ञा । तस्योपचारतो ऽवास्तवदृष्टत्वात् पितुर् अपि सकाशाद् अधिकः पितामहः पूज्यः ॥ १.९ ॥
आपो नारा इति प्रोक्ता आपो वै नरसूनवः ।
ता यद् अस्यायनं पूर्वं तेन नारायणः स्मृतः ॥ १.१० ॥
मेधातिथिः ...{Loading}...
यः कुत्रचिन् नारायणशब्देन कर्तृज्ञातृशक्त्यतिशययोगेन जगत्कारणपुरुषतयागमेष्व् आम्नातः, सो ऽयम् एव । न शब्दभेदाद् अर्थभेदः । ब्रह्मा नारायणो महेश्वर इत्य् एक एवार्थो नोपासनाकर्मतया भिद्यते । तथा च द्वादशे दर्शयिष्यामः । तथा चैतत् तथोच्यते । आपो नारा इत्य् अनेन शब्देन प्रोक्ताः । ननु नायं वृद्धव्यवहारो ऽथ च न तथा प्रसिद्धो ऽत आह आपो वै नरसूनवः । स तावद्29 भगवान् नरः पुरुष इति प्रसिद्धः । आपश् च तस्य सूनवो ऽपत्यानि । अतस् ता नरशब्देनोच्यन्ते । दृष्टो हि पितृशब्दो ऽपत्ये वसिष्ठस्यापत्यानि वसिष्ट्ःआ भृगोर् अपत्यानि30 भृगवस् तथा31 बभ्रुमण्डुलोमक इत्य्32 अभेदोपचारेण ता आपो नरशब्दवाच्याः । यत् येन प्रकारेण अस्य प्रजापतेः पूर्वम् अयनं प्रथमसर्ग आश्रयो वा गर्भस्थस्य, तेन हेतुना नारायणः स्मृतः । नरा अयनम् अस्येति नरायण इति प्राप्ते “अन्येषम् अपि दृश्यते” (पाण् ६.३.१३७) इति दीर्घः । “पुरुष इति” यथा । अथ वा सामूहिको ऽण् ॥ १.१० ॥
यत् तत् कारणम् अव्यक्तं नित्यं सदसदात्मकम् ।
तद्विसृष्टः स पुरुषो लोके ब्रह्मेति कीर्त्यते ॥ १.११ ॥
मेधातिथिः ...{Loading}...
कारणम् एव न कार्यो न परेच्छाविधेयशरीरः, स्वाभाविकेन महिम्ना युक्तम् । अव्यक्तं नित्यम् उक्तम् इत्य् उक्तार्थम्33 । सदसदात्मकम् । सच् चासच् च सदसती । ते आत्मा स्वभावो यस्य तद् एवम् उच्यते । कथं पुनर् एकस्य34 विरुद्ध35भावाभावरूपधर्मद्वयस्य योगः । उच्यते । अर्वाग्दर्शनानां तद्विषयाया उपलब्धेर् अभावात् सत्ताव्यवहारायोग्यत्वाद् असद् आत्मेत्य् उच्यते । आगमेभ्यः सर्वस्यास्य तत्कारणत्वावगमात् सदात्मकम् । अतः प्रतिपत्तृत्वभेदाद्36 उभयतो ऽपि व्यवहारो ब्रह्मण्य् अविरुद्धः ।
-
ननु च सर्व एव भावा एवंरूपाः स्वेन रूपेण सदात्मकाः पररूपेणासन्तः । किम् उच्यते ब्रह्मण्य् अविरुद्ध इति । उच्यते । अद्वैतदर्शने नैवान्यद् ब्रह्मणः किंचिद् अस्तीति किं तत्परं यत् तद्रूपतयाभाव इत्य् उच्यते ।
-
तेन विसृष्ट उत्पादितो ऽन्तरण्डं निर्मितः पुरुषो लोके ब्रह्मेति कीर्त्यते । यो ऽसाव् उग्रतपसां देवासुरमहर्षीणां वरदानार्थं तत्र तत्रोपविष्ट इति महाभारतादौ श्रूयते, स एष तेन महापुरुषेण परेण ब्रह्मणा प्रथमं विशृष्टः ।
-
अन्ये तु “त्वम् एवैकः” (म्ध् १.३) इत्याद्य् अन्यथा वर्णयन्ति । अस्येति प्रत्यक्षाभिनयेन जगन् निर्दिश्यते । सर्वस्यास्य जगतो यद् विधानं निर्माणं तत् स्वयंभुवः संबन्धि अचिन्त्यम् अद्भुतरूपं विचित्रम् अतिमहद् अप्रमेयं न शक्यं सर्वेण ज्ञातुम् । तथा ऋषिः । “को अद्धा वेद क इह प्र वोचत् कुत आजाता कुत इयं विसृष्टिः” इति (र्व् १०.१२९.६) । किम् इदं जगत् सर्वम् उपादानम् अपेक्ष्य जायत उत नैर्माणिकमात्रम्, यथा बुद्धस्य दर्शनम् । किम् ईश्वरेच्छाधीनम् उत केवलकर्मवशजम् उत स्वाभाविकम् अप्रमेयम् । तथा किं महदादिक्रमेणोत्पद्यत उत द्व्यणुकादिक्रमेण । अस्य त्वं कार्यं तत्त्वम् अर्थं च वेत्सि । कार्यं महतो ऽहंकारो ऽविशेषास्37 तन्मात्रान्य् अहंकारस्य, तन्मात्राणां विशेषाः पञ्चमहाभूतानि, अहंकारस्येन्द्रियाण्य् एकादश । विशेषाणाम् अपि पिण्डीकार्यं38 ब्रह्मादिस्तम्बपर्यन्ताः । तेषाम् अपि प्रत्ययात् तत्त्वं स्वभावो यथा महतो मूर्तिमात्रत्त्वम् । प्रधानस्य सर्वस्य विकारावस्था महद् इत्य् उच्यते । प्रकृतेर् महान् इति । प्रकृतिः प्रधानम् इत्य् एको ऽर्थः । अहंकारस्य तत्त्वम् अस्मिप्रत्ययमात्रत्वम् । अविशेषाणाम् अविशेषप्रत्ययसंवेद्यत्वम् इति । अर्थः प्रयोजनम् । पुरुषार्थम् इदं वस्त्व् अनेन प्रकारेण पुरुषायोपयुज्यते इमं चार्थं साधयति । यद्य् अपि धर्मं जिज्ञासमानस्य जगन्निर्माणज्ञता आचार्यसंबन्धिनी न क्वचिद् उपकारिणी, न च प्रष्टव्या, तथाप्य् अन्यतो दुर्विज्ञानं महर्षीणां वैषम्याज् जगन्निर्माणम् आदौ प्रश्नार्हं भवति । मनो ह्य् अवचनीयम्39 । यद् वस्तु प्रमाणषट्कस्याप्य् अविषयस् तद् अपि त्वम् आर्षेण चक्षुषा वेत्सि । धर्मः पुनर् वेदगोचरः सो ऽवश्यं त्वया विज्ञात इत्य् एवं प्रकृतविषयैव प्रवक्तृप्रशंसा ।
- एवं स्तुत्या प्रोत्साहितो जगन्निर्माणम् एव तावद् वक्ति “आसीद् इदम्” (म्ध् १.५) इति, “ततः स्वयंभूः” (म्ध् १.६) इति । प्रधानम् एवैतैः शब्दैर् अभिधीयते । स्वयं भवति परिणमति विक्रियाम् एति महदादितत्त्वभावेन । न कश्चिद् ईश्वरः स्वभावसिद्धो ऽस्ति, यथेच्छम् अचेतनं प्रधानम् अनुवर्तते । वस्तुस्वभाव एवायं तद्40 उत प्रकृतिरूपं प्रधानं पुनर् विक्रियते । यथा क्षीरम् अचेतनं मण्डकावस्थाभिर् दधीभवति । भगवान् इति । स्वव्यापार ईश्वरो महाभूतादिद्वारेण प्रवृत्तः । स्वकार्योत्साह ओजः सामर्थ्यम् । आदिशब्दः प्रकारे व्यवस्थायाम् । तेन महदादिकारणम् अव्यक्तं भवति । विकारावस्थायां प्रच्युतं प्राग्रूपात् सूक्ष्मभावात् प्रकाशमयं तमो नुदतीत्य् उच्यते । अर्थशब्दाध्याहारेण वा प्रधाने पुल्लिङ्गनिर्देशः । पुरुषशब्दश् च प्रधानादिषु दृष्टः । “तेषाम् इदं तु सप्तानां पुरुषाणाम्” (म्ध् १.१९) इति ।
- यो ऽसाव् इति पूर्ववत् । सो ऽभिध्याय्एति । अभिध्यानं गुणतो ऽचेतनत्वात् प्रधानस्याभिध्यानासंभवात् । यथा कश्चिद् अभिध्यायैव कार्यं निवर्तयेद्41 अन्यकार्यनिरपेक्षम् एव वस्तु स्वाभाव्येन परिणममानम् ईश्वरेच्छानपेक्षतयाभिध्यायेत्य् उच्यते । अप आदौ ससर्ज । महाभूतान्तरापेक्षया तासाम् आदित्वम्, न तु महदादितत्त्वोत्पत्तेः । वक्ष्यति हि “तेषाम् इदं तु सप्तानाम्” (म्ध् १.१९) इति । प्रथमं तत्त्वोत्पत्तिस् ततो भूतानाम् । तासु वीर्यम् इति । वीर्यं शक्तिम् अवासृजत् । प्रधानम् एव कर्तृ भवति । सर्वतः पर्धानं पृथिव्यादिभूतोत्पत्तौ काठिन्यम् एति । अण्डरूपं संपद्यते । तद् अण्डम् इति । यथा तत्त्वानि स्त्रीपुरुषसंयोगं विनोत्पन्नानि प्रथमम् एवं पूर्वकर्मवशेन ब्रह्मापि स्वमहिम्नैवायोनिजं तस्य शरीरं दंशमशकादिवत् । तद्विसृष्टस् तेन प्रधानेन विसृष्टस् तन्मयत्वात् तच्छरीरस्य तद्विसृष्ट इत्य् उच्यते । शेषं पूर्ववत् ।
- यद् अत्रार्थतत्त्वं तद् अस्माभिर् उक्तम् एव । अर्थवादा एते यथाकथंचिद् गुणवादेन नीयन्ते ॥ १.११ ॥
तस्मिन्न् अण्डे स भगवान् उषित्वा परिवत्सरम् ।
स्वयम् एवात्मनो ध्यानात् तद् अण्डम् अकरोद् द्विधा ॥ १.१२ ॥
मेधातिथिः ...{Loading}...
स भगवान् ब्रह्मा परिवत्सरं संवत्सरम् उषित्वा तस्मिन्न् अण्डे स्थित उत्पन्नः सर्वज्ञः कथं निर्गच्छेयम् इति ध्यातवान्42 । तद् अण्डम् अकरोद् द्विधा । तावता कालेन गर्भः परिपच्यते । अण्डम् अपि तावत्कालेन भेदजातं43 परिपाकाद् अतः काकतालीयन्यायेन तद् अण्डम् अकरोद् द्विधेत्य् उच्यते ॥ १.१२ ॥
ताभ्यां स शकलाभ्यां च दिवं भूमिं च निर्ममे ।
मध्ये व्योम दिशश् चाष्टाव् अपां स्थानं च शाश्वतम् ॥ १.१३ ॥
मेधातिथिः ...{Loading}...
शकले अण्डकपाले44 । ताभ्याम् अण्डकपालाभ्याम् उत्तरेण दिवं निर्ममे निर्मितवान् । अधरेण पृथिवी मध्ये व्योमाकाशम् । दिशो ऽष्टौ च प्रागाद्याः, अवान्तरदिग्भिर् दक्षिणपूर्वादिभिः सह । अपां स्थानम् अन्तरिक्षे समुद्रम् आकाशं च पृथिवी पातालगता ॥ १.१३ ॥
उद्बबर्हात्मनश् चैव मनः सदसदात्मकम् ।
मनसश् चाप्य् अहंकारम् अभिमन्तारम् ईश्वरम् ॥ १.१४ ॥
मेधातिथिः ...{Loading}...
तत्त्वसृष्टिर् इदानीम् उच्यते । या च यथावयवा पश्चाद् उक्ता, अर्थात् पूर्वेति तथोक्तं तत्45 । प्रधानात् स्वस्माद् रूपान् मन उद्धृतवान् । प्रातिलोम्येनेयं तत्त्वोत्पत्तिर् इहोच्यते । मनसः पूर्वम् अहंकरम् अभिमन्तारम् । अहम् इत्य् अभिमानिताहंकारस्य वृत्तिः । ईश्वरं कार्यनिर्वर्तनसमर्थम् ॥ १.१४ ॥
महान्तम् एव चात्मानं सर्वाणि त्रिगुणानि च ।
विषयाणां ग्रहीतॄणि शनैः पञ्चेन्दिर्याणि च ॥ १.१५ ॥
मेधातिथिः ...{Loading}...
महान् इति संज्ञया सांख्यानां तत्त्वं प्रसिद्धम् । आत्मानम् इति महता सामानाधिकरण्यम् । सर्वपिण्डसृष्टौ च महत्तयानुस्यूतम्46 अत आत्मव्यवहारः । अहंकारात् पूर्वं पूर्वेण न्यायेन ससर्ज । सर्वाणि त्रिगुणानि च । यथानुक्रान्तं यथानुक्रम्यते तत् सर्वं त्रिगुण । सत्वरजस्तमांसि गुणाः । क्षेत्रज्ञाः केवलं निर्गुणाः । प्राकृतो भागः सर्वः सत्त्वरजस्तमोमयः । पञ्चेन्द्रियाणि तेषां निर्देशविषयाणां रूपरसादीनां यथास्वं ग्रहीतॄणि विज्ञानजनकानि । पञ्च “श्रोत्रं त्वग्” इत्यादिना वक्ष्यन्ते (म्ध् २.९०) विशेषनामानि47 । चसब्देन विषयांश् च शब्दस्पर्शरूपरसगन्धान् पृथिव्यादीनि च ॥ १.१५ ॥
तेषां त्व् अवयवान् सूक्ष्मान् षण्णाम् अप्य् अमितौजसाम् ।
संनिवेश्यात्ममात्रासु सर्वभूतानि निर्ममे ॥ १.१६ ॥
मेधातिथिः ...{Loading}...
तेषां षण्णां या आत्ममात्रास् तासु सूक्ष्मान् अवयवान् संनिवेश्य सर्वभूतानि निर्ममे । तत्र षट्संख्यया वक्ष्यमाणानि पञ्च तन्मात्राणि अतिक्रान्तश् चाहंकारः प्रतिनिर्दिश्यते । आत्ममात्रास् तेषां स्वविकाराः । तन्मात्राणां भूतानि, अहंकारस्येन्द्रियाणि । पृथिव्यादिषु भूतेषु शरीररूपतया तिष्ठत्सु सूक्ष्मान् अवयवांस् तन्मात्राहंकारान् संनिवेश्य यथास्थानं योजनं कृत्वा सर्वभूतानि देवमनुष्यतिर्यक्पक्षिस्थावरादीनि निर्ममे । एतद् उक्तं भवति । षड् अविशेषा अवयवा एकदेशारम्भकाः सर्वस्य जगतस् तस्य तदारब्धत्वात् । सूक्ष्मत्वं तन्मात्रसंज्ञयैव सिद्धम् । तानि संनिवेश्य संनिहत्य48 तेषाम् एवात्ममात्रांस् तद्विकारान्49 भूतेन्द्रियाणि निर्ममे । तैश् च पिण्डसृष्टिं चकारात् । “मात्रासु” इत्य् अत्र “मात्राभिः” इति युक्तः पाठः ॥ १.१६ ॥
यन् मूर्त्यवयवाः सूक्ष्मास् तानीमान्य् आश्रयन्ति षट् ।
तस्माच् छरीरम् इत्य् आहुस् तस्य मूर्तिं मनीषिणः ॥ १.१७ ॥
मेधातिथिः ...{Loading}...
मूर्तिः शरीरम् । तदर्थास् तत्सम्पादका अवयवाः । सूक्ष्माः षड् उक्तस्वरूपाश् च अविशेषाख्याः । तानीमानि इन्द्रियाणि वक्ष्यमाणानि च भूतान्य् आश्रयन्ति । तस्योत्पत्तेर् भूतान्य् आश्रयन्तीत्य् उच्यते । तदाश्रयोत्पत्तिस् तेषाम् । पठितं च “पञ्चभ्यः पञ्च भूतानि” इति (साम्क् २२) । यद् येन कारणेनाश्रयन्ति तस्मात् कारणात् शरीरं तस्य प्रधानस्य येयं मूर्तिः शरीरम् इत्य् उच्यते । मनीषिणः । मनीषा बुद्धिस् तद्वन्तः पण्डीताः । अथ वा विपरीतः कर्तृभावः । सूक्ष्माः कर्तार इन्द्रियाणि कर्म । अवयवाश् चेन्द्रियाणाम् आश्रयभावं प्रतिपद्यमाना आश्रयन्तीत्य् उच्यते । यथा “बहुभिर् भुक्तः” इति भोजयन् भुक्त इत्य् उच्यते । अथ वानेकार्थत्वाद् धातूनां आश्रयन्ति जनयतीत्य् अर्थः ॥ १.१७ ॥
तद् आविशन्ति भूतानि महान्ति सह कर्मभिः ।
मनश् चावयवैः सूक्ष्मैः सर्वभूतकृद् अव्ययम् ॥ १.१८ ॥
मेधातिथिः ...{Loading}...
तद् एतत् प्रधानं सर्वभूतकृद् भवति । अव्ययम् अविनाशं कारणात्मना । कथं सर्वाणि भूतानि करोति । यतस् तद् आविशन्तीमानि । कानि पुनस् तानि । **मनः सूक्ष्मैर् अवयवैः **सह तन्मात्रैर् बुद्ध्यहंकारेन्दियलक्षणैः । अनन्तरं महान्ति भूतानि पृथिव्यप्तेजोवाय्वाकाशाख्यानि । सह कर्मभिः । धृतिसंहननपक्तिव्यूहावकाशाः पृथिव्यादीनां यथाक्रमं कर्माणि । तत्र धृतिः धारणं सरणपतनधर्मकस्य एकत्रावस्थानम् । संग्राहकाद् विकीर्णस्य संहननम् । यथा पांसवो विकीर्णा उदकेन संहन्यन्ते पिण्डीक्रियन्ते । पक्तिर् अन्नौषधतृणादेस् तेजसः कार्यतया प्रसिद्धा । व्यूहो विन्यासः संनिवेशः । अवकाशो मूर्त्यन्तरेणाप्रतिबन्धः । न हि यस्मिन् देशे मूर्तिर् एका स्थिता तत्र मूर्त्यन्तरस्य स्थानम् । सुवर्णपिण्डे न कस्यचिद् अन्तःसंभवः । मनोग्रहणं सर्वेन्द्रियप्रदर्शनार्थम् । कर्मग्रहणेन च कर्मेन्द्रियाणि वा गृह्यन्ते । अथ वा तत्कार्यं सूक्ष्मैर् अवयवैर् युक्तं महान्ति भूतान्य् अधितिष्ठति पश्चाद् इत्य् एवं योजना । इन्द्रियाणि च मनःशब्दस्य प्रदर्शनार्थत्वात् ॥ १.१८ ॥
तेषाम् इदं तु सप्तानां पुरुषाणां महौजसाम् ।
सूक्ष्माभ्यो मूर्तिमात्राभ्यः संभवत्य् अव्ययाद् व्ययम् ॥ १.१९ ॥
मेधातिथिः ...{Loading}...
सूक्ष्मात् स्थूलम् उत्पद्यते संभवति । अव्ययाद् व्ययम् इत्य् एतावति तात्पर्यम् । न तु षण्णां सप्तानां वा तत्त्वानां मात्राभ्य इति । चतुर्विंशतितत्त्वानि । तानि सृष्टौ सर्वेषां निमित्तम् । अथ वा पिण्डसृष्टौ सप्तैव प्रधानं कारणम्, षडविशेषाः सप्तमो महान् । तेभ्यो भूतेन्द्रियाण्य् उत्पद्यन्ते । तेषु चोत्पन्नेषु पिण्डीभवति शरीरम् ।
- अव्ययात्50 प्रधानाद् उपसंभृतसर्वविकाराद् एकीभूताद् इदं बहुधा विप्रकीर्णं विश्वरूपं जगद् उत्पद्यते । किं युगपद् एव समस्तैर् विकारैः स्थूलरूपैः प्रधानं विक्रियते । नेत्य् आह । तेषाम् इदम् इति । यादृशः प्राग् उक्तः क्रमस् तेनैव । “प्रकृतेर् महांस् ततो ऽहंकारस् तस्माद् गुणस् तु षोडशकः” इति (सांक् २२) । पुरुषशब्दस् तत्त्वे पुरुषार्थत्वात् प्रयुक्तः । महौजसां स्वकार्ये वीर्यवताम् । अपरिमितविकारहेतुत्वान् महत्वम् । तेषां याः सूक्ष्मा मूर्तिमात्रा मूर्तिः शरीरम्, तदर्था मात्रास्, ताभ्य इदं भवति । अत उच्यते । अव्ययाद् व्ययम् इति । काः पुनस् तेषां सूक्ष्मा मात्राः । न हि तन्मात्राणाम् अन्या मात्राः संभवन्ति येन तेषां सूक्ष्मा मात्रा इति व्यतिरेक उपपद्यते । न तेषां स्वागतमात्रापेक्षत्वम् । किं तर्हि । तन्मात्रेभ्यः सूक्ष्मो महान् महतः प्रभूर्51 इति ॥ १.१९ ॥
आद्याद्यस्य गुणं त्व् एषाम् अवाप्नोति परः परः ।
यो यो यावतिथश् चैषां स स तावद्गुणः स्मृतः ॥ १.२० ॥
मेधातिथिः ...{Loading}...
