Govindar Aja H

विस्तारः (द्रष्टुं नोद्यम्)

Searchable Electronic Edition of Govindarāja’s commentary on the Mānavadharmaśāstra, transcribed, formatted, and color-coded by Patrick Olivelle, is licensed under a Creative Commons Attribution 4.0 International License.

Last updated: October 2022

Patrick Olivelle (jpo@austin.utexas.edu)

University of Texas at Austin

GOVINDARĀJA’S COMMENTARY ON MANU

Transcribed by Patrick Olivelle

Based on the editions of V.N. Mandlik and J.H. Dave.

Mandlik, Viśvanáth Náráyan (ed.) Mánava-Dharma Śástra [Institutes of Manu] - With the Commentaries of Medhátithi, Sarvajñanáráyaṇa, Kúllúka, Rághavánanda, Nandana, and Rámachandra, and an Appendix. Bombay: Ganpat Krishnaji’s Press 1886.

Dave, Jayantakrishna Harikrishna (ed.) Manu-Smṛti. 6 Volumes. Bhāratīya Vidyā Series. Bombay: Bharatiya Vidya Bhavan, 1972–1984.

श्रीलक्ष्मीकेशवौ जयतः

ॐ नमो विघ्नराजाय ।

संसाराध्वगतागतक्लमतृषापीयुषम् ईशं शनैर्

ध्यात्वानर्गलसम्प्रदाय गुरुतः प्राप्तेः मनोः शासने ।

दृष्ट्वा ग्रन्थकृदाशयाननुसृतिं व्याख्यान्तराणाम् इमां

टीकां शास्त्रकृदाशयानुसरणीं गोविन्द्रराजो व्यधात् ॥ १ ॥

मनुम् एकाग्रम् आसीनम् अभिगम्य महर्षयः ।

प्रतिपूज्य यथान्यायम् इदं वचनम् अब्रुवन् ॥ १.१ ॥

इह भृगुशिष्यः कश्चिद् विच्छिन्नपारम्पर्यतः स्मृत्यर्थप्रबन्धम् इदम् आह – स्वेच्छागृहीतशरीराय प्रजापतये ऽमिततेजसे प्रणम्य मन्वभिहितान् नानाप्रकारान् धर्मान् अदृष्टार्थकर्तव्यतारूपान् इष्टानिष्टप्राप्तिपरिहारप्रयोजनस्य वेदमूलत्वस्यैषाम् इष्यमाणत्वात् नित्यान् कथ्यिष्यामि । अधर्माणां वक्ष्यमाणानाम् अपीह पृथगप्रतिज्ञानं निन्दितकर्माभ्यासेन पातित्ये सति धर्मानुष्ठानानधिकारापत्तेः धर्मप्रतिज्ञायाम् एवान्तर्भावात् । मनुर् नाम महर्षिः अशेषवेदार्थादिज्ञानेन प्राप्तमनुसञ्ज्ञः आगमपरम्परया सकलविद्वज्जनकर्णचरीभूतसर्गस्थितिप्रलयकरणाधिकृतः । स्वयम्भुव इति क्रियाग्रहणम् अपि कर्तव्यम् इति सम्प्रदाने चतुर्थी । वेदार्थोपनिबन्धकत्वेन छन्दस्तुल्यत्वात् स्मृतीनां तु दुष्टा क्वचिद् अत्र छान्दसी रूपसिद्धिः ॥

मनुम् इति । तं मनुम् एकाग्रम् आसीनम् अविक्षिप्तचित्तं स्थितं आभिमुख्येन आदरतो गत्वा । महर्षयः अणिमादिगुणयोगान् महान्तः ऋग्यजुःसामदर्शनान् महर्षयः । यथान्यायं शास्त्रोक्तमर्यादानतिक्रमेण प्रकर्षेण पूजयित्वा इदं समन्तरवक्ष्यमाणं वाक्यम् उक्तवन्तः ॥ १.१ ॥

भगवन् सर्ववर्णानां यथावद् अनुपूर्वशः ।

अन्तरप्रभवानां च धर्मान् नो वक्तुम् अर्हसि ॥ १.२ ॥

भगवन् इति । स हि सर्वैश्वर्योपेतः सर्वेषां वर्णानां ब्राह्मणादीनां शूद्रपर्यन्तानां नः अस्माकम् एव द्विजातीनाम्, तथा ब्राह्मणक्षत्रियादिसङ्करजातानाम् अनुलोमप्रतिलोमानां यावत् कृत्स्नं कृत्वा आनुपूर्व्यात् निषेकादिक्रमेण धर्मान् अस्माकं वक्तुं योग्यो भवति ॥ १.२ ॥

त्वम् एको ह्य् अस्य सर्वस्य विधानस्य स्वयम्भुवः ।

अचिन्त्यस्याप्रमेयस्य कार्यतत्त्वार्थवित् प्रभो ॥ १.३ ॥

त्वेम् एक इति । यस्मात् त्वम् एवैकोस्य सर्वस्य शास्त्रस्य अकृतकस्य इदं कर्तव्यम् इदं नेत्य् एवंविधस्य । यत् त्व् इदं शास्त्रं तत् कृत्वा असाव् इति तत्र ग्रन्थविषये अतिगहनत्वाद् एवंरूपम् एतद् इति । चिन्तयितुम् अशक्यस्य अतिमहत्त्वात् इयद् एतद् इति प्रमातुम् अशक्यस्य कार्यरूपो ऽनुष्ठेयरूपो यः पारमार्थिको ऽर्थः तं वेत्सि सर्वशक्ते ॥ १.३ ॥

स तैः पृष्टस् तथा सम्यग् अमितौजा महात्मभिः ।

प्रत्युवाचार्च्य तान् सर्वान् महर्षीञ् छ्रूयताम् इति ॥ १.४ ॥

**स **इति । मनुः अपरिमिततेजाः महर्षिभिः महात्मभिः परार्थकारिभिः । अत एव तेषां महर्षीणाम् अपि सतां धर्मप्रश्नान् तेन प्रकारेण अभिगमनपूर्वकं सम्यक् पूजापूर्वकं च पृष्टः अभ्यर्चयित्वा तान् प्रति एवम् उक्तवान् श्रूयताम् इति ॥ १.४ ॥

आसीद् इदं तमोभूतम् अप्रज्ञातम् अलक्षणम् ।

अप्रतर्क्यम् अविज्ञेयं प्रसुप्तम् इव सर्वतः ॥ १.५ ॥

आसीद् इति । जगदुत्पत्तिस्थितिप्रलयानां धर्माधर्मनिमित्तत्वात् तत्प्रतिपादनार्थत्वेनेदं शास्त्रं महाप्रयोजनतया यत्नतो ऽधिगन्तव्यम् इत्य् एतदर्थं जगदुत्पदकं प्रकरणम् आरभते । तत्र प्राग्भाविनीं तावदवस्थाम् अनेन श्लोकेनाह । इदं जगत् सृष्टेः प्राक् तम इवाभूत् । यतः कार्यात्मना सर्वस्य तदानीं विनष्टत्वात् प्रत्यक्षेण न ज्ञातम् । अलक्षणम् अविद्यमानलिङ्गतयाननुमेयं प्रत्यक्षपूर्वकत्वाद् अनुमानादीनां तदसम्भवे तेषाम् अप्य् अभावात् । अप्रतर्क्यम् अनौपम्यतयापि “गौर् इव गवयः” इति च तर्कयितुम् अशक्यम् । अविज्ञेयम् अर्थापत्त्यापि जीवतो देवदत्तस्य गृहादर्शनेन बहिर्भाववत् । एवं तर्हि अभाव एव प्राप्त इत्य् अत आह – **प्रसुप्तम् इवेति **। आगमाद् एवंरूपतास्य ज्ञायत इति । यथा सुषुप्तावस्थायाम् उपरतेन्द्रियमनोव्यापारः आत्मा भवति एवं सकलकार्यप्रत्यस्तमये तदानीं समन्तात् जगद् आसीद् इति । स्वप्नदर्शनरहिता हि निद्रावस्था सुषुप्तिः ॥ १.५ ॥

ततः स्वयम्भूर् भगवान् अव्यक्तो व्यञ्जयन्न् इदम् ।

महाभूतादिवृत्तौजाः प्रादुर् आसीत् तमोनुदः ॥ १.६ ॥

तत इति पूर्वोक्तावस्थानन्तरम् । स्वेच्छाचिकीर्षितशरीरपरिग्रहः आत्मा, **अव्यक्तः **प्रत्यक्षाद्यगोचरः ध्यानैकगम्यत्वात् उत्पादयन् जगत् । महाभूतानि पृथिव्यादीनि आदिग्रहणात् अन्यान्य् अपि महदादीनि तत्त्वानि । **वृत्तं **प्राप्तं ओजः सृष्टिसामर्थ्यं येनासौ प्रकाशो बभूव शरीरग्रहणं कृतवान् तमोनुदः प्रलयस्य ध्वंसकः ॥ १.६ ॥

यो ऽसाव् अतीन्द्रियग्राह्यः सूक्ष्मो ऽव्यक्तः सनातनः ।

सर्वभूतमयो ऽचिन्त्यः स एव स्वयम् उद्बधौ ॥ १.७ ॥

यो ऽसाव् इति । यो ऽसाव् आत्मा अतीन्द्रियेण मनसा ग्रहीतुम् अश्क्यः सूक्ष्मः सूक्ष्मबुद्धिग्राह्यत्वात् । **सनातनः **नित्यः । **सर्वभूतमयः **सर्वस्य तत्प्रभवत्वात् । अचिन्त्यः विलक्षणशक्तित्वात् **स एव स्वयं **शरीरं जग्राह ॥ १.७ ॥

सो ऽभिध्याय शरीरात् स्वात् सिसृक्षुर् विविधाः प्रजाः ।

अप एव ससर्जादौ तासु वीर्यम् अवासृजत् ॥ १.८ ॥

स इति आत्मा नानाप्रकाराः **प्रजाः **स्रष्टुम् इच्छन् आत्मगृहीतशरीरात् ध्यानमात्रेणैव **अप एव **सृष्टेः प्राक् सृष्टवान् । **तासु वीर्यं **स्वशक्तिं निषिक्तवान् ॥ १.८ ॥

तद् अण्डम् अभवद् धैमं सहस्रांशुसमप्रभम् ।

तस्मिञ् जज्ञे स्वयं ब्रह्मा सर्वलोकपितामहः ॥ १.९ ॥

तद् इति । **तद् **वीर्यं काञ्चनम् अण्डं सम्पन्नम् अत एव आदित्यसमदीप्ति । तस्मिंश् च जातवान् आत्मेच्छया हिरण्यगर्भः । सर्वलोकोत्पादयिता पितामह इति वा सञ्ज्ञा तस्य ॥ १.९ ॥

आपो नारा इति प्रोक्ता आपो वै नरसूनवः ।

ता यद् अस्यायनं पूर्वं तेन नारायणः स्मृतः ॥ १.१० ॥

आपो नाराशब्देन कथिता यस्मात् तास् तस्य पुरुषस्यात्माख्यस्योक्तेन प्रकारेणापत्यानि । ता आपो यस्माद् आत्मनः पूर्वम् अयनम् आद्य आश्रयः । एत्य् अस्मिन्न् इत्य् अयनम् इति कृत्वा तेनासौ नारायणः स्मृतः । इत्य् एवं पूर्वोक्तदार्ढ्याय एतत् स्वनामनिर्वचनम्, नरायण एव नारायणः इति अन्येषाम् अपि दृश्यत इति दीर्घेण ॥ १.१० ॥

यत् तत् कारणम् अव्यक्तं नित्यं सदसदात्मकम् ।

तद्विसृष्टः स पुरुषो लोके ब्रह्मेति कीर्त्यते ॥ १.११ ॥

यत् तद् आत्माख्यम् उक्तं वक्ष्यमाणनीत्या सर्वस्य **कारणं **वेदान्तोक्तयुक्त्यागमगम्यत्वात् सत्स्व् अभावं प्रत्यक्षाद्यगोचरत्वाद् असत्स्वभावम् इव तेनोत्पादितः **स पुरुषस् तत्र तत्र ब्रह्मशब्देन संकीर्त्यते **॥ १.११ ॥

तस्मिन्न् अण्डे स भगवान् उषित्वा परिवत्सरम् ।

स्वयम् एवात्मनो ध्यानात् तद् अण्डम् अकरोद् द्विधा ॥ १.१२ ॥

तस्मिन्न् इति । पूर्वोक्ते **अण्डे स **ब्रह्मा यदृच्छया **संवत्सरम् **आसित्वा, आत्मनः आत्मगतेन ध्यायेन्ऐव **तद् अण्डं **द्विखण्डं कृतवान् ॥ १.१२ ॥

ताभ्यां स शकलाभ्यां च दिवं भूमिं च निर्ममे ।

मध्ये व्योम दिशश् चाष्टाव् अपां स्थानं च शाश्वतम् ॥ १.१३ ॥

ताभ्याम् इति । **ताभ्याम् **अण्डकपालाभ्यां ब्रह्मा एकेन **दिवं **अपरेण च भूमिं निर्मितवान् । तयोश् च **मध्ये आकाशं दिशश् चान्तरालदिग्भिः सह्आष्टौ अपां स्थानं च **स्थिरं समुद्राख्यं **निर्ममे **। एतच् च तत्त्वैर् महदादिभिर् निर्मितवान् ॥ १.१३ ॥

उद्बबर्हात्मनश् चैव मनः सदसदात्मकम् ।

मनसश् चाप्य् अहङ्कारम् अभिमन्तारम् ईश्वरम् ॥ १.१४ ॥

तत् त्व् एवम् एवेत्य् एतद् धर्शयितुम् आह उद्बबर्हेति । प्रजापतिशरीराद् एव तत्त्वसृष्टिर् इति वेदान्तदर्शनम् । अतो नेहाप्रस्तुता । शब्दार्थीभूतं प्रधानम् आत्मशब्देनोच्यते । तथा च,

एतस्माज् जायते प्राणो मनः सर्वेन्द्रियाणि च ।

खं वायुर् ज्योतिर् आपः पृथिवी विश्वस्य धारिणी ॥

इत्येवमादिना उपनिषत्सु परिकल्पितभेदावस्थानाद् आत्मनः इदं सर्वं कल्पितरूपं जायत इत्य् उक्तम् । स ब्रह्मा उद्धृतवान् आत्मन एव शरीरात् मनः नित्यानुमेयत्वाद् असदात्मकम् इव युगपज् ज्ञानानुत्पत्तिलिङ्गेन तत्सत्तावगतेः सदसदातमकं मनः पूर्वम् अहङ्काराख्यं तत्त्वं अभिमन्तारम् अहम् इति अभिमानाख्यं तत्कार्ययुक्तं स्वकार्यकरणसमर्थम् उद्धतवान् ॥ १.१४ ॥

महान्तम् एव चात्मानं सर्वाणि त्रिगुणानि च ।

विषयाणां ग्रहीतॄणि शनैः पञ्चेन्द्रियाणि च ॥ १.१५ ॥

मनाह्तम् इति । अहङ्कारात् पूर्वं महदाख्यं तत्त्वं आत्मन उत्पन्नत्वाद् उद्धृतवान् । यान्य् उक्तानि तानि च सत्त्वरजस्तमआख्यगुणत्रययुक्तानि । तथा शब्दस्पर्शरसरूपगन्धानां विज्ञानजनकानि **शनैः **वेदान्तोक्तक्रमेण श्रोत्रत्वक्चक्षुर्जिह्वानासिकाख्यानि बुद्धीन्दियाणि । शब्दात् पायूपस्थहस्तपादवागाख्यानि च कर्मेन्द्रियाणि इन्द्रियत्वाद् **विषयाणां ग्रहीतॄणि **इत्य् उक्तेः विषयसृष्टिर् अप्य् अर्थाद् उक्तैव ॥ १.१५ ॥

तेषां त्व् अवयवान् सूक्ष्मान् षण्णाम् अप्य् अमितौजसाम् ।

सन्निवेश्यात्ममात्रासु सर्वभूतानि निर्ममे ॥ १.१६ ॥

**तेषाम् **इति । **तेषां षण्णां **पूर्वप्रयुक्तानां महतः शब्दादितन्मात्राणां च अमितौजसां अनन्तकार्यनिर्वर्तनेन अतिवीर्यतां ये सूक्ष्मा अवयवाः तान् **आत्ममात्रासु **अधिकारभागेषु योजयित्वा सर्वाणि भूतानि मनुष्यादीनि निर्मितवान् ॥ १.१६ ॥

यन् मूर्त्यवयवाः सूक्ष्मास् तानीमान्य् आश्रयन्ति षट् ।

तस्माच् छरीरम् इत्य् आहुस् तस्य मूर्तिं मनीषिणः ॥ १.१७ ॥

**यत् मूर्त्यवयवा **इति । यस्मान् मूर्तिसम्पादकाः आकारनिर्वर्तकाः सूक्ष्माः तन्मात्राहङ्काराख्याः अवयवाः तस्यात्मनो विकल्पन्ते । यस्य सम्बन्धेन **इमानि **वक्ष्यमाणानि भूतान्य् **आश्रयन्ति **कर्यत्वेन । तस्मात् तस्यात्मनो या मूर्तिः स्वभावः ताम् एव परिणतां शरीरम् इति लौकिका ब्रुवन्तीत्य् एवं शरीरनिर्वचनम् उक्तक्रमोत्पत्तिदार्ढ्यार्थम् ॥ १.१७ ॥

तद् आविशन्ति भूतानि महान्ति सह कर्मभिः ।

मनश् चावयवैः सूक्ष्मैः सर्वभूतकृत् अव्ययम् ॥ १.१८ ॥

तद् इति । **तद् ब्रह्म तन्मात्राहङ्कारावस्थम् अनन्तरं महाभूतान्य् **आकाशादीनि **आविशन्ति **तन्मात्रेभ्यः उत्पद्यन्ते । सह कर्मभिः यथाक्रमं धारणसङ्ग्रहपाकव्यूहनावकाशदानाख्यैः तत्कार्यैः मनश् चावयवैः शुभाशुभसङ्कल्पैः **सूक्ष्मैः **बहिर्दृश्यत्वाभावात् । सर्वभूतकृत् शुभाशुभसङ्कल्पप्रभवकर्मनिमित्तत्वात् जगतः **अव्ययं **अविनाशि आविशन्ति अहङ्कारात् तस्योत्पत्तेः ॥ १.१८ ॥

तेषाम् इदं तु सप्तानां पुरुषाणां महौजसाम् ।

सूक्ष्माभ्यो मूर्तिमात्राभ्यः सम्भवत्य् अव्ययाद् अव्ययम् ॥ १.१९ ॥

तेषाम् इति । पूर्वप्रकृतत्वात् तन्मात्राहङ्काराणां पूर्वतरप्रस्तुतत्वाच् च महतः एवं तेषां सप्तानां पुरुषोत्पन्नत्वात् पुरुषाणां सूक्ष्माभ्यो मूरिमात्राभ्यः शरीरसम्पादकेभ्यो भागेभ्यः इदं जगत् नश्वरं सम्भवति अव्ययात् अनश्वरात् यद् यत् कार्यं तत् तद् अस्थिरं यद् यद् उत्पत्तिकारणं तत् तत् कार्यापक्षया स्थिरम् इत्य् एतत् प्रतिपादनार्थः शेषो ऽनुवादः ॥ १.१९ ॥

आद्याद् यस्य गुणं त्व् एषाम् अवाप्नोति परः परः ।

यो यो यावतिथश् चैषां स स तावद्गुणः स्मृतः ॥ १.२० ॥

आद्याद् यस्येति । **एषां **पूर्वतरश्लोकप्रस्तुतानां भूतानां मध्यात् **आद्यस्याद्यस्य **आकाशादेः सम्बन्धिनं शब्दादिकं **परः परो **वाय्वादिः गृह्णाति । आकाशादिगुणत्वं शब्दादीनां वक्ष्यते । तथा आकाशादिश् च क्रमशः । एवम् आकाशादिवर्जं अन्येषां द्वैगुण्यप्राप्ताव् आह यो य इति । एषां यो यो यावतिथः यो यावतां पूरणो द्वितीयादिः **स तावद्गुणः **द्विगुणस् त्रिगुण इत्येवमादिः मन्वादिभिः **स्मृतः **॥ १.२० ॥

सर्वेषां तु स नामानि कर्माणि च पृथक् पृथक् ।

वेदशब्देभ्य एवादौ पृथक् संस्थाश् च निममे ॥ १.२१ ॥

सर्वेषाम् इति । **स **ब्रह्मा **सर्वेषां नामानि **ब्राह्मण इत्येवमादीनि **कर्माणि चाध्ययनादीनि पृथक् पृथक् यस्य यान्य् एव पूर्वकल्पे ऽभूवन् तानि सुप्तप्रबुद्धवत् प्राक्कल्पाधीतप्रतिभातवेदशब्देभ्य **एव सृष्ट्यादौ निर्मितवान् लौकिकीश् च व्यवस्थाः पृथग् इति ॥ १.२१ ॥

कर्मात्मनां च देवानां सो ऽसृजत् प्राणिनां प्रभुः ।

साध्यानां च गणं सूक्ष्मं यज्ञं चैव सनातनम् ॥ १.२२ ॥

कर्मात्मनाम् इति । कर्माङ्गभूतानां देवानां प्राणवताम् इन्द्रादीनां यतः अप्राणा अपि यक्षादयो देवाः सन्ति, साध्यानां देवगणानां देवविशेषाणां समूहं ज्योतिष्टोमादिकं च कल्पान्तरे ऽप्य् अनुष्ठानान् नित्यं सृष्टवान् । साध्यगणस्य सूक्षमत्वात्** **पृथङ्निर्देशः ॥ १.२२ ॥

अग्निवायुरविभ्यस् तु त्रयं ब्रह्म सनातनम् ।

दुदोह यज्ञसिद्ध्यर्थम् ऋग्यजुःसामलक्षणम् ॥ १.२३ ॥

अग्निवायुरविभ्य इति । ऋग्यजुःसामाख्यं ब्रह्मत्रयं सनातनं नित्यम् अपि सूक्ष्मं आदौ दैव्या शक्त्या **अग्निवायुरविभ्यः **आकृष्टवान् । यज्ञसिद्ध्यर्थम्, आगमिकत्वाच् च नातिशङ्क्यम् एतत् । तथा च “ऋग्वेद एवाग्नेर् अजायत” इत्यादि ब्राह्मणम् ॥ १.२३ ॥

कालं कालविभक्तींश् च नक्षत्राणि ग्रहांस् तथा ।

सरितः सागराञ् छैलान् समानि विषमाणि च ॥ १.२४ ॥

कालम् इति । आदित्यादिगतिप्रतिबन्धप्रवृत्तिमान् **कालः **। कालविभक्तयो मासाद्याः । नक्षत्राणि अश्वयुक्प्रभृतीनि । ग्रहाः अर्कादयः । नदीसमुद्रपर्वतसमविषमस्थानानि च । अत्र ससर्जेत्य् वक्ष्यमाणक्रिया ॥ १.२४ ॥

तपो वाचं रतिं चैव कामं च क्रोधम् एव च ।

सृष्टिं ससर्ज चैवेमां स्रष्टुम् इच्छन्न् इमाः प्रजाः ॥ १.२५ ॥

**तप **इति । **रतिः **चेतोनिर्वृत्तिः । **इमा **वक्ष्यमाना दैवादिकाः **प्रजाः **एतच्छ्लोकओक्तां पूर्वपठितां च सृष्टिं कृतवान् ॥ १.२५ ॥

कर्मणां च विवेकाय धर्माधर्मौ व्यवेचयत् ।

द्वन्द्वैर् अयोजयच् चेमाः सुखदुःखादिभिः प्रजाः ॥ १.२६ ॥

कर्मणाम् इति । अयं धर्मः अतस् तत्साधकं दानादिकर्म कर्तव्यम्, अयं पुनर् अधर्मः अतस् तत्सम्पादकं चौर्यादि न कार्यम् इत्य् एवं दानचौर्यादिकर्मणां विभागाय **धर्माधर्मौ **पृथक् पृथक् कृतवान् । धर्माधर्मफलभूतैश् च द्वन्द्वैः परस्परविरुद्धैः पुत्रोत्पत्तिविनाशादिभिः सुखदुःखैः, आदिशब्दात् क्षुत्सौहित्यादिभिश् चेमाः प्रजा योजितवान् ॥ १.२६ ॥

अण्व्यो मात्रा विनाशिन्यो दशार्धानां तु याः स्मृताः ।

ताभिः सार्धम् इदं सर्वं सम्भवत्य् अनुपूर्वशः ॥ १.२७ ॥

अन्व्य इति । पञ्चानां तन्मात्राणां याः सूक्ष्ममात्राः भागाः विनाशिन्यः विपरिणामित्वात् । ताभिः सहोक्तवक्ष्यमाणम् इदम् उत्पद्यते । क्रमेण सर्वत्र तासाम् अनुसृतत्वात् । तत्त्वैर् विनैव समनन्तरोक्तवक्ष्यमाणा सृष्टिर् इत्य् एतद् भ्रान्तिनिराकरणाय पुनस् तत्त्वोद्भवत्वं सृष्टिमध्ये स्मारयति ॥ १.२७ ॥

यम् तु कर्मणि यस्मिन् स न्ययुङ्क्त प्रथमं प्रभुः ।

स तद् एव स्वयं भेजे सृज्यमानः पुनः पुनः ॥ १.२८ ॥

यम् इति । यं जातिविशेषं सिंहादिकं यस्मिन् कर्मणि द्विरदमारणादौ प्रजापतिः सृष्ट्यादौ नियुक्तवान् । जातिविशेषः प्रथमसृष्ट्युत्तरकालम् अपि स्वार्जितकर्मवशेन यदा यदा सृज्यमानो भवति तदा तदा तद् एव द्विरदमारणादि स्वयम् एव भजते न भूयः प्रजापतिनियोगम् अपेक्षते जातिधर्मत्वेन प्रजापतिना तस्य कृतत्वात् ॥ १.२८ ॥

हिंस्राहिंस्रे मृदुक्रूरे धर्माधर्माव् ऋतानृते ।

यद् यस्य सो ऽददात् सर्गे तत् तस्य स्वयम् आविशत् ॥ १.२९ ॥

एतत् प्रपञ्चार्थम् आह हिंस्राहिंस्रे इति । **हिंसं कर्म व्याघ्रादेः, अहिंस्रं **रुरुप्रभृतेः, मृदु दयोपेतं ब्राह्मणादेः, **क्रूरं **क्षत्रियादेः । धर्मो यथा काकादेः परापत्यपोषणादिः । यद्य् अपि न ततस् तस्य धर्मो भवति परोपकारत्वात् धर्मत्वम् उपचर्यते । **अधर्मो **यथा बकादेः । एतद् अपि पूर्ववद् उपचारतो वञ्चनापरत्वाद् उच्यते । ऋतं देवानाम् **अनृतं **मनुष्याणाम्, तद् उक्तम् – सत्यवाचो देवाः अनृतं वै मनुष्या इति । यद्य् अपि धर्माधर्मग्रहणेन एतत् सर्वं गतं तथापि स्वरूपभेदावलम्बनं पृथक् पृथक् द्वन्द्वतो ऽभिधानम् । तेषाम् अन्यत् यद् एव कर्म यस्य प्रजापतिर् अददात् दत्तवान् सृष्ट्यादौ तत् तद् एव सृष्ट्युत्तरकाले ऽप्य् असौ जायमानः स्वयम् एव भजते । यथाकर्म सृष्टं स्थावरजङ्गमम् इति वक्ष्यति । अतः प्राक्कल्पार्जितकर्मवशेन यद् यस्य सो ऽददात् इति द्रष्टव्यम् ॥ १.२९ ॥

यथर्तुलिङ्गान्य् ऋतवः स्वयम् एव तु पर्यये ।

स्वानि स्वान्य् अभिपद्यन्ते तथा कर्माणि देहिनः ॥ १.३० ॥

तत्रैव दृष्टान्तम् आह यथेति । यथा वसन्तादयः स्वावसरे स्वयम् एव स्वानि कर्माणि चिह्नभूतानि कुर्वन्ति तद्वत् **कर्माणि **हिंस्रादीनि प्राणिनः ॥ १.३० ॥

लोकानां तु विवृद्ध्यर्थं मुखबाहूरुपादतः ।

ब्राह्मणं क्षत्रियं वैश्यं शूद्रं च निरवर्तयत् ॥ १.३१ ॥

लोकानाम् इति । अग्नौ प्रास्तेति वक्ष्यमाणन्यायेन पृथिव्यादिलोकबाहुल्यार्थं सुखादिभ्यो यथाक्रमं ब्राह्मणाद्यान् दैव्या शक्त्या निर्मितवान् । तथा च ब्राह्मणो ऽस्य मुखम् आसीद् इत्यादि लिङ्गम् ॥ १.३१ ॥

द्विधा कृत्वात्मनो देहम् अर्धेन पुरुषो ऽभवत् ।

अर्धेन नारी तस्यां स विराजम् असृजत् प्रभुः ॥ १.३२ ॥

द्विधेति । स ब्रह्मा शरीरं द्विभागं **कृत्वा एकेन्आर्धेन **पुमान् सम्पन्नः । अपरेण स्त्री तस्याश् च सकाशात् विराजाख्यं पुरुषं सृष्टवान् ॥ १.३२ ॥

तपस् तप्त्वासृजद् यं तु स स्वयं पुरुषो विराट् ।

तं मां वित्तास्य सर्वस्य स्रष्टारं द्विजसत्तमाः ॥ १.३३ ॥

**तप **इति । **स **अनन्तरोक्तो **विराट् तपः **कृत्वा **यं स्वयं **सृष्ट्वान् **तं मां **जानीत । एतस्य सर्वस्योत्पादयितारम् । हे द्विजश्रेष्ठतमाः ॥ १.३३ ॥

अहं प्रजाः सिसृक्षुस् तु तपस् तप्त्वा सुदुश्चरम् ।

पतीन् प्रजानाम् असृजं महर्षीन् आदितो दश ॥ १.३४ ॥

**अहं प्रजाः **स्रष्टुम् इच्छन् **सुदुश्चरं तपः **क्ट्त्वा प्रजापतीन् **महर्षीन् दश **प्रथमतः सृष्टवान् ॥ १.३४ ॥

मरीचिम् अत्र्यङ्गिरसौ पुलस्त्यं पुलहं क्रतुम् ।

प्रचेतसं वसिष्ठं च भृगुं नारदम् एव च ॥ १.३५ ॥

आह तांश् च – मरीचिम् इति ॥ १.३५ ॥

एते मनूंस् तु सप्तान्यान् असृजन् भूरितेजसः ।

देवान् देवनिकायांश् च महर्षींश् चामितौजसः ॥ १.३६ ॥

एते इति । एते दश बहुतेजस्काः **सप्तान्यान् मनून् **सृष्टवन्तः । तथा **देवान् देवनिकायान् महर्षींश् च **अपरिमिततेजस्कान् । तेषां सर्वेषां मनूनां मन्वन्तरे एकैकस्य सर्गाद्यधिकारः ॥ १.३६ ॥

यक्षरक्षःपिशाचांश् च गन्धर्वाप्सरसो ऽसुरान् ।

नागान् सर्पान् सुपर्णांश् च पितॄणां च पृथग् गणान् ॥ १.३७ ॥

यक्षरक्षःपिशाचांश् चेति । **यक्षाः वैश्रवणामात्याः । रक्षांसि **रावणादीनि । **पिशाचाः **मरुभूम्यादिवासिनः प्राणिविशेषाः । **गन्दर्वाः **चित्रसेनादयः । **अप्सरसः **मेनकाद्याः, **असुरा **विरोचनादयः । **नागाः **तक्षकाद्याः **सर्पा **अहयः **सुपर्णा **गरुत्मन्तः **पितॄणां **सोमपादीनां स्वस्थानसमूहान् असृजन् इति वर्तते । एवम् उत्तरत्रापि ॥ १.३७ ॥

विद्युतो ऽशनिमेघांश् च रोहितेन्द्रधनूंषि च ।

उल्कानिर्घातकेतूंश् च ज्योतींष्य् उच्चावचानि च ॥ १.३८ ॥

**विद्युत **इति । रोहितं शस्त्रोत्पात इत् प्रसिद्धम् । नानावर्ण धनूरूपं इन्द्रधनुः । **उल्का **रेखाकारम् अन्तरिक्षात् पतत् ज्योतिः कदाचिद् रात्रौ दृश्यते । निर्घातः क्षित्यर्तर्गतः उत्पातध्वनिः । **केतवो **दण्डाद्याकाराणि ज्योतींषि । अन्यान्य् अपि **ज्योतींषि **उत्कृष्टापकृष्टानि ॥ १.३८ ॥

किन्नरान् वानरान् मत्स्यान् विविधांश् च विहङ्गमान् ।

पशून् मृगान् मनुष्यांश् च व्यालांश् चोभयतोदतः ॥ १.३९ ॥

किन्नरान् इति । **किन्नराः **किन्नरशरीराः अश्वमुखाः अन्ये तु विपरीताः । **विहङ्गमाः ** पक्षिणः **पशवो **गवाद्याः । मनुष्याणां पशुत्वे ऽपि प्राधान्यात् पृथक् ग्रहणम् । **व्यालाः **सिंहाद्याः उत्तराधरदन्तयुक्ताः ॥ १.३९ ॥

कृमिकीटपङ्गांश् च यूकामक्षिकमत्कुणम् ।

सर्वं च दंशमशकं स्थावरं च पृथग्विधम् ॥ १.४० ॥

कृमिकीटपतङ्गान् इति । **कृमयो **भूमिशरणाः । कीटाः कृमिभ्यः किञ्चित्स्थूलाः । **पतङ्गाः **शलभाः । **स्थावरं **वृक्षवनस्पत्यादिभेदेन नानाप्रकारम् ॥ १.४० ॥

एवम् एतैर् इदं सर्वं मन्नियोगान् महात्मभिः ।

यथाकर्म तपोयोगात् सृष्टं स्थावरजङ्गमम् ॥ १.४१ ॥

**एवम् **इति । अनेन प्रकारेण तैः मुनिभिः मदाज्ञया सृज्यमानप्राणिकर्मगतकर्मानुरूपेण इदं तपोबलात् सृष्टम् ॥ १.४१ ॥

येषां तु यादृशं कर्म भूतानाम् इह कीर्तनम् ।

तत् तथा वो ऽभिधास्यामि क्रमयोगं च जन्मनि ॥ १.४२ ॥

येषाम् इति । **येषां **भूतानां यथारूपं कर्म तत् तहैवेह शास्त्रे **कीर्तितम् **एव । युष्माकं यतो नामनिर्देशाद् एव, देवताद्योतनात् द्युतिस्थानाद् वा देवताः, यक्षणाद् यक्षाः इत्य् एवमादिकर्मप्रतिपत्तिः । इदानीं येन कर्मसम्बन्धेन जायन्ते तं वक्ष्यामीति केचित् । अथ वा **येषां यादृशं कर्म इह **संसारे पूर्वैर् अपि कथितं यथा ओषध्यः फलपाकान्ता इत्य् एवमादि **तत् तथा अभिधास्यामि **यथा क्रमयोगं चेति ॥ १.४२ ॥

पशवश् च मृगाश् चैव व्यालाश् चोभयतोदतः ।

रक्षांसि च पिशाचाश् च मानुषाश् च जरायुजाः ॥ १.४३ ॥

पशव इति । जरायुगर्भसम्पातः तत्रादौ सम्भवन्ति । ततस् तन्मुक्ता जायन्ते ॥ १.४३ ॥

अण्डजाः पक्षिणः सर्पा नक्रा मत्याश् च कच्छपाः ।

यानि चैवम्प्रकाराणि स्थलजान्य् औदकानि च ॥ १.४४ ॥

अण्डजा इति । अण्डे आदौ सम्भवन्ति । ततो जायन्ते **नक्रः **शिशुमाराख्यः प्राणी । **कच्छपः **कूर्मः । **स्थलजानि **कृकलासादीनि । औदकानि च शङ्खादीनि ॥ १.४४ ॥

स्वेदजं दंशमशकं यूकामक्षिकमत्कुणम् ।

ऊष्मनश् चोपजायन्ते यच् चान्यत् किञ्चिद् ईदृशम् ॥ १.४५ ॥

स्वेदजम् इति । **स्वेदः **पार्तिवद्रव्याणां अन्तःक्लेदः । **अन्यद् **अपि च यदृशमशकादिसदृशं पिपीलिकादि तत् । **यूका मत्कुणाः **स्वेदाद् एव जायन्ते ॥ १.४५ ॥

उद्भिज्जाः स्थावराः सर्वे बीजकाण्डप्ररोहिणः ।

ओषध्यः फलपाकान्ता बहुपुष्पफलोपगाः ॥ १.४६ ॥

उद्भिज्जास्तरव इति । ऊर्ध्वं भुवं भित्त्वा वृक्षा जायन्ते । ते तु केचिद् बीजाद् एव जायन्ते । अन्ये तु बीजात् काण्डाच् च । शाखाः (शाखैः) बहिर्भूमौ रोपिता वृक्षीभवन्ति । अधुना येषां तु यादृशं कर्मेति यद् उक्तं तद् दर्शयति – **ओषध्य **इति । ओषधीनां व्रीह्यादिकानां फलपाकेनैवान्तः तेन ताः शुष्यन्ति । **बहुपुष्पफलम् **उपगच्छन्ति बहुना संयुक्ता भवन्ति ॥ १.४६ ॥

अपुष्पाः फलवन्तो ये ते वनस्पतयः स्मृताः ।

पुष्पिणः फलिनश् चैव वृक्षास् तूभयतः स्मृताः ॥ १.४७ ॥

**अपुष्पा **इति । वनस्पतीनां पुष्पम् अन्तरेणैव फलानि भवन्ति । वृक्षाः पुनः पुष्पफलेनोभयेनापि युक्ता भवन्ति ॥ १.४७ ॥

गुच्छगुल्मं तु विविधं तथैव तृणजातयः ।

बीजकाण्डरुहाण्य् एव प्रताना वल्ल्य एव च ॥ १.४८ ॥

गुच्छगुल्मम् इति । मूलत एव येषां लतावृन्दं भवति । न तु प्रकाण्डानि ते **गुच्छाः **मल्लिकाद्याः । गुल्मास् तु अस्पष्टह्रस्वप्रायलतात्मकाः अप्रकाण्डाः पुष्पकाद्याः । तृणजातयो दूर्वाद्याः **प्रताना **तन्तुरूपाः त्रपुषालाबुप्रभृतयः वल्ल्यः व्रतत्यो गूडुच्यादयः ॥ १.४८ ॥

तमसा बहुरूपेण वेष्टिताः कर्महेतुना ।

अन्तःसञ्ज्ञा भवन्त्य् एते सुखदुःखसमन्विताः ॥ १.४९ ॥

तमसेति । सत्त्वरजस्तम आख्या गुणाः । तत्रैते वृक्षादयः पदर्था विविधदुःखोत्पादनरूपेण प्राग्जन्मार्जितदुष्टकर्महेतुना **तमसा **व्याप्ता भवन्ति । यद्य् अपि सर्व एव क्वचिद् अन्तर् एव चेतयन्ते तथाप्य् एते सञ्ज्ञाकार्यस्य व्यवहारादेः बहिरभावाद् **अन्तःसञ्ज्ञा **उच्यते । सत्त्वरजोलेशस्यापि सद्भावान् **सुखदुःखान्विता **अपि भवन्ति ॥ १.४९ ॥

एतदन्तास् तु गतयो ब्रह्माद्याः समुदाहृताः ।

घोरे ऽस्मिन् भूतसंसारे नित्यं सततयायिनि ॥ १.५० ॥

**एतदन्ता **इति । स्थावरावसानाः ब्रह्मप्रधानाः संसारोत्पत्तयो नित्यं घोरे भीषणे ऽस्मिन् **भूत्नानां **क्षेत्रज्ञानां **संसारे **बहुशः शरीरादानत्यागलक्षणाः सर्वा नश्वरा उक्ताः ॥ १.५० ॥

एवं सर्वं स सृष्ट्वेदं मां चाचिन्त्यपराक्रमः ।

आत्मन्य् अन्तर्दधे भूयः कालं कालेन पीडयन् ॥ १.५१ ॥

एवं सृष्टिं प्रदर्श्य इदानीं प्रलयं दर्शयितुम् आह – सर्वम् एवम् इति । अनेन प्रकारेण इदं मां च सृष्ट्वा स प्रजापतिः अचिन्त्यशक्तिः पुनः आत्मन्य् एवान्तर्धानं कृतवान् । शरीरत्यागेन सृष्टिकालं प्रलयकालेन विनाशयन् प्राणिनां कर्मवशतः स्वेच्छया च पुनः पुनः सर्गसंहारौ करोतीत्य् अर्थः ॥ १.५१ ॥

यदा स देवो जागर्ति तद् एवं चेष्टते जगत् ।

यदा स्वपिति शान्तात्मा तदा सर्वं निमीलति ॥ १.५२ ॥

यदा स देव इति । **यदा स **प्रजापतिर् इच्छति **तद् एवं जगत् **उत्पत्त्यवस्थिती करोति । यदा तु नेच्छति शान्तात्मा उपसंहृतव्यापारमनाः **तद् एवं प्रलीयते **। अन्तरालप्रलयस् तदा भवति । यथा शरीरे यदा क्षेत्रज्ञो जागर्ति तदा पशुपक्षिसरीसृपात्मकं जगत् चेष्टते चेष्टायुक्तं भवति । यदा स्वपिति तदा निश्चेष्टम् इति जाग्रत्स्वप्नसुषुप्त्याख्या आत्मवृत्तयो ऽत्र प्रजापतिकृतानां जाग्रत्स्वपसुषुप्तवृत्तीनां स्थित्यन्तरालप्रलयम् आह, प्रलयकारणभूतानां दृष्टान्तत्वेनोपपत्तेः ॥ १.५२ ॥

तस्मिन् स्वपति तु स्वस्थे कर्मात्मानः शरीरिणः ।

स्वकर्मभ्यो निवर्तन्ते मनश् च ग्लानिम् ऋच्छति ॥ १.५३ ॥

पूर्वोक्तम् एव स्पष्टयितुम् आह – तस्मिन् स्वपति तु स्वस्थे इति । **तस्मिन् **निवृत्तिस्थे स्वस्थे उपसंहृतव्यापारमनस्के कर्माक्षिप्तशरीराः शरीरिणः क्षेत्रज्ञाः स्वकर्मभ्यः शरीरग्रहणादिभ्यो **निवर्तन्ते **। मनश् च सर्वेन्द्रियरहितं निर्व्यापारं भवति ॥ १.५३ ॥

युगपत् तु प्रलीयन्ते यदा तस्मिन् महात्मनि ।

तदायं सर्वभूतात्मा सुखं स्वपिति निर्वृतः ॥ १.५४ ॥

इदानीं महाप्रलयम् आह – युगपद् इति । तुल्यकालम् एव पुनः यस्मिन् काले तस्मिन् परमेश्वरे सर्वभूतानि **प्रलीयन्ते **तस्मिन्न् एव काले अयं सर्वभूतात्मभूतो निर्वृतः निवृत्तजाग्रत्स्वप्न(सुषुप्ति)व्यापारः सुखं स्वपिति सुषुप्तिम् अनुभवति । तत्र सुषुप्तावस्था महाप्रलयश् च युगपद् एव भवत इत्य् अर्थः ॥ १.५४ ॥

तमो ऽयं समाश्रित्य चिरं तिष्ठति सेन्द्रियः ।

न च स्वं कुरुते कर्म तदोत्क्रामति मूर्तितः ॥ १.५५ ॥

प्रलयप्रसङ्गेन च क्षेत्रज्ञोत्क्रमणम् आह – तमो यद् इति । स आत्मा अत्यन्तव्यामोहव्याप्तः सन् यदा सेन्द्रियो ऽप्य् अनल्पम् कालम् आस्ते इन्द्रियाणां शरीरविनाशे ऽप्य् अविनाशेन च श्वासप्रश्वासादिकं कर्म कुरुते तदा शरीरं जहाति ॥ १.५५ ॥

यदाणुमात्रिको भूत्वा बीजं स्थास्नु चरिष्णु च ।

समाविशति संसृष्टस् तदा मूर्तिं विमुञ्चति ॥ १.५६ ॥

किं शरीरान्तरनिरपेक्ष एव मूर्तिं परित्य्जतीत्य् आह – यदेति । यदा सूक्ष्मप्रमाणः सन् स्थावरबीजं जङ्गमबीजं वा अन्यद् अधितिष्ठति तदा इदं शरीरं त्यजति । संसृष्टः प्राणादिसंयुक्तः, यथोक्तं बृहदारण्यके- “तम् उत्क्रामन्तं प्राणो ऽनूत्क्रामति प्राणम् अनूत्क्रामन्तं सर्वे प्राणा अनूत्क्रामन्ति” इति ॥ १.५६ ॥

एवं स जाग्रत्स्वप्नाभ्याम् इदं सर्वं चराचरम् ।

सञ्जीवयति चाजस्रं प्रमापयति चाव्ययः ॥ १.५७ ॥

एवम् इति । ब्रह्मा अनेन प्रकारेण आत्मीयाभ्यां जाग्रत्स्वप्नाभ्यां जङ्गमस्थावरम् **अजस्रं **अनवरतं जीवयति मारयति चानश्वरः ॥ १.५७ ॥

इदं शास्त्रं तु कृत्वासौ माम् एव स्वयम् आदितः ।

विधिवद् ग्राहयामास मरीच्यादींस् त्व् अहं मुनीन् ॥ १.५८ ॥

इदम् इति । स ब्रह्मा इदं शास्त्रं इमं ग्रन्थं **कृत्वा **शास्त्रस्य “इदं कर्तव्यम् इदं न” इत्य् एवं स्वरूपनित्यत्वान् **माम् एव **आत्मनादौ यत्नतो ऽध्यापितवान् । ततो मरीच्यादीन् मुनीन् **अहम् **अध्यापितवान् ॥ १.५८ ॥

एतद् वो ऽयं भृगुः शास्त्रं श्रावतिष्यत्य् अशेषतः ।

एतद् धि मत्तो ऽधिजगे सर्वम् एषो ऽखिलं मुनिः ॥ १.५९ ॥

एतद् इति । अयं भृगुः एतच् छास्त्रं युष्माकम् अशेषं श्रावयिष्यति यस्माद् एतत् सर्वं मत्सकाशाद् एषो ऽखिलं कृत्वा अधिगतवान् ॥ १.५९ ॥

ततस् तथा स तेनोक्तो महर्षिर् मनुना भृगुः ।

तान् अब्रवीद् ऋषीन् सर्वान् प्रीतात्मा श्रूयताम् इति ॥ १.६० ॥

तत इति । **स भृगुः मनुना तथोक्तः **अयं श्रावयिष्यतीत्य् अनेन प्रकारेणार्थाद् उक्तो न तु त्वं श्रावयेति । ततो ऽनन्तरं (गुरुः) भृगुः सम्भावनया **प्रीतात्मा तान् ऋषीन् श्रूयताम् इत्य् **उवाच ॥ १.६० ॥

स्वायम्भुवस्यास्य मनोः षड् वंश्या मनवो ऽपरे ।

सृष्टवन्तः प्रजाः स्वाः स्वा महात्मानो महौजसः ॥ १.६१ ॥

स्वायम्भुवस्येति । अस्योक्तप्रकारेण स्वयम्भूनप्तुर् मनोः षड् अन्ये मनवः काले काले सृष्ट्यादौ अधिकृता वंश्याः तत्कुलोद्भूताः तदेककार्याः **स्वाह् स्वाः **प्रजा उत्पादितवन्तः ॥ १.६१ ॥

स्वारोचिषश् चोत्तमश् च तामसो रैवतस् तथा ।

चाक्षुषश् च महातेजा विवस्वत्सुत एव च ॥ १.६२ ॥

ते च – स्वारोचिष इति ॥ १.६२ ॥

स्वायम्भुवाद् याः सप्तैते मनवो भूरितेजसः ।

स्वे स्वे ऽन्तरे सर्वम् इदम् उत्पाद्यापुश् चराचरम् ॥ १.६३ ॥

स्वायम्भुवाद् या इति । अनन्तरोक्ताः षट् स्वायम्भुवश् च एवं सप्त । **एते **स्वायम्भुवप्रमुखाः **मनवो **बहुतेजसः । आत्मीयात्मीयाधिकारकाले इदं जङ्गमस्थावरम् **उत्पाद्य आपुः **प्रजाः पालितवन्तः ॥ १.६३ ॥

निमेषा दश चाष्टौ च काष्ठा त्रिंशत् तु ताः कला ।

त्रिंशत्कला मुहूर्तः स्याद् अहोरात्रं तु तावतः ॥ १.६४ ॥

कियान् पुनः कालः प्रत्येकं मनूनाम् अधिकारः इत्य् अत् आह – निमेषा इति । **निमेषः **अक्षिपक्ष्मणोः स्वाभाविकः कल्पः उन्मेषसहचारी । ते अष्टादश काष्ठा । **तिंसत्यः **काष्ठाः **कलानाम **कालः त्रिंशत्कलाः मुहूर्तसञ्ज्ञः । अहोरात्रं तु तावतः त्रिंषत् । मुहूर्तास् तावन्तः इति । द्वितीयानिर्देशात् विद्यादित्य् अध्याहार्यम् ॥ १.६४ ॥

अहोरात्रे विभजते सूर्यो मानुषदैविके ।

रात्रिः स्वप्नाय भूतानां चेष्टायै कर्मणाम् अहः ॥ १.६५ ॥

**अहोरात्रे **इति । देवमानुषसम्बन्धिनी अहोरात्रे सूर्यो विभजते आदित्यो विभागीकरोति । ततश् च **भूतानां रात्रिः **स्वप्नार्थं भवति । कर्मोद्यमार्थं त्व् अहः ॥ १.६५ ॥

पित्र्ये रात्र्यह्नी मासः प्रविभागस् तु पक्षयोः ।

कर्मचेष्टास्व् अहः कृष्णः शुक्लः स्वप्नाय शर्वरी ॥ १.६६ ॥

पित्र्ये इति । मानुष्यो **मासः **पितॄणाम् अहोरात्रम् । तत्र च पक्षाभ्यां विभागः कृष्णः पक्षो ऽहः कर्मोद्यमार्थं शुक्लः पक्षः पुनः स्वापार्थं रात्रिः ॥ १.६६ ॥

दैवे रात्र्यहनी वर्षं प्रविभागस् तयोः पुनः ।

अहस् तत्रोदगयनं रात्रिः स्याद् दक्षिणायनम् ॥ १.६७ ॥

दैवे इति । मानुष्यं **वर्षं **देवानाम् अहोरात्रम् । तत्र चोत्तरायणम् अहो दक्षिणायनं रात्रिर् इति विभागः ॥ १.६७ ॥

ब्राह्मस्य तु क्षपाहस्य यत् प्रमाणं समासतः ।

एकैकशो युगानां तु क्रमशस् तन् निबोधत ॥ १.६८ ॥

**ब्राह्मस्येति **। प्राजापत्यस्याहोरात्रस्य यत् प्रमाणं युगानां च प्रत्येकं तत् क्रमेण सङ्क्षेपतः श्रृणुत ॥ १.६८ ॥

चत्वार्य् आहुः सहस्राणि वर्षाणां तत्कृतं युगम् ।

तस्य तावच्छती सन्ध्या सन्ध्यांशश् च तथाविधः ॥ १.६९ ॥

**चत्वारीति **। दैविकानाम् अनन्तरप्रस्तुतत्वात्, पुराणे च दिव्येनैव प्रमाणेन युगसङ्ख्या प्रकीर्तितेति दर्शनात्, दैविकानि **चत्वारि **वर्षसहस्राणि **कृतयुगं नाम कालम् आहुर् **मन्वादय्ः । तस्य च तावन्त्य् एव **वर्षशतानि सन्ध्या **अतीतागामियुग्धर्मानुवर्तनं सन्ध्यांशे ऽतीतयुगधर्माणां ईषदनुवृत्तिः आगामियुगधर्मबाहुल्यं चत्वार्य् एव शतानि च ॥ १.६९ ॥

इतरेषु ससन्ध्येषु ससन्ध्यांशेषु च त्रिषु ।

एकापायेन वर्तन्ते सहस्राणि शतानि च ॥ १.७० ॥

इतरेष्व् इति । त्रेतादिषु पुनस् त्रिषु युगेषु सन्ध्यासन्ध्यांशसहितेषु एकैकहान्या **सहस्राणि शतानि च भवन्ति **। त्रेता त्रीणि सहस्राणि, तत् सन्ध्यासन्ध्यांशैश् च त्रीणि त्रीणि शतानि । एवं द्वापरकलियुगयोः सम्ध्यासन्ध्यांशसहितयोः पूर्वस्माद् पूर्वस्माद् एकैकसहस्र्शतापायो द्रष्टव्यः ॥ १.७० ॥

यद् एतत् परिसङ्ख्यातम् आदाव् एव चतुर्युगम् ।

एतद् द्वादशसाहस्रं देवानां युगम् उच्यते ॥ १.७१ ॥

**यद् **इति । यद् एतत् परिगणित्म् आदाव् अस्मात् श्लोकात् प्राक् चतुर्युगम् एतद् द्वादश्सहस्रगुणं देवयुगं वेदयुगं नाम कालः ॥ १.७१ ॥

दैविकानां युगानां तु सहस्रं परिसङ्ख्यया ।

ब्राह्मम् एकम् अहर् ज्ञेयं तावती रात्रिर् एव च ॥ १.७२ ॥

दैविकानाम् इति । एषां देवयुगानां सहस्रं ब्राह्मम् अहर् विज्ञेयम् । सहस्रम् एव रात्रिसङ्ख्ययेत्य् अनुवादः ॥ १.७२ ॥

तद् वै युगसहस्रान्तं ब्राह्मं पुण्यम् अहर् विदुः ।

रात्रिं च तावतीम् एव ते ऽहोरात्रविदो जनाः ॥ १.७३ ॥

तद् इति । युगसहस्रेणान्तो यस्य तत् प्राजापत्यम् अहः तद्वेदनस्य पुण्यहेतुत्वात् पुण्यं रात्रिं च तत् परिमाणतो ये विजानन्ति ते अहोरात्रज्ञनिनः, न तु मनुष्याद्यहोरात्रवेदनेनेति । ब्रह्माहर्विज्ञानप्रशंसा तद्वेदनाप्ररोचनार्थम् ॥ १.७३ ॥

तस्य सो ऽहर्निशस्यान्ते प्रसुप्तः प्रतिबुध्यते ।

प्रतिबुद्धश् च सृजति मनः सदसदात्मकम् ॥ १.७४ ॥

तस्येति ब्रह्मा तस्याहोरात्रस्यान्ते **सुप्तः **सन् प्रतिबुध्यते । ततो मन आत्मीयं सृजति । लोकपिण्डसृष्ट्यर्थं नियुङ्क्ते । न तूत्पदयति । अस्मिन् अन्तरालप्रलयापगमे, तस्य महाप्रलयान्तरम् उत्पन्नत्वात् । तथा च “मनः सिसृक्षया युक्तः सर्गाय निदधे पुनः” इति पुराणे उक्तम् ॥ १.७४ ॥

मनः सृष्टिं विकुरुते चोद्यमानं सिसृक्ष्या ।

आकाशं जायते तस्मात् तस्य शब्दं गुणं विदुः ॥ १.७५ ॥

मन इति । तन् मनः प्रजापतिसम्बन्धि तदैव स्रष्टुम् इच्छया प्रेर्यमाणं सृष्टिं कुरुते ॥ १.७५ ॥

आकाशात् तु विकुर्वाणात् सर्वगन्धवहः शुचिः ।

बलवाञ् जायते वायुः स वै स्पर्शगुणो मतः ॥ १.७६ ॥

आकाशात् त्व् इति । **आकाशात् **स्व(स)विकारजननोन्मुखीभूतात् वायुः सुरभ्यसुरभिगन्धवहः शुचिः पवित्रो **बलवांश् **च जायते । सस्पर्शगुणयुक्तः ऋषीणां मतः ॥ १.७६ ॥

वायोर् अपि विकुर्वाणाद् विरोचिष्णु तमोनुदम् ।

ज्योतिर् उत्पद्यते भास्वत् तद् रूपगुणम् उच्यते ॥ १.७७ ॥

वायोर् इति । **वायोः **पूर्ववत् तेजः **विरोचिष्णु **परप्रकाशकं तमोनाशनं **भास्वत् **प्रकाशकम् उत्पद्यते । तच् च स्वरूपाख्यगुणयुक्तं कथ्यते ॥ १.७७ ॥

ज्योतिषश् च विकुर्वाणाद् आपो रसगुणाः स्मृताः ।

अद्भ्यो गन्धगुणा भूमिर् इत्य् एषा सृष्टिर् आदितः ॥ १.७८ ॥

ज्योतिष इति । तेजसः पूर्ववत् । **आपः **रसाख्यगुणयुक्ता जायन्त इति **स्मृताः **मन्वादिभिः । **अद्भ्यश् **च गन्धाख्यगुणयुक्ता भूमिर् जायते । इत्य् एषा अन्तरालप्रलयानन्तरं प्रथमतः सृष्टिः ॥ १.७८ ॥

यत् प्राग् द्वादशसाहस्रम् उदितं दैविकं युगम् ।

तद् एकसप्ततिगुणं मन्वन्तरम् इहोच्यते ॥ १.७९ ॥

यद् इति । यद् एतत्च् चतुर्युगं द्वापरपरिमाणं दैवयुगम् उक्तं तद् एकसप्ततिगुणं मन्वन्तराख्यः कालः इह शास्त्रे उच्यते । एतावान् कालः एकस्य सतोः सर्गाद्यधिकारः ॥ १.७९ ॥

मन्वन्त्राण्य् असङ्ख्यानि सर्गः संहार एव च ।

क्रीडन्न् इवैतत् कुरुते परमेष्ठी पुनः पुनः ॥ १.८० ॥

यद्य् अपि पुराणे चतुर्दश मन्वन्तराणि सङ्ख्यायन्ते तथापि आवृत्त्या असङ्ख्यानि यदा भवन्ति तदा सृष्टिसंहारौ भवतः । **एतच् **च सृष्टिसंहाराख्यं वस्तु परमे अनावृत्तिलक्षणे स्थाने स्थितत्वात् **परमेष्ठी **प्रजापतिः क्रीडन्न् इवैतत् पुनः पुनः कुरुते । न केवलं तदिच्छैवात्र कारणं यावत् प्राणिकर्माण्य् अपीत्य् अतः एवशब्दः ॥ १.८० ॥

चतुष्पात् सकलो धर्मः सत्यं चैव कृते युगे ।

नाधर्मेणागमः कश्चिन् मनुष्यान् उपवर्तते ॥ १.८१ ॥

**चतुष्पाद् **इति । यो ऽयं चतुष्पाद्आश्रयो धमः **सकल **एव । तथा **सत्यं च कृतयुगे **आसीत् । सत्यस्य प्राधान्यात् पृथक् ग्रहणम् । एवं च शस्त्रातिक्रमेण विद्यायाः धनस्य वा **आगमः कश्चिन् मनुष्यान् प्रति **न वर्तते ॥ १.८१ ॥

इतरेष्व् आगमाद् धर्मः पादशस् त्व् अवरोपितः ।

चौरिकानृतमायाभिर् धर्मश् चापैति पादशः ॥ १.८२ ॥

इतरेष्व् इति । त्रेतादिषु पुनर् **आगमात् **शास्त्राद् **धर्मो **यागाद्यनुष्ठानं यथाक्रमं प्रतियुगं पादं पादम् **अवरोपितं **हीनं कृतं चौर्यासत्यछद्मभिः नात्र युगैः यथासङ्ख्यं चौर्यादीनां सर्वेषां सर्वयुगेषु दर्शनात् । एवं च **पादशो **ऽनुष्ठाणापगमात् तत्साध्यो ऽप्य् अभ्युदयहेतुः मुख्यो धर्मः पादशो व्यपगच्छति ॥ १.८२ ॥

अरोगाः सर्वसिद्धार्थाश् चतुर्वर्षशतायुषः ।

कृते त्रेतादिषु ह्य् एषां वयो ह्रियति पादशः ॥ १.८३ ॥

**अरोगा **इति । **अरोगाः **रोगनिमित्तस्याधर्मस्याभावात्, **सर्वसिद्धार्थाः **सिद्धसकलपाम्यफलाः । प्रतिबन्धकस्याधर्मस्याभावात् **चतुर्वर्षशतायुषः **पुराणदृष्ट्या । तद् आह स्वाभाविकम् एतद् आयुः अत आयुः प्रापककर्मकरणेन अधिकायुषो ऽपि भवन्ति । तेन दशवर्षसहस्राणि रामो राज्यम् अकारयत्, इत्य् अविरोधः । “शतायुर् वाइ पुरुषः” इत्यादिश्रुतौ च शतशब्दो बह्वर्थः । शतसहस्रशब्दयोः बहुनामस्व् आम्नातत्वात् । एवंविधा मनुष्याः क्र्ते भवन्ति । **त्रेतादिषु ** पुनर् एषां पादं पादं वयः अल्पीभवति ॥ १.८३ ॥

वेदोक्तम् आयुर् मर्त्यानाम् आशिषश् चैव कर्मणाम् ।

फलन्त्य् अनुयुगं लोके प्रभावश् च शरीरिणाम् ॥ १.८४ ॥

वेदोक्तम् इति । “शतायुर् वै पुरुषः” इति । एवं यदि वेदोक्तम् आयुः कर्मणां काम्यानां प्रधानानां **प्रभावश् च **समृद्ध्यति । शतयोगो मनुष्याणां युगानुरूपेण फलति ॥ १.८४ ॥

अन्ये कृतयुगे धर्मास् त्रेतायां द्वापरे परे ।

अन्ये कलियुगे नॄणां युगह्रासानुरूपतः ॥ १.८५ ॥

अन्य इति । कृतादिषु युगेषु युगानुरूपेण धर्मवैलक्षण्यं मनुष्याणां भवति ॥ १.८५ ॥

तपः परं कृतयुगे त्रेतायां ज्ञानम् उच्यते ।

द्वापरे यज्ञम् एवाहुर् दानम् एकं कलौ युगे ॥ १.८६ ॥

तथा च **तप **इति । **तपः **कृच्छ्रचान्द्रायणादि **कृतयुगे परं **प्रधानतो ऽनुष्ठीयते मनुष्यैः, युगस्वाभाव्यात् । आत्मज्ञानयज्ञदानानाम् अनुषङ्गतः । एवं **त्रेतायां ज्ञानं **परं तपःप्रभृतीनि तु आनुषङ्गिकानि । एवं **द्वापरे यज्ञम् आहुः दानम् कलाव् **इति ॥ १.८६ ॥

सर्वस्यास्य तु सर्गस्य गुप्त्यर्थं स महाद्युतिः ।

मुखबाहूरुपज्जानां पृथक् कर्माण्य् अकल्पयत् ॥ १.८७ ॥

**सर्वस्येति **। स महादीप्तिर् ब्रह्मा अस्य सर्वस्य जगतः “अग्नौ प्रास्ताहुतिः” इत्यादिन्यायेन रक्षार्थं मुखादिजातानां ब्राह्मणादीनां पृथक् पृथक् **कर्माणि **अदृष्टार्थानि वृत्त्यर्थानि च कल्पितवान् । एतानि सृष्टिशेषत्वेनेहाभिधीयन्ते । तथा च सर्वस्यास्य तु सर्गस्य गुप्त्यर्थम् इत्य् उक्तम् । विधिस् त्व् एषाम् अस्यार्थवादप्रकरणत्वाद् उत्तरत्र भविष्यति ॥ १.८७ ॥

अध्यापनम् अध्ययनं यजनं याजनं तथा ।

दानं प्रतिग्रहं चैव ब्राह्मणानाम् अकल्पयत् ॥ १.८८ ॥

तत्र **अध्यापनम् **इति । **अध्ययनाध्यापने **साङ्गवेदस्मृतीनां पठनप्रवचने । **यजनयाजने **यागार्त्विज्ये । अन्नोदकानि [दत्वा] यथाशक्त्या प्राणिनाम् अर्त्यपहरणं दानम् । साधुतः प्रतिग्रहं **ब्राह्मणानां **कल्पितवान् ॥ १.८८ ॥

प्रजानां रक्षणं दानम् इज्याध्ययनम् एव च ।

विषयेष्व् अप्रसक्तिश् च क्षत्रियस्य समासतः ॥ १.८९ ॥

प्रजानाम् इति । इज्या यागः । **विषयेषु **स्त्र्यादिगतरूपादिषु । अत्यन्तम् एव परिहारः । **समासतः **सङ्क्षेपेण ॥ १.८९ ॥

पशूनां रक्षणं दानम् इज्याध्ययनम् एव च ।

वणिक्पथं कुसीदं च वैश्यस्य कृषिम् एव च ॥ १.९० ॥

वणिक्पथं स्थपथवारिपथादिना वाणिज्यायै गमनम् । **कुसीदं **वृद्ध्यर्थं धनप्रयोगः ॥ १.९० ॥

एकम् एव तु शूद्रस्य प्रभुः कर्म समादिशत् ।

एतेषाम् एव वर्णानां शुश्रूषाम् अनसूयया ॥ १.९१ ॥

एकम् इति । स **प्रभुः **अनिन्दया ब्राह्मणादिपरिचरणं कर्मादिष्टवान् ॥ १.९१ ॥

ऊर्ध्वं नाभेर् मेध्यतरः पुरुषः परिकीर्तितः ।

तस्मान् मेध्यतमं त्व् अस्य मुखम् उक्तं स्वयम्भुवा ॥ १.९२ ॥

इदानीं ब्राह्मणादिकर्मविवेकार्थत्वमुखेन शास्त्रस्य स्तुतिम् अध्ययनश्रवणानुष्ठानफलां कर्तुं ब्राह्मणस्तुतिम् आह – ऊर्ध्वम् इति । पुंसः सर्वतो ऽपि [मेध्यत्वस्य] सिद्धत्वे सति **नाभेर् ऊर्ध्वं मेध्यतरत्वं **ततो ऽपि मुखस्य मेध्यतमत्वं स्वयम्भुवोक्तम् ॥ १.९२ ॥

उत्तमाङ्गोद्भावाज् ज्यैष्ठ्याद् ब्रह्मणश् चैव धरणात् ।

सर्वस्यैवास्य सर्गस्य धर्मतो ब्राह्मणः प्रभुः ॥ १.९३ ॥

ततः किम् अत आह – उत्तमाङ्गोद्भवाद् इति । मूर्धोद्भवत्वात् पूर्वोत्पन्नत्वात् प्रवचनादियुक्तत्वात् सातिशयवेदधारणात् **सर्वस्य **जगतो धर्मानुशासने **ब्राह्मणः प्रभुः **॥ १.९३ ॥।

तं हि स्वयम्भूः स्वाद् आस्यात् तपस् तप्त्वादितो ऽसृजत् ।

हव्यकव्याभिवाह्याय सर्वस्यास्य च गुप्तये ॥ १.९४ ॥

कस्य पुनर् अयम् उत्तमाङ्गाद् उद्भूत इत्य् अत आह – तम् इति । **तं **ब्राह्मणं **स्वयम्भूः **आत्ममुखात् **तपः **कृत्वा देवपित्रन्नवहनार्थं जगद्रक्षार्थं च प्रथमसृष्टौ सृष्टवान् ॥ १.९४ ॥

यस्यास्येन सदाश्नन्ति हव्यानि त्रिदिवौकसः ।

कव्यानि चैव पितरः किं भूतम् अधिकं ततः ॥ १.९५ ॥

एवं च यस्येति । **यस्य **ब्राह्मणाख्यस्य महात्मनो मुखेन महाप्रभावाः त्रिदिवौकसः स्वर्गवासिनो देवाः **हव्यानि **अनवरतम् अश्नन्ति पितरश् **च कव्यानि ततो **ऽन्यत् प्रकृष्टं **किं भूतं **स्यात् ॥ १.९५ ॥

भूतानां प्राणिनः श्रेष्ठाः प्राणिनां बुद्धिजीविनः ।

बुद्धिमत्सु नराः शेष्ठा नरेषु ब्राह्मणाः स्मृताः ॥ १.९६ ॥

अधुना विद्वत्तादिगुणयोगेन ब्राह्मणं स्तोतुम् आह – भूतानाम् इति । **भूतानां **स्थावरजङ्गमानां मध्यात् प्राणिनां सर्वेषां गुणवत्त्वे ऽपि ये तूद्रिक्तचैतन्या वृश्चिकादयः । ते स्थावरेभ्यः तदुत्तरसुखानुभवात् **श्रेष्ठाः **। तेभ्यो ऽपि श्वादयो **बुद्धिजीविनः **निरन्नसान्नदेशगमागमकारणात् । तेभ्यो ऽपि मनुष्याः विशिष्ठविज्ञानात् । तेभ्यो ऽपि **ब्राह्मणाः **अपवर्गाधिकारयोग्यत्वात् ॥ १.९६ ॥

ब्राह्मणेषु च विद्वांसो विद्वत्सु कृतबुद्धयः ।

कृतबुद्धिषु कर्तारः कर्तृषु ब्रह्मवेदिनः ॥ १.९७ ॥

ब्राह्मणेष्व् इति । तेभ्यो ऽपि विद्वांसः महाफलकर्माधिकारात् तेभ्यो ऽपि कृतबुद्धयः शास्त्रार्थानुष्ठानेषूत्पन्नसङ्कल्पाः । तेभ्यो ऽय् अनुष्ठातारः इष्टानिष्टप्राप्तिपरिहारयुक्तत्वात् । तेभ्यो ऽपि ज्ञातात्मानः अपवर्गफलत्वात् ॥ १.९७ ॥

उत्पत्तिर् एव विप्रस्य मूर्तिर् धर्मस्य शाश्वती ।

स हि धर्मार्थम् उत्पन्नो ब्रह्मभूयाय कल्पते ॥ १.९८ ॥

किं च उत्पत्तिर् इति । जन्ममात्रम् एव ब्राह्मणस्य अविनश्वरं धर्मस्य शरीरम्, यस्माद् असौ धर्मार्थम् उत्पन्नः उपनीतः सन् आत्मज्ञानेन ब्रह्मत्वाय सम्पद्यते ॥ १.९८ ॥

ब्राह्मणो जायमानो हि पृथिव्याम् अधिजायते ।

**ईश्वरः सर्वभूतानां धर्मकोषस्य गुप्तये ॥ १.९९ ॥ **

**ब्राह्मण् **इति । यस्माद् **ब्राह्मण **उत्पद्यमानः धर्मसञ्चयरक्षणार्थं **सर्वभूतानाम् ईश्वरः **प्रभुः सन् पृथिव्याम् अध्इकः एकः श्रेष्ठः शुक्लैः गुणैः **जायते **तस्माद् असौ मूर्तिः धर्मस्य शास्वती पूर्वोक्तहेतुर् अयम् । कोशो धनसञ्चयः (न) इहोपचारात् कोशश्ब्दः । तद्गोप्तृत्वं च ब्राह्मणोपदेशकत्वात् सर्वधर्माणाम् ॥ १.९९ ॥

सर्वं स्वं ब्राह्मणस्येदं यत् किञ्चिज् जगतीगतम् ।

श्रैष्ट्येनाभिजनेनेदं सर्वं वै ब्राह्मणो ऽर्हति ॥ १.१०० ॥

सर्वं स्वम् इति । वक्ष्यमाणस्तेयादिशास्त्रविरोधात् अस्य च श्रुतिप्रधानत्वात् सर्वं जगद्गतं द्रव्यजातं ब्राह्मणस्वम् इव स्तुत्योच्यते । तत्र स्वयम् एव यस्मात् श्रैष्ठेनाभिजनेन मुखोद्भवत्वेन **सर्वं ब्राह्मणो **योग्यो भवति स्वीकर्तुं तस्मात् तस्येयं सर्वं स्वम् एव ॥ १.१०० ॥

स्वम् एव ब्राह्मणो भुङ्क्ते स्वं वस्ते स्वं ददाति च ।

आनृशंस्याद् ब्राह्मणस्य भुञ्जते हीतरे जनाः ॥ १.१०१ ॥

एवं च स्वम् इति । यत् परकीयस्यापि भोजनाच्छादनादि असौ करोति तत् तस्य स्वम् एवेति पूर्ववत् स्तुतिः । एवं **चानृशंस्यात् **तद्गतकारुण्याद् अन्ये जना भोजनाच्छादनादि कुर्वते ॥ १.१०१ ॥

तस्य कर्मविवेकार्थं शेषाणां चानुपूर्वशः ।

स्वायम्भुवो मनुर् धीमान् इदं शास्त्रम् अकल्पयत् ॥ १.१०२ ॥

अधुनोक्तब्राह्मणस्तुतेः फलम् आह – तस्येति । ईदृग् एतन् महच्छास्त्रं यद् उक्तलक्षणस्य **ब्राह्मणस्य प्रधानतः कार्याकार्यविवेकार्थं शेषाणां क्षत्रियादिसङ्करपर्यन्तानाम् अनुषङ्गतः तद्विवेदार्थम् **एतत् प्रजापतिनप्ता प्रशस्तबुद्धिमान् मनुः कल्पितवान् ॥ १.१०२ ॥

विदुषा ब्राह्मणेनेदम् अध्येतव्यं प्रयत्नतः ।

शिष्येभ्यश् च प्रवक्तव्यं सम्यङ् नान्येन केनचित् ॥ १.१०३ ॥

विदुषेति । हिताहितानीच्छता तज्ज्ञेन ब्राह्मणेनेदं शास्त्रं प्रयत्नेनाध्येतव्यम् इति ब्राह्मणस्य प्रयत्नाध्ययनार्थो ऽयम् आरम्भः । प्रयत्नग्रहणात् क्षत्रियवैश्ययोर् अप्य् अत्राध्ययनाधिकारः । तथा च “निषेकादिश्मशानान्त” इत्यादि वक्ष्यति । न तु ब्राह्मणवद् यत्नातिशयः । न च तेनैतत् ब्राह्मणस्यापि विद्ध्यति, तत्र ब्राह्मणविशेषणस्य् प्रयत्नशब्दस्यानुपादानात्, न च क्षत्रियवैश्ययोर् अप्य् अनेनैव सिद्ध्यति । निषेकादीत्य् एतदनारम्भे प्रयत्नशब्दस्यैवंविधविशेषप्रतिपादनासामर्थात् । न हीह क्षत्रियवैश्यग्रहणम अस्ति । सति निषेकादिशास्त्रे ऽस्मिंश् च एतल् लभ्यते द्विजातिमात्रस्याध्ययनाधिकारो ब्राह्मणस्य तु प्रयत्नवान् । इति । **शिष्येभ्यश् च **ब्राह्मणेनैतत् प्रवक्तव्यं न क्षत्रियादिनेति । ब्राह्मणस्यैतच्छास्राध्यापनाधिकारर्थो ऽयम् आरम्भः अन्यस्याध्यापननिषेधर्थश् च । यथा [यत् तु] अर्थवादत्वम् अस्य श्लोकस्य कैश्चिद् उक्तम् । तद् असिद्धम् अर्थप्रतीतेः । अर्थस्य चार्थवादत्वे सति प्रयत्नकृतो विशेषो न भवति । तन् मा नामात्र भूत् ब्राह्मणस्यैतच्छास्त्राध्यापनाधिकारो ऽन्यस्य निषेध इत्य् अयं पुनर् विशेषो ऽस्यार्थवादत्वे सति दुर्लभः । यत् तु अधीयीरंस् त्रयो वर्णा इत्यादि स वेदविषयो ऽनुवाद इति व्याख्यास्यामः ॥ १.१०३ ॥

इदं शास्त्रम् अधीयानो ब्राह्मणः शंसितव्रतः ।

मनोवाग्देहजैर् नित्यं कर्मदोषैर् न लिप्यते ॥ १.१०४ ॥

इदम् इति । **इदं शास्त्रं **पठन् **ब्राह्मणः **एतदर्थावबोधेन **शंसितव्रतः **अविकलयमनियमः सन् मनोवाक्कायजैर् विहिताकरणप्रतिषेधसेवनजनितैः पापैः न सम्बध्यते ॥ १.१०४ ॥

पुनाति पङ्क्तिं वंश्यांश् च सप्त सप्त परावरान् ।

पृथिवीम् अपि चैवेमां कृत्स्नाम् एको ऽपि सो ऽर्हति ॥ १.१०५ ॥

किं च पुनातीति । भोजनादानपङ्क्तिसम्बन्धाद् अपवित्रीभूतां पङ्क्तिं शास्त्रस्थत्वात् पङ्क्तिपावनत्वे सति पवित्रीकरोति । तथैवान्वयात् **सप्त परान् **अतीतान् पित्रादीन् सप्तावरान् आगामिनः **पुनाति । **समग्रां चेमां **प्र्थिवीं **प्रतिग्रहीतुम् अर्हति । विदुषः प्रतिग्रहदोषापाकरणसामर्थात् ॥ १.१०५ ॥

इदं स्वस्त्ययनं श्रेष्ठम् इदं बुद्धिविवर्धनम् ।

इदं यशस्यं सततम् इदं निःश्रेयसं परम् ॥ १.१०६ ॥

इदानीं शास्त्रं साक्षात् स्तौति – इदम् इति । इदम् अन्यस्मात् स्वस्त्ययनकर्मणः **श्रेष्टं **अतिशयेन प्रशस्यम्, स्वत्ययनं अविनाशप्रापकम् । विनाशोपशमकर्मावबोधेन, बुद्धिविवर्धनं च शास्त्रार्थपरिगणनात्, बुद्धिविकासेन यशोनिमित्तं च सततं सर्वकालं ख्यातिकरत्वात्, परं प्रकृष्टं **निःश्रेयसं **निःश्रेयसस्य मोक्षस्य साधकत्वात् ॥ १.१०६ ॥

अस्मिन् धर्मो ऽखिलेनोक्तो गुणदोषौ च कर्मणाम् ।

चतुर्णाम् अपि वर्णानाम् आचारश् चैव शाश्वतः ॥ १.१०७ ॥

अस्मिन्न् इति । अस्मिन् स्मार्तो धर्मः कार्त्स्न्येनोक्तः **कर्मणां च **विहितप्रतिषिद्धानाम्, गुणदोषौ इष्टानिष्टफले वर्णानाम् **आचारः **पुरुषघर्माख्यः साधारणप्राधान्यख्यापनार्थं चास्य पृथग् ग्रहणम् । एवं चैव तत्सन्निधौ धर्मशब्दो ऽत्र साधारणः सन्ध्योपासनादिप्रतिवचनः ॥ १.१०७ ॥

आचारः परमो धर्मः श्रुत्युक्तः स्मार्त एव च ।

तस्माद् अस्मिन् सदा युक्तो नित्यं स्याद् आत्मवान् द्विजः ॥ १.१०८ ॥

आचार इति । यः **श्रुत्युक्तः आचारः **पुरुषसाधारणप्राधान्यख्यापनार्थं स धर्माख्यः, यश् च स्मार्तः स **परमः **पर्क्ēष्ट्तो **धर्मः **परमो ज्योतिष्टोमाष्टकादिभ्यः श्रौतस्मार्तधर्मेभ्यः यतः तस्मात् यो नित्यं प्रशस्तात्मा आचारे सर्वकाले युक्तो यत्नवान् स्यात् ॥ १.१०८ ॥

आचाराद् विच्युतो विप्रो न वेदफलम् अश्नुते ।

आचारेण तु संयुक्तः सम्पूर्णफलभाक् स्मृतः ॥ १.१०९ ॥

आचारद् इति । **आचाराद् विच्युतः **श्रौतस्मार्ताधिकारात् भ्रष्टाचारो ब्राह्मणो न वैदिकं कर्मफलं लभते । आचारवान् पुनः समग्रफलभाग् भवति ॥ १.१०९ ॥

एवम् आचारतो दृष्ट्वा धर्मस्य मुनयो गतिम् ।

सर्वस्य तपसो मूलम् आचारं जगृहुः परम् ॥ १.११० ॥

एवम् इति । **एवम् आचारद् धर्मस्य **प्राप्तिम् ऋषयो बुद्ध्या कृच्छ्रचान्द्रायणादेस् तपसः सफलात् **परं **प्रकृष्टं मूलकारणं तस्मिन् सति तपसः साफल्याद् आचारम् अनुष्ठेयत्वेन गृहीतवन्त इति । एवम् इहाचारास्तुतिः शास्त्रस्तुत्यर्था । उत्तरत्र तु आचारानुष्ठानार्थम् ॥ १.११० ॥

जगतश् च तम् उत्पत्तिं संस्कारविधिम् एव च ।

व्रतचर्योपचारं च स्नानस्य च परं विधिम् ॥ १.१११ ॥

इदानीं शास्त्रस्य महावृत्तान्तोपेतत्वप्रदर्शनार्थम् अनुक्रमणीम् आह – जगत इति ॥ १.१११ ॥

दाराधिगमनं चैव विवाहानां च लक्षणम् ।

महायज्ञविधानं च श्राद्धकल्पं च शाश्वतम् ॥ १.११२ ॥

दाराधिगमनम् इति ॥ १.११२ ॥

वृत्तीनां लक्षणं चैव स्नातकस्य व्रतानि च ।

भक्ष्याभक्ष्यं च शौचं च द्रव्याणां शुद्धिम् एव च ॥ १.११३ ॥

**वृत्तीनाम् **इति ॥ १.११३ ॥

स्त्रीधर्मयोगं तापस्यं मोक्षं सन्न्यासम् एव च ।

राज्ञश् च धर्मम् अखिलं कार्याणां च विनिर्णयम् ॥ १.११४ ॥

स्त्रीधर्मयोगम् इति ॥ १.११४ ॥

साक्षिप्रश्नविधानं च धर्मं स्त्रीपुंसयोर् अपि ।

विभागधर्मं द्यूतं च कण्टकानां च शोधनम् ॥ १.११५ ॥

साक्षिप्रश्नविधानम् इति ॥ १.११५ ॥

वैश्यशूद्रोपचारं च सङ्कीर्णानां च सम्भवम् ।

आपद्धर्मं च वर्णानां प्रायश्चित्तविधिं तथा ॥ १.११६ ॥

**वैश्यशूद्रोपचारम् **इति ॥ १.११६ ॥

संसारगमनं चैव त्रिविधं कर्मसम्भवम् ।

निःश्रेयसं कर्मणां च गुणदोषपरीक्षणम् ॥ १.११७ ॥

संसारगमनम् इति ॥ १.११७ ॥

देशधर्माञ् जातिधर्मान् कुलधर्मांश् च शाश्वतान् ।

पाषण्डगणधर्मांश् च शास्त्रे ऽस्मिन्न् उक्तवान् मनुः ॥ १.११८ ॥

देशधर्मान् इति । जगतुत्पत्तिर् यथोक्ता । ब्रह्मणः स्तुत्यादेश् च शास्त्रधर्मस्तुत्यर्थत्वेनैकार्थत्वाद् अत्रैवान्तर्भावः । [१.१११फ़्] सङ्काराणां जातकर्मादीनां **विधिर् **अनुष्ठानम् । **व्रतचर्या **व्रतचरणं व्रतं ब्रह्मचारिणः । **उपचारो **गुर्वादीनाम् अभिवादनाद्यनुवृत्तिः । व्रतचर्योपचारम् इति द्वन्द्वैकवद्भावः । स्नानं गुरुकुलान् निवर्तमानस्य संस्कारविशेषः तस्य परो विधिः प्रकृष्टं विधानम् । **दाराधिगमनं **विवाहः । **विवाहादीनां **ब्राह्मादीनां च लक्षणम् । **महायज्ञाश् च **वैश्वदेवादयः । श्राद्धकल्पः श्राद्धविधिः । **शाश्वतः **अनादिप्रवाहप्रवृत्त्या नित्यः वृत्तीनां जीवनोपायानाम् ऋतादीनां लक्षणम् । **स्नातकस्य **गृहस्थस्य **व्रतानि **। भक्ष्यं दध्यादि **अभक्ष्यं **लशुनादि । शौचं जननादौ दशाहादिना । **द्रव्याणां **तैजसादीनां क्षारादिना **शुद्धिः **। स्त्रिया धर्मयोगो धर्मानुष्ठानम् । तापस्यं तापसस्य वानप्रस्थस्य कर्म । भिक्षोः संसारहेतुत्वान् मोक्षः सन्न्यासश् च भिक्षुधर्मप्रकार एव । राज्ञो ऽभिषिक्तस्य धर्मः कार्याणां व्यवहाराणाम् अर्थिप्रत्यर्थिसमर्पितानां निश्चयः । साक्षिप्रश्नविधानं च । स्त्रीपुंसयोः दम्पत्योः धर्मः परस्परवर्तनम् । पैतृकऋक्थविभागधर्मः । द्यूतम् अक्षादिः तद्व्यवस्था **कण्टकानां **चौरादीनां **शोधनम् **उद्धरणं **वैश्यशूद्रयोर् उपचारो **वार्ता शुश्रूषाद्यनुष्ठानम् । सङ्कीर्णानाम् अनुलोमप्रतिलोमानाम् उत्पत्तिः । आपदि जीविकोपदेशः आपद्धर्मः । विहिताकरणादिना **प्रायश्चित्तानुष्ठानम् **। उत्तममध्यमाधमभेदेन त्रिविधकर्महेतुना **संसारोत्पत्तिः **। यस्मात् परम् अन्यच् छ्रेयो नास्ति तन् निःश्रेयसम् आत्मज्ञानं नैश्रेयसहेतुत्वात् । **कर्मणां च **विहितप्रतिषिद्धानां गुणदोषपरीक्षणम् । प्रतिनियतदेशजातिकुलाश्रिता **धर्माः बाह्यदर्शनसमाश्रयेण लिङ्गधारणं पाखण्डम् **। वणिक्कार्वादीनां गणः सङ्घः ॥ १.१११–११८ ॥

यथेदम् उक्तवाञ् छास्त्रं पुरा पृष्टो मनुर् मया ।

तथेदं यूयम् अप्य् अद्य मत्सकाशान् निबोधत ॥ १.११९ ॥

यथेति । पूर्वं मया मनुः पृष्टो यथैवेदम् उक्तवान् तथैवाविभ्रष्टागमं **मत्सकाशात् यूयं **शृणुतेत्य् उत्तरशास्त्रार्थापत्तेर् नैतत् सिद्धम् (?) ॥ १.११९ ॥

इति श्रीभट्टमाधवात्मजगोविन्दराजविरचितायां मन्वाशयानसारिण्यां

**प्रथमो ऽध्यायः समाप्तः **

अथ द्वितीयो ऽध्यायः

विद्वद्भिः सेवितः सद्भिर् नित्यम् अद्वेषरागिभिः ।

हृदयेनाभ्यनुज्ञातो यो धर्मस् तं निबोधत ॥ २.१ ॥

ॐ नमः सरस्वत्यै । एवम् अध्ययनश्रवणार्थं महाप्रयोजनतां शाश्त्रस्य प्रतिपाद्याधुना प्रकृताभिधानार्थम् उपक्रमते । तत्र तावद् अभिधास्यमानं धर्मसामान्यलक्षणं सकलशास्त्रव्यापकत्वेन परिभाषार्थम् आह **विद्वद्भिर् **इति । धर्मस्यानन्यप्रमाणत्वाद् विद्वद्भिर् वेदार्थज्ञैः **सद्भिः **धार्मिकैः सर्वदा **रागद्वेषशून्यैः **आचरितो **हृदयेनाभ्यनुज्ञातो **ऽन्तःकरण[वि]चिकित्साशून्यो यो धर्मः अदृष्टार्थकर्तव्यरूपस् तं शृणुत ॥ २.१ ॥

कामात्मता न प्रशस्ता न चैवेहास्त्य् अकामता ।

काम्यो हि वेदाधिगमः कर्मयोगश् च वैदिकः ॥ २.२ ॥

परिभाषान्तरम् आह – कामात्मतेतिकामात्मता न प्रशस्ता, फलाभिलाषशीलत्वम् अयुक्तम् । यतः शास्त्रचोदितकर्माणि फलाद्भिलाषत्यागेनाचर्यमाणान्य् आत्मज्ञानसाचिव्येन मोक्षाय कल्पन्ते । फलेच्छया त्व् अनुष्ठाने तेषां संसारहेतुत्वात् । अस्तु (परन् तु) कामात्मता न प्रशस्तेत्य् अनेनेच्छा निषिद्धा, एतन् मत्वाह – न चैवेति । इच्छाम् अन्तरेण नेह शास्त्रे प्रवृत्तिर् अस्ति यस्माद् वेदस्वीकरणं वैदिककर्मसम्बन्धश् चाभिलषणीय एव ॥ २.२ ॥

सङ्कल्पमूलः कामो वै यज्ञाः सङ्कल्पसम्भवाः ।

व्रतानि यमधर्माश् च सर्वे सङ्कल्पजाः स्मृताः ॥ २.३ ॥

अत्रैवोपपत्तिम् आह – सङ्कल्पमूल इति । अनेन वस्तुना इयम् अर्थक्रिया साध्यते इत्य् एवंविधो मनोव्यापारः **सङ्कल्पः **। स च मूलं कामस्य । तदनन्तरं हि तद्वस्तुसम्पादनेच्छोपजायते । तद् अनु चाध्यवसायो भौतिकव्यापारेण करणोद्योगो भवति । एवं च यज्ञादयः सङ्कल्पप्रभवाः । तेषां च सङ्कल्पोद्भवत्वए सति अवश्यम् अनत्रिच्छया भवितव्यम् । सङ्कल्पाभिमानव्यवसायेभ्यः क्रियाप्रवृत्तिः । **यमधर्माः **प्रतिषेधात्मकाः ॥ २.३ ॥

अकामस्य क्रिया काचिद् दृश्यते नेह कर्हिचित् ।

यद् यद् धि कुरुते किञ्चित् तत् तत् कामस्य चेष्टितम् ॥ २.४ ॥

अत्रैव लौकिकं दृष्टान्तम् आह – अकामस्येति । बुद्धिपूर्वकारिभाव्या या काचित् क्रिया दृष्टार्था सा अनिच्छतो कदाचिद् दृश्यते । तस्माद् **यत् किञ्चित् कुरुते **कर्म तत् सर्वं कामस्य चेष्टितम् इच्छाकार्यम् इत्य् अर्थः ॥ २.४ ॥

तेषु सम्यग् वर्तमानो गच्छत्य् अमरलोकताम् ।

यथा सङ्कल्पितांश् चेह सर्वान् कामान् समश्नुते ॥ २.५ ॥

अत्र परिहारम् आह – तेष्व् इति । नात्रेच्छा निषिध्यते । अपि तु यथाश्रुतं तत् तथैवानुष्ठेयम् इतीयं सम्यग्वृत्तिः तत्र तेषु कर्मसु फलाभिलाषत्यागेन प्रवर्तमानो बन्धात्मकत्वाभावात् **अमरलोकतां **अमरधर्मत्वं मोक्षं प्राप्नोति । इह संसारे आत्मज्ञानाभ्यासेनाष्टगुणैश्वर्ययोगात् यथाभिलषितान् **सर्वान् **अर्थान् **समश्नुते **॥ २.५ ॥

वेदो ऽखिलो धर्ममूलं स्मृतिशीले च तद्विदाम् ।

आचारश् चैव साधूनाम् आत्मनस् तुष्टिर् एव च ॥ २.६ ॥

इदानीं धर्मप्रमाणपरिगणनार्थम् आह – वेद इति । वेदः ऋग्यजुःसामलक्षणः अखिलः समग्रः । अर्थवादादीनाम् अपि विध्येकवाक्यत्वेन श्रवणात् **धर्मस्य मूलं **प्रमाणं मिथाज्ञानसंशयाभावात् निसर्गप्रामाण्याच् च । एतन् न्यायसिद्धम् । एतद् अस्यानूद्यते स्मृत्य्आदीनां तन्मूलत्वेन प्रामाण्यप्रतिपादनाय । तथा च मानवादिशास्त्रोपनिबन्धनं वेदविदां कर्तव्याकर्तव्यस्मरणम् शीलं च रागद्वेषपरित्यागात्मकम्, आचारश् च विवाहादौ कङ्कणबन्धनाद्याचरणरूपः, साधूनां धर्मिकाणां आत्मनस् तुष्टिश् च अदृष्टार्थाचर्यमाणपदार्थचेतः परितोषरूपा वैकल्पिकपदार्थविषया च धर्मं प्रति प्रमाणम् । एषां सर्वेषां वेदमूलकत्वात् ॥ २.६ ॥

यः कश्चित् कस्यचिद् धर्मो मनुना परिकीर्तितः ।

स सर्वो ऽभिहितो वेदे सर्वज्ञानमयो हि सः ॥ २.७ ॥

तथा च वेदमूलत्वम् एषां दर्शयति – **य **इति । **कस्यचित् **श्रुतिशीलाचारात्मतुष्टिप्रमाणको धर्मः कस्यचित् ब्राह्मणादेः **मनुना **कथितः **स **सर्वैर् वेदैर् उक्तः उच्छिन्नविप्रकीर्णमन्त्रार्थवादलिङ्गमूलत्वात् तत्स्मरणस्य, अतीन्द्रियार्थप्रतिपादने हि वेदविदाम् अगृह्यमाणकारणानां वेदस्यैव मूलत्वसम्भवात् । यस्मात् सर्वदृष्टार्थज्ञानहेतुत्वात् **सर्वज्ञानमयः **सर्वज्ञानारब्ध इव वेदः । अत्र च अष्टकादीनां महाप्रत्यवायादीनां ग्रन्थेनोपनिबन्धः । शीलाचारात्मतुष्टीनां पुनर् अल्पप्रत्यवायत्वात् [न] उपनिबन्धः ॥ २.७ ॥

सर्वं तु समवेक्ष्येदं निखिलं ज्ञानचक्षुषा ।

श्रुतिप्रामान्यतो विद्वान् स्वधर्मे निविशेत वै ॥ २.८ ॥

सर्वम् इति । यावत् किञ्चिच् छास्त्रजातं तत् सर्वं विज्ञानाख्येन **चक्षुषा निखिलं **निःशेषं कृत्वा पर्यालोच्य वेदप्रामाण्येनैव शास्त्रज्ञः स्वधर्मे ऽवतिष्ठेत । वेदस्यैव धर्मं प्रति प्रामाण्यात् न वेदब्राह्मणशास्त्रप्रामाण्येन, ज्ञानं चक्षुर् इव प्रमेयपरिच्छेदात् ॥ २.८ ॥

श्रुतिस्मृत्युदितं धर्मम् अनुतिष्ठन् हि मानवः ।

इह कीर्तितम् अवाप्नोति प्रेत्य चानुत्तमं सुखम् ॥ २.९ ॥

श्रुतिस्मृत्युदितम् इति । श्रुतिस्मृत्य्उक्तं **धर्मम् **आचरन् पुरुषः इह लोके ख्यातिं परलोके चोत्कृष्टं सुखं प्राप्नोतीति सद्भूतगुणाखानेनानुष्ठानस्तुतिः प्ररोचनार्था । न ह्य् अकस्मान् निष्प्रयोजना स्तुतिः प्रवर्तेत इत्य् एवं सर्वत्रेह स्तुतिषु विज्ञेयम् ॥ २.९ ॥

श्रुतिस् तु वेदो विज्ञेयो धर्मशास्त्रं तु वै स्मृतिः ।

ते सर्वार्थेष्व् अमीमांस्ये ताभ्यां धर्मो हि निबभौ ॥ २.१० ॥

श्रुतिर् इति । मन्दबुद्धिव्युत्पादनार्थं मीमांसाप्रतिषेधादिव्यवहारफलं लोकसिद्धपदार्थकथनम् । श्रुतिर् वेदो धर्मशास्त्रं स्मृतिर् इति । स्मृतिग्रहणं शीलादेर् अपि समरणप्रभेदत्वात् प्रदर्शनार्थम् । ते श्रुतिस्मृती **सर्वार्थेषु **आशुनरकफलसुरापानाद्यात्मकेषु कुतर्कविकल्पैः न विचारयितव्ये । कथम् एतत् स्याद् इति यतः प्रमाणान्तरागोचरो **धर्मः ताभ्यां निर्बभौ **प्रकाशतां गतः ॥ २.१० ॥

यो ऽवमन्येत् ते मूले हेतुशास्त्राश्रयाद् द्विजः ।

स साधुभिर् बहिष्कार्यो नास्तिको वेदनिन्दकः ॥ २.११ ॥

एवं कर्तुः बहिःकरणम् आह – यो ऽवमन्येत ते उभे इति । यः श्रुतिस्मृतिभ्याम् एवोपात्तद्विजभावः सन् तत एवासत्तर्कशास्त्रावलम्बनेन निन्देत् । नास्ति परलोकादिर् इत्य् एवं स्थितपज्ञः वेदनिन्दको द्विजसम्पाद्यात् कर्मणो ऽध्ययनादेः शिष्टैः परिहार्यः ॥ २.११ ॥

वेदः स्मृतिः सदाचारः स्वस्य च प्रियम् आत्मनः ।

एतच् चतुर्विधं प्राहुः साक्षाद् धर्मस्य लक्षणम् ॥ २.१२ ॥

इदानीं स्मृतिशीलाचारात्मतुष्ट्यात्मकप्रकारभेदस्यातन्त्रतां दर्शयितुं शीलापातेन चतुर्धा धर्मलक्षणम् आह – वेदः स्मृतीति । श्रुत्यादीनां प्रकारमात्रभेदो न तु वस्तुतः, सर्वेषां शिष्टानुस्मरणरूपत्वाच् च । तथा च “श्रुतिस् तु वेदो विज्ञेयो धर्मशास्त्रं तु वै स्मृतिः” स्वयम् एवावोचत् । **सदाचारः **साध्वाचारः । स्वात्मनश् च प्रियं आत्मतुष्टिः ॥ २.१२ ॥

अर्थकामेष्व् असक्तानां धर्मज्ञानं विधीयते ।

धर्मं जिज्ञासमानानां प्रमाणं परमं श्रुतिः ॥ २.१३ ॥

अर्थकामेष्व् इति । अर्थकामाख्यदृष्टपुरुषार्थेषु **असक्तानां **तल्लिप्साशून्यानां तत्त्वावबोधनं शास्त्रेण विधीयते । तल्लिप्सया लोकव्यक्त्यर्थं धर्मानुष्ठाने सति अदृष्टफलाभावात् किं धर्मज्ञानेनेत्य् अभिप्रायः । तथा च श्रुतिस्मृत्यादिविरोधे सति तत्त्वं ज्ञातुम् इच्छतां श्रुत्यादीनां मध्यात् श्रुतिः प्रकृष्टं प्रमाणम् । अतश् च श्रुतिविरोधे स्मृत्यवबाधः, प्रत्यक्षविरोधे ऽनुमानस्य दुर्बलत्वात् ॥ २.१३ ॥

श्रुतिद्वैधं तु यत्र स्यात् तत्र धर्माव् उभौ स्मृतौ ।

उभाव् अपि हि तौ धर्मौ सम्यग् उक्तौ मनीषिभिः ॥ २.१४ ॥

श्रुतिद्वैधम् इति । **यत्र **पुनः श्रुत्योर् एव द्विविध्यं परस्परं विद्धाभिधानं तत्र तत्प्रतिपाद्यौ द्वाव् अपि विकल्पानुष्ठेयत्वेन मन्वादिभिः पूर्वतरैर् अपि विद्वद्भिः द्वाव् अपि तौ धर्मौ सम्यक् समीचीनाव् इत्य् उक्तम् । नात्र कस्यचिद् अपि हानं युज्यते तुल्यप्रमाणशिष्टत्वात् । एवं च समानन्यायत्वात् स्मृत्योर् अपि विरोधे एतद् एव विज्ञेयम् इति प्रकृतोपयोगः ॥ २.१४ ॥

उदिते ऽनुदिते चैव समयाध्युषिते तथा ।

सर्वथा वर्तते यज्ञ इतीयं वैदिकी श्रुतिः ॥ २.१५ ॥

अत्रोदाहरणम् आह – उदित इति । उदिते होतव्यम् अनुदिते होतव्यं समयाध्युषिते रात्रिविवासकाले होतव्यम् इति इतरेतरविरुद्धहोमकालश्रवणे ऽपि **सर्वथा **सर्वं प्राप्नोति । अन्यस्मिन्न् अपि काले होमे कृते सम्पद्यते होमः । न हि कालाभ्याङ्गानुरोधेन होमाख्यं प्रधानम् आवर्तयितुं युक्तम् इत्य् एवम् उदिते होतव्यम् इत्य् एवमादिकं वैदिकं वाक्यम् इति ॥ २.१५ ॥

निषेकादिः श्मशानन्तो मन्त्रैर् यस्योदितो विधिः ।

तस्य शास्त्रे ऽधिकारो ऽस्मिन् ज्ञेयो नान्यस्य कस्यचित् ॥ २.१६ ॥

**निषेकादीति **। गर्भाधानाद्यन्त्येष्टिपर्यन्तो यस्य **मन्त्रैर् **युक्तो ऽनुष्ठानकल्पः उक्तः स च द्विजातेर् उक्तः । अतस् **तस्य अस्मिन् स्मृतिशास्त्रे अध्ययनश्रवण्आधिकारो **बोद्धव्यः न तु शूद्रादेः अर्थानुष्ठानं पुनः प्रतिलोमपर्यन्तान् प्रत्य् अपि चोदितत्वान् नानेन निषेध्यते । प्रवचनं त्व् अत्र ब्राह्मणस्येत्य् उक्तम् । विदिषेत्य् अत्र धर्मप्रमाणानि परिभाषाश् चोक्ताः ॥ २.१६ ॥

सरस्वतीदृषद्वत्योर् देवनद्योर् यद् अन्तरम् ।

तं देवनिर्मितं देशं ब्रह्मावर्तं प्रचक्षते ॥ २.१७ ॥

अधुना सदाचारनिरूपणार्थं धर्मानुष्ठानयोग्यस्थानकथनार्थं च देशान् आह – सरस्वतीदृषद्वत्योर् इति । सरस्वतीदृषद्वत्य्आख्यनदीमध्यं ब्रह्माव्र्ताख्यं देशम् आहुः । देवनदीदेवनिर्मितशब्दौ देशस्तुत्यर्थौ ॥ २.१७ ॥

तस्मिन् देशे य आचारः पारम्पर्यक्रमागतः ।

वर्णानां सान्तरालानाञ्च स सदाचारः उच्यते ॥ २.१८ ॥

तस्मिन्न् इति । तस्मिन् देशे प्रायेण सदाचारस्य सम्भवात् यो ब्राह्मणादीनाम् अन्तरप्रभावानां **पारम्पर्यक्रमागतः **प्रबन्धतो ऽविच्छेदेनागतः न साम्प्रतीको य आचारः स सदाचार उच्यते ॥ २.१८ ॥

कुरुक्षेत्रं च मत्स्याश् च पञ्चालाः शूरसेनकाः ।

एष ब्रह्मर्षिदेशो वै ब्रह्मावर्ताद् अनन्तरः ॥ २.१९ ॥

कुरुक्षेत्रम् इति । मत्स्यादिः विराटदेशाः **पाञ्चालाः **कान्यकुब्जा आहिच्छत्रः **शूरसेनकाः **माधुराः एष ब्रह्मर्षिदेशाख्यो देशः **ब्रह्मावर्ताद् **ईषन्न्यूनः ॥ २.१९ ॥

एतद्देशप्रसूतस्य सकाशाद् अग्रजन्मनः ।

स्वं स्वं चरित्रं शिक्षेरन् पृथिव्यां सर्वमानवाः ॥ २.२० ॥

एतद्देशप्रसूतस्येति । कुरुक्षेत्रादिदेशजातस्य **ब्राह्मणस्य सकाशात् स्वं स्वम् **आचारं **पृथिव्यां **सर्वे मनुष्याः **शिक्षेरन् **॥ २.२० ॥

हिमवद्विन्ध्ययोर् मध्यं यत् प्राग् विनशनाद् अपि ।

प्रत्यग् एव प्रयागाच् च मध्यदेशः प्रकीर्तितः ॥ २.२१ ॥

हिमवद्विन्ध्ययोर् इति । हिमवद्विन्ध्याख्योत्तरदक्षिणदिगवस्थितपर्वतयोर् **मध्यं विनशनाच् च **सरस्वत्यन्तर्धानदेशात् प्रत्यग्दिग्वर्तिनः प्राक् पूर्वदिङ्मार्गे । **प्रयागाच् च **गङ्गायमुनासङ्गमात् प्रत्यक् पश्चिमदिङ्मार्गे स मध्यदेशाख्यो देशः ॥ २.२१ ॥

आ समुद्रात् तु वै पूर्वाद् आ समुद्राच् च पश्चिमात् ।

तयोर् एवान्तरं गिर्योर् आर्यावर्तं विदुर् बुधाः ॥ २.२२ ॥

आ समुद्राद् इति । **पूर्वपश्चिमसमुद्रयोः **पुनर् अर्वाग्वर्ति यन् मध्यं **तयोश् च **हिमवद्विन्ध्ययोश् चोत्तरदक्षिणादिगवलम्बिनोः पर्वतयोः यन् मध्यं आर्यावर्ताख्यं देशं विद्वांसो मन्यन्ते ॥ २.२२ ॥

कृष्णसारस् तु चरति मृगो यत्र स्वभावतः ।

स ज्ञेयो यज्ञियो देशो म्लेच्छदेशस् त्व् अतः परः ॥ २.२३ ॥

कृष्णसार इति । कृष्णः शवलो मृगो यस्मिन् देशे **स्वभावतो **निवसति स्वच्छन्दं विहरति, न हठाद् आनीतः, **स **यागार्हो **देशो विज्ञेयः **अतो ऽन्यो अनधिकृतान्ध्रादिम्लेच्छदेशो न यागार्हर्ः । अध्ययन एतद् एव ॥ २.३ ॥

एतान् द्विजातयो देशान् संश्रयेरन् प्रयत्नतः ।

शूद्रस् तु यस्मिंस् तस्मिन् वा निवसेद् वृत्तिकर्शितः ॥ २.२४ ॥

अतः एतान् इति । साध्वाचारयागार्हत्वसम्भवात् अदृष्टार्थत्वाच् च्**ऐतान् **एव **देशान् **देशान्तरोद्भूता अपि **द्विजातयो **यत्नतः आश्रयेरन् । **शुद्रः **पुनः यदा जीविकाभावपीडितो भवति तदैतद्व्यतिरिक्तदेशे ऽपि **निवसेत् **॥ २.२४ ॥

एषा धर्मस्य वो योनिः समासेन प्रकीर्तिता ।

सम्भवश् चास्य सर्वस्य वर्णधर्मान् निबोधत ॥ २.२५ ॥

**एषा धर्मस्य योनिः **कारणम् । यो विद्वद्भिःसेवितः तस्य आफलदानावस्थायिनः, कारणम् इति सङ्क्षेपतो युष्माकम् उक्ता । इह धर्मशब्दः अपूर्वाख्यात्मसंस्कारे वर्तते । “विद्वद्भिः सेवितः” इत्य् अत्र तु तत्कारणेषु कदाचित् इत्य् उभयत्रापि चायं दृष्टप्रोयोगः । सम्भवश् चोत्त्पत्तिर् जगतः उक्ता ।साम्प्रतं वर्णैः ब्राह्मणादिभिर् ये अनुष्ठेया धर्माः वर्णधर्माः आश्रमधर्माः वर्णाश्रमधर्माः नैमित्तिकाख्याः पञ्चप्रकाराः तान् शृणुत । वर्णधर्मा यथा ब्राह्मणस्य मद्यपाननिषेधः, आश्रमधर्मो यथा ब्रह्मचारिणो भैक्षचरणं ब्राह्मणो (ब्राह्मणस्य) बैल्वदण्डधारणम् । वर्णाश्रमधर्मो यथा पालाशदण्डो ब्राह्मणस्येति । गुणधर्मो यथा अभिषेकादिगुणयुक्तस्य राज्ञः प्रजापालनम् । नैमित्तिका यथा प्रायश्चित्तम् इति ॥ २.२५ ॥

वैदिकैः कर्मभिः पुण्यैर् निषेकादिर् द्विजन्मनाम् ।

कार्यः शरीरसंस्कारः पावनः प्रेत्य चेह च ॥ २.२६ ॥

**वैदिकैर् **इति । वैदिकमन्त्रसाध्यत्वात् वेदमूलसाध्यत्वाच् च **वैदिकैः **स्मार्तैः कर्मभिः “विष्णुर् योनिं कल्पयतु” इत्येवमादिमन्त्रप्रयोगादिबिः **पुण्यैः **पारम्पर्येण धर्महेतुभिः गर्भाधानादिः द्विजातीनां **शरीरसंस्कारः **कर्तव्यः । **पावनः **पवित्रीकारकः **प्रेत्य **परलोके संस्कृतस्य यागादिकर्मफलसम्बन्धात् । **इह **लोके च संस्कृतस्याध्ययनाद्यधिकारात् । निषेकगुणात् (-ग्रहणात्) पितुर् अधिकारः । निषेकवर्जिते तु कदाचित् तत्स्थानापन्नस्य तत्प्रयुक्तस्य वा अन्यस्यापि (न) स्यात् ॥ २.२६ ॥

गार्भैर् होमैर् जातकर्मचौडमौञ्जीनिबन्धनैः ।

बैजिकं गार्भिकं चैनो द्विजानाम् अपमृज्यते ॥ २.२७ ॥

कुतः पुनर् एषाम् अशुचित्वम्, येन पावनं क्रियते इत्य् अत् आह – **गार्भैर् **इति । गर्भनिमित्तं ये क्रियन्ते ते गार्भाः, होमग्रहणं यथासम्भवं गार्भे विशेषणम्, गर्भाधानादेर् अहोमात्मकत्वात्, सीमन्तोन्नयनादेश् च सहोमकत्वात् । जातस्य यत् क्रियते तत् जातकर्म । एते सर्वे गृह्याभिधेयस्वरूपाः इहैव तेषां सामान्यमात्राभिधानात् सामान्यस्मृतित्वाद् अस्य । **चौलं **चूडाकर्म **मौञ्जीनिबन्धनम् **उपनयनम् । एतैः बैजिकं प्रतिषिद्दमैथुनसङ्कल्पात् पितृरेतसो द्ष्टत्वं, गार्भिकं गर्भवासनिवासित्वाद् दुष्टत्वं द्विजानाम् अपनुद्यते ॥ २.२७ ॥

येषु कर्मसु माणवकस्य संस्कारा उपकारकास् तान् इदानीम् उदाहरणमात्रेण दर्शयति ।

स्वाध्यायेन व्रतैर् होमैस् त्रैविद्येनेज्यया सुतैः ।

महायज्ञैश् च यज्ञैश् च ब्राह्मीयं क्रियते तनुः ॥ २.२८ ॥

स्वाध्यायेनेति । वेदाध्ययनेन व्रतैः सावित्र्यादिभिः **मोमैः **सायम्प्रातरग्निकार्यैः त्रैविद्य्आख्येन व्रतेन, प्राधान्यात् पृथगुपदिष्टेन । **इज्यया **ब्रह्मचर्यावस्थायां देवर्षिपितृतर्पणरूपया, पुत्रैः, महायज्ञैः वैश्वदेवादिभिः यज्ञैः अग्निष्टोमादिभिः ब्रह्मप्राप्तियोग्या तनुः तत्स्थ आत्मा क्रियते जानकर्मसमुच्चयान् मोक्षावाप्तेः ॥ २.२८ ॥

प्राङ्नाभिवर्धनात् पुंसो जातकर्म विधीयते ।

मन्त्रवत् प्राशनं चास्य हिरण्यमधुसर्पिषाम् ॥ २.२९ ॥

**प्राङ्नाभीति **। नाभिछेदनात् पूर्वं पुंसो जातकर्म्आख्यः संस्कारो विधीयते । अस्य च शिशोः तदानीम् “प्रतिददामि (प्र ते ददामि) मधुनो घृतस्य” इत्य् एवमादिमन्त्रयुक्तं हिरण्यमाक्षिकघृतानां **प्राशनं **कार्यम् । पुंसो ग्रहणं नपुंसकव्यावृत्त्यर्थम् । यद्य् अर्थिता तु दारैः स्यात् क्लीबादीनाम् इति नपुंसकस्य दारदर्शनात् । ये स्तेनाः पतिताः क्लीबा इति च श्रोत्रियत्वे सति श्राद्धभोजनप्राप्तेः प्रतिषेधदर्शनात् । स्त्र्यर्थत्वे तस्य प्रमाणं नास्ति । तथा च “अमन्तर्कासु” इति स्त्रीणाम् अप्राप्तिं वक्ष्यति ॥ २.२९ ॥

नामधेयं दशम्यां तु द्वादश्यां वास्य कारयेत् ।

पुण्ये तिथौ मुहूर्ते वा नक्षत्रे वा गुणान्विते ॥ २.३० ॥

नामधेयम् इति । जातकर्मेति प्रतुतत्वात् जन्मप्रभृति दशमे ऽहनि द्वादशे वा प्रशस्ते वान्यस्मिन् नवम्यादिरिक्ताहोवर्जिते मुहूर्ते ऽभिजिदादौ लग्ने पुण्यनक्षत्रे च ज्योतिःशास्त्रगुणयुक्ते **अस्य **शिशोर् नाम कारयेत् असामर्थ्ये सति । शक्तौ तु आत्मनैव कुर्यात्, “पिता नाम करोति” इति गृह्यश्रवणात् । पूर्वकालासम्भवे उत्तरोत्तरकालाश्रयणं कर्तव्यम् इति, क्रमप्रयोजनाभावात्, एवम् उत्तरत्रापि कालविकल्पेषु विज्ञेयम् ॥ २.३० ॥

इदानीं यादृशं नाम कर्तव्यं तन् नियमयति स्वरूपतो ऽर्थतश् च ।

मङ्गल्यं ब्राह्मणस्य स्यात् क्षत्रियस्य बलान्वितम् ।

वैश्यस्य धनसंयुक्तं शूद्रस्य तु जुगुप्सितम् ॥ २.३१ ॥

तच् च माङ्गल्यं ब्राह्मणस्येति । मङ्गलबलधननिन्दाप्रतिपादकानि एषां यथाक्रमं भद्रशक्तिधनदीनकादीनि नामानि स्युः ॥ २.३१ ॥

शर्मवद् ब्राह्मणस्य स्याद् राज्ञो रक्षासमन्वितम् ।

वैश्यस्य पुष्टिसंयुक्तं शूद्रस्य प्रेष्यसंयुतम् ॥ २.३२ ॥

उपपदनियमार्थम् आह – शर्मवद् ब्राह्मणस्येति । शर्मरक्षापुष्टिप्रेष्यवाचकान्य् एषां यथाक्रमं शर्मपालपुष्टिदासान्य् उपपदानि स्युः । उदाहरणानि भद्रशर्मा शक्तिपालो धनपुष्टो दीनदास इति ॥ २.३२ ॥

स्त्रीणां सुखोद्यमक्रूरं विस्पष्टार्थं मनोहरम् ।

मङ्गल्यं दीर्घवर्णान्तम् आशीर्वादाभिधानवत् ॥ २.३३ ॥

स्त्रीणाम् इति । सुसुखोच्चारणम् अक्रूरार्थवाचि विस्पष्टार्थं मनःप्रीतिकरं मङ्गलवाचि दीर्घाक्षरान्तम् आशीर्वाचकेनाभिधानेन शब्देन संसक्तं नाम् स्त्रीणां कार्यम् । यथा अमरदेवी इति ॥ २.३३ ॥

चतुर्थे मासि कर्तव्यं शिशोर् निष्क्रमणं गृहात् ।

षष्ठे ऽन्नप्राशनं मासि यद् वेष्टं मङ्गलं कुले ॥ २.३४ ॥

चतुर्थ इति । **चतुर्थे मासि **बालस्य गृहान् निष्क्रमणं कर्तव्यम् । षष्ठे चान्नप्राशनम् । यथाकुलधर्मत्वेन मङ्गलम् इष्टम्, यया नाम्या स्वाम्याद्युपपदपरिग्रहः तथा कर्तव्यं पूर्वोक्तं च ॥ २.३४ ॥

चूडाकर्म द्विजातीनां सर्वेषाम् एव धर्मतः ।

प्रथमे ऽब्दे तृतीये वा कर्तव्यं श्रुतिनोदनात् ॥ २.३५ ॥

चूडाकर्मेति । **द्विजातीनां प्रथमे **वर्षे **तृतीये वा **चूडाकरणम् । धर्मतो धर्मेणादृष्टार्थं कार्यम्, “ॐ यत्र बाणाः सम्पतन्ति कुमारा विशिखा इव” इति श्रुतिलिङ्गात् । अनेनैतद् दर्शयति – यद् एवं प्रायाः वेदलिङ्गमूलाः स्मृतय इति ॥ २.३५ ॥

गर्भाष्टमे ऽब्दे कुर्वीत ब्राह्मणस्योपनायनम् ।

गर्भाद् एकादशे राज्ञो गर्भात् तु द्वादशे विशः ॥ २.३६ ॥

गर्भाष्टम इति । गर्भग्रहणसंवत्सरद् अष्टमे संवत्सरे ब्राह्मणस्य, उपनयनम् एव्ओपनायनं मौञ्जीबन्धनं कर्तव्यम् । एवं गर्भैकादशे क्षत्रियस्य गर्भद्वादशे वैश्यस्य ॥ २.३६ ॥

ब्रह्मवर्चसकामस्य कार्यं विप्रस्य पञ्चमे ।

राज्ञो बलार्थिनः षष्ठे वैश्यस्येहार्थिनो ऽष्टमे ॥ २.३७ ॥

ब्रह्मवर्चसकामस्येति । अध्ययनविज्ञानाद्यतिशयकृतं तेजो **ब्रह्मवर्चसं बालस्य विशेषविज्ञानाभावात् तद् युक्तः पुत्रो मे भवेद् इत्य् एवंविधपितृकामना फलास्पदत्वात् पुत्रो ऽप्य् उपदिश्यते ब्रह्मवर्चसकाम इति । तस्य ब्राह्मणस्य **गर्भपञ्चमे ऽब्दे उपनयनं कार्यम् । एवं क्षत्रियस्य हस्त्यश्वबाहुवीर्यादि ब्राह्माभ्यन्तरबलार्थिनो गर्भषष्ठे, वैश्यस्य बहुकृष्यादिचेष्टार्थिनो गर्भाष्टमे, गर्भसंवत्सराणाम् एव प्रकृतत्वात् ॥ २.३७ ॥

आ षोडशाद् ब्राह्मणस्य सावित्री नातिवर्तते ।

आ द्वाविंशात् क्षत्रियबन्धोर् आ चतुर्विंशतेर् विशः ॥ २.३८ ॥

अनुकल्पम् आह – आ षोडशाद् इति । “छन्दः पादाक्षरवद् अब्दसमवाये उपनयनम्” इति हारीतस्मरणात् । आङो ऽभिविध्यर्थत्वेन षडशवर्षं यावत् ब्राह्मणस्य सावित्र्य्अनुवचनसाधनम् उपनयनं नातिक्रान्तकालं भवति । द्वाविंशं यावत् क्षत्रियजातीयस्य । **चतुर्विंशं **यावत् वैश्यस्य । उपनयनं च पुरुषस्य संस्कारः कार्यः शरीरसंस्कार इति आम्नानात् न तु तदनन्तरं वेदाध्ययनदर्शनात् ब्रह्मसंस्कारस्य (त्व) भ्रान्तिः कार्याः । तत्रानुमानिकत्वात् ॥ २.३८ ॥

अत ऊर्ध्वं त्रयो ऽप्य् एते यथाकालम् असंस्कृताः ।

सावित्रीपतिता व्रात्या भवन्त्य् आर्यविगर्हिताः ॥ २.३९ ॥

अत ऊर्ध्वम् इति । एते यथाकालं यो यस्योपनयनकालः तत्रोपकल्पिते ऽपि **असंस्क्र्ताः सन्तः अस्मात् कालात् ऊर्वं सावित्रीपतिताः उपनयनभ्रष्टाः शिष्टविगर्हिताः **सन्तो व्रात्यसञ्ज्ञा भवन्ति । सञ्ज्ञाविधानं “व्रात्यानां याजनं कृत्वा” इत्य् एवमादिव्यवहारार्थम् ॥ २.३९ ॥

नैतैर् अपूतैर् विधिवद् आपद्य् अपि हि कर्हिचित् ।

ब्राह्मान् यौनांश् च सम्बन्धान् नाचरेद् ब्राह्मणैः सह ॥ २.४० ॥

यावद् विधिवत् यथाशास्त्रं एते अपूताः कृतप्रायश्चित्ता न भवन्ति तावद् **एतैः सहापद्य् अपि **कदाचित् अध्ययनकन्यादानादीन् **सम्बन्धान् **ब्रह्मणो **नाचरेत् **॥ २.४० ॥

कार्ष्णरौरवबास्तानि चर्माणि ब्रह्मचारिणः ।

वसीरन्न् आनुपूर्व्येण शाणक्षौमाविकानि च ॥ २.४१ ॥

**कार्ष्णरौरवबास्तानीति **। कार्ष्ण इति सामान्याभिधाने ऽपि रुर्वाख्यमृगसम्बन्धात् कृष्णमृगरुरुछागचर्माणि ब्रह्मचारिणः उत्तरीयाणि **वसीरन् **। “चर्माणि उत्तरीयानि” इति गृह्यवचनाच् च । शाणक्षुमोर्णामयानि अर्थात् परिधानीयानि वासांशि वसीरन् । आनुपूर्व्यग्रहणं क्रमार्थम् । “शाणं क्षौमं चाब्राह्मणस्य” इति गृह्यदर्शनात् एतयोर् ब्राह्मणगतत्वाभ्रान्त्या विषमसङ्ख्यत्वे सति यथाक्रमसम्बन्धात् ॥ २.४१ ॥

मौञ्जी त्रिवृत् समा श्लक्ष्णा कार्या विप्रस्य मेखला ।

क्षत्रियस्य तु मौर्वी ज्या वैश्यस्य शणतान्तवी ॥ २.४२ ॥

मौञ्जीति । मुञ्जाख्या कक्षम्यी त्रिगुणा समगुणा अपरुषा ब्राह्मणस्य **मेखला **कार्या । **क्षत्रियस्य **तु मूर्वामयी ज्या धनुर्गुणः मेखला कार्या । अत्र च ज्यात्वविनाशापत्तेः त्रिवृत्वं नास्ति पूर्वासां (पूर्वेषां) गान्धिषु (ग्रन्थेषु) तथा प्रसिद्धेः । वैश्यस्य शाणसूत्रमयी । अत्र च त्रैगुण्यम् अनुवर्तते गुणानाम् अपेक्षणात्, गृह्यस्मृतौ च गुणाम्नानात् ॥ २.४२ ॥

मुञ्जालाभे तु कर्तव्याः कुशाश्मन्तकबल्वजैः ।

त्रिवृत्ता ग्रन्थिनैकेन त्रिभिः पञ्चभिर् एव वा ॥ २.४३ ॥

मुञ्जालाभ इति । त्रयाणां ब्रह्मचारिणां प्रकृतत्वाद् अभावस्य तुल्यत्वात् कौशादीनां बह्वीनाम् उपादानं **मुञ्जालाभे **मुञ्जाद्यलाभ इति व्याचक्षते । मुञ्जाद्यभावे कुशादिभिः यथाक्रमं ब्राह्मणादिभिः कर्तव्याः कुशादयस् तृणविशेषाः । एताश् च त्रिगुणेन ग्रन्थिनैकेन त्रिभिर् वा पञ्चभिर् वा कार्याः । वाशब्दात् ग्रन्थीनां विप्रादिभिः क्रमसम्बन्धाभावः, ग्रन्थिभेदश् चायं मुख्यास्व् अपि भवति, “वित्तस्य समो ऽसि दैव्यो ग्रन्थिर् असि मा विश्रंस” इति ग्रन्थिं कृत्वा इति लौगाक्षिणा मुख्यासु ग्रन्थ्याम्नानात् । ग्रन्थिसङ्ख्याभेदं च त्रैविद्यविदः स्मरन्ति ॥ २.४३ ॥

कार्पासम् उपवीतं स्याद् विप्रस्योर्ध्ववृतं त्रिवृत् ।

शणसूत्रमयं राज्ञो वैशस्याविकसौत्रिकम् ॥ २.४४ ॥

कार्पासम् इति । भाविन्य् उपवीतसञ्ज्ञा यस्य विशिष्टन्यासस्य तद् विप्रादीनां कार्पासशणोर्णामयं यथाक्रमं कार्यम् । **त्रिवृत् **त्रिगुणं सत् **ऊर्ध्ववृतं **दक्षिणावर्तचलितम् ॥ २.४४ ॥

ब्राह्मणो बैल्वपालाशौ क्षत्रियो वाटखादिरौ ।

पैलवौदुम्बरौ वैश्यो दण्डान् अर्हन्ति धर्मतः ॥ २.४५ ॥

ब्राह्मण इति । ब्राह्मणस्य बैल्वः “पालाशो वा दण्डः” इत्यादि वसिष्ठस्मरणात्, “प्रतिगृह्येप्सितं दण्डम्” इति चेहैव दर्शनात्, विकल्पेन द्वौ द्वौ दण्डौ बैल्वपालाशवटखदिरपीलूदुम्बराख्यवृक्षाणां ब्राह्मणादयो ऽर्हन्ति ॥ २.४५ ॥

केशान्तिको ब्राह्मणस्य दण्डः कार्यः प्रमाणतः ।

ललाटसम्मितो राज्ञः स्यात् तु नासान्तिको विशः ॥ २.४६ ॥

केशान्तक इति । केशललाटनासिकासमीपप्रमाणा यथाक्रमं ब्राह्मणादीनां दण्डाः कार्याः ॥ २.४६ ॥

ऋजवस् ते तु सर्वे स्युर् अव्रणाः सौम्यदर्शनाः ।

अनुद्वेगकरा नॄणां सत्वचो ऽनग्निदूषिता ॥ २.४७ ॥

ऋजव इति । ते दण्डाः मृष्टनिच्छ्रिद्राः भीषणीयाकाररहिताः **सत्वचः **अग्निदोषशून्याः स्युः । न च तैः किञ्चिद् भूतजातम् उद्वेजनीयम् ॥ २.४७ ॥

प्रतिगृह्येप्सितं दण्डम् उपस्थाय च भास्करम् ।

प्रदक्षिणं परीत्याग्निं चरेद् भैक्षं यथाविधि ॥ २.४८ ॥

प्रतिगृह्येति । आप्तुम् इष्टं संस्कृतं दण्डं गृहीत्वा आदित्यं चाभिध्याय अग्निं प्रदक्षिणीकृत्य भक्षं यथाशस्त्रं **चरेत् **॥ २.४८ ॥

भवत्पूर्वं चरेद् भैक्षम् उपनीतो द्विजोत्तमः ।

भवन्मध्यं तु राजन्यो वैश्यस् तु भवदुत्तरम् ॥ २.४९ ॥

कथम् इत्य् आह – भवत्पूर्वम् इति । “भवति देहि” इत्य् एवं भवच्छब्दपूर्वं भिक्षाप्रार्थनावाक्यं ब्राह्मण उच्चारयेत् । एवं “भिक्षां भवति देहि” इति भवन्मध्यं क्षत्रियः, “भिक्षां देहि भवति” इति भवदुत्तरं वैश्यः ॥ २.४९ ॥

मातरं वा स्वसारं वा मातुर् वा भगिनीं निजाम् ।

भिक्षेत भिक्षां प्रथमं या चैनं नावमानयेत् ॥ २.५० ॥

मातरम् इति । मातुर् भगिनी मातृष्वसा प्रथमम् उपनयनाङ्गभूतं भैक्षम् एतां याचेत् नान्यां या च प्रत्याख्यानेन ब्रह्मचारिणं नावमानयेत् । **निजा **सोदरा ॥ २.५० ॥

समाहृत्य तु तद् भैक्षं यावदर्थम् अमायया ।

निवेद्य गुरवे ऽश्नीयाद् आचम्य प्राङ्मुखः शुचिः ॥ २.५१ ॥

समाहृत्येतितद् भैक्षं यावदर्थं तृप्तिपरिमाणम्, अमायया कदन्नपरिहारेण बहुभ्य आहृत्य गुरवे निवेद्य तेनानुगृहीतं सदाचम्य शुचिः सन् प्राङ्मुखो ऽश्नीयाद् इति दिङ्नियमः । आचम्य उपस्पृश्य द्विजो नित्यम् इति वक्ष्यमाणविध्यनुवादः । तत्र “खानि च” इत्यादिना अस्य सविशेषस्य चोदिष्यमाणत्वात् ॥ २.५१ ॥

आयुष्यं प्राङ्मुखो भुङ्क्ते यशस्यं दक्षिणामुखः ।

श्रियं प्रत्यङ्मुखो भुङ्क्ते ऋतं भुङ्क्ते ह्य् उदङ्मुखः ॥ २.५२ ॥

काम्यम् इदानीम् आह – आयुष्यम् इति । आयुषे हितम् अन्नं प्राङ्मुखो भ्य्ङ्क्ते इति लिङर्थो ऽयं द्रष्टव्यः, अन्यथा आनर्थ्यक्यात् । एवं च्आयुष्यकामः प्राङ्मुखो भुङ्क्ते [इति] उक्तं भवति । एवं यशसे हितं दक्षिणामुखः, श्रियम् इच्छन् प्रत्यङ्मुखःऋतं सत्यं तत्फलहेतुत्वात् अन्नम् अमृतं उदङ्मुखो भुङ्क्ते ॥ २.५२ ॥

उपस्पृश्य द्विजो नित्यम् अन्नम् अद्यात् समाहितः ।

भुक्त्वा चोपस्पृशेत् सम्यग् अद्भिः खानि च संस्पृशेत् ॥ २.५३ ॥

उपस्पृश्येति । सर्वदा ब्रह्मचर्याद् ऊर्ध्वम् अपि द्विजः आचम्य अन्नं समाहितो अनन्यमना भुञ्जीत । भुक्त्वा च यथाशास्त्रम् उपस्पृशेत्अद्भिश् च खानि इन्द्रियछिद्राणि “खानि चोपस्पृशेच् छीर्ष्ण्यानि” इति गौतमस्मरणात् शिरस्थानि स्पृशेत् । **उपस्पृशेद् **इत्य् उक्त्वा खानि च संस्पृशेद् इति यत् पृथग् आह अतो ऽवसीयते यद् उपस्पर्शनाचमनशब्दाभ्यां त्रिर् अभ्युक्षणमात्रं प्रधानम् उच्यते खस्पर्शनादिका तु इतिकर्तव्यतयेति । तथा च आचमनम् इति भक्षणार्थेनैव धातुसमाख्यानात् ॥ २.५३ ॥

पूजयेद् अशनं नित्यं अद्याच् चैतद् अकुत्स्यन् ।

दृष्ट्वा हृष्येत् प्रसीदेच् च प्रतिनन्देच् च सर्वशः ॥ २.५४ ॥

पूजयेद् इति । सर्वदा अन्नं पूजयेद् देवतात्वेन प्राणार्थत्वेन च ध्यायेत् अनिन्दयंश् चैतद् अन्नम् अद्यात् । **दृष्ट्वा **च तुष्येत् **प्रसीदेच् च **। हेत्वन्तरजम् अपि खेदं जह्यात् । प्रतिनन्देत् श्रद्दध्यात् नित्यम् एतन् मे स्याद् इत्य् एवं सर्वशः सर्वशः सर्वपर्कारम् ॥ २.५४ ॥

पूजितं ह्य् अशनं नित्यं बलम् ऊर्जं च यच्छति ।

अपूजितं तु तद् भुक्तम् उभयं नाशयेद् इदम् ॥ २.५५ ॥

पूजितम् इति । यामात् **पूजितम् **अन्नं सामर्थ्यं वीर्यं च ददाति, **अपूजितं च तद् भुक्तं उभयं **नाशयति तस्मात् पूजितम् अद्याद् इति प्रकृतस्तुतिः फलार्थत्वे (न नि) नित्यतापत्तेः

॥ २.५५ ॥

नोच्छिष्टं कस्यचिद् दद्यान् नाद्याद् एतत् तथान्तरा ।

न चैवात्यशनं कुर्यान् न चोच्छिष्टः क्वचिद् व्रजेत् ॥ २.५६ ॥

नोच्छिष्टम् इति । उच्छिष्टं कस्यचिद् अपि न दद्यात् । तथा अन्तरा सायम्प्रातः कलयोर् मध्ये नाद्यात् सायं प्रातर् भोजनस्यौचित्यप्राप्तत्वात् अन्तराशब्दस्य वा मध्यवाचित्वाद् एवं लभ्यते । अतिमात्रभोजनं **न कुर्यात् । उच्छिष्टश् च न क्वचिद् **गच्छएत् ॥ २.५६ ॥

अनारोग्यम् अनायुष्यम् अस्वर्ग्यं चातिभोजनम् ।

अपुण्यं लोकविद्विष्टं तस्मात् तत् परिवर्जयेत् ॥ २.५७ ॥

अनारोग्यम् इति । यस्माद् रोगहेतुत्वात् अनारोग्यकृद् इति च प्राणहरं विष्ठादिकाद्युत्पादाद् अप्य् नायुष्यं च, अस्वर्ग्यं च [अ]दृष्टार्थजनकत्वेनापि शास्त्रनोदनासामर्थ्यात् अतिक्रमेण कर्मान्तरार्जितस्वर्गोपभोगप्रतिबन्धत्वात् । अपुण्यं च तद्धेतुत्वात्, लोकविद्विष्टं च बहुभोजिनम् अवलोक्य गर्हणं तत् परिवर्जयेद् इति सम्भूतदोषकथनेन प्रकृति[त]निन्दार्थवादो विद्वेषणर्थः ॥ २.५७ ॥

ब्राह्मेण विप्रस् तीर्थेन नित्यकालम् उपस्पृशेत् ।

कायत्रैदशिकाभ्यां वा न पित्र्येण कदाचन ॥ २.५८ ॥

ब्राह्मणेतिब्राह्मेण तीर्थेन प्राजापत्यदैवाभ्यां **वा विप्रो **यावज्जीतम् उपस्पृशेत् । पित्र्येण पुनः कदाचिद् इति नित्यानुवादः इतरस्तुत्यर्थः । अविधानाद् एव पित्र्यस्याप्रप्तेः विप्रग्रहणं क्षत्रियादिप्रदर्शनार्थम्, “उपस्पृश्य द्विजो नित्यम्” इति एतयोर् अपि प्रकृतत्वात्

॥ २.५८ ॥

अङ्गुष्ठमूलस्य जते ब्राह्मं तीर्थं प्रचक्षते ।

कायम् अङ्गुलिमूले ऽग्रे दैवं पित्र्यं तयोर् अधः ॥ २.५९ ॥

अर्थसिद्धत्वाल् लक्षणम् आह – **अङ्गुष्ठमूलस्येति **। “ब्राह्मणस्य दक्षिणहस्ते पञ्चतीर्थानि भवन्ति” इति प्रचेतसः स्मरणात् । दक्षिणहस्ताङ्गुष्ठमूलस्याधोभागे **ब्राह्मं तीर्थं प्रचक्षते । कायम् अङ्गुलीनां मूले । अग्रे दैवम्, **अङ्गुलीनाम् एवाग्रशब्दस्य साकाङ्क्षत्वात् । **पित्र्यं तयोर् अधः । **अधस्तयोर् इत्य् अस्यापि साकाङ्क्षत्वात् प्रकृतेनाङ्गुष्ठाङ्गुलिना सम्बन्धः

॥ २.५९ ॥

त्रिर् आचामेद् अपः पूर्वं द्विः प्रमृज्यात् ततो मुखम् ।

खानि चैव स्पृशेद् अद्भिर् आत्मानं शिर एव च ॥ २.६० ॥

आचमनस्यालौकिकत्वात् स्वरूपम् आह त्रिर् इति । प्रथमं त्रीन् वारान् अपः तीर्थेनाचामेत् । ततः आस्यं द्वौ वारौ अपि शोधयेत् । तद् अनु च खानि इन्द्रियच्छिद्राणि **अद्भिः स्पृशेत् **। ततः आत्मस्थानं हृदयम्, अथो शिर इति ॥ २.६० ॥

अनुष्णाभिर् अफेनाभिर् अद्भिस् तीर्थेन धर्मवित् ।

शौचेप्सुः सर्वदाचामेद् एकान्ते प्राग् उदङ्मुखः ॥ २.६१ ॥

अनुष्णाभिर् इति । “अशृताभिः” इति शङ्खस्मरणात् अग्निसम्पर्करहिताभिः, फेनशून्याभिः अद्भिः उक्तेन **तीर्थेन **विद्वान् शुद्धिकामः **एकान्ते **शुचौ देशे **प्राङ्मुखः उदङ्मुखो **वा **आचामेत् **॥ २.६१ ॥

हृद्गाभिः पूयते विप्रः कण्ठगाभिस् तु भूमिपः ।

वैश्यो ऽद्भिः प्राशिताभिस् तु शूद्रः स्पृष्टाभिर् अन्ततः ॥ २.६२ ॥

किम्प्रमाणा आपः आचामेद् इत्य् आह हृद्गाभिर् इति । हृदयप्राप्ताभिर् अद्भिर् **विप्रः **शुध्यति । कण्ठप्राप्ताभिः **क्षत्रियः, वैश्यः प्राशिताभिः **तालुगताभिः, “हृत्कण्ठतालुगाभिः” इति याज्ञवल्क्यस्मरणात् । शुद्रो ऽन्ततः, आचमनस्य प्रकृतत्वात् जिह्वौष्ठास्यान्ते स्पृष्टाभिः

॥ २.६२ ॥

उद्धृते दक्षिणे पाणाव् उपवीत्य् उच्यते द्विजः ।

सव्ये प्राचीन आवीती निवीती कण्ठसज्जने ॥ २.६३ ॥

उपवीत्यादीनाम् अप्रसिद्धत्वात् लक्षणम् आह आचमनावसरे च उपवीतस्याचमनाङ्गत्वार्थम् उद्धृत इति । कार्पासम् उपवीतं स्याद् उक्तलक्षणम् । उपवीते कण्ठसज्जने कण्ठप्रक्षिप्ते सति **निवीती भवति **। एवं स्थिते सति उद्धृते दक्षिणे बाहौ उपवीती भवति । वाम उद्धृते प्राचीनावीतीत्य् एवं लक्षण्द्वयप्रसिद्ध्यर्थम् इह । एवं निवीतलक्षणं मनुष्यकार्यार्थं च “निवीतं मनुष्याणाम्” इति श्रुतेः । प्राचीनावीतीति सञ्ज्ञा । वृत्तानुरोधात् तु प्राचीन आवीतीत्य् उक्तम् । एतच् च पित्र्ये कर्मणि ॥ २.६३ ॥

मेखलाम् अजिनं दण्डम् उपवीतं कमण्डलुम् ।

अप्सु प्रास्य विनष्टानि गृह्णीतान्यानि मन्त्रवत् ॥ २.६४ ॥

मेखलाम् इति । विनष्टानि मेखलादीनि अप्सु प्रक्षिप्य्**आन्यानि **समन्त्रकाणि गृह्णीयात् तानि । तथा च बौधायनेन सर्वेषां मन्त्र आम्नातः मेखलादिभिश् च शास्त्रवद्ग्रहणैः सह प्रतिपत्तिनियमात् “गृह्णीतान्यानि मन्त्रवत्” इति च कमण्डलोर् अप्य् उक्तत्वात् कमण्डलोर् अप्य् उदकार्थं शास्त्रवद्ग्रहणम् इत्य् अवसीयते । पुनर्ग्रहणाच् चोपनयनोत्तरकालम् अप्य् एषाम् अनुवृत्तिर् अनुमीयते नोपनयनगतैव ॥ २.६४ ॥

केशान्तः षोडशे वर्षे ब्राह्मणस्य विधीयते ।

राजन्यबन्धोर् द्वाविंशे वैश्यस्य द्व्यधिके ततः ॥ २.६५ ॥

केशान्त इति । केशान्ताख्यः संस्कारः ब्राह्मणादीनां यथाक्रमं षोडशद्वाविंशचतुर्विंशेषु वर्षेषु विधीयते ॥ २.६५ ॥

अमन्त्रिका तु कार्येयं स्त्रीणाम् आवृद् अशेषतः ।

संस्कारार्थं शरीरस्य यथाकालं यथाक्रमम् ॥ २.६६ ॥

“प्राङ्नाभिवर्धनात् पुंसः” इति पुङ्ग्रहणस्य स्त्र्यर्थत्वे प्रमाणाभावात् स्त्रीणाम् अप्राप्त इत्य् अत आह अमन्त्रिकेति । एषा सकलसंस्कारपद्धतिः कालक्रमानतिक्रमेण **स्त्रीणां संस्कारार्थं **मन्त्रवर्जिता **कार्या **॥ २.६६ ॥

वैवाहिको विधिः स्त्रीणां संस्कारो वैदिकः स्मृतः ।

पतिसेवा गुरौ वासो गृहार्थो ऽग्निपरिक्रिया ॥ २.६७ ॥

एवम् उपनयने ऽप्य् अमन्त्रके प्राप्ते आह वैवाहिक इति । यद् विवाहविधानं तद् एवासां वैदिकसंस्कारः उपनयनस्थाने । पतिसेवा च गुरुशुश्रूषास्थाने, **गृहकृत्यं **चाग्निपरिचरणस्थाने ॥ २.६८ ॥।

एष प्रोक्तो द्विजातीनाम् औपनायनिको विधिः ।

उत्पत्तिव्यञ्जकः पुण्यः कर्मयोगं निबोधत ॥ २.६८ ॥

एष इति । एष द्विजातीनाम् उपनयनभवो विधिर् उक्तः उत्पत्तेर् व्यञ्जकः प्रकाशकः जातस्याप्य् अनुपनीतस्याजा(ज्ञा)तसमत्वात् पुण्यहेतुत्वात् पुण्यः । इदानीम् उपनीतस्योपनयनकर्मणि सम्बन्धः तच् छृणुत ॥ २.६८ ॥

उपनीय गुरुः शिष्यं शिक्षयेच् छौचम् आदितः ।

आचारम् अग्निकार्यं च सन्ध्योपासनम् एव च ॥ २.६९ ॥

उपनीयेति । **गुरुः **शिष्योपनयनं क्र्त्वा **आदौ **प्रथमत एव शौचं शिक्षयेत् । अशुद्धस्य सर्वत्रानधिकारात् । तत् **आचारं **प्रत्युत्थानादि, **अग्निकार्यं च **सायम्प्रातरग्निप्रक्षेपादि सान्ध्यकर्मानुष्ठानं च शिक्षयेत् ॥ २.६९ ॥

अध्येष्यमाणस् त्व् आचान्तो यथाशास्त्रम् उदङ्मुखः ।

ब्रह्माञ्जलिकृतो ऽध्याप्यो लघुवासा जितेन्द्रियः ॥ २.७० ॥

अध्येष्यमाण इति । प्रत्यासन्नाध्ययनः शिष्यः कृतशास्त्रचोदितेतिकर्तव्यतायुक्ताचमनः कृतवक्ष्यमाणब्रह्माञ्जलिः स्थूलवसनः सन् **जितेन्द्रियः उदङ्मुखो ऽध्याप्यः **॥२.७० ॥

ब्रह्मारम्भे ऽवसाने च पादौ ग्राह्यौ गुरोः सदा ।

संहत्य हस्ताव् अध्येयं स हि ब्रह्माञ्जलिः स्मृतः ॥ २.७१ ॥

ब्रह्मारम्भ इति । अन्वाहिकवेदपाठारम्भान्तयोः **सदा **अहर् अहः **गुरोः **पादोपसङ्ग्रणकं कर्तव्यम् । संहतौ च कच्छपके इति प्रसिद्धसन्निवेशेन हस्तौ कृत्वाध्येतव्यम् । यस्मात् स ब्रह्माञ्जलिशब्देनोच्यत इत्य् ऋषिभिः स्मृतः इत्य् अलौकिकत्वात् ब्रह्माञ्जलिस्वरूपनिरूपणम् ॥ २.७१ ॥

व्यत्यस्तपाणिना कार्यम् उपसङ्ग्रहणं गुरोः ।

सव्येन सव्यः स्प्रष्टव्यो दक्षिणेन तु दक्षिणः ॥ २.७२ ॥

कथं पुनः पदोपसङ्ग्रहणं कर्तव्यम् इत्य् अत आह व्यत्यस्तपाणिनेति । इतरेतरदिगर्पितहस्तेन **गुरोः **पादोपसर्पणं कर्तव्यम् । वामेन च हस्तेन वामपादः स्पर्शनीयः **दक्षिणेन तु दक्षिणः **॥ २.७२ ॥

अध्येष्यमाणः तु गुरुर् नित्यकालम् अतन्द्रितः ।

अधीष्व भो इति ब्रूयाद् विरामो ऽस्त्व् इति चारमेत् ॥ २.७३ ॥

अध्येष्यमाणम् इति । प्रत्यासन्नाध्ययनं शिष्यम् अनलसो **गुरुः **सर्वकालम् अधीष्व भो इति ब्रूयत् । विरामो ऽस्त्व् इति चोक्त्वा अनन्तरम् अध्यापनान् निवर्तेत ॥ २.७३ ॥

ब्रह्मणः प्रणवं कुर्याद् आदाव् अन्ते च सर्वदा ।

स्रवत्य् अनोङ्कृतं पूर्वं परस्ताच् च विशीर्यति ॥ २.७४ ॥

ब्रह्मण इति । वेदपाठस्यारम्भान्तयोः ओङ्कारं **सर्वदा **ग्रहणार्थाध्यापनकालात् कालान्तरे ऽपि कुर्यात् । यस्माद् यस्य ब्रह्मणः **पूर्वम् अनोङ्कृतः **तत् **स्रवति **गृहीतम् अपि विस्मृत्य गच्छति । **परस्ताच् च विशीर्यते **। यस्य न कृतः तद् विशीर्यते नैव गृह्यते ॥ २.७४ ॥

प्राक्कूलान् पर्युपासीनः पवित्रैश् चैव पावितः ।

प्राणायामैस् त्रिभिः पूतस् तत ओङ्कारम् अर्हति ॥ २.७५ ॥

प्राक्कूलान् इति । “प्राणोपस्पर्शनं दर्भैः प्राक्कूलेष्व् आसनं च” इति गौतमस्मरणात् प्रागग्रेषु च दर्भेष्व् आसीनः, अत एव च **पवित्रैर् **दर्भैर् एव प्राणस्थानाद् हृदयस्पृष्टैः पवित्रीकृतः प्राणायामैश् च श्वासनिरोधरूपैः “त्रिभिः प्राणायामः त्रिपञ्चदशमात्रा” इति गौतमोक्तप्राणायामैः पवित्रीकृतः ततः ओङ्कारं पूर्वोक्तं कर्तुं योग्यो भवति ॥ २.७५ ॥

अकारं चाप्य् उकारं च मकारं च प्रजापतिः ।

वेदत्रयान् निरदुहद् भूर् भुवः स्वर् इतीति च ॥ २.७६ ॥

त्रिभ्य एव तु वेदेभ्यः पादं पादम् अदूदुहत् ।

तद् इत्य् ऋचो ऽस्याः सावित्र्याः परमेष्ठी प्रजापतिः ॥ २.७७ ॥

“ब्रह्मणः प्रणवं कुर्यात्” इत्य् अस्यार्थवादम् आह अकारम् इति । त्रिभ्य इति अकारोकारमकारात्मकः किलोङ्कारः । एतच् चाक्षरत्रयं वेदत्रयात् सारभूतं प्रजापतिर् उद्धृतवान् । तथा भूर् भुवः स्वर् इत्य् एतच् च महाव्याहृतित्रयम् उद्धृतवान् इदं (इत्थं) चेयं व्याहृतिस्तुतिः । अध्ययनकाले तद्विधानार्था अत्राकस्मात् स्तुतिर् वर्तत इति प्रयोजनात् “तत् सवितुर् वरेण्यम्” इत्य् अस्याः सवितृदेवताकाया ऋचः पादं पादं यथाक्रमं त्रिभ्य एव वेदेभ्यः परमेष्ठी हिरण्यगर्भः प्रजापतिः उद्धृतवान् इत्य् अयम् अपि अध्ययनकाल(ः) विध्यर्थः सावित्र्यर्थवादः ॥ २.७६–७७ ॥

एतद् अक्षरम् एतां च जपन् व्याहृतिपूर्वकाम् ।

सन्ध्ययोर् वेदविद् विप्रो वेदपुण्येन युज्यते ॥ २.७८ ॥

**एतत् **ओङ्काराख्यम् **अक्षरं एतां च सावित्रीं **भूर्भुवःस्वरित्येतद् व्याहृतिपूर्विकां वेदार्थज्ञो विप्रः सन्ध्ययोर् जपन् समस्तवेदपुण्येन सम्बध्यते इति विद्वान् ब्राह्मणः सन्ध्याजपसम्भूतफलमाहात्म्यकथनेन प्रकृतविधित्रयस्तुतिः ॥ २.७८ ॥

सहस्त्रकृत्वस् त्व् अभ्यस्य बहिर् एतत् त्रिकं द्विजः ।

महतो ऽप्य् एनसो मासात् त्वचेवाहिर् विमुच्यते ॥ २.७९ ॥

सहस्रकृत्व् इति । **एतत् **त्रयं सहस्रवारान् अहर् मासं यावत् **बहिर् **ग्रामाद् **द्विजो ऽभ्यस्य **महत् ब्रह्महत्याद्य् अपि पापम् अपनुदति । जीर्णचर्मेव सर्प इति रहस्यप्रायश्चित्तगतमाहात्म्यकथनेन प्रकृतविधित्रयस्तुतिः ॥ २.७९ ॥

एतयर्चा विसंयुक्तः काले च क्रियया स्वया ।

ब्रह्मक्षत्रियविड्योनिर् गर्हणां याति साधुषु ॥ २.८० ॥

**एतयेति **। **एतया ऋचा **सावित्र्या वियुक्तः वेदाध्ययनाभावात् उपनयनकाले चात्मीययोपनयनाख्यक्रियया वियुक्तः ब्राह्मनक्षत्रियवैश्यजातीयः निन्द्यतां शिष्टविषये प्राप्नोतीत्य् अनुष्ठाननिन्दाद्वारेण विधित्रयोपनयन्योः स्तुतिः ॥ २.८० ॥

ओङ्कारपूर्विकास् तिस्रो महाव्याहृतयो ऽव्ययाः ।

त्रिपदा चैव सावित्री विज्ञेयं ब्रह्मणो मुखम् ॥ २.८१ ॥

ओङ्कारपूर्विका इति । ओङ्कारपूर्विकास् तिस्र एताः भूराद्या **महाव्याहृतयः अव्ययाः **अविनाशिन्यः तत्फल्स्य दीर्घकालत्वात् पादत्रयम् उक्ता चैषा “तत् सवितुर् वरण्यम्” इति सावित्री ब्रह्मणो मुखं वेदप्राप्तिद्वारं **विज्ञेयम् **। अतः स्वाध्यायादाव् एतद् अध्येयम् इति प्रकृतार्थस्तुतिः ॥ २.८१ ॥

यो ऽधीते ऽहन्य् अहन्य् एतां त्रीणि वर्षाण्य् अतन्द्रितः ।

स ब्रह्म परम् अभ्येति वायुभूतः खमूर्तिमान् ॥ २.८२ ॥

इति । **य तां **सावित्रीं प्रत्यहं **त्रीणि वर्षाणि अनलसो ऽधीते स **वायुर् इव सर्वत्राप्रतिहतगतिः खमूर्तिमान् आकाशरूपः सन् सर्वव्याप्तित्वात् परं ब्रह्म परमात्मलक्षणम् आभिमुख्येन प्राप्नोतीति जपमाहात्म्यकथनेन प्रकृतविधिस्तुतिः

॥ २.८२ ॥

एकाक्षरं परं ब्रह्म प्राणायामाः परं तपः ।

सावित्र्यास् तु परं नास्ति मौनात् सत्यं विशिष्यते ॥ २.८३ ॥

**एकाक्षरम् **इति । ओङ्काराख्यम् एतद् एकाक्षरं परं ब्रह्म शब्दपरब्रह्मणोर् वेदान्तदृष्टतोः, प्राणायामः कृच्छ्रादितपोभ्यः प्रकृष्टं तपः **सावित्र्याः **(प्र)सकाशाद् अन्यत् प्रकृष्टं जपनीयं नास्तीत्य् एवं प्रकृतोङ्कारप्राणायामसावित्रीविधीनां स्तुतिः । **मौनात् सत्यं विशिष्यते **। मौनं अनृतदोषपरिहारातिरेकेण सत्यवचनेनाभ्युदयोत्पादाद् इति स्तुतिप्रसङ्गेन सत्याभिधानस्तुतिः ॥ २.८३ ॥

क्षरन्ति सर्वा वैदिक्यो जुहोतियजतिक्रियाः ।

अक्षरं त्व् अक्षयं ज्ञेयं ब्रह्म चैव प्रजापतिः ॥ २.८४ ॥

**क्षरन्तीति **। सर्वाणि वेदचोदितानि होमयागानुष्ठानानि नश्वराणि तत्फलक्षयत्वात् । अक्षरं पुनः एतद् ओङ्काराख्यं **अक्षयं ज्ञेयं **तदर्थभावनाद्वारेण ब्रह्मावाप्त्याख्यस्य फलस्याक्षयत्वात् । ब्रह्म च प्रजापत्याख्यं एतद् एव ॥ २.८४ ॥

शब्दार्थयोर् वेदान्तदृष्ट्योत्पादित (शब्दार्थो यो वेदान्तदृष्ट्योत्पादितः) वैदिककर्मनिन्दया प्रकृतार्थस्तुतिः ।

विधियज्ञाज् जपयज्ञो विशिष्टो दशभिर् गुणैः ।

उपांशुः स्याच् छतगुणः साहस्रओ मानसः स्मृतः ॥ २.८५ ॥

विधियज्ञाद् इति । बाह्यव्यापारसम्पाद्याद् अग्निष्टोमादेः जपयज्ञः विशिष्टो दशभिर् गुणैः दशगुणफलत्वात् । स एव **चोपांशुः **यं परो न शृणोति **स शतगुणः । **मनोव्यापारसम्पाद्यश् च सहस्रगुण इति अभ्यासातिशयापेक्षया द्रव्यत्यागाद् अपि चान्तःसंयमस्य दुःसहत्वात् वैदिककर्मफलाधिक्येन जपमाहात्म्यकथनं प्रकृतविधिस्तुत्यर्थम् ॥ २.८५ ॥

ये पाकयज्ञाश् चत्वारो विधियज्ञसमन्विताः ।

सर्वे ते जपयज्ञस्य कलां नार्हन्ति षोडशीम् ॥ २.८६ ॥

ये पाकयज्ञादयश् **चत्वारो ज्योतिष्टोमादिविधियज्ञसहिताः ते सर्वे जपयज्ञस्य **षडशभागं मूल्यार्थं न लभन्ते इति श्रौतस्मार्तकर्मनिन्दया इदं आत्मज्ञानवान् (-वतां) प्रकृष्टफलदर्शनेन जपमाहात्म्यकथनं प्रकृतविधिस्तुत्यर्थम् ॥ २.८६ ॥

जप्येनैव तु संसिध्येद् ब्राह्मणो नात्र संशयः ।

कुर्याद् अन्यन् न वा कुर्यान् मैत्रो ब्राह्मण उच्यते ॥ २.८७ ॥

जप्येनैव त्व् इति । **जप्येनैव ब्राह्मणो **मोक्षं प्राप्नुयात् अत्र संशय एव नास्ति कथम् अल्पप्रयासेन महत्फलं प्राप्यत इति । द्रव्यत्यागाद् अप्य् अन्तःसंयमस्य दुष्करत्वात् । एवं च कुर्याद् अन्यत् तादर्थ्येन ज्योतिष्टोमादिकम् असौ कर्म यदि वा न कुर्यात् यतः सर्वभूतोपकाररतो **ब्राह्मणः **स्याद् इति शास्त्रेणोच्यते । अग्निष्टोमीयादि (अग्नीषोमीयादि) वधेन कुतो **मैत्रः **इति । एवं श्रौतस्मार्तकर्मानुष्ठानाशक्तो जप्यपरः पुरुषः संसिद्ध्यनुवादो (संसिद्ध्य्तीत्य् अनुवादो) ऽयं प्रकृतविधिस्तुत्यर्थः ॥ २.८८ ॥

इन्द्रियाणां विचरतां विषयेष्व् अपहारिषु ।

संयमे यत्नम् आतिष्ठेद् विद्वान् यन्तेव वाजिनाम् ॥ २.८८ ॥

इन्द्रियाणाम् इति । इन्द्रियाणां चक्षुरादीनां **विषयेषु **रूपादिषु **अपहारिषु **च उपभोगार्थम् आकर्षनशीलेषु यथेच्छं प्रवर्तमानानां नियमने प्रयत्नं कुर्यात्, यथा शिक्षितः सारथिः रथ्यारब्धानाम् अश्वानां नियमने यत्नं करोति ॥ २.८८ ॥

एकादशेन्द्रियाण्य् आहुर् यानि पूर्वे मनीषिणः ।

तानि सम्यक् प्रवक्ष्यामि यथावद् अनुपूर्वशः ॥ २.८९ ॥

**एकादशेति **। यानि पूर्वे मन्वादयो विद्वांसः **इन्द्रियाण्य् **उक्तवन्तः **तानि यथावत् कार्त्स्न्येन्आनुपूर्वशः **कर्मेण सम्यङ् यथारूपं बुद्ध्यथ तथा **वक्ष्यामि **॥ २.८९ ॥

श्रोत्रं त्वक् चक्षुषी जिह्वा नासिका चैव पञ्चमी ।

पायूपस्थं हस्तपादं वाक् चैव दशमो स्मृता ॥ २.९० ॥

तानि च श्रोत्रम् इति । **त्वक् **चर्म तात्स्थ्यात् । अत्र स्पर्शनेन्द्रियं त्वक् उच्यते । **चक्षुषी **इति अधिष्ठानभेदात् द्विवचनम् । श्रोत्रादौ च तदादारशक्त्यैक्यालम्बनम् एकवचनम् । पायुः अपानम् उपस्थः लिङ्गम् । वाक् शब्दाभिव्यञ्जकशरीरैकदेशः ॥ २.९० ॥

बुद्धीन्द्र्याणि पञ्चैषां श्रोत्रादीन्य् अनुपूर्वशः ।

कर्मेन्द्रियाणि पञ्चैषां पाय्वादीनि प्रचक्षते ॥ २.९१ ॥

बुद्धीन्द्र्याणीति । **एषां **मध्यात् श्रोत्रादीनि क्रमेन पञ्च बुद्धेः शब्दादिविषयविज्ञानस्य जनकानि, पण्च पाय्वादीनि विसर्गादिकर्मार्थानि मन्वादयः कथयन्तीति कार्यभेदात् वर्गद्वयविभागः ॥ २.९१ ॥

एकादशं मनो ज्ञेयं स्वगुणेनोभयात्मकम् ।

यस्मिन् जिते जिताव् एतौ भवतः पञ्चकी गणौ ॥ २.९२ ॥

एकादशम् इति । मनः स्वगुणेन सङ्कल्पाख्येन शुभाशुभस्वभावेन्ओभरूपम् अत्र्ऐकादशं विज्ञेयम् । यस्मिन् वशीकृते स्ति **एतौ **पञ्चपरिमाणौ वर्गौ वशीकृतौ **हवतः **मनोव्यापारमूलत्वाद् इन्द्रियप्रवृत्तेः ॥ २.९२ ॥

इन्द्रियाणां प्रसङ्गेन दोषम् ऋच्छत्य् असंशयम् ।

सन्नियम्य तु तान्य् एव ततः सिद्धिं नियच्छति ॥ २.९३ ॥

अधुना इन्द्रियसंयमप्रयोजनम् आह इन्द्र्याणाम् इति । **इन्द्रियाणां विषयासक्त्या दृष्टादृष्टदोषं निश्चितं पुरुषः प्राप्नोति । तान्य् एव संयम्य पुनः दृष्टादृष्टार्थसिद्धिं **निश्चयेन प्राप्नोति ॥ २.९३ ॥

न जातु कामः कामानाम् उपभोगेन शाम्यति ।

हविषा कृष्णवर्त्मेव भूय एवाभिवर्धते ॥ २.९४ ॥

अथोपभोगतृष्णया किम् इन्द्रियाणां विषयनिवृत्तिर् नोच्यते, किं सक्तिनिषेधेनोच्यते इत्य् अत आह न जात्व् इति । न कदाचिद् अभिलाषः काम्यमानानाम् अर्थानाम् **उपसेवनेन निवर्तते **। प्रत्य् उत आज्यादिनाग्निर् इवाधिकतरं वृद्धिम् एति ॥ २.९४ ॥

यश् चैतान् प्राप्नुयात् सर्वान् यश् चैतान् केवलांस् त्यजेत् ।

प्रापणात् सर्वकामानां परित्यागो विशिष्यते ॥ २.९५ ॥

एवं च इति । **यः **कामान् सकलान् सेवेत **यो **वा केवलान् अनुपभुक्त्वैव त्यजेत् तयोः सर्वकामोपभोगाद् अपि **परित्यागो विशिष्यते **। यस्माद् उपभुक्तपूर्वेष्व् अपि असति चित्तसंयमे पुनर् उपभोगेच्छा जायते । तदसम्पत्तौ चावश्यम्भावि दुःखम्, तस्मान् मूलत एव तृष्णात्यागो वरः ॥ २.९५ ॥

न तथैतानि शक्यन्ते सन्नियन्तुम् असेवया ।

विषयेषु प्रजुष्टानि यथा ज्ञानेन नित्यशः ॥ २.९६ ॥

एवं तर्हि विषयशून्यदेहावस्थानमात्र उपाय इत्य् अत आह **नेति एतानीन्दिर्याणि विषयासक्त्या प्रक्ष्टदोषजनकानि न तथा रूपादिविषयानुपभोगेन सम्यक् नियन्तुं शक्यन्ते यथा विषयगतदोषभावनाविज्ञानेन **नित्यकालं नियन्तुं पार्यते ॥ २.९६ ॥

वेदास् त्यागश् च यज्ञाश् च नियमाश् च तपांसि च ।

न विप्रदुष्टभावस्य सिद्धिं गच्छन्ति कर्हिचित् ॥ २.९७ ॥

वेदा इति । जपदानस्नानयागादिकृच्छ्रादीनि दुष्टचित्तस्य न कदाचित् सम्पन्नानि भवन्तीति

॥ २.९७ ॥

श्रुत्वा स्पृष्ट्वा च दृष्ट्वा च भुक्त्वा घ्रात्वा च यो नरः ।

न हृष्यति ग्लायति वा स विज्ञेयो जितेन्द्रियः ॥ २.९८ ॥

श्रुत्वेति । यश् श्रोत्रत्वक्चक्षुर्नासिकेनेष्टान् शब्दस्पर्शरसरूपगन्धान् उपलभ्य न हर्षम् उपैति, कुत्सितांश् चोपलभ्य न ग्लानिम् एति, **स जितेन्द्रियो **बोद्धव्यः ॥ २.९८ ॥

इन्द्रियाणां तु सर्वेषां यद्य् एकं क्षरतीन्द्रियम् ।

तेनास्य क्षरति प्रज्ञा दृतेः पादाद् इवोदकम् ॥ २.९९ ॥

सकलेन्द्रियविषयस्य संयमे यत्नः कार्यः यस्मात् इन्द्रियाणाम् इति । इन्द्रियाणां मध्यात् यदि पुनः एकम् अपीन्द्रियं यथेच्छं स्वविषये प्रवर्तते तदा स्वेन्द्रियान्तरसंयमविज्ञानम् अपि नश्यति यथा उदकपरिपूर्णाच् चर्मणः एकपादानावरणात् सर्वम् अम्भो निस्ःसरति ॥ २.९९ ॥

वशे कृत्वेन्द्रियग्रामं संयम्य च मनस् तथा ।

सर्वान् संसाधयेद् अर्थान् अक्षिण्वन् योगतस् तनुम् ॥ २.१०० ॥

एवम् असञ्जितेन्द्रियस्य मनस्कस्य न वेदादिसिद्धिः तस्मात् वश इति । शक्त्या शरीरम् अपीडयन् इन्द्रियसमूहं विजित्य **मनश् च **नियम्य सर्वान् वेदाधिगमादीन् अर्थान् सम्पादयेत्

॥ २.११० ॥

पूर्वां सन्ध्यां जपंस् तिष्ठेत् सावित्रीम् आर्कदर्शनात् ।

पश्चिमां तु सदासीत सम्यग् ऋक्षविभावनात् ॥ २.१०१ ॥

“सज्योतिष्याज्योतिषो दर्शनाद् वाग्यतः” इति गौतमसमरणात् [ग्ध् २.११], सनक्षत्रकालाद् आरभ्य पूर्वाम् इति । यद्य् अप्य् अत्र तिष्ठत्याः परो विधिप्रत्ययः श्रूयते तथापि उपलभ्यमानश्रुतिमूलत्वात् यज्जपो ऽत्र प्रधानम् । स्थानासनयोस् त्व् अङ्गता । तथा च (यच् च) यजुर्वेदब्राह्मणे जपतेर् एव परो विधिप्रत्ययः श्रूयते । यद् आह “अथातः सन्ध्योपासनविधिं व्याख्यास्यामः” इत्य् उपक्रम्य “पूर्वां सन्ध्यां स्थितः सन् सावित्रीम् एतद् अक्षराम् एतां च जपन् व्याहृतिपूर्विकां सन्ध्ययोः” इति दर्शनात् । प्रणतव्याहृतिपूर्विकां जपेद् आदित्यदर्शनं यावत् इति वाक्यार्थः । पश्चिमां पुनर् आसीणः सावित्रीं जपेत् उक्तगौतमीयात् सदर्ककालाद् आरभ्य सम्यक् नक्षत्रदर्शनात् यावत् ॥ २.१०१ ॥

पूर्वां सन्ध्यां जपंस् तिष्ठन् नैशम् एनो व्यपोहति ।

पश्चिमां तु समासीनो मलं हन्ति दिवाकृतम् ॥ २.१०२ ॥

पूर्वाम् इति । **पूर्वां सन्ध्यां तिष्ठन् **सावित्रीं जपन् सञ्चितं प्रतनु रात्र्युत्पन्नं पापम् अपनुदति सर्वापनोदने प्रायश्चित्तकाण्डानर्थक्यात् । एवं पश्चिमसन्ध्यायाम् उपविष्टो जपन् दिवाकृतपापम् अपहन्ति ॥ २.१०२ ॥

न तिष्ठति तु यः पूर्वां नोपास्ते यश् च पश्चिमाम् ।

स शूद्रवद् बहिष्कार्यः सर्वस्माद् द्विजकर्मणः ॥ २.१०३ ॥

एवं कथञ्चिद् अकृतैनसो ऽननुष्ठानप्राप्तौ नित्यताम् आह नेतियः पुनः पूर्वां सन्ध्यां नानुतिष्ठति यो वा पश्चिमां नोपास्ते **सो ऽध्ययनदानादिद्विजकर्मणः **सर्वस्माच् **छूद्रवत् **परिहरणीयः । इत्य् एवं निन्देयम् अवश्यानुष्ठानार्था ॥ २.१०३ ॥

अपां समीपे नियतो नैत्यकं विधिम् आस्थितः ।

सावित्रीम् अप्य् अधीयीत गत्वारण्यं समाहितः ॥ २.१०४ ॥

ब्रह्मयज्ञविध्यर्थं ब्रह्मचारिणाम् अनुदिनम् आह अपाम् इति । ग्रामाद् बहिर् विविक्तं प्रदेशं गत्वा **नियतः **शुचिः समाहितः संयतमनाः नित्यो ऽयं ब्रह्मयज्ञविधिर् इत्य् एवम् आस्थितः उत्पन्नास्थः अपां समीपे मन्त्रान्तरपाठात् **सावित्रीम् अपि **जपेत् ॥ २.१०४ ॥

वेदोपकरणे चैव स्वाध्याये चैव नैत्यके ।

नानुरोधो ऽस्त्य् अनध्याये होममन्त्रेषु चैव हि ॥ २.१०५ ॥

स्वाध्यायविधिवत् प्रकरणान्तरेणानध्यायाम्नानात् वेदवेदाङ्गोच्चारणधर्मत्वात् (शङ्कायां) ब्रह्मयज्ञादाव् अप्य् अनध्यायप्राप्ताव् आह वेदोपकरण इति । वेदोपकारके निरुक्तादाव् अङ्गे, नित्यभवे च स्वाध्याये ब्रह्मयज्ञाख्ये होमार्थं मन्त्रोच्चारणे वानध्यायानुरोधो नास्ति । वेदोपकरणादीनां प्रसङ्गाच् च लाघवार्थम्(अन्)अभिधानम् । हिशब्दः आगमप्रसूचकः ॥ २.१०५ ॥

नैत्यके नास्त्य् अनध्यायो ब्रह्मसत्रं हि तत् स्मृतम् ।

ब्रह्माहुइहुतं पुण्यम् अनध्यायवषट्कृतम् ॥ २.१०६ ॥

अत्रार्थवादम् आह नैत्यक इति । नैत्यके एकस्मिन् ब्रह्मयज्ञे **अनध्यायो नास्ति **। यस्मात् ब्रह्मसत्रं तत् मन्वादिभिः स्मृतम् । अतः सततप्रवृत्तगवामयनादिसत्रतुल्यत्वात् सर्वदैव तद् अनुष्ठेयम् । किम् अस्य सत्त्रसादृश्यम् इत्य् अत आह ब्रह्माहुतितुअम् इत्यादि । सत्त्रं सोमाहुत्याहुतं भवति । इदम् अपि वेदोच्चारणाहुत्याहुतं ब्रह्म, आहुतिर् इव आहुत्यर्थत्वात् पुण्यहेतुत्वाच् च सत्त्रतुल्यम् । सत्त्रं च प्रदानार्थेन वषट्कारेण युक्तं भवति । इदम् अपि अनध्यायाध्ययनात् अनध्यायवषट्कृतम् ॥ २.१०६ ॥

यः स्वाध्यायम् अधीते ऽब्दं विधिना नियतः शुचिः ।

तस्य नित्यं क्षरत्य् एष पयो दधि घृतं मधु ॥ २.१०७ ॥

इति । एवं ब्रह्मयज्ञाख्यं स्वाध्यायम् अरण्ये गमनाद्युक्तविधानेन संयतमनाः **शुचिः **सन् **यः **संवत्सरम् **अधीते **तस्यैष पयोदधिघृतमधूनि नित्यं ददातीति । एवं च नित्यत्वे ऽपि फलकामनया फलम् अप्य् अतो भवति दर्शपौर्णमास्वत् ॥ २.१०७ ॥

अग्नीन्धनं भैक्षचर्याम् अधःशय्यां गुरोर् हितम् ।

आ समावर्तनात् कुर्यात् कृतोपनयनो द्विजः ॥ २.१०८ ॥

अग्नीन्धनम् इति । अग्निसमिदाधानभैक्षचरणखट्वाद्यशनगुरुगृहोपलेपनाद्यात्मक-गुरुहितानि समावर्तनाख्यव्रतकालं यावत् उपनयनकालोत्तरकालं **द्विजः कुर्यात् **। प्रधानानुपयायित्वेनाङ्गानां यावद् ब्रह्मचर्यम् एषाम् अनुवृत्तिसिद्ध्यर्थं पुनर्वचनं नियमाय भवन्तीत्य् एतावन्त्य् एव समावर्तने निवर्तन्ते । अन्यानि पुनः सन्ध्योपासनादीनि आश्रमान्तराविरुद्धानि यावज्जीवं भवन्तीति । यथा च गौतमः- “उत्तरेषां चैतद् अविरोधि” [ग्ध् ३.१०] इति । अत एव चैतानि आ समावर्तनात् कुर्यात् । यानि पुनर् अर्वाग् अपि निवर्तन्ते इत्य् एवं विधिविपरीतनियमो न भवति प्रधानानुवर्तिन्यायावाधप्रसङ्गाच् च ॥ २.१०८ ॥

आचार्यपुत्रः शुश्रूषुर् ज्ञानदो धार्मिकः शुचिः ।

आप्तः शक्तो ऽर्थदः साधुः स्वो ऽध्याप्या दश धर्मतः ॥ २.१०९ ॥

आचार्यपुत्र इति । **आचार्यपुत्रः **परिचर्यापरः विद्याप्रदः धर्मानुष्ठानशीलः मृद्वार्यादिशौचयुक्तः बन्धुः ग्रहणधारणसमर्थः पणपूर्वम् अप्य् अर्थदाता आर्जवोपेतः आत्मना उपनीतः एते **दश **धर्मार्थम् अध्याप्याः । **अर्थदः शुश्रूषुः **“ज्ञानाद् अध्यापनाद् अपि धर्मो ऽस्ति नियमादृष्टरूपेण” इति वचनात् ॥ २.१०९ ॥

नापृष्टः कस्यचिद् ब्रूयान् न चान्यायेन पृच्छतः ।

जानन्न् अपि हि मेधावी जडवल् लोक आचरेत् ॥ २.११० ॥

नापृष्ट इति । पूर्वोक्तव्यतिरेकेणान्यस्य कस्यचिद् अधीयानस्य विस्वरादिकृतवतः **अपृष्टो न **कथयेत् । नापि वितण्डया पृच्छतः । किं तर्हि । तत्र **जानन्न् अपि **प्राज्ञः बधिर इव **लोके **व्यवहरेत् । अत्रार्थवादो निषेधार्थः ॥ २.११० ॥

अधर्मेण च यः प्राह यश् चाधर्मेण पृच्छति ।

तयोर् अन्यतरः प्रैति विद्वेषं वाधिगच्छति ॥ २.१११ ॥

अधर्मेणेति । उक्तमर्यादातिक्रमेण यः प्राह यो वा **पृच्छति तयोर् अन्यतरः **यो ऽतिक्रमकृत् स म्रियते **द्वेषं **वा लोके भजते ॥ २.१११ ॥

धर्मार्थौ यत्र न स्यातां शुश्रूषा वापि तद्विधा ।

तत्र विद्या न वप्तव्या शुभं बीजम् इवोषरे ॥ २.११२ ॥

पूर्वोक्तनिमित्तानां मध्याद् धर्मादिनिमित्तत्रयस्य उपायत्वं दर्शयितुम् आह धर्मार्थाव् इति । यद् अध्यापने धर्मः पणपूर्वो वा अर्थो न भवेत् पणपूर्वकस्य भृतकाध्यापकत्वेन निषिद्धत्वात् । परिचर्या अध्यापनानुरूपा परिपुष्टं बीजम् इव अङ्कुरजननासमर्थे भूप्रदेशे ॥ २.११२ ॥

विद्ययैव समं कामं मर्तव्यं ब्रह्मवादिना ।

आपद्य् अपि हि घोरायां न त्व् एनाम् इरिणे वपेत् ॥ २.११३ ॥

एवं च विद्ययेति । वरम् अदत्तविद्येनैव विद्याध्यापन्शीलेन मर्तव्यं न पुनः कष्टायाम् अप्य् आपदि उक्ताध्याप्याभावे ऽपि एनां विद्यां इरिणे ऊषर इव धर्मादिफलोत्पादन्शून्ये वपेत् । अनेन चैतद् दर्शयति यद् अवश्यं दातव्या विद्येति । अन्यथा कामं विद्ययैव सह मर्तव्यम् इत्य् एतद् अभावसंसुचनम् आचार्यसम्बन्धेनोपपद्यते । तथा च श्रुतिः- “यो ह वै विद्याम् अधीत्यार्थिने न ब्रूयात् स कार्यहा स्यात्” इति । अस्य प्रतिषेधस्य पुराकल्परूपो ऽयम् अर्थवादः ॥ २.११३ ॥