पूर्वश्लोके केचिद् अन्यथा सप्तसंख्या परिकल्पयन्ति । पञ्चेन्द्रियाणि चक्षुरादीनि वर्गीकृतान्य् एकीभवन्ति । बोधहेतुतयैकेन धर्मेण योगाद् एकत्वेन निर्दिश्यन्ते । एवं कर्मेन्द्रियाणि । तौ च वर्गद्वित्वाद् द्वौ पुरुषौ भवतः । पञ्चभूतानि भेदेनैव निर्दिष्टानि कर्यवैलक्षण्यात् । तद् एवं सप्तपुरुषास् तेषां या मूर्त्यर्थाः सूक्ष्मा मात्रा निर्माणकार्याणि तन्मात्राण्य् अहंकारश् च । अन्यत् समानम् ।
- अतश् च भूतानां पूर्वश्लोके संनिधानाद् एषाम् इति तेषाम् प्रतिनिर्देशः । यद्य् अपि च व्यवहिते बहूनि वचनानि52 संनिहितानि तथापि य इहार्थः प्रतिपाद्यते विशिष्टसंख्याकर्तृगुणवत्त्वं तद् भूतानाम् एव संभवति नान्येषां, प्रकृतत्वे सत्य् अपि ।
- अतो ऽयं श्लोकार्थः । एषां भूतानां यद् यत आद्यं53 तस्य यद्रूपं ततो ऽनन्तरं पठितं तत् तत् पूर्वस्य संबन्धेन गुणं गृह्णाति । गुणशब्देन शब्दादयः पञ्चोच्यन्ते । आद्यत्वं चात्र वक्ष्यमाणया व्यवस्थया “आकाशं जायते” (म्ध् १.७५) इति । गुणत्वं च शब्दादीनां तत्रैव वक्ष्यति । यो य आकाशादिलक्षणो ऽर्थो यावतिथः यावतां पूरणः । “वतोर् इथुक्” (पाण् ५.२.५३) । द्वितीये तृतीये ऽवस्थाने स्थितः स तावद्गुणः । तावन्तो गुणास् तस्य भवन्ति । द्वितीयस्थाने स्थितो द्विगुण इत्यादि । परस्पराद्याद्यगुणसंबन्धित्वं प्रथमे ऽर्धश्लोक उक्तम् । तत्र यः स्वशब्देन यस्यैव यो गुणो ऽभिहितः “तस्य शब्दगुणं विदुः,” (म्ध् १.७५) “तद् रूपगुणम् उच्यते” (म्ध् १.७७) इत्यादि । ततश् च पूर्वगुणावाप्तौ द्वैगुण्यम् आकाशं वर्जयित्वा भूतानां प्राप्तम् । अत उक्तम् यो यो यावतिथ इति । तेन द्विगुणो वायुस् त्रिगुणं तेजस् चतुर्गुणा आपः पञ्चगुणा भूमिर् इति । आद्याद्यस्येति कथम् । आद्यस्याद्यस्येह भवितव्यम् । नित्यवीप्सयोर् इति द्विवचनेन । यथा परः पर इति । छन्दोभिर् अविशेषात् स्मृतीनां लुग्वृत्तानुरोधाच् चैवं पठितम् ॥ १.२० ॥
सर्वेषां तु स नामानि कर्माणि च पृथक् पृथक् ।
वेदशब्देभ्य एवादौ पृथक् संस्थाश् च निर्ममे ॥ १.२१ ॥
मेधातिथिः ...{Loading}...
स प्रजापतिः सर्वेषाम् अर्थानां नामानि चक्रे । यथा कश्चित् पुत्राणां जातानाम् अन्येषां वा संव्यवहारार्थं करोति- “वृद्धिर् आदैच्” (पाण् १.१.१), “धीश्रीस्त्रीम्” (पिङ्स् १.१.१) इति । शब्दार्थसंबन्धं कृतवान् “गौर् अश्वः पुरुषः” इति । कर्माणि च निर्ममे । धर्माधर्माख्यान्य् अदृष्टार्थान्य् अग्निहोत्रादीनि च । सृष्ट्वा च कर्माणि तत्र संस्था व्यवस्थाश् चकार- “इदं कर्म ब्राह्मणेनैव कर्तव्यं काले ऽमुष्मै च फलाय” । अथ वा दृष्टर्था मर्यादा संस्था- “गोप्रचार इह च प्रेदेशे न कर्तव्यः,” “इदम् उदकं सस्यसेकार्थम् अमुष्मिन् ग्रामे न देयं यावत् तस्माद् ग्रामाद् अस्माभिर् अयम् उपकारो न लब्धः” । दृष्टार्थानि च कर्माणि निर्ममे । तत्र यान्य् अदृष्टार्थानि तानि वेदशब्देभ्यो वैदिकेभ्यो वाक्येभ्यः ।
-
ननु सर्वस्य तेनैव सृष्टत्वात् तस्यैव स्वातन्त्र्याद् वेदं ससर्ज कर्मानुष्ठानपरिपालनार्थम् इत्य् एवं वक्तव्यम् । वेदसृष्टिश् च वक्ष्यते “अग्निवायुरविभ्यश् च” (म्ध् १.२३) इत्य् अत्रान्तरे ।
-
उच्यते । भिन्नम् अत्र दर्शनम् । केचिद् आहुर् अन्यस्मिन् कल्पे वेदास् तेनाधीतास् ते च महाप्रलयेन प्रलीनाः पुनर् अन्यस्मिन् कल्पे सुप्तप्रतिबुद्धवत् सर्वं प्रथमं प्रतिभाति, स्वप्नपठितो यथा कस्यचिच् छ्लोकः प्रतिभाति । भाति च वेदे “गौर् अनुबन्ध्यः” (शब् १०.४.३२), “अश्वस् तूपरो गोमृगः” (व्स् २४.१) इत्यादिवाक्येभ्यः शब्दानुस्मृतिपूर्वकं झट् इति तान् अर्थान् स्मृत्वोत्पद्यमानांश् च पदार्थान् दृष्ट्वा “अस्यार्थस्यायं54 शब्दः कल्पान्तरे नामासीत्, संप्रत्य् अस्यैव क्रियताम्” इत्य् उभयं वेदशब्देभ्य एव नामानि कर्माणि च सृष्टवान् । अथ वा नैव वेदाः प्रलीयन्ते महाप्रलये ऽपि । यो ऽसौ पुरुषः केषांचिद् इष्टस् तथा वेदा आसते । स एवान्तरण्डं ब्रह्माक्यं पुरुषं निर्माय वेदान् अध्यापयामास । एवं स ब्रह्मा वेदशब्देभ्यः सर्वं निर्मितवान् ।
कर्मात्मनां च देवानां सो ऽसृजत् प्राणिनां प्रभुः ।
साध्यानां च गणं सूक्ष्मं यज्ञं चैव सनातनम् ॥ १.२२ ॥
मेधातिथिः ...{Loading}...
कर्मात्मानः शरीरिणः प्राणिनः कर्मसु तत्परा मनुष्या उच्यन्ते । तेषाम् अर्थसिद्धये यज्ञम् असृजत् । ये ब्रह्मोपासनास्व् अनभिरताः58 पुत्रपश्वादिफलार्थिनो द्वैतपक्षाश्रितास् ते कर्मानुष्ठानपरत्वात् कर्मात्मान उच्यन्ते । षष्ठ्य् अपि तादर्थ्यं ब्रूत इति तदर्थं यज्ञम् असृजद् इति गम्यते । देवानां च गणं तदर्थम् एवासृजत् । कर्मात्मनां चेत्य् अयम् अदेशे चः पठितः । तस्य देशो देवानाम् इत्य् अतो ऽनन्तरम् । यज्ञं ससर्ज । अग्निर् अग्नीषोमाव् इन्द्राग्नी इत्यादिं यज्ञसिद्ध्यर्थं देवानां गणम् असृजत् । तथा साध्यानां देवानां गणम् इत्य् अनुषज्यते । भेदेनोपादानम् अहविर्भाक्त्वात् तेषां स्तुतिभाज एव ते केवलम् । “यत्र पूर्वे साध्याः सन्ति देवाः” (र्व् १०.९०.१६) इति । “साध्या वै नाम देवाः” इति । “साध्या वै नाम देवा आसन्” (प्ब् ८.३.५) । अथ वा ब्राह्मणपरिव्राजकवत् । सूक्ष्मं मरुतो रुद्राङ्गिरस इत्य् एतदपेक्षया साध्यगणः सूक्ष्मः । साध्यग्रहणं चान्यासाम् अप्य् अहविःसंबन्धिनीनां देवतानां वेनोस्तुनीतिर् इत्यादीनां प्रदर्शनार्थम् ।
- अन्ये तु कर्मात्मनां देवानां प्राणिनाम् इति समानाधिकरणानि मन्यन्ते । कर्माणि आत्मा स्वभावप्रतिलम्भो59 येषां ते कर्मात्मानः । यागादिकर्मनिर्वर्तनपरत्वात् प्रधानतया वा कर्मात्मानः ।
- काश्चिद् देवता यागादिकर्मण्य् एव स्वरूपत इतिहासे श्रूयन्ते । यथेन्द्रो रुद्रो विष्णुर् इति । अन्यासां तु याग एव देवतात्वं न स्वरूपतः । अक्षा ग्रावाणो रथाङ्गानि । न हि यथा भारते इन्द्रादीनां वृत्रादिभिर् असुरैर् युद्धादि कर्म श्रूयते तथाक्षादीनां वर्ण्यते । अस्ति च सूक्ते हविःसंबन्धे तेषाम् अपि देवतात्वम् । अक्षाणां “प्रावेपा मा” (र्व् १०.३४.१) इति । ग्राव्णां “प्रैते वदन्तु” (र्व् १०.९४.१) इति । “वनस्पते वीड्वङ्गः” (र्व् ६.४७.२६) इति रथाङ्गानाम् । अत एव प्राणिनाम् इति । द्विविधा हि देवताः प्राणवत्यस् तद्रहिताश् च । यथेन्द्रादयः पुरुषविग्रहाः प्राणवन्तः पुराणे वर्ण्यन्ते, नाक्षादयः । इतिहासदर्शनाश्रयश्60 चायं सर्वः सर्गादिप्रपञ्चः । चसब्दश् चात्र द्रष्टव्यः, प्राणिनाम् अप्राणिनाम् अपि । निरुक्तदर्शने ऽपि द्विविधा देवता । अश्वाः “मा नो ऽमित्रः” (र्व् १.१६२.१) इति । शकुनिः “कनिक्रदद्” (र्व् ५.८३.१) इति । गाव “आ गावो अग्मन्” इति (र्व् ६.२८.२) । एताः प्राणवत्यः । अप्राणा उक्ताः । सनातनग्रहणं यज्ञविशेषणम् । पूर्वकल्पे ऽपि यज्ञस्य भावात् प्रवाहनित्यतया नित्यत्वम् ॥ १.२२ ॥
अग्निवायुरविभ्यस् तु त्रयं ब्रह्म सनातनम् ।
दुदोह यज्ञसिद्ध्यर्थम् ऋग्यजुःसामलक्षणम् ॥ १.२३ ॥
मेधातिथिः ...{Loading}...
“तिस्र एव देवताः” अग्निप्रभृतय इति नैरुक्ताः (निर् ७.५), सत्य् अप्य् अभिधाननानात्वे । अतस् तेन दर्शनेनोच्यते । एताभ्यस् तिसृभ्यो यज्ञसिद्ध्यर्थम् । यागसंप्रदानत्वात् तासां चतुर्थी । त्रयम् ऋग्यजुःसामलक्षणं ब्रह्म वेदाख्यं दुदोह । द्विकर्मको ऽयं धातुः । प्रधानं कर्म त्रयम् । अप्रधानेन द्वितीयेन कर्मणा भवितव्यम् । न च तद् अस्ति । अतः पञ्चम्य् एवेयम् इति मन्यामहे । अग्न्यादिभ्यो दुदोह, अक्षारयद् अभावयत् ।
-
कथं पुनर् अग्न्यादिभ्यो वर्णात्मा शब्दो मन्त्रवाक्यानि ब्राह्मणवाक्यानि च भवेयुः ।
-
किं नोपपद्यते । कः शक्तीर् अदृष्टा असतीर् वक्तुम् अर्हति ।
-
नाख्यातार्थो विकल्पयितुं युक्तः । पञ्चमी तर्हि किमर्था61 । “दुहियाचि” इति द्वितीयया भवितव्यम् । किं च दृष्टप्रमाणविरोधी प्राग्वृत्तो ऽर्थ उच्यमानो न62 मनःपरितोषम्63 आधत्ते प्रामाणिकानाम् ।
- परिहृतो विरोधः स्वरूपपरत्वाश्रयणेनैषाम् आगमानाम् “ऋग्वेद एवाग्नेर् अजायत, यजुर्वेदो वायोः, सामवेद आदित्यात्” (ऐत्ब् २५.७) इति । अग्न्यादयो ऽपि देवता ऐश्वर्यभाजो निरतिशयशक्तिश् च प्रजापतिः, तत्र का नामानुपपत्तिः । अस्मिन् दर्शने पञ्चम्य् अपि विवक्ष्या । अतः कारकाणि कथितानि यत्रापादनसंज्ञेत्य्64 अपादानविवक्षायां भाष्ये समर्थितानि (पत् ओन् पाण् १.४.५१) ।
-
अन्यदर्शने कथम् ।
-
चतुर्थी तावद् युक्तैव । अर्थवादाश् चैते । तत्र द्वितीयं कर्म आत्मैव “प्रजापतिर् आत्मानं दुदोह” । दोहनं चाध्यापनं परसंक्रान्तिसामान्येन ।
-
अथापि पञ्चमी । तत्राप्य् आग्नेया मन्त्रा आदाव् ऋग्वेदे, अतः “अग्नेर् अजायत” (ऐत्ब् ५.३२) इत्य् उच्यते, यजुर्वेदे ऽपि “इषे त्वोर्जे त्वा” (त्स् १.१.१) इति । इड् अन्नम्, तन् मध्यस्थानत्वाद्65 वायुना वर्षदानेन क्रियते । ऊर्क् प्राणः, स वायुर् एव । अत आदितो वायुकार्यसंबन्धाद् वायोर् इत्य् उपमा । अथ वा, आध्वर्यवम् आर्त्व्ज्यं बहुप्रकाराश् चेष्टाश् च सर्वा वायोर् इत्य् अनेन सामान्येन वायोर् जन्म यजुर्वेदस्य । अनधिकारस्य सामगीत्ययोग्यत्वाद् उत्तमाध्ययनानि सामानि, उत्तमस्थानश् चादित्य इति ॥ २३ ॥
कालं कालविभक्तीश् च नक्षत्राणि ग्रहांस् तथा ।
सरितः सागराञ् छैलान् समानि विषमाणि च ॥ १.२४ ॥
मेधातिथिः ...{Loading}...
धर्मसामान्याद् आह । द्रव्यात्मा कालो वैशेषिकाणाणां क्रियारूपो ऽन्येषाम् । आदित्यादिगतिप्रतान आवृत्तिमान् । कालविभक्तयो विभागा मासर्त्वयनसंवत्सराद्याः । नक्षत्राणि कृत्तिकारोहिण्यादीनि । ग्रःआ आदित्यादयः । सरितो नद्यः । सागराः समुद्राः । शैलाः पर्वताः । समानि स्थलान्य् एकरूपा भूभागाः खातप्रदरवर्जिताः । विषमाणि आरोहावरोहवन्ति ॥ १.२४ ॥
तपो वाचां रतिं चैव कामं च क्रोधम् एव च ।
सृष्टिं ससर्ज चैवेमां स्रष्टुम् इच्छन्न् इमाः प्रजाः ॥ १.२५ ॥
मेधातिथिः ...{Loading}...
रतिर् मनसः परितोषः । कामो ऽभिलाषो मन्मथो वा । अन्यत् प्रसिद्धम् । एवमादिकां सृष्टिं ससर्जेमाम् । अत्र श्लोके पूर्वा च या सृष्टिर् उक्ता । इमाः प्रजाः स्रष्टुम् इच्छन् देवासुरा यक्षराक्षसगन्धर्वाद्यास् तदुपकरणं तदात्मधर्मवच् छरीरं धर्मं चादाव् असृजद् इत्य् अर्थः । अथ केयं वाचोयुक्तिः सृष्टिं ससर्जेति । य एवार्थः सृष्टिं कृतवान् इति । सर्वे धातवः करोत्यर्थस्य विशेषावच्छिन्ने वर्तन्ते । पचति पाकं करोति, यजति यागं करोति । तत्र कृदन्ताद् विशेषे ऽवगत आख्यातगतो धातुः करोत्यर्थमात्रप्रतिपादनपरो भवति । तस्मिन्न् अपि कुतश्चित् प्रतिपन्ने पुनःप्रतिपादने ऽनुवाददोषो मा भूद् इति कालकारकादिषु तात्पर्यम् । अथ वा सृज्यमानविशेषा प्रमाणावच्छिन्ना सृष्टिः सामान्यसृष्टेः कर्म, यथा स्वपोषं पुष्ट इति ॥ २५ ॥
कर्मणां च विवेकार्थं धर्माधर्मौ व्यवेचयत् ।
द्वन्द्वैर् अयोजयच् चेमाः सुखदुःखादिभिः प्रजाः ॥ १.२६ ॥
मेधातिथिः ...{Loading}...
धर्माधर्मौ व्यवेचयत् विवेकेन पृथग्भावेन व्यवस्थापितवान्- “अयं धर्म एव, अयम् अधर्म एव” ।
-
ननु च नैवायं विवेको ऽस्ति । सन्ति हि कर्माण्य् उभयरूपाणि धर्माधर्मात्मकानि । यथाहुः- “शबलानि वैदिकानि कर्माणि, हिंसासाधनकत्वात् । यथा ज्योतिष्टोमः स्वरूपेण धर्मो हिंसाङ्गत्वात् त्व् अधर्मः” इति ।
-
अत आह कर्मणां तु विवेकाय । कर्मशब्देनात्र प्रोयोगः कर्मणाम् अनुष्ठानम् उच्यते । स एव पदार्थो ऽन्यथा प्रयुज्यमानो विपरीतस्वभावो भवति । धर्मः सन्न् अधर्मरूपताम् आपद्यते, अधर्मो धर्मत्वम् । तथा हिंसैव । हिंसा बहिःप्रयुज्यमाना अधर्मः सः, “न हिंस्यात् सर्वभूतानि” इति प्रतिषेधगोचरत्वात् । अन्तर्वेदिकृता अग्नीषोमीये धर्मः, विधिलक्षणत्वात् । एवं तपो66 धर्मः, तद् एव तु दम्भेनासामर्थ्यादिना67 वा क्रियमाणम् अधर्मः । एवं देवरगमनं स्त्रीणाम् अधर्मः, गुरुनियुक्तानां पुत्रार्थिनीनां घृताक्ताद्यनुग्रहेण धर्मः । अतः स्वरूपैकत्वे ऽपि प्रयोगभेदाद् धर्माधर्मव्यवस्था । एकत्वे ऽपि68 प्रमाणान्तरदृष्ट्या69 स्वरूपभेद एव ।
M G add: tu
M G 1st ed.: ekatvaṃ ca
M G 1st ed: -nāsamartho na
M G 1st ed: tayor; G 2nd ed: tapor
- अथ च कर्मफलेषु कर्मशब्दः, कारणे कार्योपचारात्70 । तेनैतद् उक्तं भवति- कर्माणि व्यवेचयत् कर्मफलविभागाय । कः पुनः कर्मणां फलविभागः । अत उक्तम्- द्वन्द्वैर् अयोजयत् सुखदुःखादिभिः । धर्मस्य फलं सुखम् अधर्मस्य दुःखम् । अत उभयकारिणो द्वन्द्वैर् योज्यन्ते, धर्मकारित्वात् सुखेन, अधर्मकारित्वाद् दुःखेन । द्वन्द्वशब्दो ऽयं रूढ्या परस्परविरुद्धेषु पीडाकरेषु वर्तते शीतोष्णवृष्ट्यातपक्षुत्सौहित्यादिषु । आदिग्रहणं सामान्यविशेषभावेन ज्ञेयम् । केवलौ सुखदुःखशब्दौ स्वर्गनरकयोर् वाचकौ निरतिशयानन्दपरितापवचनौ वा । विशेषः71 स्वर्गग्रामपुत्रपश्वादिलाभस् तदपहारश् चादिशब्दस्य विषयः । कर्मणां पूर्वम् उत्पत्तिर् उक्ता । अनेन तेषाम् एव प्रयोगविभागः फलविभागश् च प्रजापतिना कृत इति प्रतिपाद्यविवेकः ॥ १.२६ ॥
M G: viśeṣa
D (5: 601) suggests: kārye kāraṇopacārāt
अण्व्यो मात्रा विनाशिन्यो दशार्धानां तु याः स्मृताः ।
ताभिः सार्धम् इदं सर्वं संभवत्य् अनुपूर्वशः ॥ १.२७ ॥
मेधातिथिः ...{Loading}...