विद्या ब्राह्मणम् एत्याह शेवधिष्टे ऽस्मि रक्ष माम् ।

असूयकाय मां मादास् तथा स्यां वीर्यवत्तमा ॥ २.११४ ॥

यम् एव तु शुचिं विद्या नियतं ब्रह्मचारिणम् ।

तस्मै मां ब्रूहि विप्राय निधिपायाप्रमादिने ॥ २.११५ ॥

विद्या ब्राह्मणम् एत्याहेति । **यम् एव त्व् **इति । **विद्या **किल विग्रहवती किञ्चिद् ब्राह्मणम् आगत्य निधिर् इव तवाहम्, अतो रक्ष मां इत्य् आह । रक्षा च असूयकम् अपात्रं मां माध्यापय । **तथा **सत्य् अहम् अतिशयेन तव दृष्टादृष्टकार्यकरणसमर्था भवामि । **यं **पुनः मृद्वार्यादिशौचयुक्तं नियतं संयतेन्द्रियं **ब्रह्मचारिणं **अस्त्रीसम्प्रयोगं जानीयात् प्राधान्याद् अस्य पृथग् उपदेशः । तं **विप्रं **विद्यानिधिपालनसमर्थम् अविस्मरणशीलं अपर्मादिनम् अनभ्यासशून्यम् अध्यापयेति ॥ २.११४–१५ ॥

ब्रह्म यस् त्व् अननुज्ञातम् अधीयानाद् अवाप्नुयात् ।

स ब्रह्मस्तेयसंयुक्तो नरकं प्रतिपद्यते ॥ २.११६ ॥

ब्रह्मेति । अन्यान् अव्यापयतः अविस्मरणार्थं चाभ्यस्यतः अननुज्ञातं ब्रह्म (यः) शिक्षेत् **स **ब्रह्मचौर्ययुक्ताः **नरकं **व्रजति ॥ २.११६ ॥

लौकिकं वैदिकं वापि तथाध्यात्मिकम् एव वा ।

आददीत यतो ज्ञानं तं पूर्वम् अभिवादयेत् ॥ २.११७ ॥

लौकिकम् इति । लौकिकं दृष्टहितार्थम् आयुर्वेदादिकं वैदिकं वेदवेदाङ्गविषयम् । आध्यात्मिकं साङ्ख्याद्यध्यात्मविद्याविषयं ज्ञानम् । यतः शिक्षेत् **तं पूर्वं तदभिभाषणनिरपेक्षवक्ष्यमाणप्रकारेण्आभिवादयेत् **॥ २.११७ ॥

सावित्रीमात्रसारो ऽपि वरं विप्रः सुयन्त्रितः ।

नायन्त्रितस् त्रिवेदो ऽपि सर्वाशी सर्वविक्रयी ॥ २.११८ ॥

अत्रार्थवादः सावित्रीमात्रसार इति । यदि **विप्रः सुयन्त्रितः **अभिवादाचारानुष्ठानयन्त्रितात्मा भवति तदा सावित्रीमात्रप्रधानो ऽपि तावन्मात्राध्येतापि वरं प्रशस्तः । न त्व् अनाचारस् **त्रिवेदो ऽपि **प्रशस्यः, यतः असाव् अयन्त्रितत्वात् **सर्वाशी सर्वविक्रयी **च भवति ॥ २.११८ ॥

शय्यासने ऽध्याचरिते श्रेयसा न समाविशेत् ।

शय्यासनस्थश् चैवैनं प्रत्युत्थायाभिवादयेत् ॥ २.११९ ॥

शय्यासने इति । शय्यासनं यत् गुर्वादिना सेवितं सेव्यमानं वा तत्र नोपविशेत् । शय्यासनस्थश् चैनम् आयान्तं दृष्ट्वा ततः उत्थायाभिवादयेत् ॥ २.११९ ॥

ऊर्ध्वं प्राणा ह्य् उत्क्रामन्ति यूनः स्थविर आयति ।

प्रत्युत्तानाभिवादाभ्यां पुनस् तान् प्रतिपद्यते ॥ २.१२० ॥

अत्रार्थवादो भयदर्शनेन । ऊर्ध्वम् इति । यस्मात् ज्येष्ठ आगच्छति सति कनीयसः प्राणाः **ऊर्ध्वं **निर्गन्तुम् इच्छन्ति अनाचारेणायुःक्षयात् । **प्रत्युत्थानाभिवादाभ्यां **हेतुभूताभ्यां पुनस् तान् स्वीकरोति तस्मात् तौ कर्तव्यौ ॥ २.१२० ॥

अभिवादनशीलस्य नित्यं वृद्धोपसेविनः ।

चत्वारि सम्प्रवर्धन्ते आयुर् धर्मो यशो बलम् ॥ २.१२१ ॥

अयं त्व् अपरो ऽत्रैवोपकारदर्शनेन अभिवादनशीलस्येति । अभिवादनकरणस्वभावस्य सर्वदा सर्वदा वृद्धेषु परिचर्यारतस्य आयुःप्रज्ञाख्यातिबलानि चत्वारि वृद्धिम् उपयान्ति

॥ २.१२१ ॥

अभिवादात् परं विप्रो ज्यायांसम् अभिवादयन् ।

असौ नामाहम् अस्मीति स्वं नाम परिकीर्तयेत् ॥ २.१२२ ॥

कथं पुनर् अभिवादनं कार्यम् इत्य् अत आह अभिवादात् परम् इति । ज्येष्ठाभिवादनं कुर्वन् “अभिवादये” इत्य् एतच्छब्दात् परं “भद्रनामास्मि” इत्य् एवं स्वं नाम्ओच्चारयेत् । विप्रग्रहणम् इह प्रत्यभिवादवाक्ये च द्विजोपदर्शनार्थं त्रयाणां प्रकृतत्वात् ॥ २.१२२ ॥

नामधेयस्य ये केचिद् अभिवादं न जनते ।

तान् प्राज्ञो ऽहम् इति ब्रूयात् स्त्रियः सर्वास् तथैव च ॥ २.१२३ ॥

एवं सर्वत्र स्वनामोच्चारणप्राप्ताव् आह नामधेयस्येति । नाम्नः उच्चारितस्य सतो यद् अभिवादनं अभिवाद्या न बुध्यन्ते असंस्कृतत्वाद् अनभिज्ञा ये **तान् प्राज्ञः **“अभिवादये ऽहम्” इत्य् एवं ब्रूयात् । स्त्रियश् चाभिज्ञा अप्य् एवम् एव ब्रूयात् ॥ २.१२३ ॥

भोःशब्दं कीर्तयेद् अन्ते स्वस्य नाम्नो ऽभिवादने ।

नाम्नां स्वरूपभावो हि भोभाव ऋषिभिः स्मृतः ॥ २.१२४ ॥

भोशब्दम् इति । अभिवादने यत् स्वं नाम तदन्ते भोःशब्दं कीर्तयेत् । स चाभिवाद्यसम्बोधनार्थम्, यत आह नाम्नाम् इति । यस्मान् **नाम्नां **या स्वरूपसत्ता सैव **भोभागः **भो इत्य् अस्य सत्ता इति मन्वादिभिः स्मृतः । अतश् चाभिवाद्यनामस्थानापन्नं तत्सम्बोधनार्थं भोःशब्दं कीर्तयेत् । तेनाभिवादयेत् “भद्रनामाहम् अस्मि भो” इत्य् अभिवादनरूपम् ॥ २.१२४ ॥

आयुष्मान् भव सौम्येति वाच्यो विप्रो ऽभिवादने ।

अकारश् चास्य नाम्नो ऽन्ते वाच्यः पूर्वाक्षरः प्लुतः ॥ २.१२५ ॥

इदानीं प्रत्यभिवादनविधिम् आह आयुष्मान् इति । अभिवादने कृते आयुष्मान् भव सौमेत्य् एवम् अभिवादयिता वाच्यः अभिवादयितुश् च नाम्नो ऽन्ते यः अकारादिवर्णः नाम्नाम् अकारान्तत्वनियमाभावात् स प्लुतः कार्यः । पूर्वाण्य् अक्षराणि यस्मात् सः पूर्वाक्षरः नागन्तुकः ततो ऽपकृष्य वा । तेन्आयुष्मान् भव सौम्य (म्येति) भद्रा ३ इति प्रत्यभिवादरूपम् ॥ २.१२५ ॥

यो न वेत्त्य् अभिवादस्य विप्रः प्रत्यभिवादनम् ।

नाभिवाद्यः स विदुषा यथा शूद्रस् तथैव सः ॥ २.१२६ ॥

अत्रार्थवादः – **यो न वेत्त्य् अभिवादस्येति **। यथाशास्त्रम् अभिवादनस्य कृतस्य यः प्रत्यभिवादनं कर्तुं न जानाति **विप्रो **ऽपि किम् उतान्यः **स विदुषा **शूद्रवन् नाद्भिवाद्यः । तस्मात् प्रत्यभिवाद्ये ऽयं यथाशास्त्रं विज्ञाय सम्यक् कर्तव्य इति स्थितिः प्रत्यभिवादस्तुतिः । विध्यर्थत्वे प्रकरणोपरोधः । “नामधेयस्य ये केचिद्” इत्य् एतद्बाधश् च ॥ २.१२६ ॥

ब्राह्मणं कुशलं पृच्छेत् क्षत्रबन्धुम् अनामयम् ।

वैश्यं क्षेमं समागम्य शूद्रम् आरोग्यम् एव च ॥ २.१२७ ॥

प्रत्यभिवादनप्रसङ्गेन अन्यम् अपि प्रत्यभिवादयितुर् धर्मम् आह ब्राह्मणम् इति । प्रत्यभिवादयिता समागत्याभिवादयितारं **ब्राह्मणं कुशलम् **अस्ति इत्य् एवं पृच्छेत्, क्षत्रजातीयं अनामयम् इति, वैश्यं क्षेमम् इति, **शूद्रम् **पुनर् आरोग्यम् इति ॥ २.१२७ ॥

अवाच्यो दीक्षितो नाम्ना यवीवान् अपि यो भवेत् ।

भोभवत्पूर्वकं त्व् एनम् अभिभाषेत धर्मवित् ॥ २.१२८ ॥

अवाच इति । यागार्थं कृतदीक्षः प्रत्यभिवादनार्थं कार्यान्तरार्थं वा नाम्ना कनीयान् अपि न वाच्यः । किं तर्हि । भो दीक्षित भवता यजमानेन इत्य् एवं भोभवच्छब्दपूर्वं यौगिकं शब्दैः **एनं **धर्मज्ञो **ऽभिभाषेत **॥ २.१२८ ॥

परपत्नी तु या स्त्री स्याद् असम्बद्धा च योनितः ।

तां ब्रूयाद् भवतीत्य् एवं सुभगे भगिनीति च ॥ २.१२९ ॥

परस्य पत्नी या भवति सा चात्मनो यदि मातृपितृभ्यो योनिसम्बद्धा न भवेत्, तदा तां कार्यार्थं भवति इत्य् अनेन शब्देन ब्रूयात् सुभगे भगिनि इत्येवमाद्यन्तेन “भवति सुभगे” “भवति मातः” इत्येवं ब्रूयात् । आनुरूप्येण भगिनीति चेति इतिशब्दस्य प्रकारार्थत्वात्

॥ २.१२९ ॥

मातुलांश् च पितृव्यांश् च श्वशुरान् ऋत्विजो गुरून् ।

असाव् अहम् इति ब्रूयात् प्रत्युत्थाय यवीयसः ॥ २.१३० ॥

**मातुलांश् चेति **। **मातुलादीन् **हीनवयसः **प्रत्युत्थाय **भद्रो ऽहम् इत्य् एवं ब्रूयात् । **ऋत्विक् **वक्ष्यते । गुरुश् चात्र मातृश्वस्रपत्यादिः, न विद्यागुरुः शैशवाख्यानस्य वक्ष्यमाणत्वात् ॥

२.१३० ॥

मातृष्वसा मातुलानी श्वश्रूर् अथ पितृष्वसा ।

सम्पूज्या गुरुपत्नीवत् समास् ता गुरुभार्यया ॥ २.१३१ ॥

**मातृस्वसेति **। मातृष्वस्राद्याः गुरुपत्नीवत् वक्ष्यमाणरूपेण पादोपसङ्ग्रहणादिना सम्पूज्याः, यतः ता गुरुभार्यातुल्याः ॥ २.१३१ ॥

भ्रातुर् भार्योपसङ्ग्राह्या सवर्णाहन्य् अहन्य् अपि ।

विप्रोष्य तूपसङ्ग्राह्या ज्ञातिसम्बन्धियोषितः ॥ २.१३२ ॥

भ्रातुर् भार्येति । पूजाप्रकरणात् ज्येष्ठभ्रातृभार्या उपसङ्ग्राह्या पादयोः, “नाभिवाद्येह पादयोः” इति दर्शनात् । सवर्णा समानजातीया प्रत्यहम् । ज्ञतयो मातृपितृपक्षाः सम्बन्धिनो वैवाह्याः तद्भार्याः पुनः प्रवासप्रत्यागतेन्ओपसङ्ग्राह्याः, न त्व अहर् अहः ॥ २.१३२ ॥

पितुर् भगिन्यां मातुश् च ज्यायस्यां च स्वसर्य् अपि ।

मातृवद् वृत्तिम् आतिष्ठेन् माता ताभ्यो गरीयसी ॥ २.१३३ ॥

पितुर् भगिन्याम् इति । पितृष्वसृमातृष्वसृज्येष्ठभगिनीनां मातृवद् वर्तेत । मातृष्वसृपितृष्वस्रोः “सम्पूम्या गुरुपत्नीवत्” इत्य् अनेनैव पादोपसङ्ग्रहणादिपूजासिद्धाव् इदं वचनम् प्रियकरणादिमातृवृत्त्यतिदेशार्थम् । यथा वक्ष्यति – “तयोर् नित्यं प्रियं कुर्यात्” इति औपदेशिकातिदेशिकवृत्तिविधानेनैव च मातुः प्रकर्षसिद्धौ “माता त्व् आभ्यो गरीयसी” “पितृष्वसृमातृष्वसृज्येष्ठेति” वचनं मातृनिषिद्धस्य तत्प्रियकरणप्रतिनिषेधार्थम् ॥ २.१३३ ॥

दशाब्दाख्यं पौरसख्यं पञ्चाब्दाख्यं कलाभृताम् ।

त्र्यब्दपूर्वं श्रोत्रियाणां स्वल्पेनापि स्वयोनिषु ॥ २.१३४ ॥

दशाब्दाख्यम् इति । एकपुरनिवासिना निर्गुणानाम् एकस्य दशभिर् वर्षैः ज्येष्ठे सत्य् अपि सख्यम् आख्यायते । ततश् चासौ “भो भवत् इति वयस्यः” [ग्ध् ६.१४] इत्य् एवं गौतमस्मरणाद् वाच्यः । एवं **कलाभृतां **गीतज्ञानां पञ्चभिर् अब्दैः सख्यम् आख्यायते वेदाध्यायिनां **त्र्यब्दपूर्वं **त्र्यब्दाधिकं त्रिवर्षज्येष्ठेन सख्यम् । ज्ञातिषु पुनर् अप्य् **अल्पेनैव **कालेन । यत्र वर्षव्यवहारो नास्ति तेन सख्यम् अन्यथा सर्वत्रात्र ज्येष्थत्वव्यवहारः ॥ २.१३४ ॥

ब्राह्मणं दशवर्षं तु शतवर्षं तु भूमिपम् ।

पितापुत्रौ विजानीयाद् ब्राह्मणस् तु तयोः पिता ॥ १.१३५ ॥

ब्राह्मणम् इति । ब्राह्मणक्षत्रिययोः दशवर्षशतवर्षवयसयोः अभिवादनादौ पितापुत्रव्यवहारः स्यात् । तयोर् मध्यात् पुनः ब्राह्मणः पितृस्थानीयः ॥ १.१३५ ॥

वित्तं बन्धुर् वयः कर्म विद्या भवति पञ्चमी ।

एतानि मानस्थानानि गरीयो यद् यद् उत्तरम् ॥ १.१३६ ॥

वित्तम् इति । धनज्ञातियवःश्रौतस्मार्तकर्माचरणविद्याः समानजातीयत्वे सति मान्यस्थानानि पूज्यत्वे करणीयानि । ततश् चावित्तस्य वित्तवान् मान्यः । यथैषां वित्तादीनां मध्यात् यद् यत् पश्चान् निर्दिष्टं तत् तत् पूर्वस्मात् पूर्वस्मात् गुरुतरम् । अतश् च वित्तवतां बन्धुमान् मान्य इत्य् अवतिष्ठते ॥ १.१३६ ॥

पञ्चानां त्रिषु वर्णेषु भूयांसि गुणवन्ति च ।

यत्र स्युः सो ऽत्र मानार्हः शूद्रो ऽपि दशमीं गतः ॥ १.१३७ ॥

**पञ्चानां **इति । त्रिषु वर्णेषु ब्राह्मणादिषु यस्य हीनजातीयस्यापि पञ्चानां वित्तादीनां मध्यात् भूयांसि बहूनि त्रीणि चत्वारि पञ्च वा भवन्ति न त्व् एकं द्वे वा तानि यदि गुणवन्ति प्रकृष्टानि भवन्ति तदा स उत्कृष्टजातेर् अपि मान्यः । एवं च “ब्राह्मणं दशवर्षं तु” इत्य् एतत् निर्गुणविषये समगुणविषये वावतिष्ठते । तथा शूद्रो ऽपि नवतिहायनातीतो द्विजातीनां मान्यः । एवं च वित्तबन्धुकर्माणि द्विजातीन् प्रति शूद्रस्य मानहेतवः । विद्या तु तस्य नैवास्ति

॥ १.१३७ ॥

चक्रिणो दशमीस्थस्य रोगिणो भारिणः स्त्रियाः ।

स्नातकस्य च राज्ञश् च पन्था देयो वरस्य च ॥ १.१३८ ॥

चक्रिण इति । चक्रयुक्तगन्त्र्यादियानारूढस्य अतिवृद्धातुरभारिकस्त्रीणां च राजशब्दसन्निधानाच् च ब्राह्मणस्यैव कृतसमावर्तनस्नानस्य भूपतिविवाहार्थप्रस्थितयोश् च गमनोपरोधिपथो ऽपक्रामेद् इति पूजाप्रकरणात् एषाम् एतत् पूजैकदेशविधानम् ॥ १.१३८ ॥

तेषां तु समवेतानां मान्यौ स्नातकपार्थिवौ ।

राजस्नातकयोश् चैव स्नातको नृपमानभाक् ॥ १.१३९ ॥

तेषाम् इति । तेषां तु पुनः चक्रादीनाम् एकवर्त्मनि वर्तिनां चक्रादिभिः प्रकृतेन पथो दानेन राजस्नातकौ मान्यौ । राजस्नातकयोः एकवर्त्मनि वर्तिनोः स्नातको मानं भजते

॥ १.१३९ ॥

उपनीय तु यः शिष्यं वेदम् अध्यापयेद् द्विजः ।

सकल्पं सरहस्यं च तम् आचार्यं प्रचक्षते ॥ १.१४० ॥

सोपचारत्वाद् आचार्यादिलक्षणं पूर्ववैचित्र्यार्थम् आह उपनीयेतियः शिष्यं उपनयनपूर्वकं कल्पसूत्रोपनिषत्सहितं वेदम् अध्यापयति तम् आचार्यं मन्वादय आहुः । **रहस्यस्य **वेदशब्देन ग्रहणे सति प्राधान्यात् पृथग् उपदेशः ॥ १.१४० ॥

एकदेशं तु वेदस्य वेदाङ्गान्य् अपि वा पुनः ।

यो ऽध्यापयति वृत्त्यर्थम् उपाध्यायः स उच्यते ॥ १.१४१ ॥

एकदेशम् इति । वेदभागं वेदाङ्गानि वा शिक्षाकल्पनिरुक्तव्याकरणज्योतिषछन्दांसि यो जीविकार्थम् अर्पणपूर्वम् **अध्यापयति स उपाध्याय उच्यते **॥ १.१४१ ॥

निषेकादीनि कर्माणि यः करोति यथाविधि ।

सम्भावयति चान्नेन स विप्रो गुरुर् उच्यते ॥ १.१४२ ॥

निषेकादीनीति । गर्भाधानादिकर्माणि यथाशास्त्रं यः करोति अन्नेन च सम्भावयति वर्धयति स विप्रो गुरुर् उच्यते । एवं च पितायं गुरुः निषेकग्रहणात् ॥ १.१४२ ॥

अग्न्याधेयं पाकयज्ञान् अग्निष्टोमादिकान् मखान् ।

यः करोति वृतो यस्य स तस्यर्त्विग् इहोच्यते ॥ १.१४३ ॥

अग्न्याधेयम् इति । आधानदर्शपूर्णमासाग्निष्टोमादिसोमयागान् यस्य कृतशास्त्रीयाचरणः सन् **यः करोति स तस्येह शास्त्रे ऋत्विग् उच्यते ** । तस्यापि मान्यत्वाद् इहोपदेशः, तद् उक्तं श्वशुरादि ऋत्विजो गुरून् इति ॥ १.१४३ ॥

य आवृणोत्य् अवितथं ब्रह्मणा श्रवणाव् उभौ ।

स माता स पिता ज्ञेयस् तं न द्रुह्येत् कदाचन ॥ २.१४४ ॥

**य आवृणोतीति **। आपूरयत्य् अवितथं विस्वरादिरहितं कृत्वा वेदेनोभौ कर्णौ स मातापितृवत् ज्ञेयः । तस्मै चाध्ययनोत्तरकाले ऽपि द्रोहं न कुर्यात् ॥ २.१४४ ॥

उपाध्यायान् दशाचर्य आचार्याणां शतं पिता ।

सहस्रं तु पितॄन् माता गौरवेणातिरिच्यते ॥ २.१४५ ॥

उपाध्यायान् इति । दशभ्य उपाध्यायेभ्य आचार्यो गौरवेण हेतुभूतेनाधिकी भवति । उपाध्यायपूजातः दशगुणा आचार्यस्य पूजा कार्येत्य् अर्थः । एवम् आचार्याणां शतं पिता गौरवेण्आधिको भवति यः सकलसंस्कारादिकर्ता । जनकमात्रपितृसहस्रात् सकलसंस्कारादिकारयित्री माता गौरवेणाधिकी भवति ॥ २.१४५ ॥

उत्पादकब्रह्मदात्रोर् गरीयान् ब्रह्मदः पिता ।

ब्रह्मजन्म हि विप्रस्य प्रेत्य चेह च शाश्वतम् ॥ २.१४६ ॥

**उत्पादकेति **। संस्कारादिकरणरहितोत्पादकाचार्ययोः पित्रोः आचार्याख्यः पिता प्रशस्ततरः । यस्माद् ब्रह्मग्रहणार्थं यज् जन्म उपनयनाख्यं विप्रस्य तद् इह लोके शाश्वतं नित्यं पारम्पर्येण मुक्तिनिमित्तत्वात् । अतश् च जनकमातृपित्राचार्यसन्निधाव् आचार्य एवादौ पूजनीयः । विप्रग्रहणं द्विजप्रदर्शनाच् च त्रयाणां प्रकृतत्वाच् च ॥ २.१४६ ॥

कामान् माता पिता चैनं यद् उत्पादयतो मिथः ।

सम्भूतिं तस्य तां विद्याद् यद् योनाव् अभिजायते ॥ २.१४७ ॥

आचार्यस् त्व् अस्य यां जातिं विधिवद् वेदपारगः ।

उत्पादयति सावित्र्या सा सत्या साजरामरा ॥ २.१४८ ॥

अत्रार्थवादः कामाद् इति । आचार्यस् त्व् इति । पितराव् एनं मिथः परस्परं कामाद् उत्पादयतो न तदुपकारचिकीर्षया । पुनः सम्भवमात्रं **तस्य **जानीयाद् यद् योनाव् असाव् उत्पद्यते । आचार्यः पुनः समस्तवेदाध्यापयिता यथाशास्त्रम् उपनयनाङ्गबूतया **सावित्र्या यां जातिं **यज् जन्म **अस्य **करोति **सा सत्या **स्यात् सत्यात्मका श्रौतादिकर्मनिमित्तत्वात् । सा अजरा अबाधका पुनस् तूद्भवे तस्यानपचयात्, **अमरा **अमरात्मकज्ञानाधिकारोत्पादनद्वारेणामरहेतुत्वात्

॥ २.१४७–४८ ॥

अल्पं वा बहु वा यस्य श्रुतस्योपकरोति यः ।

तम् अपीह गुरुं विद्याच् छ्रुतोपक्रियया तया ॥ २.१४९ ॥

अपरं गुरुलक्षणम् आह पूजार्थम् अल्पम् इति । **यस्य **कस्यचित् **श्रुतस्याल्पं बहु वा **यो बोधयति **तम् अपीह **पूजाप्रकरणे तेन श्रुतोपकारेण जानीयात् ॥ २.१४९ ॥

ब्राह्मस्य जन्मनः कर्ता स्वधर्मस्य च शासिता ।

बालो ऽपि विप्रो वृद्धस्य पिता भवति धर्मतः ॥ २.१५० ॥

न च वयोज्यैष्ठ्यं विद्यागुरोः पूजार्थम् अपेक्ष्यम्, यस्मात् ब्राह्मस्येति । उपनयनस्य कनीयः कर्तृत्वासम्भवात् तदुपलक्षिताध्यापनादि **कर्ता स्वधर्मस्य च **अयं धर्मम् इत्य् एवं बोधयिता **बालो ऽपि वृद्धस्यापि **धर्मार्थकर्मनिमित्तत्वेन पितृतुल्यो भवति ॥ २.१५० ॥

अध्यापयामास पितॄन् शिशुर् आङ्गिरसः कविः ।

पुत्रका इति होवाच ज्ञानेन परिगृह्य तान् ॥ २.१५१ ॥

ते तम् अर्थम् अपृच्छन्त देवान् आगतमन्यवः ।

देवाश् चैतान् समेत्योचुर् न्याय्यं वः शिशुर् उक्तवान् ॥ २.१५२ ॥

अज्ञो भवति वै बालः पिता भवति मन्त्रदः ।

अज्ञं हि बाल इत्य् आहुः पितेत्य् एव तु मन्तदम् ॥ २.१५३ ॥

अत्रार्थवादः परः प्रकृतिरूपः अध्यापयामासेति । इति । अज्ञ इति **। अङ्गिरसः पुत्रः कविर् नाम बालः सन् पितृपितृव्यादीन् अध्यापितवान् । तांश् च वेदादिज्ञानेन **हेतुभूतेन शिष्यत्वेन स्वीकृत्य कार्यार्थेन आह्वानादिकालेषु पुत्रका इत्य् उक्तवान् । ततस् ते पितरः तथाह्वानोत्पन्नक्रोधाः तम् अर्थं समागत्य पुत्रकशब्दाह्वानाख्यं किम् एतत् साधु इत्य् एवं देवान् पृष्टवन्तः । देवाश् चैतद्विचारार्थं समागत्य “युक्तं शिशुः युष्मान् उक्तवान्” इत्य् एवम् एतांस् तान् पितॄन् उक्तवन्तः । यतो ऽज्ञो मूर्खः स **बालो भवति **वृद्धो ऽपि सन् । यश् चाध्यापयिता स बालो ऽपि सन् पितृतुल्यो भवति । यतो ऽसमदन्ये अज्ञं बालम् इत्य् आहुः अध्यापयितारं च पितेत्य् एवं ब्रुवते ॥ २.१५१–५३ ॥

न हायनैर् न पलितैर् न वित्तेन न बन्धुभिः ।

ऋषयश् चक्रिरे धर्मं यो ऽनूचानः स नो महान् ॥ २.१५४ ॥

अतश् च **न हायनैर् **इति । न वयो भूयः शिरः पाण्दुर्यधनबन्धुभिः ज्यायस्त्वम् । अपि तु यो ऽध्यापनसमर्थः स श्रेष्ठ इत्य् अस्माकं मतम् इत्य् एवम् ऋषयो धर्मं व्यवस्थापितवन्तः ॥ २.१५४ ॥

विप्राणां ज्ञानतो ज्यैष्ठ्यं क्षत्रियाणां तु वीर्यतः ।

वैश्यानां धान्यधनतः शूद्राणाम् एव जन्मतः ॥ २.१५५ ॥

एवं च सति **विप्राणाम् **इति । **विप्राणां **ज्ञानेन श्रैष्ठ्यम्, क्षत्रियाणां पुनः पौरुषेण, वैश्यानां धान्यहिरण्यादेः, शूद्राणां वयस्तः ॥ २.१५५ ॥

न तेन वृद्धो भवति येनास्य पलितं शिरः ।

यो वै युवाप्य् अधीयानस् तं देवाः स्थावरं विदुः ॥ २.१५६ ॥

**येन **कारणेन वयोभूयिष्ठ्याख्येन अस्य पलितयुक्तं **शिरः न तेन वृद्धो भवति **। यस् तरुणो ऽपि सन् अधीतवेदो भवति **तं देवाः **वृद्धं मन्यन्ते इत्य् अभिधानं प्रकृतदार्ढ्यार्थम् ॥ २.१५६ ॥

यथा काष्ठमयो हस्ती यथा चर्ममयो मृगः ।

यश् च विप्रो ऽनधीयानस् त्रयस् ते नाम बिभ्रति ॥ २.१५७ ॥

यथेति । दारुमयो **यथा हस्ती **न युद्धादिसमर्थः यथा चर्ममयो मृगः आखेटकादाव् अकिञ्चित्करः, एवम् **अनधीयानो ब्राह्मणः **ब्राह्मणसम्पाद्यासु प्रतिग्रहादिक्रियासु । एवं च त्रयो ऽप्य् एते नाममात्रं धारयति । न तु हस्त्यादिसम्पाद्याः क्रियाः कुर्वन्ति ॥ २.१५७ ॥

यथा षण्ढो ऽफलः स्त्रीषु यथा गौर् गवि चाफला ।

यथा चाज्ञे ऽफलं दानं तथा विप्रो ऽनृचो ऽफलः ॥ २.१५८ ॥

यथा षण्ढ इति । यथा नपुंसकं **स्त्रीषु **गच्छन्न् अपि (गच्छद् अपि) अपत्यशून्यं यथा च स्त्रीगौः स्त्रीगवि गमनाभावाद् अपत्यफलशून्या यथा **चाज्ञे निष्फलं दानं तथा **वेदरहितो ब्राह्मणः अफलः परमात्मनो दृष्टादृष्टानुपकारित्वात् ॥ २.१५८ ॥

अहिंसयैव भूतानां कार्यं श्रेयो ऽनुशासनम् ।

वाक् चैव मधुरा श्लक्ष्णा प्रयोज्या धर्मम् इच्छता ॥ २.१५९ ॥

शियाचार्यप्रक्रमे अधुनाचर्यस्यापि किञ्चिन् नियमम् आह अहिंसयैवेति । “रज्ज्वा वेणुदलेन वा” इति शरीरपृष्टे ईषत्ताडनस्य वक्ष्यमाणत्वात् अतिताडनपरिहारेणैव भूतानां भार्यादीनाम् अपि भूतग्रहणान् न शिष्याणाम् एव प्रकृतानाम् आचार्येण वेदाध्ययनादि कर्तव्यम् । तदर्थं च वाग् एवानाक्रोशरूपानुच्चैर् वक्तव्या अनुशासनाद् धर्माद् धमम् इच्छता ॥ २.१५९ ॥

यस्य वाङ्मनसी शुद्धे सम्यग् गुप्ते च सर्वदा ।

स वै सर्वम् अवाप्नोति वेदान्तोपगतं फलम् ॥ २.१६० ॥

यस्मात् यस्येति । **यस्य वाङ्मनसी शुद्धे **विकाररहितौ सत्य् अपि न कालुष्यं गच्छतः । सम्यग् गुप्ते चोत्पन्ने न कथञ्चित् कालुष्येण तत् कार्यं कुरुतः **सर्वदा **यावज्जीवम् उपनिषदुक्तं मोक्षाख्यं फलम् अखिलं प्राप्नोति ॥ २.१६० ॥

नारुन्तुदः स्याद् आर्तो ऽपि न परद्रोहकर्मधीः ।

ययास्योद्विजते वाचा नालोक्यां ताम् उदीरयेत् ॥ २.१६१ ॥

अतश् च नारुन्तुद इति । मर्मस्पृक् अत्य्आर्तो पि न स्यात् न परहिंसार्थव्यापारबुद्धिः स्यात् । **यया **च **वाचा **लोकः एनं द्वेष्टि तां स्वर्गादिलोकप्रतिबन्धिकां नोच्चारयेत् ॥ २.१६१ ॥

सम्मानाद् ब्राह्मणो नित्यम् उद्विजेत विषाद् इव ।

अमृतस्येव चाकाङ्क्षेद् अवमानस्य सर्वदा ॥ २.१६२ ॥

सम्मानाद् इति । पूजातो **ब्राह्मणः **यावज्जीवं **विषाद् इव **खिद्येत । अमृतम् इव चावज्ञां सर्वदा काङ्क्षेत् ॥ २.१६२ ॥

सुखं ह्य् अवमतः शेते सुखं च प्रतिबुध्यते ।

सुखं चरति लोके ऽस्मिन्न् अवमन्ता विनश्यति ॥ २.१६३ ॥

सुखम् इति । यो वावज्ञातः स सुखं स्वपिति न ययावमन्तुः “अयुक्तं मया कृतम्” इति चित्तसम्क्षोभो भवति । एवं स च **सुखं **निद्रां जहाति । सुखं लोके व्यवहरति । न पुनर् अवमानकृत् सो ऽसाधु मया कृतम् इतीह लोके परलोके चापुण्याद् विनश्यति ॥ २.१६३ ॥

अनेन क्रमयोगेन संस्कृतात्मा द्विजः शनैः ।

गुरौ वसन् सञ्चिनुयाद् ब्रह्माधिगमिकं तपः ॥ २.१६४ ॥

एवं प्रसक्तानुप्रसक्तिकया रुषमात्रधर्मम् उक्त्वा अधुना प्रकृतम् आह अनेनेति । उक्तपरिपाटीसम्बन्धेन कृतोपनयनो **द्विजः **गुरुकुले **वसन् **वेदप्राप्तिप्रयोजनं तपोनियमाख्यं तपोऽर्जनम् आत्मसंस्कारं च **शनैः **अन्वहम् उपार्जयेत् ॥ २.१६४ ॥

तपोविशेषैर् विविधैर् व्रतैश् च विधिचोदितैः ।

वेदः कृत्स्नो ऽधिगन्तव्यः सरहस्यो द्विजन्मना ॥ २.१६५ ॥

तपोविशेषैर् इति । तपोविशेषैः उक्तवक्ष्यमाणैः अग्नीन्धनादिभिः नानाप्रकारैः व्रतैश् च प्रतिवेदं गृह्यशास्त्रचोदितैः सावित्र्यादिभिः **वेदः कृत्स्नः **समस्ताः वेदशाखामन्त्रब्राह्मणात्मिका द्विजातीनाम् अध्येतव्याः, एकदेशे ऽपि वेदशब्दप्रयोगदर्शनात् “उदाहरणे जिह्वाच्छेदः” इति च एकदेशे ऽपि स्मार्तव्यवहारात् । कृत्स्नग्रहणाद् अङ्गाध्ययनप्राप्तिः अर्थावबोधार्थत्वाद् अध्ययनविधेः सामर्थ्याल् लभ्यते । न हि अङ्गैर् विनार्थावबोधो घटते । **रहस्यम् **उपनिषत्, प्राधान्यात् पृथग्ग्रहणम् । पित्रादिप्रबन्धाय नैव च शाखाध्येतव्या, अन्यथा स्वशाखात्यागात् यः तं स्मरति । तथा च,

स्वसूत्रं यः परित्यज्य परसूत्रेण वर्तते ।

अप्रमाणम् ऋषिं कृत्वा सो ऽप्य् अधर्मेण युज्यते ॥

इति परिशिष्टेषु स्मर्यते । न पुनः शाखया पुरुषस्य गोत्रनियतः सम्बन्धः । अतो यैव येन शाखाधीता सैव तस्य स्वा शाखा तदर्थानुष्ठानविषयम् एव च (स्मरणम् यत् तु) स्वसूत्रं यः परित्यजति स एव वेदशाखात्यागीत्य् आह – तद् असत् । यथैव इदम् अस्माकं गोत्रम् इति प्रतिनियतगोत्रत्वस्मरणं एवम् इयम् अस्माकं शाखेति प्रतिनियतशाखात्वम् अपि स्मरन्ति तत्त्यागेनैव च शाखात्यागदोषं स्मरन्ति । तदर्थानुष्ठानं परित्यागविषयम् एव च स्वसूत्रं “यः परित्यज्य” इति । पित्रादिप्रबन्धा या सैव शाखाध्येतव्या ।

ननु प्रवचननिमित्ता इदानीन्तनाः काठक इत्य् एवमाद्याः समाख्याः कथं वयं कथा इत्य् एवमादिनियतो व्यपदेश उपपद्यते ।

सत्यम् । क एवम् आह । अर्थान्तरनिमित्तका एताः समाख्याः । को वा वयं कठा इत्य् एवमादेर् व्यपदेशस्यानित्यत्वम् आह । कथम् । प्रोक्ताध्ययननिमित्तकः इदानीन्तनो ऽयं व्यपदेशः । समाख्याश् च प्रवचननिमित्ताः तथापि समाख्यानाम् आविर्भावतिरोभावेषु सत्स्व् अपि शाखाया नित्यत्वात् नित्यसम्बन्धत्वस्मरणस्य न कदाचिद् धानिः । रहस्यम् उपनिषदः, आत्मज्ञानपरत्वेनासां प्राधान्यात् पृथग् उपदेशः ॥ २.१६५ ॥

वेदम् एव सदाभ्यस्येत् तपस् तप्स्यन् द्विजोत्तमः ।

वेदाभ्यासो हि विप्रस्य तपः परम् इहोच्यते ॥ २.१६६ ॥

प्रसङ्गात् यावज्जीवम् अध्ययनधर्मम् आह वेदम् इति । **तपः **यमनियमादि कर्तुम् इच्छन् ब्राह्मणः **वेदम् एव **यावज्जीवम् **अभ्यस्येत् **। यस्माद् **वेदाभ्यासः **तस्य तपो ऽन्तरेभ्यः प्रकृष्टं **तपः **शास्त्रे उच्यते । द्विजोत्तमस्य ग्रहणं (द्विजपर्दर्शनार्थम्) त्रयाणां प्रदर्शनार्थम् । प्रकृतत्वाद् एवार्थवादः ॥ २.१६६ ॥

आ हैव स नखाग्रेभ्यः परमं तप्यते तपः ।

यः स्रग्व्य् अपि द्विजो ऽधीते स्वाध्यायं शक्तितो ऽन्वहम् ॥ २.१६७ ॥

आ हैवेति । यत् कृतमाल्यादिको ऽपि ब्रह्मनियमपरित्यागेनापि **द्विजः **प्रत्यहं यथाशक्ति **स्वाध्यायम् अधीते स आ नखाग्रेभ्यः **निर्जीवनखाग्रव्यापकम् एव तपः करोति । **परं **तपोन्तरेभ्यः प्रकृष्टं तेषां नखानां व्यापकत्वात् । किं पुनः यो ऽयं नियमयुक्तो ऽधीत इति प्रकृतस्तुतिः । न तु यमनियमत्यागेन स्वाध्यायो ऽस्ति । शब्द आगमसूचकः ।

अनसूयश् च यो विप्रः परमं तस्य तत् तपः ।

यद् ऋचो ऽपि द्विजो ऽधीते स्वाध्यायं शक्तितो ऽन्वहम् ॥

वेदस्वीकरणं पूर्वं विचारो ऽभ्यसनं तपः ।

तद्दानं चैव शिष्येभ्यो वेदाभ्यासो हि पञ्चधा ॥ २.१६७ ॥

यो ऽनधीत्य द्विजो वेदम् अन्यत्र कुरुते श्रमम् ।

स जीवन्न् एव शूद्रत्वम् आशु गच्छति सान्वयः ॥ २.१६८ ॥

इति । **यो द्विज **उपनीतः सन् **वेदम् **अगृहीत्वैवाङ्गादौ यत्नं कुरुते स वेदानभिज्ञत्वात् आत्मपुत्रादिसंस्काराकरणेन जीवन्न् एव सान्वयः क्षिप्रं शूद्रतुल्यतां प्राप्नोति । द्विजग्रहणाच् च वेदमिश्रवेदाङ्गाध्ययने अनुपनीतस्य निषेधः । तथा च “नाभिव्याहारयेद् ब्रह्म” इति वेद एव निषेधो भविष्यति ॥ २.१६८ ॥

मातुर् अग्रे ऽधिजननं द्वितीयं मौञ्जिबन्धने ।

तृतीयं यज्ञदीक्षायां द्विजस्य श्रुतिचोदनात् ॥ २.१६९ ॥

इदानीं वेदाध्ययनम् एव तस्करणस्तुतिद्वारेण स्रोतम् इदम् आह मातुर् अग्रे ऽधिजननम् इति । मातुः सकाशात् प्रथमं पुरुषस्य जन्म । द्वितीयं मेखलानिबन्धनम् । **तृतीयं **यागार्थं दीक्षाकाले **द्विजस्य **सतः, “पुनर् वा एतम् ऋत्विजो गर्भं कुर्वन्ति यद् दीक्षयन्ति” इत्य् एवं श्रुतिचोदनात् ॥ २.१६९ ॥

तत्र यद् ब्रह्मजन्मास्य मौञ्जीबन्धनचिह्नितम् ।

तत्रास्य माता सावित्री पिता त्व् आचार्य उच्यते ॥ २.१७० ॥

तत्रेति । यस्मिन् जन्मत्रयमध्ये यत् ब्रह्मग्रहणार्थं पुंसो जन्म मेखलाबन्धनोपलक्षणार्थं **तस्य माता सावित्री पिता **पुनः आचार्यः वक्ष्यते इति रूपकभङ्ग्या जन्म समर्थयते ॥ २.१७० ॥

वेदप्रदानाद् आचायं पितरं परिचक्षते ।

न ह्य् अस्मिन् युज्यते कर्म किञ्चिद् आ मौज्ञिबन्धनात् ॥ २.१७१ ॥

**वेदप्रदानाद् **इति । वेदाध्यापनाद् आचार्यं पितरम् अस्याहुः यस्मात् तस्मिन् उपनयनात् प्राक् किञ्चिद् उत्कर्षहेतुभूतं कर्म अध्ययनादि **न युज्यते **। एवं च प्राग् उपनयनाद् अजातसमत्वात् युक्तं वेदप्रदानेनार्यजन्मत्वम् ॥ २.१७१ ॥

नाभिव्याहारयेद् ब्रह्म स्वधानिनयनाद् ऋते ।

शूद्रेण हि समस् तावद् यावद् वेदे न जायते ॥ २.१७२ ॥

एवं च प्राग् उपनयनाद् अध्ययनप्रतिषेधे सति प्रतिप्रसवम् आह नाभिव्याहारयेद् इति । स्वधाशब्दाख्यमन्त्रसाधनं कर्म निनीयते पितॄन् प्रति प्राप्यते येन तत् स्वधानिनयनम्, पित्र्यं कर्म तद् वर्जयित्वा न वेदम् उदाहारयेत् । यस्मात् वेदनिमित्तं यावन् न जायते यावद् उपनीतस् तावत् शूद्रतुल्यो ऽसौ । एतद् एव ज्ञापकम् उपनीतपितृप्रसवे (अनुपनीतपितृमरणे) सत्य् एकोद्दिष्टं श्राद्धादिकरणाधिकारस्य ॥ २.१७२ ॥

कृतोपनयस्यास्य व्रतादेशनम् इष्यते ।

ब्रह्मणो ग्रहणं चैव क्रमेण विधिपूर्वकम् ॥ २.१७३ ॥

**कृतोपनयनसेति **। उपनीतस्य सतो ऽस्य आदौ स्वशास्त्राचोदितसावित्रादिव्रतोपदेश इष्यते । तत उक्तरूपवेदाध्ययनं स्वशाखागतमन्त्रब्राह्मणाध्ययनं क्रमेणोक्तं प्राणायामादिपूर्वकम् ॥ २.१७३ ॥

यद् यस्य विहितं चर्म यत् सूत्रं या च मेखला ।

यो दण्डो यच् च वसनं तत् तद् अस्य व्रतेष्व् अपि ॥ २.१७४ ॥

यद् इति । यस्य ब्रह्मचारिणो यज्जातीयानि चर्मोवीतमेखलादण्डवस्त्राण्य् उपनयने उक्तानि तज्जातीयान्य् एव नान्यानि प्रतिव्रतम् उपादेयानि । पूर्वोपात्तानां धारणोपदेशात् पुनस् तद्विधानम् अनर्थकम् इति तज्जातीयान्य् अन्यानि प्रतीयते । पूर्वेषां च कार्यानुपयोगात् विनष्टतुल्यत्वे सति अप्सु प्रास्येति प्रतिपत्तिः ॥ २.१७४ ॥

सेवेतेमांस् तु नियमान् ब्रह्मचारी गुरौ वसन् ।

सन्नियम्येन्द्रियग्रामं तपोवृद्ध्यर्थम् आत्मनः ॥ २.१७५ ॥

सेवेतेति । **ब्रह्मचारी **गुरुकुले वसन् इन्द्रियग्रामम् इन्द्रियसमूहं **नियम्य आतमस् तपोवृद्ध्यर्थं इमान् यमनियमान् **अनुतिष्ठेत् ॥ २.१७५ ॥

नित्यं स्नात्वा शुचिः कुर्याद् देवर्षिपितृतर्पणम् ।

देवताभ्यर्चनं चैव समिदाधानम् एव च ॥ २.१७६ ॥

नित्यम् इति । प्रत्यहं स्नात्वा शुचिः देवानां महेश्वरादीनाम् अङ्गिरःप्रभृतीनाम् ऋषीणां च प्रमीतानां च पित्रादीनाम् उदकदानं कुर्यात् । तथा देवतानां हरादीनां पुष्पादिनार्चनं सायम्प्रातर् अग्निसमिदाधानंकुर्यात् ॥ २.१७६ ॥

वर्जयेन् मधु मांसं च गन्धं माल्यं रसान् स्त्रियः ।

शुक्तानि यानि सर्वाणि प्राणिनां चैव हिंसनम् ॥ २.१७७ ॥

वर्जयेद् इति । माक्षिकमांसमाल्यस्त्रीप्राणिहिंसनानि **वर्जयेत् **तथा गन्धवद् द्रव्यं कर्पूरादि उद्रिक्तरसं च गुडादि । मधुनो रसशब्दग्रहणे ऽपि प्रायश्चित्तविशेषार्थं पृथग् उपदेशः । **शुक्तानि यानि **प्राप्तस्वरसानि कालपरिवासेनोदकादिद्रव्यान्तरकालपरिवासाभ्यां चाम्लीभवन्ति । सर्वग्रहणं पादपूरणम् । न त्व् अस्यार्थान्तरग्रहणे सामर्थ्यम् अस्ति । यत् तु गौतमीये “शुक्ता वाच” इति तत् वाक्शब्दसन्निधानात् शुक्तशब्दस्यार्थान्तरवृत्तित्वम् । इह चैवमभिप्रेते बुद्धिपूर्वकारी शुक्लाश् चैव गिरः सर्वा इत्य् एवम् अवेक्षते । यद्य् अपि “सर्वशुक्तानि चैवेह” इत्य् अनेन ब्रह्मचारिणो ऽपि प्रतिषेधसिद्धिः तथापीहाभिधानं स्वाध्यायाङ्गत्वार्थम् । एतेन प्रतिषेधेन भक्षणे पुरुषार्थो ऽतिक्रममात्रं स्यात् न विधिवैगुण्यं का वा गतिर् अनृतहिंसादिप्रतिषेधानाम् । पुनर् अभिधानस्यात्र चोपभोगार्थं मांसादिप्रतिषेधो न औषधार्थः । तथा च वसिष्ठेन सा “चान्याधीयीत कामाद् गुरोर् उच्छिष्टं भेषजार्थं प्राश्नीयात्” इति मांसाद्यभ्यनुज्ञानम् ॥ २.१७७ ॥

अभ्यङ्गम् अञ्जनं चाक्ष्णोर् उपानच्छत्रधारणम् ।

कामं क्रोधं च लोभं च नर्तनं गीतवादनम् ॥ २.१७८ ॥

अभ्यङ्गम् इति । अभ्यङ्गम् अञ्जनघृताद्यभ्यञ्जन्ओपानच्छत्रधारणकामक्रोध-परद्रव्यादिगीतवादनानि वर्जयेत् । **कामः **भोजनाद्यभिलाषातिशयः । मन्मथस्य स्त्रीग्रहणेन निषिद्धत्वात् ॥ २.१७८ ॥

द्यूतं च जनवादं च परिवादं तथानृतम् ।

स्त्रीणां च प्रेक्षणालम्भाव् उपघातं परस्य च ॥ २.१७९ ॥

द्यूतम् इति । अक्षादिक्रीडां जनैः सह कलहं परदोषादिकीर्तनम् असत्यं च स्त्रीणां च मैथुनसेवाशङ्कयालिङ्गनं परस्य च अर्थनाशाद्युपघातं च वर्जयेत् ॥ २.१७९ ॥

एकः शयीत सर्वत्र न रेतः स्कन्दयेत् क्वचित् ।

कामाद् धि स्कन्दयन् रेतो हिनस्ति व्रतम् आत्मनः ॥ २.१८० ॥

एक इति । नान्येन सह शयीत । सर्वत्र गुरुगृहे पितृगृहादौ । न च स्त्रीप्रयोगात् प्रकारान्तरेणापि रेतः प्रक्षारयेत् क्वचिद् अयोनाव् अपि । यस्माद् बुद्धिपूर्वं रेतः स्कन्दयन् आत्मनो ब्रह्मचर्यं खण्डयति ॥ २.१८० ॥

स्वप्ने सिक्त्वा ब्रह्मचारी द्विजः शुक्रम् अकामतः ।

स्नात्वार्कम् अर्चयित्वा त्रिः पुनर् माम् इत्य् ऋचं जपेत् ॥ २.१८१ ॥

स्वप्न इति । (यत्) **द्विजो ब्रह्मचारी **अबुद्धिपूर्वं **स्व्प्ने **रेत उत्सृज्य **स्नात्वार्कं **पुष्पादिना **अर्जयित्वा **त्रीन् वारान् “पुनर् माम् एत्व् इन्द्रियं” इत्य् एताम् ऋचं जपेत् । अस्य प्रायश्चित्तस्य प्रकरणोत्कर्षो रेतःसंरक्षणनियमान्तरेभ्यो ब्रह्मचारिणो गुरुत्वप्रख्यापनार्थः ॥ २.१८१ ॥

उदकुम्भं सुमनसो गोशकृन्मृत्तिकाकुशान् ।

आहरेद् यावद् अर्थानि भैक्षं चाहर् अहश् चरेत् ॥ २.१८२ ॥

उदकुम्भम् इति । उदकुम्भपुष्पगोमयमृद्दर्भान् गुर्वात्मनोः यावत्प्रयोजनम् आनयेत् भैक्षं प्रत्यहं **चरेत् **। नैकदिनाहृतेन पर्युषितेन स्नेहानियम [स्नेहयुक्त] शुक्तादिना परेद्युर् वर्तेत ॥ २.१८२ ॥

वेदयज्ञैर् अहीनानां प्रशस्तानां स्वकर्मसु ।

ब्रह्मचार्य् आहरेद् भैक्षं गृहेभ्यः प्रयतो ऽन्वहम् ॥ २.१८३ ॥

वेदयज्ञैर् इति । वेदवेदार्थानुष्ठानयुक्तानां स्वकर्मसु च वृत्त्यर्थेषु अध्यापनादिषु प्रशस्तानां स्ववृत्त्या जीवतां **गृहेभ्यो ब्रह्मचारी **शुचिः सन् प्रत्यहं **भैक्षम् आहरेत् **॥ २.१८३ ॥

गुरोः कुले न भिक्षेत न ज्ञातिकुलबन्धुषु ।

अलाभे त्व् अन्यगेहानां पूर्वं पूर्वं विवर्जयेत् ॥ २.१८४ ॥

गुरोर् इति । गुरुगृहे **न भिक्षेत **। तथा आत्मनः पितृमातृगृहेषु । यदि पुनर् एतद्व्यतिरिक्तगृहेभ्यो न लभ्यते **पूर्वं पूर्वं **परिहरेत् । प्रथमं बन्धुगृहे भिक्षेत । तदलाभे गुरुगृहे ॥ २.१८४ ॥

सर्वं वापि चरेद् ग्रामं पूर्वोक्तानाम् असम्भवे ।

नियम्य प्रयतो वाचम् अभिशस्तांस् तु वर्जयेत् ॥ २.१८५ ॥

सर्वम् इति । बन्धुगृहादिभ्यो ऽप्य् अलाभे चातुर्वर्ण्यादिष्व् आहरेत् । स जितेन्द्रियः सन् भिक्षावाक्यवर्जं मौनं **अभिशस्तान् **पुनः पातकित्वेन प्रसिद्धान् निश्चितपातकान् दण्डापूपकया पतितांश् च **वर्जयेत् **॥ २.१८५ ॥

दूराद् आहृत्य समिधः सन्निदध्याद् विहायसि ।

सायम्प्रातश् च जुहुयात् ताभिर् अग्निम् अतन्द्रितः ॥ २.१८६ ॥

दूराद् आहृत्येति । अरण्यात् समिध आहृत्येति गृह्यदर्शनात् । दूरस्य वा अपर्यवसितत्वात् अपरिगृहीताः समिध आनीय विहायसि आकाशे निधानासम्भवात् गृहपटकादौ स्थापयेत् । ताभिश् चानलसः सन् **सायम्प्रातर् **अग्निकार्यं कुर्यात् ॥ २.१८६ ॥

अकृत्वा भैक्षचरणम् असमिध्य च पावकम् ।

अनातुरः सप्तरात्रम् अवकीर्णिव्रतं चरेत् ॥ २.१८७ ॥

अकृत्वेति । प्रायश्चित्तगुरुत्वात् भैक्षाग्निकार्ये समुच्चिते । कामकारेण सप्ताहानि प्रबन्धेन **अनातुरः **सन् अकृत्वा **अवकीर्णी **प्रायश्चित्तं एकादशे वक्ष्यमाणं **चरेत् **। कथञ्चित् पुनः प्रत्येकव्यक्तिक्रमे गौतमीयम् अग्नीन्धनभैक्षचरणे सप्तरात्रम् अकृत्वा आज्यहोमं समिधो वा रेतस्य् आभ्याम् इति । अनातुर इत्य् आतुरस्य प्रायश्चित्तान्तरम् । न तु प्रायश्चित्ताभावः । एतावद् यतः प्रतीयते अनातुरस्येदं प्रायश्चित्तं न त्व् आतुरस्य व्यतिक्रमो नास्ति इति । वाह्यं (न हि) तत् अनातुरः स्वानि खानि न स्पृशेत् । इतिवन् नियमवाक्यगतं विशेषणम्, येनातुरस्यानधिकार इति गम्येत । अपि तु प्रायश्चित्तविशेषणं तस्माद् आतुरस्य प्रायश्चित्तान्तरं भवत्य् एव । अस्यापि प्रायश्चित्तस्य प्रकर्षेणोत्कर्षो लाघवार्थः । तत्र हि क्रियमाणे ब्रह्मचारिग्रहणं कर्तव्यं स्यात् ॥ २.१८७ ॥

भैक्षेण वर्तयन् नित्यं नैकान्नादी भवेद् व्रती ।

भैक्षेण व्रतिनो वृत्तिर् उपवाससमा स्मृता ॥ २.१८८ ॥

भक्षेणेति । ब्रह्मचारी **भक्षेण **यावद् ब्रह्मचर्यं प्राणयात्रां कुर्यात् । न त्व् एकसम्बन्धि अन्नम् अश्नीयात् । यस्माद् अस्य भक्षेण वृत्तिः उपवासतुल्यफलेति । एतन् नियमफलाभिधानार्थं च भैक्षेण वर्तयेद् इत्य् उक्तसङ्कीर्तनम् । न चानित्यत्वाशङ्क, प्रायश्चित्तस्योक्तत्वात् ।

न भक्षं परपरकः स्यान् न च भक्षं प्रतिग्रहः ।

सोमपानसमं भैक्षं तस्माद् भैक्षेण वर्तयेत् ॥

भैक्षस्यागमशुद्धस्य प्रोक्षितस्य हुतस्य च ।

यस् तस्य ग्रसते ग्रासान् तत् तस्य क्रतुभिः समाः ॥ २.११८ ॥

व्रतवद् देवदैवत्ये पित्र्ये कर्मण्य् अथर्षिवत् ।

कामम् अभ्यर्थितो ऽश्नीयाद् व्रतम् अस्य न लुप्यते ॥ २.१८९ ॥

व्रतवद् इति । दैवे कर्मणि व्रतार्थं मध्वादिवर्जितम् । श्राद्धे च ऋषिवत् अरण्यनीवारादि न ग्राम्यम्, प्रार्थितः सन् (अ) **कामं **इच्छते एकान्नं समश्नीयात् । नास्यैवं कुर्वतो व्रतलोपो भवति । ऋषिशब्दश् च वसिष्ठादौ प्रसिद्धप्रयोगो न वैखानसे येन तदर्हान्नाभ्यनुज्ञाने चैकम् अप्य् उपभुञ्जीतेति मांसाशनाशङ्का स्यात् । श्राद्धभोजनस्याचाराधिकदुष्टत्वाद् ऋषिवद् इति नियमातिशयम् आह ॥ २.१८९ ॥

ब्राह्मणस्यैव कर्मैतद् उपदिष्टं मनीषिभिः ।

राजन्यवैशयोस् त्व् एवं नैतत् कर्म विधीयते ॥ २.१९० ॥

ब्राह्मनस्येति । **एतद् **दैवपित्र्यैकान्नभोजनाख्यं **कर्म ब्राह्मणस्यैव **मन्वादिभिः स्मृतम् । क्षत्रियवैश्ययोः पुनः **नैतत् कर्म **ब्रुवते भैक्षस्य प्रतिग्रहप्रकारत्वे ऽपि । ब्रह्मचारित्वं च प्रकरणात् क्षत्रियवैश्ययोर् अपि । ब्रह्मचारिणो भैक्ष्यभोजनाभ्यनुज्ञाने सति तदपवादैकान्नभोजने ऽपि तयोर् अपि प्रस्तुतत्वात् प्रतिग्रहस्य च ब्रह्मचारिव्यतिरिक्तक्षत्रियविषये चरितार्थत्वात् प्राप्तौ सत्याम् एवं प्रतिषेधः ॥ २.१९० ॥

नोदितो गुरुणा नित्यम् अप्रनोदित एव वा ।

कुर्याद् अध्ययने योगम् आचार्यस्य हितेषु च ॥ २.१९१ ॥

नोदित इति । **गुरुणा **नियुक्तः अनियुक्तो वा गृहीताध्ययनभागाभ्यासयत्नम् आचार्यपरिचार्यायत्नं यावद् ब्रह्मचर्यं कुर्यात् ॥ २.१९१ ॥

शरीरं चैव वाचं च बुद्धीन्द्रियमनांसि च ।

नियम्य प्राञ्जलिस् तिष्ठेद् वीक्षमाणो गुरोर् मुखम् ॥ २.१९२ ॥

शरीरम् इति । देहवाक्चक्षुरादिबुद्धीन्द्रियमनांसि नियम्य बद्धाञ्जलिः सन् गुरोर् मुखं वीक्ष्यमानस् तिष्ठेत् ॥ २.१९२ ॥

नित्यम् उद्धृतपाणिः स्यात् साध्वाचारः सुसंवृतः ।

आस्यताम् इति चोक्तः सन् नासीताभिमुखं गुरोः ॥ २.१९३ ॥

नित्यम् इति । यावज्जीवं गुरुसन्निधौ वसेद् उद्धृतबाहुः सदाचारयुक्तो ऽनलसः स्यात् । गुरुणा उपविश्यताम् इति चोक्तः सन् गुरोः सम्मुखम् उपविशेत् ॥ २.१९३ ॥

हीनान्नवस्त्रवेषः स्यात् सर्वदा गुरुसन्निधौ ।

उत्तिष्ठेत् प्रथमं चास्य चरमं चैव संविशेत् ॥ २.१९४ ॥

हीनान्नवस्त्रवेष इति । गुर्वपेक्षया संस्कारपरिमाणादिना न्यूनान्नवस्त्रालङ्कारो यावज्जीवं गुरोः सन्निधाने स्यात् । शयनाच् च गुरूत्थानात् प्राग् उत्तिष्ठेत् । तत्स्वप्नानन्तरं शयीत ॥ २.१९४ ॥

प्रतिश्रणसम्भाषे शयानो न समाचरेत् ।

नासीनो न च भुञ्जानो न तिष्ठन् न पराङ्मुखः ॥ २.१९५ ॥

प्रतिश्रवणसम्भाषे इति । आज्ञाङ्गीकरणकार्यार्थसम्भाषणे शयितः उपविष्टः अश्नन्न् उत्थितः अनभिमुखो न कुर्यात् ॥ २.१९६ ॥

आसीनस्य स्थितः कुर्याद् अभिगच्छंस् तु तिष्ठतः ।

प्रत्युद्गम्य त्व् आव्रजतः पश्चाद् धावंस् तु धावतः ॥ २.१९६ ॥

पराङ्मुखस्याभिमुखो दूरस्थस्यैत्य चान्तिकम् ।

प्रणम्य तु शयानस्य निदेशे चैव तिष्ठतः ॥ २.१९७ ॥

कथं तर्हि । आसीनस्येतिपराङ्मुखस्येति । उपविष्टस्याज्ञां ददतः उत्थितः प्रतिश्रवणसम्भाषे कुर्यात् । उत्थितस्य च तदभिमुखं गत्वा, वेगेन गच्छतः तस्य पश्चाद् वेगेन गच्छन् । परावृत्तस्य अवस्थितस्य च **अभिमुखो **भूत्वा दूरावस्थितस्य समीपम् आगत्य, शयानस्य प्रह्वो भूत्वा निकटे च देशे **तिष्ठतः **॥ २.१९६–९७ ॥

नीचं शय्यासनं चास्य नित्यं स्याद् गुरुसन्निधौ ।

गुरोस् तु चक्षुर्विषये न यथेष्टासनो भवेत् ॥ २.१९८ ॥

तथैव नीचं शय्यासनम् इति । गुरुशय्याद्यपेक्षया ह्रस्वशय्यासनं यावज्जीवं गुरुसन्निधौ स्यात् । तथा गुरोश् चक्षुर्विषये न यथेष्टासनः स्यात् ॥ २.१९८ ॥

नोदाहरेद् अस्य नाम परोक्षम् अपि केवलम् ।

न चैवास्यानुकुर्वीत गतिभाषितचेष्टितम् ॥ २.१९९ ॥

नोदाहरेद् इति । गुरोर् असन्निधाने ऽपि पूजावाक्यपदरहितं नाम नोच्चारयेत् । गुरोर् गमनभाषणभोजनादिचेष्टां नानुकुर्यात् एवम् अस्मद्गुरुर् गच्छतीति ॥ २.१९९ ॥

गुरोर् यत्र परीवादो निन्दा वापि प्रवर्तते ।

कर्णौ तत्र पिधातव्यौ गन्तव्यं वा ततो ऽन्यतः ॥ २.२०० ॥

गुरोर् इति । यस्मिन् देशे गुरोः सदोषाभिधानम् असद्दोषकथनं वा केचन कुर्वन्ति कर्णौ तत्राच्छादनीयौ तस्मात् प्रदेशाद् अन्यत्र गन्तव्यम् । न चात्मना परीवादादि कर्तव्यम् ॥ २.२०० ॥

परीवादात् खरो भवति श्वा वै भवति निन्दकः ।

परिभोक्ता कृमिर् भवति कीटो भवति मत्सरी ॥ २.२०१ ॥

परीवादाद् इति । परीवादकर्ता जन्मान्तरे खर उत्पद्यते । **श्वा **च निन्दाकर्ता । अननुज्ञातगुरुधनोपजीवकः कृमिर् भवति । गुरुगुणासहनः **कीटः, **कृमेर् ईषदुपचितः प्राणि भवतीति पृथक्कथनम्, अत एव न कर्तव्यम् इति । न चाद्यार्थस्य लोकस्य पूर्वार्धवादित्वं युक्तम्, श्रुतशब्दानुपादानात् । उत्तराभ्यां च विध्यर्थाभ्यां साहचर्यात् । श्रवणनिषेधे दण्डापूपिकासिद्धः करणनिषेध इति चेत्, फलाभिधानं तर्हि कुतः सिद्धम्

॥ २.२०१ ॥

दूरस्थो नार्चयेद् एनं न क्रुद्धो नान्तिके स्त्रियाः ।

यानासनस्हश् चैवैनम् अवरुह्याभिवादयेत् ॥ २.२०२ ॥

दूरस्थ इति । दूरस्थः सन् परहस्तपुष्पप्रेषणेनाचार्यं नार्चयेत्, नाप्य् एनं प्रत्युपजातक्रोधम्, न च भार्याणां समीपस्थम् **अर्चयेत् **। यानासनस्थश् च यदा भवति तदा अवतीर्यैनम् अभिवादयेत् । यानासनस्थास् चैवैनं प्रत्युत्थायाभिवादयेत् । अनेन चावरुह्याभिवादयेत् । तत्र नीचयानासनात् अनुत्थायाप्य् अवरोहणं सम्भवति एतद् उक्तं प्रत्युत्थायाभिवादयेत् । गन्त्रीगवादियानासनस्थस्यापि चोत्थानं सम्भवति अत उक्तम् अवरुह्याभिवादयेद् इति ॥ २.२०२ ॥

प्रतिवातानुवाते च नासीत गुरुणा सह ।

असंश्रवे चैव गुरोर् न किञ्चिद् अपि कीर्तयेत् ॥ २.२०३ ॥

प्रतिवात इति । **प्रतिवातो **मुखीभूतः पुरोवर्ती गुरुदेशाच् छिष्यदेशं प्रति वायुः यस्मिन् प्रदेशे, यत्र चानुगतशिष्यः गुरुदेशं प्रतिवातः । तत्र पश्चाद् गुरुणा सह नासीत । तथा गुरुसन्निधाने यस्मिन् देशे गुरोः संश्रवः आकर्णनं नास्ति तत्रान्यस्य तत्रान्यस्य कस्यचित् **न किञ्चिद् अपि **कथयेत् ॥ २.२०३ ॥

गोऽश्वोष्ट्रयानप्रासादप्रस्तरेषु कटेषु च ।

आसीत गुरुणा सार्धं शिलाफलकनौषु च ॥ २.२०४ ॥

गोश्वोष्ट्रयानप्रासादप्रस्तरेष्व् इति । **गोश्वोष्ट्रयाने युक्ते सति प्रासादे धवलगृहे तृणप्रस्तरे कटे च **नटादिकृते कुलाले शिलाफलकनौषु च गुरुणा सहासीत

शय्यासने ऽध्याचरिते श्रेयसा च समाचरेत् ।

इति प्रतिषेधस्यायं प्रतिप्रसवः ॥ २.२०४ ॥

गुरोर् गुरौ सन्निहिते गुरुवद् वृत्तिम् आचरेत् ।

न चानिसृष्टो गुरुणा स्वान् गुरून् अभिवादयेत् ॥ २.२०५ ॥

गुरोर् इति । आचार्यगुरुर् यदा शिष्यस्य सन्निहितो भवति तदा तस्याप्य् आचार्यवत् वर्तेत । तथा आचार्यगृहे ऽवस्थितः तेनाननुज्ञातः स्वयोनिगुरून् अभिवादयेत् ॥ २.२०५ ॥

विद्यागुरुष्व् एवम् एव नित्या वृत्तिः स्वयोनिषु ।

प्रतिषेधत्सु चाधर्माद् धितं चोपदिशत्स्व् अपि ॥ २.२०६ ॥

विद्यागुरुष्व् एवेम् एवेति । आचार्याद् अन्येषु उपाध्यायादिषु **विद्यागुरुष्व् एवम् एव **वर्तेत । तथा स्वयोनिषु गुरुषु अधर्मनिवर्तकौषधाद्युपदेष्टृष्व् एव नित्या वृत्तिः ॥ २.२०६ ॥

श्रेयःसु गुरुवद् वृत्तिः नित्यम् एव समाचरेत् ।

गुरुपुत्रे तथाचार्ये गुरोश् चैव स्वबन्धुषु ॥ २.२०७ ॥

**श्रेयःसु **स्वापेक्षया विद्यादिभिर् अधिकेषु आचार्येष्व् इति (आर्येष्व् इति) गुरुपुत्रविशेषणम् । अनेन विशेषणेन स्वापेक्षायाधिकवयस्केषु स्वसमानजातिषु उत्कृष्टजातिषु परमावस्थेषु च गुरुपुत्रेषु गुरुवद् वृत्तिम् आचरेद् इत्य् अभिप्रायो मनोर् बोध्यः । गुरोश् चैव स्वबन्धुषु गुरोः पितृव्यादिषु ॥ २.२०७ ॥

बालः समानजन्मा वा शिष्यो वा यज्ञकर्मणि ।

अध्यापयन् गुरुसुतो गुरुवन् मानम् अर्हति ॥ २.२०८ ॥

बाल इति । ब्रह्मचारिणः कनीयान् समः यज्ञविद्यादौ वा शिष्यः तथा अध्यापयन् गुरुसुतो गुरुवत् पूजाम् अर्हति । न त्व् अध्यापयितृत्वाद् एवास्य गुरुवृत्तिः सैद्धैव विद्यागुरुष्व् एवम् एवम् इति । न च कनीयस्त्वापेक्षया शैशवाख्या(प)नस्य दर्शितत्वात् । सत्यम् । किं तु “शिष्यो वा यज्ञकर्मणि” इत्य् उक्तो ऽध्यापयतो (व्य) ऽर्थशिष्यत्वात् अप्राप्ताशङ्कायाम् इदं वचनम् । इदम् एव ज्ञापकं ग्रन्थगुरोर् अर्थगुरुर् गरीयान् ॥ २.२०८ ॥

उत्सादनं च गात्राणां स्नापनोच्छिष्टभोजने ।

न कुर्याद् गुरुपुत्रस्य पादयोश् चावनेजनम् ॥ २.२०९ ॥

उत्सादनम् इति । उद्वर्तनस्नापनोच्छिष्टभोजनपादधावनानि **गुरुपुत्रस्य **न कार्याणि । अस्माद् एव प्रतिषेधात् गुरोर् एतत् अनुक्तम् अपि कर्तव्यम् इत्य् अवसीयते ॥ २.२०९ ॥

गुरुवत् प्रतिपूज्याः स्युः सवर्णा गुरुयोषितः ।

असवर्णास् तु सम्पूज्याः प्रत्युत्थानाभिवादनैः ॥ २.२१० ॥

गुरुवद् इति । गुरोः सजातीया भार्याः गुरुवत् पूजनीयाः । विजातीयाः पुनः प्रत्युत्थानाभिवादनमात्रेण ॥ २.२१० ॥

अभ्यञ्जनं स्नापनं च गात्रोत्सादनम् एव च ।

गुरुपत्न्या न कार्याणि केशानां च प्रसाधनम् ॥ २.२११ ॥

अभ्यञ्जनम् इति । अभ्यङ्गस्नापनोद्वर्तनकेशरचा गुरुभार्याया न कार्याः ॥ २.२११ ॥

गुरुपत्नी तु युवतिर् नाभिवाद्येह पादयोः ।

पूर्णविंशतिवर्षेण गुणदोषौ विजानता ॥ २.२१२ ॥

गुरुपतीति । तरुणी गुरुभार्या यूना कामं सुखदुःखे जानता पादोपसङ्ग्रहपूर्वकं **नाभिवाद्या **॥ २.२१२ ॥

स्वभाव एष नारीणां नराणाम् इह दूषणम् ।

अतो ऽर्थान् न प्रमाद्यन्ति प्रमदासु विपश्चितः ॥ २.२१३ ॥

स्वभाव इति । स्वरूपम् एतत् स्त्रीणां यन् मनुष्याणां स्मरोद्रेकजननम् । अतो ऽस्माद् धेतोः प्राज्ञः न स्पर्शनादिप्रमादं भजते ॥ २.२१३ ॥

अविद्वांसम् अलं लोके विद्वांसम् अपि वा पुनः ।

प्रमदा ह्य् उत्पथं नेतुं कामक्रोधवशानुगम् ॥ २.२१४ ॥

यतः कामक्रोधविधेयं पुरुषं सम्यक् शास्त्रज्ञं वा लोके अधर्ममार्गं नेतुं स्त्रियो ऽलम् समर्थाः ॥ २.२१४ ॥

मात्रा स्वस्रा दुहित्रा वा न विविक्तासनो भवेत् ।

बलवान् इन्द्रियग्रामो विद्वांसम् अपि कर्षति ॥ २.२१५ ॥

मत्रेति । मातृभगिनीदुहितृभिर् अपि सह विजने न आसीत । यतो ऽप्रधृष्य इन्द्रियसमूहः शास्त्रज्ञम् अपि प्रसङ्गात् च्यावयति ॥ २.२१५ ॥

कामं तु गुरुपत्नीनां युवतीनां यवा भुवि ।

विधिवद् वन्दनं कुर्याद् असाव् अहम् इति ब्रुवन् ॥ २.२१६ ॥

कामम् इति । **गुरुपत्नीनां युवा **वन्दनं भुवि व्यत्यस्तपाणिना इति अनेन विधिना असाव् अहम् इति ब्रुवन् इत्य् उक्तरूपेनाभिवादनं कुर्यात् ॥ २.२१६ ॥

विप्रोष्य पादग्रहणम् अन्वहं चाभिवादनम् ।

गुरुदारेषु कुर्वीत सतां धर्मम् अनुस्मरन् ॥ २.२१७ ॥

विप्रोष्येति । प्रवासप्रत्यागतः पादोपसं**ग्रहणं **प्रत्यहं पुनर् अभिवादनमात्रं गुरुभार्यासु कुर्यात् । एष एव साध्वाचार इति सञ्चिन्तयन् ॥ २.२१७ ॥

यथा खनन् खनित्रेण नरो वार्य् अधिगच्छति ।

तथा गुरुगतां विद्यां शुश्रूषुर् अधिगच्छति ॥ २.२१८ ॥

युक्तम् एतत् पुत्रदारादिपर्यन्तं गुरुपरिचरणं यस्मात् यथेति । यथा कुद्दालादिना खनित्रेण महता यत्नेन खनन् नरः पातालगतम् उदकं प्राप्नोति एवम् आचार्यस्थां **विद्यां **परिचरणशीलः प्राप्नोति न त्व् आलस्यात् ॥ २.२१८ ॥

मुण्डो वा जटिलो वा स्याद् अथ वा स्याच् छिखाजटः ।

नैनं ग्रामे ऽभिनिम्लोचेत् सूर्यो नाभ्युदियात् क्वचित् ॥ २.२१९ ॥

मुण्ड इति । लूनाखिलकेशो वा स्यात्, इतरेतरसंलग्नधृतसमस्तकेशो वा स्यात् **शिखैव **वा जटा अस्य यथाभूतः स्यात् । तथा च कुर्याद् येनास्य ग्रामनगरावस्थितस्योत्तरश्लोके शयानग्रहणाच् छयानस्य सूर्यो नास्तं यायात् नाभ्युदियात् क्वचित् कस्मिंश्चित् काले ॥ २.२१९ ॥

तं चेद् अभ्युदियात् सूर्यः शयानं कामचारतः ।

निम्लोचेद् वाप्य् अविज्ञानाज् जपन्न् उपवसेद् दिनम् ॥ २.२२० ॥

तम् इति । तं ब्रह्मचारिणम् इच्छातः सुप्तं यदि **सूर्यः **उदयेनाभिव्याप्तं कुर्यात्, तस्य वा शास्त्रार्थापरिज्ञानात् शयानस्य यद्य् अस्तं यायात् तदा “जपन् सावित्रीम्” इति गौतमस्मरणात् सावित्रीं जपन् दिनं नाश्नीयात् । अस्यापि प्रायश्चित्तस्य प्रकरणोत्कर्षो लाघ्वार्थम् । तत्र हि क्रियमाणे ब्रह्मचारिग्रहणं कर्तव्यं स्यात् ॥ २.२२० ॥

सूर्येण ह्य् अभिनिम्लुक्तः शयानो ऽभ्युदितश् च यः ।

प्रायश्चित्तम् अकुर्वाणो युक्तः स्यान् महतैनसा ॥ २.२२१ ॥

अत्रार्थवादः । सूर्येण ह्य् अभिनिम्लुक्त इति । सूर्येनाभिनिम्लुक्तः निम्लोचनेनास्तं गमनेन शयानः सन् अभिव्याप्तः अनन्तरोक्तं प्रायश्चित्तम् अकुर्वाणो महत् पापेन युक्तः स्यात् ॥ २.२२१ ॥

आचम्य प्रयतो नित्यम् उभे सन्ध्ये समाहितः ।

शुचौ देशे जपञ् जप्यम् उपासीत यथाविधि ॥ २.२२२ ॥

यत एवम् अतः आचम्येति । **प्रयतः **शुचिः सन् **समाहितः **संयतेन्द्रियः उपस्पृश्य **शुचौ देशे जपं **कुर्वन् सन्ध्योपासनोक्तविधिना “यावज्जीवम् उभे सन्ध्ये सेवेत” इति सन्ध्यालोपप्रायश्चित्तप्रसङ्गेनायं सन्ध्योपासनानुवादः । प्रयतत्वं समाहितत्वं शुचिदेशे विध्यर्थम् ॥ २.२२२ ॥

यदि स्त्री यद्य् अवरजः श्रेयः किञ्चित् समाचरेत् ।

तत् सर्वम् आचरेद् युक्तो यत्र चास्य रमेन् मनः ॥ २.२२३ ॥

**यदीति **। स्त्रीश्ऊद्राव् अपि यच् छ्रेयो वक्ष्यमाणं शास्त्रविरुद्धम् अनुतिष्ठतः तद् अपि तयोः सकाशात् दृष्ट्वा युक्तो यत्नवान् अनुतिष्ठेत् । तत्या यत्र च शास्त्रीयपदार्थे जपादौ **मनो ऽस्य **परितुष्येत् तत् समाचरेत् ॥ २.२२३ ॥

धर्मार्थाव् उच्यते श्रेयः कामार्थौ धर्म एव च ।

अर्थ एवह वा श्रेयस् त्रिवर्ग इति तु स्थितिः ॥ २.२२४ ॥

“श्रेय आचरेद्” इत्य् उक्तम्, किं तच् छ्रेय इत्य् अत आह धर्मार्थाव् इति । धर्मार्थौ श्रेय इति कैश्चिद् **उच्यते **। परलोकेहलोकयोः यथाक्रमं तयोः कर्मनिमित्तत्वात् । कर्मार्थाव् इत्य् परैः कथ्यते, प्रत्यक्षतः तयोर् एव पुरुषार्थसाधकत्वोपलभ्यात् धर्म एवेत्य् अन्यैः भाष्यते अर्थकामयोस् तन्मूलत्वश्रवणात् । अर्थ एवेहलोके श्रेय इत्य् अन्यैः अभिधीयते । तत एव धर्मकामसिद्धेः । एवं मतान्तराण्य् उक्त्वा स्थितपक्षम् आह त्रिवर्ग इति तु स्थितिर् इति । धर्मार्थकामरूपत्र्यात्मको वर्गः श्रेय इत्य् उच्यते । इत्य् एष निश्चयः । परस्पराविरोधेन त्रयाणाम् अपि पुरुषार्थसाधकत्वात् । न च ब्रह्मचारिणः कामसेवनम् अतो नोपदिश्यते श्रेयःपदार्थनिरूपणपरत्वात् ॥ २.२२४ ॥

आचार्यश् च पिता चैव माता भ्राता च पूर्वजः ।

नार्तेनाप्य् अवमन्तव्या ब्राह्मणेन विशेषतः ॥ २.२२५ ॥

**आचार्यश् च पिता चैवेति **। **आचार्यपितृमातृज्येष्ठभ्रातरः **पीडितेनापि क्षत्रियादिना **नावमाननीयाः **विशेषतो ब्राह्मणेन नान्येषां तन्मूलत्वाद् धर्मानुष्ठानस्यातिप्रसङ्गः स्याद् यस्माद् इति ॥ २.२२५ ॥

आचार्यो ऽब्रह्मणो मूर्तिः पिता मूर्तिः प्रजापतेः ।

माता पृथिव्या मूर्तिस् तु भ्राता स्वो मूर्तिर् आत्मनः ॥ २.२२६ ॥

आचार्यो ब्रह्मणो मूर्तिर् इति । ब्रह्मोपदेशोत्पादनसाधारणैकोदरनिवासालम्बनम् एतद् एषां ब्रह्मादिशरीरत्वाभिधानं प्रकृतविध्यर्थवादार्थं ब्रह्माप्रजापती परमात्महिरण्यगर्भो **स्वः **सोदर्यः ॥ २.२२६ ॥

यं मातापितरौ क्लेशं सहेते सम्भवे नृणाम् ।

न तस्य निष्कृतिः शक्या कर्तुं वर्षशतैर् अपि ॥ २.२२७ ॥

**सम्भवे **गर्भग्रहणे सति तदनन्तरम् एवानवरतं यद् दुःखम् अपत्यानां सम्बन्धि मातापितराव् अनुभवतः । तस्यानेकवर्षशतं प्रत्युपकारकरणेनापि आनृण्यं प्राप्तुं न शक्यते किम् उतैकजन्मनेति ॥ २.२२७ ॥

तपोनित्यं प्रियं कुर्याद् आचार्यस्य च सर्वदा ।

तेष्व् एव त्रिषु तुष्टेषु तपः सर्वं समाप्यते ॥ २.२२८ ॥

तस्मात् तपोनित्यम् इति । मातापित्राचार्याणां यावज्जीवं प्रियं कुर्यात् । न च तपोन्तरासक्त्या तत्प्रियोपेक्षया कार्या। तस्मात् **तेष्व् एव **च तुष्टेषु सर्वं तपःफलं सम्यक् प्राप्यते

॥ २.२२८ ॥

तेषां त्रयाणां शुश्रूषा परमं तप उच्यते ।

न तैर् अनभ्यनुज्ञातो धर्मम् अन्यं समाचरेत् ॥ २.२२९ ॥

यत एवम् अतः तेषाम् इति । तेषां मात्रादीनां रयाणां परिचर्या तपोऽन्तरेभ्यः प्रकृष्टं तपः मन्वादिभिः कथ्यते । एवं च **तैर् अनुज्ञातः **नित्यनैमित्तकवर्जम् **अन्यं धर्मं **नाचरेत् ॥ २.२२९ ॥

त एव हि त्रयो लोकास् त एव त्रय आश्रमाः ।

त एव हि त्रयो वेदास् त एवोक्तास् त्रयो ऽग्नयः ॥ २.२३० ॥

यस्मात् **त **इति । पृथिव्यन्तरिक्षब्रह्मलोकावाप्तिहेतुत्वात् तच्छुश्रूषायाः **त एव त्रयो लोका **इत्य् उच्यन्ते । एवं च ब्रह्मचर्यव्यतिरिक्ताश्रमत्रयतुल्यफलत्वात् तत्सेवायाः **त एव त्रय आश्रमाः **। वेदत्रयजपतुल्यफलत्वात् तत्परिचर्यायाः **त एव त्रयो वेदाः **। अग्निसम्पाद्यकर्मतुल्यफलत्वात् तदाराधनायाः त एव त्रयो ऽग्नयः । इति मन्वादिभिर् उक्ता इति पूर्वविध्यर्थवादः ॥ २.२३० ॥

पिता वै गार्हपत्यो ऽग्निर् माताग्निर् दक्षिणः स्मृतः ।

गुरुर् आहवनीयस् तु साग्नित्रेता गरीयसी ॥ २.२३१ ॥

पिता वै गार्हपतो ऽग्निर् इति । गार्हपत्याद् हविषां सम्भवः, अस्य च पितुः सकाशात् । दक्षिनाग्नेश् च गुणत्वम्, मातुश् च पितृपरतन्त्रत्वम् । आहवनीयस्य यागनिर्वर्तक्त्वं प्राधान्यम् । आचार्यस्याप्य् अखिलपुरुषार्थकारित्वात् प्राधान्यम् इत्य् एव । किञ्चित् सामान्यम् आश्रित्यायम् एषां अग्निव्यपदेशः । अग्निभ्यश्चैषाम् उपकरोति **साग्नित्रेता **त्राणार्थम् इव गुरुतरेति । अयम् अप्य् अर्थवादः ॥ २.२३१ ॥

त्रिष्व् अप्रमाद्यन्न् एतेषु त्रीन् लोकान् विजयेद् गृही ।

दीप्यमानः स्ववपुषा देववद् दिवि मोदते ॥ २.२३२ ॥

त्रिष्व् इति । एतेषु त्रिषु शुश्रूषायाम् अस्खलन् **त्रीन् लोकान् **वक्ष्यमाणान् जयेत् **गृही **आधिपत्येन स्वीकुर्यात् । ततः स्वदेहेन कान्तियुक्तेन ज्वलनादित्यादिदेववत् सुखं द्युलोके भवति । गृहस्थस्याप्य् अयं धर्मः इति दर्शयितुं गृहीत्य् उक्तम् ॥ २.२३२ ॥

इमं लोकं मातृभक्त्या पितृभक्त्या तु मध्यमम् ।

गुरुशुश्रूषया त्व् एवं ब्रह्मलोकं समश्नुते ॥ २.२३३ ॥

इमम् इति । मातृपित्राचार्यशुश्रूषाभिः पृथिव्यन्तरिक्षब्रह्मलोकान् प्राप्नोति ॥ २.२३३ ॥

सर्वे तस्यादृता धर्मा यस्यैते त्रय आदृताः ।

अनादृतास् तु यसैते सर्वास् तस्याफलाः क्रियाः ॥ २.२३४ ॥

सर्व इति । **सर्वे **यागादयो **धर्माः तस्य **फलदानोन्मुखा भवन्ति येन मातृपित्राचार्या **आदृताः **आराधिताः । येन पुनस् एते न परितोषिताः **तस्य सर्वा **यागादिक्रिया **निष्फला इति **शुश्रूषाविध्यर्थवादः ॥ २.२३४ ॥

यावत् त्रयस् ते जीवेयुस् तावन् नान्यं समाचरेत् ।

तेष्व् एव नित्यं शुश्रूषां कुर्यात् प्रियहिते रतः ॥ २.२३५ ॥

मातृपित्राचार्येषु **जीवत्सु अन्यं धर्मं नाचरेत् **। किं तर्हि । तेष्व् एव सर्वदा वर्तमानभविष्यदुपकारतः कुर्याद् इति प्रकृतविध्यर्थ्वादः । “तेषां त्रयाणाम्” इत्य् एतत्सिद्धस्यैवस्य पुनर् अभिधानं प्रकृतविधिदार्ढ्यार्थम् ॥ २.२३५ ॥

तेषाम् अनुपरोधेन पारत्र्यं यद् यद् आचरेत् ।

तत् तन् निवेदयेत् तेभ्यो मनोवचनकर्मभिः ॥ २.२३६ ॥

तेषाम् इति । तच्छुश्रूषाविरोधेन परलोकार्थं यागार्थं यद् यद् आचरेत् तत् तद् एषां तत्फलं स्याद् इत्य् एवं मनोवाक्कायव्यापारेण तेभ्यो दद्यात् ॥ २.२३६ ॥

त्रिष्व् एतेष्व् इति कृत्यं हि पुरुषस्य समाप्यते ।

एष धर्मः परः साक्षाद् उपधर्मो ऽन्य उच्यते ॥ २.२३७ ॥

त्रिष्व् इति । यस्मान् मात्रादिष्व् आराधितेषु यावत् किञ्चिद् यागादिकर्तव्यं तत् सर्वं **पुरुषस्य **परिपूर्णं भवति । यस्माद् **एष साक्षात् **प्रकृष्टो **धमः **अग्निहोत्रादिः गौण इति मन्वादिभिर् उच्यते इति प्रकृतविध्यर्थवादः ॥ २.२३७ ॥

श्रद्दधानः शुभां विद्याम् आददीतावराद् अपि ।

अन्त्याद् अपि परं धर्मं स्त्रीरत्नं दुष्कुलाद् अपि ॥ २.२३८ ॥

श्रद्दधान इति । श्रद्धोपेतः प्रकृष्टां विद्याम् उक्तक्रमात्मज्ञानाद्युपदेशं क्षत्रियादेर् निकृष्टजातीयाद् अपि गृह्णीयात्, शूद्राद् अपि प्रकृष्टं धर्मं शास्त्राविरुद्धं तेन कुतो ऽपि ज्ञातं शिष्येत् । यत् “यदि स्त्री यद्य् अवरजः” इत्य् उक्तम्, तन् न, ततः शिक्xअयन्त्य् अपि (तु) तदनुष्ठानदर्शनेनानुष्ठानम् । उत्कृष्टां च अवैधव्यादिलक्षणोपेतां क्षत्रियकुम्भकारादि**कुलाद् अप्य् आददीत **॥ २.२३८ ॥

विषाद् अप्य् अमृतं ग्राह्यं बालाद् अपि सुभाषितम् ।

अमित्राद् अपि सद्वृत्तम् अमेध्याद् अपि काञ्चनम् ॥ २.२३९ ॥

विषाद् इति । विषाद् अपि तत्साधनकरसायनादिकरणेन अमृतं ग्राह्यम् । ग्रामादिप्रस्थितेन प्रशस्तवाक्यं बालोदीरितम् अपि अभीष्टार्थसंसिद्धेः सूचकत्वेन ग्राह्यम् । अमेध्यपतितम् अपि अकृतसंस्कारम् अपि **काञ्चनं ग्राह्यम् **॥ २.२३९ ॥

स्त्रियो रत्नान्य् अथो विद्या धर्मः शौचं सुभाषितम् ।

विविधानि च शिल्पानि समादेयानि सर्वतः ॥ २.२४० ॥

स्त्रियो रत्नानीतिशिल्पानि चाप्य् अदुष्टानीति । अत्र स्त्रीरत्नशौचचित्रकर्माद्य्अदुष्ट-शिल्पाभिधानार्थः, तथैतानि सदाश्रयाण्य् उपादेयान्य् एवम् ॥ २.२४० ॥

अब्राह्मणाद् अध्ययनम् आपत्काले विधीयते ।

अनुव्रज्या च शुश्रूषा यावद् अध्ययनं गुरोः ॥ २.२४१ ॥

अब्राह्मणाद् इति । ब्राह्मणाध्यापकाभावे आपत्काले उपात्कल्प इति वा पाठः । तस्मिन् अब्राह्मणाद् अध्ययनं ब्रह्मचारिण उपदिश्यते, अध्ययनधर्मत्वेन च शुश्रूषायाः प्राप्तत्वे सत्य् अपि पुनर्वचनस्य नियमार्थत्वाद् अनुगमनम् एव गुरोः शुश्रूषा नान्या, सा च यावद्वेदग्रहणम्, न पाठकाल एव, “प्राङ्मुख उपविश्य” इति गृह्यस्मरणात् । न तत्र गमनाभावात् । तत्र सत्य् अपि वर्णत्वेन सादृश्यत्वेन द्विजत्वेन च सदृशतरत्वात् “शूद्रशिष्यो गुरुश् चैव” इति च निषेधदर्शनात् इहाब्राह्मणशब्देन क्षत्रियवैश्याव् एवोच्येते न तु शूद्रः तथापि च “जीवेत् क्षत्रियधर्मेण स ह्य् अस्य प्रत्यनन्तरः” इत्य् आपदि एवं दर्शनात् इहापि प्रथमं क्षत्रियात् तदभावात् वैश्याद् इति वेदितव्यम् । अत्र गुरुशब्देनाभिधानात् शुश्रूषैकदेशस्य चाभ्यनुज्ञानात् न क्षत्रियवैश्ययोर् अप्य् एवंविधाध्येत्रध्यापनम् आचार्यस्याभिमतम् इत्य् अवसीयते । कथं तर्हि निषिद्धाध्यापनो ऽध्यापनगुरुः स्यात् शुश्रूष्यो वा अदृष्टार्थं चात्रैतद् । अनयोर् वृत्त्यर्थत्वे च,

यो लोभाद् अधमो जात्या जीवेद् उत्कृष्टकर्मभिः ।

इति प्रत्यवायस्य वक्ष्यमाणत्वात् ॥ २.२४१ ॥

नाब्राह्मणे गुरौ शिष्यो वासम् आत्यन्तिकं वसेत् ।

ब्राह्मणे वाननूचाने काङ्क्षन् गतिम् अनुत्तमाम् ॥ २.२४२ ॥

एवं वक्ष्यमाणस्य नैष्ठिकस्यापि अब्राह्मणाद् अध्ययनाद् यावज्जीवं तद् अगृहवासप्राप्तौ इदं तन्निषेधार्थम् आह **नेति **। नैष्ठिकः शिष्यो ऽब्राह्मणगुरुगृहे अध्यपनाचाराभिजनशून्यब्राह्मणगृहे वा सर्वोत्कृष्टां गतिम् इच्छन् यावज्जीविकं **वासं **न कुर्यात् ॥ २.२४२ ॥

यदि त्व् आत्यन्तिकं वासं रोचयेत् गुरोः कुले ।

युक्तः परिचरेद् एनम् आ शरीरविमोक्षणात् ॥ २.२४३ ॥

इदानीं नैष्ठिकब्रह्मचर्यविध्यर्थम् आह यदीतियदि पुनर् ब्रह्मचारी यावज्जीविकवासं गुरुगृहे इच्छेत् तदा यत्नवा भूत्वा शरीरपतनात् गुरुम् आराधयेत् इत्य् एष एव नैष्ठिक उच्यते । तथा च हारीतः: “निष्ठां चेद् गच्छति” इति । इतरस् तूपकुर्वाणक उच्यते । अध्यापनार्थं शुश्रूषाकरणं प्रवृत्तत्वात् । न चात्र “यावज्जीवम् अग्निहोत्रं जुहुयाद्” इत्य् एवमादिश्रुत्या बाध आशङ्कनीयः “ब्रह्मचार्य् आचार्यकुलावासी तृतीयो ऽत्यन्तम् आत्मानम् आचार्यकुले ऽवसादयन्” इत्य् अस्याप्य् एतच् छ्रुतिमूलत्वात् ॥ २.२४३ ॥

आ समाप्तेः शरीरस्य यस् तु शुश्रूषते गुरुम् ।

स गच्छत्य् अञ्जसा विप्रो ब्राह्मणः सद्म शाश्वतम् ॥ २.२४४ ॥

अस्य फलम् आह आ समाप्तेर् इति । यावच् छरीरं यो गुरुं परिचरति **स ब्रह्मलोकं आ महाप्रलयाद् अनश्वरं अञ्जसा **स्पष्टेन मार्गेण गत्यन्तराव्यवहितेन **गच्छति **। विप्रग्रहणं प्रदर्शनार्थम्, त्रयाणां प्रकृतत्वात् ॥ २.२४४ ॥

न पूर्वं गुरवे किञ्चिद् उपकुर्वीत धर्मवित् ।

स्नास्यांस् तु गुरुणाज्ञप्तः शक्त्या गुर्वर्थम् आहरेत् ॥ २.२४५ ॥

न पूर्वम् इति । स्नानपूर्वम् अगृहीतवेदः शिष्यो धनम् आहरन् यथा (यदा) न (धनं विना) अध्यापयामीत्य् एवं गुरुणादिष्टः न किञ्चिद् अपि गुरवे दद्यात्, भृतकाध्यापकत्वप्रसङ्गात् । अत एवाह धर्मवित् । अपणपूर्वत्वे ऽनिषेधः “धर्मार्थौ यत्र न स्याताम्” इत्य् उक्तत्वात् । तथा च आपस्तम्बः- “यदाचार्यं भोजयित्वा शेषम् अन्नम् अश्नाति हविर् उत्कृष्टम् एव तत् यद् अन्यानि द्रव्याणि यथालाभम् उपहरति दक्षिणा एव वा स एष ब्रह्मचारिणो यज्ञो नित्यप्रयतः” इति । स्नानं पुनः कर्तुम् इच्छन् समावर्तनकाले इमम् अर्थम् आहरेत्य् एवं गुरुणादिष्टः यथाशक्ति अवश्यं गुर्वर्थम् आहरेत् तदानीं भृतकाध्यापितत्वासम्भवात् ॥ २.२४५ ॥

क्षेत्रं हिरण्यं गाम् अश्वं छत्रोपानहम् अन्ततः ।

धान्यं वासांसि शाकं वा गुरवे प्रीतिम् आहरन् ॥ २.२४६ ॥

क्षेत्रम् इति । अतश् च प्रीत्युत्पादनपरत्वात् प्रदर्शनार्थं भूम्यादिग्रहणम् । अन्ततो यद्य् उत्पन्नं किञ्चित् स्यात् तदा छत्रोपानहम् ॥ २.२४६ ॥

आचार्ये तु खलु प्रेते गुरुपुत्रे गुणान्विते ।

गुरुदारे सपिण्डे वा गुरुवद् वृत्तिम् आचरेत् ॥ २.२४७ ॥

नैष्ठिकधर्मविध्यर्थम् आह **आचार्य **इति । **आचार्ये **प्रमीते गुरुवत् गुरुपुत्रदारसपिण्डानां पूर्वस्य पूर्वस्याभावे उत्तरोत्तरस्य शुश्रूषा कुर्यात् ॥ २.२४८ ॥

एतेष्व् अविद्यमानेषु स्थानासनविहारवान् ।

प्रयुञ्जानो ऽग्निशुश्रूषां साधयेद् देहम् आत्मनः ॥ २.२४८ ॥

एतेष्व् अविद्यमानेष्व् इति । गुरुपुत्रादिष्व् असत्सु कालनियमावलम्बनेन उत्थानोपवेशनाटनवान् भक्त्या अग्निकार्यम् अनितिष्ठन् आत्मसम्बन्धि शरीरं क्षपयेत् ॥ २.२४८ ॥

एवं चरति यो विप्रो ब्रह्मचर्यम् अविप्लुतः ।

स गच्छत्य् उत्तमस्थानं न चेह जयते पुनः ॥ २.२४९ ॥

एवम् इति । “आ समाप्तेः शरीरस्य” इत्य् उक्तम् अप्य् एतन् नैष्ठिकफलाविप्लुतिविधानार्थम् उपसंहारार्थम् अनूद्यते । उक्तेन रूपेण यो ऽस्खलन् नैष्ठिकब्रह्मचर्यं चरति स ब्रह्मलोकं गच्छति । न च संसारे जायते । महाप्रलये ब्रह्मणा सह युज्यते । विप्रग्रहणं प्रदर्शनार्थम्, त्रयाणां प्रक्र्तत्वात् ॥ २.२४९ ॥

इति श्रीभट्टमाधवात्मजगोविन्दराजविरचितायां मनुटीकायां

श्रीमन्वाशयानुसारिण्यां ब्रह्मचर्याश्रमविधानं नाम

द्वितीयो ऽध्यायः

तृतीयो ऽध्यायः

षट्त्रिंशदाब्दिकं चर्यं गुरौ त्रैवेदिकं व्रतम् ।

तदर्धिकं पादिकं वा ग्रहणान्तिकम् एव वा ॥ ३.१ ॥

षट्त्रिंशदाब्दिकम् उपकुर्वाणकब्रह्मचारिणो गार्हस्थ्याधिकारात् कियदवधिनि ब्रह्मचर्ये कृते गार्हस्थ्यम् आश्रयणीयम् इत्य् अत आह षट्त्रिंशदाब्दिकम् इति षट्त्रिंशद्वर्षसम्भवं गुरुगृहे ऋग्यजुःसामाख्यवेदत्रविषयं प्रतिशाखं द्वादशवर्षाणि **व्रतं **नियमसमूहः चर्तितार्थं तदर्धिकं चाष्टादश प्रतिशाखं षड् इति, पादिकं वा नव प्रतिशाखं त्रीणीति यावता वा कलिनोक्तवधेर् ऊर्ध्वम् अधो वा वेदान् गृह्णीयात् तावत्कालं चरितव्यम् । नियमफलापेक्षो विकल्पः “नियमेनाधीतं वीर्यवत्तरं भवति” इति श्रुतेः ।

अत्र चाथर्ववेदस्य “नेता एते अथर्वाङ्गिरसी” इत्यादिश्रुतेः, “श्रुतीर् अथर्वाङ्गिरसीः” इत्यादिस्मृतेश् च दृष्टव्यवहारे च इतरवेदवत् निरुपपदवेदशब्दप्रोयोगात् “अङ्गानि वेदाश् चत्वार” इति धर्मः (धर्मस्थानत्वस्य) तेष्व् अपि चतुर्षु व्यवहारात् सत्य् अपि वेदत्वे शान्त्यादिप्रयोजनत्वेन प्रायेण दृष्टार्थत्वात् “ऋग्वेदेनैव हौत्रम् अकुर्वत यजुर्वेदेनाध्वर्यवं सामवेदेनोद्गीथं यद् एव त्रय्यै विद्यायै संश्लेषं तेन ब्र्ह्मत्वम्” इति श्रुतेः त्रय्यैव क्रियापरिसमाप्तेः ग्रहणम् । “वेदः कृत्स्नो ऽधिगन्तव्यः” इति एकशाखाध्ययनेनैव स्वाध्यायनिवृत्तौ पुण्यातिशयापेक्षया ॥ ३.१ ॥

वेदान् अधीत्य वेदौ वा वेदं वापि यथाक्रमम् ।

अविप्लुतब्रह्मचर्यो गृहस्थाश्रमम् आवसेत् ॥ ३.२ ॥

वेदान् इति । शाखात्रयं द्वयं चैकां वा स्वशाखापूर्वक्रमेण मन्त्रब्राह्मणपौर्वापर्यस्थितिक्रमेण **चाधीत्य अखण्डितब्रह्मचर्यो **ऽसञ्जातस्त्रीसम्प्रयोगः गार्हस्थ्यं प्रतिपद्यते ॥ ३.२ ॥

तं प्रतीतं स्वधर्मेण ब्रह्मदायहरं पितुः ।

स्रग्विणं तल्प आसीनम् अर्हयेत् प्रथमं गवा ॥ ३.३ ॥

तम् इति । तं कृतब्रह्मचर्यं ब्रह्मचर्यावस्थानोदितधर्मानुष्ठानानुशयेन प्रतिख्यातं “तस्मात् पुत्रम् अनुशिष्टं लोक्यम् आहुः” इति श्रुत्या पितुः प्रथमकल्पिकत्वात् पितुः सकाशात् तदभाव आचार्य अधीतवेदं कृतमाल्याद्यलङ्कारं परार्घ्यशयनोपविष्टं पिता तदभावे आचार्यादिः गृह्योक्तस्वरूपगोसाधनकमधुपर्काख्यकर्मणा गार्हपथ्यप्रतिपत्तेः प्राक् पूजयेत् । दियते इति दायः, ब्रह्मैव दायो ब्रह्मदायः, तं हरतीति **ब्रह्मदायहरति **॥ ३.३ ॥

गुरुणानुमतः स्नात्वा समावृत्तो यथाविधि ।

उद्वहेत द्विजो भार्यां सवर्णां लक्षणान्विताम् ॥ ३.४ ॥

गुरुणेति । गुर्वनुज्ञातः गृह्यशास्त्रविध्यनतिक्रमेण कृतगृह्योक्तस्वरूपस्नानसमावर्तनाख्यकर्म द्विजः समानजातीयां प्रशस्तलक्षणां भार्याम् उपयछेत् ॥ ३.४ ॥

असपिण्डा च या मातुर् असगोत्रा च या पितुः ।

सा प्रशस्ता द्विजातीनां दारकर्मण्य् मैथुनी ॥ ३.५ ॥

**असपिण्डेति **। “सपिण्डता तु पुरुषे सप्तमे विनिवर्तते” (म्ध् ५.६०) इत्य् अपि वक्ष्यति । अतो मातुर् असपिण्डा मातामहप्रमातामहान्वयजाता या न भवति या च मातामहीप्रमातामह्याद्यन्वयजाता च भवति, **पितुश् च या **समानगोत्रा न भवति, चशब्दात् सपिण्डाच् च पितृष्व्स्रादिसन्ततिजाता या **न भवति सा द्विजातीनां मैथुनादौ दारकर्मणि **योज्या ॥ ३.५ ॥

मनान्त्य् अपि समृद्धानि गोऽजाविधनधान्यतः ।

स्त्रीसम्बन्धे दशैतानि कुलानि परिवर्जयेत् ॥ ३.६ ॥

महान्तीति । इमानि दश वक्ष्यमाणानि **कुलानि **उत्कृष्टान्य् अपि **वर्जयेत् **। तथा गोछागाविमहिषीधान्यैः समृद्धान्य् अपि तच्छीलप्रजोत्पत्तिव्याधिसङ्क्रान्तिपरिहारार्थं शास्त्रनोदनासामर्थाद् अदृष्टदोषपरिहारार्थं च दारसम्बन्धीति वर्जयेत् ॥ ३.६ ॥

हीनक्रियं निष्पुरुषं निश्छन्दो रोमशार्शसम् ।

क्षय्यामयाव्यपस्मारिश्वित्रिकुष्ठिकुलानि च ॥ ३.७ ॥

हीनक्रियम् इति । यागादिरहितं कुलं स्त्रीजनकं वेदशून्यं प्रचुरतरदीर्घतोमाञ्चितम् आर्शाद्याख्यव्याध्युपेतं राजयक्ष्मिमन्दाग्न्यपस्मारिश्वित्रिकुष्ठीनां च सम्बन्धीनि **कुलानि वर्जयेत् **॥ ३.७ ॥

नोद्वहेत् कपिलां कन्यां नाधिकाङ्गीं न रोगिणीम् ।

नालोमिकां नातिलोमां न वाचालां न पिङ्गलाम् ॥ ३.८ ॥

नोद्वहेद् इति । कपिलां षडङ्गुल्या अधिकां व्याधिताधिष्ठितां अविद्यमानलोमां बहुभाषिणीं पिङ्गलां वर्णां कन्यां नोपयच्छेत् ॥ ३.८ ॥

नर्क्षवृक्षनदीनाम्नीं नान्त्यपर्वतनामिकाम् ।

न पक्ष्यहिप्रेष्यनाम्नीं न च भीषणनामिकाम् ॥ ३.९ ॥

नेति । नक्षत्रवृक्षनदीम्लेच्छपर्वतपक्षिसर्पदासभ्यानकनामिकां कन्यां नोद्वहेत्

॥ ३.९ ॥

अव्यङ्गाङ्गीं सौम्यनाम्नीं हंसवारणगामिनीम् ।

तनुलोमकेशदशनां मृद्वङ्गीम् उद्वहेत् स्त्रियम् ॥ ३.१० ॥

अव्यङ्गाङ्गीम् इति । अविकलाङ्गीम् अप्रसन्ननाम्नीं राजहंसगजरुचिरगमनाम् अनतिस्थूलरोमकेशदन्तां कोमलाङ्गीं कन्यां परिणयेत् । विधिनिषेधभयाभिधानं निर्दोषसगुणकन्योपयमने ऽभ्युदयार्थम् ॥ ३.१० ॥

यस्यास् तु न भवेद् भ्राता न विज्ञायेत् वै (वा) पिता ।

नोपयच्छेत तां प्राज्ञः पुत्रिकाधर्मशङ्कया ॥ ३.११ ॥

यस्या इति । यस्या भ्राता नास्ति तां “यद् अपत्यं भवेद् अस्याः तन् मम स्यात् स्वधाकरम्” “इत्यभिसन्धिमात्रात् पुत्रिकेत्य् एके” इत्य् एवं मनु-गौतमोक्तपुत्रिकाविधिभ्रान्त्या नोवहेत् । भ्रात्रभावे हि पितरि विज्ञायमाने ऽपि पुत्राभावात् कदाचिद् असौ पित्रा पित्रिका कृता स्यात् । सत्याम् अपि वा सभ्रातृकप्रसिद्धौ “अनेनैवम् उत्पन्नेयं न” इति **यस्या **जनको विशेषेण **न ज्ञायते **ताम् अपि पुत्रिकात्वभ्रान्त्या **नोद्वहेत् **। जनके हि सम्यक् ज्ञायमाने भिन्नपितृकयोर् अप्य् एकमातृकाया भातृत्वप्रसिद्धेः अस्ति जनककृते पुत्रिकात्वाशङ्का एतद् उक्तम् उभयोर् विशेषणम् । पुत्रिकायाश् च न परिपूर्णं भार्यात्वम्, अत एव निषेधात् । “अभ्रातेव पुंस स एति प्रतीचि” इति व्याख्यातं चैतन् **निरुक्तकृता **– “अभ्रातृकेव पुंसः पितॄन् एति अभिमुखी सन्तानकर्मणे पिण्डदानाय भवति” इति ।

अत्र च प्रकरणे येषां विधिनिषेधानां दृष्टगुणदोषानुषङ्गो नास्ति यथा “असपिण्डा च या मातुः” इति तदतिक्रमे भार्या न भवति, भार्याशब्दस्याहवनीयादिवत् संस्कारशब्दत्वात् । येषां पुनः दृष्टगुणदोषदर्शनेन विधिनिषेधाभिधानं यथा हीनक्रियम् इति न भवति, तदतिक्रमे भार्यात्वाभावः केवलनियमातिक्रमात् प्रायश्चित्तमात्रं भवति ।

यच् चैतत् “नर्क्षवृक्षनदीनाम्नीम्” (म्ध् ३.९) इत्यादि तद् अपि दृष्टगुणदोशानुविधायि विधिनिषेधप्रकरणमध्यपाठात् तदेकयोगक्षेमम् एव । तथा च मनुना सपिण्डादिप्रतिषेधम् अभिधायानन्तरं “महान्त्य् अपि समृद्धानि” (म्ध् ३.६) इत्यादिपृथक्करणम् उपक्रम्य हीनक्रियम् इत्यादि नर्क्षवृक्षेत्यादि चैत्प्रकरणे ऽभिहितम्

॥ ३.११ ॥

सवर्णाग्रे द्विजातीनां प्रशस्ता दारकर्मणि ।

कामतस् तु प्रवृत्तानाम् इमाः स्युः क्रमशो ऽवराः ॥ ३.१२ ॥

सवर्णेति । द्विजातीनाम् आदौ पाणिग्रहणे समानजातीया युक्तेत्य् उक्तम् । **कामात् **पुनर् दारकर्मणि **प्रवृत्तानां इमाः **वक्ष्यमाणवर्णक्रमेण श्रेष्ठाः स्युः ॥ ३.१२ ॥

शूद्रैव भार्या शूद्रस्य सा च स्वा च विशः स्मृते ।

ते च स्वा चैव राज्ञश् च ताश् च स्वा चाग्रजन्मनः ॥ ३.१३ ॥

**शूद्रेति **। **शूद्रय्स् शूद्रैव भार्या **भवति, नोत्कृष्टापकृष्टे शूद्रा वैश्या च वैश्यस्य मन्वादिभिः स्मृता । वैश्या शूद्रा क्षत्रिया च क्षत्रियस्य, क्षत्रिया वैश्या ब्राह्मणी च ब्राह्मणस्य । “शूद्राम् प्य् एके मन्त्रवर्जम्” इति वसिष्ठस्मरणात् मन्त्रवर्जिता एषां द्विजातीनां भवति ॥ ३.१३ ॥

न ब्राह्मणक्षत्रिययोर् आपद्य् अपि हि तिष्ठतोः ।

कस्मिंश्चिद् अपि वृत्तान्ते शूद्रा भार्योपदिश्यते ॥ ३.१४ ॥

नेति । **ब्राह्मणक्षत्रिययोः **गार्हस्थ्यप्रतिपत्तये सवर्णाम् अलभमानयोः **कस्मिंश्चिद् **अपीतिहासाख्याने **शूद्रा भार्या **नोपवर्ण्यते । एवं च शूद्रानिषेधात् ब्राह्मणक्षत्रिययोः सवर्णालाभे अस्ति क्षत्रियवैश्योद्वाह इति गम्यते । तत्रापि च धनपद्यादौ क्षत्रप्रवृत्तिदर्श्नात् प्रथमं ब्राह्मणस्य क्षत्रियोद्वाहः । तदलाभे वैश्योद्वाहः ॥ ३.१४ ॥

हीनजातिस्त्रियं मोहाद् उद्वहन्तो द्विजातयः ।

कुलान्य् एव नयन्त्य् आशु ससन्तानति शूद्रताम् ॥ ३.१५ ॥

अत्रार्थवादः हीनजतिस्त्रियम् इति । शूद्रताम् इत्य् उपादानात् **हीनजातिं **शूद्रां शास्त्रार्थापरिज्ञानात् उपयच्छमाना **द्विजातयः कुलानि **पुत्रपौत्रादिप्रबन्धात् चिरन्तनकालभाविसन्तानानि **शूद्रतां **गमयन्ति तथाविधानाम् एव तत्रोत्पादात् । अत्र द्विजातय इति वचनात् वैश्यस्याप्य् अकृतसवर्णाविवाहस्य शूद्रानिषेध इति गम्यते । ब्राह्मणक्षत्रिययोः पुनः प्रत्यवायातिशयः पूर्वं प्रतिषेधारम्भसामर्थ्यात् ॥ ३.१५ ॥

शूद्रावेदी पतत्य् अत्रेर् उतथ्यतनयस्य च ।

शौनकस्य सुतोत्पत्त्या तदपत्यत्या भृगोः ॥ ३.१६ ॥

मतन्तराण्य् आहुः **शूद्रावेदीति **। अत्रेर् उतथ्यपुत्रस्य च गौतमस्यैतन् मतं यत् शूद्रोद्वोढा पतितो भवतीति । निन्दया प्रतिषेधानुमानम् । न ह्य् अकस्मात् निन्दा प्रवर्तत इति । तन्मतेनायं शूद्राया अत्यन्तप्रतिषेधः । शौनकस्य पुनर् मतं यत् शूद्रासुतोत्पत्त्या पततीति । अतश् च तन्मते ऽनर्तौ नाम् उपेयात् । भृगोः पुनर् मतं यत् केवलशूद्रापत्यतया पततीति । एवं च तत्पक्षे इतरासु जातापत्यः शूद्राम् ऋतौ व्रजेत् ॥ ३.१६ ॥

शूद्रां शयनम् आरोप्य ब्राह्मणो यात्य् अधोगतिम् ।

जनयित्वा सुतं तस्यां ब्राह्मण्याद् एव हीयते ॥ ३.१७ ॥

शूद्राम् इति । **शूद्रां **गत्वा **ब्राह्मणो **नरकं व्रजति, इत्य् अत्यन्तप्रतिषेधः । शेषो ऽर्थवादः । **सुतं **शूद्रायाम् उत्पाद्य **ब्राह्मण्याद् एव **भ्रश्यतीत्य् अयं सुतोत्पत्तिनिषेधार्थवादः । एवं चेहार्थवादो यो ब्राह्मणग्रहणाद् अत्यन्तप्रतिषेधः सुतोत्पत्तिनिषेधो ब्रह्मणनविषयाद् एव ॥ ३.१७ ॥

दैवपित्र्यातिथेयानि तत्प्रधानानि यस्य तु ।

नाश्नन्ति पितृदेवास् तन् न च स्वर्गं स गच्छति ॥ ३.१८ ॥

दैवपित्र्यतिथेयानि इति । “यस् तु तत्कारयेन् मोहात् सजात्या स्थितयान्यया” (म्ध् ९.८७) इति निषेधं वक्ष्यति । अतो ऽसन्निहितायाम् अपि सजात्यायां यागश्राद्धातिथिदानानि यस्य शूद्रया दत्तानि तद् धव्यकव्यं **पितृदेवा **नोपजीवन्ति । **न च **तेनातिथेयेन गृहस्थः **स्वरं गच्छति **॥ ३.१८ ॥

वृषलीफेनपीतस्य निःश्वासोपहतस्य च ।

तस्यां चैव प्रसूतस्य निष्कृतिर् न विधीयते ॥ ३.१९ ॥

वृषलीफेनपीतस्येति । शूद्रया कृतपरिचुम्बनस्य तयैव च एकपर्यङ्कादौ मुखश्वासापवित्रीकृतस्य तस्याम् एव चोत्पन्नापत्यस्य संशुद्धिः नोप्दिश्यत इति पूर्वोत्तराव् अर्धश्लोकौ अत्यन्तनिषेधात् भृगुमतार्थवादौ ॥ ३.१९ ॥

चतुर्णाम् अपि वर्णानां प्रेत्य चेह हिताहितान् ।

अष्टाव् इमान् समासेन स्त्रीविवाहान् निबोधत ॥ ३.२० ॥

चतुर्णाम् इति । चतुर्णाम् अपि ब्राह्मणादिवर्णानां परलोकेहलोकयोः कांश्चिद् **धिताहितान् इमान् **वक्ष्यमाणान् भार्याप्राप्तिहेतून् **विवाहान् **सङ्क्षेपेण शृणुत ॥ ३.२० ॥

ब्राह्मो दैवस् तथैवार्षः प्राजापत्यस् तथासुरः ।

गान्धर्वो राक्षसश् चैव पैशाचश् चाष्टमो ऽधमः ॥ ३.२१ ॥

ब्राह्म इति । स्तुतिनिन्दाप्रतिपादनो ऽयम् एषां ब्राह्मादिव्यपदेशः । न त्व् असाधारण्येन ब्रह्मादिदेवतासम्बन्ध एषां विद्यते ॥ ३.२१ ॥

ये यस्य धर्म्या वर्णस्य गुणदोषौ च यस्य यौ ।

तद् वः सर्वं प्रवक्ष्यामि प्रसवे च गुणागुणान् ॥ ३.२२ ॥

ये यस्य धर्मा इति । **ये **विवाहा **यस्य वर्णस्य **धर्मानपेता **यस्य च **विवाहस्य **यौ गुणदोषौ **वोढुर् इष्टानिष्टफलदातारौ प्रतिनियतविवाहोत्पन्नायत्तेषु च ये गुणदोषौ तत् सर्वं युष्माकं **प्रवक्ष्यामि **॥ ३.२२ ॥

षड् आनुपूर्व्या विप्रस्य क्षत्रस्य चतुरो ऽवरान् ।

विट्शूद्रयोस् तु तान् एव विद्याद् धर्म्यान् अराक्षसान् ॥ ३.२३ ॥

**षड् **इति । **षड् **आदितः क्रमावस्थितान् **विप्रस्य क्षत्रियस्य **चोपरितनान् चतुरः (चत्वारो), **विट्शूद्रयोः **पुनः राक्षसवर्जितान् **तान् एव **धर्माद् अनपेतान् जानीयात् ॥ ३.२३ ॥

चतुरो ब्राह्मणस्याद्यान् प्रशस्तान् कवयो विदुः ।

राक्षसं क्षत्रियस्यैकम् आसुरं वैश्यशूद्रयोः ॥ ३.२४ ॥

चतुर इति । ब्राह्मणस्याद्यांश् चतुरःक्षत्रियस्य राक्षसम् एकं वैश्यशूद्रयोश् चासुरं स्मृत्यर्थोपनिबन्धनकाराः प्रशस्तान् मन्यन्ते । अत्र चारुरादीनां ब्राह्मणादिषु पूर्ववाक्यविहितानाम् इह निराकरणात् विकल्पतो नित्यासम्भवे वैकल्पिकेषु प्रवृत्तिः । एवम् उत्तरत्रापि वेदितव्यम् ॥ ३.२४ ॥

पञ्चानां तु त्रयो धर्म्या द्वाव् अधर्म्यौ स्मृताव् इह ।

पैशाचश् चासुरश् चैव न कर्तव्यो कदाचन ॥ ३.२५ ॥

पञ्चानाम् इति । इह पैशाचनिषेधात् प्राजापत्यादयः पञ्च गृह्यन्ते । **पञ्चानां **प्राजापत्यादीनां मद्यात् **त्रयो **धर्माद् अनपेताः, **द्वौ **त्व् **अधर्म्याव् इह **शास्त्रे स्मृतौ पैशाचासुरौ । ताव् आपद्य् अपि न कर्तव्यौ ॥ ३.२५ ॥

पृथक् पृथग् वा मिश्रौ वा विवाहौ पूर्वचोदितौ ।

गान्धर्वो राक्षसश् चैव धर्म्यौ क्षत्रियस्य तौ स्मृतौ ॥ ३.२६ ॥

पृथग् इति । गान्धर्वराक्षसाख्यौ विवाहौ पूर्वोक्तौ तौ पृथक् पृथक् मिश्रौ वा क्षत्रस्याधर्माव् इति पूर्वं सिद्धम् । **मिश्रौ धर्म्यौ यस्य तौ स्मृतौ **इत्य् अनेनोच्यते । तत्रेतरेतरानुरागपूर्वं यदा कन्या वरेणात्मानं संविदा युद्धादिनापहारयति तदा गान्धर्वराक्षसौ मिश्रौ भवतः ॥ ३.२६ ॥

आच्छाद्य चार्हयित्वा च श्रुतशीलवते स्वयम् ।

आहूय दानं कन्याया ब्राह्मो धर्मः प्रकीर्तितः ॥ ३.२७ ॥

**आच्छाद्य चार्चयैत्वेति **। वासोविशेषैः कन्याम् आच्छाद्यालङ्कारादिभिश् चार्हयित्वा श्रुताचारवन्तं वरं याच्ञारहितं स्वयम् आनीय यत् तस्मै कन्यादानंब्राह्मो विवाहो मन्वादिभिः स्मृतः ॥ ३.२७ ॥

यज्ञे तु वितते सम्यग् ऋत्विजे कर्म कुर्वते ।

अलङ्कृत्य सुतादानं दैवं धर्मं प्रचक्षते ॥ ३.२८ ॥

यज्ञ इति । ज्योतिष्टोमादियागे प्रारब्धे अर्थवहर्त्विज प्रचरति यद् अलङ्कृत्य कन्यादानं क्रियते तं दैवं विवाहं मन्वादय आचक्षते ॥ ३.२८ ॥

एकं गोमिथुनं द्वे वा वराद् आदाय धर्मतः ।

कन्याप्रदानं विधिवद् आर्षो धर्मः स उच्यते ॥ ३.२९ ॥

एकम् इति । गोबलीवर्दम् एकं द्वे वा वरात् धर्मतः यागाद्यावशककर्तव्यधर्मनिमित्तं गृहीत्वा यत् कन्याया यथाशास्त्रं प्रदानं विधीयते स आर्षो विवाह उच्यते ॥ ३.२९ ॥

सहोभौ चरतां धर्मम् इति वाचानुभाष्य च ।

कन्याप्रदानम् अभ्यर्च्य प्राजापत्यो विधिः स्मृतः ॥ ३.३० ॥

सहेति । **सह **युवां **धर्मं **कुरुत इति प्रदानकाले वाचोक्त्वा यद् अर्चापूर्वं **कन्यादानं स प्राजापत्यो विधिः स्मृतः **॥ ३.३० ॥

ज्ञातिभ्यो द्रविणं दत्वा कन्यायै चैव शक्तितः ।

कन्याप्रदानं स्वाच्छन्द्याद् आसुरो धर्म उच्यते ॥ ३.३१ ॥

ज्ञातिभ्य इति । **कन्यायै कन्याज्ञातिभ्यः **यथाशक्ति धनं **दत्वा **यत् कन्यायाश् चाप्रदानं आदानं स्वीकारं स्वेच्छातो नार्षवद् धनजातिपरिमाणानियमेन **आसुरो **विवाह **उच्यते **॥ ३.३१ ॥

इच्छयान्योन्यसंयोगः कन्यायाश् च वरस्य च ।

गान्धर्वः स तु विज्ञेयो मैथुन्यः कामसम्भवः ॥ ३.३२ ॥

इच्छयेति । कन्यावरयोः परस्परानुरागात् यः संयोगः मैथुनाचरणं स मैथुनाय हितः कामनिमित्तको **गान्धर्वो **विवाहो बोद्धव्यः । इह गान्धर्वादौ मुख्यम् एवोपगमनम् । तुशब्दस् तथा प्रतीते । न च “पाणिग्रहणका मन्त्राः कन्यात्वे च प्रतिष्ठिताः” इति वचनात् संस्करपरिलोपः । “या गर्भिणी संस्क्रियते,” “वोढुः कन्यासमुद्भवः,” “अक्षता च क्षता चैव पुनर्भू संस्कृता पुनः” इत्यादिमनु-याज्ञवल्क्योक्तसहोढकानीन-पौनर्भवकक्षणेषु संस्कारदर्शनात् । गान्धर्वादिविवाहेषु पुनर् वैवाहिको विधिः, “कर्तव्यश् च त्रिभिर् वर्णैः समयेनाग्निसाक्षिकः” इति च देवलस्मरणात् । तथा,

गान्धर्वासुरपैशाचा विवाहा राक्षसाश् च याः (ये) ।

पूर्वं परिणयस् तेषां पश्चाद् धोमो विधीयते ॥

इति बह्वृचगृह्यपरिशिष्टदर्शनात् । भारतादौ च मुख्योपगमनवत् । एवं च “पाणिग्रहणका मन्त्राः” इत्यादि नरान्तरोपभुक्तकन्याविषये ऽवतिष्ठते, “पुनर् वैवाहिको विधिः कर्तव्यः” इत्यादिवचनात् गमनोत्तरकालम् अकृतसंस्कारा द्विजातीनां भार्या न भवति, शूद्रस्य भवत्य् एव, “त्रिभिर् वर्णैः” इत्य् उपादानात् तथाविधस्य पुत्रस्य रिक्थभाग् (-भाग्क्त्व-) दर्शनात् ॥ ३.३२ ॥

हत्वा छित्त्वा च भित्त्वा च क्रोशन्तीं रुदतीं गृहात् ।

प्रसह्य कन्याहरणं राक्षसो विधिर् उच्यते ॥ ३.३३ ॥

हत्वेति । **हत्वा **कन्यापर्क्षीयान् प्रमाथ्य **छित्त्वा **अप्रमाथ्य अङ्गच्छेदादीन् कृत्वा **भित्त्वा **प्राकारादीन् “हा मातः हा पितः अनाथा अपह्रिये” इत्य् एवम् आह्वयन्तीम् अश्रुजलाविलनयनां यः कन्यां **गृहाद् आहरति **तद् अपि भूयः **कन्याहरणं राक्षसो **विवाहः ॥ ३.३३ ॥

सुप्तां मत्तां प्रमत्तां वा रहो यत्रोपगच्छति ।

स पापिष्ठो विवाहानाम् पैशाचः प्रथितो ऽधमः ॥ ३.३४ ॥

**सुप्ताम् **इति । **सुप्तां **निद्रोपेतां क्षीबां शीलरक्षणानिबर्हणां निर्जने प्रदेशे यस्मिन् विवाहे उपगच्छति स पापहेतुः विवाहानां मध्ये पैशाचो ऽष्टमः ख्यातः ॥ ३.३४ ॥

अद्भिर् एव द्विजाग्र्याणां कन्यादानं विशिष्यते ।

इतरेषां तु वर्णानाम् इतरेतरकाम्यया ॥ ३.३५ ॥

**अद्भिर् एव द्विजातीनां कन्यादानं प्रशस्यते **इति ब्राह्मणानां उदकदानपूर्वम् एव कन्यादानं प्रशस्तम् इत्य् उच्यते । क्षत्रियादीनां पुनः परस्परेच्छया विनाप्य् उदकं वाङ्मात्रेणापि दानम् इष्यते ॥ ३.३५ ॥

यो यस्यैषां विवाहानां मनुना कीर्तितो गुणः ।

सर्वं शृणुत तं विप्राः सम्यक् कीर्तयतो मम ॥ ३.३६ ॥

इति । एषां विवाहादीनां मध्यात् यस्य विवाहस्य यत् फलं मनुना कथितं तत् सर्वं **मम **यथावत् कथयतो विप्राः शृणुत ॥ ३.३६ ॥

दश पूर्वान् परान् वंश्यान् आत्मानं चैकविंशकम् ।

ब्राह्मीपुत्रः सुकृतकृन् मोचयत्य् एनसः पितॄन् ॥ ३.३७ ॥

दश पूर्वान् परान् इति ब्राह्मविवाहोढपुत्रः यदि सुकृतकृद् भवति तदा **दश् पूर्वान् **पित्रादीन् अन्वयिनो मृतान् **दश् चापरान् **पुत्रादीन् आत्मानं चैकविंशकं पापान् मोचयति । न चाकृताभ्याम् अकृतविप्रणाशाव् अत्र नोदनीयौ । श्राद्धादिवत् वचनगम्यत्वाद् अमुष्यार्थस्य पुत्रादीनां चापापाचाराणाम् उत्पत्तिमात्रेणैवैषां विमोक्षस् तदानीम् अनुत्पन्नत्वात् ॥ ३.३७ ॥

दैवोडाजः सुतश् चैव सप्त सप्त परावरान् ।

आर्षोढाजः सुतस् त्रीन् षट् षट् कायोढजः सुतः ॥ ३.३८ ॥

**दैवोढाज **इति । दैवविवाहोत्पन्नः पुत्रः **सप्त परान् **पित्रादीन् सप्त अवरान् पुत्रादीन् पापान् मोचयति । आर्षविवाहोत्पन्नश् च **त्रीन् **पुत्रादीन् **त्रींश् **च पुत्रादीन् । तथा प्राजापत्यविवाहोढाजोत्पन्नश् च **षट् **पुत्रादीन् षट् पित्रादींश् च ॥ ३.३८ ॥

ब्राह्मादिषु विवाहेषु चतुर्ष्व् एवानुपूर्वशः ।

ब्रह्मवर्चसिनः पुत्रा जायन्ते शिष्टसम्मताः ॥ ३.३९ ॥

रूपसत्त्वगुणोपेता धनवन्तो यशस्विनः ।

पर्याप्तभोगा धर्मिष्ठा जीवन्ति च शतं समाः ॥ ३.४० ॥

ब्राह्मादिष्व् इति । रूपसत्त्वगुणोपेता इति । ब्राह्मादिषु विवाहेषु चतुर्षु क्रमावस्थितेषु अध्ययनादिसम्पत्तेजोयुक्ताः साधुप्रियालावण्येन द्वादशाध्यायवक्ष्यमाणलक्षणेन सत्त्वेन दयादिभिः श्रीगुणैर् युक्ताः धनिनः ख्यातिमन्तः सम्पन्नस्रगनुलेपनादि-भोगानुष्ठातारः पुत्रा जायन्ते शतं वर्षाणां जीवन्ति ॥ ३.३९–४० ॥

इतरेषु तु शिष्टेषु नृशंसानृतवादिनः ।

जायन्ते दुर्विवाहेषु ब्रह्मधर्मद्विषः सुताः ॥ ३.४१ ॥

इतरेष्व् इति । ब्राह्मादिभ्यश् चतुर्भ्यो ऽन्येषु आसुरादिषु दुष्टविवाहेषु क्रूरकर्माणो ऽ**नृतवादिनो **वेदयागादिद्वेषिणश् च **सुता जायन्ते **॥ ३.४१ ॥

अनिन्दितैः स्त्रीविवाहैर् अनिन्द्या भवति प्रजा ।

निन्दितैर् निन्दिता नॄणां तस्मान् निन्द्यान् विवर्जयेत् ॥ ३.४२ ॥

अनिन्दितैर् इति । अगर्हितैः भार्याप्राप्तिहेतुभिः विवाहैः अगर्हितानि मनुष्याणाम् अपत्यानि भवन्ति । गर्हितैश् च गर्हितानि भवन्ति । तस्मात् गर्ह्यान् विवर्जयेत् न कुर्यात् ॥ ३.४२ ॥

पाणिग्रहणसंस्कारः सवर्णासूपदिश्यते ।

असवर्णास्व् अयं ज्ञेयो विधिर् उद्वाहकर्मणि ॥ ३.४३ ॥

पाणिग्रहणसंस्कार इति । हस्तग्रहणात्मकसंस्कारः गृह्योक्तः समानजातिषु गृह्यमाणासु शास्त्रेणोच्यते असजातिषु पुनः उह्यमानासु विवाहकर्मणि अयं वक्ष्यमाणो विधिः पाणिग्रहणस्थाने विज्ञेयः ॥ ३.४३ ॥

शरः क्षत्रियया ग्राह्यः प्रतोदो वैश्यकन्यया ।

वसनस्य दशा ग्राह्या शूद्रयोत्कृष्टवेदने ॥ ३.४४ ॥

शर इति । **क्षरियया **पाणिग्रहणस्थाने ब्राह्मणपाणिगृहीतशरप्रान्तो ब्राह्मणोद्वाहे ग्राह्यः । वैश्यया च ब्राह्मण[क्षत्रिय]पाणिपरिगृहीतदात्रादितोदनमयःप्रान्तं ब्राह्मणक्षत्रियोद्वाहे **ग्राह्यम् । शूद्रया **पुनर् द्विजात्युद्वाहे तत्तत्प्रावृतवस्त्रदशा ग्राह्याः ॥ ३.४४ ॥

ऋतुकालाभिगामी स्यात् स्वदारनिरतः सदा ।

पर्ववर्जं व्रजेच् चैनां तद्व्रतो रतिकाम्यया ॥ ३.४५ ॥

ऋतुकालाभिगामीति । ऋतुः गर्भाधानसमर्था स्त्रियो ऽवस्था । तत्काले भार्याम् अजातपुत्रो नियमत उपगच्छेत्, अनुपगमने दोषश्रवणात् । तथा च पराशरः-

ऋतुस्नातां तु यो भार्यां सन्निधौ नोपगच्छति ।

घोरायां भ्रूणहत्यायां युज्यते नात्र संशयः ॥

किं च “त्रिभिः ऋणैः ऋणवा जायते यज्ञेन देवेभ्यः प्रजया पितृभ्यः स्वाध्यायेन ऋषिभ्यः” इत्य् एतच्छ्रुतिः मूलं त्व् अस्य सम्भवति मूलान्तरकल्पनाया अन्याय्यत्वम् । तथा च “पुत्रार्थी संविशेद्” इत्य् अनेनैतच्छ्रुतिमूलत्वम् अस्याचार्य आविष्करिष्यति । एवं चैतन्मूलत्वाद् अप्य् अस्य नियमत्वम् अवसीयते । जातपुत्रस्य त्व् अनियमः, एकपुत्रोत्पादने विधेश् चरितार्थत्वात् । तथा च “कामजांस् तु” इति दर्शनात् । “नैकपुत्रं दद्यात् प्रतिगृह्णीयाद् वा स हि सन्तानाय पूर्वेषाम्” इति च । यत् तु “दशास्यां पुत्रान् आधेहि” इति बह्वपत्यप्रशंसापरम्, जातपुत्रस्यापि ऋतुकाले नियमगमने कथं दशत्वे वावतिष्ठेत् । एवं च नियमो ऽयं न त्व् अनृतुकाले गमननिषेधार्था परिसङ्ख्येति ।

कः पुनर् अनयोर् भेदविशेषो नियमः । परिसङ्ख्येति, तत्राप्राप्तप्रापको विधिर् नियमः । पक्षे प्राप्तिं चाहुः । समे यजेतेतिवत् । अत्र हि दर्शपूर्णमासाभ्यां यजेतेत्य् एवमादियागचोदनावाक्यत एव पक्षे यागाधिकरणभूतसमदेशप्राप्तिर् अस्त्य् एव, अधिकरणं विना यागानुपपत्तेः समे यियक्षमाणस्यैतद् वचनम् उदास्ते स्वत एव प्रवृत्तेः । विषमे तु यियक्षमाणस्य समाप्राप्ताव् एतद् वचनं समार्थविधायकत्वेनार्थवत् । एवं च विधिफलम् एव श्रुतिर् नियमः ।

अपरे तु प्राप्तस्य पुनर्वचनं नियमम् आहुः यथा “सर्वत एवात्मानं गोपायेत्” इति । तत्र चान्यत्र च प्राप्तौ परिसङ्ख्या भवति । यथा पञ्च पञ्चनखा भक्ष्या इति । अस्त्य् अत्र शशादीनां (इतरेषां) च जिघांसाप्रयुक्तत्वात् युगपत् भक्षणप्राप्तिः । अतः परे न भक्ष्या इति परिसङ्ख्यायन्ते । यद्य् अपि स्वार्थहानिपरार्थकल्पनाप्राप्तबाधदोषाक्रान्तत्वं परिसङ्ख्यायाः तथापि वाक्यार्थानर्थक्यापत्तिर् उभयतः तथाश्रयणं वरम् इत्य् असाव् अप्य् आश्रीयते । स्वार्थहानिः विधिप्रतिपादकश्रवणे ऽपि विध्यर्थपरित्यागः । तत्र च आद्याप्रेतवाक्यप्रमेयभूतस्य प्रतिषेधकल्पना । पञ्च व्यतिरिक्तपञ्चनखानां जिघांसाप्रयुक्तस्य भक्षणबाधनम् इति प्राप्तबाधः ।

एवं चेह ऋताव् अनृतौ चार्हित्वात् प्राप्तौ सत्यां अनृतौ न गच्छेद् इत्य् एवं यद्य् अपि परिसङ्ख्या तु (न) मापद्यते (न) नियमरूपता पाक्षिक्त्वाभावात् तथाप्य् अगमने दोषश्रवणात् नियमार्थतैव न्याय्या । स्वदारसन्तुष्टश् च नित्यं स्यात् न स्त्र्यन्तरम् उपागच्छेद् इति ऋतौ उपगच्छेद् इति भार्यागमनप्राप्ता च भार्यागमनपरिसङ्ख्यैषा अमावास्यादिपर्ववर्जम् ऋताव् अपि भायां तत्संरक्षणवतः सन्ततिकाम्यया विनाप्य् अपत्योत्पत्तिं तत्सुरतसम्भोगेच्छया नियमत उपेयात् । यत् तु “अमावास्याम् अष्टमीं च” (४.१२८) इत्यादि वक्ष्यति तत् “ऋतुकालाभिगामी स्याद्” इत्य् अनेनार्तौ पर्वस्व् अपि गमनप्राप्तौ निषेधार्थम् । “तथा चानृतौ” इति तत्र च वक्ष्यति ॥ ३.४५ ॥

ऋतुः स्वाभाविकः स्त्रीणां रात्रयः षोडश स्मृताः ।

चतुर्भिर् इतरैः सार्धम् अहोभिः सद्विगर्हितैः ॥ ३.४६ ॥

ऋतुर् इति । चतुर्भिर् दिवसैः उत्तमजननिन्दितैः सह षोडशाहोरात्राणि स्त्रीणां रोग्याद्यजनितऋतुक्रमः ॥ ३.४६ ॥

तासाम् आदाश् चतस्रस् तु निन्दितैकादशी च या ।

त्रयोदशी च शेषास् तु प्रशस्ता दश रात्रयः ॥ ३.४७ ॥

**तासाम् **इति । तासां पुनः षोडशानां रात्रीणां आद्याश् चतस्रः ऋतुदर्शनात् प्रभृति **चैकादशीत्रयोदश्यौ च **निन्दिताः । अतस् तासु न गन्तव्यम् । **शिष्टा दश् रात्रयो **गमने प्रशस्ता स्युः ॥ ३.४७ ॥

युग्मासु पुत्रा जायन्ते स्त्रियो ऽयुग्मासु रात्रिषु ।

तस्माद् युग्मासु पुत्रार्थी संविशेद् आर्तवे स्त्रियम् ॥ ३.४८ ॥

युग्मास्व् इति । युग्मासु षष्ट्यष्टम्याद्यासु गच्छतः पुत्रा जायन्ते । **अयुग्मासु **सप्तमीनवम्याद्यासु स्त्रियः । अतः पुत्रार्थी युग्मासु ऋतुकाले भार्यां व्रजेत्, यास्व् अल्पीभावाद् आर्तवस्य । तथा चायुर्वेदः “युग्मास्व् अल्पी भवत्य् आर्तवम् अयुग्मासु तस्मात् पुत्रस्य दुहितुर् जन्मोत्पद्यते” ॥ ३.४८ ॥

पुमान् पुंसो ऽधिके शुक्रे स्त्री भवत्य् अधिके स्त्रियाः ।

समे ऽपुमान् पुंस्त्रियौ वा क्षीणे ऽल्पे च विपर्ययः ॥ ३.४९ ॥

पुमान् इति । पुंसो ऽधिकबीजे अयुग्मास्व् अपि रात्रिषु पुमान् स्त्र्याकृतिः दुर्बलो हीनाङ्गो जायते, आयुर्वेदे एवाभिधानात् । स्त्रीबीजे त्व् अधिके युग्मास्व् अपि स्त्री पुरुषाक्र्तिः दुर्बला हीनाङ्गी वा जायते आयुर्वेददर्शनात् । समे स्त्रीपुरुषबीजे युग्मास्व् अयुग्मास्व् अपि नपुंसकं जायते ॥ ३.४९ ॥

निन्द्यास्व् अष्टासु चान्यासु स्त्रियो रात्रिषु वर्जयन् ।

ब्रह्मचार्य् एव भवति यत्र तत्राश्रमे वसन् ॥ ३.५० ॥

निन्द्यासु षट्सु अन्यासु चाष्टासु रात्रिषु यासु कासुचिन् न क्रमेणैव स्त्रियं परिहरन् रात्रिद्वये ऽवशिष्टे गच्छन् गार्हपथ्याद् आश्रमान्तरे ऽपि वसन् ब्रह्मचार्य् एव भवति । न ब्रह्मचर्यखण्डनदोषो ऽस्य भवतीत्य् उत्पन्नविनष्टपुत्रस्य आश्रमान्तरस्थस्यापि इच्छया पुत्रार्थं रात्रिद्वयगमनं यत्र तत्राश्रमे वसन्न् अपि पुत्रार्थी संविशेद् इति प्रस्तुतत्वात् पुत्रस्य च महोपकारकत्वेन श्रवणाद् यत् आश्रमान्तरे ऽत्यन्तब्रह्मचर्योपदेशाद् अयुक्तम् एतद् इत्य् आहुः । तद् असत्, अस्यापि शास्त्रगोचरत्वात् ॥ ३.५० ॥

न कन्यायाः पिता विद्वान् गृह्णीयाच् छुल्कम् अण्व् अपि ।

गृह्णञ् छुल्कं हि लोभेन स्यान् नरो ऽपत्यविक्रयी ॥ ३.५१ ॥

नेतिकन्यायाः पिता धनग्रहणदोषज्ञः स्वल्पम् अपि कन्यादानविनिमयरूपधनं न गृह्णीयात् । यस्माल् **लोभेन **तद् **गृह्णन् अपत्यविक्रयी **भवेत् ॥ ३.५१ ॥

स्त्रीधनानि तु ये मोहाद् उपजीवन्ति बान्धवाः ।

नारीयानानि वस्त्रं वा ते पापा यान्त्य् अधोगतिम् ॥ ३.५२ ॥

स्त्रीधनानीति । दुहितृभगिन्¥आसिसम्बन्धीनि हिरण्यानि दासीवाहनवस्त्राणि वा पित्रादय उपभुञ्जते । अतस् ते पापाः पाककर्माणो नरकं व्रजन्ति । प्रसङ्गात् स्त्रीधनोपजीवनप्रतिषेधः ॥ ३.५२ ॥

आर्षे गोमिथुनं शुल्कं केचिद् आहुर् मृषैव तत् ।

अल्पो ऽप्य् एवं महान् वापि तावान् एव स विक्रयः ॥ ३.५३ ॥

**आर्षे **इति । **आर्षे **विवाहे गोमिथुनं शुल्कं वराद् ग्राह्यम् इति केचिद् आचार्याः प्राहुः तत् पुनर् असत्यम्, यस्माद् अल्पार्थं साध्यत्वाद् अल्पो वा भवतु बहुमूल्यसाध्यत्वान् महान् वा भवतु सर्वथा विक्रयस् तावद् असौ भवति । “एवम् एकं गोमिथुनम्” इत्य् एतत् परमतम् इत्य् अवसीयते ॥ ३.५३ ॥

यासां नाददते शुल्कं ज्ञातयो न स विक्रयः ।

अर्हणं तत् कुमारीणाम् आनृशंस्यं च केवलम् ॥ ३.५४ ॥

यासाम् इति । यासां कन्यानां पुनः पित्रादयः आत्मार्थं दानं दत्तं वरान् न गृह्णन्ति अपि तु प्रसन्नैः भर्त्रादिभिर् अर्पणपूर्वकं कन्यार्थं दत्तं गृह्यते, नासौ विक्रयः । किं तर्हि । पूजनं तत्, कन्यानां केवलं विक्रयस्पर्शशून्यम् अनुकम्पारूपं अनुकम्पारूपं तत्

॥ ३.५४ ॥

पितृभिर् भ्रातृभिश् चैताः पतिभिर् देवरैस् तथा ।

पूज्या भूषयितव्याश् च बहुकल्याणम् ईप्सुभिः ॥ ३.५५ ॥

पितृभिर् इति । पितृभ्रातृभर्तृभिः बह्वीं सम्पदम् आप्तुकामैः स्त्रियः **पूज्याः **अलङ्कर्तव्याश् च ॥ ३.५५ ॥

यत्र नार्यस् तु पूज्यन्ते रमन्ते तत्र देवताः ।

यत्रैतास् तु न पूज्यन्ते सर्वास् तत्राफलाः क्रियाः ॥ ३.५६ ॥

**यत्रेति **। यस्मिन् कुले पित्रादिभिः स्त्रियः पूज्यन्ते **तत्र देवताः **प्रसीदन्ति । यत्र पुनर् **एता न पूज्यन्ते तत्र देवताप्रसादाभावात् यागादिक्रियाः सर्वा निष्फला **भवन्तीति ॥ ३.५६ ॥

शोचन्ति जामयो यत्र विनश्यत्य् आशु तत्कुलम् ।

न शोचन्ति तु यत्रैता वर्धते तद् धि सर्वदा ॥ ३.५७ ॥

शोचन्तीति । यस्मिन् कुले नवोढा दुहितृस्तुषाद्याः सशोका भवन्ति तत् कुलं क्षिप्रम् एव **विनश्यति **। **यत्र पुनर् एता **शोकार्ता न भवन्ति तत् सर्वकालं वृद्धिम् एति ॥ ३.५७ ॥

जामयो यानि गेहानि शपन्त्य् अप्रतिपूजिताः ।

तानि कृत्याहतानीव विनश्यन्ति समन्ततः ॥ ३.५८ ॥

जामय इति । यानि गृहाणि न नवोढादुहित्राद्याश् च **अपूजिताः **सद्यो ऽभिशपन्ति **तानि **अभिचारविशेषहा=अतानीव सर्वनाशं नश्यन्ति ॥ ३.५८ ॥

तस्माद् एताः सदा पूज्या भूषणाच्छादनाशनैः ।

भूतिकामैर् नरैर् नित्यं सत्कारेषूत्सवेषु च ॥ ३.५९ ॥

यस्माद् एवं तस्माद् एताः सदाब्यर्च्याः इति । भूतिकामैर् नरैर् नित्यं सङ्करेषूत्सवेषु च । तस्मात् कारणात् एताः सङ्करेषु कौमिदीमहानवम्यादिषु उपनयनादिषु च सर्वकामैः मनुष्यैः आभरणवस्त्रभोजनैः नित्यम् अभिपूजनीयाः ॥ ३.५९ ॥

सन्तुष्टो भार्यया भर्ता भर्त्रा भार्या तथैव च ।

यस्मिन्न् एव कुले नित्यं कल्याणं तत्र वै ध्रुवम् ॥ ३.६० ॥

सन्तुष्ट इति । **यस्मिन् कुले **स्वभार्यया हेतुभूतया नित्यं भर्ता निवृत्ताभिलाषः भार्यापि च यत्र **नित्यं स्वभर्त्रा **हेतुभूतेन अनुपजातनरान्तराभिलाषा तत्राविचलं मङ्गलं भवति ॥ ३.६० ॥

यदि हि स्त्री न रोचेत पुमांसं न प्रमोदयेत् ।

अप्रमोदात् पुनः पुंसः प्रजनं न प्रवर्तते ॥ ३.६१ ॥

यदीतियदि स्त्री सुगन्धलेपनादि कान्तिमती न भवेत् तदा भर्तारं न प्रहर्षयेत् । भर्तुः अप्रहर्षाच् च गर्भग्रहणं न भवति ॥ ३.६१ ॥

स्त्रियां तु रोचमानायां सर्वं तद् रोचते कुलम् ।

तस्यां त्व् अरोचमानायां सर्वम् एव न रोचते ॥ ३.६२ ॥

किं च स्त्रियां तु रोचमानायाम् इति । स्त्रियां वेषादिना कान्तिमत्यां भर्तृमनोहरतया परपुरुषसम्पर्काभावात् तत्कुलम् उज्ज्वलं भवति । तस्यां पुनर् अरोचमानायां भर्तृद्विष्टतया नरान्तरसङ्कल्पतः सकलम् एव कुलं मनिनी भवति ॥ ३.६२ ॥

कुविवाहैः क्रियालोपैर् वेदानध्ययनेन च ।

कुलान्य् अकुलतां यान्ति ब्राह्मणातिक्रमेण च ॥ ३.६३ ॥

कुविवाहैर् इति । आसुरादिविवाहसंस्काराभाववेदानध्ययनब्राह्मणापूजनैः प्रख्यातकुलान्य् अपकर्षं यान्ति । तस्माद् एतत् परिहरणीयम् ॥ ३.६३ ॥

शिल्पेन व्यवहारेण शूद्रापत्यैश् च केवलैः ।

गोभिर् अश्वैश् च यानैश् च कृष्या राजोपसेवया ॥ ३.६४ ॥

अयाज्ययाजनैश् चैव नास्तिक्येन च कर्मणाम् ।

कुलान्य् आशु विनश्यन्ति यानि हीनानि मन्त्रतः ॥ ३.६५ ॥

**शिल्पेन व्यवहारेणेति । अयाज्ययाजनैश् चेति **। चित्रकर्मादिशिल्पधनप्रयोगकेवलशूदापत्य-गवाश्वरथक्रयविक्रयादिकृषिराजसेवाव्रात्यादियाजनयागादिकर्माभावशुद्धि-मनानध्ययनैः क्षिप्रम् एव कुलान्य् अपकर्षं यान्ति ॥ ३.६४–६५ ॥

मन्त्रतस् तु समृद्धानि कुलान्य् अल्पधनान्य् अपि ।

कुलसङ्ख्या च गच्छन्ति कर्षति च महद् यशः ॥ ३.६६ ॥

मन्त्रत इति । यद्य् अपि धनेन कुलम् इति प्रवादः । तथापि वेदाध्ययनावबोध-तदर्थानुष्ठानयुक्तानि पुनः कुलानि अल्पधनान्य् अपि उत्कृष्टकुलमध्ये गुण्यतां प्राप्नुवन्ति महतीं ख्यातिम् अर्जयन्ति । विवाहप्रसङ्गेन प्रसक्तानुप्रसक्तिकयैतत् सर्वम् उक्तम् ॥ ३.६६ ॥

वैवाहिके ऽग्नौ कुर्वीत गृह्यं कर्म यथाविधि ।

पञ्चयज्ञविधानं च पक्तिं चान्वाहिकीं गृही ॥ ३.६७ ॥

वैवाहिक इति । अष्टकादि गृह्योक्तं कर्म यथाशास्त्रं वक्ष्यमाणपञ्चयज्ञानुष्ठानं चाग्निसम्पाद्यं प्रात्यहिकं पाकं विवाहभवे ऽग्नौ गृहस्थः कुर्वीत ॥ ३.६७ ॥

पञ्च सूना गृहस्थस्य चुल्ली पेषण्य् उपस्करः ।

कण्डनी चोदकुम्भश् च बध्यते यास् तु वाहयन् ॥ ३.६८ ॥

पञ्च सूनेति । पचनदृषत्शूर्पोलूखलाद्याः पञ्च गृहस्थस्य सूना इव घातनस्थानानि यानि स्वकार्ये योजयन् पापेन सम्बध्यते । एवं चास्मात् सूनावचनात् तासां निष्कृत्यर्थम् इति च निष्कृतिवचनात् सूनादोषैर् न लिप्यत इति तद्दोषाभिधानात् अधर्महेतुत्वम् आसां तन्निष्कृत्यर्थत्वं महायज्ञानाम् इत्य् अवसीयते, शास्त्रैकगोचरत्वात् धर्माधर्मयोः । न चैवं सति महायज्ञानाम् अनित्यतापत्तिः देवतातिथिभृत्यानां ऋषयः पितरो देवता इत्य् एवमादिभिर् एषां नित्यत्वप्रतिपादनात् सन्ध्योपासनवद् उभयार्थत्वम् एषाम् ॥ ३.६८ ॥

तासां क्रमेण सर्वासां निष्कृत्यर्थं महर्षिभिः ।

पञ्च कॢप्ता महायज्ञाः प्रत्यहं गृहमेधिनाम् ॥ ३.६९ ॥

तासाम् इति । **तासां **चुल्ल्यादीनां सूनानां यथाक्रमं **निष्कृत्यर्थं **तदुत्पन्नपापनिर्हरणार्थं **प्रत्यहं पञ्च महायज्ञाः **गृहस्थानां मन्वादिभिः स्मृताः ॥ ३.६९ ॥

अध्यापनं ब्रह्मयज्ञः पितृयज्ञस् तु तर्पणम् ।

होमो दैवो बलिर् भौतो नृयज्ञो ऽतिथिपूजनम् ॥ ३.७० ॥

ते च अध्यापनम् इति । ऽजपो ऽहुतऽ इति वक्ष्यमाणः । अध्यापनशब्देनाध्ययनम् अपि गृह्यते । स **ब्रह्मयज्ञः । पितृतर्पणं पितृयज्ञः **। अग्नौ होमो दैवयज्ञः । भूतबलिर् भूतयज्ञः । अतिथिपूजनं मनुष्ययज्ञः । एते वक्ष्यमाणाः कर्तव्यताविशेषा इह स्वरूपमात्रेण निर्दिष्टाः ॥ ३.७० ॥

पञ्चैतान् यो महायज्ञान् न हापयति शक्तितः ।

स गृहे ऽपि वसन् नित्यं सूनादोषैर् न लिप्यते ॥ ३.७१ ॥

पञ्चेति । एतान् पञ्च महायज्ञान् यो यथाशक्ति न जहाति स सर्वकालम् अपि गृहे वसन् चुल्ल्यादिसूनाजनितैः पापैर् न सम्बध्यते ॥ ३.७१ ॥

देवतातिथिभृत्यानां पितॄणाम् आत्मनश् च यः ।

न निर्वपति पञ्चानाम् उच्छ्वसन् न स जीवति ॥ ३.७२ ॥

देवतातिथिभृत्यानाम् इति । देवताशब्देन भूतानाम् अपि ग्रहणं तेषाम् अपि देवतात्वात् । तथा ऋषीणाम् अपि देवतानाम् अपि ग्रहणं तेषाम् अपि देवतात्वस्मरणात् । भृत्याः । “

वृद्धौ च मातापितरौ साध्वी भार्या सुतः शिशुः ।

अप्य् अकार्यशतं कृत्वा भर्तव्या मनुर् अब्रवीत् ॥

इत्य् उक्त्वा एषां देवतादीनां पञ्चानां यो न ददाति सः प्राणान् धारयन्न् अपि न जीवति जीवितकार्याभावात् ॥ ३.७२ ॥

अहुतं च हुतं चैव तथा प्रहुतम् एव च ।

ब्राह्म्यं हुतं प्राशितं च पञ्चयज्ञान् प्रचक्षते ॥ ३.७३ ॥

एवं चाकरणनिन्दया एषां नित्यताम् आह अहुतं च हुतं चेति । उत्तरश्लोके एषां व्याख्यार्थो भविष्यति । एतान् एव पञ्चमहायज्ञान् एभिर् नामान्तरैः मुनय आचक्षते । नाममात्रभेदो न वस्तुभेद इत्य् एतत् प्रतिपादयितुं सञ्ज्ञान्तरप्रदर्शनम् एतत् ॥ ३.७३ ॥

जपो ऽहुतो हुतो होमः प्रहुतो भौतिको बलिः ।

ब्राह्म्यं हुतं द्विजाग्र्यार्चा प्राशितं पितृतर्पणम् ॥ ३.७४ ॥

जप इति । अहुतशब्देन जपो ब्रह्मयज्ञाख्यः स्मृतः । हुतश्होमो देवयज्ञः प्रहुतश् च **भौतिको बलिः **भूतयज्ञः **ब्राह्मं हुतं द्विजाग्र्यस्य ब्राह्मणस्य्आर्चा **अतिथियज्ञः **प्राशितं **च पितृतर्पणम् पितृयज्ञः । यदि कथञ्चित् सकलमहायज्ञमहानुष्ठानासम्पत्तिस् तदा ॥ ३.७४ ॥

स्वाध्याये नित्ययुक्तः स्याद् दैवे चैवेह कर्मणि ।

दैवकर्मणि युक्तो हि बिभर्तीदं चराचरम् ॥ ३.७५ ॥

“स्वाध्याये नित्ययुक्तः स्यात् दैवे पित्र्ये च कर्मणि । उभयत्रापि युक्तो हि” (३.७५) इति । ब्रह्मयज्ञदेवयज्ञानुष्ठाने नित्यं यत्नवान् स्यात् । तस्माद् एवं यज्ञानुष्ठानपर इदं स्थावरजङ्गमरूपं जगत् धारयति ॥ ३.७५ ॥

अग्नौ प्रास्ताहुतिः सम्यग् आदित्यम् उपतिष्ठते ।

आदित्याज् जायते वृष्टिर् वृष्टेर् अन्नं ततः प्रजाः ॥ ३.७६ ॥

तथा च अग्नौ प्रास्ताहुतिर् इति । अग्नाव् आहुतिः सम्यग् यथाविधि प्रक्षिप्ता हुता रसाहरणरूपत्वाद् अदित्यस्य आदित्यं प्राप्नोति स आहुतिरसः कालेन परिपक्वः आदित्याद् वृष्टिरूपेण जायते । ततो ऽन्नम्, तदुपभोगेन च **प्रजा जायन्ते **॥ ३.७६ ॥

अपि च –

यथा वायुं समाश्रित्य सर्वे जीवन्ति जन्तवः ।

तथा गृहस्थम् आश्रित्य वर्तन्ते इतराश्रमाः ॥ ३.७७ ॥

यथा प्राणवाय्ववलम्बनेन सर्वप्राणिनो जीवन्ति, एवं **गृहस्थाश्रमम् आश्रित्य **अवलम्ब्याश्रमान्तराणि ध्रियन्ते ॥ ३.७७ ॥

यस्मात् त्रयो ऽप्य् आश्रमिणो ज्ञानेनान्नेन चान्वहम् ।

गृहस्थेनैव धार्यन्ते तस्माज् ज्येष्ठाश्रमो गृही ॥ ३.७८ ॥

एवं च यस्माद् इति । यस्मात् गृहस्थव्यतिरिक्ताः **त्रयो ऽप्य् आश्रमिणो **वेदार्थोपदेशान्नदानाभ्यां गृहस्थैर् एवोपक्रियन्ते तस्मात् **श्रेष्टाश्रमो **गृहस्थः । गृहा पत्नी मेधो यज्ञः । गृहाधीनो मेधो यस्य गृहमेधी । गृहायां तिष्ठन्तीति गृहस्थाः । गृहा अस्यास्तीति गृही ॥ ३.७८ ॥

स सन्धार्यः प्रयत्नेन स्वर्गम् अक्षयम् इच्छता ।

सुखं चेहेच्छतात्यन्तं यो ऽधार्यो दुर्बलेन्द्रियैः ॥ ३.७९ ॥

यत् एवम् अतः **स सन्धार्यो **गृहस्थेनेति । गृहस्थाश्रमः स्वर्गसम्बन्धम् अनन्तम् इहलोके सुरतसम्भोगस्वाद्वन्नातिसुखम् अन्तम् **इच्छता **प्रयत्नेनानुष्ठेयो ऽसंयतेन्द्रियैः धारयितुं न शक्य इति गृहस्थाश्रमफलकथनम् ॥ ३.७९ ॥

ऋषयः पितरो देवा भूतान्य् अतिथयस् तथा ।

आशासते कुटुम्बिभ्यस् तेभ्यः कार्यं विजानता ॥ ३.८० ॥

न चानित्यतापत्तिः, यत आह ऋषय इति । ऋषिप्रभृतयो गृहस्थेभ्यः सकाशात् यतो ऽर्थयन्ते यतः शास्त्रज्ञेन एभ्यः कर्तव्यम् ॥ ३.८० ॥

स्वाध्यायेनार्चयेतर्षीन् होमैर् देवान् यथाविधि ।

पितॄञ् छ्राद्धैश् च नॄन् अन्नैर् भूतानि बलिकर्मणा ॥ ३.८१ ॥

किं तद् इत्य् आह स्वाध्यायेनेति । नानाप्रकारत्वाद् अर्चनस्य स्वाध्यायादेर् अर्चनार्थत्वम् अविरुद्धं पूर्वोक्तमहायज्ञार्थैः स्वाध्यायादिभिः ऋषिदेवपित्रतिथिभूतानि यथाशास्त्रम् अर्चयेत् ॥ ३.८१ ॥

दद्याद् अहर् अहः श्राद्धम् अन्नाद्येनोदकेन वा ।

पयोमूलफलैर् वापि पितृभ्यः प्रीतिम् आवहन् ॥ ३.८२ ॥

तेषु पितृयज्ञनिरूपणार्थं तावद् आह दद्याद् अहर् अहर् इति । पितृभ्यः प्रीतिम् उत्पादयन् अन्नोदकक्षीर**मूलफलैः **यथासम्भवं प्रत्यहं श्राद्धं कुर्यात् ॥ ३.८२ ॥

एकम् अप्य् आशयेद् विप्रं पित्रर्थं पाञ्चयज्ञिके ।

न चैवात्राशयेत् किञ्चिद् वैश्वदेवं प्रति द्विजम् ॥ ३.८३ ॥

एकम् इति । पञ्चयज्ञान्तर्गते पितृप्रयोजने एकम् अपि शक्त्या सति सम्भवे बहून् अपि विप्रान् भोजयेत् । श्राद्धशब्देनोदनात् वैश्वदेवब्राह्मणभोजने प्राप्ते आह न चैवेति । विश्वान् देवान् उद्दिश्य अन्यं ब्राःमणं न किञ्चिद् भोजयेत् ॥ ३.८३ ॥

वैश्वदेवस्य सिद्धस्य गृह्ये ऽग्नौ विधिपूर्वकम् ।

आभ्यः कुर्याद् देवताभ्यो ब्राह्मणो होमम् अन्वहम् ॥ ३.८४ ॥

**वैश्वदेवस्येति **। वैश्वदेवार्थस्यान्नस्य सतो वैवाहिके ऽग्नौ कालान्तराहिते वा परिसमूहनादि गृह्योक्तेतिकर्तव्यतापूर्वकम् आभ्यो वक्ष्यमाणाभ्यो देवताभ्यः प्रत्यहं ब्राह्मणो होमं कुर्यात्, ब्राह्मणग्रहणं द्विजप्रदर्शनार्थम्, त्रयाणां प्रकृतत्वात् ॥ ३.८४ ॥

अग्नेः सोमस्य चैवादौ तयोश् चैव समस्तयोः ।

विश्वेभ्यश् चैव देवेभ्यो धन्वन्तरय एव च ॥ ३.८५ ॥

कुह्वै चैवानुमत्यै च प्रजापतय एव च ।

सह द्व्यावापृथिव्योश् च तथा स्विष्टकृते ऽन्ततः ॥ ३.८६ ॥

**कुह्वै चैवेति **। “स्वाहाकारप्रदा(धा)ना होमा” इति स्मरणात् अग्नये स्वाहा सोमाय स्वाहा इत्येवमादौ कृत्वा ततो ऽग्नीषोमाभ्यां स्वाहेत्य् अग्नीषोमयोः समस्तहोर् होमं कुर्यात् । तद् अनु विश्वेभ्यो देवेभ्यो हुत्वा धन्वन्तरये कुह्वै अनुमत्यै प्रजापतये द्यावापृथिवीभ्यां अन्ते अग्नये स्विष्टकृत इत्य् एवं गृह्ये ऽग्निविशेषणत्वात् स्विष्टकृत एते स्वाहाकारान्तहोमाः कार्याः ॥ ३.८५–८६ ॥

एवं सम्यग् घविर् हुत्वा सर्वदिक्षु प्रतिक्षणम् ।

इन्द्रान्तकाप्पतीन्दुभ्यः सानुगेभ्यो बलिं हरेत् ॥ ३.८७ ॥

**एवम् **इति । **एवम् **उक्तप्रक्रियया सम्यक् प्रतिदैवतं हविर् हुत्वा प्राच्याद्यासु सर्वासु दिक्षु प्राच्याम् इन्द्राय नमः इन्द्रपुरुषेभ्यो दक्षिणस्या यमाय यमपुरुषेभ्यः पश्चिमायां वर्य्णाय वरुणपुरुषेभ्यः उत्तरस्यां सोमाय सोमपुरुषेभ्य इत्य् एव प्रदक्षिणावर्तं इन्द्रादिभ्यः सागुचरेभ्यो बलिं दद्यात्, गृह्य एवं दर्शनात् इन्द्रान्तकादिशब्दाभिधानं छन्दोभङ्गभयात् ॥ ३.८७ ॥

मरुद्भ्य इति तु द्वारि क्षिपेद् अप्स्व् अद्भ्य इत्य् अपि ।

वनस्पतिभ्य इत्य् एवं मुसलोलूखले हरेत् ॥ ३.८८ ॥

मरुद्भ्य इति द्वारि हरेद् इति । मरुद्भ्य इत्य् एवं द्वारप्रदेशे अद्भ्य इत्य् एतद् अपां मध्ये **वनस्पतिभ्य इत्य् एवं मुसलोलूखले **द्वन्द्वैकवद्भावात् विकल्पेनान्यत्र बलिं दद्यात् ॥ ३.८८ ॥

उच्छीर्षके श्रियै कुर्याद् भद्रकाल्यै च पादतः ।

ब्रह्मवास्तोष्पतिभ्यां तु वास्तुमध्ये बलिं हरेत् ॥ ३.८९ ॥

उच्छीर्षक इति । वास्तुपुरुषस्य शिरःप्रदेशे उत्तरपूर्वस्यां दिशि श्रियं तस्यैव पादप्रदेशे दक्षिणपश्चिमायां **भद्रकाल्यै ब्रह्मणे वास्तोष्पतये **चेति गृहमध्ये द्वन्द्वनिर्देशे ऽपि आङ्निर्देशाभावात् देवताद्वयम् ॥ ३.८९ ॥

विश्वेभ्यश् चैव देवेभ्यो बलिम् आकाश उत्क्षिपेत् ।

दिवाचरेभ्यो भूतेभ्यो नक्तञ्चारिभ्य एव च ॥ ३.९० ॥

**विश्वेभ्य **इति । **विश्वेभ्यः वैश्वदेवेभ्यः **इति चशब्दाद् एकेयम् आहुतिः । **विश्वेभ्यो देवेभ्य **इति नाम्नाकारः (नामाकाशे) प्रक्षिपेत् । दिवाचरेभ्यो भूतेभ्य इति दिवानक्तञ्चरेभ्यो भूतेभ्ज्य इति नक्तम् इति गृह्यदर्शनात् एतादाधारान्तरस्यावचनात् आकाशस्य च प्रस्तुतत्वात् आकाश एव ॥ ३.९० ॥

पृष्ठे वास्तुनि कुर्वीत बलिं सर्वान्नभूतये ।

पितृभ्यो बलिशेषं तु सर्वं दक्षिणतो हरेत् ॥ ३.९१ ॥

**पृष्ठे वास्तुनि कुर्वीतेति **। वेश्मन उपरि वेश्मनः पृष्ठे वासुप्रदेशे वा तत्र **सर्वान्नभूतये **नम इत्य् एवं बलिं कुर्यात् । बल्यर्थं घृतान्नशेषं सर्वं दक्षिणस्यां दिशि “स्वधा पितृभ्य इति प्राचीनावीती” इत्य् एवं गृह्यदर्शनात् पितृभ्यो हरेत् ॥ ३.९१ ॥

शुनां च पतितानां च श्वपचां पापरोगिणाम् ।

वयसां च कृमीणां च शनकैर् निर्वपेद् भुवि ॥ ३.९२ ॥

शुनां चेति । तद् अनु अन्यद् अन्नम् उद्धृत्य **श्वपतितश्वपाककुष्ठ्यादिकाककृमीणां शनकै **रजोवगूण्ठनपरिहारेण भुवि निक्षिपेत् ॥ ३.९२ ॥

एवं यः सर्वभूतानि ब्राह्मणो नित्यम् अर्चति ।

स गच्छति परं स्थानं तेजोमूर्तिः पथर्जुना ॥ ३.९३ ॥

एवम् इति । एवम् उक्तनीत्या अभिहितसर्वभूतानि नित्यम् अन्नादिना यः पूजयति सः तेजःशरीरो भूत्वा स्पष्टेन मार्गेण येनाशुप्राप्येन शरीरपातसमनन्तरम् एव तेन ब्रह्मलोकं गच्छति इति पञ्चयज्ञफलकथनम्, न चानित्यतापत्तिर् इत्य् उक्तम् ॥ ३.९३ ॥

कृत्वैतद् बलिकर्मैवम् अतिथिं पूर्वम् आशयेत् ।

भिक्षां च भिक्षवे दद्याद् विधिवद् ब्रह्मचारिणे ॥ ३.९४ ॥

कृत्वेति । **एवम् **उक्तस्वरूपेण **एतद् बलिकर्म **कृत्वा सर्वगृहभोक्तृभ्यः पूर्वं **अतिथिं **पूजयेत् । भिक्षणशीलाय ब्रह्मचारिणे समकालम् एव “स्वस्तिवाच्य भिक्षादानं अप्पूर्वम्” इति गौतमोक्तविधानेन भिक्षां दद्यात् ॥ ३.९४ ॥

यत् पुण्यफलम् आप्नोति गां दत्वा विधिवद् गुरोः ।

तत् पुण्यफलम् आप्नोति भिक्षां दत्वा द्विजो गृही ॥ ३.९५ ॥

यत् पुण्यफलम् इति । “अल्पगुर् हेमश्ट्ङ्गी” इत्य् आदियाज्ञवल्क्योक्तविधिना गां दत्वा यत् पुण्यफलं “गोदो ब्रध्नस्य विष्टपम्” इति प्राप्नोति तद् एव द्विजगृहस्थः भिक्षां दत्वा प्राप्नोति ॥ ३.९५ ॥

भिक्षाम् अप्य् उदपात्रं वा सत्कृत्य विधिपूर्वकम् ।

वेदतत्त्वार्थविदुषे ब्राह्मणायोपपादयेत् ॥ ३.९६ ॥

भिक्षाम् इति । फलपुष्पादिना सत्कृत्य पारमार्थिकवेदार्थज्ञाय ब्राह्मणाय स्वस्तिवाच्येत्यादिविधिपूर्वकं प्रतिपादयेत् इति ब्रह्मचारिभिक्षादानाद् विध्यन्तरम् इदम् । तथा च वसिष्ठः- “श्रोत्रियाय अन्नं दत्वा ब्रह्मचारिणे” इत्य् आह ॥ ३.९६ ॥

नश्यन्ति हव्यकव्यानि नराणाम् अविजानताम् ।

भस्मभूतेषु विप्रेषु मोहाद् दत्तानि दातृभिः ॥ ३.९७ ॥

नश्यन्तीति । यानि पितृदैवोद्देशेन अन्नानि मोहात् दानशास्त्रानभिज्ञतया दातृभिः अध्ययनविधियज्ञानुष्ठानतेजःशून्यत्वात् भस्मरूपेषु विप्रेषु दत्तानि तानि तेषां दानशास्त्रानभिज्ञानां मनुष्याणां निष्फलीभवन्ति ॥ ३.९७ ॥

विद्यातपःसमृद्धेषु हुतं विप्रमुखाग्निषु ।

निस्तारयति दुर्गाच् च महतश् चैव किल्बिषात् ॥ ३.९८ ॥

**विद्यातपःसमृद्देष्व् **इति । ज्ञानानुष्ठानतेजःसम्पन्नेषु **विप्रमुखेषु **अग्नितुल्येषु हव्यकव्यादि यत् प्रक्षिप्तं तद् इह दुस्तरात् शत्रुव्याध्याद्यभिभवात् अमुत्र च महतः पापात् त्रायते ॥ ३.९८ ॥

सम्प्राप्ताय त्व् अतिथये प्रदद्याद् आसनोदके ।

अन्नं चैव यथाशक्ति संस्कृत्य विधिपूर्वकम् ॥ ३.९९ ॥

सम्प्राप्तायेति । स्वयम् उपस्थितायातिथये आसनाचमनादि उदकान्नं च व्यजनविशेषैः यथासम्भवं सत्कृत्य “आसनावसथौ” इत्यादिवक्ष्यमाणविधिपूर्वकं दद्यात् ॥ ३.९९ ॥

शिलान् अप्य् उञ्छतो नित्यं पञ्चाग्नीन् अपि जुह्वतः ।

सर्वं सुकृतम् आदत्ते ब्राह्मणो ऽनर्चितो वसन् ॥ ३.१०० ॥

शिलान् अप्य् उञ्छतो नित्यम् इति । अतिदौर्गत्या वृत्तिसंयमातिशयार्थितया शिलान् क्षेत्रफलदोषान् अप्य् उच्चिन्वतः सभ्यावसथ्याभ्यां सह त्रेतया पञ्चस्व् अप्य् अग्निषु होमं वा कुर्वाणस्य सर्ववृत्तिसङ्कोचाग्निहोमार्जितं पुण्यं अनर्चितो ऽतिथिर् वसन् स्वीकरोति । अदानदोषकथनेन नियमान् आह सभ्यो नामाग्निः महासाधन इति । सीताद्यपनुत्त्यर्थं यस् तत्र तत्र विहीयते ॥ ३.१०० ॥

तृणानि भूमिर् उदकं वाक् चतुर्थी च सूनृता ।

एतान्य् अपि सतां गेहे नोच्छिद्यन्ते कदाचन ॥ ३.१०१ ॥

अन्नासम्भवे पुनः तृणानीति । **तृणानि **विश्रामभूम्याचमनाद्युदकप्रियसत्यवचनानि साधुगृहेषु अतिथ्यर्थं न कदाचिद् अप्य् उच्छिद्यन्ते । अतो ऽन्नाभावे एतान्य् अवश्यं देयानि

॥ ३.१०१ ॥

एकरात्रं तु निवसन्न् अतिथिर् ब्राह्मणः स्मृतः ।

अनित्यं हि स्थितो यस्मात् तस्माद् अतिथिर् उच्यते ॥ ३.१०२ ॥

अप्रसिद्धत्वाद् अतिथिलक्षणम् आह एकरात्रम् इति । **ब्राह्मण एकरात्रं **परगृहे **वसन् अतितिः **यतिः स्मृतः यद् अस्याहनित्यावस्थानेन न विद्यते द्वितीया तिथिर् अस्येत्य् एवम् अतिथिर् उच्यते ॥ ३.१०२ ॥

नैकग्रामीणम् अतिथिं विप्रं साङ्गतिकं तथा ।

उपस्थितं गृहे विद्याद् भार्या यत्राग्नयो ऽपि वा ॥ ३.१०३ ॥

नैकग्रामीणम् इति । समानग्रामनिवासिनं यं च सङ्गत्या लोकयात्रया चरितं विचित्रपरिहासकथाजीवनं यस्य स **भार्याग्नयः **तस्मिन्न् एव ग्रामे सम्प्राप्तः तं वैश्वदेवकाले ऽपि सम्प्राप्तम् अतिथिं न विद्यात् ॥ ३.१०३ ॥

उपासते ये गृहस्थाः परपाकम् अबुद्धयः ।

तेन ते प्रेत्य पशुतां व्रजन्त्य् अन्नादिदायिनः ॥ ३.१०४ ॥

उपासत इति । आतिथेयोद्देशत एव ग्रामान्तराणि गत्वा ये **गृहस्थाः **दुर्मेधसः औदरिकतया परान्नं सेवन्ते तेन परान्नभोजनेन ते जन्मान्तरे अन्नाद्यदायिनां गृहे पशुतां व्रजन्ति इति फलप्रतिपादनपरम् एतत् । अतः परपाकोपसेवनं न कार्यम् ॥ ३.१०४ ॥