उपसंहारो ऽयम् । दशार्धानां पञ्चानां महाभूतानां या अण्व्यः सूक्ष्मा मात्रा अवयवास् तन्मात्रास् ता विनाशिन्यः । परिणामधर्मित्वात् स्थौल्यप्रतिपत्त्याविनाशिन्य उच्यन्ते । ताभिः सार्धम् इदं जगत् सर्वं संभवत्य् उत्पद्यते । अनुपूर्वशः क्रमेण । सूक्ष्मात् स्थूलं स्थूलात् स्थूलतरम् । यादृशो वा क्रम उक्तः प्राक् ॥ १.२७ ॥
यं तु कर्मणि यस्मिन् स न्ययुङ्क्त प्रथमं प्रभुः ।
स तद् एव स्वयं भेजे सृज्यमानः पुनः पुनः ॥ १.२८ ॥
मेधातिथिः ...{Loading}...
अस्यायम् अर्थः । यद्य् अपि प्रजापतिर् ईश्वरो भूतसृष्टौ शक्नोति यथेच्छं प्राणिनः स्रष्टुं तथापि न पूर्वकल्पकृतानि कर्माण्य् अनपेक्ष्य प्राणिनः सृजति । येन यादृशं पुराकल्पे कर्म कृतं तत्कर्माक्षिप्तायां जातौ तं जनयति, न जात्यन्तरे । शुभेन कर्मणा तत्फलोपभोग्यायां देवमनुष्यादिजातौ जनयति, विपरीतेन तिर्यक्प्रेतादिषु । यथैव भूतेन्द्रियगुणाः कल्पादौ प्रकृतिस्था उद्भवन्ति एवं कर्माण्य् अपि प्रलये स्वप्रकृतिस्थानि पुनर् उद्भवन्ति सर्गादौ । “ततः शेषेण” इत्य् एष न्यायस् तत्राप्य् अस्त्य् एव ।
-
यदि तर्हि कर्मापेक्षोत्पत्तिः, क्व प्रजापतेर् ऐश्वर्यम् उपयोगि कीदृशं वा सापेक्षम् ऐश्वर्यम् । तस्मिन् सति जगत उत्पत्तेः, कथम् अनुपयोगः । न तम् अन्तरेण स्थित्युत्पत्तिप्रलयाः सन्ति । नित्यत्वात् तस्य स्वकृतान्य् अपि कर्माणि कारणं तदिच्छापि प्रकृतिपरिणामश् च । एतस्याः कारणसामग्र्या इदं जगद् उत्पद्यते तिष्ठति प्रलीयते च । सापेक्षस्याप्य् ऐश्वर्यं न विहन्यते । यथेह राजादिर् ईश्वरो भृत्यादीन् फलेन योजयेद् एवम् एवादिकर्मानुरूपेणैव योजयति । न चानीश्वरः ।
-
ननु नास्य श्लोकस्यायम् अर्थ प्रतीयते । किं तर्हि प्रतीयते । विधातुर् एव प्राणिनां कर्मविनियोगे स्वातन्त्र्यम् । स यं प्राणिनं प्रथमं सर्गादौ यस्मिन् कर्मणि हिंसात्मके तद्विपरीते वा न्ययुङ्क्त स तद् एव कर्म भजते करोति । न पित्रादेर् अनुशासनम् अपेक्ष्य स्वेच्छयान्यथा प्रवर्तते । किं तर्हि, प्राक्प्रजापतिनियोगवशात् साध्व् असाधु वा स्वयम् अन्यानुशासननिरपेक्षो ऽनुतिष्ठति । सृज्यमानाह् पुनर् जायमानः । कल्पान्तरे ऽस्मिन्न् एव वा कल्पे प्रजापतिर् एव क्षेत्रज्ञांश् तत्कर्तृत्वेन नियुङ्क्ते । अतस् तन्नियोगम् एवानुवर्तमानाः प्राचीनं शुभम् अशुभं वा कर्म कुर्वन्ति । तद् उक्तम् ।
-
कर्तृत्वं प्रतिपद्यन्ते अनीशाः स्वेषु कर्मसु ।
-
महेश्वरेण प्रेर्यन्ते शुभे वा यदि वाशुभे ॥ इति ।
-
अज्ञो जन्तुर् अनीशो ऽयम् आत्मनः सुखदुःखयोः ।
-
ईश्वरप्रेरितो गच्छेत् स्वर्गं वा श्वभ्रम् एव वा ॥
-
उच्यते । एवं सति कर्मफलसंबन्धस् त्यक्तः स्यात्, पुरुषकारानर्थक्यं च स्यात्, अग्निहोत्रादिकर्माद्युपदेशो ब्रह्मोपासनाश् च व्यर्थाः प्रसज्येरन् । य एवेश्वरस्वरूपानभिज्ञास् त एव दृष्टादृष्टार्थेषु कर्मसु प्रवर्तेरन् । ये तु तदधीनं कर्तृत्वं भोक्तृत्वं च मन्यन्ते तेषां सर्वत्राप्रवृत्तिप्रसङ्गः । कृतम् अपि न तत्कर्म फलति । अकर्तारो ऽपि भोक्ष्यामह इति मन्यमाना उदासीरन् । न च व्याधिर् इवापथ्याद् विदुषां बलाद् इच्छोपजायते कर्तृत्व ईश्वरप्रेरणया । अथ कर्मफलसृष्ट्या तदिच्छा निश्चिता अस्मात् कर्मण इदं कर्तृत्वं72 भवतीति, न तर्हि “यं तु कर्मणि” इत्य् एतद् अस्ति । शास्त्राद्73 एव नियोगः प्रतिपत्तव्यः । तस्माद् यं पुरुषं स प्रभुः प्रथमम् न्ययुङ्क्त अनादौ संसारे प्रथमं वर्तमानापेक्षयं नियोक्तृत्वं चास्य सर्वभावेषु दिक्कालनिमित्तकारणत्वात् ।
- अन्ये तु व्याचक्षते । जात्यन्तरापन्नस्यात्मनो न पूर्वं जातिसंस्कारापेक्षा । अतः स्वभावानुवृत्तिः । यं जातिविशेषं यस्मिन् कर्मणि नियुक्तवान् परवधादौ स सिंहादिजातीय आत्मा संपन्नो मनुष्यत्वे मार्दवम् अभ्यस्तम् अपि हित्वा जातिधर्मं प्रतिपद्यते अन्येनानुपदिष्टम् अपि । स्वाभाव्यात् प्रजापतिकृतत्वात् कर्माणि बलवन्ति प्रागभ्यासं जात्यन्तरगतस्य विस्मारयन्तीति प्रदर्शितं भवति ॥ १.२८ ॥
एतद् एव विस्तारयति ।
हिंस्राहिंस्रे मृदुक्रूरे धर्माधर्माव् ऋतानृते ।
यद् यस्य सो ऽदधात् सर्गे तत् तस्य स्वयम् आविशत् ॥ १.२९ ॥
मेधातिथिः ...{Loading}...
हिंस्रं परप्राणवियोगकरं सर्पसिंहहस्त्यादि । तद्विपरीतम् अहिंस्रं रुरुपृषतादि । मृदु पेशलम् अनायासकम्74 । क्रूरं कठिनं परदुःखोत्पादनात्मकम् । अन्यत् प्रसिद्धम् । यद् एतद् द्विशः प्रसिद्धं कर्म जातं ततो यस्य यद् एव अदधाद् दत्तवान् कल्पितवान् स प्रजापतिः सर्गे सृष्ट्यादौ पूर्वकर्मानुरूप्यम् अवेक्ष्य, तत्कर्म स सृष्टः75 प्राणी स्वयम् आविशत् प्रतिपद्यते । भूतकालता न विवक्षिता । आद्यत्वे ऽपि जातिधर्मस्यानुपदिष्टस्य स्वयंप्रतिपत्तिदर्शनात् ॥ १.२९ ॥
यथर्तुलिङ्गान्य् ऋतवः स्वयम् एवर्तुपर्यये ।
स्वानि स्वान्य् अभिपद्यन्ते तथा कर्माणि देहिनः ॥ १.३० ॥
मेधातिथिः ...{Loading}...
अत्र दृष्टान्तः । अचेतना अपि यथा भावास् तन्मर्यादयैव व्यवस्थितस्वभावाः एवं चेतना अपि पुरुषकृतकर्मसहायेन प्रजापतिना कृतां मर्यादां नातिक्रामन्ति, यस्यां जातौ जातास् तद् एव कुर्वन्ति नान्यद् इच्छन्तो ऽपि शक्नुवन्ति कर्तुम् ।
- ऋतवो वसन्तादयः । स्वलिङ्गानि चिह्नानि पत्रफलकुसुमशीतोष्णवर्षादीनि । पर्यये । यस्यर्तोर् यः पर्यायः स्वकार्यावसरस् तस्मिन् स ऋतुस् तं धर्मं स्वयम् एव प्रतिपद्यते, न पुरुषप्रयत्नम् अपेक्षते । चूतमञ्जर्यो वसन्ते स्वयम् एव पुष्यन्ति, न मूले सलिलसेकम् अपेक्षन्ते । एवं पुरुषकर्माण्य् अदृष्टानि । नास्ति स पदार्थो यो न कर्मापेक्षते । तथा हि । वर्षाणां स्वस्वभावो यो वृष्टिप्रदः, भवति च राजदोषाद् राष्ट्रदोषाद् वा कदाचिद् अवग्रहः । तस्मात् कर्मशक्तिर् एवानपसार्या । वृत्तानुरोधाद् असकृद् अनुग्रहणम् ।
-
अन्ये तु श्लोकत्रयम् अप्य् अन्यथा व्याचक्षते । कर्मशक्तीनां स्वभावनियमो ऽनेनोच्यत इत्य् आहुः ।
-
(१.२८) यत् फलं यस्मिन् कर्मण्य् आहितं प्रजापतिना स कर्मविशेषः पुनः पुनः सृज्यमानो ऽनुष्ठीयमानः स्वयं तत् फलं भजते ददातीत्य् अर्थः । तेन यागः कृतो यदा फलिष्यति न तदा किंचिद् अन्यद् अपेक्षत इति प्रतिपादितं भवति । सेवा हि स्वकृता अपि76 मन्त्रिपुरोहितादिवाक्यम् अपेक्षते । नैवं यागः । दृष्टस् तु व्यापारस् तेनापेक्ष्यते । दृष्टादृष्टकारणद्वयजन्यत्वात् सर्वस्य कार्यस्यादृष्टान्तरापेक्षा निषिध्यते तदानीम् ।
-
(१.२९) कर्माणीष्टानिष्टफलप्रदानि विधिप्रतिषेधविषयाणि । कर्माणि द्विश उदाहरति । हिंस्राहिंस्रे इति । हिंसा प्रतिषिद्धा । तस्या नरकादिफलप्रदानं नियमितम् । यो ब्राह्मणायावगुरेत् यो मामकायावगुरेत् तं शतेन यातयाद् इति वाक्यशेषेभ्यः । सा ततः स्वभावान् न च्यवते । प्रायश्चित्तेषु विशेषं वक्ष्यामः । अहिंस्रं विहितम् । तस्यापि नेष्टफलदानात् स्वभावच्युतिर् अस्ति । धर्माधर्मयोर् एव विशेषायते । विहितं कर्म धर्मः, प्रतिषिद्धम् अधर्मः, तयोर् विशेषाः सत्यानृतादयः । सत्यं विहितम् अनृतं प्रतिषिद्धम् । एवं सर्वाणि पूर्वोत्तरपदानि विहितप्रतिषिद्धविशेषप्रदर्शनानि ।
-
(१.३०) अव्यभिचरितदृष्टकार्यकारणसंबन्धीनि कर्माणि । दृष्टान्तः यथर्तुलिङ्गानीति । शेषं समानम् ॥ १.३० ॥
लोकानां तु विवृद्ध्यर्थं मुखबाहूरुपादतः।
ब्राह्मणं क्षत्रियं वैश्यं शूद्रं च निरवर्तयत् ॥ १.३१ ॥
मेधातिथिः ...{Loading}...
पृथिव्यादीनां लोकानां विवृद्ध्यर्थम् । वृद्धिः पुष्टिर् बाहुल्यं वा । ब्राह्मणादिषु चतुर्षु वर्णेषु सत्सु त्रयाणां लोकानां वृद्धिः । “इतः प्रदानं देवा उपजीवन्ति” (त्स् ३.२.९.७) । ते च यागाद्यधिकृताः । अतस् तैः कर्म कृतम् उभौ लोकौ वर्धयति । पुरुषकर्मप्रचोदिता देवाः । “आदित्याज् जायते वृष्टिः” (म्ध् ३.६६ [७६]) इति, अस्यापि लोकस्य वृष्टिर्77 वृद्धिः । ब्राह्मणादीन् वर्णान् निरवर्तयन् निर्वर्तितवान् असृजत् । मुखबाहूरुपादतः, यथाक्रमं मुखाद् ब्राह्मणम्, बाहुभ्यां राजन्यम्, ऊरुभ्यां वैश्यम्, शूद्रं पादत इति । तसिः अपादाने (पाण् ५.४.४५) । कारणात् कार्यं निष्कृष्यत इवेति भवति78 । अपाये सति अपादानत्वम् । आद्यं कंचिद् ब्राह्मणं स्वमुखावयवेभ्यो79 दैव्या शक्त्या निर्मितवान्, अद्यतनानां सर्वेषां मिथुनसंप्रयोगद्वारेण तत्त्वेभ्य80 उत्पत्तिदर्शनात् । परमार्थतः स्तुतिर् एषा वर्णानाम् उत्कर्षापकर्षप्रदर्शनार्थम् । सर्वेषां भूतानां प्रजापतिः श्रेष्ठस् । तस्यापि सर्वेषाम् अङ्गानां मुखम् । ब्राह्मणो ऽपि सर्वेषां वर्णानां प्रशस्यतमः । एतेन सामान्येन ब्रह्ममुखाद् उत्पन्न इत्य् उच्यते । मुखकर्माध्यापनाद्यतिशयाद् वा मुखत इत्य् उच्यते । क्षत्रियस्यापि बाहुकर्म युद्धम् । वैश्यस्याप्य् ऊरुकर्म पशून्81 रक्षतो गोभिश् चरन्तीभिर् भ्रमणम्, स्थलपथवारिपथादिषु वाणिज्यायै गमनम् । शूद्रस्य पादकर्म शुश्रूषा ॥ १.३१ ॥
द्विधा कृत्वात्मनो देहम् अर्धेन पुरुषो ऽभवत् ।
अर्धेन नारी तस्यां स विराजम् असृजत् प्रभुः ॥ १.३२ ॥
मेधातिथिः ...{Loading}...
एषा सृष्टिः साक्षात् परस्य पुरुषस्य । इयं तु ब्रह्मणस् तस्यैवेत्य् अन्ये । यत् तद् अन्तरण्डं समुद्गतं शरीरं तद् द्विधा कृत्वा, अर्धेन पुरुषो ऽभवत् पुमान् संपन्नः शुक्रसेकसमर्थः । अर्धेन नारी गौरीश्वरभङ्ग्या । अथ वा पृथग् एव तां निर्मितवान् । तां निर्माय तस्यां मैथुनेन धर्मेण विराड् इति यस्य नाम प्रसिद्धं तं जनितवान् । एतद् उच्यते । प्रजापतिः स्वां दुहितरम् अगच्छत् । इदम् अपि जायापत्योः शरीरमात्रभेदात् सर्वत्र कार्येष्व् अविभागात् तदालम्बनं द्वैधंकारवचनम् ॥ १.३२ ॥
तपस् तप्त्वासृजद् यं तु स स्वयं पुरुषो विराट् ।
तं मां वित्तास्य सर्वस्य स्रष्टारं द्विजसत्तमाः ॥ १.३३ ॥
मेधातिथिः ...{Loading}...
स विराट् तपस् तप्त्वा यं पुरुषम् असृजत् तं मां वित्त जानीध्वम् । एवं स्मृतिपरंपरया नात्र वः किंचिद् अविदितं मम वर्णयितव्यम् अस्ति । तन्मध्ये शुद्धिम् आत्मन आचष्टे । अस्य सर्वस्य स्रष्टारम् । अनेन सर्वशक्तिम् आह । जन्मकर्मातिशयवन्तं मां प्रत्ययितरीकरिष्यतीत्य् अभिप्रायः निश्चयोत्पत्त्यर्थं च, अन्यतो ऽवगते ऽपि मनुजन्मनि स्वयम् अभिधानात् । यथान्यतः श्रुतो ऽपि कश्चित् पृच्छ्यते, “देवदत्तस्य त्वं पुत्रः” इति, “बाढम्” इति तेनोक्ते निश्चय उपजायते । अभिजनवर्णनं कवीनाम् अत्रपाकरं सत्याम् अपि पारंपर्येणात्मस्तुतौ । द्विजसत्तमा इत्य् आमन्त्रणम् । सत्तमाः साधुतमाः स्रेष्ठा इति यावत् ॥ १.३३ ॥
अहं प्रजाः सिसृक्षुस् तु तपस् तप्त्वा सुदुश्चरम् ।
पतीन् प्रजानाम् असृजं महर्षीन् आदितो दश ॥ १.३४ ॥
मेधातिथिः ...{Loading}...
अहम् असृजम् उत्पादितवान् । दश प्रजापतीन् महर्षीन् । आदितः सुदुश्चरं तपः कृत्वा । सुष्टु दुःखेन तपश् चर्यते ऽतिपीडाकरं बहुकालं च ॥ १.३४ ॥
तान् महर्षीन् नामतो निर्दिशति82 ।
मरीचिम् अत्र्यङ्गिरसौ पुलस्त्यं पुलहं क्रतुम् ।
प्रचेतसं वसिष्ठं च भृगुं नारदम् एव च ॥ १.३५ ॥
मेधातिथिः ...{Loading}...
एते मनूंस् तु सप्तान्यान् असृजन् भूरितेजसः ।
देवान् देवनिकायांश् च महर्षींश् चामितौजसः ॥ १.३६ ॥
मेधातिथिः ...{Loading}...
एते महर्षयः सप्तान्यान् मनून् असृजन् । अधिकारशब्दो ऽयं मनुर् इति । मन्वन्तरे यस्य प्रजासर्गे तत्स्थितौ वाधिकार उक्तेन प्रकारेण स मनुर् इत्य् उच्यते । भूरितेजस अमितौजस इति चैक एवार्थः । एकं प्रथमान्तं स्रष्टुर् विशेषणम् । द्वितीयं द्वितीयान्तं स्रष्टव्यानां मन्वादीनां विशेषणम् । ननु देवा ब्रह्मणैव सृष्टाः । सत्यं, न सर्वे । अपरिमिता हि देवसंघाताः । देवनिकाया हि देवस्थानानि स्वर्गलोकब्रह्मलोकादीनि ॥ १.३६ ॥
यक्षरक्षःपिशाचांश् च गन्धर्वाप्सरसो ऽसुरान् ।
नागान् सर्पान् सुपर्णांश् च पितॄणां च पृथग्गणान् ॥ १.३७ ॥
मेधातिथिः ...{Loading}...
यक्षादीनां स्वरूपभेदश् चेतिहासादिप्रमाणक एव, न प्रत्यक्षादीनाम् अन्यतमेन प्रमाणेन परिच्छिद्यते । तत्र वैश्रवणानुचरा यक्षाः । रक्षांसि विभीषणादयः । तेभ्यः क्रूरतराः पिशाचाः, अशुचिमरुदेशादिवासिनो निकृष्टा यक्षराक्षसेभ्यः । हिंस्रास् तु सर्व एव । छद्मकरणेन83 केचित् प्राणिनां जीवम् आकर्षन्त्य् अदृष्टया शक्त्या व्याधींश् च जनयन्तीत्य् ऐतिहासिका मन्त्रवादिनश् च । गन्धर्वा देवानुचरा गीतनृत्तप्रधानाः । अप्सरसो देवगणिका उर्वश्याद्याः । असुरा देवशत्रवो वृत्रविरोचनहिरण्याक्षप्रभृतयः । नागा वासुकितक्षादयः । सर्पाः प्रसिद्धाः । सुपर्णाः पक्षिविशेषा गरुत्मत्प्रभृतयः । पितरः सोमपाज्यपादिनामानः स्वस्थाने देववद् वर्तन्ते । तेषां गणम् असृजन् ॥ १.३७ ॥
विद्युतो ऽशनिमेघांश् च रोहितेन्द्रधनूंषि च ।
उल्कानिर्घातकेतूंश् च ज्योतींष्य् उच्चावचानि च ॥ १.३८ ॥
मेधातिथिः ...{Loading}...