अप्रणोद्यो ऽतिथिः सायं सूर्योढो गृहमेधिना ।

काले प्राप्तस् त्व् अकाले वा नास्यानश्नन् गृहे वसेत् ॥ ३.१०५ ॥

अप्रणोद्य इति । यस्माद् अयम् आदित्येनास्तं गच्छता प्रापितो ऽतिथिः, तदानीं स्वगृहगमनाशक्तेः, स गृहमेधिना गृहानुष्ठेयपञ्चयज्ञवता गृहस्थेन न प्रत्याख्येयः । स च चैश्वदेवकाले प्राप्तः तदुत्तरकाले वा नास्य गृहस्थस्य अन्नम् अनश्नन् गृहे वसेत् । अवश्यम् अस्याशनं देयम्, अयं च प्रतिषिद्धातिथिप्रतिप्रसवार्थम् आरम्भः, अन्यथा “वैश्वदेवं हि नामैतत् सायं प्रातर् विधीयते” (म्ध् ३.१२१) इति वक्षमाणेनैव सायम् अतिथिदानसिद्धौ अनारम्भः स्यात् ॥ ३.१०५ ॥

न वै स्वयं तद् अश्नीयाद् अतिथिं यन् न भोजयेत् ।

धन्यं यशस्यम् आयुष्यं स्वर्ग्यं वातिथिपूजनम् ॥ ३.१०६ ॥

**नेति **। यद् अतिथये रोचते तत् तस्मा अदत्वा आत्मना नाश्नीयात् । अतिथिभोजनं च धनख्यात्या दुःस्वर्गनिमित्तम् इत्य् आतिथेयफलकथनं न त्व् अनित्यतापत्तिः “सर्वं सुकृतम् आदत्ते” इत्याद्युक्तत्वात् ॥ ३.१०६ ॥

आसनावसथौ शय्याम् अनुव्रज्याम् उपासनम् ।

उत्तमेषूत्तमं कुर्याद् धीने हीनं समे समम् ॥ ३.१०७ ॥

आसनावसथाव् इति । युगपदनेकातिथ्यवस्थाने सति ह्य् आसनस्थानविश्रामस्थानश्रद्धादि-शयनानुगमनपरिचरणं इतरेतरापेक्षयोत्कृष्टमध्यमेषु उत्कृष्टापकृष्टम् अमध्यमं कुर्यात् । अन्नं पुनस् तुल्यम् एव, तत्र विशेषाश्रवणात् ॥ ३.१०७ ॥

वैश्वदेवे तु निर्वृत्ते यद्य् अन्यो ऽतिथिर् आव्रजेत् ।

तस्याप्य् अन्नं यथाशक्ति प्रदद्यान् न बलिं हरेत् ॥ ३.१०८ ॥

वैश्वदेव इति । कृते ऽतिथिभोजनपर्यन्ते **वैश्वदेवे यद्य् अपरो ऽतिथिर् आव्रजेत् तस्मै तदा च्आन्नं यथाशक्ति **पुनः पक्त्वा प्रदद्यात् । बलिहरणं च ततो ऽन्नान् न कुर्यात् । बलिहरणनिषेधाद् आत्मसंस्कारार्थता वैश्वदेवस्याभिप्रेतेत्य् अवसीयते । अन्नसंस्कारपक्षे कथम् असंस्कृतान्नभोजनम् अनुजानीयात् ॥ ३.१०८ ॥

न भोजनार्थं स्वे विप्रः कुलगोत्रे निवेदयेत् ।

भोजनार्थं हि ते शंसन् वान्ताशीत्य् उच्यते बुधैः ॥ ३.१०९ ॥

प्रसङ्गात् भोक्तृधर्मम् आह न भोजनार्थम् इति । भोजनलाभ्आर्थं विरः स्वे कुलगोत्रे न कथयेत् यस्मात् भोजनार्थं ते कथयन् उद्गीर्णाशीति विद्वद्भिः कथ्यते ॥ ३.११० ॥

न ब्राह्मणस्य त्व् अतिथिर् गृहे राजन्य उच्यते ।

वैश्यशूद्रौ सखा चैव ज्ञातयो गुरुर् एव च ॥ ३.११० ॥

न ब्राह्मणस्य त्व् अतिथिर् इति । ब्राह्मणगृहे गुरुमित्रबन्धुक्षत्रियवैश्यशूद्रा नातिथयो भवन्ति । गुरोः प्रभुत्वात् मित्रबन्धूनाम् आत्मसमत्वात् क्षत्रियादेश् च हीनजातित्वात् क्षत्रियस्योत्कृष्टः ब्राह्मणः स्यात् । ब्राह्मणक्षत्रियाव् उत्कृष्टजातीयौ स्याताम् एवं वैश्यस्यापि ॥ ३.११० ॥

यदि त्व् अतिथिधर्मेण क्षत्रियो गृहम् आव्रजेत् ।

भुक्तवत्सु च विप्रेषु कामं तम् अपि भोजयेत् ॥ ३.१११ ॥

यदीति । क्षीणपाथेयो ग्रामान्तरवासित्वात् अतिथिधर्मेण यदि क्षत्रियो विप्रगृहे आगच्छेत् तदा गृहावस्थितविप्रेषु कृतभोजनेषु तम् अपि **भोजयेत् **॥ ३.११ ॥

वैश्यशूद्राव् अपि प्राप्तौ कुटुम्बे ऽतिथिधर्मिणौ ।

भोजयेत् सह भृत्यैस् ताव् आनृशंस्यं प्रयोजयन् ॥ ३.११२ ॥

वैश्यशूद्राव् इति । वैश्यशूद्राव् अपाथेयाव् अतिथिरूपौ गृहे प्राप्तौ तदा कारुण्यात् सहभोजनीयौ ॥ ३.११२ ॥

इतरान् अपि सख्यादीन् सम्प्रीत्या गृहम् आगतान् ।

प्रकृत्यान्नं यथाशक्ति भोजयेत् सह भार्यया ॥ ३.११२ ॥

इतरान् इति । उक्तक्षत्रियादिव्यतिरिक्तान् सखिबन्धुसहाध्यायिप्रभृतीन् प्रीत्या हेतुभूतया **गृहम् आगतान् अन्नं यथाशक्ति **संस्कृत्य भार्या भोजनकाले **भोजयेत् **। आत्मनो ऽपि कालः “अवशिष्टं तु दम्पती” इति वक्ष्यमाणत्वात् । गुरोस् तु कालान्वभिधानप्रभुत्वेन स्वायत्तकालत्वात् ॥ ३.११३ ॥

सुवासिणीः कुमारीश् च रोगिणो गर्भिणीः स्त्रियः ।

अतिथिभ्यो ऽन्वग् एवैतान् भाजयेद् अविचारयन् ॥ ३.११४ ॥

सुवासिनीर् इति । जीवच्छ्वशुरपितृकाः स्त्रियः कुमार्य्आतुर**गर्भिणीश् च **अतिथ्यनुगतान् एवाविलम्बमानो **भोजयेत् **अग्रत एव (इति) पाठे अतिथिभ्यः पूर्वम् एव ॥ ३.११४ ॥

अदत्वा तु य एतेभ्यः पूर्वं भुङ्क्ते ऽविचक्षणः ।

स भुञ्जानो न जानाति श्वगृध्रैर् जग्धिम् आत्मनः ॥ ३.११५ ॥

अदत्वेतिएतेभ्यो भृत्यपर्यन्तेभ्य अतिथिभ्यो **ऽदत्वा **यो व्यतिक्रमदोषानभिज्ञः पूर्वं भुङ्क्ते स भुञ्जानः एतत् फलभूतं मरणसमन्तरप्राप्तम् आत्मनः श्वगृध्रखादनं न जानाति ॥ ३.११५ ॥

भुक्तवत्स्व् अथ विप्रेषु स्वेषु भृत्येषु चैव हि ।

भुञ्जीयातां ततः पश्चाद् अवशिष्टं तु दम्पती ॥ ३.११६ ॥

भुक्तवत्स्व् इति । अतिथ्यादिज्ञातिसम्बन्धेषु दासेषु कृतभोजनेषु ततो ऽन्नावशिष्टं जायापती पश्चाद् अश्नीयाताम् ॥ ३.११६ ॥

देवान् ऋषीन् मनुष्यांश् च पितॄन् गृह्याश् च देवताः ।

पूजयित्वा ततः पश्चाद् गृहस्थः शेषभुग् भवेत् ॥ ३.११७ ॥

देवान् इति । गृहे भवा **गृह्या **इत्यन्तेन भूतयज्ञ उक्त इति । वक्ष्यमाणप्रत्यवायकथनार्थो ऽयम् अनुवादः ॥ ३.११७ ॥

अघं स केवलं भुङ्क्ते यः पचत्य् आत्मकारणात् ।

यज्ञशिष्टाशनं ह्य् एतत् सताम् अन्नं विधीयते ॥ ३.११८ ॥

अघम् इति । आत्मार्थम् एव पचति न देवादिभ्यो ददाति **स **पापहेतुतात् पापम् एव केवलं भुङ्क्ते नान्नलेशम् अपि यस्मात् यद् एतत् पाकयज्ञशिष्टाशनं साधूनाम् अन्नम् उपदिश्यते

॥ ३.११८ ॥

राजर्त्विक्स्नातकगुरून् प्रियश्वशुरमातुलान् ।

अर्हयेन् मधुपर्केण परिसंवत्सरान् पुनः ॥ ३.११९ ॥

अतिथिपूजाप्रसङ्गेनायं राजादीनां पूजाविशेष उच्यते – राजर्त्विक्स्नातकगुरुप्रियश्वशुर-मातुलान् इति । जनपदाभिषक्तं क्षत्रियं गृहागतं यचकं ऋत्विजं यः कश्चिद् गृहस्थो द्विजातिः विद्याव्रतस्नातकं शिष्यो गुरुं श्वशुरो जामातरं जामाता श्वशुरं भागिनेयो मातुलं मधुपर्काख्येन गृह्योक्तरूपेण कर्मणा पूजयेत् । परिमितात् संवत्सरात् संवत्सरे ऽतीते पुनर् गृहागतान् एतान् पूजयेत् । ये तु स्नातकम् आचार्यः पूजयेत् तं प्रतीतम् इत्य् उक्तत्वाद् इत्य् आहुः, तेषां परिवर्सरान् इति स्नातकविशेषणं कथं स्यात् ॥ ३.११९ ॥

राजा च श्रोतियश् चैव यज्ञकर्मण्य् उपस्थिते ।

मधुपर्केण सम्पूज्यौ न त्व अयज्ञ इति स्थितिः ॥ ३.१२० ॥

राजस्नातयकोः सङ्कोचायेदम् आह राजेति । राजस्नातकौ **यज्ञकर्मण्य् एव **सम्प्राप्तौ **मधुपर्केण **पूजनीयौ । न त्व् अयज्ञे संवत्सराद् ऊर्ध्वम् अपीति शास्त्रमर्यादा । संवत्सरात् पुनः अर्वाक् यज्ञे ऽपि न पूज्यौ पूर्ववाक्योपरि संवत्सराद् इत्य् उपादाने । अत्र च न तु यज्ञ इत्य् उपादानात् राजस्नातकपूजासङ्कोचार्थत्वम् अस्य प्रतीयते ॥ ३.१२० ॥

सायं त्व् अन्नस्य सिद्धस्य पत्न्य् अमन्त्रं बलिं हरेत् ।

वैश्वदेवं हि नामैतत् सायं प्रातर् विधीयते ॥ ३.१२१ ॥

सायम् इति । दिनान्ते ऽन्नस्य **सिद्धस्य **“इन्द्राय नमः” इत्य् एवमादिमन्त्रवर्जं मनसोद्देशेन **पत्नी **बलिहरणं भूतयज्ञाख्यं कुर्यात् । यस्माद् एवं नाम यज्ञाद्यात्मभोजनपर्यन्तं एतत् सायं प्रातः गृहस्थस्योपदिश्यते ॥ ३.१२१ ॥

पितृयज्ञं तु निर्वर्त्य विप्रश् चन्द्रक्षये ऽग्निमान् ।

पिण्डान्वाहार्यकं श्राद्धं कुर्यान् मासानुमासिकम् ॥ ३.१२२ ॥

पितृयज्ञम् इति । आहिताग्निर् अमावास्यायां श्रौतं पिण्डयज्ञाख्यं कर्म कृत्वा, “औपसदाग्निर् अपि एवम् अनाहिताग्निर् नित्ये श्रपयित्वा” इति सूत्रवचनात् सूत्रोक्तं तद् एव कृत्वा मासि भवं पिण्डपितृयज्ञाङ्गभूतानां पिण्डानाम् अनु पश्चात् आह्रियत इति पिण्डान्वाहार्यकं श्राद्धं कुर्यात् । विप्रग्रहणं द्विजप्रदर्शनार्थम्, त्रयाणां प्रकृतत्वात् ॥ ३.१२२ ॥

पिण्डानां मासिकं श्राद्धम् अन्वाहार्यं विदुर् बुधाः ।

तच् चामिषेण कर्तव्यं प्रशस्तेन प्रयत्नतः ॥ ३.१२३ ॥

अधुना नामवचनेन पिण्डपितृयज्ञानन्तरम् अस्य समर्थयते पिण्डानाम् इति । यत् एव तन् मासिकं श्राद्धं पिण्डानाम् अनु पश्चाद् आह्रियते ततः पिण्डान्वाहार्यकम् एतद् विद्वांसो मन्यन्ते । एवं च युक्तं यत् पिण्डपितृयज्ञानन्तरं क्रियत् इति । तन् मांसेन विशेषेण विहितेन खड्गमांसादिना प्रयत्नतः कर्यम्, तदभावे पुनर् अन्यैर् हविष्यैः ॥ ३.१२३ ॥

तत्र ये भोजनीयाः स्युर् ये च वर्ज्या द्विजोत्तमाः ।

यावन्तश् चैव यैश् चान्नैस् तान् प्रवक्ष्याम्य् अशेषतः ॥ ३.१२४ ॥

**तत्रेति **। तस्मिन् श्राद्धे **भोजनीया ये च **वर्जनीयाः यथासङ्ख्याकाश् च यैश् चान्नैस् तत् कर्तव्यं तत् सर्वं **प्रवक्ष्यामि **॥ ३.१२४ ॥

द्वौ दैवे पितृकृत्ये त्रीन् एकैकम् उभयत्र वा ।

भोजयेत् सुसमृद्धो ऽपि न प्रवर्तेत विस्तरे ॥ ३.१२५ ॥

यद्य् अप्य् उपदेशतः तस्य ये भोजनीयाः स्युः इति प्राप्तं तथापि अल्पवक्तव्यत्वात् सङ्ख्यां तावद् आह द्वाव् इति । द्वौ पित्र्याङ्गभूते दैवे पितृपितामहप्रपितामहोद्देशेन त्रीन् एकैकं वा दैवपित्र्ययोः ब्राह्मणं भोजयेत् । उक्तातिरिक्तभोजनसमर्थो ऽर्घम् अधिकभोजने वै प्रवर्तेत । यत् तु “न त्व् एकैकं सर्वेषां पिण्डैर् व्याख्यातम्” इति गृह्यदर्शनात्, “निमन्त्रयेत त्र्यवरान्” इति चेहाभिधानात् “एकैकम् उभयत्र वा” इत्य् अस्य विस्तरप्रतिषेधार्थवादत्वम् आह तद् असत् । “द्वौ दैवे पितृकृत्ये त्रीन्” इत्य् एतद् विकल्पेन अस्य श्रवणात् । याज्ञवल्क्ये च “एकैकम् एव” इति विधिदर्शनात्, वसिष्ठे च,

यद्य् एकं भोजयेच् छ्राद्धे दैवं तत्र कथं भवेत् ।

अन्नं पात्रे समुद्धृत्य सर्वस्य प्रकृतस्य च ॥

देवतायतने कृत्वा ततः श्राद्धं प्रवर्तयेत् ॥

इत्य् एकब्राह्मणभोजनात् । यत् पुनः “न त्व् एकैकम्” इत्यादिगृह्यवचनं तत् द्रव्यब्राह्मणादिसम्यक्सम्पद्विषयम् न त्व् अन्यप्रतिषेधार्थम्; तथा च एतदनन्तरम् एव गृह्यकृत् “कामम् अनाद्य” इत्य् आह, अदनीयाद्यभावात् कामम् एकम् अपि सर्वेषां भोजयेत् इति । एवं च “निमन्त्रयेत् त्र्यवरान्” इत्य् एतद् अपि द्रव्यब्राह्मणादिसम्यक्सम्पत्तिविषयं न त्व् एकैकविध्यत्यन्ताभावज्ञापकम् । विस्तर इति वृत्तवशात् “प्रथमे वा चशब्दे” इति स्मरणात्

॥ ३.१२५ ॥

सत्क्रियां देशकालौ च शौचं ब्राह्मणसम्पदः ।

पञ्चैतान् विस्तरो हन्ति तस्मान् नेहेत विस्तरम् ॥ ३.१२६ ॥

सत्क्रियाम् इति । ब्राह्मणपूजां चोक्षादिदेशम् अपराह्णकालं शौचं गुणवद्ब्राह्मणानां विस्तारो नाशयति । तस्माद् उक्तातिरिक्तब्राह्मभोजनं न कुर्यात् । हेतुतो विस्तरनिषेधात् सत्क्रियादिसम्भवे ऽधिकब्राह्मणभोजनम् अप्य् अस्ति । तथा च गौतमेनोक्तः- “अवरान् न च ब्राह्मणान् भोजयेत् । अयुजो वा यथोत्साहम्” इति ॥ ३.१२६ ॥

प्रथिता प्रेतकृत्यैषा पित्र्यं नाम विधुक्षये ।

तस्मिन् युक्तस्यैति नित्यं प्रेतकृत्यैव लौकिकी ॥ ३.१२७ ॥

प्रथितेति । यो ऽयं पित्र्यो नाम विधिः पित्र्यं कर्म एषा प्रेतकृत्या प्रेतोपकारार्था क्रिया क्षये चन्द्रक्षये गृहे वा नाश्रमन्तरे, सर्वगृहिणां ख्याता । **तस्मिन् **कृत्ये पित्र्ये कर्मणि **युक्तस्य **तन्निष्ठस्य लौकिकी स्मार्ता प्रेतक्रिया इति प्रेत उपक्रियते गुणवत्पुत्रपौत्रप्रबन्धोपपत्त्या तस्माद् एतद् यत्नतः कार्यम् ॥ ३.१२७ ॥

श्रोत्रियायैव देयानि हव्यकव्यानि दातृभिः ।

अर्हत्तमाय विप्राय तस्मै दत्तं महाफलम् ॥ ३.१२८ ॥

**श्रोत्रियायेति **। दैवपित्र्यादीन्य् अन्नानि छन्दोमात्राध्यायिनि देयानि । छन्दोमात्राध्यायिनि श्रोत्रियशब्दप्रयोगान् नात्यन्तापायेन नियमः । सम्भवे पुनः समस्तशाखाध्यायिने दानम् । “यत्नेन भोजयेच् छ्राद्धं बह्वृचम्” इत्यादिनिमये सति पुनः श्रोत्रियत्वे सति श्रुतवृत्ताभिजनादियोगे च पूज्यतमाय विप्राय देयानि यतस् तस्मै दत्वा पितृतृप्तिद्वारेणातिशयेनोपकारकं भवति ॥ ३.१२८ ॥

एकैकम् अपि विद्वांसं दैवे पित्र्ये च भोजयेत् ।

पुष्कलं फलम् आप्नोति नामन्त्रज्ञान् बहून् अपि ॥ ३.१२९ ॥

यस्मात् **एकैकम् **इति । दैवपित्र्योः **एकैकम् अपि **वेदार्थविदं **भोजयेत् **। परिपूर्णं फलं पितृतृप्त्याख्यं प्राप्नोति । न त्व् अविदुषो **बहून् अपि **भोजयन् पुष्कलं फलम् आप्नोति इत्य् अभिधानात् ब्राह्मणस्य भोजनम् अत्र प्रधानं पिण्डदानादि तु अङ्गम् इत्य् अवसीयते ॥ ३.१२९ ॥

दूराद् एव परीक्षेत ब्राह्मणं वेदपारगम् ।

तीर्थं तद् धव्यकव्यानां प्रदाने सो ऽतिथिः स्मृतः ॥ ३.१३० ॥

दूराद् इति । “ये मातृतो दशपुरुषं पितृतो दशपुरुषम्” इत्यादिसूत्रकारोक्तर्त्विक्परीक्षान्यायेन समस्तशाखाध्यायिनं ब्राह्मणं **परीक्षेत **यस्मात् तस्मात् तथाविधो ब्राह्मणो हव्यकव्यानां तीर्थम् इव (यथा) तीर्थेनोदकावतारणमार्गेणोदकार्थिनो गच्छन्ति एवं तथाविधेन ब्राह्मणेन हव्यकव्यानि देवान् पितॄन् गच्छन्ति । तथाविधो ब्राह्मणः अतिथितुल्यः स्मृतः महाफलत्वात् ॥ ३.१३० ॥

सहस्रं हि सहस्राणाम् अनृचां यत्र भुञ्जते ।

एकस् तान् मन्त्रवित् प्रीतः सर्वान् अर्हति धर्मतः ॥ ३.१३१ ॥

सहस्रम् इति । **यत्र **दैवपित्र्यादौ अनृग्विदां ब्राह्मणानां दशलक्षाणि **भुञ्जते **तत्रैको वेदवित् भुक्त्वा प्रीतस् तुष्टः धर्मतो धर्मोत्पादनेन तान् सर्वान् अर्हति स्वीकर्तुं योग्यो भवति, तद्भोजनजन्यधर्मान् उत्पादयतीत्य् अर्थः । इति विद्वद्ब्राह्मणभोजनस्तुतिः

॥ ३.१३१ ॥

ज्ञानोत्कृष्टाय देयानि कव्यानि च हवींषि च ।

न हि हस्ताव् असृग्दग्धौ रुदिरेणैव शुध्यतः ॥ ३.१३२ ॥

ज्ञानोत्कृष्टायेति । विद्योत्कृष्टेभ्यो हव्यकव्यानि देयानि नान्येभ्यो यस्मात् यथा रुधिरोपलिप्तौ हस्तौ रुधिरेणैवापगतलेपौ कर्तुं न पार्यते, अपि तूदकेनैव शक्यते, एवं चाज्ञदानमुखेन नात्मा उत्तारयितुं शक्यते अपि तु विद्वद्दानद्वारेणैवेत्य् अविद्वन्निन्दया विद्वद्दानस्तुतिः ॥ ३.१३२ ॥

यावतो ग्रसते ग्रासान् हव्यकव्येष्व् अमन्त्रवित् ।

तावतो ग्रसते प्रेतो दीप्तशूलष्टर्ष्ट्ययोगुडान् ॥ ३.१३३ ॥

यावत इति । यत्सङ्ख्यकान् ग्रासान् हव्यकव्येष्व् अवेदविद् ग्रसते तत्सङ्ख्याकान् एव प्रस्तुतश्राद्धकर्ता ज्वलितान् स्थूलान् शूलर्ष्ट्याख्यायुधान् अयःपिण्डान् ग्रसते इति अविद्वद्दानफलकथनम् । तथा च व्यासो दातुर् एव फलम् आह,

ग्रसते यावतः पिण्डान् यस्य वै हविषो ऽनृचः ।

ग्रसते तावतः शूलान् गत्वा वैवस्वतक्षयम् ॥ ३.१३३ ॥

ज्ञाननिष्ठा द्विजाः केचित् तपोनिष्ठास् तथापरे ।

तपःस्वाध्यायनिष्ठाश् च कर्मनिष्ठास् तथापरे ॥ ३.१३४ ॥

ज्ञाननिष्ठा इति । **केचिद् **आत्मज्ञानपरा विप्रा भवन्ति । अपरे कृच्छ्रादितपःप्रधानाः । अन्ये तु तपोऽध्ययननिरताः । अपरे यागादितत्पराः ॥ ३.१३४ ॥

ज्ञाननिष्ठेषु कव्यानि प्रतिष्ठाप्यानि यत्नतः ।

हव्यानि तु यथान्यायं सर्वेष्व् एव चतुर्ष्व् अपि ॥ ३.१३५ ॥

इति किम् आह ज्ञाननिष्ठेष्व् इति । ज्ञानप्रधानेभ्यो यत्नेन पित्रर्थानि देयानि । देवार्थानि पुनः शास्त्रमर्यादानतिक्रमेण चतुर्भ्यो ज्ञाननिष्ठादिभ्यो ऽपीति ॥ ३.१३५ \

अश्रोत्रियः पिता यस्य पुत्रः स्याद् वेदपारगः ।

अश्रोत्रियो वा पुत्रः स्यात् पिता स्याद् वेदपारगः ॥ ३.१३६ ॥

अश्रोतिय इति । यः अश्रोत्रियपुत्रः आत्मना श्रोत्रियो, यः श्रोत्रियपुत्रः आत्मना चाश्रोत्रियः ॥ ३.१३६ ॥

ज्यायांसम् अनयोर् विद्याद् यस्य स्याच् छ्रोत्रियः पिता ।

मन्त्रसम्पूजनार्थं तु सत्कारम् इतरो ऽर्हति ॥ ३.१३७ ॥

तयोः कः श्रेयान् इत्य् उपन्यस्याह ज्यायांसम् इति । अनयोः पूर्वनिर्दिष्टयोर् मध्यात् श्रोत्रियपुत्रम् आत्मनाश्रोत्रियम् अपि प्रशस्यतरं जानीयात् । पश्चात् अश्रोत्रियपुत्रः आत्मना च श्रोत्रियः स तदधीतवेदपूजार्थं पूजाम् अर्हति । वेदस् तद्द्वारेण पूज्यते । न त्व् असौ पूजार्ह इति पित्रादिविद्यापरीक्षार्थम् । एतच् चाश्रोत्रियदानार्थम्, “श्रोत्रियैव देयानि” इति नियमात् । एवं च “दूराद् एव परीक्षेत” इत्य् एतत् विद्याव्यतिरिक्तजात्यतिशयपरीक्षार्थत्वेनावतिष्ठते ॥ ३.१३७ ॥

न श्राद्धे भोजयेन् मित्रं धनैः कार्यो ऽस्य सङ्ग्रहः ।

नारिं न मित्रं यं विद्यात् तं श्राद्धे भोजयेद् द्विजम् ॥ ३.१३८ ॥

न श्राद्धे भोजयेन् मित्रं धनैः कार्यो ऽस्य सङ्ग्रहः । नारिं न मित्रं यं विद्यात् तं श्राद्धे भोजयेद् द्विजम् ॥ मित्रं श्राद्धे न भोजयेत् । किं तर्हि । धनान्तरैर् अस्य मैत्र्यादिस्नेहः कार्यः । यं पुनः शत्रुं **न मित्रं **नाभिभर्तुं विज्ञातं ब्राह्मणं श्राद्धे भोजयेत् ॥ ३.१३८ ॥

यस्य मित्रप्रधानानि श्राद्धानि च हवींषि च ।

तस्य प्रेत्य फलं नास्ति श्राद्धेषु च हविःषु च ॥ ३.१३९ ॥

यस्येतियस्य मित्रोपकारपराणि हव्यकव्यानि तस्य पारलौकिकं फलं न भवतीति फलाभावकथनपरम् एतत्, न केवलं पूर्वमित्रस्य श्राद्धादिना देयं यावत् ॥ ३.१३९ ॥

यः सङ्गतानि कुरुते मोहाच् छ्राद्धेन मानवः ।

स स्वर्गाच् च्यवते लोकाच् छ्राद्धमित्रो द्विजाधमः ॥ ३.१४० ॥

इति । “श्राद्धदानेनानेन सह मैत्री मे भविष्यति” इति एवं यो मनुष्यः शास्त्रानभिज्ञतया **श्राद्धेन **मित्रभावं कुरुते स मित्रहेतुत्वात् श्राद्धं मित्रम् अस्येति श्राद्धमित्रो द्विजापसदः कर्मान्तरार्जितेनापि स्वर्लोके न सम्बध्यत इति ॥ ३.१४० ॥

सम्भोजिनी साभिहिता पैशाची दक्षिणा द्विजैः ।

इहैवास्ते तु सा लोके गौर् अन्धेवैकवेश्मनि ॥ ३.१४१ ॥

**सम्भोजिनीति **। **सा दक्षिणा **तद्दानं सह भुज्यते ययेति सम्भोजिनी या गोष्ठी पिशाचधर्मत्वात् पैशाची मन्वादिभिर् उक्ता । सा च मित्रार्थत्वाद् **इह लोके एवास्ते अन्धा गौर् **यथैकस्मिन् गृहे । न परलोके प्रत्युपकाराय भवति ॥ ३.१४१ ॥

यथेरिणे बीजम् उप्त्वा न वप्ता लभते फलम् ।

यथानृचे हविर् दत्वा न दाता लभते फलम् ॥ ३.१४२ ॥

यथेति । **यथा **ऊषरे भूप्रदेशे धान्यान्य् उप्त्वा कर्षकः **फलं न **प्राप्नोति एवम् अश्रोत्रियाय श्राद्धादि दत्वा **दाता न फलं **प्राप्नोति । श्रोत्रियदाने वैफल्यकथनार्थम् एतत् ॥ ३.१४२ ॥

दातॄन् प्रतिग्रहीतॄंश् च कुरुते फलभागिनः ।

विदुषे दक्षिणां दत्वा विधिवत् प्रेत्य चेह च ॥ ३.१४३ ॥

विदुषे दक्षिणा भवति प्रेत्य चेह च । वेदार्थविदे च यथाशास्त्रं श्राद्धादि दत्तं पितृतृप्त्याख्याम्मुत्रिकफलेन कीर्त्यनुषङ्गैहिकफलेन च दातॄन् सफला कुरुतेप्रतिग्रहीतॄंश् च तत्प्रतिग्रहलब्धधनानुष्ठितयागादिफलेन अमुत्र सफलान् कुरुते । अधर्मार्जितद्रव्यानुष्ठितयागादिनैष्फल्यात् । इह लोके च धर्मार्जितधनकृतकृष्यादिफल-विषेयान् सफलान् कुरुते इति विद्वद्दानस्य दातृप्रतिग्रहीतृदृष्टादृष्टाफलकथनार्थम् एतत्

॥ ३.१४३ ॥

कामं श्राद्धे ऽर्चयेन् मित्रं नाभिरूपम् अपि त्व् अरिम् ।

द्विषता हि हविर् भुक्तं भवति प्रेत्य निष्फलम् ॥ ३.१४४ ॥

कामम् इति । वरं गुणवद्ब्राह्मणान्तराभावे सगुणं मित्रं श्राद्धे भोजयेत् न योग्यम् अपि शत्रुम्, यतो ऽरिणा श्राद्धादि भुक्तं परलोके निष्फलं भवतीति । अन्याभावे गुणवान् मित्रप्रतिप्रसवार्थम् एतत् । छन्दोमात्राध्यायिनि श्रोत्रियशब्दप्रयोगात् तदाश्रयणं नैयमिकम् उक्तम् ॥ ३.१४४ ॥

यत्नेन भोजयेच् छ्राद्धे बह्वृचं वेदपारगम् ।

शाखान्तरगम् अथाध्वर्युं छन्दोगं तु समाप्तिकम् ॥ ३.१४५ ॥

अधुना तु सति सम्भवे फलविशेषार्थं समस्तशाखाध्यायिनि दानम् आह यत्नेनेति । समस्तशाखाध्ययिनं बह्वृचं तथाविधम् एवाध्वर्युं छन्दोगं चैवंविधम् एव **यत्नेन श्राद्धे भोजयेत् **। वृत्तवशान् नानाप्रकारैः शब्दैः सकलशाखाध्यायिन एवैते युक्ताः । ये तु छन्दोमात्राध्यायिप्रतिषेधार्थं श्रोत्रियायैव देयानीत्य् एतद्विशेषणार्थत्वम् अस्याहुः । तेषां अनेनैव सिद्धे श्रोत्रियायैव देयानीत्य् एतद् अनर्थकं स्यात् ॥ ३.१४५ ॥

एषाम् अन्यतमो यस्य भुञ्जीत श्राद्धम् अर्चितः ।

पितॄणां तस्य तृप्तिः स्याच् छाश्वती साप्तपौरुषी ॥ ३.१४६ ॥

एषाम् इति । **एषां **बह्वृचादीनां मध्याद् **अन्यतमो यस्य **त्व् अर्चितमनाः **श्राद्धं भुञ्जीत तस्य **पित्रादिसप्तपुरुषव्यापिनी अनवच्छिन्ना पितॄणां तृप्तिः स्याद् इति समस्तशाखाध्यायिभोजनफलकथनम् । अत एव विज्ञायते – यत्र क्वचनावस्थिताः पितरः पुत्राद्युपहृतकव्यैः सुखम् आसते । इतश् च पितृतृप्तिफलम् एतत्, श्राद्धकर्मणि च अकृताभ्यागमकृतविप्रणाशाव् अत्र चोदनीयौ, शास्त्रैकगोचरत्वे वैश्वानरवत् तथैवागमात्

॥ ३.१४६ ॥

एष वै प्रथमः कल्पः प्रदाने हव्यकव्ययोः ।

अनुकल्पस् त्व् अयं ज्ञेयः सदा सद्भिर् अनुष्ठितः ॥ ३.१४७ ॥

एष इति । हव्यकव्यप्रदानेन एष मुखो विधिः यद् असम्बन्धिभ्यः श्रोत्रियादिभ्यो दीयत इति । **अयं **वक्ष्यमाणः पुनर् मुखाभावे विधिर् बोद्धव्यः, मुख्याभावे च सर्वदा साधुभिर् अनुष्ठितः ॥ ३.१४७ ॥

मातामहं मातुलं च स्व्स्त्रीयं श्वशुरं गुरुम् ।

दौहित्रं विट्पतिं बन्धुम् ऋत्विग्याज्यौ च भोजयेत् ॥ ३.१४८ ॥

मातामहम् इति । मातामहमातुलभागिनेयश्वशुरविद्यागुरुदौहित्रर्त्विग्याज्यान् भोजयेत् । विट् प्रजा तस्याः पतिं विट्पतिं जामातरं **बन्धुं **च सगोत्रादिकम् ॥ ३.१४८ ॥

न ब्राह्मणं परीक्षेत दैव कर्मणि धर्मवित् ।

पित्र्ये कर्मणि तु प्राप्ते परीक्षेत प्रयत्नतः ॥ ३.१४९ ॥

नेति । धर्मज्ञः **दैवे कर्मणि **भोजनार्थं ब्राह्मणं न परीक्षेत लोकप्रसिद्धिमात्रेणैवासौ तथा प्रतिपद्य तत्र भोजनीयः । **पित्र्ये कर्मण्य् उपस्थिते **“दूराद् एव परीक्षेत" इत्युक्तनीत्या यत्नतः परीक्षेत ॥ ३.१४९ ॥

ये स्तेनाः पतिता क्लीबा ये च नास्तिकवृत्तयः ।

तान् हव्यकव्ययोर् विप्रान् अनर्हान् मनुर् अब्रवीत् ॥ ३.१५० ॥

**ये स्तेनाः पतिताः क्लीबा **इति । स्तेनादीन् विप्रान् हव्यकव्ययोर् उभयोर् अप्य् अयोग्यान् मनुर् आह । चोरान् ब्राह्मणसुवर्णाद् अन्यत्र, तस्य पतितत्वेनोपसङ्ग्रहात् । पतितम् एकादशे वक्षयति सुवर्णाद् अन्यत्र, तस्य पतितत्वेनोपसङ्ग्रहात् । पतितम् एकादशे वक्ष्यति क्लीबो नपुंसकम् । नास्ति परलोककर्मेत्य् एवं वर्तनं येषां ते नास्तिकवृत्तयः ॥ ३.१५० ॥

जटिलं चानधीयानं दुर्बलं कितवं तथा ।

याचयन्ति च ये पूगांस् तांश् च श्राद्धे न भोजयेत् ॥ ३.१५१ ॥

जटिलम् इति । ब्रह्मचारिणम् अस्वीकृतवेदम् अत्यन्तानध्ययनस्य श्रोतिर्यायैव देयानीति नियमे सति प्राप्त्यभावात् । तथा दुश्चर्मद्यूतवृत्त्ययाज्ययाजकान् श्राद्धे न भोजयेत् । दैवे त्व् अनिषेधः, तथा यत्रोभयनिषेधम् इच्छति तत्र हव्यकव्यग्रहणम् उभयत्र चेति करोति

॥ ३.१५१ ॥

चिकित्सका देवलका मांसविक्रयिणस् तथा ।

विपणेन च जीवन्तो वर्ज्याः स्युर् हव्यकव्ययोः ॥ ३.१५२ ॥

**चिकित्सका देवलका मांसविक्रयिणस् तथेति । **चिकित्सकादयो हव्यकव्ययोर् उभयोर् अपि वर्जनीया भवेयुः । चिकित्सको भिषक्, देवलकः प्रतिषेधः न धर्मार्थम्, तत्र विहितत्वात् । **मांसविक्रयिणः **सकृद् अपि । तथा च “सद्यः पतति मांसेन” इति लिङ्गम् । अन्यथा विपणेन गतार्थं स्यात्, इह च जीवन्त इत्य् उपादानात् मांसेन सकृद् अपि प्रतीयते । विपणो वाणिज्यम् ।

॥ ३.१५२ ॥

प्रतिरोद्धा गुरोश् चैव त्यक्ताग्निर् वार्धुषिस् तथा ।

प्रेष्यो ग्रामस्य राज्ञश् च कुनखी श्यावदन्तकः ॥ ३.१५३ ॥

नो चोम्मेन्तर्य्

यक्ष्मी च पशुपालश् च परिवेत्ता निराकृतिः ।

ब्रह्मद्विट् परिवित्तिश् च गणाभ्यन्तर एव च ॥ ३.१५४ ॥

यक्ष्मीति । क्षयी वृत्त्यर्थत्वेन पशुपालः प्रसिद्धः, परिवेत्तृपरिवित्ती च वक्ष्यमाणौ । निराकृतिः वेदादीनां निराकर्ता अनुपजीव्यः, ब्राह्मणानां द्वेष्टा गण्मध्यगतो ब्राह्मणादिभिः इत्य् एते हव्यकव्ययोः वर्ज्याः स्युः ॥ ३.१५४ ॥

कुशीलवो ऽवकीर्णो च वृषलीपतिर् एव च ।

पौर्नभवश् च काणश् च यस्य चोपपतिर् गृहे ॥ ३.१५५ ॥

कुशीलव इति । नटगायकादिः । कृतस्त्रीसंसर्गयोगो ब्रह्मचारी शूद्राया भर्ता । पुनर्भ्वाः पुत्रो वक्ष्यमाणः, काणः, यस्य च जायाजारो गृहे इत्य् एते हव्यकव्ययोः परिहरणीयाः

॥ ३.१५५ ॥

भृतकाध्यापको यश् च भृतकाध्यापितस् तथा ।

शूद्रशिष्यो गुरुश् चैव वाग्दुष्टः कुण्डगोलकौ ॥ ३.१५६ ॥

भृतकाध्यापक इति । पणपूर्वाध्यापकः, पणपूर्वाध्यापितः, शूद्रशिष्यः तस्यैव च गुरुः, न स्वगुरुः, तस्यानुकल्पे भोज्यत्वेनोक्तत्वात् । परुषभाषी, कुण्डगोलकौ वक्ष्यमाणौ, एते हव्यकव्ययोः वर्ज्याः ॥ ३.१५६ ॥

अकारणपरित्यक्ता मातापित्रोर् गुरोस् तथा ।

ब्राह्मैर् योनैश् च सम्बन्धैः संयोगं पतितैर् गतः ॥ ३.१५७ ॥

अकारणपरित्यक्तेति । मातृपितृविद्यागुऋऊणां निष्कारणं परित्यक्ता पतितैश् चाध्ययनकन्यादानादिसम्बन्धः सम्पर्कं गतः अर्वाग् अपि संवत्सरात् । संवत्सरेण तु पतितत्वाद् एव गतर्थता “संवत्सरेण पतति” इति ॥ ३.१५७ ॥

अगारदाही गरदः कुण्डाशी सोमविक्रयी ।

समुद्रयायी बन्दी च तैलिकः कूटकारकः ॥ ३.१५८ ॥

अगारदाहीति । गृहस्य दाहको, मारणद्रव्यदाता कुण्डस्य वक्ष्यमाणस्य यो ऽन्नम् अश्नाति, सोमस्य लतारूपस्य विक्रेता, समुद्रं यो गच्छति, स्तुतीनां पाठकः, तिलादेः पेषकः, लेख्यसाक्ष्यादौ कूटस्य कर्ता इत्य् एत उभयत्र परिहरणीयाः ॥ ३.१५८ ॥

पित्रा विवदमानश् च कितवो मद्यपस् तथा ।

पापरोग्य् अभिशस्तश् च जालिको रसविक्रयी ॥ ३.१५९ ॥

पित्रेति । **पापरोग्य् अभिशस्तश् च जालिको रसविक्रयी । **शास्त्रालोकवस्तुषु यः पित्रा सह विवदते, **कितवः **अपरः देवयति, इतरस्योक्तत्वात् । केकर इति पाठकाचारः । सुराव्यतिरिक्तमद्यस्य पाता कुष्ठी, पातकोपपातककर्तृत्वेनोत्पन्नाभिशापो ऽसत्य् अपि तत्कारित्वनिश्चये, सव्याजो धर्मानुष्ठाने, रसशब्दस्येक्षुरसादाव् अपि प्रसिद्धत्वात् तद्विक्रयी विषस्येव तत्राप्य् अर्थशास्त्रे रसशब्दप्रयोगात् इत्य् एते उभयत्र परिहर्तव्याः ॥ ३.१५९ ॥

धनुःशराणां कर्ता च यश् चाग्रेदिधिषूपतिः ।

मित्रध्रुग्द्यूतवृत्तिश् च पुत्राचार्यस् तथैव च ॥ ३.१६० ॥

धनुःशराणाम् इति । धनुःशरस्य कारकः । **अग्रेदिधिषूपतिः **ऽभ्रातुर् मृतस्य” इति वक्ष्यमाणः । वृत्तवशात् अग्र इत्य् अध्यलोपेन सत्यभामा भामेतिवत् । यत् तु गौतमीयपर्यालोचनया अग्रेदिधिषूपतिशब्देन द्वयं निष्पद्यते – अग्रेदिधिषूपतिः दिधिषूपतिश् च । तत्राग्रेदिधिषूपतिः अनूढाकन्यागामी, दिधिषूपतिस् तद्वोढेत्य् आहुः – तद् असत्, अशब्दार्थत्वात् । न च दिधिषूपतिश् च तद्वोढेति व्याख्यानं युक्तम्, “भ्रातुर् मृतस्य” इति मानवलक्षणविरोधात् । मित्रस्य यो ऽपकारे वर्तते, **द्यूतवृत्तिः **सभिकः, पुत्रेणाध्यापितः मुख्यस्य पुत्राचार्यत्वस्यासम्भवात् ॥ ३.१६० ॥

भ्रामरी गण्डमाली च श्वित्र्य् अथो पिशुनस् तथा ।

उन्मत्तो ऽन्धश् च वर्ज्याः स्युर् वेदनिन्दक एव च ॥ ३.१६१ ॥

भ्रामरीति । अपस्मारी, गण्डमालाख्यव्याध्युपेतः, श्वित्री, सूचकः, धातुसङ्क्षोभादियुक्तः, अन्धो वेदस्य कुत्सकः, इत्य् एते हव्यकव्ययोर् वर्ज्याः स्युः ॥ ३.१६१ ॥

हस्तिगोऽश्वोष्ट्रदमको नक्षत्रैर् यश् च जीवति ।

पक्षिणां पोषको यश् च युद्धाचार्यस् तथैव च ॥ ३.१६२ ॥

हस्तिगोऽश्वोष्ट्रदमक इति । हस्तिगवाश्वोष्ट्राणां विनेता, ज्यितिःशास्त्रेण जीवनः पक्षिणां वार्तनपूर्वकं क्रीडार्थं पोषयति युद्धशिक्षयिता एते उभयत्र परिहर्तव्याः ॥ ३.१६२ ॥

स्रोतसां भेदको यश् च तेषां चावरणे रतः ।

गृहसंवेशको दूतो वृक्षारोपक एव च ॥ ३.१६३ ॥

स्रोतसाम् इति । उदकागमनसेतुबन्धभेदकः भेदादिना देशान्तरनेता च । तेषाम् अवच्छादनकृत्, वास्तुविद्याजीवनः दूतो राजप्रेष्यव्यतिरिक्तो ऽपि । वृक्षाणां रोपयिता मूल्येन, न धर्मार्थं “दशाम्रवापी नरकं न याति” इत्यादिनोदनात् ॥ ३.१६३ ॥

श्वक्रीडी श्येनजीवी च कन्यादूषक एव च ।

हिंस्रो वृषलवृत्तिश् च गणानां चैव याजकः ॥ ३.१६४ ॥

श्वक्रीडीति । श्वभिः यः क्रीडति, याजकक्रियादिजीवकः कन्याया निन्दकः हिंसारतः, शूद्रजीव्नः । वृषलपुत्र इति वा पाठः । चतुर्दश्यादौ विनायकादिगणयागकृत् इत्य् एव उभयत्र वर्जनीयाः

॥ ३.१६४ ॥

आचारहीनः क्लीबश् च नित्यं याचनकस् तथा ।

कृषिजीवी श्लीपदी च सद्भिर् निन्दित एव च ॥ ३.१६५ ॥

आचारहीन इति । प्रत्युत्थानाद्याचारवर्जितः, **क्लीबः **निरुत्साहः, नपुंसकस्योक्तत्वात्, सर्वदा याच्ञास्वभावः । अस्वयङ्कृतं वापि यः कृष्या वृत्त्यन्तरसम्भवे ऽपि जीवति, **श्लीपदी **व्याधिविशेषाद् उच्छून्नैकचरणः साधुभिर् निन्दितः केनापि निमित्तेनेत्य् एतत् । उभयत्र बहिःकार्याः ॥ ३.१६५ ॥

औरभ्रिको माहिषिकः परपूर्वापतिस् तथा ।

प्रेतनिर्यापकश् चैव वर्जनीयाः प्रयत्नतः ॥ ३.१६६ ॥

औरभ्रिकः मेषमहिषजीवी पुनर्भुवो भर्ता मूल्येन प्रेतानां निर्हारकः न धर्मार्थम्, “एतद् वै परमं तपो यं प्रेतम् अरण्यं हरन्ति” इति श्रुत्या नोदितत्वात् । एते यत्नत उभयत्र वर्जनीयाः ॥ ३.१६६ ॥

एतान् विगर्हिताचारान् अपाङ्क्तेयान् द्विजाधमान् ।

द्विजातिप्रवरो विद्वान् उभयत्र विवर्जयेत् ॥ ३.१६७ ॥

एतान् इति । एते निन्दिताचाराः स्तेनादयः इहजन्मनि । काणादयश् च “एवं कर्माव्शेषेण जायन्ते” इति वक्ष्यमाणत्वात् प्राग्जन्मनि । अत एतान् योग्यब्राह्मणैः सह एकपङ्क्तिभोजनानर्हान् ब्राह्मणापसदान् द्विजश्रेष्ठः शास्त्रज्ञः दैवे पित्र्ये च वर्जयेत् ॥ ३.१६७ ॥

ब्राह्मणो ह्य् अनधीयानस् तृणाग्निर् इव शाम्यति ।

तस्मै हव्यं न दातव्यं न हि भस्मनि हूयते ॥ ३.१६८ ॥

ब्राह्मण इति । तृणाग्निर् यथा हविषोपशाम्यति न हविर्दहनसमर्थः, ततश् च निष्फलः तत्र होमः, एवं निष्फलत्वात् वेदाध्ययनेन शून्यो ब्राह्मणः तृणाग्नितुल्यः तस्मा उद्देशेन न दातव्यम् । यतो न भस्मनि होमः क्रियते । “श्रोत्रियायैव देयानि” इत्य् अनेनैव अनधीयाननिषेधसिद्धौ इदं वचनं दैवे काणादीनां छन्दोऽध्यायिनां स्वाचाराणाम् अभ्युअनुज्ञानार्थम् । गर्हिताचारं वर्जयेत् अनधीयानं च । यस् तु स्वाचारो ऽधीयानश् च तस्य दैवे काणत्वलिङ्गसंसूचितं प्राग्जन्मार्जितगर्हितकर्मशेषवत्वम् अनपेक्षम् । तथा वसिष्ठः

अथ चेन् मन्त्रसंयुक्तः शारीरैः पङ्क्तिदूषणैः ।

अदूष्यं तं यमः प्राह पङ्क्तिपावन एव सः ॥ इति ॥ ३.१६८ ॥

अपङ्क्त्यदाने यो दातुर् भवत्य् ऊर्ध्वं फलोदयः ।

दैवे कर्मणि पित्र्ये वा तं प्रवक्ष्याम्य् अशेषतः ॥ ३.१६९ ॥

अपङ्क्त्यदान इति । पङ्क्तिभोजनानर्हदाने **दातुर् **यद् एनो देवपित्रर्थहविषि फलोत्पत्तिर् भवति तत् साकल्येन **प्रवक्ष्यामि **॥ ३.१६९ ॥

अव्रतैर् यद् द्विजैर् भुक्तं परिवेत्त्रादिभिस् तथा ।

अपाङ्क्तेयैर् यद् अन्यैश् च तद् वै रक्षांसि भुञ्जते ॥ ३.१७० ॥

वेदग्रहणार्थं सावित्रादिव्रतरहितैः तथा **परिवेत्त्रादिभिर् अन्यैश् च **स्तेनादिभिर् अपाङ्क्तेयैः यत् देवपित्रर्थं भुक्तं तत् सुकृतलेशवशेन **रक्षांसि भुञ्जते **न दात्रभिमतफलाय भवति । अव्रतानां च निषिद्धमध्यापठितानां अप्य् अस्माद् एव निषेधो बोध्यः ॥ ३.१७० ॥

दाराग्निहोत्रसंयोगं कुरुते यो ऽग्रजे स्थिते ।

परिवेत्ता स विज्ञेयः परिवित्तिस् तु पूर्वजः ॥ ३.१७१ ॥

परिवेत्त्रादीन् अप्रसिद्धत्वाल् लक्षयति दानाग्निहोत्रसंयोगम् इति । यो ज्येष्ठे भ्रातरि अकृतदारके सति दारश्रौतस्मार्ताग्न्यानयनं कुरुते **स परिवेत्ता, **ज्येष्ठश् च परिवित्तिर् बोध्यः ॥ ३.१७१ ॥

परिवित्तिः परीवेत्ता यया च परिविद्यते ।

सर्वे ते नरकं यान्ति दातृयाजकपञ्चमाः ॥ ३.१७२ ॥

प्रसङ्गाद् एतद्व्यतिक्रमफलम् आह परिवित्तिर् इति । परिवित्तिपरिवेत्तारौ यया च कन्यया हेतुभूतया परिवेदनं क्रियते दाता च कन्यायाः याजकश् च तदुद्वाहहोमस्योपदेष्टा येषां **पञ्चमः **ते नरकं गच्छन्ति ॥ ३.१७२ ॥

भ्रातुर् मृतस्य भार्यायां यो ऽनुरज्येत कामतः ।

दर्मेणापि नियुक्तायां स ज्ञेयो दिधिषूपतिः ॥ ३.१७३ ॥

भ्रातुर् इति । मृतस्य भ्रातुः वक्ष्यमाणनियोगे **धर्मेणापि नियुक्तायां भार्यायां यो **नियोगधर्मं हित्वा कामेन हेतुभूतेनानुरागं भावयेत् सो ऽग्रेदिधिषूपतिः निषिद्धत्वात् । अत्र वृत्तवशात् सत्यभामावच् चाग्रशब्दस्याप्रयोगः ॥३.१७३ ॥

परदारेषु जायेते द्वौ सुतौ कुण्डगोलकौ ।

पत्यौ जीवति कुण्डः स्यान् मृते भर्तरि गोलकः ॥ ३.१७४ ॥

परदारेष्व् इति । परभायायां कुण्डगोलकाख्यौ सुताव् उत्पद्येते । तत्र सपतिकायां य उत्पद्यते स **कुण्डः, **विधवायां च गोलकः ॥ ३.१७४ ॥

ते तु जाताः परक्षेत्रे प्राणिनः प्रेत्य चेह च ।

दत्तानि हव्यकव्यानि नाशयन्ति प्रदायिनाम् ॥ ३.१७५ ॥

ते तु जाताः परक्षेत्रे इति । ते परभार्याजाताः कुण्डगोलकाखाः अदृष्टार्थानुपयोगात् प्राणिमात्रव्यपदेशार्हा **हवकव्यानीह दत्तानि **इहलोके आनुषङ्गिककीर्त्याख्यफलाभावात् अमुत्र देवपितृतृप्त्यभावात् दातॄणां निष्फलानि भवन्ति कुर्वन्ति वा ॥ ३.१७५ ॥

अपाङ्क्त्या यावतः पङ्क्त्यान् भुञ्जानान् अनुपश्यति ।

तावतां न फलं तत्र दाता प्राप्नोति बालिशः ॥ ३.१७६ ॥

**अपाङ्क्त्या **इति । पङ्क्तिभुञ्जानानर्हान् तान् अपि । यावतः यावत्सङ्ख्याकान् अनर्हा भोजनानर्हा अनुपश्यन्ति तावत्सङ्ख्याकानां सम्बन्धि तत्र श्राद्धादौ दाता अज्ञः नात्र फलम् आप्नुयात् इति अपाङ्क्त्यदर्शनफलम् उक्तम् ॥ ३.१७६ ॥

वीक्ष्यान्धो नवतेः काणः षष्टेः श्वित्री शतस्य च ।

पापरोगी सहस्रस्य दातुर् नाशयते फलम् ॥ ३.१७७ ॥

अन्धादीनां विशेषम् आह वीक्ष्येति । अन्धस्य दर्शनाभावात् तत्र सन्निहितो ऽसौ पाङ्क्त्यानां नवतेः सम्बन्धिभोजनफलं नाशयति । एवं **काणः षष्टेः श्वित्री शतस्य कुष्ठी सहस्रस्य **इत्य् अन्धादिसन्निधिफलकथनम् । सङ्ख्यावैचित्र्याद् एवेदम् अप्य् अवसीयते यत् अथ चेन् मन्त्रवियुक्त इत्य् उक्तं च शष्टिदर्शनावष्टम्भेन काणादीन् भोजयिष्यतः पूर्वपूर्वम् अपचितसङ्ख्या निन्दितप्रवृत्तिः । तदकामे ऽधिकनिनिदिते इति ॥ ३.१७७ ॥

यावतः संस्पृशेद् अङ्गैर् ब्राह्मणाञ् छूद्रयाजकः ।

तावतां न भवेद् दातुः फलं दानस्य पौर्तिकम् ॥ ३.१७८ ॥

यावतः संस्पृशतीति । शूद्रस्य पाकयज्ञादेर् उपदेष्टा कर्ता च यत्सङ्ख्याकान् ब्राह्मणान् **अङ्गैः स्पृशति **आसनेषूपकॢप्तेषु बर्हिष्मत्सु पृथग् इति स्पर्शनिषेधात् यावतां पङ्क्ताव् उपविशति तत्सङ्ख्याकानां सम्बन्धि भोजनफलं न भवतीति । शूद्रयाजकभोजनफलम् । अत एव चाग्रनिषिद्धगणपठितस्यापि निषेधो बोद्धव्यः

॥ ३.१७८ ॥

वेदविच् चापि विप्रो ऽस्य लोभात् कृत्वा प्रतिग्रहम् ।

विनाशं व्रजति क्षिप्रम् आमपात्रम् इवाम्भसि ॥ ३.१७९ ॥

वेदज्ञो ऽपि विप्रः शूद्रयाजकसकाशाल् लोभेन दानादि प्रतिगृह्य मृन्मयापक्वशरावाद्युदक इवाशु **विनाश्म् **उपैति । प्रसङ्गाल् लाघवार्थं अप्रकृतम् अप्य् एतद् उक्तम् । अन्यत्र हि क्रियमाणे शूद्रयाजकग्रहणं कर्तव्यं स्यात् ॥ ३.१७९ ॥

सोमविक्रयिणे विष्ठा भिषजे पूयशोणितम् ।

नष्टं देवलके दत्तम् अप्रतिष्ठं तु वार्धुषौ ॥ ३.१८० ॥

**सोमविक्रयिण **इति । **सोमविक्रयिणे **यद् **दत्तं **तद् दातृभोजनार्थं शकृत् सम्पद्यते । तच् च शकृद्भोजने तिर्यग्जात्युत्पत्तिफलता स्यात् [इति] अनेन प्रकारेणोक्तं भवति । एवं पूयरुधिरे अपि व्याख्येये । **नष्टं **विनाशम् उपगतम्, अतश् च न तत्फलं भवति । अप्रतिष्ठितम् अलब्धास्पदम्, अतश् चानाश्रयत्वात् न फलदानसमर्थम् ॥ ३.१८० ॥

यत् तु वाणिजके दत्तं नेह नामुत्र तद् भवेत् ।

भस्मनीव हुतं द्रव्यं तथा पौनर्भवे द्विजे ॥ ३.१८१ ॥

**यद् **इति । वाणिजकाय **यद् दत्तं तत् नेह **कीर्तये, नापि परलोकफलाय भवति । पुनर्भूपुत्राय च दत्तं निष्फलं भस्मनीव हुतं हव्यं तत्प्रेष्यम् [तद्वज् ज्ञेयम्]

॥ ३.१८१ ॥

इतरेषु त्व् अपङ्क्त्येषु यथोद्दिष्टेष्व् असाधुषु ।

मेदोऽसृङ्मांसमज्जास्थि वदन्त्य् अन्नं मनीषिणः ॥ ३.१८२ ॥

इतरेष्व् इति । इतरेभ्यः अनुक्तफलेभ्यो ऽपाङ्क्त्रेभ्यः यद् दत्तम् अन्नं तत् मेदशोणितमांसमज्जास्थि भवतीति विद्वांसः । अथ “सोमविक्रयिणे विष्ठा” इतिवद् व्याख्येयम् ॥ ३.१८२ ॥

अपङ्क्त्योपहता पङ्क्तिः पाव्यते यैर् द्विजोत्तमैः ।

तान् निबोधत कार्त्स्नेय द्विजाग्र्यान् पङ्क्तिपावनान् ॥ ३.१८३ ॥

अपाङ्क्त्योपहतेति । स्तेनादिभिः पङ्क्त्युपविष्टैः दूषिता पङ्क्तिः यैर् ब्राह्मणैः पवित्रीक्रियते **तान् **पङ्क्तिपवित्रीकरणात् ब्राह्मणान् साकल्येन शृणुत । यद्य् अप्य् अस्य पङ्क्तिनिषेधात् स्तेनादीनां स्तेनादीनां श्राद्धदानासम्भवे ऽपि सति पङ्क्तिपावनवचनम् अनर्थकम्, तथापि परीक्षायां कृतायाम् अपि रहस्यविज्ञानदोषसम्भवात् इदं तन्निवृत्त्यर्थम् अर्थवद् भवति ॥ ३.१८३ ॥

अग्र्याः सर्वेषु वेदेषु सर्वप्रवचनेषु च ।

श्रोत्रियान्वयजाश् चैव विज्ञेयाः पङ्क्तिपावनाः ॥ ३.१८४ ॥

अग्र्या इति । सर्वेषु वेदेषु ऋग्वेदादिषु ये अग्रे भवाः (व्याः) वेदपारगत्वे सत्य् अपि वेदं करामलकवत् पश्यन्तीति **अग्र्या **उच्यन्ते, ते **पङ्क्तिपावना **बोद्धव्याः । तथा प्रोच्यते एभिर् वेदार्थम् इति **प्रवचान्य् **अङ्गानि तेषु पूर्ववद् अग्र्याः वेदज्ञत्वाभावे ऽपि पङ्क्तिपावनाः तथा वंशम् अविच्छिन्नवेदाः पङ्क्तिपावनाः । पूर्वं “अश्रोत्रियः पिता यस्य” (१.१३६) इति पितृगतश्रोतियत्वेन भोज्यत्वम् उक्तम् । अनेन तु सकलवंशाविच्छिन्नवेदत्वेन पङ्क्तिपावन उच्यते ॥ ३.१८४ ॥

त्रिणाचिकेतः पञ्चाग्निस् त्रिसुपर्णः षडङ्गवित् ।

ब्रह्मदेयानुसन्तानो ज्येष्ठसामग एव च ॥ ३.१८५ ॥

त्रिणाचिकेत इति । त्रिणाचिकेताख्याध्वर्यव वेदव्रताचरणात् गुणात् ब्राह्मणो ऽपि **त्रिणाचिकेतः, पञ्चाग्निर् **व्याख्यातः, त्रिसुपर्णाख्यऋग्वेदव्रतयोगात् पूर्ववत् त्रिसुपर्णः । व्याकरणादीनि षडङ्गानि यो वेत्ति । “सर्वप्रवचनेषु” इत्य् अनेन अङ्गाध्येता उक्तः । अनेन त्व् अङ्गज्ञ उच्यते । ब्राह्मविवाहोढापत्यं ज्येष्ठसामाख्यसामवेदव्रतयोगात् ज्येष्ठसामगः ॥ ३.१८५ ॥

वेदार्थवित् प्रवक्ता च ब्रह्मचारी सहस्रदः ।

शतायुश् चैव विज्ञेया ब्राह्मणाः पङ्क्तिपावनाः ॥ ३.१८६ ॥

वेदार्थविद् इति । अन्तरेणाप्य् अङ्गानि यो वेदार्थं प्राज्ञतया वेत्ति प्रवक्ता अध्यापयिता व्याख्याता धर्मार्थं वेदवेदार्थयोः **ब्रह्मचारी **। “गावो वै यज्ञस्य मातरः” इति वेददर्शनात् इहापि वेदमूलत्वात् गोसहस्रस्य दाता बहुप्रदश् च, एवं शतवर्षश् च इत्य् एते ब्राह्मणाः “श्रोत्रियायैव देयानि” इति नियमात् । सति श्रोत्रियत्वे एतद्गुणयोगे पङ्क्तिपावना बोद्धव्याः ॥ ३.१८६ ॥

पूर्वेद्युर् अपरेद्युर् वा श्राद्धकर्मण्य् उपस्थिते ।

निमन्त्रयीत त्र्यवरान् सम्यग् विप्रान् यथोदितान् ॥ ३.१८७ ॥

पूर्वेद्युर् इति । श्राद्धे कर्मणि प्राप्ते स्त्रीप्रयोगाशङ्कायां श्राद्धदिवसात् पूर्वस्मिन्न् अहनि परस्मिन्न् एव असति सम्भवे यद्य् अत्यन्तन्यूनान् ततस् त्रीन् न तु त्रीन् एव, एकैकविधेर् अप्य् उक्तत्वात् । प्रश्रयपूर्वं वा यथोक्तान् विप्रान् निमन्त्रयेत् ॥ ३.१८७ ॥

निमन्त्रितो द्विजः पित्र्ये नियतात्मा भवेत् सदा ।

न च छन्दांस्य् अधीयीत यस्य श्राद्धं च तद् भवेत् ॥ ३.१८८ ॥

निमन्त्रित इति । श्राद्धे ब्राह्मणो **निमन्त्रितः **स्त्रीनिवृत्तियमनियमानुष्ठानवान् सदा निमन्त्रणात् प्रभृति श्राद्धाहोरात्रं यावत् स्यात् । वेदांश् च जपाद्यवश्यकर्तव्यव्यतिरेकेण नाधीयीत श्राद्धकृच् च तद्वद् एव स्यात् ॥ ३.१८८ ॥

निमन्त्रितान् हि पितर उपतिष्थन्ति तान् द्विजान् ।

वायुवच् चानुगच्छन्ति तथासीनान् उपासते ॥ ३.१८९ ॥

निमन्त्रितान् इति । यस्तान् **तान् द्विजान् निमन्त्रितान् पितर उपतिष्ठन्ति **अदृश्यरूपेण समीपम् आयान्ति । प्राणवच् च गच्छतो ऽनुगच्छन्ति । उपविष्टेषु विप्रेषु समीपे उपविशन्ति तस्मात् नियतात्मना निमन्त्रितेन भाव्यम् इति पूर्वविध्यर्थवादः ॥ ३.१८९ ॥

केतितस् तु यथान्यायं हव्ये कव्ये द्विजोत्तमः ।

कथञ्चिद् अप्य् अतिक्रामन् पापः सूकरतां व्रजेत् ॥ ३.१९० ॥

केतित इति । हव्यकव्ययोः शास्त्रमर्यादानतिक्रमेण निमन्त्रितो ब्राह्मणः अङ्गीकृत्य केनापि प्रकारेणाभुञ्जानः तदतिक्रमपापवान् जन्मान्तरे सूकरत्वं याति । पापशूकर इति पाठे पापसूकरो ग्रामसूकरः ॥ ३.१९० ॥

आमन्त्रितस् तु यः श्राद्धे वृशल्या सह मोदते ।

दातुर् यद् दुष्कृतं किञ्चित् तत् सर्वं प्रतिपद्यते ॥ ३.१९१ ॥

आमन्त्रित इति । “तद् अहर् ब्रह्मचारी स्यात्” इति गौतमस्मरणात् । वृषल्य् अपि कामयमाना चालयति भर्तारम् इति वृषल्य् अत्र ब्राह्मण्य् अपि । श्राद्धे निमन्त्रितः सन् तया सह स्त्रीपुन्धर्मेण यो रमते स दातुर् यत् पापं तत् सर्वं प्राप्नोति इति पापोत्पत्तिप्रतिपादनमात्रम् एतत् । अन्यथा अपापे दातरि दुष्कृतसम्बन्धो न स्यात् । तत्र (न चात्र) दातुर् एतत् प्रायश्चित्ततया चोदितं येनासौ दुष्कृतान् मुच्यते ॥ ३.१९१ ॥

अक्रोधनाः शौचपराः सततं ब्रह्मचारिणः ।

न्यस्तशस्त्रा महाभागाः पितरः पूर्वदेवताः ॥ ३.१९२ ॥

अक्रोधना इति । क्रोधशून्याः मृद्वार्यादिशुद्धिनिरताः सर्वदावर्जितस्त्रीसम्प्रयोगाः त्यक्तायुधाः महात्मानः अनादिदेवतारूपाः **पितरः **अतः क्रोधादिरहितैः श्राद्धब्राह्मणैर् भाव्यम् ॥ ३.१९२ ॥

यस्माद् उत्पत्तिर् एतेषां सर्वेषाम् अप्य् अशेषतः ।

ये च यैर् उपचर्याः स्युर् नियमैस् तान् निबोधत ॥ ३.१९३ ॥

यस्माद् इति । एषां पितॄणां यस्य सकाशाद् **उपत्तिः ये च **पितरो यैः ब्राह्मणादिभिः यागादिभिर् नियमैः शास्त्रोक्तकर्मभिः यथा स्युः तत् शृणुत ॥ ३.१९३ ॥

मनोर् हैरण्यगर्भस्य ये मरीच्य्दयः सुताः ।

तेषाम् ऋषीणां सर्वेषां पुत्राः पितृगणाः स्मृताः ॥ ३.१९४ ॥

मनोर् इति । हिरण्यगर्भापत्यस्य **मनोः स्मृताः ये मरीच्यादयः **पुत्राः यथोक्तम् “मरीचिम् अत्र्य् आङ्गिरसम्” इत्यादि । **तेषां **मरीच्यादीनां **सर्वेषाम् ऋषीणाम् **एते ये सोमपादयः पितृमुख्याः मन्वादिभिः **स्मृताः **॥ ३.१९४ ॥

विराट्सुताः सोमसदः साध्यानां पितरः स्मृताः ।

अग्निष्वात्ताश् च देवानां मारीचा लोकविश्रुताः ॥ ३.१९५ ॥

विराट्सुता इति । विराट्सुताः सोमसदो नाम **साध्यानां पितरः देवानां च **मरीचिपुत्राः अग्निष्वात्ताख्याः लोके ख्याताः ॥ ३.१९५ ॥

दैत्यदानवयक्षाणां गन्धर्वोरगरक्षसाम् ।

सुपर्णकिन्नराणां च स्मृता बर्हिषदो ऽत्रिजाः ॥ ३.१९६ ॥

दैत्यदानवयक्षाणाम् इति । दैत्यादीनां प्रथमाध्यायोक्तभेदानां अत्रिपुत्राः बर्हिषदो नाम पितरः स्मृताः ॥ ३.१९६ ॥

सोमपा नाम विप्राणां क्षत्रियाणां हविर्भुजः ।

वैश्यानाम् आज्यापा नाम शूद्राणां तु सुकालिनः ॥ ३.१९७ ॥

सोमपा नामेति । ब्राह्मणक्षत्रियवैश्यशूद्राणां यथाक्रमं सोमपहविर्भुजाज्यप-सुकालिनामानः पितरः ॥ ३.१९७ ॥

सोमपास् तु कवेः पुत्रा हविष्मन्तो ऽङ्गिरःसुताः ।

पुलस्त्यस्याज्यपाः पुत्रा वसिष्ठस्य सुकालिनः ॥ ३.१९८ ॥

सोमपा इति । ब्राह्मणस्य पितरः सोमपाः कवेः भृगोः** पुत्राः **। क्षत्रियपितरो हविर्भुजो **हविष्मन्तो ऽङ्गिरःसुताः **। वैश्यपितरस् त्व् आज्यपाः पुलस्त्यस्य पुत्राः । शूद्रपितरः **सुकालिनो वसिष्ठस्य **पुत्राः ॥ ३.१९८ ॥

अन्अग्निदग्धाग्निदग्धान् काव्यान् बर्हिषदस् तथा ।

अग्निष्वात्तांश् च सौम्यांश् च विप्राणाम् एव निर्दिशेत् ॥ ३.१९९ ॥

अनग्निदग्धान् इति । अनग्निदग्धाग्निदग्धकाव्यबर्हिषदः अग्निष्वात्तसौमाख्यान् अपरान् पितॄन् विप्राणाम् एव जानीयत् । वेदे पुराणेषु च एवन्नाम(कं) पितॄणां प्रसिद्धम्

॥ ३.१९९ ॥

य एते तु गणा मुख्याः पितॄणां परिकीर्तिताः ।

तेषाम् अपीह विज्ञेयं पुत्रपौत्रम् अनन्तकम् ॥ ३.२०० ॥

इति** । य एते **सोमपादयः प्रधानभूताः पितृगणा उक्ताः तेषाम् अपीह संसारे पितर एव पुत्रपौत्रा विज्ञेयाः ॥ ३.२०० ॥

ऋषिभ्यः पितरो जाताः पितृभ्यो देवमानवाः ।

देवेभ्यस् तु जगत् सर्वं चरं स्थाण्व् अनुपूर्वशः ॥ ३.२०१ ॥

ऋषिभ्यः पितर इति । मरीच्यादिभ्य उक्तं नामभ्यो ये सोमपादयो जाताः, तेभ्यश् च देवदानवं जातम् । देवेभ्यश् च स्थावरजङ्गमरूपं **सर्वं जगत् **क्रमेण जातम् । एवं चोक्तपितृभवत्वात् पितृपितामहप्रपितामहादीनां तत्पूजायां ते पूजिता भवन्तीत्य् एतत्प्रतिपादनार्थं सोमपादिपितृगणोपन्यासः प्रकृतपितृपूजास्तुत्यर्थं विज्ञेयः ॥ ३.२०१ ॥

राजतैर् भाजनैर् एषाम् अथो वा रजतान्वितैः ।

वार्य् अपि श्रद्धया दत्तम् अक्षयायोपकल्पते ॥ ३.२०२ ॥

**राजतैर् **इति । तेषां पितॄणां रौप्यपात्रैः रौप्ययुक्तैर् वा पानीयम् अपि भक्त्या दत्तम् अक्षय्यसुखहेतु सम्पद्यते । किं पुनः प्रशस्तामिषादीनि घृतादीनि दानपात्रविशेषफलम् एतत् ॥ ३.२०२ ॥

दैवकार्याद् द्विजातीनां पितृकार्यं विशिष्यते ।

दैवं हि पितृकार्यस्य पूर्वम् आप्यायनं स्मृतम् ॥ ३.२०३ ॥

देवकार्याद् इति । दैवस्य देवकर्मणः सकाशात् पित्र्यं कर्म द्विजातीनां विशेषेण कर्तव्यतयोपदिश्यते । प्रधानं हि तत् यस्मात् दैवकर्म पितृकर्मणः पूर्व सत् परिपूरकं स्मृतम् । एवं च तस्य पितृकार्यपरिपूरकवद् अङ्गत्वम् इति ॥ ३.२०३ ॥

तेषाम् आरक्षभूतं तु पूर्वं दैवं नियोजयेत् ।

रक्षांसि विप्रलुम्पन्ति श्राद्धम् आरक्षवर्जितम् ॥ ३.२०४ ॥

तेषाम् इति । पितॄणां रक्षाभूतम्, गृह्यदर्शनात् विश्वान् देवान् उद्दिश्य पूर्वं ब्राह्मणं निमन्त्रयेत् । यस्माद् रक्षोदर्शितं श्राद्धं रक्षांस्य् आच्छिन्दन्ति यस्माद् रक्षाभूतं पित्र्यस्य दैवं तस्मात् ॥ ३.२०४ ॥

दैवाद्यन्तं तद् ईहेत पित्राद्यन्तं न तद् भवेत् ।

पित्र्याद्यन्तं त्व् ईहमानः क्षिप्रं नश्यति सान्वयः ॥ ३.२०५ ॥

दैवाद्यन्तम् इति । **पित्राद्यन्तं त्व् ईहमानः क्षिप्रं नश्यति सान्वय **इति । ततः श्राद्धं दैवादि दैवान्तं चानुतिष्ठेत । न च पित्र्योपक्रमापवर्गं **पित्राद्यन्तं **तद् अनुतिष्ठन् ससन्तानम् आशु विनश्यतीति ॥ ३.२०५ ॥

शुचिं देशं विविक्तं च गोमयेनोपलेपयेत् ।

दक्षिनाप्रवणं चैव प्रयत्नेनोपपादयेत् ॥ ३.२०६ ॥

शुचिम् इति । अनुपहतं देशं जनैर् अनाकीर्णं गोशकृता **उपलेपयेत् **। अथ वा दक्षिणस्यां दिशि अवनतो यदि स्वभावतो न स्यात् तदा प्रयत्नतः तं सम्पादयेत् ॥ ३.२०६ ॥

अवकाशेषु चोक्षेषु जलतीरेषु चैव हि ।

विविक्तेषु च तुष्यन्ति दत्तेन पितरः सदा ॥ ३.२०७ ॥

अवकाशेष्व् इति । स्वभावशुचिषु स्थानेषु नद्यादिपुलिनेषु च निर्जनेषु प्रदेशेषु दत्तेन श्राद्धादिना पितरः सर्वदा तुष्यन्ति तस्मिंश् च देशे ॥ ३.२०७ ॥

आसनेषूपकॢप्तेषु बर्हिष्मत्सु पृथक् पृथक् ।

उपस्पृष्टोदकान् सम्यग् विप्रांस् तान् उपवेशयेत् ॥ ३.२०८ ॥

आसनेष्व् इति । **आसनेषु **संसर्भेषु पृथक् पृथक् विन्यस्तेषु **सम्यक् **कृतस्नानाचमनान् **तान् **पूर्वं निमन्त्रितान् **उपवेशयेत् **॥ ३.२०८ ॥

उपवेश्य तु तान् विप्रान् आसनेष्व् अजुगुप्सितान् ।

गन्धमाल्यैः सुरभिभिर् अर्चयेद् दैवपूर्वकम् ॥ ३.२०९ ॥

उपवेश्येति । **तान् विप्रान् **अनिन्दितान् **आसनेषूपवेश्य **अनन्तरं कुङ्कुममाल्यधूपादिभिः स्वामोदैः देवब्राह्मणपूर्वकम् अर्चयेत् ॥ ३.२०९ ॥

तेषाम् उदकम् आनीय सपवित्रांस् तिलान् अपि ।

अग्नौ कुर्याद् अनुज्ञातो ब्राह्मणो ब्राह्मणैः सह ॥ ३.२१० ॥

तेषाम् इति । **तेषां **ब्राह्मणानाम् **उदकं **दर्भतिलमिश्रं दत्वा “अग्नौ करवाणि करिष्ये चेत्य् अनुज्ञातो यदा कुर्वित्य् एवं ब्रूयुः” इति गृह्योक्त्रूपेण सह ब्राह्मणैर् अनुज्ञातः अग्नौ वक्ष्यमाणं होमं **कुर्यात् **। ब्राह्मणग्रहणं द्विजप्रदर्शनार्थम्, त्रयाणां प्रकृतत्वा

॥ ३.२१० ॥

अग्नेः सोमयमाभ्यां च कृत्वाप्य् आयनम् आदितः ।

हविर्दानेन विधिवत् पश्चात् सन्तर्पयेत् पितॄन् ॥ ३.२११ ॥

अग्नेर् इति । सोमयमयोः द्वन्द्वनिर्देशे ऽपि अग्नेर् निर्देशाभावात् देवताद्वयं तेन अग्नये स्वाहा, सोमाय स्वाहा, यमाय स्वाहेत्य् एवं अग्न्यादीनां पर्युक्षणादि विधिपूर्वकं हविर्दानेन तर्पणं आदौ कृत्वा पश्चाद् ब्राह्मणभोजनादि ॥ ३.२११ ॥

अग्न्यभावे तु विप्रस्य पाणाव् एवोपपादयेत् ।

यो ह्य् अग्निः स द्विजो विप्रैर् मन्त्रदर्शिभिर् उच्यते ॥ ३.२१२ ॥

अग्न्यभाव इति । अनग्निकस्य अनुपनीतोपनीतासमावृत्ताकृतदारमृतभार्यादेर् मृताहादिश्राद्धे विधानाद् औपासनाग्न्यभावे ब्राह्मणहस्त एतदाहुतित्रयं दद्यात्, यस्मात् य एवाग्निः स एव ब्राह्मण इति वेदविद्भिः ब्राह्मणैर् उच्यते ॥ ३.२१२ ॥

अक्रोधनान् सुप्रसादान् वदन्त्य् एतान् पुरातनाः ।

लोकस्याप्यायने युक्तान् श्राद्धे देवान् द्विजोत्तमान् ॥ ३.२१३ ॥

**अक्रोधनान् ** इति । अक्रोधनान् क्रोधशून्यान् स्वाराधनादीन् “अग्नौ प्रास्ताहुतिर्” इति न्यायेन लोकवृद्ध्युपादानात् श्राद्धसम्प्रदानभूतान् एतान् ब्राह्मणान् मन्वादयो वदन्ति । तस्मात् देवतुल्यत्वात् तद्धस्ते पूर्वविध्यर्थवादः ॥ ३.२१३ ॥

अपसव्यम् अग्नौ कृत्वा सर्वम् आवृत् परिक्रमम् ।

अपसव्येन हस्तेन निर्वपेद् उदकं भुवि ॥ ३.२१४ ॥

**अपसव्यम् **इति । अग्नौ यः पर्युक्षणपरिस्तरणाहुतिदानादीनि कर्तव्यताक्रमः तं सर्वम् अपसव्यपितृकर्मवत् दक्षिणासंस्थं कृत्वा तद् एतद् उदक्संस्थं **अपसव्येन **दक्षिणेन हस्तेन पितृतीर्थेन पिण्डाधारभूतायां भुवि उदकं प्रक्षिपेत् ॥ ३.२१४ ॥

त्रींस् तु तस्माद् धविःशेषात् पिण्डान् कृत्वा समाहितः ।

औदकेनैव विधिना निर्वपेद् दक्षिणामुखः ॥ ३.२१५ ॥

त्रीन् इति । तस्माद् अग्न्यादिहोमार्थाहुतिं दत्वा हुतशिष्टान् त्रीन् पिण्डान् कृत्वा औदकेन विधिना दक्षिणहस्तेन पितृतीर्थेनानन्यचित्तो **दक्षिणामुखस् **तेषु दर्भेषु “तं हस्तं निमृज्यात्” इति दर्शनात् दर्भेषु दद्यात् । अत एव चोदकम् अपि पूर्वोक्तपिण्डाधारभुवि दर्भेष्व् एव दद्यात्

॥ ३.१२५ ॥

न्युप्य पिण्डांस् ततस् तांस् तु प्रयतो विधिपूर्वकम् ।

तेषु दर्भेषु तं हस्तं निर्मृज्याल् लेपभागिनाम् ॥ ३.२१६ ॥

न्य्प्येतितान् पिण्डान् पिण्डेषु अञ्जनाभ्यञ्जनवासो दद्यात् इत्य् एवमादिसूत्रकारोक्तविधिपूर्वकं दत्वा ततः **तेषु **पिण्डाधारभूतेषु दर्भेषु करावघर्षणं इति वैष्णवस्मरणात् । दर्भमूलेषु **तं हस्तं **प्रपितामहात् पूर्वेषां त्रयाणां **लेपभागिनां **हस्तसंश्लिष्टान्नावयवभागितृप्तये समर्पितलेपं कुर्यात्

॥ ३.२१६ ॥

आचम्योदक्परावृत्य त्रिर् आयम्य शनैर् असून् ।

षडृतूंश् च नमस् कुर्यात् पितॄन् एव च मन्त्रवत् ॥ ३.२१७ ॥

**आचम्योदक्परावृत्येति **। तद् अनूपस्पृश्य आचम्योदङ्मुखः यथाशक्ति त्रीन् प्राणायामान् कृत्वा “वसन्ताय नमः” इति षडृतून् नमस्कुर्यात् । **पितॄन् च **पितॄंश् च “नमो वः पितरः” इत्य् एवमादि मन्त्रयुक्तं कृत्वा “अभिपर्यावृत्त्या” इति (म्ध् ४.१) गृह्यदर्शनात् दक्षिणाभिमुखो भूत्वा नमस्कुर्यात् ॥ ३.२१७ ॥

उदकं निनयेच् छेषं शनैः पिण्डान्तिके पुनः ।

अवजिघ्रेच् च तान् पिण्डान् यथान्युप्तान् समाहितः ॥ ३.२१८ ॥

उदकम् इति । पिण्डाधारदर्भदत्तोदकशेषम् उदकं पिण्डसमीपे **पुनः **उत्तरयोत्सृजेत् । तांश् च पिण्डान् येनैव क्रमेण दत्तान् तेनैव क्रमेण अनन्यमना जिघ्रेत् ॥ ३.२१८ ॥

पिण्डेभ्यः स्वल्पिकां मात्रां समादायानुपूर्वशः ।

तान् एव विप्रान् आसीनान् विधिवत् पूर्वम् आशयेत् ॥ ३.२१९ ॥

पिण्डेभ्य इति । **पिण्डेभ्यः **अत्यन्ताल्पभागं पितृपिण्डक्रमेण गृहीत्वा तान् एव पित्राद्यर्थोपवेशितान् विप्रान् विधिवत् नयेच् च । आनुपूर्व्यां भोजनकाले अन्यभाजनात् पूर्वं भोजयेत् ॥ ३.२१९ ॥

ध्रियमाणे तु पितरि पूर्वेषाम् एव निर्वपेत् ।

विप्रवद् वापि तं श्राद्धं स्वकं पितरम् आशयेत् ॥ ३.२२० ॥

ध्रियमाण इति । जीवति पितरि पितामहादीनाम् एव त्रयाणां श्राद्धं कुर्यात् न पितुः । अथ वा पितृस्थाने तम् एव स्वकं पितरं श्राद्धे भोजयेत् पितामहप्रपितामहयोश् च ब्राह्मणौ भोजयेत् पिण्डौ च दद्यात् ॥ ३.२२० ॥

पिता यस्य तु वृत्तः स्याज् जीवेच् चापि पितामहः ।

पितुः स नाम सङ्कीर्त्य कीर्तयेत् प्रपितामहम् ॥ ३.२२१ ॥

पिता यस्य तु वृत्तः इति । पितृजीवनपक्षापेक्षो वाशब्दः । **यस्य ** पुनः **पिता **मृतः स्यात् पितामहश् च जीवच् च स पितुर् ब्राःमणभोजनपिण्डदानादौ नामोच्चार्यं **प्रपितामहं कीर्तयेत् **ताभ्यां द्वाभ्यां श्राद्धं कुर्यात् प्रपितामहस्य च पितुः । यथाह विष्णुः- “यस्य पिता प्रेतः स्यात् स पित्रे पिण्डं निधाय पितामहात् पराभ्यां द्वाभ्यां दद्यात्” इति ॥ ३.२२१ ॥

पितामहो वा तच्छ्राद्धं भुञ्जीतेत्य् अब्रवीन् मनुः ।

कामं वा समनुज्ञातः स्वयम् एव समाचरेत् ॥ ३.२२२ ॥

पितामह इति । पितामहविप्रस्थाने पितामहं वा भोजयेत् । पितृप्रपितामहयोः पिण्डदानं ब्राह्मणभोजनं च कुर्यात् । अथ वा पित्रा पितामहेन वा जीवता अहं न भुञ्जे यथेच्छम् एव (कुर्विति) अनुज्ञातः स्वयम् एव यथारुचि समाचरेत् । उक्तपक्षेभ्यः पक्षान्तरं यथा गृह्ये उक्तम्- “जीवत्पितृकस्यानारम्भः कर्माणीति होमान्तः” ॥ ३.२२२ ॥

तेषां दत्वा तु हस्तेषु सपवित्रं तिलोदकम् ।

तत् पिण्डाग्रं प्रयच्छेत् तु स्वधैषाम् अस्त्व् इति ब्रुवन् ॥ ३.२२३ ॥

तेषाम् इति । तेषां ब्राह्मणानां हस्तेषु सदर्भं तिलोदकं दत्वा पिण्डेभ्यः स्वल्पिकां मात्राम् इत्य् अनेन यन् निर्दिष्टं तत् **पिण्डाग्रं **पित्रे स्वधास्तु इत्य् एवमाइ **ब्रुवन् **क्रमेण दद्यात् ॥ ३.२२३ ॥

पाणिभ्यां तूपसङ्गृह्य स्वयम् अन्नस्य वर्धितम् ।

विप्रान्तिके पितॄन् द्यायन् शनकैर् उपनिक्षिपेत् ॥ ३.२२४ ॥

पाणिभ्याम् इति । अन्नपूर्णपात्रं कराभ्यां गृहीत्वा **पितृन् **स्मरन् विप्रसमीपे परिवेषणार्थं शनैः स्थापयेत् ॥ ३.२२४ ॥

उभयोर् हस्तयोर् मुक्तं यद् अन्नम् उपनीयते ।

तद् विप्रलुम्पन्त्य् असुराः सहसा दुष्टचेतसः ॥ ३.२२५ ॥

उभयोर् इति । उभाभ्यां हस्ताभ्याम् अगृहीतं यद् अन्नं ब्राह्मणान्तिकम् आनीयते दीयते वा तत् **असुराः देवद्विषः दुष्टबुद्धयः **आच्छिन्दति । तस्मान् नैकेन (स्मरन्) हस्तेनानीय परिवेष्टव्यम् ॥ ३.२२५ ॥

गुणांश् च सूपशाकाद्यान् पयो दधि घृतं मधु ।

विन्यसेत् प्रयतः पूर्वं भूमाव् एव समाहितः ॥ ३.२२६ ॥

गुणान् इति । सूपादीनि व्यञ्जनानि क्षीरादीनि चोपसेचनानि प्राधान्यात् पृथक् पृथक् यथोपदिष्टानि **प्रयतः **शुचिः समाहितः अनन्यमनाः सन् यथा न विशीर्यन्ते तथा **भूमाव् एव **नान्यत्र स्थापयेत् ॥ ३.२२६ ॥

भक्ष्यं भोज्यं च विविधं मूलानि च फलानि च ।

हृद्यानि चैव मांसानि पानानि सुरभीणि च ॥ ३.२२७ ॥

भक्ष्यं भोज्यं च विविधं सुरसानि फलानि चेति । तथा **भक्ष्यं **खरविशदं मोदकादि भोज्यं पायसादिना यथ्प्रकारं **मूलं फलं च **हृदयस्य प्रियाणि **मांसानि **पानकादीन च **सुरभीणि भवन्ति **भूमाव् एव विन्यसेत् ॥ ३.२२७ ॥

उपनीय तु तत् सर्वं शनकैः सुसमाहितः ।

परिवेषयेत प्रयतो गुणान् सर्वान् प्रचोदयन् ॥ ३.२२८ ॥

उपनीय सर्वम् एतद् इति । सर्वम् एतद् अन्नादि ब्राह्मणसमीपे आनीय “इदं मधुरं” “इदं श्लक्ष्णम्” इत्य् एवं **सर्वान् **माधुर्यादीन् कथयन् सुचिरम् अनन्यमनाः शनैः यथोपयोगं न तु युगपद् एव सर्वं परिवेषयेत् ॥ ३.२२८ ॥

नास्रम् आपातयेज् जातु न कुप्येन् नानृतं वदेत् ।

न पादेन स्पृशेद् अन्नं न चैतद् अवधूनयेत् ॥ ३.२२९ ॥

नास्रम् इति । रोदनक्रोधासत्यभाषणानि न कुर्यात् पादेन चान्नं न स्पृशेत् । नाप्य् उत्क्षिप्योत्क्षिप्य सन्त्यजेत् । क्रोधाद् **अनृतं न वदेत् **क्रोधानृतयोर् अपुरुषार्थत्वात् निषिद्धयोः श्राद्धाङ्गत्वार्थं श्राद्धाङ्गत्वार्थम् इहोपदेशः ॥ ३.२२९ ॥

अस्रं गमयति प्रेतान् कोपो ऽरीन् अनृतं शुनः ।

पादस्पर्शस् तु रक्षांसि दुष्कृतीन् अवधूननम् ॥ ३.२३० ॥

अस्रं गमयति प्रेतान् इति । अश्रु क्रियमाणं प्रेताखान् भूतविशेषान् श्राद्धान्नादि प्रापयति क्रोधः **अनृतं शुनः पादस्पर्शो रक्षांसि अवधूननं **पापकारिणं तस्माद् एतन् न कुर्यात् ॥ ३.२३० ॥

यद् यद् रोचेत विप्रेभ्यस् तत् तद् दद्याद् अमत्सरः ।

ब्रह्मोद्याश् च कथाः कुर्यात् पितॄणाम् एतद् ईप्सितम् ॥ ३.२३१ ॥

यद् इति । ब्रह्मोद्याश् चेति । **यद् यद् **अन्नं व्यञ्जनादि भवति तत् तद् अदुष्टः सन् **दद्यात् **। तथा परमात्मनिरूपणं पुण्यकथास्तोत्रं कुर्यात् यद् एतत् **पितॄणाम् **अभिप्रेतम् ॥ ३.२३१ ॥

स्वाध्यायं श्रावयेत् पित्र्ये धर्मशास्त्राणि चैव हि ।

आख्यानानीतिहासांश् च पुराणानि खिलानि च ॥ ३.२३२ ॥

स्वाध्यायं श्रावयेत् पित्र्यम् इति । वेदमानवादिशास्त्राणि **आख्यानानि **सौपर्णमैत्रावरुणादीनि पृथक् वेदोदितानि भारतादीनि वाय्वादिप्रोक्तानि शिवसङ्कल्पादीनि श्राद्धे ब्राह्मणान् श्रावयेत् ॥ ३.२३२ ॥

हर्षयेद् ब्राह्मणांस् तुष्टो भोजयेच् च शनैः शनैः ।

अन्नाद्येनासकृच् चैतान् गुणैश् च परिचोदयेत् ॥ ३.२३३ ॥

हर्षयेद् ब्राह्मणान् हृष्टो भोजयेच् चाशनं शनैः । अन्न्द्येनासकृच् चैनान् गुणैश् च परिशोधयेत् ॥ हृष्टो भूत्वा तैस् तैः प्रियवचनादिभिः **ब्राह्मणान् **तोषयेत् अन्नं चात्वरया भोजयेत् पायसादिना घृतपूरादिभिः **एतान् **ब्राह्मणान् इदं गृह्यताम् इत्य् एवं पुनः पुनः प्रबोधयेत् ॥ ३.२३३ ॥

व्रतस्थम् अपि दौहित्रं श्राद्धे यत्नेन भोजयेत् ।

कुतपं चासनं दद्यात् तिलैश् च विकिरेन् महीम् ॥ ३.२३४ ॥

व्रतस्थम् अपि दौहित्रम् इति । ब्रह्मचारिणम् अपि सदा **दौहित्रं श्राद्धे यत्नेन भोजयेत् **। दौहित्रस्य चानुकल्पकमध्याद् आम्नाते सति पुनः इदं यत्नवचनम् आनुकल्पिकमध्ये ऽत्याज्यत्वं (जाड्यत्वं) ख्यापयति । सत्कृतं चारु आसनं दद्यात् । न दौहित्र एव दद्यात् अपि तु सर्वब्राह्मणेषु, “त्रीणि श्राद्धे पवित्राणि” (३.२३५) इत्यादिवचनात् । तिलांश् च भूमौ प्रक्षिपेत् ॥ ३.२३४ ॥

त्रीणि श्राद्धे पवित्राणि दौहित्रः कुतपस् तिलाः ।

त्रीणि चात्र प्रशंसन्ति शौचम् अक्रोधम् अत्वराम् ॥ ३.२३५ ॥

यस्मात् त्रीणीतिदौहित्रादीनि **त्रीणि श्राद्धे पवित्राणि त्रीणि चैव **वस्तूनि शौचाक्रोधविश्रम्भाख्यानि श्राद्धे अतिशयेनेच्छन्ति ॥ ३.२३५ ॥

अत्युष्णं सर्वम् अन्नं स्याद् भुञ्जीरंस् ते च वाग्यताः ।

न च द्विजातयो ब्रूयुर् दात्रा पृष्टा हविर्गुणान् ॥ ३.२३६ ॥

अत्युष्णम् इति । उष्णम् अन्नं द्विजाग्र्येभ्यः श्रद्धया विनिवेदयेत् ।

अन्यत्र फलमूलेभ्यः पानकाद् दध्न एव च ।

इति शङ्खस्मरणात् फलादिव्यतिरेकेण सर्वम् उष्णं दद्यात् । संयतवाचश् च ब्राह्मणा अश्नीयुः । दात्रा च स्वाद्वस्वादु वेत्य् एनम् अन्नगुणान् पृष्टाः न कथयेयुः अभिनयेनापि । वाङ्नियमस्योक्तत्वात् (चाग्निप्रशस्योक्तत्वात्) ॥ ३.२३६ ॥

यावद् ऊष्मा भवत्य् अन्ने यावद् अश्नन्ति वाग्यताः ।

पितरस् तावद् अश्नन्ति यावन् नोक्ता हविर्गुणाः ॥ ३.२३७ ॥

**यावद् ऊष्मा भवत्य् अन्न **इति । **यावद् अन्ने **औष्ण्यं **हवति **विप्रा मौनेनाश्नन्ति हविर्गुणांश् च नाभिदधति तावत् पितरस् तद् अन्नं ब्राह्मणमुखेन भुञ्जते ॥ ३.२३७ ॥

यद् वेष्टितशिरा भुङ्क्ते यद् भुङ्क्ते दक्षिणामुखः ।

सोपनत्कश् च यद् भुङ्क्ते तद् वै रक्षांसि भुञ्जते ॥ ३.२३८ ॥

यद् इति । उष्णीषादिना **वेष्टितशिराः **यद् अन्नं ब्राह्मणो **बुङ्क्ते **तथा दक्षिणामुखः सोपानत्कपादश् तद् अन्नं **रक्षांसि **अश्नन्ति, न पितरः । तस्माद् एतत् परिहरणीयम्

॥ ३.२३८ ॥

चाण्डालश् च वराहश् च कुक्कुटः श्वा तथैव च ।

रजस्वला च षण्ढश् च नेक्षेरन्न् अश्नतो द्विजान् ॥ ३.२३९ ॥

तथा च कार्यं यथा चण्डालश् च वराहश् च कुक्कुट इति । चण्डालवराहग्रामसूकरकुक्कुटश् चोदक्यानपुंसकानि द्विजभोजनकाले ततो ऽपसारयेत् ॥ ३.२३९ ॥

होमे प्रदाने भोज्ये च यद् एभिर् अभिवीक्ष्यते ।

दैवे हविषि पित्र्ये वा तद् गच्छत्य् अयथातथम् ॥ ३.२४० ॥

यस्माद् होम इति । अग्निहोत्रादि**होमे दाने **धर्मार्थं ब्राह्मणभोजने हव्यकव्ययोश् च यत् कर्म चण्डालादिभिर् अवेक्ष्यते यत् यद् अर्थं क्रियते तत् न साधयति ॥ ३.२४० ॥

घ्राणेन शूकरो हन्ति पक्षवातेन कुक्कुटः ।

श्वा तु दृष्टिनिपातेन स्पर्शेणावरवर्णजः ॥ ३.२४१ ॥

घ्राणेनेति । **सूकरस् **तदन्नादि घ्रात्वा तत्कर्म निष्फलयति । **कुक्कुटः पक्षवातेन **वायुना, श्वापि अक्षिनिरीक्षणेन, **अवरवर्णेन **शूद्रेण ब्राह्मण्यां जातः **अवरवर्णजः **चाण्डालः । नदीतीरादिश्राद्धकृत् स्पर्शनेन तत्र वायुजशुचित्वाशङ्कायाम् इदम् । न दातुः न चान्नादिस्पर्शविषयं येन चण्डालस्य सामान्यतः स्पर्शनिषेधेनैव सिद्धम् अन्नवचनम् अनर्थकं स्यात् । इत्य् एवम् आनर्थक्याशङ्कायां यच् छूद्रस्पर्शनिषेधार्थत्वम् अस्याहुः – तद् असत्, उक्तनीत्यार्थवत्त्वात् । अवरजशब्देन च शूद्रस्यानभिधानात् । सूकरादीनां च स्वभावानुवादो ऽयं प्रकृतविशेषतयोच्यते न त्व् एतत् क्रियाव्यतिरेकेण दुष्टम् इति ॥ ३.२४१ ॥

खञ्जो वा यदि वा काणो दातुः प्रेष्यो ऽपि वा भवेत् ।

हीनातिरिक्तगात्रो वा तम् अप्य् अपनयेत् पुनः ॥ ३.२४२ ॥

खञ्ज इति । **खञ्जः **पादविकलः, काणः एकेक्षणविकलः, दातुर् वा सासः शूद्रस्यैव प्रेष्यत्वात् । अपिशब्दाद् अन्यो ऽपि शूद्रो, यो वा कुनखिषण्डकादिः तम् अपि ततः प्रदेशाद् अपोसारयेत् ॥ ३.२४२ ॥

ब्राह्मणं भिक्षुकं वापि भोजनार्थम् उपस्थितम् ।

ब्राह्मणैर् अभ्यनुज्ञातः शक्तितः प्रतिपूजयेत् ॥ ३.२४३ ॥

ब्राह्मणं भिक्षुकं वापीति । **ब्राह्मणम् **अतिथिरूपं अन्यं वा भिक्षुकं भोजनार्थं तत्कालम् आगतं श्राद्धब्राह्मणैर् अनुज्ञातो दाता यथाशक्त्या अन्नदानेन पूजयेत् ॥ ३.२४३ ॥

सार्ववर्णिकम् अन्नाद्यं सन्नीयाप्लाव्य वारिणा ।

समुत्सृजेद् भुक्तवताम् अग्रतो विकिरन् भुवि ॥ ३.२४४ ॥

सार्ववर्णिकम् इति । सर्वप्रकारम् अन्नाद्यम् एकीकृत्य उदकेन प्लावयित्वा भुक्तवतां ब्राह्मणानाम् अग्रे विक्षिपन् भूमौ “दर्भेषु विकिरश् च यः” इति वक्ष्यमाणलिङ्गात् दर्भेषु समुत्सृजेत् ॥ ३.२४४ ॥

असंस्कृतप्रमीतानां त्यागिनां कुलयोषिताम् ।

उच्छिष्टं भागधेयं स्याद् धर्भेषु विकिरश् च यः ॥ ३.२४५ ॥

**असंस्कृतप्रमीतानाम् **इति । “नास्य कार्यो ऽग्निसंस्कारः” [५.६९] इत्यादिना निषिद्धाग्निकार्याणां मृतानां कुलस्त्रीणां च कुलं त्यक्त्वा गतानां पात्रस्थम् उच्छिष्टं धर्भेषु यो विकिरः स भागः स्यात् । **कुलयोषिताम् **इति विशेषाभिधानं संस्कृतं भैक्षम् इत्य्वत् ॥ ३.२४५ ॥

उच्छेषणं भूमिगतम् अजिह्मस्याशठस्य च ।

दासवर्गस्य तत् पित्र्ये भागधेयं प्रचक्षते ॥ ३.२४६ ॥

उच्छेषणम् इति । भूमिपतितं यद् उच्छिष्टं तत् अकुटिलस्य अनलसस्य दासगणस्य भागधेयं भागं मन्वादयः प्राहुः ॥ ३.२४६ ॥

आ सपिण्डक्रियाकर्म द्विजातेः संस्थितस्य तु ।

अदैवं भोजयेच् छ्राद्धं पिण्डम् एकं च निर्वपेत् ॥ ३.२४७ ॥

**आसपिण्डक्रियाकर्मेति । अचिरमृतस्य द्विज्तेर् एकादशाहादाव् आसपिण्डक्रियाधिष्ठानं कर्तव्यम् । नामावास्यावत् पूर्वाभ्यां सहपिण्डदानं कार्यम् । किं तर्हि । वैश्वदेवब्राह्मणभोजनरहितं श्राद्धार्थम् अन्नं ब्राह्मणं च भोजयेत् । एकं पिण्डं तस्मा एव दद्यात् । तस्मात् यावद् ब्राह्मणं भोजयेत् । साधितं चैतत् सविस्तरं स्मृतिमञ्जर्यां (?) ऋजुपञ्जिकायां च **। इह तु ग्रन्थभारभयान् न प्रतार्यते ॥ ३.२४७ ॥

सहपिण्डक्रियायां तु कृतायाम् अस्य धर्मतः ।

अनयैवावृता कार्यं पिण्डनिर्वपणं सुतैः ॥ ३.२४८ ॥

सहपिण्डक्रियायाम् इति । अस्येत्युपादानात् अनन्तरप्रकृतस्य एकोद्दिष्टक्रियासम्प्रदानभूतस्याचिरमृतस्य सपिण्डीकरणे शास्त्रव्यवस्थया कृते सति यथा याज्ञवल्क्ये** (१.२५३) **उक्तम् ।

गन्धोदकतिलैर् युक्तं कुर्यात् पात्रचतुष्टयम् ।

अर्घार्थं पितृपात्रेषु प्रेतपात्रं प्रसिञ्चयेत् ॥

ये समाना इति द्वाभ्यां शेषं पूर्ववद् आचरेत् ।

यथा च उशनसा उक्तम् ।

सपिण्डीकरणं श्राद्धं कुर्यात् पार्वणवत् सदा ।

पृथक् च कल्पयेद् अन्यत् एकोद्दिष्टविधानतः ॥ इति ।

तथा च शातातपेनोक्तम् ।

सपिण्डीकरणं श्राद्धं दैवपूर्वं नियोजयेत् ।

पितॄन् आवाहयेत् तत्र पुनः प्रेतं च निर्दिशेत् ॥ इति ।

तथा च गृह्यपरिशिष्टे उक्तम्-

दत्वा पिण्डान् पितृभ्यस् तु पश्चात् प्रेताय पार्श्वतः ।

तं तु पिण्डं त्रिधा कृत्वा आनुपूर्व्यर्थसन्ततम् ।

निदध्यात् त्रिषु पिण्डेषु एष सम्मार्जनो विधिः ॥ इति ।

प्रेतपात्रं च (न) सर्वं पितृपात्रेषु प्रसेक्तव्यम् । अपि तु पृथक् प्रेतब्राह्मणोपदेशसामर्थात् तदर्घार्थं तत्र किञ्चिद(नु)वशेषणीयम् । साधारनत्वात् अविभक्तभ्रातृधनोपयोगवत् तस्माद् अर्घो देयः । एवं च यत् कैश्चित् सपिण्डीकरणे पञ्चब्राह्मणभोजनं प्रतितामहपितृसम्बन्ध्यर्घ्यपात्रं पिण्डत्रिधाधारणं चोक्तम्, तद् असत्, उक्तवाक्यविरोधाद् एव शास्त्रतः कृते सत्य् अनयैवावृता अभावास्य प्रक्रियया पुत्रैः प्रतिसंवत्सरं मृताहे कर्तव्यम् ।

ननु सन्निहितपरामर्शकत्वात् सर्वनाम्नः अनयैवेत्य् एकोद्दिष्टातिदेशो न्याय्यः । नैवम्, एवं भेदनिर्देशेन शास्त्रनिर्देशं न कुर्यात् । असपिण्डक्रियायाम् एष विधिः । सहपिण्डक्रियायां पुनः कृतायाम् अयम् इति । तस्माद् अमावास्येतिकर्तव्यतानिर्देश एवं न्याय्यः । इति सपिण्डकरणसांवत्सरिके ऽपि स्मृतिमञ्जर्याम् । ऋजुपञ्जिकायां विस्तरतो निरूप्यते ॥ ३.२४८ ॥

श्राद्धं भुक्त्वा य उच्छिष्टं वृषलाय प्रयच्छति ।

स मूढो नरकं याति कालसूत्रम् अवाक्शिराः ॥ ३.२४९ ॥

श्राद्धम् इति । श्राद्धभोजनोच्छिष्टं यः शूद्राय ददाति स मूर्खः कालसूत्राख्यनरकमध्ये अधोमुखो व्रजति । आश्रितसच्छूद्रत्वात् उच्छिष्टम् अन्नं दातव्यम् इति प्राप्ते ऽयं प्रतिषेधः ॥ ३.२४९ ॥

श्राद्धभुग् वृषलीतल्पं तदहर् यो ऽधिगच्छति ।

तस्याः पुरीषे तं मासं पितरस् तस्य शेरते ॥ ३.२५० ॥

श्राद्धभुग् इति । आमन्त्रितस् तु यः श्राद्धे (इति) भोजनात् प्राक् ब्रह्मचर्यम् उक्तम् । अनेन तु तदुत्तरकालं तद् अहोरात्रम् उच्यते । वृषली च व्याख्याता । श्राद्धं भुक्त्वा यः तद् अहोरात्रं स्त्रीसंयोगं भजते तस्य तद्विष्ठायां **मासं पितरः **अवतिष्ठन्ते इत्य् अतश् च इयान् अस्या धर्मयोगो भवति ॥ ३.२५० ॥

पृष्ट्वा स्वदितम् इत्य् एवं तृप्तान् आचामयेत् ततः ।

आचान्तांश् चानुजानीयाद् अभितो रम्यताम् इति ॥ ३.२५१ ॥

पृष्ट्वा स्वदितम् इत्य् एवम् इति । तान् ब्राह्मणान् तृप्तान् वृद्ध्या स्वदितम् इत्य् एवं पृष्ट्वा तत उपस्पर्शयेत् । कृताचमनांश् च इह वा स्वगृहे वास्यताम् इत्य् एवम् अनुज्ञातव्य्ः ॥ ३.२५१ ॥

स्वधास्त्व् इत्य् एवं तं ब्रूयुर् ब्राह्मणास् तदनन्तरम् ।

स्वधाकारः परा ह्य् आशीः सर्वेषु पितृकर्मसु ॥ ३.२५२ ॥

स्वधेत्य् एवं वचनं ब्रूयुर् इति । अनुज्ञानन्तरं दातारं **स्वधेय् एवं ब्राह्मणा ब्रूयुः **यस्मात् सर्वेषु कृतान्नाकृतान्नश्राद्धोदकतर्पणादिषु पितृकर्मसु स्वधाशब्दोच्चारणं प्रकृष्टा **आशीः **॥ ३.२५२ ॥

ततो भुक्तवतां तेषाम् अन्नशेषं निवेदयेत् ।

यथा ब्रूयुस् तथा कुर्याद् अनुज्ञातस् ततो द्विजैः ॥ ३.२५३ ॥

तत इति । सहकृतभोजनानां विप्राणां स्वधाकाराद् अनन्तरं शेषम् अन्नम् इत्य् एवं गृह्योक्तविधिना **अन्नशेषं निवेदयेत् **। तैश् च द्विजैः इदम् अनेनान्नेन क्रियताम् इति दत्तानुज्ञः **यथा **तैर् उक्तं **तथा **विनियुञ्जीत ॥ ३.२५३ ॥

पित्र्ये स्वदितम् इत्य् एव वाच्यं गोष्ठे तु सुशृतम् ।

सम्पन्नम् इत्य् अभ्युदये दैवे रुचितम् इत्य् अपि ॥ ३.२५४ ॥

पित्र्ये स्वदितम् इत्य् एवं गोष्ठे वाच्यम् इति शृतम् इति । अन्येनापि श्राद्धकालोपस्थितेन स्वदितम् इत्य् एवं गोगणमध्ये च शृतम् इति, सम्पन्नम् इति, विवाहादौ देवतार्थं रोचितम् इति । ३.२५४ ॥

अपराह्णस् तथा दर्भा वास्तुसम्पादनं तिलाः ।

सृष्टिर् मृष्टिर् द्विजाश् चाग्र्याः श्राद्धकर्मसु सम्पदः ॥ ३.२५५ ॥

अपराह्णस् तथा दर्भा इति । अपराह्णः विष्टरार्थं **दर्भाः वास्तुसम्पादनं **सुधागोमयादिना गृहसंशोधनम्, तिलाश् चान्तर्भूविकरणाद्यर्थाः, **सृष्टिः **अकार्पण्येनान्नविसर्गः । मृष्टिः अन्नसम्स्कारः, अग्र्या ब्राह्मणाः इत्य् एताः श्राद्धे सम्पदः इत्य् अङ्गान्तरेभ्यः एषां प्रशस्यत्वज्ञापनार्थम् एतत् ॥ ३.२५५ ॥

दर्भाः पवित्रं पूर्वाह्णो हविष्याणि च सर्वशः ।

पवित्रं यच् च पूर्वोक्तं विज्ञेया हव्यसम्पदः ॥ ३.२५६ ॥

दर्भा इति । विष्टराद्यर्थं **धर्भाः पवित्रं **दर्भं प्राधान्यात् पृथग् उपदिष्टम् । पूर्वाह्णकालः हविष्याणि मुन्यन्नादीनि सर्वाणि । **यच् च **वास्तुसम्पादनादि पावनं पूर्वम् उक्तम् एतावद् एवार्थकर्मणः सिद्धयः ॥ ३.२५६ ॥

मुन्यन्नानि पयः सोमो मांसं यच् चानुपस्कृतम् ।

अक्षारलवणं चैव प्रकृत्या हविर् उच्यते ॥ ३.२५७ ॥

**मुन्यन्नानीति **। आरण्यान्नं क्षीरं **सोमो मांसं **चानतितीक्ष्णं बिडलवणादिवर्जितं लवणं सैन्धवं स्वभावत एवैतद् धविर् इति मन्वादिभिर् उच्यते ॥ ३.२५७ ॥

विसृज्य ब्राह्मणांस् तांस् तु प्रयतो विधिपूर्वकम् ।

दक्षिणां दिशम् आकाङ्क्षन् याचेतेमान् वरान् पितॄन् ॥ ३.२५८ ॥

**विसृज्येति । तान् ब्राह्मणान् विसृज्य **अनन्यमनाः शुचिः सन् **दक्षिणां दिशम् **ईक्षमाणः **इमान् **वक्ष्यमाणान् अभिलषितार्थान् **पितॄन् **प्रार्थयेत् ॥ ३.२५८ ॥

दातारो नो ऽभिवर्धन्तां वेदाः सन्ततिर् एव च ।

श्रद्धा च नो मा व्यगमद् बहु देयं च नो ऽस्त्व् इति ॥ ३.२५९ ॥

दातार इति । **श्रद्धा च नो मा व्यगमत् बहु देयं च नो ऽस्त्व् इति । **अस्मत्कुले बहवो दानशीला भवन्तु । **वेदाश् च **अध्ययनाध्यापनावभोधेज्यारूपेण वर्धन्ताम् । **सन्ततिः **पुत्रादिः वर्धताम् । हव्यकव्यविषया श्रद्धास्माकं **मा व्यगमत् । बहु देयं च नो ऽस्त्व् इति **। दानार्थं च धनं बह्वस्माकं भवतात् ॥ ३.२५९ ॥

एवं निर्वपणं कृत्वा पिण्डांस् तांस् तदनन्तरम् ।

गां विप्रम् अजम् अग्निं वा प्राशयेद् अप्सु वा क्षिपेत् ॥ ३.२६० ॥

एवम् इति । एवं “त्रींस् तु तस्माद् धविःशेषात्” (३.२१५) इत्यादिप्रक्रियया पिण्डानिर्वपणं कृत्वा तान् पिण्डान् अनन्तरं प्रक्रान्तवरयाचनानन्तरं गोविप्राजानाम् अन्यतमम् आशयेत् । अग्नाव् उदके **वा क्षिपेत् ** ॥ ३.२६० ॥

पिण्डनिर्वपणं केचित् परस्ताद् एव कुर्वते ।

वोयोभिः खादयन्त्य् अन्ये प्रक्षिपन्त्य् अनले ऽसु वा ॥ ३.२६१ ॥

पिण्डनिर्वपणम् इति । पिण्डदानं केचिद् आचार्याः ब्राह्मणभोजनाद् अर्वाक् कुर्वते । अन्ये पक्षिभिः खादयन्ति । इदं पूर्वप्रतिपत्तिवैकल्पिकम् । अप्य् अन्ये अग्न्युदकप्रक्षेपं पक्षिभक्षणं वैकल्पिकम् इच्छन्ति ॥ ३.२६१ ॥

पतिव्रता धर्मपत्नी पितृपूजनतत्परा ।

मध्यमं तु ततः पिण्डम् अद्यात् सम्यक् सुतार्थिनी ॥ ३.२६२ ॥

पतिव्रता धर्मपतीति । मनोवाक्कायकर्मभिः धर्मार्थकामेषु पतिर् एव मया (परि)चरणीय इति व्रतं यस्याः सा **पतिव्रता धर्मपत्नी **प्रथमोढा सवर्णा श्रद्धावती पुत्रार्थिनी तेषां पिण्डानां मध्यमपिण्डं सम्यक् “आधत्त पितरो गर्भं” इत्यादिसूत्रकारोक्तमन्त्रेण्आद्यात् ॥ ३.२६२ ॥

आयुष्मन्तं सुतं सूते यशोमेधासमन्वितम् ।

धनवन्तं प्रजावन्तं सात्त्विकं धार्मिकं तथा ॥ ३.२६३ ॥

आयुष्मन्तम् इति । धर्मानुष्ठानरतं द्वादशाध्यायवक्ष्यमाणसत्त्वाख्यगुणयुक्तं चिरायुषं ख्यातिमन्तम् अतीतार्थस्मरणयुक्तं हिरण्यादिधनयुक्तं सन्ततिमन्तं एवंविधगुणयुक्तं पुत्रं जनयति ॥ ३.२६३ ॥

प्रक्षाल्य हस्ताव् आचम्य ज्ञातिप्रायं प्रकल्पयेत् ।

ज्ञातिभ्यः सत्कृतं दत्वा ब्राह्मणान् अपि पूजयेत् ॥ ३.२६४ ॥

**प्रक्षाल्य हस्ताव् आचम्येति । ज्ञातिभ्यः सत्कृतं दत्वा ब्राह्मणान् अपि पूजयेत् **। तदनु हस्तौ प्रक्षाल्याचम्य ज्ञातीन् पितृपक्षात् प्रतियच्छतीति **ज्ञातिप्रायम् **अन्नं कुर्यात् । तेभ्यः पूजापूर्वकं **दत्वा **मातृपक्षादिभ्यो ऽपि सम्पूजां दद्यात् ॥ ३.२६४ ॥

उच्छेषणं तु तत् तिष्ठेद् यावद् विप्रा विसर्जिताः ।

ततो गृहबलिं कुर्याद् इति धर्मो व्यवस्थितः ॥ ३.२६५ ॥

उच्छेषणम् इति । तत् ब्राह्मणोच्छिष्टं तावन् न मार्ष्टव्यं यावद् ब्राह्मणा न निर्गताः । सम्पन्ने च श्राद्धे वैश्वदेवाद्यन्वाहिकं समग्रं कुर्यात् । यथा व्यासेनोक्तम् ।

यदा श्राद्धं पितृभ्यस् तु दातुम् इच्छति मानवः ।

वैश्वदेवं तदा कुर्यात् निर्वृत्ते श्राद्धकर्मणि ॥

इति धर्मो व्यवस्थितः ॥ ३.२६५ ॥

हविर् यच् चिररात्राय यच् चानन्त्याय कल्पते ।

पितृभ्यो विधिवद् दत्तं तत् प्रवक्ष्याम्य् अशेषतः ॥ ३.२६६ ॥

**हविर् यच् चिररात्रायेति । यत् पितृभ्यो **यथा च **दत्तं **हव्यकव्यम् अन्नं दीर्घकालतृप्तये सम्यक् प्रतिपद्यते । यच् चान्नं तत् तृप्तये तन्निःशेषेण वक्ष्यामि ॥ ३.२६६ ॥

तिलैर् व्रीहियवैर् माषैर् अद्भिर् मूलफलेन वा ।

दत्तेन मासं तृप्यन्ति विधिवत् पितरो तृणाम् ॥ ३.२६७ ॥

द्वौ मासौ मत्स्यमांसेन त्रीन् मासान् हारिणेन तु ।

औरभ्रेणाथ चतुरः शाकुलेनाथ पञ्च वै ॥ ३.२६८ ॥

षण्मासांश् छागमांसेन पार्षतेन च सप्त वै ।

अष्टाव् ऐणेयमांसेन रौरवेण नवैव तु ॥ ३.२६९ ॥

तिलर् इति । द्वै मासौ मत्स्यमांसेनेति । षण्मासांश् छागमांसेनेति । तिलधान्ययवमाषोदकमूलफलानां श्राद्धेन दत्तेन मनुष्याणां मासं पितरस् तृप्यन्ति द्वौ पाठीनादिमत्यमांसेन त्रीन् मार्गेण मांसेन **चतुरो **मेषसम्बन्धिना, **पञ्च **भक्ष्यपक्ष्युद्भवेन षड् आजेन सप्त चित्रमृगसम्बन्धिना अष्टौ सारङ्गमांसेन, नव शम्बराख्यमृगजेन ॥ ३.२६७–२६९ ॥

दशमासांस् तु तृप्यन्ति वराहमहिषामिषैः ।

शशकूर्मयोस् तु मांसेन मासान् एकादशैव तु ॥ ३.२७० ॥

दशमासांस् तु तृप्यन्तीतिदशमासान् आरण्यसूकरमहिषमांसैस् तृप्यन्तिएकादश शशकच्छपमांसेन ॥ ३.२७० ॥

संवत्सरं तु गव्येन पयसा पायसेन च ।

वार्ध्रीणसस्य मांसेन तृप्तिर् द्वादशवार्षिङी ॥ ३.२७१ ॥

संवत्सरं तु गव्येनेति । संवत्सरं तु पुनः **गव्येन **क्षीरेण **वार्ध्रीणसस्य **च ।

त्रिःपिबं त्व् इन्द्रियक्षीणं श्वेतं वृद्धम् अजापितम् ।

वार्ध्रीणसं तु तं प्राहुः याज्ञिकाः पितृकर्मणि ॥

इत्य् एवं निगमे पठितस्य् **मांसेन द्वादशवार्षिकी तृप्तिर् भवति ** । पिबतः कर्णजिह्वं यस्य जलं स्पृशति सः त्रिपिब इव त्रिपिबः ॥ ३.२७१ ॥

कालशाकं महाशल्काः खड्गलोहामिषं मधु ।

आनन्त्यायैव कल्प्यन्ते मुन्यन्नानि च सर्वशः ॥ ३.२७२ ॥

कालशाकं महाशल्कम् इति । कालशाकाख्यं शाकं महाशल्काख्यो मत्स्यभेदः शकलीचितचिम इत्याद्यायुर्वेदप्रसिद्धः । खड्गो गण्डकः लोहो रक्तछागः । तयोर् आमिषं मांसं मधुमाक्षिकं **मुन्यन्नानि **आरण्यानि सर्वाण्य् एतानि अनन्ततृप्त्युत्पादनाय सम्पद्यन्ते ॥ ३.२७२ ॥

यत् किञ्चिन् मधुसंयुक्तम् प्रदद्यात् तु त्रयोदशीम् ।

तद् अप्य् अक्षयम् एव स्याद् वर्षासु च मघासु च ॥ ३.२७३ ॥

यत् किञ्चिन् मधुसंयुक्तम् इति । यत् किञ्चिद् अप्रतिषिद्धं **मधुसंयुक्तं **वर्षाकाले मघात्रयोदश्यां हस्तिसम्बन्धिनी छाया यस्मिन् प्रदेशे प्राचीं दिशं गता तत्र तस्यां छायायां मधुसंयुक्तं पायसं **दद्यात् **॥ ३.२७३ ॥

अपि नः स कुले भूयाद् यो नो दद्यात् त्रयोदशीम् ।

पायसं मधुसर्पिर्भ्यां प्राक्छाये कुञ्जरस्य च ॥ ३.२७४ ॥

अपीति

यद् यद् ददाति विधिवत् सम्यक् श्रद्धासमन्वितः ।

तत् तत् पितॄणां भवति परत्रानन्तम् अक्षयम् ॥ ३.२७५ ॥

यद् यद् ददाति विधिवत् सम्यक् श्रद्धासमन्वितम् । तत् तत् पितॄणां भवति परत्रानन्त्यम् अव्ययम् । यद् यद् अप्रतिषिद्धं **सम्यक् **रूपश्रद्धायुक्तो यथाशास्त्रं दद्यात् इति तत्र सर्वकालम् अनपचयं परलोके पितॄणां भवति अन्नं च सत्य् अपि द्विमासाद्यनन्तावधि तृप्तिवद् एवं कुर्वन् मासानुमासिकम् इति नोदनात् शास्त्रैकगोचरत्वेन चामुष्यार्थस्य तृप्तानाम् आप्यायनकपुत्रो ऽपहृतकव्यतृप्तिसामर्थ्यात् प्रतिमासम् एतद् अवश्यं कर्तव्यम् ॥ ३.२७५ ॥

कृष्णपक्षे दशम्यादौ वर्जयित्वा चतुर्दशीम् ।

श्राद्धे प्रशस्तास् तिथयो यथैता न तथेतराः ॥ ३.२७६ ॥

क्ष्णपक्ष इति । कृष्णपक्षे दशमीप्रप्भृति **चतुर्दशीं वर्जयित्वा तथयः श्राद्धे प्रशस्ताः **युक्ताः महाफलाः पवित्राः प्रशस्ता न तथेतरा इति ॥ ३.२७६ ॥

युक्षु कुर्वन् दिनर्क्षेषु सर्वान् कामान् समश्नुते ।

अयुक्षु तु पितॄन् सर्वान् प्रजां प्राप्नोति पुष्कलाम् ॥ ३.२७७ ॥

युक्ष्व् इति । युग्मासु तिथिषु द्वितीयाचतुर्थ्यादिषु युग्मेषु नक्षत्रेषु अश्विनीकृत्तिकादिषु श्राद्धेषु पितॄन् पूजयन् श्रुतधनादिपरिपुष्टां सन्ततिं प्राप्नोति ॥ ३.२७७ ॥

यथा चैवापरः पक्षः पूर्वपक्षाद् विशिष्यते ।

तथा श्राद्धस्य पूर्वाह्णाद् अपराह्णो विशिष्यते ॥ ३.२७८ ॥

यथेति । “चैत्रसिताद्या मासा” इति ज्योतिःशास्त्रदर्शनेन **अपरपक्षः **शुक्लपक्षात् श्राद्धे विशिषीतफलो भवति । एवं श्राद्धसम्बन्धिपूर्वाह्णभागाद् अपराह्णभागो विशिष्टफलो भवति । विशिष्यत इति वचनात् कदाचित् पूर्वाह्णे ऽपि श्राद्धं कर्तव्यम् इति प्रतीयत् । दृष्टान्तस्य च दृष्टान्तदानान्य् अथानुपपत्त्यैव सिद्धिर् बोद्धव्या । न ह्य् असिद्धस्य दृष्टान्ततोपपद्यते ॥ ३.२७८ ॥

प्राचीनावीतिना सम्यग् अपसव्यम् अतन्द्रिणा ।

पित्र्यम् आ निधनात् कार्यं विधिवद् दर्भपाणिना ॥ ३.२७९ ॥

प्राचीनावीतिनेति । सर्वेण प्राचीनावीतीत्युक्तप्राचीनावीतयुक्तेनानलसेन दर्भपवित्रहस्तेन अपसव्यपितृतीर्थेन यथाशास्त्रं सम्यक् **पित्र्यं **कर्म यावज्जीवं कार्यम् ॥ ३.२७९ ॥

रात्रौ श्राद्धं न कुर्वीत राक्षसी कीर्तिता हि सा ।

सन्ध्ययोर् उभयोश् चैव सूर्ये चैवाचिरोदिते ॥ ३.२८० ॥

रात्राव् इति । **रात्रौ श्राद्धं न कुर्वीत **श्राद्धस्य ध्वंसनसामान्यात् **राक्षसी **चासौ मन्वादिभिः कथिता । तथा **सन्ध्यहोः **“आदित्ये ऽचिरोदिते” इति रात्र्यादौ निषेधं कुर्वन् अपराह्णाद् अन्यत्रापि तिथिच्छेदग्रहणाद्यपेक्षया श्राद्धम् अस्तीति ज्ञापयति मासानुमासिकश्राद्धाद्यसम्भवेन ॥ ३.२८० ॥

अनेन विधिना श्राद्धं त्रिर् अब्दस्येह निर्वपेत् ।

हेमन्तग्रीष्मवर्षासु पाञ्चयज्ञिकम् अन्वहम् ॥ ३.२८१ ॥

अनेनेति । **अनेन **उक्तविधानेन संवत्सरस्य मध्ये त्रीन् वारान् हेमन्तग्रीष्मवर्षासु श्राद्धं कुर्वीत । पञ्चयज्ञमहायज्ञमध्यभवं पुनः प्रत्यहं कुर्वीत ॥ ३.२८१ ॥

न पैतृयज्ञियो होमो लौकिके ऽग्नौ विधीयते ।

न दर्शेन विना श्राद्धम् आहिताग्नेर् द्विजन्मनः ॥ ३.२८२ ॥

न पैत्र्ययज्ञिको होम इति । अग्नेः सोमयमाभ्याम् इत्य् एवं पितृयज्ञाङ्गभूतो **होमः लौकिके **श्रौतस्मार्तव्यतिरिक्ते ऽग्नौ शास्त्रेण न चोद्यते । **आहिताग्नेश् **च द्विजाग्नेः अमावास्यकर्मणा विना कृष्णपक्षदशम्यादौ **श्राद्धं न **विधीयते । मृताहश्राद्धादेस् तु अनिषेधः, तस्य नैयमिकत्वेन चोदितत्वात् ॥ ३.२८२ ॥

यद् एव तर्पयत्य् अद्भिः पितॄन् स्नात्वा द्विजोत्त्मः ।

तेनैव कृत्स्नम् आप्नोति पितृयज्ञक्रियाफलम् ॥ ३.२८३ ॥

पूर्वोक्तपाञ्चयज्ञिकश्राद्धासम्भवे **यद् **इति । **स्नात्वा **उदकतर्पणं यत् पितॄणां ब्राह्मणः करोति तेनैव सर्वं पितृयज्ञानुष्ठानफलं प्राप्नोति । द्विजोत्तमग्रहणं प्रदर्शनार्थम्, त्रयाणां प्रकृतत्वात् ॥ ३.२८३ ॥

वसून् वदन्ति तु पितॄन् रुद्रांश् चैव पितामहान् ।

प्रपितामहांस् तथादित्यान् श्रुतिर् एषा सनातनी ॥ ३.२८४ ॥

वसून् इति । य एते पितृपितामहप्रपितामहाः तान् वसुरुद्रादित्याख्यान् देवान् इति मन्वादयो वदन्ति । यस्मात् “पित्रादयो वस्वादय” इत्य् एषा अनादिभूता श्रुतिः । पितृद्वेषान् नास्तिक्याद्यः पितृकर्मणि न प्रवर्तेत तं प्रति प्रवर्तनार्थं देवतात्वाध्यारोपेण पितॄणां स्तुतिवचनम् ॥ ३.२८४ ॥

विघसाशी भवेन् नित्यं नित्यं वामृतभोजनः ।

विघसो भुक्तशेषम् तु यज्ञशेषं तथामृतम् ॥ ३.२८५ ॥

विघसाशीति । सर्वदा विधसभोजनः स्यात् इत्य् एतत् यज्ञशेषभुक् तुल्यत्वापादनेन स्तुत्यर्थम् अस्य पुनर्वचनम् । सर्वदा च अमृतभोजनः स्यात् । अप्रसिद्धत्वात् विघसामृते निरूपयति अतिथ्यादिभुक्तशेषं विघसम् उच्यते । यज्ञावशिष्टं पुरोडाशादि अमृतम् इति ॥ ३.२८५ ॥

एतद् वो ऽभिहितं सर्वं विधानं पाञ्चयज्ञिकम् ।

द्विजातिमुख्यवृत्तीनां विधानं श्रूयताम् इति ॥ ३.२८६ ॥

एतद् इति । एतत् पञ्चयज्ञभवम् अनुष्ठानं सर्वं युष्माकम् उक्तम् इति । पितृकर्मणो ऽनन्तरं व्यवहितकरणोपसंहारो मङ्गलार्थत्वात् । इदानीं ब्राःमणसम्भन्धिणिनां अमृतादीनां जीविकानाम् अनुष्ठानं श्रूयताम् इति ॥ ३.२८७ ॥

इति श्रीभट्टमाधवात्मजगोविन्दराजविरचितायां मनुटीकायां

मन्वनुसारिण्यां श्राद्धविधिर् नाम तृतीयो ऽध्यायः

अथ चतुर्हो ऽध्यायः

चतुर्यम् आयुषो भागम् उषित्वाद्यं गुरौ द्विजः ।

द्वितीयम् आयुषो भागं कृतदारो गृहे वसेत् ॥ ४.१ ॥

ब्रह्मचर्यपूर्वकं गृहाश्रमम् अनुतिष्ठतः वक्ष्यमाणा वृत्तयो भवन्तीत्य् एतत् प्रतिपादयितुम् उक्तं ब्रह्मचर्यकालं वक्ष्यमाणं च गार्हस्थ्यकालम् अनुवदितुम् आह चतुर्थम् इति । वक्ष्यमाणम् आश्रमसमुच्चयपक्षम् आश्रितो ब्राह्मणः **आद्यम् **आयुश्चतुर्भागे प्राप्ते “षड्विंशदाब्दिकम्” इत्यादिविशेषनोदनात् ऊनातिरिक्तम् अपि गुरुकुल आसित्वा ततो द्वितीयम् आयुश्चतुर्भागं “गृहस्थस् तु यदा पश्येद् वलीपतम्” (६.२) इत्यादिवक्ष्यमाणविशेषात् ऊनाध्यधिकम् अपि कृतभार्यो गार्हस्थ्यम् अनुतिष्ठेत् । न चास्य कालसमर्पणार्थत्वं युक्तम्, अनियतत्वेनायुषो ऽस्य साकाङ्क्षत्वात् ॥ ४.१ ॥

अद्रोहेणैव भूतानाम् अल्पद्रोहेण वा पुनः ।

या वृत्तिस् तां समास्थाय विप्रो जीवेद् अनापदि ॥ ४.२ ॥

अद्रोहेणेति । वक्ष्यमाणवृत्तीनां मध्यात् भूतान्पपीडनेन या जीविका शिलोञ्छादिना तदलाभे ऽल्पोपपीडनेन याचनादिना या ताम् आश्रित्य भार्यादिभरणनित्यानुष्ठानसम्पत्तौ सत्यां विप्रो **जीवेत् । **न चात्राल्पजिघांसाभ्यनुज्ञानं, हिंसाया निषिद्धत्वात् । विप्रग्रहणं क्षत्रियादिव्युदासार्थम् । तथापि जीवेत् ॥ ४.२ ॥

यात्रामात्रप्रसिद्ध्यर्थं स्वैः कर्मभिर् अगर्हितैः ।

अक्लेशेन शरीरस्य कुर्वीत धनसञ्चयम् ॥ ४.३ ॥

यात्रामात्रप्रसिद्ध्यर्थम् इति । शास्त्रोक्तैः कर्मभिः वक्ष्यमाणैः ऋतादिभिर् अनिन्दितैः शरीरक्लेशपरिहारेण भार्याभरणनित्यानुष्ठानपूर्वकं प्राणवृत्तिसमाप्तिपरिमाणम् अर्थसङ्ग्रहं कुर्वीत, नाधिकम् इति नियमः ॥ ४.३ ॥

ऋतामृताभ्यां जीवेत् तु मृतेन प्रमृतेन वा ।

सत्यानृताभ्याम् अपि वा न श्ववृत्त्या कदाचन ॥ ४.४ ॥

कैस् तैः कर्मभिर् इत्य् अत आह ऋतामृताभ्याम् इति । ऋतादिभिर् अनापदि जीवेत्, न त्व् अनापदि कदाचिद् अपि सेवयेत् ॥ ४.४ ॥

ऋतम् उञ्छशिलं ज्ञेयम् अमृतं स्याद् अयाचितम् ।

मृतं तु याचितं भैक्षं प्रमृतं कर्षणं स्मृतम् ॥ ४.५ ॥

सत्यानृतं तु वाणिज्यं तेन चैवाप् जीव्यते ।

सेवा श्ववृत्तिर् आख्याता तस्मात् तां परिवर्जयेत् ॥ ४.६ ॥

ऋतम् इति । सत्यानृतम् इति । धान्यादिकणोच्चयं शिलोच्चयनं च सत्यतुल्यफलत्वात् ऋतं वक्तव्यम् । अप्रार्थितोपनतं अमृतवत् सुखहेतुत्वाद् अमृतम् । प्रार्थितं पुनः भैक्षं मरणकल्पपीडानुभवात् **मृतम् । कर्षणं **च “भूमिं भूमिशयांश् चैव हन्ति काष्ठम् अयोमुखम्” इति बहूनां मरणनिमित्तत्वात् पर्कर्षेण मृतम् । वाणिज्यं च सत्यानृतव्यवहरणसाध्यत्वात् सत्यानृतं तेनापि “कृषिवाणिज्ये वास्वयङ्कृते कुसीदं च” इति गौतमस्मरणात् अस्वयङ्कृतेन जीव्यन्ते । सेवा च दीनदृष्टिसन्दर्शनादिरूपतया श्ववृत्तिर् इत्य् उक्ता, तस्मात् तां प्रकृतो ब्राह्मणः परित्यजेत् ॥ ४.५–६ ॥

कुसूलधान्यको वा स्यात् कुम्भीधान्यक एव वा ।

त्र्यहैहिको वापि भवेद् अश्वस्तनिक एव वा ॥ ४.७ ॥

स च ब्राह्मणः शौचसङ्कोचतारतम्यापेक्षया कुसूलधान्यक इति । कोष्ठकप्रमाणधान्यादिसञ्चयो वा स्यात् द्वादशाहमात्रपर्याप्तधनः । उष्ट्रिकाप्रमाणधान्यादिसङ्ग्रहो वा षडहमात्रपर्याप्तधनः । त्र्यहमात्रपर्याप्तं ईहायां चेष्टायां भवं धान्यादि यस्य तथा वा स्यात् । श्वो भवं धान्यादि यस्य नाद्याह्निकश्वस्तनो वा स्यात् । एवं यात्रामात्रप्रसिद्ध्यर्थं नित्यस्य सञ्चयसङ्कोचधर्मतारतम्यापेक्षयायम् अपवादः ॥ ४.७ ॥

चतुर्णाम् अपि चैतेषां द्विजानां गृहमेधिनाम् ।

ज्यायान् परः परो ज्ञेयो धर्मतो लोकजित्तमः ॥ ४.८ ॥

चतुर्णाम् इति । एषां कुसूलधान्यकादीनां **चतुर्णाम् अपि **ब्राःमणानां गृहस्थानां मध्यात् यः पश्चात् पठितः स स प्रशस्ततरो बोद्धव्यः । यतो ऽसौ वृत्तिसङ्कोचसंयमधर्मातिशयेन स्वर्गादिलोकजिद् भवति ॥ ४.८ ॥

षट्कर्मैको भवत्य् एषां त्रिभिर् अन्यः प्रवर्तते ।

द्वाभ्यां एकश् चतुर्थस् तु ब्रह्मसत्त्रेण जीवति ॥ ४.९ ॥

षट्कर्मेति । **एषां **गृहस्थानां मध्यात् कश्चिद् गृहस्थः परिग्रहभूयस्त्वाद्यपेक्षया प्राकृतऋतादिकर्मा भवति । **अन्यः **पुनः याजनाध्यापनप्रतिग्रहाणां ब्राह्मणस्य नोदितत्वात् एतैस् त्रिभिर् जीवितुं प्रवर्तते, अपरः पुनः प्रतिग्रहः प्रत्यवर इति वक्ष्यमाणत्वात् । तत्त्यागेन **द्वाभ्यां **याजनाध्यापनाभ्यां जीवितुं प्रवर्तते । उक्तत्रयापेक्षया **चतुर्थः **पुनर् अध्यापनेन जीवति ॥ ४.९ ॥

वर्तयंश् च शिलोञ्छाभ्याम् अग्निहोत्रपरायणः ।

इष्टीः पार्वायणान्तीयाः केवला निर्वपेत् सदा ॥ ४.१० ॥

वर्तयन्न् इति । **शिलोञ्छाभ्यां **जीवन् कर्मान्तरासम्भवे सायम्प्रातर्होमनिष्ठः सन् दर्शपूर्णमासान् पार्वणाख्यान् यागान् केवलान् सर्वकालं कुर्यात् ॥ ४.१० ॥

न लोकवृत्तं वर्तेत वृत्तिहेतोः कर्थञ्चन ।

अजिह्माम् अशठां जीवेद् ब्राह्मणजीविकाम् ॥ ४.११ ॥

**न लोकवृत्तं वर्तेतेति **। जीविकार्थं च विचित्रपरिहासादि न कदाचिद् अपि कुर्यात् । अपि तु स्वनोदितत्वेन अपापां श्रद्धावतीं दम्भादिव्याजशून्यां ब्राह्मणवृत्तिम् अनुतिष्ठेत् ॥ ४.११ ॥

सन्तोषं परम् आस्थाय सुखार्थी संयतो भवेत् ।

सन्तोषमूलं हि सुखं दुःखमूलं विपर्ययः ॥ ४.१२ ॥

सन्तोषम् इति । यः समः स्वर्गादिद्षृष्टादृष्टसुखार्थी स्वोपगतविशेषस्पृहः सन् आत्मकुटुम्बनित्यानुष्ठानमात्रपर्याप्तसञ्चय एव धने प्रकृष्टा निवृत्तिम् आश्रित्य धनार्जनं सञ्चयं कुर्यात् यस्मात् सन्तोषप्रभवं समस्तस्वर्गादिदृष्टादृष्टसुखम् । असन्तोषः पुनर् दृष्टादृष्टदुःखस्य मूलम् ॥ ४.१२ ॥

अतो ऽन्यतमया वृत्त्या जीवंस् तु स्नातको द्विजः ।

स्वर्ग्यायुष्ययशस्यानि व्रतानीमानि धारयेत् ॥ ४.१३ ॥

अत इति । आसां मृतादीनां मध्यात् **अन्यतमया वृत्त्या **केवलया “षट्कर्मैको भवत्य् एषाम्” इत्याद्युक्तत्वात्, वृत्त्यन्तरसहितया **जीवन् स्नातको **ब्राह्मणः स्वर्गायुःख्यातिनिमित्तानीमानि वक्ष्यमाणानि **व्रतानि **“इदं मया कर्तव्यम्, इदम् न” इत्य् एवं मनःसङ्कल्पविशेषात्मकानि सदा **धारयेत् **। न च फलश्रवणे ऽप्य् एषाम् अनित्यतापत्तिः, “एतावता हैनसा वियुक्तो भवति” इति श्रुतौ नित्यत्वेनाम्नानात् ॥ ४.१३ ॥

वेदोदितं स्वकं कर्म नित्यं कुर्याद् अतन्द्रितः ।

तद् धि कुर्वन् यथाशक्ति प्राप्नोति परमां गतिम् ॥ ४.१४ ॥

वेदोदितम् इति । श्रौतं **वेदोदितं **स्मार्तम् अपि च वेदमूलत्वाद् वेदोक्तम्, स्वकं यद् यस्य चोदितं कर्म नित्यं न काम्यं तद् अनलसः सन् **कुर्यात् **यस्माद् **यथाशक्ति कुर्वन् **नित्यकरणात् पापक्षयानुत्पत्तिभ्यां काम्याकरणाच् च फलहेतुधर्माभावे सति शुभाशुभकार्याभावान् मोक्षं प्राप्नोति ॥ ४.१४ ॥

नेहेतार्थान् प्रसङ्गेन न विरुद्धेन कर्मणा ।

न कल्पमानेष्व् अर्थेषु नार्त्याम् अपि यतस् ततः ॥ ४.१५ ॥

न कल्पमानेष्व् अर्थेष्व् इति । गीतादिना अर्थान् नार्जयेत् । नाप्य् अयाज्ययाजनादिना । न चावश्यकर्तव्यसमर्थेषु धनेषु सत्सु । नाप्य् आत्मकुटुम्बधर्मावसादे ऽपि उपायान्तरसम्भवे सति जातिकर्मदुष्टान् उपायान्तराभावे च आपद्य् असत्प्रतिग्रहं वक्ष्यति ॥ ४.१५ ॥

इन्द्रियार्थेषु सर्वेषु न प्रसज्येत कामतः ।

अतिप्रसक्तिं चैतेषां मनसा सन्निवर्तयेत् ॥ ४.१६ ॥

इन्द्रियार्थेष्व् इति । चक्षुरादिग्राह्येषु रूपादिषु सर्वेषूपभोगहेतोः सङ्गं न कुर्यात् । अप्रतिषिद्धानाम् अपि चैतेषां स्वदारगमनादीनां अतिशयप्रसङ्गम् अस्थिरत्वादिदोषसम्भावनया **मनसा **सम्यङ् **निवर्तयेत् **॥ ४.१६ ॥

सर्वान् परित्यजेद् अर्थान् स्वाध्यायस्य विरोधिनः ।

यथा तथा यापयंस् तु सा ह्य् अस्य कृतकृत्यता ॥ ४.१७ ॥

सर्वान् इति । यथा तथा यापयंस् त्व् इति । येन केनचिद् उपायेनात्मादीन् बिभ्रद् वेदाध्ययनविरुद्धान् अप्रतिषिद्धान् अपि विषयोपभोगादीन् अर्थान् परित्यजेत् यस्मात् सा ब्राह्मणस्य **कृतकृत्यता **यत् स्वाध्यायपरत्वम् ॥ ४.१७ ॥

वयसः कर्मणो ऽर्थस्य श्रुतस्याभिजनस्य च ।

वेषवाग्बुद्धिसारूप्यम् आचरन् विचरेद् इह ॥ ४.१८ ॥

वयस इति । **वयसो **ऽनुष्ठानस्य धनस्य श्रुतस्य कुलस्य आनुरूप्येण वेषकथाबुद्धीर् आचरन् लोके व्यवहरेत् । तद् यथा स्नानस्रगनुलेपनादिकरणं त्रिवर्णानुसारिणी च वाङ्मनसीत्य् एवं कर्मादिष्व् अप् योज्यम् ॥ ४.१८ ॥

बुद्धिवृद्धिकराण्य् आशु धन्यानि च हितानि च ।

नित्यं शास्त्राण्य् अवेक्षेत निगमांश् चैव वैदिकान् ॥ ४.१९ ॥

बुद्धिवृद्धिकराणीति । वेदाविरुद्धन्यायशास्त्रादीनि क्षिप्रं बुद्धिपाटवजनकानि धनार्थानि च औशनस्यादीनि **हितानि च **दृष्टोपकारकादीनि आयुर्वेदानीनि अनवगतशब्दार्थपर्यायकथनेन वेदार्थबोधकान् वेदार्थबोधकान् निगमाख्यान् ग्रन्थान् नित्यं पर्यालोचयेत् ॥ ४.१९ ॥

यथा यथा हि पुरुषः शास्त्रं समधिगच्छति ।

तथा तथा विजानाति विज्ञानं चास्य रोचते ॥ ४.२० ॥

यथेति । यस्मात् यावत् पुरुषः **शास्त्रं **सम्यक् विविनक्ति तावत् तत् तद् विशेषेण **जानाति **शास्त्रान्तरविषयम् अपि चास्य विज्ञानम् उज्ज्वलं भवति ॥ ४.२० ॥

ऋषियज्ञं देवयज्ञं भूतयज्ञं च सर्वदा ।

नृयज्ञं पितृयज्ञं च यथाशक्ति न हापयेत् ॥ ४.२१ ॥

ऋषियज्ञम् इति । स्वाध्यायादीन् **यथाशक्ति **न परित्यजेद् इति उक्तपञ्चयज्ञाभिधानं वक्ष्यमाणेन्दिर्यसम्पाद्यत्वकथनार्थम् ॥ ४.२१ ॥

एतान् एके महायज्ञान् यज्ञशास्त्रविदो जनाः ।

अनीहमानाः सततम् इन्द्रियेष्व् एव जुह्वति ॥ ४.२२ ॥

एतान् इति । बाह्याभ्यन्तरयज्ञोपदेशकशास्त्रज्ञाः केचिन् मनुष्याः ज्ञानबलान् नित्यानुष्ठानार्थम् उपरतधनचेष्टा एतान् महायज्ञान् **इन्द्रियेष्व् एव **सर्वकालं सम्पादयन्ति । इन्द्रियाणि अग्न्यातिथ्यादिरूपतया तत्संयमं वाग्बाहुल्यादिरूपत्वेन भावयन्ति । एतान् सम्पादयन्ति ॥ ४.२२ ॥

वाच्य् एके हुह्वति प्राणं प्राणे वाचं च सर्वदा ।

वाचि प्राणे च पश्यन्तो यज्ञनिर्वृत्तिम् अक्षयाम् ॥ ४.२३ ॥

वाचीति । अन्ये पुनः वाचि प्राणाख्ये च वायौ अक्षयफलां यज्ञसम्पत्तिं मन्यमाना अभिधानकामे वागग्नौ तूष्णीम्भावकाद् एव च प्राणाग्नौ वागाहुतिं जुह्वति प्राणाहुतिं जुह्वति । एवम् अनवरतं भावयत्न आसते । तथा च कौषीतकिरहस्यब्राह्मणम्- “यावद् वै पुरुषो भाषते न तावत् प्राणितुं शक्नोति प्राणं तदा वाचि जुहोति । यावद् वै पुरुषः पाणिति न तावद् भाषितुं शक्नोति वाचं तदा प्राणे जुहोति । एते अनन्ते अमृते आहुती जागत् स्वपंश् च सततं जुहोति अथ या अन्या आहुतयो ऽन्नवत्यस् ताः कर्ममय्यो हि भवन्ति, एवं तद्वस्मै तत्पूर्वे विद्वांसो ऽग्निहोत्रं जुहवां चक्रुः” इति ॥ ४.२३ ॥

ज्ञानेनैवापरे विप्रा यजन्ते तैर् मखैः सदा ।

ज्ञानमूलां क्रियाम् एषां पश्यन्तो ज्ञानचक्षुषा ॥ ४.२४ ॥

ज्ञानेनेति । **अपरे **पुनर् विप्राः एषां यज्ञानां विद्वान् यजते विद्वान् याजयतीत्य् एवं अवबोधंउलम् अनुष्ठानं **ज्ञानचक्षुषा ** शास्त्रेण पश्यन्तः विज्ञानबलाद् एतान् यज्ञान् एतद्विषयसम्यगवबोधेनैव यावज्जीवं सम्पादयन्ति । तथा च “यो ह्य् एवं द्विजान् एतत् कर्म कुरुते यो वै तद् एवं वेद” इति ब्राह्मणम् ॥ ४.२४ ॥

अग्निहोत्रं च जुहुयाद् आद्यन्ते द्युनिशोः सदा ।

दर्शेन चार्धमासान्ते पौर्णमासेन चैव हि ॥ ४.२५ ॥

अग्निहोत्रं चेति । उदितहोमपक्षे दिनादौ दिनान्ते होमं कुर्यात् । तथा अनुदितहोमपक्षे रात्र्यादौ रात्र्यन्ते च होमं कुर्यात् । तथा कृष्णपक्षान्ते दर्शाख्येन कर्मणा, शुक्लपक्षान्ते पौर्णमासाख्येन यजेत ॥ ४.२५ ॥

सस्यान्ते नवसस्येष्ट्या तथर्त्वन्ते द्विजो ऽध्वरैः ।

पशुना त्व् अयनान्ते तु समान्ते सौमिकैर् मखैः ॥ ४.२६ ॥

सस्यान्त इति । प्राक्सञ्चितधान्यादिक्षये यदा वर्षस्य तृप्तः स्यात् “अथाग्रयणेन यजेत शरदि नवान्नम्” इति सूत्रकारवचनात् । विद्यमानधान्यो ऽपि चाग्रयणेन यजेत । ऋतुः संवत्सरम् इत्य् अस्मिन् दर्शनेन चतुर्षु चतुर्षु मासेष्व् ऋत्वन्ते ऽध्वरैः चातुर्मास्याख्यैः कर्मभिर् यजेत । पशुबन्धाख्येन कर्मणा उत्तरायणदक्षिणायनादौ यजेत । वर्षान्ते च ज्योतिष्टोमादिना सोमयागेनेति ॥ ४.२६ ॥

नानिष्ट्वा नवसस्येष्ट्या पशुना चागिमान् द्विजः ।

नवान्नम् अद्यान् मांसं वा दीर्घम् आयुर् जिजीविषुः ॥ ४.२७ ॥

नेति । आहिताग्निर् द्विजो दीर्घायुर् जीवितुम् इच्छुः आग्रयणम् अकृत्वा **नवान्नं **पशुयागं वाकृत्वा **मांसं **नाश्नीयत् ॥ ४.२७ ॥

नवेनानर्चिता ह्य् अस्य् पशुहव्येन चाग्नयः ।

प्राणान् एवात्तुम् इच्छन्ति नवान्नामिषगर्धिनः ॥ ४.२८ ॥

नवेनेति । यस्मान् नवसस्येन पशुयागेन (दानेन) चानिष्ट्वा **अग्नयो **नवान्नमांसानि काङ्क्षिणो ऽस्याग्न्याहितस्य प्राणान् एव भक्षयितुम् **इच्छन्ति **। तस्माद् आग्रयणपशुयागौ कर्तव्यौ ॥ ४.२८ ॥

आसनाशनशय्याभिर् अद्भिर् मूलफलेन वा ।

नास्य कश्चिद् वसेद् गेहे शक्तितो ऽनर्चितो ऽतिथिः ॥ ४.२९ ॥

आसनाशनशय्याभिर् इति । आसनादनादिभिर् यथाशक्ति अतिथिं पूजयेत् इत्य् उक्त्वा अतिथ्यनुवादो महायज्ञप्रसङ्गेन वक्ष्यमाणः पाखण्ड्यादिनिषेधार्थः ॥ ४.२९ ॥

पाखण्डिनो विकर्मथान् बैडालव्रतिकाञ् छलान् ।

हैतुकान् बकवृत्तींश् च वाङ्मात्रेणापि नार्चयेत् ॥ ४.३० ॥

तथा चाह पाखण्डिन इति । रक्ताम्बरादिलिङ्गधारिणः परवृत्तिजीवनरतान् बिडालवृत्तिकान् बकवृत्तिकान् वक्ष्यमाणलक्षणान् शठान् अश्र्द्दधानान् वेदबाह्यतर्कव्यवहारिणो **वाङ्मात्रेणापि न **पूजयेत् इति पूजापूर्वकान्नदानादिनिषेधो दानमात्रं तु शक्तितो ऽपचमानेभ्यो दातव्यम् इति वक्ष्यति ॥ ४.३० ॥

वेदविद्याव्रतस्नाताञ् छ्रोत्रियान् गृहमेधिनः ।

पूजयेद् धव्यकव्येन विपरीतांश् तु वर्जयेत् ॥ ४.३१ ॥

वेदविद्याव्रतस्नातान् इति । वेदविद्याव्रतस्नाताण् इत्य् अनेन वेदस्नातकव्रस्नातक-विद्याव्रतस्नातकत्वेन त्रिप्रकारा अपि स्नातका गृह्यन्ते । यथा हारीतः: “समाप्य वेदं असमाप्य व्रतानि यः स्नाति स वेदस्नातकः, असमाप्य वेदं समाप्य व्रतानि यः स्नाति स व्रतस्नातः । उभयं समाप्य यः स्नाति स विद्याव्रतस्नातकः” इति । तांस् तथा स्नतकग्रहनेन गृहीतान् अप्य् अतिशयार्थित्वेन पृथङ्निर्दिष्टान् श्रोत्रियान् गृहस्थान् हव्यकव्येन पूजयेत् । एतद्विपरीतांस् तु वर्जयेत् इतीदं पाखण्ड्यादिनिषेधदार्ढ्यम्, श्रोत्रियादीनां पुनर् अभिधानम्, पूजादिपूर्वकम् अन्तं पाखण्ड्याधिभ्यो न देयम् ॥ ४.३१ ॥

शक्तितो ऽपचमानेभ्यो दातव्यं गृहमेधिना ।

संविभागश् च भूतेभ्यः कर्तव्यो ऽनुपरोधतः ॥ ४.३२ ॥

अन्नमात्रं पुनः शक्तत इति । गृहस्थेन पाकरहितेभ्यः पाखण्ड्यादिभ्यो यथाशक्त्यान्नं देयम्, स्वकुटुम्बाद्नुपरोधेन वृक्षपर्यन्तेभ्यो दोह्यादिदानेन संविभागः कर्तव्यः ॥ ४.३२ ॥

राजतो धनम् अन्विच्छेत् संसीदन् स्नतकः क्षुधा ।

याज्यान्तेवासिनोर् वापि न त्व् अन्यत इति स्थितिः ॥ ४.३३ ॥

राजत इति । स्नातकः क्षुधावसादं गच्छन् अन्यजातिप्रतिग्रहसम्भवे ऽपि राज्ञः शास्त्रानुवर्तिनो याज्यशिष्याभ्यां वा प्रथमं लिप्सेत । न त्व् अन्यस्माद् द्विजातेर् अपि । तदसम्भवे पुनः अन्यस्मात् द्विजातेर् गृह्णीयात् अनापद्विहितोपायासम्भवे पुनः सर्वतः प्रतिगृह्णीयाद् इत्य् आपधर्मं वक्ष्यति । राज्ञो महाधनत्वात् याज्यानेवासिनोः स्वसुकृतोपकारत्वात् इदं प्रथमधनग्रहणं नियम्यते । एवं चानापदि प्रथमराजयाज्यशिष्यव्यतिरिक्तधनग्रहणनिषेधार्थम् इदं वचनम् । अत एवोक्तम् न त्व् अन्यत इतियत् तु</spansaṃsīdann iti liṅgāt āpadviṣayatām asyāhuḥ – तद् असत्, अप्रकरणात् । न च धनाभावमात्रम् आपद् उच्यते । अपि तु धनाभावे इति विहितोपायपरिक्षयः । अन्यथा सद्यःप्रक्षालकस्य आपधर्मा आविर् भवेयुः । अपद्विषये (-विषयत्वे) चास्य “न त्व् अन्यत” इत्य् एतत् “सर्वतः प्रतिगृह्णीयात्” इत्य् अनेन विरुद्ध्येत । यत् तु सीदद्भिः कुप्यम् इच्छद्भिः धनं वा पृथिवीपतिर् याच्यः स्याद् इति तदा यत् प्रकरणात् क्षत्रियाद् राज्ञः प्रतिग्रहार्थम् । अत एव तत्र पृथिवीपतिग्रहणम्, इह तु राजग्रहणम् ॥ ४.३३ ॥

न सीदेत् स्नातको विप्रः क्षुधा शक्तः कथञ्चन ।

न जीर्णमलवद्वासा भवेच् च विभवे सति ॥ ४.३४ ॥

नेति । स्नातको ब्राह्मणो विद्वत्त्वात् प्रतिग्रहसमर्थो राजादिधनसम्भवे सति क्षुधावसादं न कदाचिद् गच्छेत् । न च सम्भवे जीर्णमलिनवसनः स्यात् ॥ ४.३४ ॥

कृतकेशनखश्मश्रुर् दान्तः शुक्लाम्बरः शुचिः ।

स्वाध्याये चैव युक्तः स्यान् नित्यम् आत्महितेषु च ॥ ४.३५ ॥

कृतकेशनखश्मश्रुर् इति । लूनकेशनखश्मश्रुः शमवान् शुक्लवासाः बाह्याभ्यन्तरशौचोपेतः वेदाभ्यासशीलः औषधोपयोगादिरतः स्यात् ॥ ४.३५ ॥

वैणवीं धारयेद् यष्टिं सोदकं च कमण्डलुम् ।

यज्ञोपवीतं वेदं च शुभे रौक्मे च कुण्डले ॥ ४.३६ ॥

वैणवीम् इति । वेणुदण्डम् उदक्सहितं **कमण्डलुं यज्ञोपवीतं **दर्भमुष्टिं रुचिरसौवर्णकुण्डले धारयेत् । यज्ञोपवीतकमण्डल्वोः “अग्नीन्धनं भैक्षचर्यां” (२.१०८) इत्य् अनेन च गृहस्थादीनाम् अनुवृत्तिसिद्धौ स्नातकव्रतार्थं पुनर्ग्रहणम् । एवम् अन्येषाम् अपि “न चोच्छिष्टः क्वचिद् व्रजेत्” इत्येवमादीनां पुनर्ग्रहणं विज्ञेयम् ॥ ४.३६ ॥

नेक्षेतोद्यन्तम् आदित्यं नास्तं यन्तं कदाचन ।

नोपसृष्टं न वारिस्थं न मध्यं नभसो गतम् ॥ ४.३७ ॥

नेति । उदयास्तमनराहुग्रस्तोदकप्रतिबिम्बमध्याह्नवर्तिनम् आदित्यं कस्मिंश्चिद् अपि **नेक्षेत **॥ ४.३७ ॥

न लङ्घयेद् वत्सतन्त्रीं न प्रधावेच् च वर्षति ।

न चोदके निरीक्षेत स्वरूपम् इति धारणा ॥ ४.३८ ॥

न लङ्घयेद् इति । वत्सवन्धनरज्जुं **न लङ्घयेत् वर्षति न धावेत् उदके च **स्वप्रतिबिम्बं नेक्षेतेत्य् एवं निश्चयः ॥ ४.३८ ॥

मृदं गां दैवतं विप्रं घृतं मधु चतुष्पथम् ।

प्रदक्षिणानि कुर्वीत प्रज्ञातांश् च वनस्पतीन् ॥ ४.३९ ॥

मृदम् इति । प्रस्थितः सन् सम्मुखोपरिस्थान् उद्धृतमृद्गोपाषाणादिकृतदेवताब्राह्मणघृत-माक्षिकचतुष्पथाश्वत्थादिध्यातवृक्षान् दक्षिणहस्तमार्गेण कुर्यात् ॥ ४.३९ ॥

नोपगच्छेत् प्रमत्तो ऽपि स्त्रियम् आर्तवदर्शने ।

समानशयने चैव न शयीत तया सह ॥ ४.४० ॥

नोपगच्छेद् इति । कामार्तो ऽपि उदक्यां न यायात् नाप्य् एकशय्यायां तया सह शयीत ॥ ४.४० ॥

रजसाभिप्लुतां नारीं नरस्य ह्य् उपगच्छतः ।

प्रज्ञा तेजो बलं चक्षुर् आयुश् चैव प्रहीयते ॥ ४.४१ ॥

रजसेति । यस्माद् रजस्वलास्त्रियं पुंस उपगच्छतः प्रज्ञावीर्यादीनि** **नश्यन्ति, तस्मात् तां नोपेयात् ॥ ४.४१ ॥

तां विवर्जयतस् तस्य रजसा समभिप्लुताम् ।

प्रज्ञा तेजो बलं चक्षुर् आयुश् चैव प्रवर्धते ॥ ४.४२ ॥

ताम् इति । तां पुनः रजस्वलां न गच्छतः प्रज्ञादीनि वर्धन्ते तस्मात् तां न व्रजेद् इति

॥ ४.४२ ॥

नाश्नीयाद् भार्यया सार्धं नैनाम् ईक्षेत नाश्नतीम् ।

क्षुवती जृम्भमाणां वा न चासीनां यथासुखम् ॥ ४.४३ ॥

नाश्नीयाद् इति । **भार्यया **सह नाद्यात् यत् पुनः “नित्यम् आस्यं शुचि स्त्रीणाम्” (५.१३०) इति तत् “स्त्रियश् च रतिसंसर्गे” इति गौतमस्मरणात् रतिकालविषयम् एव । न चाप्य् एनां भुञ्जानां **क्षुवन्तीं **वायुना चास्यविकासं कुर्वाणां प्रसृतचरणत्वादिना वा अनियन्त्रणावस्थां पश्येत् ॥ ४.४३ ॥

नाञ्जयन्तीं स्वके नेत्रे न चाभ्यक्ताम् अनावृताम् ।

न पश्येत् प्रसवन्तीं च तेजःकामो द्विजोत्तमः ॥ ४.४४ ॥

नाञ्जयन्तीम् इति । तथा स्वनेत्रयोः अञ्जनं ददतीं घृ**आभ्यक्तां **“नग्नां नान्यत्र मैथुनात्” इत्य् आपस्तम्बस्मरणात् नेक्षेत । अपत्यं च **प्रसवन्तीं **वीर्यकामो ब्राह्मणो न पश्येत् ॥ ४.४४ ॥

नान्नम् अद्याद् एकवासा न नग्नः स्नानम् आचरेत् ।

न मूत्रं पथि कुर्वीत न भस्मनि न गोव्रजे ॥ ४.४५ ॥

नान्नम् इति । एकवस्त्रो नाश्नीयात् । न च कौपीनाच्छादनं विना स्नायात् । मूत्रपुरीषे च मार्गभस्मगोष्ठेषु न कुर्यात् ॥ ४.४५ ॥

न फालकृष्टे न जले न चित्यां न च पर्वते ।

न जीर्णदेवायतने न वल्मीके कदाचन ॥ ४.४६ ॥

न फालकृष्ट इति । तथा फालकृष्टे उदके इष्टकाचिते चाग्न्यधिकरणे पर्वते देवायतने पिपीलिकाकृष्टे मृत्सञ्चये च न कदाचित् कुर्यात् ॥ ४.४६ ॥

न ससत्त्वेषु गर्तेषु न गच्छन् नापि च स्थितः ।

न नदीतीरम् आसाद्य न च पर्वतमस्तके ॥ ४.४७ ॥

न ससत्त्वेष्व् इति । तथा सप्राणिषु बिलेषु न कुर्यात्, न व्रजन् न स्थितो वा नापि नदीतीरम् आश्रित्य कुर्यात् पर्वतशृङ्गे वा । पर्वतग्रहणास् एव पर्वतमस्तकनिषेधसिद्धौ पुनर्वचनं न शृङ्गाद् अन्यत्र पर्वते विकल्पार्थम् । न च तुल्यविकल्पः । तथाविधौ स्वेच्छासिद्धत्वात् सामान्यप्रतिषेधानर्थक्यम् । तस्माद् अत्यन्तार्तस्य पर्वते न दोषः, अन्यदा तु दोष इति व्यवस्थितो ऽयं विकल्पः ॥ ४.४७ ॥

वाय्वग्निब्राह्मणादित्यम् अपः पश्यंस् तथैव गाः ।

न कदाचन कुर्वीत विण्मूत्रस्य विसर्जनम् ॥ ४.४८ ॥

वाय्वग्निब्राह्मणादित्यम् इति । वाय्वग्निब्राह्मणादित्योदकगा अवलोकयन् न **कदाचिन् **मूत्रपुरीषोत्सर्गं कुर्यात् वायोश् च सम्मुखीभावो ऽवलोकनम् ॥ ४.४८ ॥

तिरस्कृत्योच्चरेत् काष्ठलोष्टपत्रतृणादि च ।

नियम्य प्रयतो वाचं संवीताङ्गो ऽवगुण्ठितः ॥ ४.४९ ॥

तिरस्कृत्येति । काष्ठपत्रलोष्टतृणैः भूमिम् अन्तर्धाय मौनी उच्छिष्टचाण्डालादिस्पर्श-प्रायश्चित्तरहितः आच्छादितगात्रः प्रावृतशिरा मूत्रपुरीषे कुर्यात् ॥ ४.४९ ॥

मूत्रोच्चारसमुत्सर्गं दिवा कुर्याद् उदङ्मुखः ।

दक्षिणाभिमुखो रात्रौ सन्ध्ययोश् च यथा दिवा ॥ ४.५० ॥

**मूत्रोच्चारसमुत्सर्गम् **इति । मूत्रपुरीषोत्सर्गं **दिवा सन्ध्ययोश् **चोत्तराभिमुखो **रात्रौ दक्षिणाभिमुखः कुर्यात् **॥ ४.५० ॥

छायायाम् अन्धकारे वा रात्राव् अहनि वा द्विजः ।

यथासुखमुखः कुर्यात् प्राणबाधभयेषु च ॥ ४.५१ ॥

छायायाम् इति । **रात्राव् अहनि वा छायायां रात्राव् अन्धकारे अहनि वा **नीहाराद्यन्धकारे एतेषु, दिङ्मोहे सति तथा च वाय्वादिकृतप्राणविनाशसंशयेषु यथेष्टमुखो मूत्रपुरीषे कुर्यात् ॥ ४.५१ ॥

प्रत्यग्निं प्रतिसूयं च प्रतिसोमोदकद्विजान् ।

प्रतिगां प्रतिवातं च प्रज्ञा नश्यति मेहतः ॥ ४.५२ ॥

प्रत्यग्निम् इति । अग्न्यादित्यसोमाम्भोब्राह्मणगोवाय्वभिमुखम् मूत्रपुरीषे कुर्वतः प्रज्ञा नश्यति, अत एव तन् न कर्तव्यम् इति वायुअग्निविप्रम् इत्य् अस्य फलकथनं सीमाभिमुखं च, अत एव निषेधसिद्धिः पूर्वत्रापठितत्वात् ॥ ४.५२ ॥

नाग्निं मुखेनोपधमेन् नग्नां नेक्षेत च स्त्रियम् ।

नामेध्यं प्रक्षिपेद् अग्नौ न च पादौ प्रतापयेत् ॥ ४.५३ ॥

नाग्निम् इति । मुखवायुनाग्निं न धमेत् । **न नग्नां **परयोषितम् **ईक्षेत **गौतमस्मरणात् । मूत्रादि **अग्नौ न निक्षिपेत् पादौ न **तत्र **प्रतापयेत् **॥ ४.५३ ॥

अधस्तान् नोपदध्याच् च न चैनम् अभिलङ्घयेत् ।

न चैनं पादतः कुर्यान् न प्राणाबाधम् आचरेत् ॥ ४.५४ ॥

अधस्ताद् इति । न चैनं पादतः कुर्यान् प्राणिवधम् आचरेत् । तथा च खट्वादिषु अग्निं अधस्तान् न स्थापयेत् । नाप्य् एनम् उल्लङ्घयेत् । न च पाददेशतः कुर्यात् । प्राणिपीडाकरं च नाचरेत् ॥ ४.५४ ॥

नाश्नीयात् सन्धिवेलायां न गच्छेन् नापि संविशेत् ।

न चैव प्रलिखेद् भूमिं नात्मनो ऽपहरेत् स्रजम् ॥ ४.५५ ॥

**नाश्नीयाद् **इति । सन्ध्याकाले अशनगमनस्वापान् न कुर्यात्, **भूमिं **सर्वदा नखादिना **न लिखेत् **। मालां च शिरसः स्वयं नापनयेत् ॥ ४.५५ ॥

नाप्सु मूत्रं पुरीषं वा ष्ठीवनं वा समुत्सृजेत् ।

अमेध्यलिप्तम् अन्यद् वा लोहितं वा विषाणि वा ॥ ४.५६ ॥

नाप्स्व् इति । मूत्रपुरीषश्लेष्मामेध्यलिप्तरुधिरविषाणि उदके न क्षिपेत् ॥ ४.५६ ॥

नैकः शून्यगृहे स्वप्यान् न श्रेयांसं प्रबोधयेत् ।

नोदक्ययाभिभाषेत यज्ञं गच्छेन् न चावृतः ॥ ४.५७ ॥

नैकः स्वप्याद् इति । उद्वसितगृहे एको न शयीत वित्ताद्यभ्यधिकं सुप्तं च **न प्रोबोधयेत् **। रजस्वलया सह सम्भाषणं न कुर्यात् । यज्ञं चाकृतवरणं ऋत्विक् न गच्छेत् । “दर्शनार्थं तु कामम्” इति गौतमः ॥ ४.५७ ॥

अग्न्यगारे गवां गोष्ठे ब्राह्मणानां च सन्निधौ ।

स्वाध्याये भोजने चैव दक्षिणं पाणिम् उद्धरेत् ॥ ४.५८ ॥

अग्न्यागार इति । अग्निशालायां **गवां गोष्ठे **निवासे ब्राह्मणसमीपे स्वाध्यायभोजनकालयोः दक्षिणं पाणिम् आ बाहोर् वासस उद्धरेत् ॥ ४.५८ ॥

न वारयेद् गां धयन्तीं न चाचक्षीत कस्यचित् ।

न दिवीन्द्रायुधं दृष्ट्वा कस्यचिद् दर्शयेद् बुधः ॥ ४.५९ ॥

न वारयेद् इति । **गां **पिबन्तीं न निवर्तयेत् । नापि परकीयां क्षीरादि पिबन्तीं तस्य कथयेत् । न च द्युलोके इन्द्रधनुर् दृष्ट्वा शास्त्रज्ञो ऽन्यस्य **दर्शयेत् **॥ ४.५९ ॥

नाधार्मिके वसेद् ग्रामे न व्याधिबहुले भृशम् ।

नैकः प्रपद्येताध्वानं न चिरं पर्वते वसेत् ॥ ४.६० ॥

नाधार्मिक इति । अधर्मबहुलजनग्रामादौ अत्यर्थं व्याधिबहुले न वसेत्एकश् चाध्वानं न यायात् । **पर्वते **च दीर्घकालं न तिष्ठेत् ॥ ४.६० ॥

न शूद्रराज्ये निवसेन् नाधार्मिकजनावृते ।

न पाषण्डिगणाक्रान्ते नोपसृष्टे ऽन्त्यजैर् नृभिः ॥ ४.६१ ॥

**न शूद्रराज्य **इति । शूद्रराजके देशे अधार्मिकजनिअश् च बाह्यतः परिवृते श्रुत्यादिबाह्य्लिङ्गधारिभिश् च वशीकृते चण्डालादिभिश् चोपद्रुते न निवसेत् ॥ ४.६१ ॥

न भुञ्जीतोद्धृतस्नेहं नातिसौहित्यम् आचरेत् ।

नातिप्रगे नातिसायं न सायं प्रारराशितः ॥ ४.६२ ॥

न भुञ्ज्तेतिउद्धृतस्नेहं पिण्याकादि न भुञ्जीत । तृप्तिं च नाचरेत् । अतिप्रातः दिनान्ते न भुञ्जीत । सायं प्रातश् च न तृप्तः स्यात् । अपि तु एकस्मिन् काले तृप्तो ऽपरस्मिन् साकाङ्क्षम् अश्नीयात्

॥ ४.६२ ॥

न कुर्वीत वृथाचेष्टां न वार्य् अङ्जलिना पिबेत् ।

नोत्सङ्गे भक्षयेद् भक्ष्यान् न जातु स्यात् कुतूहली ॥ ४.६३ ॥

न कुर्वीतेति । दृष्टादृष्टानुपकारफलं व्यापारं न कुर्यात् । उदकं चाञ्जलिना न पिबेत् । ऊर्वोश् चोपरि विन्यस्य मोदकानि **न भक्षयेत् **। निष्प्रयोजनं च किम् एतत् स्याद् इति कुतूहलपरो न कदाचित् स्यात् ॥ ४.६३ ॥

न नृत्येन् नैव गायेच् च न वादित्राणि वादयेत् ।

नास्फोटयेन् न च क्ष्वेडेन् न च रक्तो विरावयेत् ॥ ४.६४ ॥

न नृत्येद् इति । अशास्त्रीयाणि नृत्यगीतवाद्यानि न कुर्यात् । पाणिना बाहुं नाभिहन्यात् । अव्यक्तदन्तध्वनिं न कुर्यात् च हर्षितः सन् खरविरावं न कुर्यात् ॥ ४.६४ ॥

न पादौ धावयेत् कांस्ये कदाचिद् अपि भाजने ।

न भिन्नभाण्डे भुञ्जीत न भावप्रतिदूषिते ॥ ४.६५ ॥

न पादाव् इति । कांस्यपात्रे न कदाचिद् अपि पादौ प्रक्षालयेत् । “ताम्ररजतसुवर्णानां भिन्नम् अभिन्नं च” इति पैठीनसिस्मरणात् ततो ऽन्यत्र भिन्नभाजने नाभिभुञ्जीत नापि हृल्लेखोत्पादके ॥ ४.६५ ॥

उपानहौ च वासश् च धृतम् अन्यैर् न धारयेत् ।

उपवीतम् अलङ्कारं स्रजं करकम् एव च ॥ ४.६६ ॥

उपानहाव् इति । उपानद्वस्त्रयज्ञोपवीताभरणमाल्यकमण्ड्लून् अन्योपयुक्तान् **न धारयेत् **॥ ४.६६ ॥

नाविनीतैर् व्रजेद् धुर्यैर् न च क्षुद्व्याधिपीडितैः ।

न भिन्नशृङ्गाक्षिखुरैर् न वालधिविरूपितैः ॥ ४.६७ ॥

नाविनीतैर् इति । अश्ववृषभादिभिः गन्त्र्यादिधुर्वहनविनियुक्तैर् अदान्तैः बुभुक्षाव्याध्यार्तियुक्तैः भिन्नशृङ्गाक्षिखुरैः छिन्नपुच्छैः न यायात् ॥ ४.६७ ॥

विनीतैस् तु व्रजेन् नित्यम् आशुगैर् लक्षणान्वितैः ।

वर्णरूपोपसम्पन्नैः प्रतोदेनाक्षिपन् भृशम् ॥ ४.६८ ॥

विनीतैर् इति । सुशिक्षितैः पुनः क्षिप्रगामिभिः देवमण्याद्यावर्तादियुक्तैः ककुदादिशून्यैः शोणादिवर्णसम्पन्नैः स्वाकृतिभिः प्रतोदेनात्यर्थम् अव्यथयन् **व्रजेत् **॥ ४.६८ ॥

बालातपः प्रेतधूमो वर्ज्यं भिन्नं तथासनम् ।

न छिन्द्यान् नखलोमाणि दन्तैर् नोत्पाटयेन् नखान् ॥ ४.६९ ॥

बालातप इति । प्रथमोदितादित्यातपः । शवधूमभग्नपीठाद्युपवेशनानि वर्ज्यानि । **नखलोमानि **चात्मन न छिन्द्यात् । दन्तैश् नखान् नोत्पाटयेत् ॥ ४.६९ ॥

न मृल्लोष्टं च मृद्नीयान् न छिन्द्यात् करजैस् तृणम् ।

न कर्म निष्फलं कुर्यान् नायत्याम् असुखोदयम् ॥ ४.७० ॥

न मृल्लोष्टम् इति । “नाकारणं मृल्लोष्टं गृह्णीयात् तृणानि वा छिन्द्यात्” इत्य् आपस्तम्बस्मरणात् । निर्निमित्तं मृल्लोष्टं न गृह्णीयात् नखैस् तृणं न छिन्द्यात् । यतः स्वकर्मणो दृष्टम् अदृष्टं फलं नोत्पद्यते यच् चागामिनि असुखावहं तन्** न कुर्यात् **॥ ४.७० ॥

लोष्टमर्दी तृणछेदी नखखादी च यो नरः ।

स विनाशं व्रजत्य् आशु सूचको ऽशुचिर् एव च ॥ ४.७१ ॥

लोष्टमर्दीति । लोष्टतृणनखानां मर्दनछेदनखादनकृत् **सूचको ऽशुचिश् च **मनुष्यो **विनाशं **क्षिप्रं **याति **। तस्माद् एतानि न कर्तव्यानि । भक्षणाशुचित्वयोर् अत एव निषेधः