मेघोदरदृश्यं84 मध्यमं ज्योतिर् विद्युद् उच्यते । यस्यास् तडित्सौदामिनीत्यादयः पर्याया विशेषाश्रयाः । अशनिः शिलाभूता हिमकणिका सूक्ष्मदृश्यश् च वर्षधारादिवत् पतन्त्यो वेगवद् वातप्रेरिताः सस्यादिविनाशिन्य उच्यन्ते । मेघा अभ्रोदकमरुज्ज्योतिःसंघाता आन्तरिक्षाः । रोहितं दण्डाकारम् अन्तरिक्षे नीललोहितरूपं कदाचित् दृश्यते । आदित्यमण्डललग्नं कदाचित्, कदाचित् प्रदेशान्तरे ऽपि । तस्यैव विशेष इन्द्रधनुः । वक्रत्वं धनुराकारताधिकास्य । उल्का संध्याप्रदोषादौ विसारिप्रभाण्य् उत्पाते दिक्षु पतन्ति यानि ज्योतींषि दृश्यन्ते । निर्घातः भूम्यन्तरिक्ष उत्पातशब्धः । केतव उत्पाते दृश्यमानानि शिखावन्ति ज्योतींषि प्रसिद्धानि । अन्यान्य् अपि ध्रुवागस्त्यारुन्धतीप्रभृतीनि नानाप्रकाराणि ॥ १.३८ ॥
किंनरान् वानरान् मत्स्यान् विविधांश् च विहङ्गमान् ।
पशून् मृगान् मनुष्यांश् च व्यालांश् चोभ्यतोदतः ॥ १.३९ ॥
मेधातिथिः ...{Loading}...
अश्वमुखाः प्राणिनो हिमवदादिपर्वतेषु भवन्ति ते किंनराः । वानरा मर्कटमुखा पुरुषविग्रहाः । विहङ्गमाः पक्षिणः । अजाविकोष्ट्रगर्दभादयः पशवः । मृगाः रुरुपृषतादयः । व्यालाः सिंहव्याघ्रादयः । द्वे दन्तपङ्क्ती उत्तराधरे येषां भवतस् ते उभयतोदतः ॥ १.३९ ॥
कृमिकीटपतङ्गांश् च यूकामक्षिकमत्कुणम् ।
सर्वं च दंशमशकं स्थावरं च पृथग्विधम् ॥ १.४० ॥
मेधातिथिः ...{Loading}...
कृमयो ऽत्यन्तसूक्ष्मा प्राणिनः । कीटास् तेभ्य ईषत्स्थूला भूमिचराः । पतङ्गाः शलभपक्षकादयः85 । स्थावरं वृक्षपर्वतादि । पृथग्विधं नानाप्रकारम् । क्षुद्रजन्तव इत्य् एकवद्भावः ॥ १.४० ॥
एवम् एतैर् इदं सर्वं मन्नियोगान् महात्मभिः ।
यथाकर्म तपोयोगात् सृष्टं स्थावरजङ्गमम् ॥ १.४१ ॥
मेधातिथिः ...{Loading}...
एवम् इति प्रक्रान्तप्रकारप्रत्ययपरामर्शः86 । एतैर् महात्मभिर् मरीच्यादिभिः । इदं सर्वं स्थावरजङ्गमं सृष्टम् । यथाकर्म यस्य जन्मान्तरे यादृशं कर्म तदपेक्षम् । यस्यां जातौ यस्य तु युक्तम् उतपत्तुं कर्मवशात् स तस्याम् एवोत्पादितः । मन्नियोगान् मदाज्ञया । तपोयोगान् महत्कृत्वा तपः । यावत् किंचिन् महद् ऐश्वर्यं तत् सर्वं तपसा प्राप्य्म् इत्य् एतद् अनेनाह ॥ १.४१ ॥
येषां तु यादृशं कर्म भूतानाम् इह कीर्तितम् ।
तत् तथा वो ऽभिधास्यामि क्रमयोगं च जन्मनि ॥ १.४२ ॥
मेधातिथिः ...{Loading}...
येषां भूतानां यादृशं कर्म स्वभावतो हिंस्रम् अहिंस्रं वा तद्वत् तथैव कीर्तितम् । इदानीं जन्म**क्रमयोगम् अभिधास्यामि **। क्व पुनः कर्म कीर्तितं यत्रेदं यक्षरक्ष इत्यादि नामनिर्देशो न कर्मनिर्देशः । उच्यते । नामनिर्देशाद् एव कर्मावगतिः, कर्मनिमित्तत्वाद् एषां नामप्रतिलम्भस्य । तथा हि यक्षणाद् भक्षणाद् अशनाद् वा यक्षाः । रहसि क्षणनाद्87 रक्षांसि । पिषिताशनात् पिशाचाः । अद्भ्यः सृता इत्य् अप्सरसः । अमृताख्यायाः सुराया अलाभाद् असुरा । इत्याद्य् अप्य् ऊह्यम् । जन्मनि क्रमयोगो जरायुजाण्डजा इत्यादि वक्ष्यते ॥ १.४२ ॥
पशवश् च मृगाश् चैव व्यालाश् चोभयतोदतः ।
रक्षांसि च पिशाचाश् च मनुष्याश् च जरायुजाः ॥ १.४३ ॥
मेधातिथिः ...{Loading}...
एते जरायुजाः । जरायुर् उल्बं गर्भशय्या । तत्र प्रथमं ते संभवन्ति । ततो मुक्ता जायन्ते । एष एतेषां जन्मक्रमः । दन्तशब्दसमानार्थो दत्शब्दो ऽन्यो ऽस्तीत्य् उभयतोदत इति प्रथमाबहुवचने रूपं युज्यते ॥ १.४३ ॥
अण्डजाः पक्षिणः सर्पा नक्रा मत्स्याश् च कच्छपाः ।
यानि चैवंप्रकाराणि स्थलजान्य् औदकानि च ॥ १.४४ ॥
मेधातिथिः ...{Loading}...
नक्राः शिशुमरादयः । कच्छपः कूर्मः । यानि चैवंप्रकाराणि कृकलासादीनि स्थलजानि । एवंरूपाण्य् औदकानि जलजानि शङ्खादीनि ॥ १.४४ ॥
स्वेदजं दंशमशकं यूकामक्षिकमत्कुणम् ।
ऊष्मणश् चोपजायन्ते यच् चान्यत् किंचिद् ईदृशम् ॥ १.४५ ॥
मेधातिथिः ...{Loading}...
स्वेदः पार्थिवानां द्रव्याणाम् अग्न्यादित्यादितापसंबन्धाद् अन्तःक्लेदस् ततो जायते दंशमशकादि । अन्यद् अपि यद् ईदृशम् अत्यन्तसूक्ष्मं पुत्तिकापिपीलिकादि यद् ऊष्मण उपजायते । ऊष्मा स्वेद एव, तद्धेतुर् वा तापः । “उपजायन्ते” इति वा पाठः । “ये चान्ये केचिद् ईदृशाः” इति पठितव्यम् ॥ १.४५ ॥
उद्भिज्जाः स्थावराः सर्वे बीजकाण्डप्ररोहिणः ।
ओषध्यः फलपाकान्ता बहुपुष्पफलोपगाः ॥ १.४६ ॥
मेधातिथिः ...{Loading}...
उद्भेदनम् उद्भित् । भावे क्विप् । ततो जायन्त इति उद्भिज्जाः । उप्तं बीजं भूमिं च भित्त्वा विदार्य जायन्ते वृक्षाः । सर्वे बीजात् काण्डाच् च प्ररोहन्ति जायन्ते मूलस्कन्धादिना दृढीभवन्ति । तथ्औषध्यः । ओषधय इति युक्तम् । ईकारः कृदिकारद् इति, छान्दसो वा । इदं तासां स्वाभाविकं कर्म । पाकान्ताः फलपाकः अन्तो नाश आसाम् इति । पक्वे फले व्रीह्यादयो नश्यन्ति, बहुना च पुष्पफलेनोपगताः युक्ता भवन्ति । औषधीनां वृक्षाणां च यथासंभवम् एतद् विशेषणम् ॥ १.४६ ॥
अपुष्पाः फलवन्तो ये ते वनस्पतयः स्मृताः ।
पुष्पिणः फलिनश् चैव वृक्षास् तूभतः स्मृताः ॥ १.४७ ॥
मेधातिथिः ...{Loading}...
विना पुष्पेण फलं जायते येषां ते वनस्पतयः कथ्यन्ते, न वृक्षाः । पुष्पिणः फलिनश् च वृक्षाः । उभययोगात् क्वचिद् वनस्पतयो वृक्षा अपि उच्यन्ते, वृक्षाश् च वनस्पतयो ऽपि । तत्र विशेषहेतुत्वं88 दर्शयिष्यामः ।
- वयं तु ब्रूमः । नायं शब्दार्थसंबन्धविधिर् व्याकरणस्मृतिवत् । तेन नायम् अर्थो य एवंस्वभावास् ते वनस्पत्यादिशब्दवाच्याः, किं तर्हि पुष्पफलानां जन्मोच्यते । तस्य वक्तव्यतया प्रकृतत्वात् “क्रमं योगं तु जन्मनि” (म्ध् १.४२) इति । द्विधा फलानाम् उत्पत्तिः । अन्तरेण पुष्पाणि जायन्ते पुष्पेभ्यश् च । एवं पुष्पाणि वृक्षेभ्यश् च । तेन यद्य् अप्य् एवम् अभिधानं “ये फलिनस् ते वनस्पतयो ज्ञेयास्” तथापि प्रकरणसामर्थ्याद् यत्तदोर् व्यत्ययः कर्तव्यः । ये वनस्पतय इति एवं प्रसिद्धास् ते ऽपुष्पाः फलवन्तस् तेभ्यः पुष्पम् अन्तरेण फलानि जायन्ते इति । सामर्थ्याच् चायं क्रमो ऽवतिष्ठते । यथा “वाससा स्तम्भं प्रवेष्टय” इति वाससि परिधातव्ये ऽयम् अर्थो ऽस्य भवति । स्तम्भे निधाय वासः परिधापयेति । प्रसिद्धम् अप्य् एतद् अनूद्यते “तमसा बहुरूपेण” (म्ध् १.४९) इत्य् एतत् प्रतिपादयितुम् ॥ १.४७ ॥
गुच्छगुल्मं तु विविधं तथैव तृणजातयः ।
बीजकाण्डरुहाण्य् एव प्रताना वल्ल्य एव च ॥ १.४८ ॥
मेधातिथिः ...{Loading}...
याः संहता भूमेर् बद्धा एकमूला अनेकमूलाश् च लता उत्तिष्ठन्ति न च वृद्धिं महतीं प्राप्नुवन्ति तासां संघातो गुच्छगुल्मशब्दवाच्यः तृणमूलकादिः । तयोस् तु भेदः पुष्पवद् अपुष्पकृतो वा । अन्या वा तृणजातयः कुशशाद्वलशङ्खपुष्पीप्रभृतयः । प्रताना दीर्घा भूमिगतास् तृणप्ररोहाः । वल्ल्यो व्रतत्यः भूमेर् उत्पत्य वृक्षम् अन्यं वा कंचित् परिवेष्ट्योर्ध्वम् आरुहन्ति । सर्वम् एतत् वृक्षवत् बीजकाण्डरुहम् ॥ १.४८ ॥
तमसा बहुरूपेण वेष्टिताः कर्महेतुना।
अन्तःसंज्ञा भवन्त्य् एते सुखदुःखसमन्विताः ॥ १.४९ ॥
मेधातिथिः ...{Loading}...
कर्म अधर्माख्यं हेतुर् यस्य तमसस् तेन वेष्टिता व्याप्ताः । बहुरूपेण विचित्रदुःखानुभवनिमित्तेन । यद्य् अपि सर्वं त्रिगुणं तथाप्य् एषां तम उद्रिक्तम्, अपचिते सत्त्वरजसी । अतस् तमोबाहुल्यान् नित्यं निर्वेददुःखादियुक्ता अधर्मफलम् अनुभवन्तः सुचिरम् आस्ते । सत्त्वस्यापि तत्र भावात् कस्यांचिद् अवस्थायां सुखलेशम् अपि भुञ्जते । तद् आह- सुखदुःखसमन्विता इति । अन्तःसंज्ञेति89 । संज्ञा90 बुद्धिस् तल्लिङ्गस्य बहिर्विहारव्याहारादेः कार्यस्य चेष्टारूपस्याभावाद् अन्तःसंज्ञा उच्यन्ते । अन्यथान्तर् एव सर्वः पुरुषश् चेतयते । अथ वा यथा मनुष्याः कण्टकादितोदं प्राक् चेतयन्ते नैवं स्थावराः । ते हि महान्तं प्रतोदं परशुविदारणादिदुखसंज्ञायाम् अपेक्षन्ते । यथा स्वापमदमूर्च्छावस्थागताः प्राणिनः ॥ १.४९ ॥
एतदन्तास् तु गतयो ब्रह्माद्याः समुदाहृताः।
घोरे ऽस्मिन् भूतसंसारे नित्यं सततयायिनि ॥ १.५० ॥
मेधातिथिः ...{Loading}...
एषो ऽन्तो ऽवसानं वल्लीगतिर् यासां गतीनां ता एतदन्ताः । कृतकर्मफलोपभोगार्थम् आत्मनस् तत्तच्छरीरसंबन्धो91 गतिर् उच्यते । अस्याः स्थावरात्मिकाया गतेर् अन्या निकृष्टा दुःखबहुला गतिर् नास्ति । ब्रह्मगतेश् चान्याद्योत्तमा गतिर् आनन्दरूपा नास्ति । एता गतयः शुभाशुभैः कर्मभिर् धर्माधर्माख्यैः प्राप्यन्ते । परब्रह्मावाप्तिस् तु मोक्षलक्षणा केवलानन्दरूपा ज्ञानात् ज्ञानकर्मसमुच्चयाद् वेति वक्ष्यामः ।
- भूतसंसारे भूतानां क्षेत्रज्ञानां संसारे जन्ममरणप्रबन्धे जात्यन्तरागमने । घोरे प्रमादालस्यवतां भीषणे, इष्टवियोगानिष्टयोगोत्पत्त्या । सततं सर्वकालं गमनशालिनि92 विनाशिन्य् असारे ऽपि नित्यं घोरे न कदाचिद् अघोरे । देवादिगतिष्व् अपि सुचिरं स्थित्वा मर्तव्यम् इति नित्यं घोरः । तद् अनेन धर्माधर्मनिमित्तत्वसंवर्णनेन संसारस्य शास्त्रस्य महाप्रयोजनता प्रतिपदिता भवति । शास्त्राद् धि धर्माधर्मयोर् विवेकज्ञानम् इत्य् अधेतव्यम् ॥ १.५० ॥
एवं सर्वं स सृष्ट्वेदं मां चाचिन्त्यपराक्रमः ।
आत्मन्य् अन्तर्दधे भूयः कालं कालेन पीडयन् ॥ १.५१ ॥
मेधातिथिः ...{Loading}...
एवं किंचित् साक्षात् किंचित् प्रजापतिनियोगेन स भगवान् सर्वम् इदं जगत् सृष्ट्वा उत्पाद्य मां च जगत्स्थितौ नियोज्य स्वे ऽन्तरे93 ऽचिन्त्य आश्चर्यरूपो महान् प्रभावः पराक्रमः सर्वविषयाशक्तिर् यस्य स सृष्ट्वा अन्तर्दधे ऽन्तर्धानं कृतवान् इच्छागृहीतं शरीरं योगशक्त्योज्झित्वा पुनर् अप्रकाशः संवृत्तः । आत्मनीति । यथान्ये भावाः प्रकृताव् अन्तर्धीयन्त एवं सो ऽन्यत्रेत्य् एवं न । किं तर्ह्य् आत्मन्य् एव प्रलीनः । न हि तस्यान्या प्रकृतिर् अस्ति यत्रान्तर्धीयेत, सर्वभूतानां तत्प्रकृतित्वात् । जगत्सर्वव्यापारान् निवृत्तिर् वान्तर्धानम् । भूयः कालं कालेन पीडयन् । सृष्ट्वेत्य् एतत् क्रियापेक्षः शता द्रष्टव्यः । प्रलयकालं सर्गस्थितिकालेन विनाशयन् । भूयः पुनर् इत्य् अर्थः । वक्ष्यति “अनन्ता सर्गसंहाराः” इति ॥ १.५१ ॥
यदा स देवो जागर्ति तद् एवं चेष्टते जगत् ।
यदा स्वपिति शान्तात्मा तदा सर्वं निमीलति ॥ १.५२ ॥
मेधातिथिः ...{Loading}...
स देवो यदा जागर्ति यद् एतद् इच्छतीदं जगद् उत्पद्यताम् एताम् स्थितिं च कालम् इयन्तं लभताम् इति तदा चेष्टते । मानसवाचिकभौतिकैर् व्यापारैर् आन्तरैर् बाह्यैश् च श्वासप्रश्वासाहारविहारकृषियागादिभिर् युक्तं भवति । यदा स्वपिति यदा निवृत्तेच्छो भवति जगत्सर्गस्थितिभ्यां तदा सर्वं निमीलति प्रलयं प्राप्नोति । जागर्या स्वापश् च प्रजापतेर् इच्छा प्रवृत्तिनिवृत्ती उच्येते । शान्तात्मत्वं भेदावस्थोपसंहारः ॥ १.५२ ॥
तस्मिन् स्वपति तु स्वस्थे कर्मात्मानः शरीरिणः ।
स्वकर्मभ्यो निवर्तन्ते मनश् च ग्लानिम् ऋच्छति ॥ १.५३ ॥
मेधातिथिः ...{Loading}...
पूर्वव्याख्यानश्लोको ऽयं विस्पष्टार्थः । स्वस्थे सुस्थिरे । शान्तात्मवच् छुद्धरूपे । स्वात्मन्य् अवस्थानम् औपाधिकभेदनिवृत्तिः । कर्मात्मानः कर्मप्रधानाः संसारिणः क्षेत्रज्ञाः । शरीरिणः । कर्मसंबन्धेन शरीरसंबन्धानुभावाद् एवम् उच्यन्ते । तस्मिन् स्वपति शयाने स्वकर्मभ्यो निवर्तन्ते । शरीरचेष्टानिवृत्तिर् एतेनोच्यते । मनश् च ग्लानिम् ऋच्छति । एतेनान्तरव्यापारनिवृत्तिः । अतो बाह्यान्तरव्यापारनिवृत्त्या प्रलयः प्रतिपादितो भवति । ग्लानिर् निरुत्साहः स्वव्यापारे ऽशक्तताम्94 ऋच्छति प्राप्नोति ॥ १.५३ ॥
युगपत् तु प्रलीयन्ते यदा तस्मिन् महात्मनि ।
तदायं सर्वभूतात्मा सुखं स्वपिति निर्वृतः ॥ १.५४ ॥
मेधातिथिः ...{Loading}...
यत्तदोर् व्यत्ययेनायं श्लोको व्याख्यातव्यः । अन्यथा पूर्वश्लोकापेक्षयेतरेतराश्रयः प्रसज्येत । एतद् उक्तम् । यदा स्वपिति तदा निमीलति सर्वम् ।
सुखं स्वपिति निर्वृतः । सुखस्वरूपम् एव परं ब्रह्म, न तस्य स्वापावस्थायां सुखम् अन्यदा दुःखम् । स्वापश् च तस्य यादृशः स प्राग् उक्त एव । निर्वृतिश् च तस्य सर्वकालम् । न ह्य् असौ परमात्माविद्योपप्लवतरङ्गैर् आमृश्यते, केवलसुखमयः । तस्य सर्वस्य कर्तृत्वं उपपद्यते । यथायं पुरुष उपरतो गृहकृत्येभ्यः कृतकृत्यतयार्जितं मया धनं गृहोपयोगि निरुपद्रवश् चास्मि संवृत्त इत्य् एवं सुखं स्वपिति निर्वृत्तो निराशङ्कात्मबाध एवम् उपमीयते ऽसाव् अपि । तस्यापीदं जगत् कुटुम्बभूतम् इति प्रशंसा ।
- प्रधानविषयो वायं श्लोको वर्णनीयः । तदा प्रधानं स्वपिति यदा युगपत् सर्वाणि भूतानि तत्र प्रलीयन्ते तदात्मतां कारणरूपताम् आपद्यन्ते विकारावस्थाम् उद्गच्छन्ति95 युगपद् यावन्ति त्रैलोक्योदरवर्तीनि । स्वापश् च परिणामनिवृत्तिर् न पुनर् ज्ञानोपसंहतिः अचेतनस्य प्रधानस्य । सुखं चोपचारतो ऽचेतनत्वाद् एव ॥ १.५४ ॥
J: ujjhanti
तमो ऽयं तु समाश्रित्य चिरं तिष्ठति सेन्द्रियः ।
न च स्वं कुरुते कर्म तदोत्क्रामति मूर्तितः ॥ १.५५ ॥
मेधातिथिः ...{Loading}...