॥ ४.७१ ॥

न विगृह्य कथां कुर्याद् बहिर्माल्यं न धारयेत् ।

गवां च यानं पृष्ठेन सर्वथैव विगर्हितम् ॥ ४.७२ ॥

नि विगृह्येति । साभिनिवेशं कथां न कुर्यात्, वासश् च बहिर्माल्यं न धारयेत् । गोपृष्ठारोहणेन गमनं पर्यटनव्यवधानादिप्रकारेणादिधर्मापहम् ॥ ४.७२ ॥

अद्वारेण च नातीयाद् ग्रामं वा वेश्म वा वृतम् ।

रात्रौ च वृक्षमूलानि दूरतः परिवर्जयेत् ॥ ४.७३ ॥

अद्वारेणेति । प्राकाराद्यावृतं **ग्रामं **गृहं **वा **द्वारव्यतिरिक्तप्रदेशेन नातिक्रम्य प्रविशेत् । रात्रौ च वृक्षमूलावस्थानं दूरात् **परिवर्जयेत् **॥ ४.७३ ॥

नाक्षैर् दीव्येत् कदाचित् तु स्वयं नोपानहौ हरेत् ।

शयनस्थो न भुञ्जीत न पाणिस्थं न चासने ॥ ४.७४ ॥

**नाक्षैर् **इति । अक्षादिभिः केल्यर्थम् अपि न क्रीडेत । आत्मना **चोपानहौ **पादव्यतिरेकेण न गृह्णीयात् । खट्वाव्यवस्थितश् च न भुञ्जीत । नापि पात्राव्यवहितहस्तम् अन्नम् आसने च पात्रम् अवस्थाय भुञ्जीत ॥ ४.७४ ॥

सर्वं च तिलसम्बद्धं नाद्याद् अस्तम् इते रवौ ।

न च नग्नः शयीतेह न चोच्छिष्टः क्वचिद् व्रजेत् ॥ ४.७५ ॥

सर्वम् इति । यत् किञ्चित् तिलसंयुक्तं कृसरादि तद् **अस्तम् इते **ऽर्के **नाद्यात् **। कौपीनाच्छादनरहितश् चास्मिन् लोके न सुप्यात् । **उच्छिष्टश् **च **क्वचिद् **यायात् ॥ ४.७५ ॥

आर्द्रपादस् तु भुञ्जीत नार्द्रपादस् तु संविशेत् ।

आर्द्रपादस् तु भुञ्जानो दीर्घम् आयुर् अवाप्नुयात् ॥ ४.७६ ॥

आर्द्रपाद इति । जल्आर्द्रपादो भोजनम् उपक्रमेत् । **आर्द्रपादः **पुनः **न **स्वप्यात् । आर्द्रपादो ह्य् अश्नन् दीर्घम् आयुः प्राप्नुयाद् इति फलकथनम् एतत् । न चानित्यतापत्तिः ।

पञ्चार्द्रो भोजनं कुर्यात् प्राङ्मुखो मौनम् आस्थितः ।

न निन्देद् दत्तभक्ष्यांश् च स्याद् स्वादु न कुत्सयेत् ॥

इति व्यासेन नित्यस्मरणात् ॥ ४.७६ ॥

अचक्षुर्विषयं दुर्गं न प्रपद्येत कर्हिचित् ।

न विण्मूत्रम् उदीक्षेत न बाहुभ्यां नदीं तरेत् ॥ ४.७७ ॥

अचक्षुर्विषयम् इति । चक्षुर्गोचरो यो न भवति दुर्गमो देशः तं कदाचिद् अपि न गच्छेत् । मूत्रपुरीषे च नोदीक्षेतबाहुभ्यां नद्य्आदि** न तरेत् ॥** ४.७७ ॥

अधितिष्ठेन् न केशांस् तु भस्मास्थिकपालिकाः ।

न कार्पासास्थि न तुषान् दीर्घम् आयुर् जिजीविषुः ॥ ४.७८ ॥

अधितिष्ठेद् इति । दीर्घम् आयुर् जीवितुम् इच्छुः केशभस्मास्थिकपालिकाः कार्पासबीजतुषान् नाधिरोहेत् ॥ ४.७८ ॥

न संवसेच् च पैतैर् न चाण्डालैर् न पुल्कसैः ।

न मूखैर् नावलिप्तैश् च नान्त्यैर् नान्त्यवसायिभिः ॥ ४.७९ ॥

न संवशेद् इति । पतितचाण्डालपुल्कसाल्पबुद्धिगर्हितान्त्यावसायिभिः ग्रामन्तरनिवासिभिर् अपि कार्त्यार्थम् एकप्रदेशे मुहूर्तम् अपि नासीतेति । “नाधर्मिके वसेद् ग्रामे” इत्यादिभ्यो भेदः । पतितादयश् च दशमैकादशाध्याये वक्ष्यन्ते ॥ ४.७९ ॥

न शूद्राय मतिं दद्यान् नोच्छिष्टं न हविष्कृतम् ।

न चास्योपदिशेद् धर्मं न चास्य व्रतम् आदिशेत् ॥ ४.८० ॥

**न शूद्रायेति **। मतिर् अत्र धर्मस्य पृथग् उपदेशात् दृष्टोपकारकोच्छिष्टहविष्कृतसाहचर्यात् वा दृष्टार्थहितोपदेशं शूद्रस्य न कुर्यात् । उच्छिष्टं वादाससूद्राय न देयं यतो दासविषये उच्छिष्टम् अन्नं दातव्यम् इति वक्ष्यति । यत् तु “द्विजोच्छिष्टं तु भोजनम्” इति सभोक्तुर् उपदेशो न दातुस् तथा हविरर्थं यच् च पुरोडाशादि तस्य “देवान्नानि हवींषि चेअ” इति प्रतिषेधम् उक्त्वा तच्छेषस्य “हविःशेषं च यद् भवेत्” । द्विजातीनां भक्ष्यतां वक्ष्यत्य् अतश् च तद्धविःशेषीभूतं शूद्राय न देयम् । तथेदम् इदम् अदृष्टार्थं त्वया कर्तव्यम् इत्य् शूद्रस्य धर्मं नोपदिशेत् । व्रतं चास्य प्रायश्चित्तं साक्षान् नोपदिशेत् तथा चात्यन्तधार्मिकशूद्रविषयेष्व् अङ्गिराः ।

तथा शूद्रं समासाद्य सदा धर्मं पुरःसरम् ।

अन्तरा ब्राह्मणं क्र्त्वा प्रायश्चित्तं समादिशेत् ॥ इति ।

ब्राह्मणोपदेशप्रणालिकया प्रायश्चित्तदानम् आह न साक्षाद् इति ॥ ४.८० ॥

यो ह्य् अस्य धर्मम् आचष्टे यश् चैवादिशति व्रतम् ।

सो ऽसंवृतं नाम तमः सह तेनैव मज्जति ॥ ४.८१ ॥

इति । यस्मात् यः शूद्रस्य धर्मव्रते उपदिशति स ब्राह्मणः पापोत्पत्तिनिमित्तभूतेन तेनैव शूद्रेण सह अतिमहत्त्वाद् असंवृताख्यं तमः अन्धकारं प्रविशति । पञ्चके प्रकृते द्वयोः फलकथनं प्रायश्चित्तगौरवार्थम् ॥ ४.८१ ॥

न संहताभ्यां पाणिभ्यां कण्डूयेद् आत्मनः शिरः ।

न स्पृशेच् चैतद् उच्छिष्टो न च स्नायाद् विना ततः ॥ ४.८२ ॥

न संहताभ्याम् इति । संश्लिष्टाभ्यां पाणिभ्यां स्वशिरो न कण्डयेत् । संहतवचनाद् असंहताभ्यां न निषेधः । एवं सर्वत्र व्यावर्त्य ज्ञेयम् । उच्छिष्टहस्तादिना येन केनचिद् अपि शिरो न स्पृशेत् । शिरसा विना च नित्यनैमित्तकस्नाने न कुर्यात् । दृष्टार्थे त्व् अनिषेधः, स्नानविधिनास्यैकवाक्यत्वात् ॥ ४.८२ ॥

केशग्रहान् प्रहारांश् च शिरस्य् एतान् विवर्जयेत् ।

शिरःस्नातश् च तैलेन नाङ्गं किञ्चिद् अपि स्पृशेत् ॥ ४.८३ ॥

केशग्रहान् इति । केशग्रहणप्रहारौ कोपेन मूर्धनि न कुर्यात् । सशिरस्कः स्नातः **तैलेन किञ्चिद् अप्य् अङ्गं स्पृशेत् **॥ ४.८३ ॥

न राज्ञः प्रतिगृह्णीयाद् अराजन्यप्रसूतितः ।

सूनाचक्रध्वजवतां वेशेनैव च जीवताम् ॥ ४.८४ ॥

न राज्ञ इति । “राज्ञो ऽपत्ये जातिग्रहणम्” इति क्षत्रिय एव राजन्य उच्यते । तस्य सन्ततिर् अपत्यं विशेषवचनात् क्षत्रिय एव राजन्यप्रसूतिः न राजन्यप्रसूतिः अराजन्यप्रसूतिः । अक्षत्रियः तस्मात् अक्षत्रियाद् राज्ञः प्रकरणाद् अनापदि न प्रतिगृह्णीयात् तथा सौनिकतैलिकमद्यवणिजां पण्यस्त्रीव्यवहारेण च जीवतां न प्रतिगृह्णीयात् ॥ ४.८४ ॥

दशसूनासमं चक्रं दशचक्रसमो ध्वजः ।

दशध्वजसमो वेश्या दशवेश्यासमो नृपः ॥ ४.८५ ॥

दशसूनासमम् इति । दशध्वजसमा वेश्या दशवेश्यासमो नृपः । **सूना **आघातनस्थानं दशसु सूनासु यावान् सौनिकस्य दोषः तावान् चक्रवर्तिनि तैलिके । दशसु च तिलिकेषु यावांस् तावान् ध्वजिनि मद्यवणिजि । दशसु ध्वजिषु यावांस् तावान् वेशवति । दशसु वेशवत्सु यावांस् तावान् नृपे । एवं चोत्तरोत्तरनिन्दातिशयदर्शनेन आपदि पूर्वदातृसंह्वे उत्तरः परिहरणीयः

॥ ४.८५ ॥

दशसूनासहस्राणि यो वाहयति सौनिकः ।

तेन तुल्यः स्मृतो राजा घोरस् तस्य प्रतिग्रहः ॥ ४.८६ ॥

एवं चोक्तकलनया – **दशसूनासहस्राणीति **। **दशसूनासहस्राणियः सौनिकः **स्वार्थे व्यापारयति तेन तुल्यो राजा मन्वादिभिः **स्मृतः **। अतस् तत्सम्बन्धी **प्रतिग्रहो **नरकपातहेतुत्वात् भीषनीयः ॥ ४.८६ ॥

यो राज्ञः प्रतिगृह्णाति लुब्धस्योच्छ्रास्त्रवर्तिनः ।

स पर्यायेण यातीमान् नरकान् एकविंशतिम् ॥ ४.८७ ॥

इति । क्षत्रियस्यापि च कृपणस्य शास्त्रातिक्रमवर्तिनः राज्ञो यः प्रतिग्रहं करोति इमान् वक्ष्यमाणान् नरकान् यातनास्थानानि क्रमेण प्राप्नोति ॥ ४.८७ ॥

तामिस्रम् अन्धतामिस्रं महारौरवरौरवौ ।

नरकं कालसूत्रं च महानरकम् एव च ॥ ४.८८ ॥

सञ्जीवनं महावीचिं तपनं सम्प्रतापनम् ।

सङ्घातं च सकाकोलं कुड्मलं पूतिमृत्तिकम् ॥ ४.८९ ॥

लोहशङ्कुम् ऋजीषं च पन्थानं शाल्मलीं नदीम् ।

असिपत्रवनं चैव लोहदारकम् एव च ॥ ४.९० ॥

तामिस्रम् इति । सञ्जीवनम् इति । लोहशङ्कुम् ऋजीषम् इति । अत्र यातीत्य् अनुवर्तते । तत्रान्ध्काररूपस् तामिस्रः निबिडान्धकारात्मक्आन्धतामिस्रो महारौरवरौरवौ महाकलकल-कलकलात्मकौ कालसूत्राख्यो नरको यत्र महती सर्वप्रकारपीडा ॥ सञ्जीवनं यत्र बहुशः सञ्जीव्य व्यापाद्यन्ते । **महावीचिर् **यत्र महाकल्लोलैर् नीयते । **तपनो **ऽग्न्यादिसन्तापात्मकः । सम्प्रतापनः कुम्भीपाकः । **सङ्घातो **ऽत्यन्तसंवृते प्रदेशे बहूनाम् अवस्थानम् । **काकोलं **यत्र काकैर् भक्ष्यन्ते । **कुड्मलं **यत्र रज्जुभिः पीडनम् । **पूतिमृत्तिकः **पुरीषगन्धमृत्तिकः । **लोहशङ्कुः **सूचीभेदनं यत्र । ऋजीषं पिष्टपचनप्रक्षेपो यत्र । पन्था यत्राट्यते । शाल्मलो यत्र शाल्मलिपण्टकैस् तुद्यते । नदी यत्र नद्यापह्रियते । **असिपत्रवनं **यत्र करपत्रैर् विदार्यते । **लोहदारको **यत्र निगडबन्धः ॥ ४.८८–९० ॥

एतद् विदन्तो विद्वांसो ब्राह्मणा ब्रह्मवादिनः ।

न राज्ञः प्रतिगृह्णन्ति प्रेत्य श्रेयो ऽभिकाङ्क्षिणः ॥ ४.९१ ॥

**एतद् **राजप्रतिग्रहफलं शास्त्रज्ञा वेदाध्यायिनः **ब्राह्मणा **जानन्तः परलोकदुःखाभावार्थिनः राज्ञो धनं न प्रतिगृह्णन्ति ॥ ४.९१ ॥

ब्राह्मे मुहूर्ते बुध्येत धर्मार्थौ चानुचिन्तयेत् ।

कायक्लेशांश् च तन्मूलान् वेदतत्त्वार्थम् एव च ॥ ४.९२ ॥

ब्राह्म इति । रात्रेः पश्चिमे मुहूर्ते प्रति**बुध्येत **। ततो धर्मार्तौ इतरेतराविरोधेनार्जनार्थं विचारयेत् । तथा धर्माऋथतन्मूलभूतं कायक्लेशं इयता कालक्लेशेन इयान् इयान् धर्मो (ऽर्थो) वार्ज्यत् इत्य् एवं चिन्तयेत् । वेदस्य च कः पारमार्थिको ऽर्थः स्याद् इत्य् एवं तम् अपि चिन्तयेत् ॥ ४.९२ ॥

उत्थायावश्यकं कृत्वा कृतशौचः समाहितः ।

पूर्वां सन्ध्यां जपंस् तिष्ठेत् स्वकाले चापरां चिरम् ॥ ४.९३ ॥

उत्थायेति । ततः उषःकाले शयनाद् उत्थाय सति सम्भवे मेहनादि कृत्वा कृतवक्ष्यमाणशौचः संयतमनाः उक्ते काले पूर्वापरे सन्ध्ये अर्कदर्शनाद् ऊर्ध्वम् अपि जपं कुर्वन् उदितहोमो वर्तेत । अनुदितहोम्य् अपि होमं कृत्वा चासीत । आयुरादिदीर्घसन्ध्याफलविधानार्थम् इदं पुनः सन्ध्याभिधानम् ॥ ४.९३ ॥

ऋषयो दीर्घसन्ध्यत्वाद् दीर्घम् आयुर् अवाप्नुयुः ।

प्रज्ञां यशश् च कीर्तिं च ब्रह्मवर्चसम् एव च ॥ ४.९४॥

तथा चाह ऋषय इति । प्रज्ञाम् इति । यद्माद् ऋषयो दीर्घसन्ध्य्आनुष्ठानात्** दीर्घम् आयुः** प्रज्ञावन्तश् च **यशः **स्वर्याताश् च कीर्तिइम् अध्ययनादिसम्पत्तिश् च प्राप्तवन्तः तस्माद् एतत् कामेन दीर्घसन्ध्यानुष्ठानं कर्तव्यम् ॥ ४.९४ ॥

श्रावण्यां प्रौष्ठपद्यां वाप्य् उपाकृत्य यथाविधि ।

युक्ताश् छन्दांस्य् अधीयीत मासान् विप्रो ऽर्धपञ्चमान् ॥ ४.९५ ॥

श्रावण्याम् इति । श्रावणस्य भाद्रपदस्य वा पौर्णमास्याम् उपाकर्माख्यं (कर्म) गृह्योक्तविधानेन कृत्वा ततः सार्धाश् चतुरो मासान् ब्राह्मणो यत्नवान् वेदान्** अधीयीत** ॥ ४.९५ ॥

पुष्ये तु छन्दसां कुर्याद् बहिर् उत्सर्जनं द्विजः ।

माघशुक्लस्य वा प्राप्ते पूर्वाह्णे प्रथमे ऽहनि ॥ ४.९६ ॥

येन श्रावण्याम् उपाकर्म कृतं स द्विजो ऽर्धपञ्चमेषु मासेषु पौषमासे तु पुष्यनक्षत्रे ग्रामाद् बहिर् निष्क्रम्य छन्दसाम् उत्सर्गाख्यं गृह्योक्तं कर्म कुर्यात् । येन पौष्ठपद्यां कृतं स माघशुक्लपक्षस्य प्रथमे ऽहनि प्राप्ते पूर्वाह्णे वा कुर्यात्

॥ ४.९६ ॥

यथाशास्त्रं तु कृत्वैवम् उत्सर्गं छन्दसां बहिः ।

विरमेत् पक्षिणीं रात्रिं तद् एवैकम् अहर्निशम् ॥ ४.९७ ॥

यथाशास्त्रम् इति । एवम् उक्तशास्त्रानतिक्रमेण छन्दसाम् उत्सर्गाख्यं कर्म ग्रामाद् बहिः कृत्वा ततः उभयतोहनी पक्षाव् इव यस्या मध्यवर्तुन्या रात्याः तां रात्रिं तम् एवैकम् अहोरात्रम् अनध्यायं कुर्यात् ॥ ४.९७ ॥

अत ऊर्ध्वं तु छन्दांसि शुक्लेषु नियतः पठेत् ।

वेदाङ्गानि च सर्वाणि कृष्णपक्षेषु सम्पठेत् ॥ ४.९८ ॥

अत इति । उत्सर्गानध्यायाद् ऊर्ध्वं शुक्लपक्षेषु संयमवान् वेदान् अधीयीत । कृष्णपक्षे तु **वेदाङ्गानि **व्याकरणादीनि नियमितः **पठेत् **॥ ४.९८ ॥

नाविस्पष्टम् अधीयीत न शूद्रजनसन्निधौ ।

न निशान्ते परिश्रान्तो ब्रह्माधीत्य पुनः स्वपेत् ॥ ४.९८ ॥

नाविस्पष्टम् इति । सर्वदा **अविस्पष्टम् **अव्यक्तं न पठेत् । तथा शूद्रजनसन्निधौ नाधीयीत । तथा सुप्तोत्थितः न रात्रेः पश्चिमे भागे वेदान् अधीत्य श्रान्तः सन् पुनः सुप्यात्

॥ ४.९८ ॥

यथोदितेन विधिना नित्यं छन्दस्कृतं पठेत् ।

ब्रह्म छन्दस्कृतं चैव द्विजो युक्तो ह्य् अनापदि ॥ ४.१०० ॥

यथोदितेनेति । अध्यापकस्य कर्मान्तरव्यग्रत्वं आत्मनश् च बहुवेदने ह्य् आपत् तदभावे पूर्वोक्तविधिना द्विजो यत्नवान् सर्वदा गायत्र्यादिछन्दोयुक्तं ऋक्सामाख्यं **ब्रह्म **पठेत् । तथा ब्रह्म ब्राह्मणं गायत्र्यादिछन्दोयुक्तमन्त्रमिश्रं यजुर्वेदाख्यम् । मन्त्रब्राह्मणयोर् मिश्रपाठात् वैलक्षण्ये सत्य् अयं पृथङ्निर्देशः ॥ ४.१०० ॥

इमान् नित्यम् अनध्यायान् अधीयानो विवर्जयेत् ।

अध्यापनं च कुर्वाणः शिष्याणां विधिपूर्वकम् ॥ ४.१०१ ॥

इमान् इति । पूर्वोक्तेन विधानेन्**आधीयानः **शिष्यांश् चाध्यापयन् वक्ष्यमाणान् अनध्यायान् सर्वदा वर्जयेत् ॥ ४.१०१ ॥

कर्णश्रवे ऽनिले रात्रौ दिवा पांसुसमूहने ।

एतौ वर्षास्व् अनध्यायाव् अध्यायज्ञाः प्रचक्षते ॥ ४.१०२ ॥

कर्णश्रव इति । कर्णाभ्याम् एव श्रवणोपपत्तेः अतिशयविवक्षया कर्णश्रव इत्य् उक्तम् । तेन रात्राव् अतिशब्दवति वायौ, दिवा च रजःसमाहरणसमर्थे वाति, एतौ वएषाकाले तावत्कालिकाव् अनध्यायौ अध्ययनविधिज्ञाः कथयन्ति** **॥ ४.१०२ ॥

विद्युत्स्तनितवर्षेषु महोल्कानां च सम्प्लवे ।

आकालिकम् अनध्यायम् एतेषु मनुर् अब्रवीत् ॥ ४.१०३ ॥

**विद्युत्स्तनितवर्षेष्व् **इति । विद्युद्गर्जितवर्षेषु युगपदुपस्थितेषु महतां च दिव्यज्योतिर्विशेषेण पुनः स्थानतश् च पाते सति एतेषु निमित्तकालाद् आरब्यापरेद्युयावत् स एव कालः तावत् प्रकृतासु वर्षासु अनध्यायं मनुर् आह ॥ ४.१०३ ॥

एतांस् त्व् अभ्युदितान् विद्याद् यदा प्रादुष्कृताग्निषु ।

तदा विद्याद् अनध्यायम् अनृतौ चाभ्रदर्शने ॥ ४.१०४ ॥

एतान् इति । एतान् विद्युदादीन् जुहूषया प्रकटीकृताग्निषु सन्ध्यालक्षणेषु कालेषु यतोपजातान् जानीयात् तदानध्यायं कुर्यात् । न सर्वदा वर्षासु एतदुत्पाते तथा वर्षाभ्यो ऽन्यत्र्आभ्रदर्शने सत्य् अनध्यायः ॥ ४.१०४ ॥

निर्घाते भूमिचलने ज्योतिषां चोपसर्जने ।

एतान् आकालिकान् विद्याद् अनध्यायान् ऋताव् अपि ॥ ४.१०५ ॥

निर्घात इति । अन्तरिक्षे उत्पातध्वनौ भूकम्पे आदितादीनां परिवेषणे सति अनृताव् अपि वर्षास्व् अपि । अपिशब्दात् अन्यदापि आकालिकान् अनध्यायान् जानीयात् ॥ ४.१०५ ॥

प्रादुष्कृतेष्व् अग्निषु तु विद्युत्स्तनितनिःस्वने ।

सज्योतिः स्याद् अनध्यायः शेषे रात्रौ यथा दिवा ॥ ४.१०६ ॥

प्रादुष्कृतेष्व् इति । अग्नीनां पुनर् अपासितभस्मतया प्रकटीकरणवेलायां सन्ध्याकाले विद्युद्गर्जितशब्दाव् एव यदा भवतो न वर्षं तदा यावज् ज्योतिः तावद् एवानध्यायः नाकालिकम्, दिवादित्यज्योतिः रात्रौ तारकाः । अतः पूर्वं सन्ध्यायाम् एतद् उत्पाते दिवैवानध्यायः पश्चिमायां चोत्पाते रात्राव् एव । शेषेषु च पुनर् वर्षाख्ये तृतीय उपजाते यथा दिवा तथा रात्राव् अप्य् अनध्यायः इत्य् उक्तानुवादः ॥ ४.१०६ ॥

नित्यानध्याय एव स्याद् ग्रामेषु नगरेषु च ।

धर्मनैपुण्यकामानां पूतिगन्धे च सर्वशः ॥ ४.१०७ ॥

नित्यानध्याय इति । धर्मातिशयार्थिनां ग्रामनगरयोः सर्वदानध्यायः स्यात् । कुत्सितगन्धेन च सर्वस्मिन्न् उपलभ्यमाने ऽनध्यायः अस्मिन्न् अनध्यायप्रकरणे नित्यशब्दादीनां क्वचित् क्वचिद् अभावात् तत्र तत्र नित्यत्वं अन्यत्र विकल्पः । स च धर्मनैप्पुणविद्यानैपुणकामभेदेन व्यवस्थितो ज्ञेयः । द्विविधा ह्य् अध्येतारः, धर्मनैपुणकामा विद्यानैपुणकामाश् च । तत्र ये स्वीकृतप्रायवेदाः केवलं नियमानुष्थानजन्यम् अदृष्टातिशयम् अर्थयन्ते ते धर्मनैपुणकामाः तेषाम् अशेषानध्यायादरणम् । पुनः प्रथमाध्येतारः ते विद्यातिशयार्थिनः एषां नित्यत्वलिङ्गव्यतिरिक्तानध्यायादरणं नास्ति ॥ ४.१०७ ॥

अन्तर्गतशवे ग्रामे वृषलस्य च सन्निधौ ।

अनध्यायो रुद्यमाने समवाये जनस्य च ॥ ४.१०८ ॥

अन्तर्गतशव इति । विद्यमानशवे वृषलस्य च अधार्मिकस्य च सन्निधौ “न शूद्रजनसन्निधौ” इत् शूद्रस्योक्तत्वात् रोदने च, जनानां कार्यार्थम् एकत्र सन्निधाने सत्य् अनध्यायः ॥ ४.१०८ ॥

उदके मध्यरात्रे च विण्मूत्रस्य विसर्जने ।

उच्छिष्टः श्राद्धभुक् चैव मनसापि न चिन्तयेत् ॥ ४.१०९ ॥

उदक इति । जलमध्ये मधमे च प्रहरद्वये महानिशाख्ये “महानिशा च विज्ञेया मध्यस्थं प्रहरद्वयम्” इति देवलस्मरणात् । मूत्रपुरीषकाले प्राग् आचमनाद् उच्छिष्टः श्राद्धभुक् निमन्त्रणात् प्रभृति श्राद्धभोजनाद् अहोरात्रं यावत् मनसापि वेदस्य न स्मरेत् ॥ ४.१०९ ॥

प्रतिगृह्य द्विजो विद्वान् एकोद्दिष्टनिकेतनम् ।

त्र्यहं न कीर्तयेद् ब्रह्म राज्ञो राहोश् च सूतके ॥ ४.११० ॥

प्रतिगृह्येति । शास्त्रविद् ब्राह्मणः नवश्राद्धे च निमन्त्रणम् उररीकृत्य नृपस्य च पुत्रजन्मादौ राहुणा वा अर्केन्दुग्रामे सति त्र्यहं वेदं नाधीयीत ॥ ४.११० ॥

यावद् एकानुदिष्टस्य गन्धो लेपश् च तिष्ठति ।

विप्रस्य विदुषो देहे तावद् ब्रह्म न कीर्तयेत् ॥ ४.१११ ॥

त्र्यहाद् ऊर्ध्वम् अपि वा । यावद् इति । यावद् एकोद्देशेन निमन्त्रितस्य शास्त्रविदो ब्राह्मणस्य श्राद्धगतस्रक्चन्दनादिगन्धलेपो गात्रे भवतः तावव् वेदम् नाधीयीत ॥ ४.१११ ॥

शयानः प्रौढपादश् च कृत्वा चैवावसक्थिकाम् ।

नाधीयीतामिषं जग्ध्वा सूतकान्नाद्यम् एव च ॥ ४.११२ ॥

**शयान **इति । शय्योत्सृष्टाङ्गप्रसारितपादः पादारोपितपादो वा पर्यस्तिकां च कृत्वा मांसम् आशौचान्नं च भुक्त्वा **नाधीयीत **॥ ४.११२ ॥

नीहारे बाणशब्दे च सन्ध्ययोर् एव चोभयोः ।

अमावास्याचतुर्दश्ययोः पौर्णमास्यष्टमीषु च ॥ ४.११३ ॥

धूमिकायां **वाणशब्दे सन्ध्ययोः अमावास्याचतुर्दशीपौर्णमास्यष्टमीषु च न अधीयीत **। अष्टकानाम् उत्तरत्राभिधानाद् इहामावास्यादिसाहचर्याद् अष्टकाग्रहणम् अष्टम्यर्थम्

॥ ४.११३ ॥

अमावास्या गुरुं हन्ति शिष्यं हन्ति चतुर्दशी ।

ब्रह्माष्टकापौर्णमास्यौ तस्मात् ताः परिवर्जयेत् ॥ ४.११४ ॥

यस्मात् अमावास्येति । **अमावास्या गुरुं हन्ति शिष्यं **च चतुर्दशी हन्ति वेदं चाष्टमीपौर्णमास्यौ विस्मार्यतः । तस्माद् एतासु नित्यम् अध्ययनं परिहरेत् ॥ ४.११४ ॥

पांसुवर्षे दिशां दाहे गोमायुविरुते तथा ।

श्वखरोष्ट्रे च रुवति पङ्क्तौ च न पठेद् द्विजः ॥ ४.११५ ॥

पांसुवर्ष इति । रजोवर्षे दिग्दाहे च यत्र ज्वलिता इव दिशो लक्ष्यन्ते । शृगालश्वखरविरुते पङ्क्त्याकारेण चोपविश्य द्विजो न पठेत् ॥ ४.११५ ॥

नाधीयीत श्मशानान्ते ग्रामान्ते गोव्रजे ऽपि वा ।

वसित्वा मैथुनं वासः श्राद्धिकं प्रतिगृह्य च ॥ ४.११६ ॥

नाधीयीतेति । “श्मश्ने सर्वतः शम्याप्रासान् नाधीयीत” इत्य् आपस्तम्बस्मरणात् तथाविधश्मशानसमीपगोष्ठयोश् च स्त्रीसम्प्रयोगप्रावृतं च **वासः **प्रावृत्य श्राद्धार्थं (चा) कृतान्नाद्यर्थं प्रतिगृह्य नाधीयीत ॥ ४.११६ ॥

प्राणि वा यदि वाप्राणि यत् किञ्चिच् छ्राद्धिकं भवेत् ।

तदालभ्याप्य् अनध्यायः पाण्यास्यो हि द्विजः स्मृतः ॥ ४.११७ ॥

गोहिरण्यादि यत् किञ्चित् श्राद्धार्थं तत् स्पृष्ट्वाप्य् अनध्यायः । किम् उत प्रतिगृह्य । यस्मात् पाणिर् एवास्यम् अस्येति **पाण्यास्यो **ब्राह्मणः ॥ ४.११७ ॥

चौरैर् उपप्लुते ग्रामे सम्भ्रमे चाग्निकारिते ।

आकालिकम् अनध्यायं विद्यात् सर्वाद्भुतेषु च ॥ ४.११८ ॥

चौरैर् इति । **चौरैर् उपप्लुते ग्रामे **अग्निदाहकृते च भये दिव्यान्तरिक्षभौमेषु चाश्वर्यरूपेषु उत्पातेषु रुधिरवर्षणादिषु आकालिकम् अनध्यायं जानीयात् ॥ ४.११८ ॥

उपाकर्मणि चोत्सर्गे त्रिरात्रं क्षेपणं स्मृतम् ।

अष्टकासु त्व् अहोरात्रम् ऋत्वन्तासु च रात्रिषु ॥ ४.११९ ॥

उपाकर्मणीति । उपाकर्मोत्सर्गाख्ययोः गृह्योक्तकर्मणोः कृतयोः त्रिरात्रम् स्मृतम् । तत्रोत्सर्गे पक्षिण्य् अहोरात्राभ्याम् उक्ताभ्यां सह अनेन विकल्पः । ऊर्ध्वम् आग्रहायण्याः कृष्णपक्षाष्टमीषु तिसृषु चतसृषु वा अहोरात्रम् अनध्यायः । अष्टमीषु पुनः यावद् अष्टमीत्य् एवम् अर्थम् । तथा च तत्र “अष्टकासु नाधीयीत” इत्य् उक्तम् । इह पुनः “अष्टकासु त्व् अहोरात्रम्” इति यत् तु पुनर्वचनं नित्यार्थम् इत्य् आहुस् तद् असत् । तत्रापि “अमावास्या गुरुं हन्ति” इत्य् अर्थवादेन नित्यत्वस्य समर्थितत्वात् ऋत्वन्तरेषु चाहोरात्रम् अनध्यायः ॥ ४.११९ ॥

नाधीयीताश्वम् आरूढो न वृक्षं न च हस्तिनम् ।

न नावं न खरं नोष्ट्रं नेरिणस्थो न यानगः ॥ ४.१२० ॥

**नाधीयीतेति **। अश्ववृक्षहस्तिनौखरोष्ट्रारूढः तथोषरप्रदेशस्थः गन्त्र्यादिभिर् यानेन च गच्छन् **नाधीयीत **॥ ४.१२० ॥

न विवादे न कलहे न सेनायां न सङ्गरे ।

न भुक्तमात्रे नाजीर्णे न वमित्वा न शुक्तके ॥ ४.१२१ ॥

न विवाद इति । व्याक्रोशायां प्रवृत्तायां दण्डादण्डि वा यदोत्पन्नं भवति अप्रवृत्तयुद्धायां वा सेनायां प्रवृत्तयुद्धे वा स्थितः भोजनसमनन्तरं च “यावद् आर्द्रपाणिः” इति वसिष्ठस्मरणात् । अपरेद्युश् चाजीर्णे वमित्वा चान्नानि **शुक्तके **वोद्गारे नाधीयीत

॥ ४.१२१ ॥

अतिथिं चाननुज्ञाप्य मारुते वाति वा भृशम् ।

रुधिरे च स्रुते गात्राच् छस्त्रेण च परिक्षते ॥ ४.१२२ ॥

अतिथिम् इति । अतिथिः अधीष्वेत्य् एवं यावद् अननुज्ञापितः, वायौ चाध्ययनश्रमेणातिकुप्यति **रुधिरे च **श्रीरात् स्रुते, शस्त्रेण चारुधिरोत्पादितापि क्ष्ते उत्पन्ने नाधीयीत ॥ ४.१२२ ॥

सामध्वनाव् ऋग्यजुषी नाधीयीत कदाचन ।

वेदस्याधीत्य चाप्य् अन्तम् आरण्यकम् अधीत्य च ॥ ४.१२३ ॥

सामध्वनाव् इति । सामध्वनौ शूयमाणे ऋग्यजुषोर् न कदाचिद् अप्य् अध्ययनं कुर्यात् । तथा वेदं समाप्य आरण्याख्यं च वेदैकदेशं **अधीत्य **तस्मिन्न् अहोरात्रे अन्यत् नाधीयीत ॥ ४.१२३ ॥

ऋग्वेदो देवदैवत्यो यजुर्वेदस् तु मानुषः ।

सामवेदः स्मृतः पित्र्यस् तस्मात् तस्याशुचिर् ध्वनिः ॥ ४.१२४ ॥

ऋग्वेद इति । देवा देवता यस्यासौ **देवदैवत्य ऋग्वेदः **। मनुष्यदेवताकत्वात् **यजुर्वेदो मानुषः । सामवेदः **पितृदेवताकः **स्मृतः । **पित्र्यं कर्म कृत्वा आचम्यते । तस्मात् तस्याशुचिर् इति **ध्वनिः **। अतस् तस्मिन् श्रूयमाणे ऋग्यजुषी नाध्येये इति पूर्वविध्यर्थवादः ॥ ४.१२४ ॥

एतद् विदन्तो विद्वांसस् त्रयीनिष्कर्षम् अन्वहम् ।

क्रमतः पूर्वम् अभ्यस्य पश्चाद् वेदम् अधीयते ॥ ४.१२५ ॥

एतद् देवपितृमनुष्यादौ देवत्वं (-त्वात् कथं) वेदत्रयस्य (जानन्तः) नानाशस्त्रज्ञा ऋग्यजुःसामात्मिकायास् त्रय्याः सारभूतं प्रणवव्याहृतिसावित्र्याख्यं प्रत्यहं प्रणवव्याहृतिसावित्र्यात्मकेन द्वितीयाध्यायोक्तक्रमेण प्रथमं अभ्यस्य पश्चाद् वेदम् अधीयीयते । यथानध्यायेषु नाध्ययनं एवं प्रणवाद्यभ्यासं विना नाध्येयम् इत्य् एतद् अस्येह पुनर्वचनम् ॥ ४.१२५ ॥

पशुमण्डूकमार्जारश्वसर्पनकुलाखुभिः ।

अन्तरागमने विद्याद् अनध्यायम् अहर्निशम् ॥ ४.१२६ ॥

पशुमण्डूकमार्जारश्वसर्पनकुलाखुभिर् इति । शिष्योपाध्याययोर् अधीयानयोः गवादिपशुमण्डूकबिडालश्वसर्पनकुलमूषकैः मध्यगमने कृते अहोरात्रम् अनध्यायं जानीयत् ॥ ४.१२६ ॥

द्वाव् एव वर्जयेन् नित्यम् अनध्यायौ प्रयत्नतः ।

स्वाध्यायभूमिं चाशुद्धम् आत्मानं चाशुचिं द्विजः ॥ ४.१२७ ॥

विद्यानैपुणकामं प्रति पूर्वोक्तानध्यायविकल्पार्थम् आह द्वाव् इति । अध्ययनभूमिम् अशुद्धां आत्मानं चाशुचिम् अपेक्ष्य **द्वौ वानध्यायौ । **ताव् एव प्रयत्नेन **नित्यं द्विजो वर्जयेत् । **ताभ्यां (मन्त्रो ऽपि) अन्यत्रापि यत्र नित्यग्रहणम् अर्थवादादि वा नित्यत्वे लिङ्गम् अस्ति तथापि नित्यम् एव वर्जयेत् । अन्यत्र तु विकल्पः ॥ ४.१२७ ॥

अमावास्याम् अष्टमीं च पौर्णसासीं चतुर्दशीम् ।

ब्रह्मचारी भवेन् नित्यम् अप्य् ऋतौ स्नातको द्विजः ॥ ४.१२८ ॥

अमावास्याम् इति । अमावास्यादिषु **स्नातको द्विजः ऋताव् अपि **नित्यं स्त्रियं नोपेयात् । “पर्ववर्जं व्रजेच् चैनाम्” इत्य् अनेन पौनरुक्थ्यं तत्रैव परिहृतम् । स्नातकव्रतप्रायश्चित्ताङ्गत्वेनास्येहाभिधानम् ॥ ४.१२८ ॥

न स्नानम् आचरेद् भुक्त्वा नातुरो न महानिशि ।

न वासोभिः महाजस्रं नाविज्ञाते जलाशये ॥ ४.१२९ ॥

न स्नानम् इति । भुक्त्वा नित्यं यादृच्छिकं **स्नानं न **कुर्यात् । नैमित्तिकं पुनः “मुहूर्तम् अपि शक्तिविषये नाप्रमत्तः स्यात्” इत्य् आपस्तम्बस्मरणान् न निषिध्यते । तथा व्याधितो नैमित्तिकम् अपि स्नानं न कुर्यात्, अपि यथासम्भवं मन्त्रवन् मार्जनहिरण्योदकाभ्युक्षणगोस्पर्शनादीन् स्नानप्रतिनिधीन् पटपरिवर्तनं च कुर्यात् ।

महानिशा तु विज्ञेया मध्यस्थं प्रहरद्वयम् ।

तस्यां स्नानं न कुर्वीत काम्यनैमित्तिकाद् ऋते ॥

इति देवलस्मरणात् तत्र न स्नायात् । बहुवासस्कश् च सततं न स्नायात् । नैमित्तिके त्व् अनिषेधः । गाधागाधग्राहाद्याकीर्णतया वा अज्ञाते जलाधारे न स्नायात् ॥ ४.१२९ ॥

देवतानां गुरो राज्ञः स्नातकाचार्ययोस् तथा ।

नाक्रामेत् कामतश् छायां बभ्रुणो दीक्षितस्य च ॥ ४.१३० ॥

देवतानाम् इति । **देवतानां **चित्रपुस्तकादिकृतानां गुरोः पित्रादेः नृपतेः **स्नातकाचार्यस्य **च प्राधान्याद् गुरुतः पृथगुपदिष्टस्य कपिलस्य यज्ञार्थं कृतदीक्षस्येच्छातः **छायां नाक्रामेत् **॥ ४.१३० ॥

मध्यन्दिने ऽर्धरात्रे च श्राद्धं भुक्त्वा च सामिषम् ।

सन्ध्ययोर् उभयोश् चैव न सेवेत चतुष्पथम् ॥ ४.१३१ ॥

मधन्दिन इति । मध्याह्नार्धरात्रसन्ध्यासु समांसं च **श्राद्धं भुक्त्वा **चतुष्पथे चिरं न तिष्ठेत् ॥ ४.१३१ ॥

उद्वर्तनम् अपस्नानं विण्मूत्रे रक्तम् एव च ।

श्लेष्मनिष्थ्यूतवान्तानि नाधितिष्ठेत् तु कामतः ॥ ४.१३२ ॥

उद्वर्तनम् इति । उद्वर्तनं स्नानोदकमूत्रपुरीषरुधिर**श्लेष्मवान्तानि **इच्छातो नाक्रामेत् **तिष्ठ्यूतं **च ताम्बूलाद्यं श्लेष्मरूपम् अपि ॥ ४.१३२ ॥

वैरिणं नोपसेवेत सहायं चैव चैरिणः ।

अधार्मिकं तस्करं च परस्यैव च योषितम् ॥ ४.१३३ ॥

वैरिणम् इति । शत्रुतन्मित्राधर्मशीलवौरपरदानान् नोपसेवेत । चौरस्यात्यन्तकुत्सितत्वात् अधार्मिकात् पृथक्ग्रहणम् । शत्रुसेवनादौ च यद्य् अपि दृष्ट एव दोषः तथापि शास्त्रनिषेधसामर्थ्याद् अदृष्टो ऽपि भवतीत्य् अवसीयते । एवम् अन्यत्रापि विज्ञेयम् ॥ ४.१३३ ॥

न हीदृशम् अनायुष्यं लोके किञ्चन विद्यते ।

यादृशं पुरुषस्येह परदारोपसेवनम् ॥ ४.१३४ ॥

न हीदृशम् इति । यस्मात् पुंस एवंविधम् आयुःक्षयकरं लोके अन्यन् न किञ्चिद् अस्ति यादृक् लोके परदारगमनम्, तस्माद् एतन् न कार्यम् ॥ ४.१३४ ॥

क्षत्रियं चैव सर्पं च ब्राह्मणं च बहुश्रुतम् ।

नावमन्येत वै भूष्णुः कृशान् अपि कदाचन ॥ ४.१३५ ॥

क्षत्रियं चैवेति । यो भवनशीलः क्षत्रियसर्पविद्वद्ब्राह्मणान् तदानीं दुर्बलान् अपि कदाचिन् नावजानीयात् ॥ ४.१३५ ॥

एतत् त्रयं हि पुरुषं निर्दहेद् अवमानितम् ।

तस्माद् एतत् त्रयं नित्यं नावमन्येत बुद्धिमान् ॥ ४.१३६ ॥

एतत् त्रयम् इति । यस्माद् **एतत् त्रयम् **अवज्ञातं **पुरुषं **विनाशयति । क्षत्रियसर्पौ दृष्टशक्त्या ब्राह्मणस् त्व् अभिचारादिना । तस्मात् प्रशस्तबुद्धिः **एतत् त्रयं **सर्वदा न तिरस्कुर्यात् ॥ ४.१३६ ॥

नात्मानम् अवमन्येत पूर्वाभिर् असमृद्धिभिः ।

आ मृत्योः श्रियम् अन्विच्छेन् नैनां मन्येत दुर्लभाम् ॥ ४.१३७ ॥

नात्मानम् इति । प्रथमोत्पन्नाभिर् असम्पद्धिः **आत्मानं **नावजानीयात् । अपि तु **आ मृत्योः **श्र्यर्थम् उद्यमं कुर्यात्, न दुर्लभा श्रीर् इति बुध्येत ॥ ४.१३७ ॥

सत्यं ब्रूयात् प्रियं ब्रूयान् न ब्रूयात् सत्यम् अप्रियम् ।

प्रियं च नानृतं ब्रूयाद् एष धर्मः सनातनः ॥ ४.१३८ ॥

सत्यम् इति । केनचित् पृष्टः सन् सत्यम् एव **ब्रूयात् । सत्यं प्रियं **चाप्य् अपृष्टो ऽपि पुत्रजन्मादि कथयेत् । **अप्रियं **पुनः **सत्यं **बन्धुवियोगादि न वदेत्, अपि तु सत्यां गतौ तूष्णीम् आसीत । प्रियम् अपि चासत्यं नापि(भि) ब्रूयात् इत्य् एष नित्यो धर्मः ॥ ४.१३८ ॥

भद्रं भद्रम् इति ब्रूयाद् भद्रम् इत्य् एव वा वदेत् ।

शुष्कवैरं विवादं च न कुर्यात् केनचित् सह ॥ ४.१३९ ॥

भद्रम् इति । “अभद्रं भद्रम्” इति गौतमस्मरणाद् इह वृत्तवशात् प्रयुक्तम् । तत्राध्याहारेण व्याख्येयम् अकल्यानरूपं यत् तत् भद्रं कल्याणं श्रेय इत्य् एवमादिभिः शब्दैः इतिकरणस्य प्रकारार्थत्वात् ब्रूयात् । भद्रम् इत्य् अनेनैवं वाशब्देन तत् । वादानिमित्तौ वैरकलहौ चासमर्थेनापि सह नैव कुर्यात् ॥ ४.१३९ ॥

नातिकल्यं नातिसायं नातिमध्यन्दिने स्थिते ।

नाज्ञातेन समं गच्छेन् नैको न वृषलैः सह ॥ ४.१४० ॥

नातिकल्यम् इति । उषःप्रदोषयोः मध्याह्ने च जाते **अविज्ञातेन **पुरुषेण शूद्रैश् चाध्वानं न गच्छेत् । “नैकः प्रपद्येताध्वानम्” इत्य् उक्ते ऽपीह एक इत् पुनर्वचनं प्रायश्चित्तविशेषार्थम् ॥ ४.१४० ॥

हीनाङ्गान् अतिरिक्ताङ्गान् विद्याहीनान् वयोऽतिगान् ।

रूपद्रविणहीनांश्च जातिहीनांश् च नाक्षिपेत् ॥ ४.१४१ ॥

हीनाङ्गान् इति । हीनाङ्गाधिकाङ्गमूर्खातिवृद्धविरूपदरिद्रवैधवेयादीन् काणादिशब्दाह्वानादिना नोपहसेत् ॥ ४.१४१ ॥

न स्पृशेत् पाणिनोच्छिष्टो विप्रो गोब्राह्मणानलान् ।

न चापि पश्येद् अशुचिः स्वस्थो ज्योतिर्गणान् दिवि ॥ ४.१४२ ॥

न स्पृशेद् इति । आचमनाद्यर्हो ब्राह्मणः गोब्राह्मणाग्नीन् न स्पृशेत् । तथ्आशुचिः सन् अनातुरो द्युलोकगतम् आदित्यादिज्योतिःसमूहम् अपि न पश्येत् ॥ ४.१४२ ॥

स्पृष्ट्वैतान् अशुचिर् नित्यम् अद्भिः प्राणान् उपस्पृशेत् ।

गात्राणि चैव सर्वाणि नाभिं पाणितलेन तु ॥ ४.१४३ ॥

स्पृट्वेति । अशुचिः सन् गवादीन् स्पृष्ट्वा अद्भिः प्राणायतनानि चक्षुरादीन्य् अङ्गानि च सर्वाणि स्पृशेत् “नाभिम् अद्भिर् हस्तमध्येन स्पृशेत्” इति प्रकरणपठितं प्रायश्चित्तं लाघवार्थम् । तत्र हि क्रियमाणे गवादिस्पर्शे कर्तव्यं स्यात् ॥ ४.१४३ ॥

अनातुरः स्वानि खानि न स्पृशेद् अनिमित्ततः ।

रोमाणि च रहःस्थानि सर्वाण्य् एव विवर्जयेत् ॥ ४.१४४ ॥

**अनातुर **इति । स्वस्थः सन् **स्वानि **छिद्राणि **रोमाणि च **पायूपस्थगतानि **अनिमित्तं न स्पृशेत् **॥ ४.१४४ ॥

मङ्गलाचारयुक्तः स्यात् प्रयतात्मा जितेन्द्रियः ।

जपेच् च जुहुयाच् चैव नित्यम् अग्निम् अतन्द्रितः ॥ ४.१४५ ॥

मङ्गलाचारयुक्त इति । अभिप्रेतसिद्धिरूपमङ्गलहेतुत्वात् गोरोचनाचन्दनादौ मङ्गले प्रत्युत्थानादौ आचारे यत्नवान् शुद्धात्मा वशीकृतजिह्वादीन्द्रियः स्यात्, अनलसश् च सन् जपहोमौ नित्यं कुर्यात् । अत्र आचारादीनाम् उक्तानाम् अपि विनिपातविनिवृत्त्यर्थं विवक्षया पुनर् अभिधानम् ॥ ४.१४५ ॥

मङ्गलाचारयुक्तानां नित्यं च प्रयतात्मनाम् ।

जपतां जुह्वतां चैव विनिपातो न विद्यते ॥ ४.१४६ ॥

यथा चाह मङ्गलाचारयुक्तानाम् इति । मङ्गलाद्यनुष्ठानशीलानां शुद्धानां जपहोमपरायणानां दैवपुरुषकृत उपद्रवो न विद्यते ॥ ४.१४६ ॥

वेदम् एव जपेन् नित्यं यथाकालम् अतन्द्रितः ।

तं ह्य् अस्याहुः परं धर्मम् उपधर्मो ऽन्य उच्यते ॥ ४.१४७ ॥

वेदम् एव जपेन् नित्यम् इति । यस्मिन् यस्मिन् काले दृष्टार्थकर्मोपरोधो भवति तत्र नित्यं वेदम् एवानलसः सन् **जपएत् **। यस्मात् तं ब्रह्मणस्य **परं धर्मं **मन्वादय आहुः । तदन्यस् त्व् अमुख्यो धर्मस् तैर् **उच्यते **॥ ४.१४७ ॥

वेदाभ्यासेन सततं शौचेन तपसैव च ।

अद्रोहेण च भूतानां जातिं स्मरति पौर्विकीम् ॥ ४.१४८ ॥

उक्तस्यापि वेदाभ्यासस्य यद् अर्थं पुनर् अभिधानं तद् आह वेदाभ्यासेनेति । नित्यं वेदाभ्यासशौचतपोऽहिंसाभिः** **पूर्वभवस्य जन्म स्मरति ॥ ४.१४८ ॥

पौर्विकीं संस्मरन् जातिं ब्रह्मैवाभ्यस्यते द्विजः ।

ब्रह्माभ्यासेन चाजस्रम् अनन्तं सुखम् अश्नुते ॥ ४.१४९ ॥

ततः किम् अत आह पौर्विकीम् इति । पूर्वजातिं स्वां **संस्मरन् **ईदृग् अयं वेदाभ्यासः येन जन्मान्तरं स्मर्यत इति मत्वा अभीक्ष्णं वेदाभ्यासम् एव करोति तेन चानवरतम् आचर्यमाणे वेदार्थावबोधजाते सति ब्रह्मप्राप्तौ परमात्मरूपम् **अक्षयं सुखं **प्राप्नोति ॥ ४.१४९ ॥

सावित्रान् शान्तिहोमांश् च कुर्यात् पर्वसु नित्यशः ।

पितॄंश् चैवाष्टकास्व् अर्चेन् नित्यम् अन्वष्टकासु च ॥ ४.१५० ॥

सावित्रान् इति । सवितृदेवताकान् अनिष्टनिवृत्त्यर्थांश् च होमान् पक्षसन्धिषु अमावास्यादिषु च “आज्यं हविर् अनादेयम्” इति सूत्रकारस्मरणात् आज्येन नित्यं कुर्यात् । तथा अष्टकाख्येन कर्मणा अष्टकापश्चाद्भाविनीषु च नवमीषु अन्वष्टकाख्येन कर्मणा प्रमीतान् पित्रादीन् तर्पयेत् ॥ ४.१५० ॥

दूराद् आवसथान् मूत्रं दूरात् पादावसेचनम् ।

उच्छिष्टान्ननिषेकं च दूराद् एव समाचरेत् ॥ ४.१५१ ॥

दूराद् इति । “क्षिप्रं गत्वा क्षेपमात्रं शरस्य” इति पुराणस्मरणद् एवंविधात् गृहस्य दूरात् मूत्रपुरीषपादधावनोदकोच्छिष्टपरिषेकोदकाद्य् उत्सृजेत् ॥ ४.१५१ ॥

मैत्रं प्रसाधनं स्नानं दन्तधावनम् अञ्जनम् ।

पूर्वाह्ण एव कुर्वीत देवतानां च पूजनम् ॥ ४.१५२ ॥

मैत्रम् इति । मैत्रं पायुर् इति पश्वङ्गसंस्तवे पायौ मित्रदेवताकथनश्रवणाद् इहाप्य् अभेदोपचारेण **मैत्रः **पायुः । तत्र भवः उत्सर्गे सति शौचं तथानुलेपनादिशरीरसंस्कारनित्यस्नानदन्तधावनाञ्जनदेवार्चनानि **पूर्वाह्ण एव कुर्वीत **॥ ४.१५२ ॥

दैवतान्य् अभिगच्छेत् तु धार्मिकांश् च द्विजोत्तमान् ।

ईश्वरं चैव रक्षार्थं गुरून् एव च पर्वसु ॥ ४.१५३ ॥

दैवतान्य् अभिगच्छेद् इति । **दैवतानि **सुवर्णमण्यादिकृतानि धर्मप्रधानांश् च ब्राह्मणान् पालनसमर्थं च राजादिकं **रक्षार्थं गुरूंश् **चापि पित्रादीन् अमावास्यादिषु पक्षसन्धिषु च द्रष्टुं गच्छेत् ॥ ४.१५३ ॥

अभिवादयेद् वृद्धांश् च दद्याच् चैवासनं स्वकम् ।

कृताञ्जलिर् उपादीत गच्छतः पृष्ठतो ऽन्वियात् ॥ ४.१५४ ॥

अभिवादयेद् इति । गृहागतान् (गता) ज्यायसो (ज्यायांसो) ऽभिवादयेत् तेषां चात्मीयम् आसनम् उपवेशनार्थं **दद्यात् । **बद्धाञ्जलिंश् च तत्समीपम् आसीत । **गच्छतश्च्ब् च पश्चाद् अनुव्रजेत् । **उक्तम् अपीदम् अभिवादनादि वक्ष्यमाणफलाभिधित्सया पुनर् उच्यते ॥ ४.१५४ ॥

श्रुतिस्मृत्युदितं सम्यङ् निबद्धं स्वेषु कर्मसु ।

धर्ममूलं निषेवेत सदाचारम् अतन्द्रितः ॥ ४.१५५ ॥

श्रुतिस्मृत्युदितम् इति । श्रुतिस्मृतिभ्यां सम्यग् उक्तं स्वेषु चाध्ययनयागादिष्व् अङ्गत्वेन सम्बद्धं धर्मस्य मूलभूतं साध्वाचारम् अनलसः सन् अभीक्ष्णम् अनुतिष्ठेत्

॥ ४.१५५ ॥

आचाराल् लभते ह्य् आयुर् आचाराद् ईप्सिताः प्रजाः ।

आचाराद् धनम् अक्षय्यम् आचारो हन्त्य् अलक्षणम् ॥ ४.१५६ ॥

यद् अर्थम् आचारस्य पुनर् वचनं तद् आह आचाराद् इति । आयुर्इष्टापत्य्आक्षयधनान्य् आचारात् तदनुष्ठानाल् **लभते । दुष्टलक्षणं च प्रियभार्याविनाशसंसूचकं तिलकाद्य्आचारो **निष्फलीकरोतीत्य् आचारफलकथनम् । न चानित्यताआपत्तिः, “सावित्रीमात्रसारो ऽपि” (२.११८) इत्यादिना नित्यत्वस्य समर्पितत्वात् ॥ ४.१५६ ॥

दुराचारो हि पुरुषो लोके भवति निन्दितः ।

दुःखभागी च सततं व्याधितो ऽल्पायुर् एव च ॥ ४.१५७ ॥

दुराचार इति । यस्माद् **दुराचारः पुरुषो लोके **च गर्हितः सर्वदा च दुःखितो **व्याधितो ऽल्पायुर् **भवति, तस्मात् स्वाचारेण भाव्यम् ॥ ४.१५७ ॥

सर्वलक्षणहीनो ऽपि यः सदाचारवान् नरः ।

श्रद्दधानो ऽनसूयश् च शतं वर्षाणि जीवति ॥ ४.१५८ ॥

सर्वलक्षणहीन इति । यः सम्यग् आचारवान् **श्रद्दधानो **ऽकुत्सकः स आजानुबाहुत्वादिसर्व-प्रशस्तलक्षणशून्यो ऽपि वर्षशतं **जीवति **। प्रथमे ऽध्याये शास्त्रस्तुत्यर्था आचारस्तुतिः । इह त्व् आचारफलसमर्पणार्थम् एतत् ॥ ४.१५८ ॥

यद् यत् परवशं कर्म तत् तद् यत्नेन वर्जयेत् ।

यद् यद् आत्मवशं तु स्यात् तत् तत् सेवेत यत्नतः ॥ ४.१५९ ॥

यद् यत् परवशम् इति । **यद् यत् **परायत्तम् अयाचितलाभादिना विशेषदानादि **कर्म तत् तद् **यत्नतो वर्जयेत् । यद् यत् पुनर् आत्माधीनं स्वधनलेशेनापि केनचित् स्वलाभपरोपकारादिना **तत् तत् **यत्नेन अभ्यसेत् ॥ ४.१५९ ॥

सर्वं परवशं दुःखं सर्वम् आत्मवशं सुखम् ।

एतद् विद्यात् समासेन लक्षणं सुखदुःखयोः ॥ ४.१६० ॥

यस्मात् सर्वम् इति । यत् परप्रार्थनादिसंसाध्यं तत् सर्वं दुःखहेतु । यच् चात्मैकसाधनं तत् सर्वं सुखनिमित्तम् इत्य् एतत् सङ्क्षेपतः **सुखदुःखलक्षणं **जानीयात् ॥ ४.१६० ॥

यत् कर्म कुर्वतो ऽस्य स्यात् परितोषो ऽन्तरात्मनः ।

तत् प्रयत्नेन कुर्वीत विपरीतं तु वर्जयेत् ॥ ४.१६१ ॥

अशिष्टाप्रतिषिद्धं वैकल्पिकं वा । यत् कर्मेति । यत् कर्म अनुतिष्ठतः पुंसो ऽन्तरामनः **परितोषो **भवति **तत् **यत्नतः कुर्वीत । आत्मतुष्टिकरं पुनर् **वर्जयेत् **॥ ४.१६१ ॥

आचार्यं च प्रवक्तारं पितरं मातरं गुरुम् ।

न हिंस्याद् ब्राह्मणान् गाश् च सर्वांश् चैव तपस्विनः ॥ ४.१६२ ॥

आचार्यं चेतिआचार्यम् अध्यापयितारं चोपनयनमात्रकारिणं लोकवत् पितरं मातरं गुरुम् “अल्पं वा बहु वा यस्य” (२.१४९) इत्य् उक्तम् गोब्राह्मणतपोनिष्ठांश् च आततायिनो ऽपि न हिंस्यात् । अन्यथा सामान्यहिंसानिषेधे सति इदं पृथग्वचनम् अनर्थकं स्यात् ॥ ४.१६२ ॥

नास्तिक्यं वेदनिन्दां च देवतानां च कुत्सनम् ।

द्वेषं स्तम्भं च मानं च क्रोधं तैक्ष्ण्यं च वर्जयेत् ॥ ४.१६३ ॥

नास्तिक्यम् इति । द्वेषं स्तम्भं च मानं च क्रोधं तैक्ष्ण्यं च वर्जयेत् । नास्त्य् अदृष्टम् इत्य् एव बुद्धित्वम्, वेददेवतागर्हणं मात्सर्यानम्रत्वादाव् अभिमानक्रोधक्रौर्याणि **वर्जयेत् **॥ ४.१६३ ॥

परस्य दण्डं नोद्यच्छेत् क्रुद्धो नैनं निपातयेत् ।

अन्यत्र पुत्राच् छिष्याद् वा। शिष्ट्यर्थं ताडयेत् तु तौ ॥ ४.१६४ ॥

**परस्येति । परस्य **दण्डादि नोद्गुर्येत् क्रुद्धश् च सन् आत्मनः पुत्रशिष्यभार्याकनीयान्सोदर्यभ्रातृदासान् वक्ष्यमानान् वर्जयित्वा न प्रहारेण । तान् पुनर् अनुशासनार्थं “रज्ज्वा वेणुदलेन वा” इत्यादिप्रकारेण ताडयेत् ॥ ४.१६४ ॥

ब्राह्मणायावगुर्यैव द्विजातिर् वधकाम्यया ।

शतं वर्षाणि तामिस्रे नरके परिवर्तते ॥ ४.१६५ ॥

**ब्राह्मणायेति । द्विजातिर् **अपि हननेच्छया ब्राह्मणस्य दण्डाद्युद्यम्यैव वर्षशतं तामिस्राख्ये नरके परिभ्राम्यति ॥ ४.१६५ ॥

ताडयित्वा तृणेनापि संरम्भान् मतिपूर्वकम् ।

एकविंशतिम् आजातीः पापयोनिषु जायते ॥ ४.१६६ ॥

ताडयित्वेति । क्रोधेन बुद्धिपूर्वं तृणेनापि प्रहृत्य एकविंशतिजन्मानि पापनिमित्तासु श्वादियोनिषु जायते । आजातीर् इत्य् आङ् पादपूरणः ॥ ४.१६६ ॥

अयुध्यमानस्योत्पाद्य ब्राह्मणस्यासृग् अङ्गतः ।

दुःखं सुमहद् आप्नोति प्रेत्याप्राज्ञतया नरः ॥ ४.१६७ ॥

अयुध्यमानस्येति । युद्धं विना ब्राह्मणशरीरतो मौर्ख्यात् रुधिरं नर उत्पाद्य परलोके महद् दुःखं प्राप्नोति ॥ ४.१६७ ॥

शोणितं यावतः पांशून् सङ्गृह्णाति महीतलात् ।

तावतो ऽब्दान् अमुत्रान्यैः शोणितोत्पादको ऽद्यते ॥ ४.१६८ ॥

शोणितम् इति । प्रहृतब्राह्मणोत्पन्नं रुधिरं क्षितिपृष्ठान् यत्सङ्ख्याकान् रजःकणान् पिण्डीकरोति तत्सङ्ख्याकानि वर्षाणि रुधिरस्योत्पादकः परलोके श्वादिभिः भक्ष्यते ॥ ४.१६८ ॥

न कदाचिद् द्विजे तस्माद् विद्वान् अवगूरेद् अपि ।

न ताडयेत् तृणेनापि न गात्रात् स्रावयेद् असृक् ॥ ४.१६९ ॥

न कदाचिद् इति । यत् एवं ब्राह्मणावगोरणादिना भवति तस्मात् शास्त्रविन् न कदाचिद् अपि ब्राह्मणस्य दण्डादि उद्यच्छेत् । नापि तं तृणेनापि हन्यात् । न च शरीराद् रुधिरम् उत्पादयेत् ॥ ४.१६९ ॥

अधार्मिको नरो यो हि यस्य चाप्य् अनृतं धनम् ।

हिंसारतश् च यो नित्यं नेहासौ सुखम् एधते ॥ ४.१७० ॥

अधार्मिक इति । यस्माद् **यो नरः **अधर्माचरणशीलो **यस्य **वा असत्यम् एव धनं तत् प्राधान्येन व्यवहाराख्यं सर्वदा हिंसानिरतः स इह लोके ऽपि न सुखं वर्धते । तस्माद् एतन् न कार्यम् ॥ ४.१७० ॥

न सीदन्न् अपि धर्मेण मनो ऽधर्मे निवेशयेत् ।

अधार्मिकाणां पापानाम् आशु पश्यन् विपर्ययम् ॥ ४.१७१ ॥

न सीदन्न् इति । यथा धर्मशब्दो यागादौ तज्जन्ये चात्मसंस्कारे दृष्टप्रयोगः, एवम् अधर्मशब्दो ऽपि हिंसादौ तज्जन्ये चात्मसंस्कारे दृष्टप्र्योगः, अतः अधार्मिकाणां पापानाम् इति एवं व्याख्यायते । हिंसाद्यधर्मचरणशीलानां तज्जन्यपापाख्यसंस्कारयुक्तानां इहलोके राजोपद्रवं क्षिप्रं पश्यन् परलोके च शास्त्रदृष्ट्या नरकं पश्यन् धर्मानुष्ठानेनात्मसंयमातिशये सति अवसादं गच्छन्न् अपि मनः अधर्मे न नियोजयेत् ॥ ४.१७१ ॥

नाधर्मश् चरतो लोके सद्यः फलति गौर् इवे ।

शनैर् आवर्त्यमानस् तु कर्तुर् मूलानि कृन्तति ॥ ४.१७२ ॥

नाधर्म इति । यथा गौः वाहनदोहनादिना सद्यो लोके फलति तथ्आधर्मश् चरितः सदो न फलति । किं तर्हि । **शनैः शनैः **कालान्तरेण फलदानोन्मुखी भवन् कर्तुर् मूलानीव **कृन्तति **। कृत्तमूलापादपवत् कर्तारं निअरन्वयं नाशयति ॥ ४.१७२ ॥

यदि नात्मनि पुत्रेषु न चेत् पुत्रेषु नप्तृषु ।

न त्व् एव तु कृतो धर्मः कर्तुर् भवति निष्फलः ॥ ४.१७३ ॥

**यदीति । यदि **स्वशरीरव्याध्युत्पादनद्वारेणाधर्मो न फलति तदा पुत्रपौत्ररोगाद्युद्भवमुखेन फलति । न त्व् असौ कृतः कदाचित् कर्तुर् निष्फलो भवति यैश् च दुष्कृतवशेन व्याध्याद्युपेतैर् भवितव्यं तथाविधाः तस्यात्मदुष्कृतबलात् तद्विपत्त्यादिदर्शनपीडानुभवार्थं पुत्रपौत्रा इह जन्मनि जन्मान्तरे वा जायन्ते ॥ ४.१७३ ॥

अधर्मेणैधते तावत् ततो भद्राणि पश्यति ।

ततः सपत्नान् जयति समूलस् तु विनश्यति ॥ ४.१७४ ॥

**अधर्मेनेति । अधर्मेण **परस्वहरणादिना सम्प्रति धनवृद्ध्यादियुक्तो भवति । तदनन्तरं तद्धनाद्युपभोगद्वारेण सुखान्य् अनुभवति, तदनुभावाच् च सुखित्वादिना शत्रून् अभिभवति, ततो ऽस्मिन्न् एव जन्मनि सर्वनाशं नश्यति मृतो वा अपुनर्भवं नरकम् उपैति ॥ ४.१७४ ॥

सत्यधर्मार्यवृत्तेषु शौचे चैवारमेत् सदा ।

शिष्यांश् च शिष्याद् धर्मेण वाग्बाहूदरसंयतः ॥ ४.१७५ ॥

यत एवम् अतः सत्यधर्मार्यवृत्तेष्व् इति । सत्यधर्मसाध्वाचारशौचेषु, सर्वदा रतिं भावयेत् । शासनीयांश् च भार्यादीन् “पृष्ठतस् तु शरीरस्य” इत्यादिशास्त्रमर्यादया वाग्बाहूदरसयमयुक्तो नियमयेद् इत्य् उक्तम् । पुनर्वचन अशिष्टानाम् अभिनिवेशदार्ढ्यार्थम् ॥ ४.१७५ ॥

परित्यजेद् अर्थकामौ यौ स्यातां धर्मवर्जितौ ।

धर्मं चाप्य् असुखोदर्कं लोकसङ्क्रुष्टम् एव च ॥ ४.१७६ ॥

परित्यजेद् इति । सत्य् अपि च त्रिवर्गस्य पुरुषार्थत्वाभिधाने पर्तित्यजेद् इति । **धर्मम् अप्य् असुखोदर्कं लोकसङ्क्रुष्टम् एव च **। धर्मविरुद्धाव् अर्थकामौ असुखोत्तरकालं चाशक्तस्य तीव्रतपश्चरणादिरूपं धर्मं लोकाभिशापजनकं च मधुपर्कगोवधादिरूपं नाचरेत् ॥ ४.१७६ ॥

न पाणिपादचपलो न नेत्रचपलो ऽनृजुः ।

न स्याद् वाक्चपलश् चैव न परद्रोहकर्मधीः ॥ ४.१७७ ॥

न पाणिपादचपल इति । हस्तपादचक्षुर्वाग्व्यापारान् निष्प्रयोजनान् न कुर्यात् अनृजुश् च क्रूरकृत् परोपघातकम् अयुक्तबुद्धिश् च न स्याद् इति । पुनर् वचनम् उक्तप्रयोजनम् ॥ ४.१७७ ॥

येनास्य पितरो याता येन याताः पितामहाः ।

तेन यायात् सतां मार्गं तेन गच्छन् न रिष्यते ॥ ४.१७८ ॥

द्विधावाक्यार्थप्रतिभाने वैकल्पिकपदार्थेषु वा य एव पितृपितामहादिभिः तस्यानुसृतो मार्गः यद् एव तैर् अनुष्ठितं तेनैव (तम् एव) साधुमार्गम् अनुसरेत् तद् एवाचरेत्, तद् आचरन् धर्मेण न हिंस्यते ॥ ४.१७८ ॥

ऋत्विक्पुरोहिताचार्यैर् मातुलातिथिसंश्रितैः ।

बालवृद्धातुरैर् वैद्यैर् ज्ञातिसम्बन्धिबान्धवैः ॥ ४.१७९ ॥

मातापितृभ्यां जामीभिर् भ्रात्रा पुत्रेण भार्यया ।

दुहित्रा दासवर्गेण विवादं न समाचरेत् ॥ ४.१८० ॥

ऋत्विग् इति । मातापितृभ्याम् इति । ऋत्विगादिभिः सह वाक्कलहं न कुर्यात् । पुरोहितः शान्त्यादिकर्ता । **संश्रिता उपजीविनः । आतुरो **रोगी । **ज्ञातयः **पितृपक्षसम्बन्धिनः वैवाह्याः बान्धवाः मातृपक्षा जामिभगिनीस्नुषाद्याः । **दासवर्गो **दासगणः ॥ ४.१७९–१८० ॥

एतैर् विवादान् सन्त्यज्य सर्वपापैः प्रमुच्यते ।

एतैर् जितश् च जयति सर्वांल् लोकान् इमान् गृही ॥ ४.१८१ ॥

**एतैर् **इति । एभिः सह विवादान् परित्यज्यासौ अतिकृतप्रतनुभिः (?) **सर्वपापैः प्रमुच्यते **। तथैतैर् विवादैः न्यक्कृतैः **इमान् वक्ष्यमानान् सर्वान् लोकान् **गृहस्थः स्वीकरोति ॥ ४.१८१ ॥

आचार्यो ब्रह्मलोकेशः प्राजापत्ये पिता प्रभुः ।

अतिथिस् त्व् इन्द्रलोकेशो देवलोकस्य चर्त्विजः ॥ ४.१८२ ॥

आचार्य इति । यत आचार्यादयो दृष्ट्या शक्त्या ब्रह्मप्रजापतीन्द्रदेवलोकानां प्रभवः अतः परिहृततद्विवादस्य गृहस्थस्यैतान् लोकान् वदन्ति । तद्विवादपरित्यागेन ब्रह्मलोकादि प्राप्यत इत्य् एतद् अनया भङ्ग्या उक्तम् एव (एवं) उत्तरत्रापि विज्ञेयम् ॥ ४.१८२ ॥

जामयो ऽप्सरसां लोके वैश्वदेवस्य बान्धवाः ।

सम्बन्धिनो ह्य् अपां लोके पृथिव्या मातृमातुलौ ॥ ४.१८३ ॥

जामय इति । **जामयो ऽप्सरसां लोके **प्रभवन्ति **बान्धवा वैश्वदेवलोके, मातृमाउलौ **भूलोके ॥ ४.१८३ ॥

आकाशेशास् तु विज्ञेया बालवृद्धकृशातुराः ।

भ्राता ज्येष्ठः समः पित्रा भार्या पुत्रः स्वका तनुः ॥ ४.१८४ ॥

**आकाशेशा इति । बालवृद्धसंश्रित्आतुराः **अन्तरिक्षलोके प्रभवन्ति । **ज्येष्ठो भ्राता **पितृतुल्यः । अतो ऽसाव् अपि प्रजापतिलोके प्रभुः । **भार्यापुत्रौ **“अर्धो ह वा एष आत्मनः यज् जाया आत्मा वैपुत्रनामासि” (कौशुप् २.५१) इति श्रुतेः स्वम् एव शरीरम् अतः आत्मना सह कथं विवदेत् ॥ ४.१८४ ॥

छाया स्वो दासवर्गश् च दुहिता कृपणं परम् ।

तस्माद् एतैर् अधिक्षिप्तः सहेतासञ्ज्वरः सदा ॥ ४.१८५ ॥

**छायेति । स्वो दासवर्गः **नीचैर् गामित्वात् आत्मछायेव । अतो नासौ विवादास्पदम्, दुहिताकृपणं कृपापात्रम् अत **एतैर् **आक्रुष्टो ऽसम्तप्तः सर्वदा क्षमेत् ॥ ४.१८५ ॥

प्रतिग्रहसमर्थो ऽपि प्रसङ्गं तत्र वर्जयेत् ।

प्रतिग्रहेण ह्य् अस्याशु ब्राह्मं तेजः प्रशाम्यति ॥ ४.१८६ ॥

प्रतिग्रहसमर्थम् इति । श्रुताध्ययनादिना **प्रतिग्रहेण समर्थो ऽपि **तत्र पुनःप्रवृत्तिं वर्जयेत् । यस्मात् प्रतिग्रहेणास्याध्ययनादिनिमित्तप्रभावः क्षिप्रम् एव प्रलीयते “यात्रामात्रप्रसिद्ध्यर्थम्” इत्यादिनोक्तम् अप्य् एतत् **तेजः **प्रशमफलकथनार्थं पुनर् उच्यते ॥ ४.१८६ ॥

न द्रव्याणाम् अविज्ञाय विधिं धर्म्यं प्रतिग्रहे ।

प्राज्ञः प्रतिग्रहं कुर्याद् अवसीदन्न् अपि क्षुधा ॥ ४.१८७ ॥

न द्रव्याणाम् इति । प्रतिग्रहमन्त्रद्रव्यदेवतादिकं धर्माद् अनपेतं प्रतिग्रहविधानम् अबुद्ध्वा । क्षुधावसादं गच्छन्न् अपि न **प्राज्ञः प्रतिग्रहं कुर्यात् **किं पुनर् अनापदि

॥ ४.१८७ ॥

हिरण्यं भूमिम् अश्वं वासस् तिलान् घृतम् ।

प्रतिगृह्णन्न् अविद्वांस् तु भस्मीभवति दारुवत् ॥ ४.१८८ ॥

हिरण्यम् इति । श्रुताध्ययनशून्यः सुवर्णादीन् **प्रतिगृह्णन् **अग्निसंयोगेन **दारुवत् भस्मीभवति **॥ ४.१८८ ॥

हिरण्यम् आयुर् अन्नं च भूर् गौश् चाप्य् ओषतस् तनुम् ।

अश्वश् चक्षुस् त्वचं वासो घृतं तेजस् तिलाः प्रजाः ॥ ४.१८९ ॥

तथा चाह हिरण्यम् आयुर् अन्नं च भूर् गौश् चाप्य् ओषतस् तनुम् इति । हिरण्यान्ने प्रतिगृहीते अविदुषश् चायुर् दहतः गोभूमी च शरीरम् । अश्ववस्त्रघृततिलाः यथाक्रमं चक्षुश्चर्मतेजोऽपत्यानि दहन्ति । न केवलम् अविद्वान् प्रतिग्रहेण सर्वदा तं दह्यते यावत्

॥ ४.१८९ ॥

अतपास् त्व् अनधीयानः प्रतिग्रहरुचिर् द्विजः ।

अम्भस्य् अश्मप्लवेनेव सह तेनैव मज्जति ॥ ४.१९० ॥

अतपास् त्व् अनधीयान इति । यस् तपःस्वाध्यायशून्यः प्रतिग्रहे ऽभिलाषुको भवति तदात्रैवानर्हप्रतिग्रहदानपापयुक्तेन सह पाषाणमयेन नावादिन तरन् उदक इव नरके ऽन्तर्धीयते । दाता ह्य् अत्र प्रतिग्रहसम्बन्धाद् अज्ञौ दातृप्रतीच्छकाव् इति वक्ष्यमाणदर्शनात् तेनेति परामृश्यते ॥ ४.१९० ॥

तस्माद् अविद्वान् बिभियाद् यस्मात् तस्मात् प्रतिग्रहात् ।

स्वल्पकेनाप्य् अविद्वान् हि पङ्के गौर् इव सीदति ॥ ४.१९१ ॥

तस्माद् इति । यस्माद् असारद्रव्यप्र्तिग्रहे ऽपि अज्ञः कर्दमे **गौर् इव **नरके मज्जति, **तस्माद् अविद्वान् **यतः कुतश्चित् हिरण्यादिव्यतिरिक्तप्रतिग्रहाद् अपि त्रस्येत् ॥ ४.१९१ ॥

न वार्य् अपि प्रयच्छेत् तु बैडालव्रतिके द्विजे ।

न बकव्रतिके पापे नावेदविदि धर्मवित् ॥ ४.१९२ ॥

न नारीति । उदकं किल सर्वदेयं तद् अपि बैडालव्रतिकादिभ्यो धर्मज्ञो न दद्यात् इति अतिशयोक्त्या द्रव्यान्तरदानं निषिध्यते, न तु दारिदानम्, पाखण्ड्यादि लोकविद्धो ऽपि बैडालव्रतिके दाननिषेधः तल्लक्षणविवक्षयेह पुनर् उच्यते । अविद्वद्दाननिषेधः पुनः विद्वत्सम्भवे सति अविद्वद्दानप्रतिषेधार्थः । एवं च “श्रोत्रियायैव देयानि” इत्य् एतत् विद्वच्छ्रोत्रियासम्भवे सति द्रष्टव्यम् ॥ ४.१९२ ॥

त्रिष्व् अप्य् एतेषु दत्तं हि विधिनाप्य् अर्जितं धनम् ।

दातुर् भवत्य् अनर्थाय परत्रादातुर् एव च ॥ ४.१९३ ॥

त्रिष्व् इति । न्याय्पार्जितं **धनं **बैडालव्रतिकादिषु **त्रिष्व् अपि दत्तं **दातृप्रतिग्रहीत्रोः परलोके नरकपातहेतुत्वात् **अनर्थाय **सम्पद्यते ॥ ४.१९३ ॥

यथा प्लवेनौपलेन निमज्जत्य् उदके तरन् ।

तथा निमज्जतो ऽधस्ताद् अज्ञौ दातृप्रतीच्छकौ ॥ ४.१९४ ॥

यथेतितथा निमज्जतो विप्राव् अग्ञौ दातृप्रतीच्छकौ । यथाश्ममयेन नावादिन तरन् तेनैव सह (नरके) उदके ऽन्तर्धीयते एवं दातृप्रतिग्रहीतारौ प्रतिग्रहशास्त्रानभिज्ञौ अनर्हदानप्रतिग्रहकर्तारौ नरकं यातः । दाता किल प्रतिग्रहीतृपोतावतरणमार्गेण संसारार्णवपारम् उत्तितीर्षुः यदि बालिशतया उपप्लवप्रख्यप्रतिग्रहीतृसमवलम्बनम् उररीकरोति तदा प्रत्युत तेनैव समम् अगाधोदध्यन्तर्धानवेदनासन्निहितम् अधिकतराम् अर्थान्तरतयानर्थान्तरम् अधिकम् अपि मज्जत इत्य् उपमार्थः । “अतपास् त्व् अनधीयानः” इति प्रतिग्रहीतृप्राधान्येनोक्तम्, इदं तु दातृप्राधान्येनेति अपौनरुक्त्यं (अप्रसिद्धात्) प्रतिषिद्धाद् यत्नतः परिहारार्थम् ॥ ४.१९४ ॥

धर्मध्वजी सदालुब्धश् छाद्मिको लोकदम्भकः ।

बैडालव्रतिको ज्ञेयो हिंस्रः सर्वाभिसन्धकः ॥ ४.१९५ ॥

बैडालव्रतिकादिलक्षणम् आह धर्मध्वजीति । धर्मः चिह्नम् इति लोकख्यापनार्थं प्रकाशदेशावरणात् यस्य स धर्मध्वजीलुब्धः कृपणः छाद्मिकः गूढपापो **लोकदम्भको **वञ्चकः **हिंस्रः **हिंसाशीलः सर्वाभिसन्धकः परगुणासहनतया सर्वाक्षेपकः स बिडालव्रतेन चरतीति **बैडालव्रतिको **ब्राह्मणो ज्ञेयः ॥ ४.१९५ ॥

अधोदृष्टिर् नैष्कृतिकः सर्वार्थसाधनतत्परः ।

शठो मिथ्याविनीतश् च बकव्रतचरो द्विजः ॥ ४.१९६ ॥

अधोदृष्टिर् नैष्कृतिक इति । अधोदृष्टिर् विनीतत्वख्यापनार्थम् । अध एव निरीक्षते । **नैष्कृतिकः नैष्ठुर्यव्यवहारी स्वार्थसाधनतत्परः स्वार्थसाधननिष्ठः शठः परान्नस्योपेक्षकः मिथ्याविनीतः **कपटे प्रश्रयवान् यः स बकवृत्तेन चरति इति बकव्रतधरो ब्राह्मणः ॥ ४.१९६ ॥

ये बकव्रतिनो विप्रा ये च मार्जारलिङ्गिनः ।

ते पतन्त्य् अन्धतामिस्रे तेन पापेन कर्मणा ॥ ४.१९७ ॥

इति । **ये **ब्राह्मणाः बकव्रतबिडालचिह्नयुक्ताः **तेन **पापहेतुना कर्मणा अन्धतामिस्राख्ये नरके **पतन्ति **॥ ४.१९७ ॥

न धर्मस्यापदेशेन पापं कृत्वा व्रतं चरेत् ।

व्रतेन पापं प्रच्छाद्य कुर्वन् स्त्रीशूद्रदम्भनम् ॥ ४.१९८ ॥

न धर्मस्येति । **पापं कृत्वा **धर्मार्थव्रतख्यापनव्याजेन धार्मिको ऽयम् इति शूद्रादिमूर्खलोकमोहनं कुर्वन् तेन धर्मव्रतव्याजेन पापम् अवच्छाद्य प्रायश्चित्तं न कुर्यात् ॥ ४.१९८ ॥

प्रेत्येह चेदृशा विप्रा गर्ह्यन्ते ब्रह्मवादिभिः ।

छद्मना चरितं यच् च व्रतं रक्षांसि गच्छति ॥ ४.१९९ ॥

प्रेत्येति । एवंविधा ब्राह्मणा जीवन्तः मृताश् च आत्मस्वरूपनिरूपणपरैः निन्द्यन्ते । तच् च व्याजचरितं व्रतं रक्षांसि गच्छति ॥ ४.१९९ ॥

अलिङ्गी लिङ्गवेषेण यो वृत्तिम् उपजीवति ।

स लिङ्गिनां हरत्य् एनस् तिर्यग्योनौ च जायते ॥ ४.२०० ॥

अलिङ्गीति । अब्रह्मचारी ब्रह्मचार्यादिवेषेण यस् तद्वृत्त्या जीवति स ब्रह्मचार्यादीनां यत् पापं तद् आत्मन्य् आहरति । श्वादियोनौ च **जायते **। तस्माद् एतन् न कर्तव्यम् ॥ ४.२०० ॥

परकीयनिपानेषु न स्नायाच् च कदाचन ।

निपानकर्तुः स्नात्वा तु दुष्कृतांशेन लिप्यते ॥ ४.२०१ ॥

परकीयनिपानेष्व् इति । परकीयपुष्करिण्यादिषु कदाचिद् अपि स्नायात् । तत्र स्नात्वा तत् पुष्करिण्यादिषु यत् पापं कतुः तच्चतुर्थांशेन वक्ष्यमाणेन सम्बध्यते । धार्मिकाणाम् अपि सञ्चितकृतं जन्मान्तरकृतं दुष्कृतं भवत्य् एव । अतो न धार्मिकनिपानस्नानेन पापाभावप्रसङ्गः ॥ ४.२०१ ॥

यानशय्यासनान्य् अस्य कूपोद्यानगृहाणि च ।

अदत्तान्य् उपयुञ्जान एनसः स्यात् तुरीयभाक् ॥ ४.२०२ ॥

**यानशय्यासनानीति **। **यानशय्यासनानि **रथखट्वामञ्चकादीनि कूपारामगृहाणि च परस्य सम्बन्धीनि **अदत्तान्य् उपयुञ्जानः **तत्पापस्य चुतुर्भागं प्राप्नोति । अत्र च परकीयग्रहणात् अदत्तग्रहणाच् च सर्वार्थोत्सृष्टानुज्ञातस्नाने नास्ति दोषः ॥ ४.२०२ ॥

नदीषु देवखातेषु तडागेषु सरःसु च ।

स्नानं समाचरेन् नित्यं गर्तप्रस्रवणेषु च ॥ ४.२०३ ॥

नदीष्व् इति । **नदीष्व् **अकृतकेषु **तडागेषु सरःसु च **महत्सु उदकाधारेषु छिद्रस्रोतःसु च सर्वदा स्नानं समाचरेत् अनेनैव परकीयनिपानव्यावृत्तिसिद्धौ च पृथग्वचनं तदात्मीयोत्सृष्टानुज्ञातेषु स्नानाभ्यनुज्ञानार्थम्, तत्रापीह नित्यग्रहणात् प्रथमं नद्यादिस्नाने यतितव्यम् । तदभावे आत्मीयादिषु ॥ ४.२०३ ॥

यमान् सेवेत सततं न नित्यं नियमान् बुधः ।

यमान् पतत्य् अकुर्वाणो नियमान् केवलान् भजन् ॥ ४.२०४ ॥

यमान् इति । हिंसादयो वर्जनीया यमाः सन्ध्यानुष्ठानादयः कर्तव्यात्मका नियमाः तत्र गुरुलाघवज्ञः नियमकोपेनापि सर्वदा यमान् अनुतिष्ठेत् । य यमत्यागेन नियमान् यस्मात् **केवनान् **कर्तव्यरूपान् अनुतिष्ठेत् वर्जनीयान् ब्रह्महत्यादीन् अवर्जयन् **पतति **। नियमानुष्ठाने ऽप्य् अनधिकृतो भवति । यथोक्तं गौतमेन “द्विजातिकर्मभ्यो हानिः पतनम्” इति । एतच् च यमगौरवख्यापनार्थम् उच्यते, न नियमनिषेधार्थम्, तेषां शास्त्रेण कर्तव्यतया चोदितत्वात् ॥ ४.२०४ ॥

नाश्रोत्रियतते यज्ञे ग्रामयाजिकृते तथा ।

स्त्रिया क्लीबेन च हुते भुञ्जीत ब्राह्मणः क्वचित् ॥ ४.२०५ ॥

नाश्रोत्रियतत इति । अनधीतवेदेन प्रारब्धे यज्ञे अग्नीषोमीयाद् ऊर्ध्वम् अपि **ब्राह्मणो न भुञ्जीत **। अर्थात् (पुनः) [पूर्वम्] अग्नीषोमीयात् “दीक्षितस्य कदर्यस्य” [४.२१०] इत्य् अनेनैव प्रतिषेधसिद्धेः । सूत्रकारेण अग्नीषोमीयावधिकं दीक्षितस्याभोज्यान्नत्वम् उक्तम् । अतो “दीक्षितस्य कदर्यस्य” इत्य् अयं प्रतिषेधस् तदवधिक एव । सदा बहूनां याजकेन ऋत्विजा **स्त्रिया **वा नपुंसकेन वा यत्र गृहे वैश्वदेवादिहोमः कृतः तत्र कदाचिद् अपि ब्राःमणो भुञ्जीत ॥ ४.२०५ ॥