इदानीं संसारिणः पुरुषस्य मरणं देहान्तरप्राप्तिश् चाभ्यां श्लोकाभ्यां कथ्यते । तमो ज्ञाननिवृत्तिस् तां समाश्रित्य चिरं तिष्ठत्य् आस्ते सेन्द्रियः । न च स्वं कुरुते कर्म श्वासप्रश्वासादिकं । तदा मूर्तितः शरीराद् उत्क्रामति गच्छति ।
-
ननु च सर्वगत आत्माकाशवद् विभुस् तस्य कीदृश्य् उत्क्रान्तिः ।
-
कर्मोपार्जितशरीरत्याग एवोत्क्रान्तिः । न पुनर् मूर्तस्यैवार्थस्य देशाद् देशान्तरगमनम् । अथ वा कैश्चिद् इष्यते- अस्त्य् अन्यद् अन्तराभवं शरीरं सूक्ष्मं यस्येयम् उत्क्रान्तिः । अन्यैस् त्व् अन्तराभवदेहो नेष्यते । यथाह भगवान् व्यासः-
-
अस्मिन् देहे व्यतीते तु देहम् अन्यन् नराधिप ।
-
इन्द्रियाणि वसन्त्य् एव तस्मान् नास्त्य् अन्त्राभवः ॥
सांख्या अपि केचिन् नान्तराभवम् इच्छन्ति विन्ध्यवासिप्रभृतयः । को ऽयम् अन्तराभवो नाम । अस्मिञ् छरीरे नष्टे मातृकुक्ष्यादिस्थानं द्वितीयशरीरग्रहणार्थं यावन् न प्राप्तं तावद् अन्तरा निरुपभोगं96 शरीरम् उपजायते सूक्ष्मं यस्य न क्वचित् संयोगो नाग्न्यादिदाहो न महाभूतैः प्रतिबन्धः । अन्ये तु मूर्तिं परमात्मानम् आहुः । सर्वात्मरूपः परमात्मा समुद्रस्थानीयस् ततः प्रादुर् भवन्ति जीवा अविद्यावशाद् भेदम् उपयन्ति, महोदधेर् इवोर्मयः । तस्य च ततो निष्क्रामतः पुर्यष्टाकाख्यं लिङ्गम् अभ्युपगम्यते । धर्माधर्मपूर्वकृतवशात्97 प्रत्येकस्य जीवस्य वासःस्थानीयं सूक्ष्मं शरीरम् । यथा पुराण उक्तम् ।
-
पुर्यष्टकेन लिङ्गेन प्राणाख्येन स युज्यते ।
-
तेन बद्धस्य वै बन्धो मोक्षो मुक्तस्य तेन तु ॥
ते च प्राणापानव्यानोदानसमानाः पञ्च बुद्धीन्द्रियवर्ग एवं कर्मेन्द्रियवर्गो ऽष्टमं मन इत्य् एतत् पुर्यष्टकम् । तच्छरीरं न नश्यति आमोक्षावस्थायाः । तद् उक्तम् “संसरति निरूपभोगभावैर्98 अधिवासितं लिङ्गम्” ॥ १.५५ ॥
यदाणुमात्रिको भूत्वा बीजं स्थास्नु चरिष्णु च ।
समाविशति संसृष्टस् तदा मूर्तिं विमुञ्चति ॥ १.५६ ॥
मेधातिथिः ...{Loading}...
अण्व्यः सूक्ष्मा मात्रा अवयवा यस्य सो ऽणुमात्रिकः । पुर्यष्टकम् अन्तराभवदेहो वा, स्वभावत एव वात्मानः सूक्ष्माः । यथोक्तम् । “स एष आत्मान्तर्हृदये ऽणीयान्” इत्यादि (छु ३.१४.३) । बीजं शरीरोत्पत्तिकारणम् । स्थास्नु वृक्षादिजन्महेतुभूतम् । चरिष्णु जगमम् । समाविशत्य् अधितिष्ठति प्रतिनिबध्यते । यदा तेन संसृष्टः प्राणादिभिस् तदा मूर्तिं विमुञ्चत्य् आबध्नाति शरीरं गृह्णातीत्य् अर्थः ॥ १.५६ ॥
एवं स जाग्रत्स्वप्नाभ्याम् इदं सर्वं चराचरम् ।
संजीवयति चाजस्रं प्रमापयति चाव्ययः ॥ १.५७ ॥
मेधातिथिः ...{Loading}...
उपसंहारः पूर्वोक्तस्य । आत्मसंबन्धिभ्यां जाग्रत्स्वप्नाभ्यां चराचरं स्थावरं जंगमं जीवयति मारयति च जगत् । अव्ययो ऽविनाशी ॥ १.५७ ॥
इदं शास्त्रं तु कृत्वासौ माम् एव स्वयम् आदितः ।
विधिवद् ग्राहयामास मरीच्यादींस् त्व् अहं मुनीन् ॥ १.५८ ॥
मेधातिथिः ...{Loading}...
इह शास्त्रशब्देन स्मार्तो विधिप्रतिषेधसमूह उच्यते, न तु ग्रन्थः, तस्य मनुना कृतत्वात् । तथा हि मानव इति व्यपदेशो ऽस्य । इतरथा हि हैरण्यगर्भ इति व्यपदिश्येत ।
-
केचित् तु हिरण्यगर्भेनापि कृते ग्रन्थे मनुना बहूनां प्रकाशितत्वात् तेन व्यपदेशो युज्यत एव । यथा हिमवति प्रथमम् उपलभ्यमाना गङ्गा, अन्यतो ऽप्य् उत्पन्ना हैमवतीति व्यपदिश्यते, यथा च नित्यं दर्शनात् काठकं प्रवचनं कठेन व्यपदेशः । सत्स्व् अप्य् अन्येष्व् अध्येतृष्व् अध्यापयितृषु च प्रवचनप्रकर्षात् कठेन व्यपदेशः । नारदश् च स्मरति- “शतसाहस्रो ऽयं ग्रन्थः प्रजापतिना कृतस् ततः स मन्वादिभिः क्रमेण संक्षिप्तः” इति । अतो ऽन्यकृतत्वे ऽपि मानवव्यपदेशो न विरुद्धः । शास्त्रशब्देन ग्रन्थाभिधानम् अपि शासनरूपार्थप्रतिपादकत्वाद् दृष्टम् एव ।
-
माम् एव ग्राहयामास, अहं तेनाध्यापित इत्य् अर्थः । स्वयम् आदितो विधिवद् इत्य् एभिः पदैर् आगमस्याविभ्रंश उच्यते । ग्रन्थकारेण हि स्वकृतो ग्रन्थो यः स्वयम् अध्याप्यते प्रथमं तत्र मात्रापि न परिहीयते । अन्यस्य हि तस्माद् अधिगतवतो ऽन्यम् अध्यापयतो न तद्ग्रन्थाविनाशे यत्नो भवति । कर्तुर् अप्य् अध्यापितपूर्वस्य “प्रतिष्ठापितो मया पूर्वम् अयं ग्रन्थः” इति द्वितीयवारं प्रमादालस्यादिना भ्रंशः संभाव्यते । अत आदित इत्य् उक्तम् । विधिवच् छिष्योपाध्याययोर् अनन्यमनस्कतादिगुणो ऽवहितचित्तता विधिः । अर्हे वतिः (च्ड़्। पाण् ५.१.११७) ।
-
मरीच्यादींस् त्व् अहं मुनीन् । मरीच्यादयः प्रसिद्धप्रभावाः, तैर् अप्य् एतन् मत्सकाशाद् अधितम् इत्य् आत्मनो विशिष्टशिष्यसंबन्धेन सिद्धम् औपाध्यायिकं99 दर्शयन् महर्षीणां शास्त्रमाहात्म्येन च श्रद्धातिशयं जनयत्य् अध्ययनाविरामाय । एवंविधम् एतन् महच् छास्त्रं यन् मरीच्यादिभिर् अप्य् अधीतम् । एष चेदृशो महात्मा मनुस् तेषाम् उपाध्याय इति युक्तम् एतस्य सकाशाद् एतद्ग्रन्थाध्ययनम् इत्य् आ शास्त्रपरिसमाप्तेर् नोपरमन्ते श्रोतार इत्य् उभयथापि शास्त्रप्रशंसा ॥ १.५८ ॥
एतद् वो ऽयं भृगुः शास्त्रं श्रावयिष्यत्य् अशेषतः ।
एतद् धि मत्तो ऽधिजगे सर्वम् एषो ऽखिलं मुनिः ॥ १.५९ ॥
मेधातिथिः ...{Loading}...
एतच् छास्त्रं वो युष्माकम् अयं भृगुर् अशेषतः सर्वं श्रावयिष्यति कर्णपथं नेष्यत्य् अध्यापयिष्यति व्याख्यास्यति च । एतच् छास्त्रस्यैतद् आ प्रत्यवमर्शः । एतच् छास्त्रम् एव मुनिर् अखिलम् अशेषं मत्तो मत्सकाशाद् अधिजगे ऽधिगतवान् ज्ञातवान् । गुरुमुखाद् विद्या निष्क्रामतीव शिष्यः प्रतिगृह्णातीवेत्य् अतः अपादाने तसिर् मत्त इति युक्तः । भृगुस् तु महर्षीणां प्रख्याततरप्रभावः । तस्य प्रवक्तृत्वनियोगेनानेकाशेषनिरतिशयविद्याविदाम् आगमनपरंपरयागतम् एतच् छास्त्रम् इति प्रदर्श्यते । अतश् च केषांचिद् अयम् अपि प्रवृत्तिप्रकारो दृश्यते । बहुभ्यो महात्मभ्यः शास्त्रम् इदम् अवतीर्णम् इति, किम् इति नाधीमह इत्य् अध्ययनादिप्रवृत्त्याभिमुख्यं शास्त्रे जन्यते ॥ १.५९ ॥
ततस् तथा स तेनोक्तो महर्षिर् मनुना भृगुः ।
तान् अब्रवीद् ऋषीन् सर्वान् प्रीतात्मा श्रूयताम् इति ॥ १.६० ॥
मेधातिथिः ...{Loading}...
स महर्षिर् भृगुस् तेन मनुना तथोक्तः “एष वः श्रावयिष्यति” इति नियुक्तस् ततो ऽनन्तरं तान् ऋषीन् अब्रवीच् छ्रूयताम् इति । प्रीतात्मानेकशिष्यसंनिधाव् अहम् अत्र नियुक्त इति बहुमानेन प्रीतात्मत्वं प्रवक्तृत्वयोग्यतयाज्ञाकरो ऽहम् अनेन संभावित इत्य् आत्मनि भृगोर् बहुमानः ॥ १.६० ॥
स्वायंभुवस्यास्य मनोः षड्वंश्या मनवो ऽपरे ।
सृष्टवन्तः प्रजाः स्वाः स्वा महात्मानो महौजसः ॥ १.६१ ॥
मेधातिथिः ...{Loading}...
उपाध्यायो धर्मान् पृष्टो जगदुत्पत्त्यादि वर्णितवान् । तथैव शिष्यो ऽपि तन्नियुक्तस् तच्छेषम् एव वर्णयितुम् आरब्धः ।** अस्येति** साक्षात्कारेण मनुं प्रत्यवमृश्यति । अस्मदुपाध्यायस्य स्वायंभुव इत् ख्यातस्य षड् अन्ये ऽपरे मनवो वंश्या एकस्मिन् वंशे कुले जाताः सर्वे वंश्याः । सर्वे हि साक्षाद् ब्रह्मणा सृष्टा इत्य् एककुलसंभवाद् वंश्या उच्यन्ते । अथ वा एकस्मिन् कार्ये ऽधिकृता वंश्या एककर्मान्वयेन प्राणिनां वंशव्यवहारो भवति । “द्वौ मुनी व्याकरणस्य वंश्यौ” । तं100 चैकं धर्मं दर्शयति सृष्टवन्तः प्रजाः स्वाः स्वाः इति । मन्वन्तरे मन्वन्तरे यस्य मनोर् अधिकारः स एव पजानां पूर्वमन्वन्तरविनष्टानां स्रष्टा पालयिता च । अतो येन याः प्रजाः सृज्यन्ते तास् तस्य स्वा भवन्ति ॥ १.६१ ॥
स्वारोचिषश् चोत्तमश् च तामसो रैवतस् तथा ।
चाक्षुषश् च महातेजा विवस्वत्सुत एव च ॥ १.६२ ॥
मेधातिथिः ...{Loading}...
तान् मनून् नामतो निर्दिशति । महातेजा इति विशेषनम् । अन्यानि नामानि रूढ्या निबन्धेन वा । विवस्वत्सुत इति समासपदरूपं शब्दान्तरं कृष्णसर्पनरसिंहादिशब्दवत् ॥ १.६२ ॥
स्वायंभुवाद्याः सप्तैते मनवो भूरितेजसः ।
स्वे स्वे ऽन्तरे सर्वम् इदम् उत्पाद्यापुश् चराचरम् ॥ १.६३ ॥
मेधातिथिः ...{Loading}...
अत्र सप्त मनवो मया प्रोक्ताः । अन्यत्र चतुर्दश संपद्यन्ते । स्वे स्वे ऽनतरे ऽवसरे प्राप्ते ऽधिकारकाले इति यावत् । उत्पाद्य प्रजा आपुः पालितवन्तः । स्वे स्वे ऽन्तरे ऽधिकारावसरे, यस्य मनोर् यस्मिन् काले प्राप्तः सर्गस्थितिपालनाधिकारः । अन्ये त्व् अन्तरशब्दं मासादिशब्दवत् कालविशेषवाचिनं मन्यन्ते । तद् अयुक्तम् । मनुशब्दोपसंहितः कालविशेषविषयो मन्वन्तरो नाम कालो, न तु केवल इति ॥ १.६३ ॥
निमेषा दश चाष्टौ च काष्ठा त्रिंशत् तु ताः कला ।
त्रिंशत्कला मुहूर्तः स्याद् अहोरात्रं तु तावतः ॥ १.६४ ॥
मेधातिथिः ...{Loading}...
स्थितिप्रलयकालपरिमाणनिरूपणार्थं ज्योतिःशास्त्रगोचरं कालविभागं वक्तुम् उपक्रमते । अष्टादश निमेषाः काष्ठा नाम कालो भवति । त्रिंशत्काष्ठाः कलाः । त्रिंशत्कला एको मुहूर्तः स्यात् । तावतः त्रिंशद् इत्य् अर्थः । त्रिंशन् मुहूर्तः अहोरात्रम् । विद्याद् इति क्रियापदम् आहृत्य तावद् इति द्वितीयाबहुवचनम् । अथ101 को ऽयं निमेषो नाम । अक्षिपक्ष्मणोर् नैसर्गिककम्प उन्मेषसहचारी । अन्यैस् तु पठितं यावता कालेनाविकृतम्102 अक्षरम् उच्चार्यते स निमेषः ॥ १.६४ ॥
अहोरात्रे विभजते सूर्यो मानुषदैविके ।
रात्रिः स्वप्नाय भूतानां चेष्टायै कर्मणाम् अहः ॥ १.६५ ॥
मेधातिथिः ...{Loading}...
अहश् च रात्रिश् च अहोरात्रे । तयोर् विभागं करोति आदित्यः । उदित आदित्ये यावत् तदीया रश्मयो दृश्यन्ते तावद् अहर्व्यवहारः । अस्तम् इते तु प्राग् उदयाद् रात्रिव्यवहारः । मनुष्यलोके देवलोके वा । यत्र तर्ह्य् आदित्यो न व्याप्नोति रश्मिभिस् तत्र कथम् अयम् अहोरात्रविभागो विज्ञेयो ऽत आह । रात्रिः स्वप्नायेति । स्वयंप्रभेषु भूतेषु नित्यप्रकाशित्वात् कर्मचेष्टाकार्यारम्भेण स्वापेन च विभागः । यथैवौषधीनां नियतः प्रादुर्भावकालः स्वाभाव्याद् एवं कर्मचेष्टास्वापाव् अपि कालस्वभावत एव नियतौ ॥ १.६५ ॥
पित्र्ये रात्र्यहनी मासः प्रविभागस् तु पक्षयोः ।
कर्मचेष्टास्व् अहः कृष्णः शुक्लः स्वप्नाय शर्वरी ॥ १.६६ ॥
मेधातिथिः ...{Loading}...
यो मनुष्याणां मासः स पितॄणाम् अहर्निशम् । कतरद् अहः कतमा च रात्रिर् इति प्रविभागः । इदम् अहर् इयम् रात्रिर् इत्य् एष विभागः । पक्षयोः पञ्चदशरात्रिसंमितयोर् अर्धमासाख्ययोर् व्यवस्थितः । पक्षाश्रित इत्य् अर्थः । एकः पक्षो ऽहर् अपरो रात्रिस् तयोश् च भिन्नस्वभावत्वान् नियतक्रमत्वाच् च विशेषम् आह । अहः कृष्णः पक्षः । शुक्लः पक्षः शर्वरी रात्रिः । “कर्मचेष्टाभ्यः” इति युक्तः पाठः, यथा “स्वप्नाय” इति । तादर्थ्यम् एव विषयभावेन विवक्षितम् । वृत्तानुरोधाद् अतः सप्तमी ॥ १.६६ ॥
दैवे रात्र्यह्नी वर्षं प्रविभागस् तयोः पुनः ।
अहस् तत्रोदगयनं रात्रिः स्याद् दक्षिणायनम् ॥ १.६७ ॥
मेधातिथिः ...{Loading}...
वर्षं मनुष्याणां द्वादसमासास् तद् एकम् अहोरात्रं देवानाम् । तोयोश् च विभाग उदगयनदकिष्णायनाभ्याम् । तत्रोदीचीं दिशम् अभिप्रतिष्ठमानस्यादित्यस्य षण्मासा उदगयनं भवति । अयनं गमनम् अधिष्ठानं वा । तस्यां दिशि षण्मासान् आदित्य उदेति । ततः परावृत्तस्य दक्षिणायनम् । तथा हि दक्षिणां दिशम् आक्रम्योदीचीं हित्वा ह्य् उदयं करोति ॥ १.६७ ॥
ब्राह्मस्य तु क्षपाहस्य यत् प्रमाणं समासतः ।
एकैकशो युगानां तु क्रमशस् तन् निबोधत ॥ १.६८ ॥
मेधातिथिः ...{Loading}...
ब्रह्मा प्रजानां स्रष्टा, तस्य यो लोकस् तत्र क्षपाहस्याहोरात्रस्य यत् प्रमाणं युगानां चैतत् समासतः संक्षेपेण निबोधत मत्सकाशाच् छृणुत । एकैकशः एकैकस्य युगस्य ।
- वक्ष्यमाणस्य प्रकरणस्य पिण्डार्थकथनार्थो ऽयं श्लोकः श्रोतॄणाम् अवधानार्थः । तथा च संबुध्यन्ते निबोधतेति । प्रकृते कालविभागे पुनः प्रतिज्ञानं प्रकरणान्तरत्वज्ञापनार्थम्103 । तेन वक्ष्यमाणो ऽर्थो न शास्त्रारम्भशेष एव, अपि तु धर्मायापि । तथा च वक्ष्यति “ब्राह्मं पुण्यम् अहर् विदुः” (म्ध् १.७३) इति । तद्विज्ञानाच् च पुण्यं भवतीत्य् अर्थः ॥ १.६८ ॥
चत्वार्य् आहुः सहस्राणि वर्षाणां तत् कृतं युगम् ।
तस्य तावच्छती संध्या संध्यांशश् च तथाविधः ॥ १.६९ ॥
मेधातिथिः ...{Loading}...
प्रकृतत्वाद् दैविकानि वर्षाणि परिगृह्यन्ते । तथा च पुराणकारः-
-
इत्य् एतद् ऋषिभिर् गीतं दिव्यया संख्यया द्विजाः ।
-
दिव्येनैव प्रमाणेन युगसंख्या प्रकीर्तिता ॥
तानि चत्वारि सहस्राणि कृतयुगं नाम कालः । तस्य कृतयुगस्य तावन्त्यैव शतानि चत्वारि संध्या । संध्यांशस् तस्य तथाविधस् तत्परिमाणश् चत्वारिवर्षशतानीत्य् अर्थः । यत्रातीतस्य104 कालस्यागामिनश् च स्वभावानुवृत्तिः सा संध्या । उभयकालधर्मानुविधानं संध्यांसः, यत्रेषत्पूर्वधर्मानुवृत्तिर् भूयसी भाविनो युगस्य ॥ १.६९ ॥
इतरेषु ससंध्येषु ससंध्यांशेषु च त्रिषु ।
एकापायेन वर्तन्ते सहस्राणि शतानि च ॥ १.७० ॥
मेधातिथिः ...{Loading}...
कृतयुगाद् अन्येषु त्रेतादिषु त्रिषु युगेषु संध्यासंध्यांशसहितेषु वर्तन्ते । हानिर् अपायः । एकं सहस्रं हनिं त्रेतायां कृतयुगात् । एवं त्रेतातो द्वापरस्य द्वापरात् कलेः । एवं च त्रीणि वर्षसहस्राणि त्रेता द्वे द्वापर एकं कलिर् इति भवति । शतानि हीयन्ते संध्यातदंशयोः । विशिष्टो ऽहःसंघातो युगाख्यस् तस्य विशेषाः कृतादयः ।
- “तावच् छती” इति ईकारः स्मर्तव्यः । इह स्मृतिः । तावतां शतानां समारारः । तावच् छब्दस्य “बहुगणवतुडति” (पाण् १.१.२३) इति वत्वन्तत्वात् संख्यासंज्ञायां सत्यां “संख्यापूर्वो द्विगुः” (पाण् २.१.५२) इति द्विगुसंज्ञायां सत्याम् टापो ऽपवादो “द्विगोः” (पाण् ४.१.२१) इति ङीप् । शतं105 परिमाणम् अस्य इति । “यत्तदेतेभ्यः”106 (पाण् ५.२.३९) इति वतुप् । “आ सर्वनाम्नः” (पाण् ६.३.९१) इत्य् आकारः । अन्यथा बहुव्रीहौ तावन्ति शतानि यस्याः, शतशब्दस्याकारान्तत्वात् “अजाद्यतष्टाप्” (पाण् ४.१.४) इति टापा भवितव्यम् । तस्मिन् कृते तावच्छता इति स्याद् इत्य् अभिप्रायः ॥ १.७० ॥
यद् एतत् परिसंख्यातम् आदाव् एव चतुर्युगम् ।
एतद् द्वादशसाहस्रं देवानां युगम् उच्यते ॥ १.७१ ॥
मेधातिथिः ...{Loading}...
यद् एतद् इति लौकिकी वाचो युक्तिः । समुदायेन प्रक्रान्तो ऽर्थः परामृश्यते । यद् एतच् चतुर्युगं परिसंख्यातं चत्वारि सहस्राणीत्यादिना निश्चितसंख्यम् आदौ प्राग् अस्माच् छ्लोकात्- एतस्य107 चतुर्युगस्य द्वादशभिः सहस्रैर् देवानां युगम् उच्यते । द्वादशचतुर्युगसहस्राणि देवयुगं नाम काल इत्य् अर्थः । सहस्रशब्दात् स्वार्थे ऽण् । द्वादशचतुर्युगसहस्राणि परिमाणं यस्मिन्न् इति विग्रहः ॥ १.७१ ॥
दैविकानां युगानां तु सहस्रं परिसंख्यया ।
ब्राह्मम् एकम् अहर् ज्ञेयं तावती रात्रिर् एव च ॥ १.७२ ॥
मेधातिथिः ...{Loading}...
देवयुगसाहस्रं ब्राह्मम् एकम् अहः । तावती ब्रह्मणो रात्रिर् देवयुगसहस्रम् एव । परिसंख्यया संख्यानेन यत् सहस्रम् इति संबन्धः । श्लोकपूरणार्थश् चायम् अनुवादः । न ह्य् असंख्यया सहस्रादिव्यवहारः । हेतौ तृतीया ॥ १.७२ ॥
तद् वै युगसहस्रान्तं ब्राह्मं पुण्यम् अहर् विदुः ।
रात्रिं च तावतीम् एव ते ऽहोरात्रविदो जनाः ॥ १.७३ ॥
मेधातिथिः ...{Loading}...
युगसहस्रम् अन्तो यस्याह्नस् तद् युगसहस्रान्तम् । ये मनुष्या108 एतज् जानते ते ऽहोरात्रविदः । किं तेषाम् इत्य् अपेक्षायां पुण्यं भवतीति संबन्धः । ब्राह्मस्याह्नः परिमाणवेदनं पुण्यम् अतस् तद् वेदितव्यम् इति स्तुत्या विधिप्रतिपत्तिः ॥ १.७३ ॥
तस्य सो ऽहर्निषस्यान्ते प्रसुप्तः प्रतिबुध्यते ।
प्रतिबुद्धश् च सृजति मनः सदसदात्मकम् ॥ १.७४ ॥
मेधातिथिः ...{Loading}...
स ब्रह्मा तावतीं दीर्घां निशां निद्राम् अनुभूय प्रतिबुध्यते । ततः पुनर् जगत् सृजति । स्वापो ब्रह्मण उक्तरूपः । न ह्य् असौ प्राकृतपुरुषवत् स्वपिति, नित्यं प्रतिबोधात् । तत्र सर्गक्रमम् आह- मनः सदसदात्मकम् इति । ननु च “अप एव ससर्जादौ” (म्ध् १.८) इत्य् उक्तम् । केचिद् आहुर् द्विविधः प्रलयः महाप्रलयो ऽवान्तरप्रलयश् च । अवान्तरप्रलये ऽयं क्रमः । मनश् चात्र न तत्वान्तर्गतम्, तस्य पूर्वम् उत्पन्नत्वात् । किं तर्हि, प्रजापतिः प्रबुद्धः मनःसर्गाय सृजति नियुङ्क्ते इत्य् अर्थः । द्वितीये तु महाप्रलयपक्षे मनःकारणत्वान् महत् तत्त्वम् एव मनस् ततश् च प्रागुक्तक्रमहानिः109 । पुराणे हि-
-
मनो महान् मतिर् बुद्धिर् महत्त्वं च कीर्त्यते ।
-
पर्यायवाचकाः शब्दा महतः परिकीर्तिताः ॥ इति ॥ १.७४ ॥
मनः सृष्टिं विकुरुते चोद्यमानं सिसृक्षया ।
आकाशं जायते तस्मात् तस्य शब्दं गुणं विदुः ॥ १.७५ ॥
मेधातिथिः ...{Loading}...
उक्ताप्य् एषा तत्त्वस्य सृष्टिः । यो विशेषो नोक्तस् तत्प्रतिपादनाय पुनर् उच्यते । विकुरुते विशेषतः करोति110 ब्रह्मणा चोद्यमानम् । तस्माच् चोदिताद्111 आकाशं जायते । तस्याकाशस्य शब्दाख्यो गुणो भवति । गुण आश्रित उच्यते, आकाशं तस्याश्रयः । न ह्य् आकाशं विना शब्दस्य संभवः ॥ १.७५ ॥
आकाशात् तु विकुर्वाणात् सर्वगन्धवहः शुचिः ।
बलवाञ् जायते वायुः स वै स्पर्शगुणो मतः ॥ १.७६ ॥
मेधातिथिः ...{Loading}...
भूताद् भूतान्तरस्योत्पत्तिर् नेष्यते । महतः सर्वभूतानाम् उत्पत्त्यभ्युपगमात्, तेनैवं व्याख्यायते । आकाशाद् अनन्तरं महतो विकुर्वाणात् स्पर्शमात्रभावं गताद् वायुर् जायते । सर्वगन्धाञ् छुचीन् अशुचींश् च वहति । अथ च शुचिः पवित्रः । बलवान् । यावती काचिद् विकृतिश्112 चेष्टारूपा सा वायुकर्म113 कम्पाक्षेपोर्ध्वाधस्तिर्यग्गमनादिलक्षणा । यत्किंचिच् चलितं स्पन्दितं तत् सर्वं वाय्वायत्तम् इत्य् एतत् प्रदर्शयितुं बलवान् इत्य् उक्तम् । उत्तरत्रापि याः पञ्चम्यस् ता न जन्यर्थापेक्षाः । किं तर्हि वायोः परतो ऽनन्तरम् इत्य् एवं योजनीयाः ॥ १.७६ ॥
वयोर् अपि विकुर्वाणाद् विरोचिष्णु तमोनुदम् ।
ज्योतिर् उत्पद्यते भास्वत् तद्रूपगुणम् उच्यते ॥ १.७७ ॥
मेधातिथिः ...{Loading}...
विरोचिष्णु भास्वद् इति समानार्थेन शब्दद्वयेन स्वपरप्रकाशता प्रतिपाद्यते । स्वयं दीप्तिमत् परं च भासयति ॥ १.७७ ॥
ज्योतिषश् च विकुर्वाणाद् आपो रसगुणाः स्मृताः ।
अद्भ्यो गन्धगुणा भूमिर् इत्य् एषा सृष्टिर् आदितः ॥ १.७८ ॥
मेधातिथिः ...{Loading}...
रसो मधुरादिः सलिलगुणः गन्धः सुरभिर् असुरभिश् च । स भूमेर् गुणः । तथा च वैशेषिकाः- “क्षिताव् एव गन्धः” इति (प्रभ् ४.१) । एते सांसिद्धिका एकैकस्य गुणाः संसर्गात् तु संकीर्यनते । तद् उक्तम् “यो यो यावतिथः” (म्ध् १.२०) इति । एतच् च गुणानुकथनम् अध्यात्मचिन्तायां उपयुज्यते । उक्तं हि पुराणकारेण-
-
दश मन्वन्तराणीह तिष्ठन्तीन्द्रियचिन्तकाः ।
-
भौतिकास् तु शतं पूर्णं सहस्रं त्व् अभिमानिनः ॥
अहंकारचिन्तकाः-
-
महात्मकाः सहस्राणि दश तिष्ठन्ति विज्वराः ।
-
पूर्णं शतसहस्रं तु तिष्ठन्त्य् अव्यक्तचिन्तकाः ।
-
पुरुषं निर्गुणं प्राप्य परिसंख्या न विद्यते ॥ १.७८ ॥
यत् प्राग् द्वादशसाहस्रम् उदितं दैविकं युगम् ।
तद् एकसप्ततिगुणं मन्वन्तरम् इहोच्यते ॥ १.७९ ॥
मेधातिथिः ...{Loading}...
एकसप्ततिर् दैविकानि युगानि मन्वन्तरं नाम कालः ॥ १.७९ ॥
मन्वतराण्य् असंख्यानि सर्गः संहार एव च ।
क्रीडन्न् इवैतत् कुरुते परमेष्ठी पुनः पुनः ॥ १.८० ॥
मेधातिथिः ...{Loading}...
नैषा संख्या विद्यत इत्य् असंख्यानि । ननु चतुर्दश मन्वन्तराणीति संख्या श्रूयते ज्योतिःशास्त्रादौ । उच्यते । आवृत्त्या ह्य् असंख्यानि । यथा द्वादशमासाः । सर्गसंहार्योर् अप्य् आवृत्तिर् अनुपरतैव । क्रीडन्न् इवैतत् कुरुत इति । सुखर्थितया क्रीडा । तस्य चाप्तकामत्वाद् आनन्दैकरूपत्वाच् च न क्रीडाप्रयुक्तौ सर्गसंहारौ । अत इव शब्दः प्रयुक्तः । अत्र114 परिहारः स प्राग् उक्त एव । लीलयापि कौतुकेनापि115 लोके राजादीनां प्रवृत्तिर् दृश्यत इति ब्रह्मविदः ॥ १.८० ॥
चतुष्पात् सकलो धर्मः सत्यं चैव कृते युगे ।
नाधर्मेणागमः कश्चिन् मनुष्यान् उपवर्तते116** ॥ १.८१ ॥**
मेधातिथिः ...{Loading}...
चत्वारः पादा यस्य चतुष्पाद् धर्मः । यागादेश् च धर्मत्वात् तस्य चानुष्ठेयस्वभावत्वाद् विग्रहाभावान् न पादशब्दः शरीरावयववचनः, किं तर्हि, अंशमात्रवचनः । न हि धर्मस्य शरीरम् अस्ति पुरुषविधं पशुपक्ष्यादिविधं वा । तेन स्वांशैश् चतुर्भिर् उपेतश् चतुष्पाद् उच्यते । तेन यो ऽयं धर्मः चतुष्पात् सकलः कृतयुग आसीत् । यागस्य तावत् प्रयोगावस्थस्य चत्वारो होतृकाः, होता ब्रह्मा उद्गाता अध्वर्युर् इति । चत्वारो वर्णाः कर्तार आश्रमा वा । सर्वथा यावान् वेदे धर्म उक्तः स सर्वस् तस्मिन् काले ऽंशतो ऽपि न हीनः अविगुणः सर्वो ऽनुष्ठीयते । बाहुल्येन चतुःसंख्या । एवं दानादिष्व् अपि योज्यम्- दाता द्रव्यं पात्रं भावतुष्टिः । अथ वा यागदानतपांसि ज्ञानं च । तथा वक्ष्यति “तपः परम्” (म्ध् १.८६) इति ।
-
अथ वा धर्मप्रतिपादकं वाक्यं धर्मः । तस्य च चत्वारः पादाः चत्वारि पदजातानि । नामाख्याते चोपसर्गनिपाताश् च । तथा चाह-
-
चत्वारि वाक्परिमिता पदानि तानि विदुर् ब्राह्मणा ये मनीषिणः । (र्व् १.१६४.४५अब्)
मनस ईषिणः (पत् इ- ३) समर्था विद्वांसो धार्मिकाः । अद्यत्वे तु-
न हि प्रकाशन्ते ।
- तुरीयं वाचं119 मनुष्या वदन्ति (र्व् १.१६४.४५द्) ॥
चतुर्थं भागं वैदिका120 मनुष्या वदन्ति ।121 एतद् उक्तं भवति- आदौ न वेदवाक्यं122 किंचिद् अन्तरितम्, न च काचिद् वेदशाखा । अद्यत्वे तु बह्वन्तरितम् ।
- सत्यं चैवं सकलम् इत्य् अनुषङ्गः । सत्य् अपि सत्यस्य विहितत्वाद् धर्मत्वे, प्राधान्यार्थं123 पृथग् उपदेशः, हेत्वर्थे वा । सकलस्य धर्मानुष्ठानस्य सत्यं हेतुः । ये त्व् अनृतिनस् ते लोकावर्जनार्थं किंचिद् अनुतिष्ठन्ति, अन्यत् त्यजन्ति ।
इतरेष्व् आगमाद् धर्मः पादशस् त्व् अवरोपितः ।
चौरिकानृतमायाभिर् धर्मश् चापैति पादशः ॥ १.८२ ॥
मेधातिथिः ...{Loading}...
कृतयुगाद् अन्येषु युगेष्व् आगमद् वेदाख्याद् धर्मः पादशः युगे युगे पादेन्आवरोपितो व्यपनीतः । अन्तर्हिता127 वेदशाखाः,128 पुरुषाणां ग्रहणावधारणशक्तिवैकल्यात् । यो ऽप्य् अद्यत्वे धर्मो ज्योतिष्टोमादिः प्रचरति सो ऽपि चौर्यादिभिः पादशो हीयते । ऋत्विजां यजमानानां दातॄणां संप्रदानानां चैतैर् दोषैर् युक्तत्वान् न यथाविधि धर्मो निष्पद्यते । फलम् अतो यथोक्तं न प्राप्यते129 । तेन धर्मापायहेतूनां चौरिकादीनां न युगैर् यथासंख्यं संबन्धः,130 सर्वेषाम् अद्योपलम्भात् ॥ १.८२ ॥
अरोगाः सर्वसिद्धार्थाश् चतुर्वर्षशतायुषः ।
कृते त्रेतादिषु ह्य् एषां वयो131** ह्रसति पादशः ॥ १.८३ ॥**
मेधातिथिः ...{Loading}...
अधर्मस्य रोगकारणस्याभावाद् अरोगाः । रोगो व्याधिः । सर्व एव चत्वारो वर्णाः सिद्धाभिप्रेतार्थाः । अर्थः प्रयोजनम् । अथ वा सर्वे ऽर्थाः सिद्धाः येषां काम्यानां कर्मणाम् । प्रतिबन्धकाभावाद् अव्याक्षेपेणाशेषफलसिद्धिः । चतुर्वर्षशतायुष इति ।
- ननु “स ह षोडशं वर्षशतम् अजीवत्” (छु ३.१६.७) इति परमम् आयुर्वेदे श्रूयते । अत एवाहुः- वर्षशतशब्दो ऽत्र वयोऽवस्थाप्रतिपादकः,132 चत्वारि वयांसि जीवन्तीति, न पुरायुषः प्रमीयण्ते, नाप्राप्य चतुर्थं वयो म्रियन्ते । अत एव द्वितीये श्लोकार्धे वयो ह्रसतीत्य् आह । पूर्वत्र वयसो वृद्धाव् उक्तायाम्133 उत्तरत्र तस्यैवं134 ह्रासाभिधानोपपत्तिः । पादश इति । न चात्र चतुर्थो भगः पादः, किं तर्हि, भागमात्रम् । अंशत आयुः क्षीयते इत्य् अर्थः । तथा च केचिद् बाला म्रियन्ते, केचित् तरुणाः, केचित् प्राप्तजरसः । परिपूर्णम् आयुर् दुर्लभम् ॥ १.८३ ॥
वेदोक्तम् आयुर् मर्त्यानाम् आशिषश् चैव कर्मणाम् ।
फलन्त्य् अनुयुगं लोके प्रभावश् च शरीरिणाम् ॥ १.८४ ॥
मेधातिथिः ...{Loading}...
केचिद् आहुः- वैदिकैः कर्मभिः सहस्रसंवत्सरादिभिर् अपेक्षितम् **आयुर् वेदोक्तम्** । तद् **अनुयुगं फलति,** युगानुरूपेण संपद्यते, न सर्वेषु युगेषु । नाद्य कश्चित् सहस्रसंवत्सरजीवी । यः सर्वश् चिरं जीवति स वर्षशतम् ।
- तद् अपरे नाद्रियन्ते । यतो दीर्घसत्त्रेषु संवत्सरशब्दे दिवसेषु व्यवस्थापिते (च्ड़्। प्म्स् ६.७.३१–४०) विधेयान्तरविरोधाद् वाक्यभेदापत्तेः । एष हि तत्र ग्रन्थः- “पञ्चपञ्चाशतस् त्रिवृतः संवत्सराः” (त्ब् ३.१२.९.८) इत्यादि । तत्र त्रीण्य अहानि गवांअयनप्रकृतित्वात् प्राप्तानि । विशिष्टा तु संख्या135 पञ्चपञ्चाशत इत्य् अप्राप्तत्वाद् विधेया136 । यद्य् अपरा संवत्सरता प्रतीयेत वाक्यं भिद्येत । तत्रावश्यम् अन्यतरस्यानुवाद आश्रयितव्यः । संवत्सरशब्दः सौरसावनादिमान् अभेदेन षष्ट्यधिकशतत्रयात्मनो ऽहःसंघाताद् अन्यत्रापि दृष्टप्रयोग एवेति । तस्यैव लक्षणया दिवसेष्व् अनुवादो युक्त इति ।
-
अन्ये तु मन्त्रार्थवादेषु “शतम् इन् नु शरदो ऽन्ति देवाः” (र्व् १.८९.९), “शतायुर् वै पुरुषः” (क्स् ३४.५) इति शतशब्दश् च बहुनामसु पठितः, बहुत्वं चानवस्थितम् । युगानुरूपेण दीर्घजीविनो ऽल्पायुषश् च भवन्ति । यथाश्रुतव्याख्याने तु कलौ सर्वे शतायुषश् च भवन्ति । अथ वा आयुःकामस्य यानि कर्माणि, न च तत्र प्रमाणं श्रुतम्, तत्रानुयुगं परिमाणं वेद्यम् ।
-
आशिषः । अन्या अपि फलविषया वेदशासनाः । काम्यानां कर्मणाम् । आयुषः काम्यत्वे ऽपि प्राधान्यात् पृथगुपदेशः । तथा ह्य् आह- “आयुर् वै परमः कामः” । प्रभावः अलौकिकी शक्तिः, अणिमादिगुणयोगः, अभिशाप्ः, वरदानम् । अनुयुगं फलन्तीति सर्वत्र योज्यम् ॥ १.८४ ॥
अन्ये कृतयुगे धर्मास् त्रेतायां द्वापरे परे ।
अन्ये कलियुगे नॄणां युगह्रासानुरूपतः ॥ १.८५ ॥
मेधातिथिः ...{Loading}...
उक्तस्य137 कालभेदेन पदार्थस्वभावबेदस्योपसंहारः । धर्मशब्दो न यागादिवचन एव, किं तर्हि, पदार्थगुणमात्रे वर्तते । अन्ये पदार्थानां धर्माः प्रतियुगं भवन्ति, यथा प्राक् दर्शितम् । यथा वसन्ते ऽन्यः पदार्थानां स्वभावो ऽन्यो ग्रीष्मे ऽन्य एव वर्षासु, एवं युगेष्व् अपि । अन्यत्वं चात्र न कारणानां दृष्टकार्यत्यागेन कार्यान्तरजनकत्वम्, अप्य् त्व्138 अपरिपूर्णस्य कार्यस्योत्पत्तेः शक्तेर् अपचयात् । तद् आह- युगह्रासानुरूपत इति । ह्रासो न्यूनता ॥ १.८५ ॥
तपः परं कृतयुगे त्रेतायां ज्ञनम् उच्यते ।
द्वापरे यज्ञम् एवाहुर् दानम् एकं कलौ युगे ॥ १.८६ ॥
मेधातिथिः ...{Loading}...
अयम् अन्यो युगस्वभावभेदः कथ्यते । तपःप्रभृतीनां वेदे युगभेदेन विधानाभावात् सर्वदा सर्वाण्य् अनुष्ठेयानि । अयं त्व् अनुवादो यथा कथंचिद् व्याख्येयः139 । इतिहासेषु ह्य् एवं वर्ण्यते । **तपः **प्रधानं तच् च महाफलम् । दीर्घायुषो रोगवर्जितास् तपसि समर्था भवन्ति । अनेनाभिप्रायेणोच्यते । ज्ञानम् अध्यात्मविषयम् । शरीरक्लेशाद् अन्तर्नियमो नातिदुष्करः । यागे तु न महाक्लेश इति द्वापरे यज्ञः प्रधानम् । दाने तु न शरीरक्लेशः, नान्तःसंयमः, न चातीव विद्वतोपयुज्यत इति सुसंपादता140 ॥ १.८६ ॥
सर्वस्यास्य तु सर्गस्य गुप्त्यर्थं स महाद्युतिः ।
मुखबाहूरुपज्जानां पृथक् कर्माण्य् अकल्पयत् ॥ १.८७ ॥
मेधातिथिः ...{Loading}...
उक्तः कालविभागः । ब्राह्मणादीनां गुणा इदानीं कथ्यन्ते । तत्रायम् उपक्रमः । सर्वस्य सर्गस्य सर्वेषां लोकानां गुप्त्यर्थं रक्षार्थं महातेजाः प्रजापतिः मुखादिजातानां ब्राह्मणादीनां चतुर्णां वर्णानां दृष्टादृष्टार्थानि कर्माण्य् अकल्पयद् व्यवस्थापितवान् ॥ १.८७ ॥
तानीदानीं कर्माण्य् उच्यन्ते ॥ १.८८ ॥
अध्यापनम् अध्ययनं यजनं याजनं तथा ।
दानं प्रतिग्रहं चैव ब्राह्मणानाम् अकल्पयत् ॥ १.८८ ॥
मेधातिथिः ...{Loading}...
प्रजानां रक्षणं दानम् इज्याध्ययनम् एव च ।
विषयेष्व् अप्रसक्तिश् च क्षत्रियस्य समासतः141** ॥ १.८९ ॥**
मेधातिथिः ...{Loading}...
विषया अभिलाषजनका142 गीतशब्दादयो भावा उच्यन्ते । तत्राप्रसङ्गः पुनः पुनर् असेवनम् ॥ १.८९ ॥
पशूनां रक्षणं दानम् इज्याध्ययनम् एव च ।
वणिक्पथं कुसीदं च वैश्यस्य कृषिम् एव च ॥ १.९० ॥
मेधातिथिः ...{Loading}...
वनिक्पथः वणिक्कर्मणा स्थलपथवारिपथादिना धनार्जनम् । उपयुज्यमानदेशान्तरीयद्रव्यसंनिधापनं यस्य राज्ञो विषये वसति । कुसीदं वृद्ध्या धनप्रयोगः ॥ १.९० ॥
एकम् एव तु शूद्रस्य प्रभुः कर्म समादिशत् ।
एतेषाम् एव वर्णानां शुश्रूषाम् अनसूयया ॥ १.९१ ॥
मेधातिथिः ...{Loading}...
प्रभुः प्रजापतिर् एकं कर्म शूद्रस्यादिष्टवान् । एतेषां ब्राह्मणक्षत्रियवैश्यानां सुश्रूषा त्वया कर्तव्या । अनसूयया अनिन्दया । चित्तेनापि तद् उपरि विषादो न कर्तव्यः । शुश्रूषा परिचर्या तदुपयोगिकर्मकरणं शरीरसंवाहनादि तच्चित्तानुपालनम् । एतद् दृष्टार्थं शूद्रस्य । अविधायकत्वाच् च्ऐकमेव्एति न दानादयो निषिध्यन्ते । विधिर् एषां कर्मणाम् उत्तरत्र भविष्यति । अतः स्वरूपं विभागेन यागादीनां तत्रैव दर्शयिष्यामः ॥ १.९१ ॥
ऊर्ध्वं नाभेर् मेध्यतरः पुरुषः परिकीर्तितः ।
तस्मान् मेध्यतमं त्व् अस्य मुखम् उक्तं स्वयंभुवा ॥ १.९२ ॥
मेधातिथिः ...{Loading}...
आ पादान्तान् मेध्यः पुरुषः । तस्य नाभेर् ऊर्ध्वम् अतिशयेन मेध्यम् । ततो ऽपि मुखम् । एतच् च स्वयम् एव जगत्कारणपुरुषेणोक्तम् ॥ १.९२ ॥
ततः किम् । अत आह ।
उत्तमाङ्गोद्भवाज् ज्यैष्ठ्याद् ब्रह्मणश् चैव धारणात् ।
सर्वस्यैवास्य सर्गस्य धर्मतो ब्राह्मणः प्रभुः ॥ १.९३ ॥
मेधातिथिः ...{Loading}...
उत्तमाङ्गं मूर्धा । तत उद्भवः उत्पत्तिर् ब्राह्मणस्य । ज्येष्ठश् चासाव् अन्येभ्यो वर्णेभ्यः पूर्वं ब्रह्मणा सृष्टः । ब्रह्मणो वेदस्य धारणात् । तस्य हि सविशेषं तद् विहितम् । अतः सर्वस्य जगतो ऽस्माद् धेतुत्रयाद् ब्राह्मणः प्रभुः प्रभुर् इव । प्रभुर् विनयेनोपसर्पणीयः, तदाज्ञायां च धर्मे स्थातव्यम् । धर्मतः प्रभुः धर्मे प्रभुर् इत्य् अर्थः । आद्यादित्वात् तसिः ॥ १.९३ ॥
तं हि स्वयंभूः स्वाद् आस्यात् तपस् तप्त्वादितो ऽसृजत् ।
हव्यकव्याभिवाह्याय सर्वस्यास्य च गुप्तये ॥ १.९४ ॥
मेधातिथिः ...{Loading}...
पूर्वस्यैव हेतुत्रयस्य विशेषार्थम् इदम् । अन्यस्यापि पुरुषस्योत्तमाङ्गं प्रधानम् । तं पुनर् ब्राह्मणं स्वयंभूः स्वाद् आस्यान् मुखाद् असृजत् । तपश् च कृत्वैषोत्तमाङ्गाद् उत्पत्तिः । ज्यैष्ठ्यम् आह- आदितः । यद् देवान् उद्दिश्य क्रियते तद् धव्यम्, पितॄन् उद्दिश्य तत् कव्यम् । तयोर् अभिवहनाय देवान् पितॄंश् च प्रति प्रापणाय । अभिवाह्यायेति भावे कृत्यः कथंचिद् द्रष्टव्यः, सकर्मत्वाद् वहतेः । तेन च कर्मणा सर्वस्य त्रैलोक्यस्य गुप्तिः परिपालनं भवति । इतःप्रदानं देवा उपजीवन्ति । ते च शीतोष्णवर्षैर् ओषधीः पचन्ति पाचयन्ति । अतः परस्परोपकाराद् गुप्तिः ॥ १.९४ ॥
यस्यास्येन सदाश्नन्ति हव्यानि त्रिदिवौकसः ।
कव्यानि चैव पितरः किं भूतम् अधिकं ततः ॥ १.९५ ॥
मेधातिथिः ...{Loading}...
हव्यादिवहनं पूर्वोक्तं दर्शयति । त्रिदिवम् ओको गृहं येषां त एवम् उच्यन्ते, स्वर्गवासिनो देवाः । ब्राह्मणेन भुक्तम् अन्नं देवा उपतिष्ठन्ति । श्राद्धे पित्र्यस्य कर्मणो ऽङ्गभूतं विश्वेदैवान् उद्दिश्य ब्राह्मणभोजनं विहितम् । तदपेक्ष्यैतद् उक्तम् । किं भूतम् अन्यद् अधिकं श्रेष्ठं ततस् तस्माद् इति स्वयं विस्मर्यते । देवाः पितरश् चोत्तमस्थाना मध्यमस्थानाश् चाप्रत्यक्षाः, न तेषां भोजनोपायो ऽन्यो ऽस्त्य् अन्यतो ब्राह्मणभोजनात् । अतो महान् ब्राह्मणः ॥ १.९५ ॥
भूतानां प्राणिनः श्रेष्ठाः प्राणिनां भुद्धिजीविनः ।
बुद्धिमत्सु नराः श्रेष्ठा नरेषु ब्राह्मणाः स्मृताः ॥ १.९६ ॥
मेधातिथिः ...{Loading}...
पृथिव्यां ये भावाः स्थावरा वृक्षादयो जङ्गमाः कृमिकीटादयस् ते भूतशब्देनोच्यन्ते । तेषां ये प्राणिन आहारविहारादिचेष्टासमर्थास् ते श्रेष्ठाः143 । ते हि पटुतरं सुखम् अनुभवन्ति । तेषां ये बुद्ध्या जीवन्ति हिताहिते विचिन्वन्ति श्वशृगालादयः, ते हि घर्मेणोपतप्ताः छायाम् उपसर्पन्ति, शीतेनार्दिता आतपम्144, निराहारं स्थानं त्यजन्ति । तेषाम् अधिकतरा मनुष्याः, तेषां च ब्राह्मणाः । ते हि लोके पूज्यतमाः, न च सर्वेण परिभूयन्ते । जातिमात्राश्रयं हि तद्वधे महत् प्रायश्चित्तम् ॥ १.९६ ॥
ब्राह्मणेषु च विद्वांसो विद्वत्सु कृतबुद्धयः ।
कृतबुद्धिषु कर्तारः कर्तृषु ब्रह्मवेदिनः ॥ १.९७ ॥
मेधातिथिः ...{Loading}...
विदुषां श्रैष्ठ्यं महाफलेषु यागादिष्व् अधिकारात् । तेषाम् अपि कृतबुद्धयः । परिनिष्ठितवेदतत्त्वार्था न बौद्धादिभिः कलुषीक्रियन्ते । तेषाम् अपि कर्तारः कर्मणाम् अनुष्ठातारः । ते हि विहितकरणात् प्रतिषिद्धासेवनाच् च नोपहन्यन्ते । तेषाम् अपि ब्रह्मवेदिनः,145 ब्रह्मस्वरूपत्वात् । तत्र ह्य् अक्षय्यानन्दः ॥ १.९७ ॥
विद्वत्तादिगुणसंबन्धिनो ब्राह्मणस्य विशेषे दर्शिते, जातिमात्रं ब्राह्मणं कश्चिद् अवमन्येत । तन्निवृत्त्यर्थम् इदम् उच्यते ।[^१४६]
उत्पत्तिर् एव विप्रस्य मूर्तिर् धर्मस्य शाश्वती ।
स हि धर्मार्थम् उत्पन्नो ब्रह्मभूयाय कल्पते ॥ १.९८ ॥
मेधातिथिः ...{Loading}...
उत्पत्तिर् एव गुणान् अपहाय जन्मैव, ब्राह्मणस्य जातिर् एव, शाश्वती धर्मस्य मूर्तिः शरीरम् । धर्मार्थम् उत्पन्नो द्वितीयेन जन्मनोपनयनेन संस्कृतः । सा हि तस्य धर्मार्थोत्पत्तिर् ब्रह्मत्वाय कल्पते संपद्यते । धर्मशरीरम् उज्झित्वा परानन्दभाग् भवतीति स्तुतिः146 ॥ १.९८ ॥
ब्राह्मणो जायमानो हि पृथिव्याम् अधिजायते ।
ईश्वरः सर्वभूतानां धर्मकोशस्य गुप्तये ॥ १.९९ ॥
मेधातिथिः ...{Loading}...
सर्वलोकस्योपरि भवति । श्रैष्ठ्यम् उपरिभावेनाह । ईश्वरः सर्वभूतानाम् इति प्रभुत्वम् । धर्माख्यस्य कोशस्य गुप्तये जायते । द्रव्यसंचयः कोशः । उपमानाद् धर्मसंचय उच्यते कोश इति ॥ १.९९ ॥
सर्वं स्वं ब्राह्मणस्येदं यत् किंचिज् जगतीगतम् ।
श्रैष्ठ्येनाभिजनेनेदं सर्वं वै ब्राह्मणो ऽर्हति ॥ १.१०० ॥
मेधातिथिः ...{Loading}...
असंतुष्टस्य प्रतिग्रहादिषु पुनः प्रवृत्तौ दुष्कृतिताम् आशङ्क्य समाधत्ते । सर्वम् इदं त्रैलोक्यान्तर्वर्ति धनं ब्राह्मणस्य स्वं । नात्र प्रतिग्रहो विद्यते । प्रभुत्वेनासौ गृह्णाति, न प्रतिग्रहीतृतयेति । प्रशंसैषा, न विधिः । अत एव्आर्हतिशब्दः । अभिजनः अभिजातताविशिष्टत्वम् ॥ १.१०० ॥
स्वम् एव ब्राह्मणो भुङ्क्ते स्वं वस्ते स्वं ददाति च ।
आनृशंस्याद् ब्राह्मणस्य भुञ्जते हीतरे जनाः ॥ १.१०१ ॥
मेधातिथिः ...{Loading}...
यत् परगृह आतिथ्यादिरूपेण भुङ्क्ते तद् आत्मीयम् एव । नैवं मन्तव्यं परपाकेनेति । स्वं वस्ते । याचित्वायाचित्वा वा वस्त्रं लभते नासौ तस्य लाभाय, अपि तु स्वकस्याच्छादने147 विनियोगः । तिष्ठतु तावद् आत्मोपयोगि यद्148 गृह्णाति तत्र प्रभूतम्, यद् अन्येभ्यो ददाति परकीयम् तद् अपि तस्य नानुचितम् । आनृशंस्यं कारुण्यम् । तदीयया महासत्त्वतया पृथिव्यां राजानः स्वानि धनान्य् उपयुञ्जते । अन्यथा यद्य् असाव् इच्छेत् “अहम् एतद् आदाय स्वकार्ये विनियुञ्जीय” इति, तदा सर्वे निर्धनाः निरुपयोगाः स्युः ॥ १.१०१ ॥
**तस्य कर्मविवेकार्थं शेषाणाम् अनुपूर्वशः । **
स्वायंभुवो मनुर् धीमान् इदं शास्त्रम् अकल्पयत् ॥ १.१०२ ॥
मेधातिथिः ...{Loading}...
सर्वस्याः ब्राह्मणस्तुतेः149 फलप्रदर्शनार्थं श्लोको ऽयम् । एवंविधम् इदं महार्थं शास्त्रं यत् तस्य, स्वमहिम्नात्यन्तिकेन महत्तमस्य ब्राह्मणस्य, कर्मविवेकार्थं, इमानि कर्माणि कर्तव्यानि इमानि वर्ज्याणि, एष विवेकस् तदर्थम् । शेषाणां च क्षत्रियादीनाम् अनुपूर्वशः प्राधान्याद् ब्राह्मणस्यानुषङ्गात् क्षत्रियादीनाम् इदं शास्त्रम् अकल्पयत् कृतवान् ॥ १.१०२ ॥
विदुषा ब्राह्मणेनेदम् अध्येतव्यं प्रयत्नतः ।
शिष्येभ्यश् च प्रवक्तव्यं सम्यङ् नान्येन केनचित् ॥ १.१०३ ॥
मेधातिथिः ...{Loading}...
अध्येतव्यं प्रवक्तव्यम् इत्य् अर्हे कृत्यो न विधौ । द्वितीयाद् अध्यायात् प्रभृति शास्त्रं प्रवर्तिष्यते । अयं ह्य् अध्यायो ऽर्थवाद एव । नात्र कश्चिद् द्विधिर् अस्ति । तेन यथा “राजभोजनाः शालयः” इति शलिस्तुतिर् न राज्ञो ऽन्यस्येति तद्भोजननिषेधः, एवम् अत्रापि नान्येन केनचिद् इति नायं निषेधः, केवलं शास्त्रस्तुतिः । सर्वस्मिञ् जगति श्रेष्ठो ब्राह्मणः, सर्वशास्त्राणां शास्त्रम् इदम् अतस् तादृशस्य विदुषो ब्राह्मणस्याध्ययनप्रवचनार्हं न सामान्येन शक्यते अध्येतुं प्रवक्तुं वा । अत एवाह प्रयत्नत इति । यावन् न महान् प्रयत्न आस्थितो, यावन् न शास्त्रान्तरैस् तर्कव्याकरणमीमांसादिभिः संस्कृत आत्मा, तावद् एतत् प्रवक्तुं न शक्यते । अत एवाध्ययनेन श्रवणं लक्ष्यते । तत्र हि विद्वत्तोपयोगिनी न संपाठे । विधौ ह्य् अध्ययने विद्वत्तादृष्टयैव स्यान् न च “विधौ श्रवणम् अध्ययनेन लक्ष्यते” इति युक्तं वक्तुम् । न विधेये लक्षणार्थता युक्ता । अर्थवादे तु प्रमाणान्तरानुसारेण गुणवादो न दोषाय । तस्मात् त्रैवर्णिकाधिकारं शास्त्रम् । एतच् च परस्ताद् विशेषतो वक्ष्यते ॥ १.१०३ ॥
इदं शास्त्रम् अधीयानो ब्राह्मणः शंसितव्रतः[^१५१]** ।**
मनोवाग्देहजैर् नित्यं कर्मदोषैर् न लिप्यते ॥ १.१०४ ॥
मेधातिथिः ...{Loading}...
एवं संबन्धिद्वारेण ब्राह्मणार्थतया शास्त्रं स्तुत्वाधुना साक्षात् स्तौति । इदं शास्त्रं जानानः शंसितव्रतो150 भवतीति परिपूर्णयमनियमानुष्ठायी भवति । शास्त्राद् अननुष्ठाने प्रत्यवायं ज्ञात्वा तद्भयाद् अनुतिष्ठति सर्वान् यमनियमान् यथाशास्त्रं सर्वम् अनुतिष्ठति । अनुतिष्ठन् विहितातिक्रमप्रतिषिद्धकर्मजनितैर् दोषैर् न लिप्यते न संबध्यते ॥ १.१०४ ॥
पुनाति पङ्क्तिं वंश्यांश् च सप्त सप्त परावरान् ।
पृथिवीम् अपि चैवेमां कृत्स्नाम् एको ऽपि सो ऽर्हति ॥ १.१०५ ॥
मेधातिथिः ...{Loading}...
पङ्क्तिपावनो भवति । विशिष्टानुपूर्वीकः संघातः पङ्क्तिर् उच्यते । तां पुनाति निर्मलीकरोति । सर्वे दुष्टास् तत्संनिधानाद् अदुष्टाः संपद्यन्ते । वंश्यान् स्वकुलसंभूतान् सप्त पराण् उपरितनान् पित्रादीन् आगामिनो ऽवराञ् जनिष्यमाणान् । समुद्रपर्यन्तां पृथिवीं प्रतिग्रहीतुम् अर्हन्ति । धर्मज्ञता हि प्रतिग्रहाधिकारे हेतुः । इतश् च सर्वे धर्मा ज्ञायन्ते ॥ १.१०५ ॥
इदं स्वस्त्ययनं श्रेष्ठम् इदं बुद्धिविवर्धनम् ।
इदं यशस्यम् सततम्151** इदं निःश्रेयसं परम् ॥ १.१०६ ॥**
मेधातिथिः ...{Loading}...
स्वस्त्य्अभिप्रेतस्यार्थस्याविनाशः । अयनं प्रापणम् । स्वस्ति प्राप्यते येन तत् स्वस्त्ययनम् । श्रेष्ठम् अन्येभ्यो जपहोमादिभ्यः । न हि शास्त्रम् अन्तरेण तेषाम् अनुष्ठानं संभवति, अतस् तदनुष्ठानहेतुत्वाच् छ्रेष्टम् एतत् । अथ वा धर्मज्ञानार्थवाक्यान्य् एव श्रेयस्यान्य् अनुष्ट्ःआनं तु क्लेशकरम् अत उच्यते श्रेष्ठम् इति । इदं बुद्धिविवर्धनम् । शास्त्रे ह्य् आसेव्यमाने तदर्थस्य प्रकाशनाद् ग्रन्थिप्रमोक्षाद् बुद्धिविवृद्धिः प्रसिद्धैव । इदं यशस्यम्, धर्मज्ञः संशयानैः पृच्छ्यमानः ख्यातिं लभते । यशसो निमित्तं यशस्यं । विद्वत्तौदार्यादिगुणवत्तया प्रसिद्धिर् यशः । निःश्रेयसं दुःखाननुविद्धायाः प्रीतेः स्वर्गापवर्गलक्षणायास् तत्प्राप्तिहेतुकर्मज्ञानहेतुत्वान् निःश्रेयसं परं श्रेष्ठम् ॥ १.१०६ ॥
अस्मिन् धर्म ऽखिलेनोक्तो गुणदोषौ च कर्मणाम् ।
चतुर्णाम् अपि वर्णानाम् आचारश् चैव शास्वतः ॥ १.१०७ ॥
मेधातिथिः ...{Loading}...
इदानीं स्वशास्त्रस्य स्वविषये साकल्येन वृत्तेर् अन्यनिरपेक्षताम् आह । कश्चिद् यो नाम धर्मः स सर्वः शास्त्रे ऽस्मिन् कार्त्स्न्येनाभिहितः । न तस्माद् धर्मज्ञानाय शास्त्रान्तरापेक्षा कर्तव्येत्य् अतिशयोक्तिः स्तुतिः । अस्मिञ् छस्त्रे धर्मः स्मार्तो ऽखिलेन निःशेषेणोक्तः152 । गुणदोषौ च कर्मणाम् । इष्टानिष्टे फले गुणदोषौ कर्मणां यागादिब्रह्महत्यादीनाम् । एवं हि साकल्यं भवति यत्153 कर्मस्वरूपम् इतिकर्तव्यताफलविशेषः कर्तृविशेषसंबन्धो नित्यकाम्यताविवेकः । एतत् सर्वं गुणदोषपदेन154 प्रतिज्ञातम् । धर्म इत्य् उक्ते कर्मग्रहणं वृत्तपूरणार्थम् । चतुर्णाम् अपि वर्णानाम् । एतद् अपि साकल्यार्थम् । यो नाम कश्चिद् धर्मे ऽधिकृतस् तस्य सर्वस्येतो धर्मलाभः । आचारश् चैव शाश्वतः । आचारप्रमाणको धर्म आचार इत्य् उक्तः । द्वितीये चैनं विवेक्ष्यामः । शाश्वतो वृद्धपरंपरया नेदानींतनैः प्रवर्तितः ॥ १.१०७ ॥
आचारः परमो धर्मः श्रुत्युक्तः स्मार्त एव च ।
तस्माद् अस्मिन् सदायुक्तो नित्यं स्याद् आत्मवान् द्विजः ॥ १.१०८ ॥
मेधातिथिः ...{Loading}...
परमः प्रकृष्टो धर्म आचारस् तथा श्रुतौ वेदे य उक्तः । स्मार्तः स्मृतिषूक्तः । तस्माद् आचारधर्मे नित्यं युक्तः स्यान् नित्यम् अनुतिष्ठेद् आत्मवान् आत्मनो हितम् इच्छन् । सर्वस्यात्मास्त्य् अतो मतुपा तद्धितपरत्वम् उच्यते ॥ १.१०८ ॥
आचाराद् विच्युतो विप्रो न वेदफलम् अश्नुते ।
आचारेण तु संयुक्तः संपूर्णफलभाग् भवेत् ॥ १.१०९ ॥
मेधातिथिः ...{Loading}...
प्रकारान्तरेणेयम् आचारस्तुतिः । आचारात् प्रच्युत आचारहीनो न वेदफलं प्राप्नोति । वेदविहितकर्मानुष्ठानफलं वेदफलम् इत्य् उक्तम् । समग्रान्य् अविकलानि वैदिकानि कर्माण्य् अनुतिष्ठन् यद्य् आचारभ्रष्टो न ततः पुत्रकामादिफलम् अश्नुत इति निन्दा । एष एवार्थो विपर्ययेणोच्यते- आचारेण तु संयुक्तः सकलं फलं प्राप्नोति काम्यानाम्155 । अत्र यद् वदन्ति, “संपूर्णवचनाद् आचारहीनस्याप्य् अस्ति काम्येभ्यः फलसंबन्धः, न कृत्स्नफललाभः” इति, तन् न किंचित्, अर्थवादत्वाद् अस्य ॥ १.१०९ ॥
एवम् आचारतो दृष्ट्वा धर्मस्य मुनयो गतिम् ।
सर्वस्य तपसो मूलम् आचारं जगृहुः परम् ॥ १.११० ॥
मेधातिथिः ...{Loading}...
यावत् किंचित् तपः प्राणायाममौनयमनियमकृच्छ्रचान्द्रायणानशनादि तस्य सर्वस्य फलप्रसवे मूलम् आचारः, अतस् तम् एव मुनयस् तपःफलार्थिनो मूलत्वेन कारणतया जगृहुः गृहीतवन्तः । आचाराद् दृष्ट्वा **धर्मस्य मुनयो गतिं **प्राप्तिम् । अतिक्लेशकरं तपस् तथाप्य्156 आचारहीनस्य न फलतीति श्रुतिः ॥ १.११० ॥
जगतश् च समुत्पत्तिं संस्कारविधिम् एव च ।
व्रतचर्योपचारं च स्नानस्य च परं विधिम् ॥ १.१११ ॥
मेधातिथिः ...{Loading}...
उक्ता157 धर्मा अत्र विशिष्यन्ते । श्रोतृप्रवृत्त्यर्थं चानन्तफलता धर्मस्योक्ता “एतदन्तास् तु” (म्ध् १.५०) इत्यादिना । तत्रातीन्द्रियो ऽयम् अनन्तो दुष्पार इति मन्वाना अवसीदेयुर् अत उत्साहजननार्थं शास्त्रार्थसंकलनात्मिकाम् अनुक्रमणीं पठति । एतावन्त्य् अत्र वस्तूनि, नातिबहूनि, शक्यन्ते श्रद्दधानैः पुरुषैर् ज्ञातुम् इति । संक्षेपोपदिष्टमार्ग आक्रम्यमाणो न दुःसहो भवतीति ।
- जगतश् च समुत्पत्तिम् इति कालपरिमाणं तत्त्वभावभेदो ब्राह्मणस्तुतिर् इत्यादि सर्वं जगदुत्पत्ताव् अन्तर्भूतम् । एतच् चार्थवादतयोक्तं न प्रमेयतया । संस्कारविधिं व्रतचर्योपचारं च । गर्भाधानादयः संस्काराः । तेषां विधिः कर्तव्यता । ब्रह्मचारिणो व्रतचर्याया उपचारो ऽनुष्ठानम् इतिकर्तव्यता वा । एतद् द्वितीयाध्यायप्रमेयार्थः । स्नानं गुरुकुलान् निवर्तमानस्य संस्कारविशेषः ॥ १.१११ ॥
दाराधिगमनं चैव विवाहानां च लक्षणम् ।
महायज्ञविधानं च श्राद्धकल्पं च शाश्वतम् ॥ १.११२ ॥
मेधातिथिः ...{Loading}...
दाराणाम् अधिगमनं भार्यासंग्रहः । विवाहानां ब्राह्मादीनां तत्प्राप्त्युपायानां च लक्षणं स्वरूपाधिगमने हेतुम् । महायज्ञाः पञ्च वैश्वदेवादयः । श्राद्धस्य पितृयज्ञस्य कल्पो विधिर् इतिकर्तव्यता । परग्रहणं शाशवतग्रहणं च वृत्तपूरणार्थम् । एष तृतीयाध्यायार्थः ॥ १.११२ ॥
वृत्तीनां लक्षणं चैव स्नातकस्य व्रतानि च ।
भक्ष्याभक्ष्यं च शौचं च द्रव्याणां शुद्धिम् एव च ॥ १.११३ ॥
स्त्रीधर्मयोगं तापस्यं मोक्षं संन्यासम् एव च ।
राज्ञश् च धर्मम् अखिलं कार्याणां च विनिर्णयम् ॥ १.११४ ॥
साक्षिप्रश्नविधानं च धर्मं स्त्रीपुंसयोर् अपि ।
विभागधर्मं द्यूतं च कण्टकानां च शोधनम् ॥ १.११५ ॥
वैश्यशूद्रोपचारं च संकीर्णानां च संभवम् ।
आपद्धर्मं च वर्णानां प्रायश्चित्तिविधिं तथा ॥ १.११६ ॥
मेधातिथिः ...{Loading}...
वृत्तीनां जीवनोपायानां धर्नार्जनात्मकानां भृत्यादीनां लक्षणम् । स्नातकस्य समाप्तवेदाध्ययनस्य गुरुकुलान् निवृत्तस्य व्रतानि “नेक्षेतोद्यन्तम् आदित्यम्” (म्ध् ४.३७) इत्यादीनि । एष चतुथार्थः ।
-
भक्ष्याभ्क्ष्यं “पञ्च पञ्चनखा भक्ष्याः” “अभक्ष्यं पलाण्ड्वादि” । शौचं कालकृतं जन्मादाव् उदकादिना च द्रव्यशुद्धिः । स्त्रीधर्मयोगः संबन्धो बालयुवेत्यादि । एतत् पाञ्चमिकम् ।
-
तापसाय हितं तापस्यं । तपःप्रधानस् तापसो वानप्रस्थस् तस्य धर्मस् तापस्यम् । मोक्षः परिव्राजकधर्मः । संन्यासश् च तद्विशेष एव । स च तत्रैव दर्शयिष्यते । षष्ठाध्यायस् त्व् एतत् ।
-
राज्ञः पृथिवीपालनाधिकृतस्य प्राप्तैश्वर्यस्य धर्मो ऽखिलो दृष्टार्थो ऽदृष्टार्थश् च । एष सप्तमाध्यायगोचरः ।
-
कार्याणाम् ऋणादीनां विनिर्णयो विचार्य संशयच्छेदेनावधारणम् अनुष्ठेयनिश्चयः । साक्षिणां च प्रश्ने यो विधिः । प्राधान्यात् पृथङ्निर्देशः । आष्टमिको ऽयम् अर्थः ।
-
धर्मः स्त्रीपुंसयोर् इत्य् एकदेशे स्थितयोः प्रवासवियुकयोश् च परस्परं वृत्तिः । रिक्थविभागधर्मः । द्यूतम् । तद्विषयो विधिः द्यूतशब्देनोक्तः । कण्टकादीनां चोराटविकादीनां शोधनं राष्ट्रान् निरसनोपायः । यद्य् अपि विभागादिर् अष्टादशपदान्तर्गतत्वात् कार्याणां चेत्य् अनेनैवोपादानाद् ऋणादानादिवन् न पृथङ् निर्देश्यः158 । अध्यायभेदात् तु पृथङ् निर्देशः । वैश्यशूद्रयोर् उपचारः स्वधर्मानुष्ठानम् । एतन् नवमे ।
- संकीर्णानां क्षत्तृवैदेहकादीनां159 संभवम् उत्पत्तिम् । आपद्धर्मं च स्ववृत्त्याजीवतां प्राणात्यये यो धर्मः । एतद् दशमे ।
- प्रायश्चित्तविधिर् एकादशे ॥ १.११३–६ ॥
संसारगमनं चैव त्रिविधं कर्मसंभवम् ।
निःश्रेयसं कर्मणां च गुणदोषपरीक्षणम् ॥ १.११७ ॥
मेधातिथिः ...{Loading}...
संसारगमनं । धर्मेण धर्मी लक्ष्यते । संसारी पुरुष आत्मा, तस्य गमनं देहाद् देहान्तरप्राप्तिः । अथ वा संसारविषयाः पृथिव्यादयो लोका उच्यन्ते । तत्र गमनं पूर्ववत् । त्रिविधम् उत्तमाधममध्यमं कर्मसंभवं शुभाशुभकर्मनिमित्तम् । निःश्रेयसं न केवलं कर्मनिमित्ता गतय उक्ताः । यावद् यतः परम् अन्यच् छ्रेयो नास्ति तदुपायो ऽप्य् अध्यात्मज्ञानम् उक्तम् । कर्मणां च विहितप्रतिषिद्धानां गुणदोषप्रीक्षा ॥ १.११७ ॥
देशधर्माञ् जातिधर्मान् कुलधर्मांश् च शास्वतान् ।
पाषण्डगणधर्मांश् च शास्त्रे ऽस्मिन्न् उक्तवान् मनुः ॥ १.११८ ॥
मेधातिथिः ...{Loading}...
तद् एव साकल्याभिधानं द्रढयति । प्रतिनियते देशे ऽनुष्ठीयमाना न सर्वस्यां पृथिव्यां ते दशधर्माः । ब्राह्मणादिजात्याश्रया जातिधर्माः । कुलधर्माः प्रख्यातवंशप्रवर्तिता इति । पाषण्डं160 प्रतिषिद्धव्रतचर्या बाह्यस्मृतिसमाश्रयास्161 तत्र ये धर्माः । “पाषण्डिनो162 विकर्मस्थान्” (म्ध् ४.३०) इति163 । गणः संघातो वणिक्कारुकुशीलवादीनाम् । तान् सर्वधर्मान् भगवान् मनुर् अस्मिञ् छास्त्रे उक्तवान् ॥ १.११८ ॥
यथेदम् उक्तवाञ् छास्त्रं पुरा पृष्टो मनुर् मया ।
तथेदं यूयम् अप्य् अद्य मत्सकाशान् निबोधत ॥ १.११९ ॥
मेधातिथिः ...{Loading}...
अवधानार्थः प्रतिबोधः ॥ १.११९ ॥
**इति मानवे धर्मशास्त्रे भृगुप्रोक्तायां संहितायां **
प्रथमो ऽध्यायः
**इति श्रीभट्टमेधातिथिविरचिते मनुभाष्ये **
प्रथमो ऽध्यायः
-
M G: ye ↩︎
-
J : vaidehaka ↩︎
- ↩︎
-
J: sāmarthyapratipādanārthaṃ. M omits the introduction. ↩︎
-
M: abhayaṃ ↩︎
-
M oits:. āhavanīyasya … mantrasya; G 1st ed. has the same omission, but corrected in the 2nd ed. ↩︎
-
J: sauryacarau ↩︎
-
M: avagamayati ↩︎
-
Here numerous variants: M, G (1st ed.): -mūlatvāt | śabdodayo ‘pi śabdābhidhānataḥ; G (2nd ed.) : -mūlatvāt | ubhāv api śabdādayo ‘pi śabdād abhidhānataḥ (ca) pratīyate; ↩︎
-
M G (1st ed.): anyato ↩︎
-
M: etāvān vedasya ↩︎
-
G: ‘rtho vastu | iti ↩︎
-
G: -rūpī ↩︎
-
G 1st ed.: loke na tv eva nābhyupagamyate ↩︎
-
M G: tamasas ↩︎
-
M G: tamasas ↩︎
-
M G: tamaḥkarmaṇā ↩︎
-
G J: ‘hy (ahi here makes no sense. Probably a typo of G followed by J; I follow Mandlik’s reading) ↩︎
-
J: sarvaprakāram ↩︎
-
M G: kasya ↩︎
-
M G 1st ed.: vṛttādyātmanā ↩︎
-
M G: eva ↩︎
-
J: atīto ↩︎
-
M J: prayatnena; but the commentary clearly presupposes “prasannena”. ↩︎
-
G 1st ed: svaṃ tasya ↩︎
-
M: svataḥ svaśarīra- ↩︎
-
G 1st ed.: śuddhasāmānyāt ↩︎
-
MG: jāto jajñe ↩︎
-
M G 1st ed.: bhaved ↩︎
-
M G: omit: bhṛgor apatyāni ↩︎
-
M: bhagavatastā ↩︎
-
J: ityādy ↩︎
-
M G 1st ed.: ity uktvā ↩︎
-
M G 1st ed. omit: sadasadātmakam | sac cāsac ca sadasatī | te ātmā svabhāvo yasya tad evam ucyate | kathaṃ punar ekasya ↩︎
-
M G 1st ed.: viruddhasya ↩︎
-
G 1st ed.: pratipattṛṇi abhedād; J: patipattṛbhedād ↩︎
-
M G: viśeṣas ↩︎
-
J: piṇḍaḥ kāryaṃ ↩︎
-
J: manoś ca vacaniyaṃ ↩︎
-
J: yad ↩︎
-
J: nirvartayed ↩︎
-
J places tasminn aṇḍe sthita utpannaḥ sarvajñaḥ kathaṃ nirgaccheyam iti dhyātavān, after paripacyate. ↩︎
-
G 2nd ed.: bhedaṃ jātam ↩︎
-
M: śakalam aṇḍakapāle; J: śakalam aṇḍakapālam ↩︎
-
M J: compounds tat with the following pradhānāt ↩︎
-
M G 1st ed.: -ānurūpam ↩︎
-
M G 1st ed.: nāma ↩︎
-
J: saṃhatya ↩︎
-
M G: evātmamātrās tadvikārāḥ ↩︎
-
M G 1st ed.: atha yāvat ↩︎
-
J: prakṛtir ↩︎
-
M G 1st ed.: ca tāni ↩︎
-
M G 1st ed.: yadādyantavat ↩︎
-
M G J: tasyārthasyāyaṃ (I follow DK 5: 87) ↩︎
-
M G omit: na ↩︎
-
M: śarīratvasamudāyarūpam; G 1st ed: śarīraṃ ca samudāyarūpam ↩︎
-
G: evaṃ na; 1st ed. adds na in parentheses with a question mark (na ?) ↩︎
-
M: abhiratāḥ; G: (na) abhiratāḥ ↩︎
-
J: pratibho ↩︎
-
M G 1st ed.: itihāsadarśanā | ataś; G 2nd ed.: itihāsadarśanāś ↩︎
-
M G J: kimartham (I follow DK 5:88) ↩︎
-
M G 1st ed. omit: na ↩︎
-
M G: manasaḥ paritoṣam ↩︎
-
M G J: kathitāny atrāpādana- (I follow DK 5.88) ↩︎
-
J: tat ma vyasthānatvād ↩︎
- ↩︎
- ↩︎
- ↩︎
- ↩︎
- ↩︎
- ↩︎
-
M G: kartṛphalaṃ ↩︎
-
M G 1st ed. : etad api śāstrād ↩︎
-
M G 1st ed.: anāyāsam ↩︎
-
M G: tatkarmasaṃsṛṣṭaḥ ↩︎
-
M G: sarvo hi svakṛtāv api ↩︎
-
M G J: sṛṣṭir (I follow the suggestion of DK 5: 1153) ↩︎
-
DK (5: 1153): bhāti ↩︎
-
DK (5: 1153) suggests: brāhmaṇādiṃ svamukhādyavayavebhyo ↩︎
-
DK (5: 1153): tattebhya ↩︎
-
M G 1st ed.: paśurūpaṃ ↩︎
-
J adds: marīcim iti ↩︎
-
J: chadmanā ↩︎
-
G 1st ed.: meghodaraṃ dṛśyaṃ ↩︎
-
J: śalabhādayaḥ ↩︎
-
J omits: pratyaya ↩︎
-
J adds: rakṣaṇād vā ↩︎
-
J: hetuṃ ↩︎
-
M G omit ↩︎
-
M G: antaḥsaṃjñā ↩︎
-
M G: taccharīra- ↩︎
-
J: gamanaśīle ↩︎
-
J omits: sve ’ntare ↩︎
-
G: svavyāpārān niḥśaktatām ↩︎
- ↩︎
-
M G 1st ed.: nirupayogi; G 2nd ed.: nirupabhogayogi ↩︎
-
J: pūrvakṛtadharmādharmavaśāt ↩︎
-
J: nirūpabhogaṃ ↩︎
-
DK (5: 89) suggests: aupādhyāyakaṃ ↩︎
-
J: teṣāṃ ↩︎
-
M G 1st ed.: atha . . . nimeṣaḥ, placed in commentary on 1.65. ↩︎
-
J: kānena vyaktam ↩︎
-
Textual confusion here. M G 1st ed.: pratijñākaraṇaṃ tattvajñāpanārtham (G taratva-); G 2nd ed.: pratijñānaṃ karaṇāṃtaratvajñāpanārtham ↩︎
-
M G 1st ed.: yatrātītasya ↩︎
-
J: tat ↩︎
-
J G: yattadebhyaḥ ↩︎
-
M: chlokākasya; G: ekasya ↩︎
-
J: mānuṣyāḥ ↩︎
-
M G: prāg uktaṃ mahān iti ↩︎
-
M G 1st ed. omit: vikurute viśeṣataḥ karoti ↩︎
-
M G 1st ed.: tasmān noditād ↩︎
-
M: kācic calanakṛtiś; G: balakṛtiś ↩︎
-
M G 1st ed.: vāyukarmaṇaḥ ↩︎
-
J adds: yathā ↩︎
-
J: līlayā niṣprayojanāpi ↩︎
-
M G DK (5: 809): prativartate (but see commentary that reads upavartate) ↩︎
-
M G J: guhāyāṃ (perhaps influenced by the explanatory statement in Pat I: 3). ↩︎
-
M G J: nihitāni (I follow DK 5: 810) ↩︎
-
M G: vāco; G 2nd ed.: bhāgo ↩︎
-
G 2nd ed.: vaidikānāṃ ↩︎
-
M G 1st ed.: na hi prakāśanta | turīyaṃ bhāgaṃ vaidikānāṃ manuṣyā vadanti (thus combining the RV citation and the explanatory statement). This whole section has been confused in the editions because of the failure to distinguish the RV citations from the commentarial explanations. ↩︎
-
M G 1st ed. omit: ādau na vedavākyaṃ ↩︎
-
M G 1st ed.: prādhānyārthaḥ ↩︎
-
J: nādharme ↩︎
-
DK (5: 810): vānuṣṭhātum ↩︎
-
M G: hetutvena nocyate ↩︎
-
M G: vyapanītaḥ antarhitaḥ | ↩︎
-
M: tāvad eva śākhāḥ ↩︎
-
M G: pariprāpyate ↩︎
-
M G omit: sambandhaḥ ↩︎
-
M G: āyur (the commenary clearly reads vayo) ↩︎
-
M G 1st ed.: vayobhedapratipādakaḥ ↩︎
-
M G 1st ed.: vṛddhānuktāyām ↩︎
-
DK (5: 811) suggests: tasyaiva ↩︎
-
M G J: viśiṣṭānusaṃkhyā (I follow DK 5: 811) ↩︎
-
M G J: aprāptavidheyā (I follow DK 5: 811) ↩︎
-
M G 1st ed.: ukto ‘sya; G 2nd ed.: uktoktasya ↩︎
-
M G 1st ed. omit: tv ↩︎
-
M G J: ākhyeyaḥ (I follow the suggestion of DK 5: 812) ↩︎
-
M G: susaṃpādanā ↩︎
-
J: samādiśat ↩︎
-
M G J: viṣayābhilāṣajanakā (I follow DK 5: 1154) ↩︎
-
M G add: prāṇinas ↩︎
-
G 1st ed.: ātāpe ↩︎
-
M G 1st ed. omit; J brahmavādinaḥ ↩︎
-
M G: śrutiḥ ↩︎
-
M G: svakṛtyācchādane ↩︎
-
M G 1st ed. omit: yad ↩︎
-
M G 1st ed.: brāhmaṇaśruteḥ ↩︎
-
G 1st ed.: saṃśitavrato ↩︎
-
M G: āyuṣyam ↩︎
-
M G: niḥśeṣeṇoktau (connecting with the following dual) ↩︎
-
M G: yadi ↩︎
-
M G: guṇapadena ↩︎
-
M G add: ca (see DK 5: 602) ↩︎
-
M G: tadāpy ↩︎
-
MG: ukta ↩︎
-
J G: nideśaḥ ↩︎
-
J G: kṣatriyavaidehakādīnāṃ ↩︎
-
J G: pākhaṇḍaṃ ↩︎
-
G 1st ed.: ābāhya- ↩︎
-
G: pākhaṇḍino ↩︎
-
J omits: bāhyasmṛti- . . . vikaramasthān iti ↩︎