अश्लीलम् एतत् साधूनां तत्र जुह्वत्य् अमी हविः ।

प्रतीपम् एतद् देवानां तस्मात् तत् परिवर्जयेत् ॥ ४.२०६ ॥

अश्लीलम् इति । यत्र पूर्वोक्ता होमं कुर्वन्ति तत् शिष्टानां तदश्लीकम् अयुक्तं देवानां च प्रतिकूलम् । तस्माद् एतान् होमं न कारयेत् ॥ ४.२०६ ॥

मत्तक्रुधातुराणां च न भुञ्जीत कदाचन ।

केशकीटावपन्नं च पदा स्पृष्टं च कामतः ॥ ४.२०७ ॥

मत्तक्रुद्धातुराणाम् इति । क्लीबक्रुद्धव्याधितान्नं केशादिसकलद्वादशकृमिसंसर्गदुष्टं पादेन चेच्छातः स्पृषाअं न भुञ्जीत ॥ ४.२०७ ॥

भ्रूणघ्नावेक्षितं चैव संस्पृष्टं चाप्य् उदक्यया ।

पतत्रिणावलीढं च शुना संस्पृष्टम् एव च ॥ ४.२०८ ॥

**भ्रूणघ्नावेक्षितम् **इति । ब्रह्महादिपतितावेक्षितं रजस्वलाद्यस्पृश्यस्पृष्टं पक्षिणा काकादिना आस्वादितं **शुना स्पृष्टं **न भुञ्जीत ॥ ४.२०८ ॥

गवा चान्नम् उपाघ्रातं घुष्टान्नं च विशेषतः ।

गणान्नं गणिकान्नं च विदुषा च जुगुप्सितम् ॥ ४.२०९ ॥

**गवेति **। **गवाघ्रातं **“को भुङ्क्ते” इति यदाघुष्य दीयते मठब्राह्मणादिसङ्घान्नं च तथा वेश्यान्नं शास्त्रविदा चैतत् कुत्सितम् इति यद् उक्तं तन् नाश्नीयात् विशेषत इति प्रायश्चित्तविशेषार्थम् ॥ ४.२०९ ॥

स्तेनगायनयोश् चान्नं तक्ष्नो वार्धुषिकस्य च ।

दीक्षितस्य कदर्यस्य बद्धस्य निगडस्य च ॥ ४.२१० ॥

**स्तेनगायनयोर् **इति । चोरगेयजीवितक्षकवृद्ध्युपजीव्यन्नं न भुञ्जीत । यज्ञार्थे **दीक्षितस्य **प्राग् अग्नीषोमीयात् **बद्धस्य, **बन्दनेन विनाप्य् अयोनिगडैर् निगडितस्य दत्तायोनिगडस्य अबन्धने ऽपि च ॥ ४.२१० ॥

अभिशस्तस्य षण्ढस्य पुंश्चल्या दाम्भिकस्य च ।

शुक्तं पर्युषितं चैव शूद्रस्योच्छिष्टम् एव च ॥ ४.२११ ॥

**अभिशस्तस्येति **। महापातकित्वेन उत्पन्नाभिशापस्य, अनिश्चितपापस्यापि नपुंसकस्य पुंश्चल्या व्यभिचारिण्याः अगणिकाया अपि, **दाम्भिकस्य व्याजधर्मचारिणः **अन्नं न भुञ्जीत । तथा **शुक्तं **यत् प्रातः स्वरसं कालान्तरेण उदकादिसंसर्गकालान्तराभ्यां चाम्लीभवति, पर्युषितं च रात्र्यन्तरितं शूद्रस्य चोच्छिष्टं नाश्नीयात् । शुक्तपर्युषितयोः अभक्षणं पञ्चमे वक्ष्यति । इह तु स्नातकव्रतत्वार्थम् अभिधानम् ॥ ४.२११ ॥

चिकित्सकस्य मृगयोः क्रूरस्योच्छिष्टभोजिनः ।

उग्रान्नं सूतिकान्नं च पर्याचान्तम् अनिर्दशम् ॥ ४.२१२ ॥

**चिकित्सकस्येति । **वैद्यस्य चिकित्साजीविनः । तथा लुभकानार्जवप्रकृत्युच्छिष्टादीनाम् उग्रस्य क्षत्रियेण शूद्रायाम् उत्पन्नस्य सूतिकोद्देशेन अनाशौचिभिर् अपि यत् कृतं कृतान्तराचमनं च तथा अनिर्गतदशाहिकं सूतिकान्नं प्रेतान्नस्य वक्ष्यमाणत्वात् न भुञ्जीत । अन्ये तु उग्रं राजानम् आहुः । तद् असत्, याज्ञवल्क्येनोभयपाठात् ॥ ४.२१२ ॥

अनर्चितं वृथामांसम् अवीरायाश् च योषितः ।

द्विषदन्नं नगर्यन्नं पतितान्नम् अवक्षुतम् ॥ ४.२१३ ॥

अनर्चितम् इति । अर्चार्हस्य यद् अकृतारं दीयते अकृतदेवताद्यर्चनं यन् मासम् अतिथ्यादेर् दीयते कल्पयितुं “देवान् पितॄंश् चार्चयित्वा” इत्य् एवमादेर् वक्ष्यमाणत्वात् न भूज्ञीत ॥ ४.२१३ ॥

पिशुनानृतिनोश् चान्नं क्रतुविक्रयकस्य च ।

शैलूषतुन्नवायान्नं कृतघ्नस्यान्नम् एव च ॥ ४.२१४ ॥

पिशुनानृतिनोश् चेति । भषकासत्यवादिक्रतुपुण्यविक्रयिनटसौचिकानां उपकृतापकारिणाम् अन्नं नाश्नीयात् ॥ ४.२१४ ॥

कर्मारस्य निषादस्य रङ्गावतरकस्य च ।

सुवर्णकर्तुर् वेणस्य शस्त्रविक्रयिणस् तथा ॥ ४.२१५ ॥

कर्मारस्येति । **कर्मारस्य **निषादवेणयोश् च दशमाध्यायवक्ष्यमाणयोः नटगायनव्यतिरिक्तस्यापि च **रङ्गावतरणजीविनः **सुवर्णकारशस्त्रविक्रयिणोश् चान्नं नाश्नीयात् ॥ ४.२१५ ॥

श्ववतां शौण्डिकानां च चैलनिर्णेजकस्य च ।

रजकस्य नृशंसस्य यस्य चोपपतिर् गृहे ॥ ४.२१६ ॥

श्वक्रीडिमद्यविक्रयिवस्त्रधावनपटरागकृन्निष्ठुराणां जायाजारश् च यस्याविज्ञातो गृहे ऽस्ति तेषाम् अन्नं न भक्षयेत् ॥ ४.२१६ ॥

मृष्यन्ति ये चोपपतिं स्त्रीजितानां च सर्वशः ।

अनिर्दशं च प्रेतान्नम् अतुष्टिकरम् एव च ॥ ४.२१७ ॥

मृष्यन्तीति । भार्याजारं ये सहन्ते तदन्नम् अभोज्यम् एवं (च) गृहाद् गतायां जारिण्याम् उपेक्षितायाम् अपि प्रतिषेधः । सर्वकर्मसु स्त्र्यायत्तानां अनिर्गताशौचं च मृतकान्नम् अप्रीतिकरं च न भूज्ञीत ॥ ४.२१७ ॥

राजान्नं तेज आदत्ते शूद्रान्नं ब्रह्मवर्चसम् ।

आयुः सुवर्णकारान्नं यशश् चर्मावकर्तिनः ॥ ४.२१८ ॥

राजान्नम् इति । **राजान्नं तेजो **नाशयति अत एव च राजान्नप्रतिषेधो बोद्धव्यः । “नाद्याच् छूद्रस्य पक्वान्नम्” (४.२२३) अधिकुलमित्रं वेति शूद्रान्नप्रतिषेधं वक्ष्यति, अतस् तदन्नं अध्ययनादिनिमित्तं तेजो ऽपहन्ति सुवर्णकारचर्मछेद्यन्ने आयुःख्याती हरत इति व्यतिक्रमफलकथनम् ॥ ४.२१८ ॥

कारुकान्नं प्रजां हन्ति बलं निर्णेजकस्य् अच ।

गणान्नं गणिकान्नं च लोकेभ्यः परिकृन्तति ॥ ४.२१९ ॥

कारुकान्नम् इति । सूपकाराद्यन्नम् अपत्यानि हन्ति । अस्याप्य् अत एव निषेधः । चर्मकारादीनां चान्नं गोबलीवर्दन्यायेन निर्देशो द्रष्टव्यः । एवम् इह शास्त्रे सर्वत्र विज्ञेयम् । निर्णेजकान्नं च कर्मान्तरार्जितेभ्यः स्वर्गादिलोकेभ्यः आच्छिनत्ति ॥ ४.२१९ ॥

पूयं चिकित्सकस्यान्नं पुंश्चल्यास् त्व् अन्नम् इन्द्रियम् ।

विष्ठा वार्धुषिकस्यान्नं शस्त्रविक्रयिणो मलम् ॥ ४.२२० ॥

पूयम् इति । चिकित्सकान्नादनेन तथाविधायां जाताव् उत्पद्यते यत्र पूयभुक् भवति । एवं पुंश्चल्यन्नं शुक्रं वार्धुषिकान्नं पुरीषं **शस्त्रविक्रयिणः **शुक्रविष्ठादिव्यतिरिक्तं मूत्रादिमलम् ॥ ४.२२० ॥

य एते ऽन्ये त्व् अभोज्यान्नाः क्रमशः परिकीर्तिताः ।

तेषां त्वगस्थिरोमाणि वदन्त्य् अन्नं मनीषिणः ॥ ४.२२१ ॥

इति । साक्षादुक्तफलेभ्यो **ये अन्ये **क्रमेण **भोज्यान्नाः **कथिताः तत्सम्बन्ध्यन्नं चर्मास्थिरोमाणि प्रशस्तबुद्धयो वदन्ति ॥ ४.२२१ ॥

भुक्त्वातो ऽन्यतमस्यान्नम् अमत्या क्षपणं त्र्यहम् ।

मत्या भुक्त्वाचरेत् कृच्छ्रं रेतोविण्मूत्रम् एव च ॥ ४.२२२ ॥

भुक्त्वेति । एषां मध्याद् अन्यतमसम्बन्ध्यन्नम् अज्ञानात् भुक्त्वा त्र्यहम् अभोजनं कुर्यात् । इच्छातस् तु भुक्त्वा चरेत् प्राजापत्यं **कृच्छ्रम् । रेतोविण्मूत्रं चामत्या भुक्त्वा **गौतमसमरणात् तप्तकृच्छ्रम् आचरेत् । तथा चाह – “सुराया अमत्या पाने पयो घृतम् उदकं वायुं प्रतित्र्यहं तप्तानि स तप्तकृच्छ्रः, ततो ऽस्य संस्कारः । मूत्रपुरीषरेतसां प्राशने चैवम्” इति । अत्र चान्यतमस्येति यद्य् अपि श्रुतं तथापि,

स्वभावकालसंसर्गनिमित्तपरिणामतः ।

भावाश्रयप्रदुष्टं च नित्यम् अन्नं विवर्जयेत् ॥

इति सप्तविधस्यात्रपठितस्यापि दुष्टस्येदम् एव प्रायश्चित्तम् एकप्रकरणोपदेशात् । अस्मिंश् च प्रकरणे एषां प्रायश्चित्तान्तरानाम्नानात् । शुक्तपर्युषितयोश् च पञ्चमाध्यायवक्ष्यमाणनिषेधयोर् अपि इह प्रायश्चित्तविशेषार्थम् एवोपादानम् इत्य् आहुः । तद् असत्, “एवम् अभिप्रेतम् उक्त्वा” अतो ऽन्यतमदुष्टम् इत्य् एवम् अवक्ष्यत् । अपौरुषेयेषु हि ग्रन्थेषु लिङ्गमात्रम् अपि व्यवस्थाहेतुर् भवति । तावतैव वक्त्राशयानुमानात् । एकप्रकरणोपदेशश् च स्नातकव्रतत्वख्यापनार्थः । इह प्रायश्चित्तान् आम्नाने ऽपि च एषाम् एकादशाध्यायोक्तानि प्रायश्चित्तानि भविष्यन्ति । शुक्तपर्युषितयोश् चेह स्नातकव्रतत्वार्थम् एवाभिधानम् । तस्माद् यथाश्रुतम् एव त्याज्यम्, तत्र स्वभावदुष्टं मूत्रादि, कालदुष्टं पर्युषितादि, संसर्गदुष्टं दुष्टान्नादि, परिणामदुष्टं शुक्तादि, भावदुष्टं सद्यःपीडितद्राक्षारसादि, आश्रयदुष्टं मत्तादिसम्बन्धि । अप्रकरणे च प्रायश्चित्तोपदेशो लाघवाद्यर्थम्, तत्र हिस् किर्यमाणे मन्त्रादिग्रहणं कर्तव्यं स्यात् ॥ ४.२२२ ॥

नाद्याच् छूद्रस्य पक्वान्नं विद्वान् अश्राद्धिनो द्विजः ।

आददीतामम् एवास्माद् अवृत्ताव् एकरात्रिकम् ॥ ४.२२३ ॥

नाद्याद् इति । श्राद्धादिक्रियाशून्यस्य सच्छूद्रस्य शास्त्रवित् द्विजः **पक्वान्नं **न भुञ्जीत । अपि त्व् अन्नान्तराभावे **आमम् **एव न पक्वम् एकाहोरात्रपर्याप्तं नाधिकम् अस्मात् प्रतिगृह्णीयात्

॥ ४.२२३ ॥

श्रोतियस्य कदर्यस्य वदान्यस्य च वाधुषेः ।

मीमांसित्वोभयं देवाः समम् अन्नम् अकल्पयन् ॥ ४.२२४ ॥

**श्रोत्रियस्येति **। एको ऽधीतवेदः कृपणः पर उदारो वृद्धिजीवी वा तयोर् गुणम् उभयं विचार्य देवास् तुल्यम् अन्नम् अनयोर् इति कल्पितवन्तः, उभयोर् अपि गुणयोगात् ॥ ४.२२४ ॥

तान् प्रजापतिर् आहैत्य मा कृढ्वं विषमं समम् ।

श्रद्दापूतं वदान्यस्य हतम् अश्रद्दयेतरत् ॥ ४.२२५ ॥

तान् इति । तान् देवान् ब्रह्मा आगत्य विषमं यत् तत् मा समम् इति व्याचष्ट । यस्माद् वदान्यान्नं श्रद्धया पविर्तीकृतं भवति । कदर्यान्नं पुनः अश्रद्धया दूषितम् इत्य् उभयप्रतिषेधे ऽपि श्रद्धावद् वार्धुषिकान्नप्रतिप्रसवार्थम् इदम् ॥ ४.२२५ ॥

श्रद्धयेष्टं च पूतं च नित्यं कुर्याद् अतन्द्रितः ।

श्रद्धाकृते ह्य् अक्षये ते भवतः स्वागतैर् धनैः ॥ ४.२२६ ॥

यत एवम् अतः श्रद्दयेति ॥ ४.२२६ ॥

दानधर्मं निषेवेत नित्यम् ऐष्टिकपौर्तिकम् ।

परितुष्टेन भावेन पात्रम् आसाद्य शक्तितः ॥ ४.२२७ ॥

दानधर्मम् इति । आन्तर्वेदिको बहिर्वेदिकश् च यो दानाख्यो धर्मः तं श्रुताध्ययनादिसर्वगुणोपेतं ब्राह्मणं प्राप्य परितोषाख्येन चित्तधर्मेण यथाशक्ति नित्यं कुर्यात् ॥ ४.२२७ ॥

यत् किञ्चिद् अपि दातव्यं याचितेनानसूयता ।

उत्पत्स्यते हि तत् पात्रं यत् तारयति सर्वतः ॥ ४.२२८ ॥

यत् किञ्चिद् इति । प्रार्थितेन अकृतदोषविचारेण स्वल्पम् अपि यथासम्भवं दातव्यम् । यस्माद् अनवरतं दानप्रवृत्तस्य कदाचिद् अवश्यं तथाविधं पात्रम् आगमिष्यति यत् दृष्टादृष्टदोषेभ्यो मोचयति ॥ ४.२२८ ॥

वारिदस् तृप्तिम् आप्नोति सुखम् अक्षयम् अन्नदः ।

तिलप्रदः प्रजाम् इष्टां दीपदश् चक्षुर् उत्तमम् ॥ ४.२२९ ॥

वारिद इति । उदकप्रदः सौहित्यम्, **अन्नदः **अनन्तसुखम्, **तिलप्रदः **ईप्सितान्य् अपत्यानि, **दीपदः **तिमिराद्यनुपहतं चक्षुः प्राप्नोति ॥ ४.२२९ ॥

भूमिदो भूमिम् आप्नोति दीर्घम् आयुर् हिरण्यदः ।

गृहदो ऽग्र्याणि वेश्मानि रूप्यदो रूपम् उत्तमम् ॥ ४.२३० ॥

भूमिद इति । भूमिदो भूम्याधिपत्यं च सुवर्णदो दीर्घम् आयुः, गृहदः श्रेष्ठानि गृहाणि, **रूप्यदः **उत्कृष्टं रूपं लभते ॥ ४.२३० ॥

वासोदश् चन्द्रसालोक्यम् अश्विसालोक्यम् अश्वदः ।

अनडुहः श्रियं पुष्टां गोदो ब्रध्नस्य विष्टपम् ॥ ४.२३१ ॥

वासोद इति । वस्तरदश् चन्द्रेण सह समानलोकतां छन्द्र्लोकं **अश्वदः **अश्विभ्यां समानलोकतां वृषप्रदः महतीं श्रियं गोप्रदः आदित्यलोकं प्राप्नोति ॥ ४.२३१ ॥

यानशय्याप्रदो भार्याम् ऐश्वर्यम् अभयप्रदः ।

धान्यदः शाश्वतं सौख्यं ब्रह्मदो ब्रह्मसार्ष्टिताम् ॥ ४.२३२ ॥

यानशय्याप्रद इति । खट्वादिप्रदो **भार्याम् **आर्तत्राणकृत् प्रभुत्वम्, धान्यप्रदः सार्वकालिकं सुखं वेदप्रदः परं ब्रह्मसमानगतित्वं प्राप्नोति । सर्वत्र चात्र देयद्रव्यसाराल्पत्वभूयस्त्वाद्यपेक्षया दृष्टवत्यल्प(दृष्टफलाल्प)स्याल्पबहुत्वकालादितातम्यं विज्ञेयम् ॥ ४.२३२ ॥

सर्वेषाम् एव दानानां ब्रह्मदानं विशिष्यते ।

वार्यन्नगोमहीवासस्तिलकाञ्चनसर्पिषाम् ॥ ४.२३३ ॥

**सर्वेषाम् **इति । जलान्नगोभूवस्त्रतिलसुवर्णघृतादीनां सर्वेषां यानि दानानि तेषां मध्याद् वेददानं फलाधिक्यात् विशिष्यते ॥ ४.२३३ ॥

येन येन तु भावेन यद् यद् दानं प्रयच्छति ।

तत् तत् तेनैव भावेन प्राप्नोति प्रतिपूजितः ॥ ४.२३४ ॥

येनेति । यादृशेन राजसेन सात्विकेन तामसेन वा शुद्धेन वा मध्यमेनाशुद्धेन वा चित्तधर्मेण च यद् यद् एव द्रव्यं ददाति तत् तद् द्रव्यं फलद्वारेण तु तेनैव दान्ग्गतभावेन भावानुरूपेणैव सुखं मध्यमदुःखवता चित्तेन (न) च जन्मान्तरे पूजितः सन् प्राप्नोति ॥ ४.२३४ ॥

यो ऽर्चितं प्रतिगृह्णाति ददात्य् अर्चितम् एव वा ।

ताव् उभौ गच्छतः स्वर्गं नरकं तु विपर्यये ॥ ४.२३५ ॥

तस्माद् यत्नतः [अर्चित]करेण देयम्, **य **इति । यावद् अर्चापूर्वकं दानप्रतिग्रहौ कुरुतः तौ द्वाव् अपि दातृप्र्तिग्रहीतारौ स्वर्गं गच्छतः । अनर्चितेन करेण पुनः नरकं व्रजतः । प्रतिग्रहीतुः सत्य् अपि वृत्त्यर्थत्वेन दृष्टार्थत्वे प्रतिग्र्हस्य “अर्चितम् एव मया ग्राह्यं नान्यथा” इत्य् एवं नियमादृष्टद्वारेण वचनान् नायुक्तः स्वर्गलाभः ॥ ४.२३५ ॥

न विस्मयेत तपसा वदेद् इष्ट्वा च नानृतम् ।

नार्तो ऽप्य् अपवदेद् विप्रान् न दत्वा परिकीर्तयेत् ॥ ४.२३६ ॥

न विस्मयेतेति । महतापि कृच्छ्रचान्द्रायणादितपसा कृतेन “मया कियत् तपः कृतम्” इत्य् एवम् आश्चर्यं न भजेत । यागं च कृत्वा असत्यं न वदेत् । सत्य् अपि पुरुषार्थत्वेनानृतनिषेधे यागाङ्गत्वार्थः पुनर् उपदेशः । तथा पीडितो ऽपि ब्राह्मणान् न निन्देत् । दानं कृत्वा “इदं मयआ दत्तम्” इति न कथयेत् ॥ ४.२३६ ॥

यज्ञो ऽनृतेन क्षरति तपः क्षरति विस्मयात् ।

आयुर् विप्रापवादेन दानं च परिकीर्तनात् ॥ ४.२३७ ॥

यस्माद् यज्ञ इति । यस्मात् यज्ञादीन्य् अनृतादिभिः कृतैर् अकृतसमानि भवन्ति तस्माद् एतन् न कर्तव्यम् ॥ ४.२३७ ॥

धर्मं शनैः सञ्चिनुयाद् वल्मीकम् इव पुत्तिकाः ।

परलोकसहायार्थं सर्वभूतान्य् अपीडयन् ॥ ४.२३८ ॥

धर्मं शनैर् इति । सर्वप्राणिपीडां परिहरेत् परलोकोपकारार्थं मृद्राशिं यथा पिपीलिकाः सञ्चिन्वन्ति एवं धर्मं शनैः शनैः अर्जयेत् ॥ ४.२३८ ॥

नामुत्र हि सहायार्थं पिता माता च तिष्ठतः ।

न पुत्रदारं न ज्ञातिर् धर्मस् तिष्ठति केवलः ॥ ४.२३९ ॥

नामुत्रेति । यस्मात् परलोके सहायकार्यसम्पत्त्यर्थं मातृपितृपुत्रभार्याबान्धवा न तिष्ठन्ति । अपि तु धर्म एव केवल उपकारार्थम् आस्ते । तस्मान् न मात्राद्यपेक्षया धर्मम् उत्सृजेत् ॥ ४.२३९ ॥

एकः प्रजायते जन्तुर् एक एव प्रलीयते ।

एको ऽनुभुङ्क्ते सुकृतम् एक एव च दुष्कृतम् ॥ ४.२४० ॥

एक इति । **एक **एव सन् प्राणी उत्पद्यते न बान्धवैः सहैव । **एक एव **म्रियते । सुकृतदुष्कृतफले च एक एव भूक्क्ते । अतो मात्रादीनां जननमरणदुष्कृतपीडांशभोक्तृत्वाभावात् न तदपेक्षया धर्मं जह्यात् ॥ ४.२४० ॥

मृतं शरीरम् उत्सृज्य काष्ठलोष्टसमं क्षितौ ।

विमुखा बान्धवा यान्ति धर्मस् तम् अनुगच्छति ॥ ४.२४१ ॥

मृतम् इति । मृतस्य शरीरं काष्ठवद् अवज्ञया भूमौ परित्यज्य पराङ्मुखा बान्धवा गच्छन्ति न तत्सहायर्थं वर्तन्ते । धर्मः पुनः तं परलोके यान्तं पश्चाद् गच्छति

॥ ४.२४१ ॥

तस्माद् धर्मं सहायार्थं नित्यं सञ्चिनुयाच् छनैः ।

धर्मेण हि सहायेन तमस् तरति दुस्तरम् ॥ ४.२४२ ॥

तस्माद् इति । यस्माद् धर्मेण सहायेन सता दुस्तरनरकादिदुःखं तरति तस्मात् धर्मं सहायार्थं सर्वदा शनैर् जयेत् ॥ ४.२४२ ॥

धर्मप्रधानं पुरुषं तपसा हतकिल्बिषम् ।

परलोकं नयत्य् आशु भास्वन्तं खशरीरिणम् ॥ ४.२४३ ॥

धर्मप्रधानम् इति । धार्मिकं **पुरुषं **कथञ्चित् प्रमादकृते च व्यतिक्रमे प्रायश्चित्तेनापगतपापं स्वतेजःपुञ्जोज्ज्वलितं विचरत्वात् ब्रह्मवद् आकाशात्मकं सन्तं प्रकृतो धर्मः क्षिप्रं परलोकं नयति । तस्माद् धर्मं शनैः सञ्चिनुयात् ॥ ४.२४३ ॥

उत्तमैर् उत्तमैर् नित्यं (सार्धम्) सम्बन्धान् आचरेत् सह ।

निनीषुः कुलम् उत्कर्षम् अधमान् अधमांस् त्यजेत् ॥ ४.२४४ ॥

उत्तमर् उत्तमैर् सार्धम् इति । कुलम् उत्कृष्टतां नेतुम् इच्छन् श्रुताभिजनाद्युत्कृष्टैः सह अनवरतं कन्यादानादिसम्बन्धान् आचरेत् । अपकृष्टान् तत्सम्बन्धेषु परिहरेत् । उत्तमविधानाद् एवाधर्मव्यावृत्तिसिद्धये पृथग्वचनम् उत्तमाभावे समाभ्यनुज्ञानार्थम् ॥ ४.२४४ ॥

उत्तमान् उत्तमान् एव गच्छन् हीनांस् तु वर्जयन् ।

ब्राह्मणः श्रेष्ठताम् एति प्रत्यवायेन शूद्रताम् ॥ ४.२४५ ॥

उत्तमान् उत्तमान् एव गच्छन् हीनांश् च वर्जयन्न् इति । उत्तमसम्बन्धेषू उत्तमाननुसरन् निकृष्टांश् च **वर्जयन् ब्राह्मणः श्रेष्ठत्वं प्राप्नोति । विपर्ययन् पुनः जातेर् अनपायात् शूद्रतुल्यतां **प्राप्नोति ॥ ४.२४५ ॥

दृढकारी मृदुर् दान्तः क्रूराचारैर् असंवसन् ।

अहिंस्रो दमदानाभ्यां जयेत् स्वर्गं तथाव्रतः ॥ ४.२४६ ॥

दृढकारीति । आरब्धसम्पादनशक्तिः अक्रूरः शीतातपादि, द्वन्द्वसहिष्णुः निर्दयाचारैः सहावसन् अहिंसको यः स एवं नियमः सदमेनोपशमेन इन्द्रियसंयमाख्येन दानेन च स्वर्गं प्राप्नुयात् ॥ ४.२४६ ॥

एधोदकं मूलफलम् अन्नम् अभ्युद्यतं च यत् ।

सर्वतः प्रतिगृह्णीयान् मध्व् अथाभयदक्षिणाम् ॥ ४.२४७ ॥

**एकोदकम् **इति । काष्ठोदकफलमूलाक्षिकम् अन्नं च अयाचितोपनतम् अनापत्प्रकरणात् पतिताद्यत्यन्तकुत्सितवर्जं **सर्वतः प्रतिगृह्णीयात् **। तथा अभयं चात्मपरित्राणम् अत्यन्तप्रीतिकरं मत्वा दक्षिणातुल्यम् आत्मभयरक्षणसमर्थम् इति सर्वतश् चण्डालादेर् अप्य् अङ्गीकुर्यात् ॥ ४.२४७ ॥

आहृताभ्युद्यतां भिक्षां पुरस्ताद् अप्रचोदिताम् ।

मेने प्रजापतिर् ग्राह्याम् अपि दुष्कृतकर्मणः ॥ ४.२४८ ॥

आहृताभ्युद्यताम् इति । प्रतिग्रहीतृदेशमानीतां दतुः चोद्यमितां “इदं तुभ्यं दास्यामि” इत्य् एवं पूर्वम् अकथितां गोहिरण्यादिभिक्षां दुष्टकर्मकारिणो ऽपि अनापत्प्रकरणात् पतिताद्यत्यन्तकुत्सितवर्जं हिरण्यगर्भो ग्राह्यं मन्यते स्म ॥ ४.२४८ ॥

नाश्नन्ति पितरस् तस्य दशवर्षाणि पञ्च च ।

न च हव्यं वहत्य् अग्निर् यस् ताम् अभ्यवमन्यते ॥ ४.२४९ ॥

**नाश्नन्तीति **। तदीयं कव्यं **पञ्चदशवर्षाणि पितरो **नादन्ति **हव्यं च **पुरोडाशादि देवान् प्रति **अग्निः **न प्रापयति **यस् तां **भिक्षां प्रत्याचष्टे ॥ ४.२४९ ॥

शय्यां गृहान् कुशान् गन्धान् अपः पुष्पं मणीन् दधि ।

धाना मत्स्यान् पयो मांसं शाकं चैव न निर्णुदेत् ॥ ४.२५० ॥

शय्यां गृहम् इति । शयनगृहदर्भोदकपुष्परत्नदधिधानामत्स्यक्षीरमांसशाकानि गन्धवन्ति च कर्पूरादीनि अयाचितोपस्थितानि न प्रत्याचक्षीत । एधोदकादिवाक्यपठितस्योदकस्येह पुनः पाठः श्लोकद्वयस्य पठितयोः प्रत्याख्याने तुल्यत्वज्ञापनार्थः । तथा च गौतमः- “एदादीनि शय्यादिभिः सह” एकस्मिन् सूत्रे सह पठितवान् ॥ ४.२५० ॥

गुरून् भृत्यांश् चोज्जिहीर्षन्न् अर्चिष्यन् देवतातिथीन् ।

सर्वतः प्रतिगृह्णीयान् न तु तृप्येत् स्वयं ततः ॥ ४.२५१ ॥

गुरून् भृत्यान् इति । मातापित्रादीन् गुरून् भृत्यान् भार्यापुत्रादीन् अवश्यम्भरणीयान् क्षुधावसन्नान् उद्धर्तुम् इच्छन् देवतातिथींश् च पूजयिष्यन् अनापत्प्रकरणात् पतिताद्यत्यन्तकुत्सितवर्जं **सर्वतः प्रतिगृह्णीयात् ** न रूपान्तरसद्भावे सति तेन धनेन आत्मनस् तृप्तिं कुर्यात् । मुख्योपायपरिक्षये हि अवृत्तिकर्शितः संसीदन्न् इत्य् आपद्धमं वक्ष्यति ॥ ४.२५१ ॥

गुरुषु त्व् अभ्यतीतेषु विना वा तैर् गृहे वसन् ।

आत्मनो वृत्तिम् अन्विच्छन् गृह्णीयात् साधुतः सदा ॥ ४.२५२ ॥

गुरुष्व् इति । मात्रादिष्व् **अतीतेषु तैर् वा विना गृहे वसन् **आत्मजीवम् अन्विच्छन् अनापदि सर्वदा साधुभ्य एव प्रतिगृह्णीयात् ॥ ४.२५२ ॥

आर्धिकः कुलमित्रं च गोपालो दासनापितौ ।

एते शूद्रेषु भोज्यान्ना यश् चात्मानं निवेदयेत् ॥ ४.२५३ ॥

**आर्धिक **इति । **शूद्रेषु **मध्यात् कर्षककुलमित्रगोपालदासनापिता **भोज्यान्नाः । यश् च **त्वदाश्रितो ऽहम् इत्य् एवम् **आत्मानं **समर्पयेत् । शूद्रश् च नापितादिकर्मणा जीवेत् कारुककर्मभिः इति वक्ष्यति ॥ ४.२५३ ॥

यादृशो ऽस्य भवेद् आत्मा यादृशं च चिकीर्षितम् ।

यथा चोपचरेद् एनं तथात्मानं निवेदयेत् ॥ ४.२५४ ॥

यथा आत्मनिवेदनं तेन कार्यं तथाह **यादृश **इति । **यादृशो ऽस्य भवेद् आत्मा **कुलशीलादिभिर् यादृशं दृष्टार्थम् अदृष्टातिशयार्थं चोपचरणं कर्तुम् इष्टं येन वा प्रकारेण मृदुदकाद्याहरणादिनिमित्तं ब्राह्मणं सेवेत अनेन प्रकारेण्आत्मानं निवेदयेत् ॥ ४.२५४ ॥

यो ऽन्यथा सन्तम् आत्मानम् अन्यथा सत्सु भाषते ।

स पाककृत्तमो लोके स्तेन आत्मापहारकः ॥ ४.२५५ ॥

यस्मात् इति । यः कश्चित् प्रकृताच् छूद्राद् अन्यो ऽपि कुलादिभिः **अन्यथा **भूतम् **आत्मानं **इत्थम्भूतो ऽहम् इत्य् **अन्यथा **साधु कथयति स आतमरूपापलापत एव चोरो लोके अतिशयेन पापकृत् सर्ववस्तुप्रधानात्मापहारित्वात् ॥ ४.२५५ ॥

वाच्य् अर्था नियताः सर्वे वाङ्मूला वाग्विनिःसृताः ।

तां तु यः स्तेनयेद् वाचं स सर्वस्तेयकृन् नरः ॥ ४.२५६ ॥

**वाच्य् अर्था **इति । **सर्वे ऽर्थाः शब्देषु सम्बद्धाः शब्दार्थसम्बन्धस्य नियतत्वात् शब्दमूलकाश् च यतः शब्देभ्यः प्रतीयन्ते शब्दप्रतीतिपुरःसरं चार्थसंव्यवहारप्रतीतेः शब्दविनियता एव । अतस् तां वाचं यास् चोरयेत्, अन्यद् उक्त्वा अन्यद् अनुतिष्ठेत् स सर्ववस्तुस्तेयकृन् नरो **भवति ॥ ४.२५६ ॥

महर्षिपितृदेवानां गत्वानृण्यं यथाविधि ।

पुत्रे सर्वं समासज्य वसेन् माध्यस्थ्यम् आस्थितः ॥ ४.२५७ ॥

**महर्षिपितृदेवानाम् **इति । **महर्षिपितृदेवानां **स्वाध्यायप्रजायज्ञसम्पादनेन यथाशास्त्रम् ऋणसंशुद्धिं कृत्वा ततः पुत्रे सर्वां गृहधुरं च सन्न्यस्य धनार्जनात् दानदीनाश्रितः सन् “वाच्य् एके जुह्वति प्राणम्” (४.२३) इत्यादिनीत्या ज्ञानबलान् महायज्ञादीन् सम्पादयन् गृह एव क्वचित् कालं वसेत् ॥ ४.२५७ ॥

एकाकी चिन्तयेन् नित्यं विविक्ते हितम् आत्मनि ।

एकाकी चिन्तयानो हि परं श्रेयो ऽधिगच्छति ॥ ४.२५८ ॥

तथा च वसन् एकाकीति । निर्जने प्रदेशे **एकाकी **सन् उपनिषदुक्तोपासनादिभिः परमात्मस्वरूपनिरूपणम् आत्महितं चिन्तयन् प्रकृष्टं **श्रेयो **मोक्षाख्यं प्राप्नोति ॥ ४.२५८ ॥

एषोदिता गृहस्थस्य वृत्तिर् विप्रस्य शास्वती ।

स्नातकव्रतकल्पश् च सत्त्ववृद्धिकरः शुभः ॥ ४.२५९ ॥

एषेति । एषा ऋतादिका जीविका नित्या अनित्याया आपदि विधानात् गृहस्थस्य ब्राह्मणस्योक्ता । तथा स्नातकव्रतविधिश् च सत्त्वाख्यगुणवृद्धिकरः प्रशस्तस्यैवोक्तः ॥ ४.२५९ ॥

अनेन विप्रो वृत्तेन वर्तयन् वेदशास्त्रवित् ।

व्यपेतकल्मषो नित्यं ब्रह्मलोके महीयते ॥ ४.२६० ॥

अनेनेति । **अनेन **उक्तशास्त्राचारेण वेदार्थवित् ब्राह्मणः नित्यकर्मानुष्ठानेनोपक्षीणपापः सन् **ब्रह्मलोके **महिमानम अश्नुते ॥ ४.२६० ॥

**इति श्रीभट्टमाधवात्मजगोविन्दराजविरचितायां **

**मन्वाशयसारिण्यां टीकायां गार्हस्थसदाचारश् **

चतुर्थो ऽध्यायः

पञ्चमो ऽध्यायः

श्रुत्वैतान् ऋषयो धर्मान् स्नातकस्य यथोदितान् ।

इदम् ऊचुर् महाभागम् अनलप्रभवं भृगुम् ॥ ५.१ ॥

**श्रुत्वैतान् **इति । इदम् ऊचुर् महाभागम् इति । एतान् यथोक्तान् स्नातकधर्मान् **ऋषयः श्रुत्वा **अग्नेर् जातं परोपकारिणं भृगुं इदं वक्ष्यमाणम् उक्तवन्तः । प्रथमे ऽध्याये मनुप्रभवत्वं भृतोर् उक्तम् । इह तु श्रौतार्थवाददृष्ट्याग्निप्रभवत्वम् उच्यते । तत्र हि “तस्य यद् रेतसः प्रथमं देदीयते तद् असाव् आदित्यो ऽभवत् । यद् द्वितियम् आसीत् तद् भृगुः” इति श्रूयते । अत एव भ्रष्टाद् रेतस उत्पन्न इत् इभृगुर् इत्य् एवं भवति । एवं च एकस्मिन् जन्मनि तस्यैकं कारणम् अन्यस्मिंश् चापरम् इति न कदाचिद् अनुपपत्तिः ॥ ५.१ ॥

एवं यथोक्तं विप्राणां स्वधर्मम् अनुतिष्ठताम् ।

कथं मृत्युः प्रभवति वेदशास्त्रविदां प्रभो ॥ ५.२ ॥

एवम् इति । एवम् अतिक्रान्तं शास्त्रोक्तं **स्वधर्मम् **आचरतां वेदशास्त्रज्ञानां ब्राह्मणानां कथं भाव्यम्, आयुःक्षयकारणस्य धर्मलोपादेर् अभावात् ॥ ५.२ ॥

स तान् उवाच धर्मात्मा महर्षीन् मानवो भृगुः ।

श्रूयतां येन दोषेण मृत्युर् विप्रान् जिघांसति ॥ ५.३ ॥

अनभ्यासेन वेदानाम् आचारस्य च वर्जनात् ।

आलस्याद् अन्नदोषाच् च मृत्र् विप्रान् जिघांसति ॥ ५.४ ॥

**स तान् उवाचेति **। अनभ्यासेनेति । वेदानभ्यास-आचारलोप-आलस्य-अन्नदोषाख्यायुःक्षयकारणानि, एवं च वेदाभ्यासाचारानुष्ठानानालस्येषु उक्तशास्त्रप्रमेयभूतेषु कृतेष्व् अपि यदा वक्ष्यमाणान्नदोषो न परिह्रियते तदा तेन हेतुभूतेन अकालं मृत्युर् विप्रान् हन्तुम् इच्छति

॥ ५.३–४ ॥

लशुनं गृञ्जनं चैव पलाण्डुं कवकानि च ।

अभक्ष्याणि द्विजातीनाम् अमेध्यप्रभवानि च ॥ ५.५ ॥

कः पुनर् असाव् अन्नदोष इत्य् आशङ्क्य तम् आह लशुनम् इति । लशुनगृञ्जनपलाण्ड्वाख्यानि शाकानि । कवकं छत्राकविशेषः खुकं खण्डकम् इत्य् आयुर्वेदप्रसिद्धम् । अमेध्यप्रभानि च मनुष्यादिजग्धप्रबीजपुरीषनिर्गतत्वेन केवलामेध्योत्पत्तिकानि पुरीषस्थानोत्पन्नानि चामेध्यसंसर्गप्रभवानि तण्डुलीयकादीनि द्विजातीनाम् अभक्ष्याणि । द्विजातिग्रहणं शूद्रपर्युदासार्थम्, चातुर्थ्यं तु अभक्ष्यप्रकरणं ब्राह्मणस्यैव “नाश्रोत्रियतते यज्ञे” (४.२०५) इत्य् उपक्रम्य “भुञ्जीत ब्राह्मणः क्वचित्” इत्य् अभिधानात् । अत एव प्रकरणभेदः ॥ ५.५ ॥

लोहितान् वृक्षनिर्यासान् व्रश्चनप्रभवांस् तथा ।

शेलुं गव्यं च पेयूषं प्रयत्नेन विवर्जयेत् ॥ ५.६ ॥

लोहितान् यत्र पुष्पादिव्यतिरिक्तान् प्रस्रावादिना वृक्षेभ्यो निर्गतांस् तथा । वृक्षे गुन्दप्रदेशोद्भवान् **शेलुं **च श्लेष्मातं “शेलुः श्लेष्मातकः स्म्र्तः” इत्य् अभिधानकोशाद्यायुर्वेदप्रसिद्धेः । न तु क्षीरसृत्क्षीरसन्तानिका यथान्यैर् व्याख्यातम्, असिद्धेः । गोसम्बन्धि च पीयूषम् । नवप्रसूताया गोः क्षीरं यद् अग्निसंयोगात् कठिनीभवति तद् यत्नतो वर्जयेत् । एतच् च दशाहात् परेणापि यदि कदाचित् स्यात् तदा निषिध्यते । दशाहोनवर्तिनस् तु “अनिर्दशाया गोः क्षीरम्” इत्य् अनेनैव निषिद्धत्वात् ॥ ५.७ ॥

वृथाकृसरसंयावं पायसापूपम् एव च ।

अनुपाकृतमांशानि देवान्नानि हवींषि च ॥ ५.७ ॥

वृथाकृसरसंयावम् इति । कृसरं तिलमुद्गसिद्धम् ओदनम्, संवायं घृतगुडक्षीरादिकृतं पुष्करिकेति प्रसिद्धम्, **पायसम् अपूपं च **वास्तुयज्ञादिविशिष्टदेवतायागोद्देशम् अन्तरेण कृतम् । कृतान्वाहिकवैश्वदेवकार्यम् अपि न भक्षयेत् । तथा उपाकरणाख्यश्रौतसंस्कारविशेषार्हणां गोऽव्यजानां यान्य् अनुपाकृतानि मांसानि तानि कल्पयता न भक्षयेत् । अतिथ्यादेस् तु “अनर्चितं वृथामांसम्” इत्य् उक्त्वा **देवान्नानि च **नेवेदकादीनि हवींषि च प्राग्घोमात् वर्जयेत् । हविःशेषस्य हि भक्ष्यत्वं वक्ष्यति ॥ ५.७ ॥

अनिर्दशाया गोः क्षीरम् औष्ट्रम् एकशकं तथा ।

आविकं सन्धिनीक्षीरं विवत्सायाश् च गोः पयः ॥ ५.८ ॥

**अनिर्दशायाच्ब् **इति । प्रसूतायाश् चानिर्दशाया योः सम्बन्धि क्षीरम् । तथा उष्ट्रसम्बन्धि अश्वाद्येकशफैडकसम्बन्धि च तथा “अदुग्ध्या दोहकालेष् सन्धिनी सद्भिर् उच्यते” इति त्रिकाण्डाभिधानात् भक्ष(?)क्षीराया अपि सन्धिन्याः क्षीरम्, तथा मृतवत्सायाश् च गोः पयो वर्जयेत् । वत्सग्रहणाद् एव् गविलब्धायां गोग्र्हणं गौर् एव, न त्व् अजामहिष्योर् इति ज्ञापनार्थम् । अत्र क्षीरग्रहणे प्रकृते सन्धिणीक्षीरं विवत्सायाश् च गोः पय इति पुनः क्षीरग्रहणपयोग्रहणाच् च सन्धिनीविवत्सायाश् च क्षीरम् एव प्रतिषिध्यते । न तु तद्विकारा इति कश्चिद् आह – तद् असत्, स्वभावाशुचिनो विकाराभ्यनुज्ञानस्यान्याय्यत्वात् । यथा चाशुभाग्नेषु तस्य निषेधदर्शनम् । शङ्खश् चाह-

क्षीराणि यान्य् अभक्ष्याणि तद्विकाराशने बुधः ।

सप्तरात्रव्रतं कुर्यात् प्रयत्नेन समाहितः ॥ इति ।

सन्धिन्याश् च तद्धितनिर्देशस्य कृतत्वाच् च क्षीरग्रहणं कर्तुम् उपयुज्यते सन्ध्नीक्षीरम् इति च समासान्तर्वर्तित्वात् क्षीरशब्दस्य गोः पय इति पयोग्रहणम् उपयुज्यते ॥ ५.८ ॥

आरण्यानां च सर्वेषां मृगाणां माहिषं विना ।

स्त्रीक्षीरं चैव वर्ज्यानि सर्वशुक्त्नि चैव हि ॥ ५.९ ॥

आरण्यानाम् इति । माहिषवर्जम् **आरण्यानां **सर्वेषां हस्त्यादीनां **मृगाणां **सम्बन्धि क्षीरं स्त्रैणं च वर्जयेत् । तथा यानि प्राप्तस्वरसानि कालान्तरेणोदकादिसंसर्गकालपरिवासाभ्यां चाम्लीभवन्ति तानि सर्वाणि शुक्तानि वर्जयेत् ॥ ५.९ ॥

दधि भक्ष्यं च शूक्तेषु सर्वं च दधिसम्भवम् ।

यानि चैवाभिषूयन्ते पुष्पमूलफलैः शुभैः ॥ ५.१० ॥

अत्र प्रतिप्रसवम् आह दधि भक्ष्यं तु शुक्तेषु सर्वं च दधिसम्भवम् इति । शुक्तेषु मध्याद् दधि तत्सम्भवं तु **सर्वम् **उदश्विदादि । यानि च शुद्धेः पुष्पादिभिर् उदकेन सह सन्धीयन्ते तानि भक्षणार्हाणि । आचारस्य च स्मृतिवाक्यव्याख्यानस्थानीयत्वात् य आचाराविरोधो स म्स्त्यर्थं कल्पयितुं न्याय्यः । अतः शिष्टाचारानतिक्रमेण पुष्पादिग्रहणं द्रव्यान्तरप्रदर्शनम् अपि विज्ञेयम् । अत्र चाभिइषुतशुक्त(शुक्ल)प्रतिप्रसवात् सर्वशुक्तानीत्य् अयं प्रतिषेधो ऽप्य् अभिषुतविषय एव । ततः स्वभावशुक्तानाम् आमलकादीनाम् अप्रतिषेधः इति केचित्तद् असत्, “दधि भक्ष्यं तु” इत्य् अनभिषुतस्यापि प्रतिप्रसवात् । न चामलकादीनाम् अभक्ष्यतापत्तिः, न ह्य् अम्लपर्यायशुक्तशब्दो ऽपि [तु] यथोक्तार्थम् एव ॥ ५.१० ॥

क्रव्यादः शकुनीन् सर्वान् तथा ग्रामनिवासिनः ।

अनिर्दिष्टांश् चैकशपांष् टिट्टिभं च विवर्जयेत् ॥ ५.११ ॥

**क्रव्यादशकुनीन् सर्वान् **इति । आममांसम् एव ये भक्षयन्ति तान् श्येनादीन् **सर्वान् **पक्षिणो वर्जयेत् । एवं चोभयभक्ष्याणां मयूरादीनाम् अप्रतिषेधः । तथा च शङ्खः-

तित्तिरं च मयूरं च लावकं च कपिञ्जलम् ।

वार्ध्रीणसं वर्तकं च भक्ष्यान् आह यमः सताम् ॥ इति ।

ग्रामनिवासिनश् च पक्षिणः पारावतादीन् वर्जयेत् । तथा श्रुतौ भक्ष्यत्वेन च “उष्ट्रं वडवम् आलभेत तस्य च मांसम् अश्नीयात्” इतिवत् ये न निर्दिष्टा एकशफाः तान् वर्जयेत् । ये तु यत्र निर्दिष्टाः तांस् तत्रैव भक्षयेत् यज्ञाङ्गत्वेन तेषां तत्रैव भक्ष्यत्वनोदनात् नान्यत्र टित्तिभाख्यं च पक्षिणं वर्जयेत् ॥ ५.११ ॥

कलविङ्कं प्लवं हंसं चक्राह्वं ग्रामकुक्कुटम् ।

सारसं रज्जुवालं च दात्यूहं शुकसारिके ॥ ५.१२ ॥

कलविङ्कम् इति । कलविङ्को ग्रामचटकः निगमेषु पाठात् । तस्य वर्षासु वनवासत्वेनोभयनिवासात् ग्रामनिवासप्रतिषेधः । वृत्त्याशङ्कायाम् इदं वचनम् । तथा प्लवं सङ्कटविलाख्यं पक्षिणं हंसचक्रवाकग्रामकुक्कुटशुकशारिकां वर्जयेत् । ग्रामकुक्कुटग्रहणम् आरण्याभ्यनुज्ञानार्थम् । तस्य ग्रामनिवासित्वाद् एव प्रतिषेधे सिद्धे जात्यैकाच् चारण्यस्याभ्यक्ष्यताशङ्का स्यात् । तदर्थं वचनम् । ननु ग्रामनिवासित्वाद् एव प्रतिषेधसिद्धेः (ग्रामकुक्कुटप्रतिषेधसिद्ध्यै) ग्रामकुक्कुटग्रहणम् एतद्व्यतिरिक्तग्रामनिवासिविकल्पार्थम् किं न व्याख्यायते किम् आरण्याभ्यनुज्ञानपरत्वेनेति । नैवम्, स्वपदार्थगतप्रयोजनसद्भावे सति वाक्यान्तरगतविशेषावधारणपरत्वस्यान्याय्यत्वात् **सारसं **लक्ष्मणाख्यं पक्षिणं रज्जुवालं च पायिकाख्यं दात्यूहं चक्रवाकजलकुक्कुटशब्दाभ्यां प्रसिद्धं वर्जयेत्

॥ ५.१२ ॥

प्रतुदान् जालपादांश् च कोयष्टिनखविष्किरान् ।

निमज्जतश् च मत्स्यादान् सौनं वल्लूरम् एव च ॥ ५.१३ ॥

प्रतुदान् इति । प्रहृत्य चञ्च्वा भक्षयन्ति तान् दार्वाघाटादीन्, **जालपादांश् च **कोयष्टिधूसरिकाख्यं पक्षिणं, नखैः विक्षिप्य ये भक्षयन्ति तान्, श्रद्धाभ्यनुज्ञातारण्यकुक्कुटव्यतिरिक्तान् चकोरककुभागींश् च तथा निमज्ज्य ये मत्स्यान् अदन्ति मद्ग्वादयः तान् “सूना घातनस्थानम्” इतीत्यभिधानिकस्मरणात् आघातस्थाने भवं मांसं भक्ष्याणाम् अपि **वल्लूरं **शुष्कमांसं वर्जयेत् । जालपादत्वाद् एव प्लवहंसचक्रवाकानां निषेधसिद्धौ पृथग्वचनं तदन्येषां मायादीनां विकल्पज्ञापनार्थम् । विकल्पश् चापदि भक्ष्याण्य् अनापदि नेत्य् एवं व्यवस्थितो विज्ञेयः । यतो बुद्धिपूर्वकारिविरचिते ग्रन्थे आचार्यस्यैवमभिप्राय उन्नीयते । नूनं जालपादप्रतिषेधो नास्वासति (प्रतिषेधेनाश्वासः) येन जालपादविशेषान् हंसादीन् स्वशब्देन निषेधति । न चात्यन्तानाश्वासः तथा सति जालपादप्रतिषेधो ऽनर्थकः स्यात् । तस्माद् विशेषो ऽत्र्यानुमीयते । कस्याञ्चिद् अवस्थायां मद्ग्वादीनां भक्षणम् अभिमतं कस्याञ्चिद् प्रतिषेध एवेति । तेनापदि तु भक्षणं अनापदि तु निषेध एव, प्रतिषेधद्व्ययार्थत्वात् । यदि पुनस् तुल्यविकल्पः स्यात् तदा जालपादनिषेधस्यानर्थक्यम् एव स्यात्, तद्वचनम् अन्तरेणैव तथाविधविकल्पस्य कदाचिद् भक्ष्याणि कदाचिन् नेत्य् एव तत्फलं सम्पद्यते । तच् च ज्ञापनम् अन्तरेणैव लौकिकत्वाद् भक्षणस्य अर्थित्वानर्थित्वाभ्यां सिद्धम् । तस्मात् जालपादप्रतिषेधाभिधानाद् एव व्यवस्थितो ऽयं विकल्प इत्य् अवसीयते ॥ ५.१३ ॥

बकं चैव बलाकां च काकोलं खञ्जरीटकम् ।

मत्स्यादान् विड्वराहांश् च मत्स्यान् एव च सर्वशः ॥ ५.१४ ॥

बकं चैवेतिबकं बलाकं काकोलं च द्रोणकाकं “काकोलो द्रोणकाक उदाहृतः” इति त्रिकाण्डपाठात् । कञ्जरीटाख्यं पक्षिणं **मत्स्यादांश् **च अपक्षिणो ऽपि नक्रादीन् ग्रामसूकरांश् च **मत्स्यांश् **च सर्वान् वर्जयेत् ॥ ५.१४ ॥

यो यस्य मांसम् अश्नाति स तन्मांसाद उच्यते ।

मत्स्यादः सर्वमांशादस् तस्मान् मत्स्यान् विवर्जयेत् ॥ ५.१५ ॥

अस्यार्थवादः यो यस्य मांसम् इति । यो यत्सम्बन्धि मांसम् अश्नाति तन्मांसाद एवं निन्दार्थम् उच्यते । नान्यमांसादपपलेशं लभते **मत्स्यादः **पुनः सर्वमांसभक्ष इति व्यपदेष्टुं युज्यते तान् **मत्स्यान् वर्जयेत् **॥ ५.१५ ॥

पाठीनरोहिताव् आद्यौ नियुक्तौ हव्यकव्ययोः ।

राजीवाः सिंहतुण्डाश् च सशल्काश् चैव सर्वशः ॥ ५.१६ ॥

इदानीं जातिविशेषक्रियाविशेषसमवलम्बनेन मत्स्यप्रतिप्रसवम् आह पाठीनरोहिताव् इति । **पाठीनः **चन्द्र्कारण्यो मत्स्यभेद एव । **रोहितो **ऽपि रोहितमत्स्याख्यः । तौ दैवपित्र्यकर्मविनियुक्तौ इत्य् अदनार्हौ न त्व् अन्यदा । **राजीवाः **पुनः पद्मवर्णा मत्स्यविशेषाः । तथा सिंहमुखाः **सशल्काश् च **शकलिचिलिचिमशब्दाभ्याम् आयुर्वेदप्रसिद्धाः । सर्वदा हव्यकव्याभ्याम् अन्यत्रापि भक्षणार्हाः ॥ ५.१६ ॥

न भक्षयेद् एकचरान् अज्ञातांश् च मृगद्विजान् ।

भक्ष्येष्व् अपि समुद्दिष्टान् सर्वान् पञ्चनखांस् तथा ॥ ५.१७ ॥

न भक्षयेद् इति । ये एककाः प्रायेणाटन्ति सर्पादयः तांस् तथा अभियुक्तैर् अपि नामजातिभिः ये मृगपक्षिणो न ज्ञायन्ते तान् विशेषसामान्यप्रतिषेधानाक्रमणे सति भक्ष्यपक्षे पतितत्वात् भक्ष्यत्वेन **समुद्धिष्टान् **एवं पञ्चनखांश्सर्वान् नरमार्जारादीन् न भक्षयेत्

॥ ५.१७ ॥

श्वाविधं शल्यकं गोधां खड्गकूर्मशशांस् तथा ।

भक्ष्यान् पञ्चनखेष्व् आहुर् अनुष्ट्रांश् चैकतोदतः ॥ ५.१८ ॥

अत्र प्रतिप्रसवम् आह **श्वाविधं शल्यकं गोधां खड्गकूर्मशशांस् तथेति **। श्वाविधं सेधाख्यं प्राणिभेदं **शल्यकं **चाषं गोधां च प्राणिविशेषं खड्गं गण्डकं कूर्मं कच्छपं शशं च पञ्चनखेषु मध्यात् भक्षणार्हान् मन्वादय आहुः । तथा एकदन्तपङ्क्त्युपेतेषु मध्यात् उष्ट्रवर्जितान् अजादीन् इति भावः ॥ ५.१८ ॥

छत्राकं विड्वराहं च लशुनं ग्रामकुक्कुटम् ।

पलाण्डुं गृञ्जनं चैव मत्या जग्ध्वा पतेद् द्विजः ॥ ५.१९ ॥

छत्राकम् इति । कवकग्रामसूकरलशुनादीनाम् अन्यतमं बुद्धिपूर्वं प्रायश्चित्तगुरुत्वात् अभ्यासतो भक्षयित्वा द्विजातिः पतेत् । द्विजातिकर्मभ्यो हानिः पतनम् इति । ततश् च प्रायश्चित्तं तस्य न भवति । तथा वक्ष्यति “गर्हितान्न्द्ययोर् जग्धिः सुरापानसमानि षट्” (११.५६) इति

॥ ५.१९ ॥

अमत्यैतानि षड् जग्ध्वा कृच्छ्रं सान्तपनं चरेत् ।

यतिचान्द्रायणं वापि शेषेषूपवसेद् अहः ॥ ५.२० ॥

**अमत्यैतानीति **। एतानि छत्राकादीनि **षट् **बुद्धिपूर्वकं प्रत्येकं भक्षयित्वा एकादशाध्यायवक्ष्यमानस्वरूपं सान्तपनं यतिचान्द्रायणं चरेत् । एतद्व्यतिरिक्तेषु लोहितनिर्यासादिषु प्रत्येकभक्षणे ऽहोरात्रं नाश्नीयात् । प्रायश्चित्तस्य प्रकर्षेणोत्कर्षो लशुनादीनां वर्जनादरार्थम् । शेषेषूपवसेद् अहर् इत्य् एतत् पुनर् लाघवार्थम् । तत्र हि क्रियमाणे लोहितनिर्यासादिग्रहणं कर्तव्यं स्यात् ॥ ५.२० ॥

संवतसरस्यैकम् अपि चरेद् कृच्छ्रं द्विजोत्तमः ।

अज्ञातभुक्तशुद्ध्यर्थं ज्ञातस्य तु विशेषतः ॥ ५.२१ ॥

**संवत्सरस्यैकम् अपीति । संवत्सरस्य **मध्ये ब्राह्मणः ऽशेषेषूपवसेद् अहर्ऽ इति समनन्तरप्रस्तुतलोहितवृक्षनिर्यासाद्यसंवेत्तिभुक्तप्रायश्चित्तार्थम् अपि **कृच्छ्रं **कृच्छ्रमध्ये प्रथमाम्नानात् प्राजापत्यं चरेत् । ज्ञातस्य पुनर् अभक्ष्यभक्षणे विशेषतो यद् यस्य चोदितं प्रायश्चित्तं तद् एव कुर्यात् । अत एव च ज्ञायते असंवेदितः कृते ऽपि व्यतिक्रमे पापं प्रायश्चित्तं भवतीति । एवं च “त्रीणि देवाः पवित्राणि ब्राह्मणानाम् अकल्पयन् । अदृष्टम् अद्भिर् निर्णिक्तम्” इत्य् एतत्प्रायश्चित्तव्यतिरिक्तविषये ऽवतिष्ठते । तथा च द्रव्यशुद्धिप्रकरण एतद् आर्येणाभिहितम् । ब्राह्मणग्रहणं द्विजप्रदर्शनार्थम्, त्रयाणां प्रकृतत्वात् । “एतद् उक्तं द्विजातीनाम्” इति चोपसंहारात् ॥ ५.२१ ॥

यज्ञार्थं ब्राह्मणैर् वध्याः प्रशस्ता मृगपक्षिणः ।

भृत्यानां चैव वृत्त्यर्थम् अगस्त्यो ह्य् आचरत् पुरा ॥ ५.२२ ॥

यागार्थं ब्राह्मणादिभिः कृतैः **प्रशस्ता **ये चोदिताः श्रुतौ **मृगपक्षिणः **ते वध्या इति श्रुत्युक्तानुवादः । भृत्यानां चैवेत्य् एतद् विधित्सितम् । स्वाम्याद् आपनार्थं (?) भृत्यानाम् अवश्यभरणीयानां वृद्धमात्रादीनां स्थित्यर्थं च वध्याः । **अगस्त्यो **यस्मात् पूर्वम् एवं कृतवान् इति चोपसंहारात् ॥ ५.२२ ॥

बभूवुर् हि पुरोडाशा भक्ष्याणां मृगपक्षिणाम् ।

पुराणेष्व् ऋषियज्ञेषु ब्रह्मक्षत्रसवेषु च ॥ ५.२३ ॥

बभूवुर् इति । यस्माच् चिरन्तनेष्व् अपि सम्बन्धिषु यज्ञेषु ब्राह्मणक्षत्रिययज्ञेषु च **भक्ष्याणां मृगपक्षिणां **सम्बन्धिनाममांसेन **पुरोडाशा **अभूवन् । तस्माद् यज्ञार्थम् अपि ते वध्याः ॥ ५.२३ ॥

यत् किञ्चित् स्नेहसंयुक्तं भक्ष्यं भोज्यम् अगर्हितम् ।

तत् पर्युषितम् अप्य् आद्यं हविःशेषं च यद् भवेत् ॥ ५.२४ ॥

अधुना पर्युषितप्रतिप्रसवार्थम् आह यत् किञ्चिद् इति । यद् भक्ष्यं खरविषदम् अभ्यवहार्यम् मोदकादि । यच् च भोज्यं पायसादि उपघातान्तररहितं तद् दधिघृतादिस्नेहयुक्तं कृत्वा पर्युषितम् अपि रात्र्यन्तरितम् अद्यम् अदनार्हम् इत्य् एवं तच्छब्दव्यत्ययेनैतद् व्याख्येयम् । यथा श्रुतयोजनायां हविषो ऽभिघारणे सति स्नेहसंयोगावश्यम्भावित्वाद् धविःशेषस्य “यत् किञ्चिद् स्नेहसंयुक्तम्” इत्य् अनेनैव सिद्धत्वे सति पुनर् अभिधानम् अनर्थकं स्यात् । यच् च हुतशिष्टं पुरोडाशादि पर्युषितं स्यात् तत् भोजनकाले स्नेहसंयोगशून्यम् अप्य् अदनार्थम् ॥ ५.२४ ॥

चिरस्थितम् अपि त्व् आद्यम् अस्नेहाक्तं द्विजातिभिः ।

यवगोधूमजं सर्वं पयसश् चैव विक्रियाः ॥ ५.२५ ॥

चिरस्थितम् इति । यवगोधूमक्षीरविकाराः सर्वे नैकरात्र्यन्तरितः सन्तः स्नेहप्रोक्षणरहिता अपि द्विजादिभिर् अदनीयाः ॥ ५.२५ ॥

एतद् उक्तं द्विजातीनां भक्ष्याभक्ष्यम् अशेषतः ।

मांसस्यातः प्रवक्ष्यामि विधिं भक्षणवर्जने ॥ ५.२६ ॥

द्विजातीनाम् एतत् भक्ष्याभक्ष्यं निःशेषेणोक्तम्, अत ऊर्ध्वं** मांसस्य भक्षणे वर्जने **च विधिः विधानं वक्ष्यामि ॥ ५.२६ ॥

प्रोक्षितं भक्षयेन् मांसं ब्राह्मणानां च काम्यया ।

यथाविधि नियुक्तस् तु प्राणानाम् एव चात्यये ॥ ५.२७ ॥

प्रोक्षितम् इति । प्रोक्षणाख्यश्रौतसंस्कारयुक्तः गोऽव्यजसञ्चित्प्रियमांसं तद् भक्षयेत् इति श्रुतिः । कर्माङ्गभूतभक्षणनियमानुवादो ऽयं ब्राह्मणकामनादिनिमित्तभक्षणनियमसाम्यापादनार्थः । यत् तु प्रोक्षितपरिसङ्ख्यार्थत्वम् आहुः । तद् असत्, “अनुपाकृतमांसानि” इत्य् अस्य अप्रोक्षितप्रतिषेधार्थत्वात् । ब्राह्मणानां चेति ब्राह्मणप्रार्थनया व्यक्तप्रतिषिद्धमांसाशिनो ऽपि च ब्रह्मचर्यादिनियमतो ऽश्नीयात् । तथा श्राद्धे मधुपर्के वा तदामिषेण कर्तव्यम्, “नामांसो मधुपर्कः स्यात्” इति स्मृतिगृह्यशास्त्रप्रयुक्तेन अब्राह्मणेनापि नियुक्तो नियमतो भक्षयेत् । तथा च नियुक्तस् तु इति अतिक्रमदोषं वक्ष्यति । प्राणात्यये ऽपि चक्षुर्निमित्ते व्याधिनिमित्ते च त्यक्तमांसाशिनो ऽपि च ब्रह्मचर्यादिनियमतो भुञ्जीत ॥ ५.२७ ॥

प्राणस्यान्नम् इदं सर्वे प्रजापतिर् अकल्पयत् ।

स्थावरं जङ्गमं चैव सर्वं प्राणस्य भोजनम् ॥ ५.२८ ॥

**प्राणस्येति **। कोष्ठ्यस्य वायोः शरीरावस्थित्यर्थम् इदं सर्वं प्रजापतिर् अन्नं कल्पितवान् । किं तत् । अत आह पश्वादि जङ्गमं मूलफलादि च स्थावरं सर्वं प्राणस्य भोजनम् । तस्मात् प्राणात्यये मांसम् अदनीयम् इति प्राणात्यये मांसभक्षणार्थवादः ॥ ५.२८ ॥

चराणाम् अन्नम् अचरा दंष्ट्रिणाम् अप्य् अदंष्ट्रिणः ।

अहस्ताश् च सहस्तानां शूराणां चैव भीरवः ॥ ५.२९ ॥

चराणाम् इति । जङ्गमानाम् अजङ्गमाः स्थावराण्य् अन्नम् । दंष्ट्रावतां च व्याघ्रादीनाम् अदंष्ट्रा सर्पादयः । हस्तवतां मार्जारादीनां अहस्ता मत्स्यादयः शूराणां सिंहादीनां **भीरवो **हस्त्यादयः । अनिमित्तम् अन्नम् इति पूर्वश्लोकस्यैवायं प्रपञ्चः ॥ ५.२९ ॥

नात्ता दुष्यत्य् अदन्न् आद्यान् प्राणिनो ऽहन्य् अहन्य् अपि ।

धात्रैव सृष्टा ह्य् आद्याश् च प्राणिनो ऽत्तार एव च ॥ ५.३० ॥

इत्थं प्रजापतिकल्पनायां सत्यां **नात्ता दुष्यतीति ** । अदनार्हान् प्राणिनो ऽहर् अहर् अप्य् अश्नन् भक्षयिता न दोषान् प्राप्नोति । यस्मात् प्रजापतिनैवादनर्हा भक्षयितारश् चोत्पादिता इति प्राणात्ययमांसभक्षणनियमदार्ढ्यार्थो ऽयम् अर्थवादो न हेतुः प्राण्युपघातनिषेधोपदेशात् ॥ ५.३० ॥

यज्ञाय जग्धिर् मांसस्येत्य् एष दैवो विधिः स्मृतः ।

अतो ऽन्यथाप्रवृत्तिस् तु राक्षसो विधिर् उच्यते ॥ ५.३१ ॥

**यज्ञायेति **। यज्ञसम्पत्त्यर्थं तदङ्गभूतं यन् मांसभक्षणम् एतद् देवोचितम् अनुष्ठानम् । अत एव यत्नतः कार्यम् । एतद्व्यतिरिक्तप्रकारेण पुनर् मांसभक्षणप्रवृत्तिः रक्षःसमुचितम् आचरणं मन्वादिभिर् उच्यते । तस्माद् एतन् न कार्यम् इति प्रोक्षितभक्षणनियमाद् अनुवादार्थः ॥ ५.३१ ॥

क्रीत्वा स्वयं वाप्य् उत्पाद्य परोपकृतम् एव वा ।

देवान् पितॄंश् चार्चयित्वा खादन् मांसं न दुष्यति ॥ ५.३२ ॥

**क्रीत्वेति ** । **क्रीत्वा **आत्मना **चोत्पाद्य । **यथोक्तं “भृत्यानां चैव वृत्त्यर्थम्” इति । अनेन चानीतं यथोक्तम् “धाना मत्स्यान् पयो मांसम्” इति । एवंविधं मांसं देवपितृभ्यो दत्वाश्नन् पापं न प्राप्नोति इत्य् उपाकरणानर्हशशादिमांसविषयम् इदम् उपाकरणार्हगोऽव्यजमांसस्यानुपाकृतस्य देवाद्यर्चनशिष्टस्य “अनुपाकृतमांसादि” इति प्रतिषेधात् ॥ ५.३२ ॥

नाद्याद् अविधिना मांसं विधिज्ञो ऽनापदि द्विजः ।

जग्ध्वा ह्य् अविधिना मांसं प्रेतस् तैर् अद्यते ऽवशः ॥ ५.३३ ॥

नद्याद् इति । मांसभक्षणप्रकारज्ञो द्विजो ऽनापदि देवाद्यर्चनविधानं विना मांसं नाश्नीयात् यस्माद् अविधानेन यो मांसम् अश्नाति स मृतः सन् परलोके तैः प्राणिभिः परवशो भुज्यते, यन् मांसम् अनेन भक्षितं युक्तम् इति पूर्वार्थवादः ॥ ५.३३ ॥

न तादृशं भवत्य् एनो मृगहन्तुर् धनार्थिनः ।

यादृशं भवति प्रेत्य वृथामांसानि खादतः ॥ ५.३४ ॥

न तादृशम् इति । मृगवधजीविशबलादिव्यतिरिक्तस्य धननिमित्तं मृगाणां हन्तुः न तथाविधं पापं भवति यादृगकृतदेवाद्यर्चनानि खादतः परलोके भवतीतिपूर्वार्थवाद एव ॥ ५.३४ ॥

नियुक्तस् तु यथावद् यो मांसं नाश्नाति मानवः ।

स प्रेत्य पशुतां याति सम्भवान् एकविंशतिम् ॥ ५.३५ ॥

**नियुक्तस् तु यथावद् यो मांसं नाश्नाति मानवः **इति । श्राद्धमधुपर्कयोः शास्त्रमर्यादानतिक्रमेण **नियुक्तः **सन् यो मनुष्यो मांसं नाश्नाति स मृतः सन् एकविंशतिजन्मानि **पशुत्वं **प्राप्नोति । इति यथाविधिनियुक्तस् त्व् इति एतन्नियमव्यतिक्रमफलकथनम् ॥ ५.३५ ॥

असंस्कृतान् पशून् मन्त्रैर् नाद्याद् विप्रः कदाचन ।

मन्त्रैस् तु संस्कृतान् अद्याच् छाश्वतं विधिम् आस्थितः ॥ ५.३६ ॥

असंस्कृतान् इति । पशुयागादिचोदितप्रोक्षणादिमन्त्रसंस्कारराहितान् गोऽव्यजादि**पशून् **विप्रादिः न कदाचिद् अप्य् अद्यात् । किं तर्हि । नैमित्तिकं वैदिकपशुयागादिविधिम् आश्रितः सन् मन्त्रसंस्कृतान् एवाश्नीयाद् इत्य् अनुपाकृतमांसार्थे निरूपणार्थवादम् एतत् [मांसनिराकरणानुवादार्थम् एतत्] ॥ ५.३६ ॥

कुर्याद् घृतपशुं सङ्गे कुर्यात् पिष्टपशुं तथा ।

न त्व् एव तु वृथा हन्तुं पशुम् इच्छेत् कदाचन ॥ ५.३७ ॥

कुर्याद् इति । सङ्गे भूतादिदोषेण शरीराद्यवसादे सति तद्विनाशनार्थं घृतमयीं वा पशुप्रकृतिम् उपहरेत न पुनर् देवाद्युद्देशम् अन्तरेणैव **पशुं हन्तुं **कदाचिद् अपि **इच्छेत् **

॥ ५.३७ ॥

यावन्ति पशुरोमाणि तावत्कृत्वेह मारणम् ।

वृथापशुध्नः प्राप्नोति प्रेत्य जन्मनि जन्मनि ॥ ५.३८ ॥

यस्माद् **यावन्ति पशुरोमाणीति । वृथा **उद्देशम् अन्तरेण यः पशुं हन्ति स मृतः सन् तस्य हतस्य पशोः सकाशात् [यावत्सङ्ख्यानि पशुरोमाणि] तत्सङ्ख्याकान् वारान् जन्मनि जन्मनि मारणं प्राप्नोति तस्माद् वृथा पशुं न हन्यात् । हशब्द आगमसूचकः ॥ ५.३८ ॥

यज्ञार्थं पशवः सृष्टाः स्वयम् एव स्वयम्भुवा ।

यज्ञस्य भूत्यै सर्वस्य तस्माद् यज्ञे वधो ऽवधः ॥ ५.३९ ॥

यज्ञार्थम् इति । यज्ञसम्पत्त्यर्थं प्रजापतिना आत्मनैवादरेण **पशवः सृष्टाः **। यज्ञश् च “अग्नौ प्रास्ता” इति न्यायेनास्य जगतः भूत्यभिवृद्ध्यर्थम्, **तस्माद् यज्ञे **यो **वधः **सो ऽधर्माख्यवधकार्याभावाद् **अवध **एव ॥ ५.३९ ॥

ओषध्यः पशवो वृक्षास् तिर्यञ्चः पक्षिणस् तथा ।

यज्ञार्थं निधनं प्राप्ताः प्राप्नुवन्त्य् उच्छ्रितीः पुनः ॥ ५.४० ॥

ओषध्य इति । **ओषदयो **दर्भाद्याः । **पशवः **छागादयः । **वृक्षाः **प्लक्षाद्याः । **तिर्यञ्चः **कूर्मादयह् । **पक्षिणः **कपिञ्जलाद्याः **यज्ञार्थं **विनाशं प्राप्ताः ते तम् अधर्मार्जितं निकर्षं हित्वा पुनः आत्मज्ञानाधिकृतशरीरलाभेनोत्कर्षान् प्राप्नुवन्ति ॥ ५.४० ॥

मधुपर्के च यज्ञे च पितृदैवतकर्मणि ।

अत्रैव पशवो हिंस्या नान्यत्रेत्य् अब्रवीन् मनुः ॥ ५.४१ ॥

मधुपर्के चेति । राजर्त्विक्स्नातकेत्येवमादिनोदिते गृह्योक्तस्वरूपे मधुपर्के यज्ञे च ज्योतिष्टोमादौ पित्र्ये दैवे च कर्मणि एव **पशवो **हिंसनीयाः नान्यत्रेत्य् एवं **मनुर् **उक्तवान् ॥ ५.४१ ॥

एष्व् अर्थेषु पशून् हिंसन् वेदतत्त्वार्थविद् द्विजः ।

आत्मानं च पशुं चैव गमयत्य् उत्तमां गतिम् ॥ ५.४२ ॥

एष्व् इति । प[पा]रमार्थिकवेदार्थज्ञो द्विज एतेषु मधुपर्कादिषु पदार्थेषु पशून् हिंसन् आत्मानं तांश् च पशून् उत्तमां गतिं स्वर्गादौ विचित्रशरीरसम्बन्धं प्रापयति । न चान्यत्रान्यदीयकर्मणः कथम् अन्यस्य फलप्राप्तिर् इति नोदनीयम्, शब्दप्रमाणको ऽर्थो यत्शब्दो बोध्यति तत् तथैव प्रतिपादनीयम् । अन्यथा शब्दप्रमाणकधर्मार्थफललाभे ऽपि क आश्वासः । पशुसञ्ज्ञपनमन्त्रमध्ये [-सञ्जवमन्त्र] वेद आम्नायते – “न वा उ एतन् म्रियसे न रिष्यसि । देवां इद् एषि पथिभिः सुगेभिः” इति । पशुं किल होता एवम् आह । न त्वै त्वं म्रियसे नापि रिष्यसि हिंस्यसे । किं तर्हि । सुगैः निकृष्टयोनिव्यवधानशून्यैः मार्गे देवान् एषि स्वर्गं प्राप्नोषीत्य् अर्थः । एवं चान्यत्र स्वपरोपकारभावात् ॥ ५.४२ ॥

गृहे गुराव् अरण्ये वा निवसन्न् आत्मवान् द्विजः ।

नावेदविहितां हिंसाम् आपद्य् अपि समाचरेत् ॥ ५.४३ ॥

एवं चान्यत्र स्वपरोपकारभावात् [-काराभावात्] गृह इति । गृहस्थवानप्रस्थब्रह्मचारि-भिक्ष्ववस्थः प्रशस्तात्मो द्विजः आपद्य् अपि अशास्त्रीयां **हिंसां **नाचरेत् ॥ ५.४३ ॥

या वेदविहिता हिंसा नियतास्मिंश् चराचरे ।

अहिंसाम् एव तां विद्याद् वेदाद् धर्मो हि निर्बभौ ॥ ५.४४ ॥

कथं पुनस् तुल्ये प्राणिव्यपादने लौकिक्या अधर्मः शास्त्रीयाया धर्म इत्य् अत आह **येति **। **या **शास्त्रनोदिता **हिंसा **स्थावरजङ्गमे **ऽस्मिन् **जगति अनादिकालप्रवृत्तां तां हिंसाकार्याभावाद् **अहिंसाम् एव विद्यात् **। अतो नान्यप्रमाणको धर्मो **वेदाद् **एव निर्बभौ प्रकाशताम् गतः । एवं च नात्र कुतार्किकवितर्का आक्रमन्ते ॥ ५.४४ ॥

यो ऽहिंसकानि भूतानि हिनस्त्य् आत्मसुखेच्छया ।

स जीवंश् च मृतश् चैव न क्वचित् सुखम् एधते ॥ ५.४५ ॥

यो ऽहिंसकानीति । **यो **ऽनुपघातकान् प्राणिनो हरिणादीन् आत्मसुखाभिलाषेण **हिनस्ति स **इहलोके परलोके **न **कदाचित् सुखं वर्धते ॥ ५.४५ ॥

यो बन्धनवधक्लेशान् प्राणिनां न चिकीर्षति ।

स सर्वस्य हितप्रेप्सुः सुखम् अत्यन्तम् अश्नुते ॥ ५.४६ ॥

यो बन्धनवधक्लेशान् इति । यो बन्धनवधत्रासादीन् **प्राणिनां **कर्तुं नेच्छति **स सर्वस्य **हितप्रापणेच्छाशिलो ऽनन्तं सुखं प्राप्नोति ॥ ५.४६ ॥

यद् ध्यायति यत् कुरुते रतिं बध्नाति यत्र च ।

तद् अवाप्नोत्य् अयत्नेन यो हिनस्ति न किञ्चन ॥ ५.४७ ॥

यद् ध्यायतीति । यश् चिन्तयति [यच् चिन्तयति] भगवदीश्वराराधनादि, **यद् **वा **कुरुते **हरिहरचरणनमस्कारादि, **यत्र **वा भवभक्तिभावनादौ **रतिं बध्नाति तत् **सर्वम् **अयत्नेन **प्राप्नोति य आतताय्यादीन् अपि प्राणिनो न हिनस्ति ॥ ५.४७ ॥

नाकृत्वा प्राणिनां हिंसां मांसम् उत्पद्यते क्वचित् ।

न च प्राणिवधः स्वर्ग्यस् तस्मान् मांसं विवर्जयेत् ॥ ५.४८ ॥

एवं मांसभक्षणप्रसङ्गेन गुणदोषानभिधायाधुना प्रकृतम् अनुसर्तुम् आह **नाकृत्वेति **। प्राणिहिंसाम् अन्तरेण क्वचिन् मांसम् उत्पद्यतेप्राणिवधश् च स्वर्गनिमित्तं न भवति, प्रत्युत नरकादिहेतुः **तस्माद् **अविधिना मांसभक्षणं वर्जयेत् ॥ ५.४८ ॥

समुत्पत्तिं च मांसस्य वधबन्धौ च देहिनाम् ।

प्रसमीक्ष्य निवर्तेत सर्वमांसस्य भक्षणात् ॥ ५.४९ ॥

**समुत्पत्तिं चेति **। शुक्रशोणिताभ्यां चिकित्सकोत्पादनाग्रेसराभ्यां समुत्पत्तिं मारणकाले च सकलक्रूरकर्माग्रणीभूतौ वधबन्धौ पर्यालोच्य विहितमांसभक्षणाद् अपि निवर्तेत ॥ ५.४९ ॥

न भक्षयति यो मांसं विधिं हित्वा पिशाचवत् ।

स लोके प्रियतां याति व्याधिभिश् च न पीड्यते ॥ ५.५० ॥

किम् उताविहितमांसभक्षणाद् इत्य् अविहितमांसभक्षणनिन्दार्थम् आह **न भक्षयतीति । यो **देवाद्यर्चनादिविधिपरित्यागेन पिशाचवन् मांसं **न भक्षयति स **सर्वलोकप्रियो भवति । **व्याधिभिश् च न पीड्यते **॥ ५.५० ॥

अनुमन्ता विशसिता निहन्ता क्रयविक्रयी ।

संस्कर्ता चोपहर्ता च खादकश् चेति घातकाः ॥ ५.५१ ॥

अनुमन्तेति । अन्येन हन्यमानम् अवलोक्य साध्व् अयं हन्ता करोतीति यो ऽनुमोदते सो ऽ**नुमन्ता । विशसिता **अङ्गविभागकरो न हन्ता (निहन्ता) वधकः, **क्रयविक्रयी **क्रीत्वा विक्रीणीते, **संस्कर्ता **रन्धकः **उपहर्ता **परिवेष्टा खादको भक्षयिता, एते **घातका **इति । अत्र च निहन्तारं वर्जयित्वा अन्येषाम् अघातकानां घातकवचनम् अशास्त्रितप्राणिवधे ऽनुमोदनादीन्य् अपि न कार्याणीत्य् एवमर्थं न तु घातकत्वप्रतिपादनार्थं कर्तव्याकर्तव्यप्रतिपादनपरत्वाद् अस्य शास्त्रस्य घातकखादकादीनां पृथक् प्रायश्चित्तदर्शनात् ॥ ५.५१ ॥

स्वमांसं परमांसेन यो वर्धयितुम् इच्छति ।

अनभ्यर्च्य पितॄन् देवांस् ततो ऽन्यो नास्त्य् अपुण्यकृत् ॥ ५.५२ ॥

स्वमांसम् इति । स्वशरीरमांसं **परमांसेन **देवार्चनरहितेन **यो वृद्धिं नेतुम् इच्छति **तस्माद् अधिको ऽन्यो ऽपुण्यकर्ता नास्तीत्य् अविधिमांसभक्षणनिन्दार्थवाद एव ॥ ५.५२ ॥

वर्षे वर्षे ऽश्वमेधेन यो यजेत शतं समाः ।

मांसानि च न खादेद् यत् तयोः पुण्यफलं समम् ॥ ५.५३ ॥

इदानीम् अशिष्टाप्रतिषिद्धमांसनिवृत्तिर् धर्मायेत्य् एतत् प्रतिपादयितुम् आह वर्षे वर्ष इति । प्रतिवर्षं **अश्वमेधेन यजेत **। तथा यो यावज्जीवं मांसं नाश्नाति तयोर् अश्वमेधमांसत्यागजनितस्य पुण्यस्य सम्बन्धि स्वर्गादिफलं तुल्यम् ॥ ५.५३ ॥

फलमूलाश्नैर् मेध्यैर् मुन्यन्नानां च भोजनैः ।

न तत्फलम् अवाप्नोति यन् मांसपरिवर्जनात् ॥ ५.५४ ॥

फलमूलाशनैर् इति । पवित्राणां फलमूलानां च भक्षणैः तथा ऋषिसम्बन्धिनाम् अन्नानां नीवारादीनाम् आरण्यानां भोजने तथाविधं फलं नाप्नोति ॥ ५.५४ ॥

मां स भक्षयितामुत्र यस्य मांसम् इहाद्म्य् अहम् ।

एतन् मांसस्य मांसत्वं प्रवदन्ति मनीषिणः ॥ ५.५५ ॥

मां स भक्षयितेति ॥ ५.५५ ॥

न मांसभक्षणे दोषो न मद्ये न च मैथुने ।

प्रवृत्तिर् एषा भूतानां निवृत्तिस् तु महाफला ॥ ५.५६ ॥

न मांस्भक्षणे दोष इति । शिष्टाप्रतिषिद्धमांसभक्षणमद्यपानमैथुनाचरणे कश्चिद् दोषो यस्माज् जङ्गमात्मकभूतानां एषा अशनपानमैथुनात्मिका **प्रवृत्तिः **स्वाभाविको ऽयं व्यापारः । वर्जनं पुनर् महापलम् । इति मांसवर्जनफलप्रसङ्गेन अशिष्टाप्रतिषिद्धमद्यमैथुनादिनिवृत्तिफलकथनपरम् एतत् ॥ ५.५६ ॥

प्रेतशुद्धिं प्रवक्ष्यामि द्रव्यशुद्धिं तथैव च ।

चतुर्णाम् अपि वर्णानां यथावद् अनुपूर्वशः ॥ ५.५७ ॥

प्रेतशुद्धिम् इति । प्रेतनिमित्तां शुद्धिं द्रव्याणां तैजसादीनां शुद्धिं ब्राह्मणादीनां चतुर्णां कार्त्स्न्येन ब्राह्मणाड्यानुपूर्व्या च प्रवक्ष्यामि ॥ ५.५७ ॥

दन्तजाते ऽनुजाते च कृतचूडे च संस्थिते ।

अशुद्धा बान्धवाः सर्वे सूतके च तथोच्यते ॥ ५.५८ ॥

दन्तजाते ऽनुजाते चेति । जातदन्ते ऽनुजाते च जातदन्ताद् बालतरे कृतचूडाकरणे चे । चकारात् कृतोपनयने च मृते सपिण्डसमानोदकाः सर्वे बान्धवाः अशुद्धास् तथा प्रसवे च सति तथैवाशुद्धा इत्य् उच्यते । कृतचूड इति च भूयिष्ठे तृतीय इति गृह्योक्तचूडाकालोपलक्षणेन कृतचूडत्वं विवक्षितम् । “रात्रिभिर् मासतुल्याभिः” इति गर्भात् प्रभृत्य् एव । भूयस्त्वेनाशौचवृद्धिदर्शनाद् इहापि च दन्तजाते ऽनुजाते चेति वयोद्वारेणैवोपक्रमाद् एव दशाहाशौचे ऽपि मुख्योपनयनकाललक्षणाविज्ञेयास् तु पञ्चवर्ष उपनीतस् तस्यापेक्षाया अभावात् तदानीम् एव परिपूर्णम् आशौचं भवति ॥ ५.५८ ॥

दशाहं शावम् आशौचं सपिण्डेषु विधीयते ।

अर्वाक् सञ्चयनाद् अस्थ्नां त्र्यहम् एकाहम् एव वा ॥ ५.५९ ॥

दशाहम् इति । सपिण्डेषु प्रेतेषु शवनिमित्तम् आशौचं दशाहोरात्राणां ब्राह्मणस्योपदिश्यते । क्षत्रियादेर् वक्ष्यमाणत्वाद् अस्थिमञ्चयनं वा यावच् चतुरहोरात्रान् आहिताग्नेः सञ्चयनं चतुर्थ्याम् इति गृह्ये चतुर्थे ऽहनि सञ्चयनविधानात् । त्र्यहं चैकाहं वा सर्वत्राशौचप्रकरणे ऽहर्ग्रहणं रात्रिग्रहणं चाहोरात्रप्रदर्शनार्थम् । वृत्तस्वाध्यायाद्यपेक्षश् चायं विकल्पस् तत्राध्ययनाग्निहोत्रौ प्रतिग्रहाद्यार्तितारतम्यापेक्षयैते विकल्पाः । यथायोगम् आश्रयणीयान् अन्विच्छातो ऽन्यतमपक्षाश्रयणम् । तथा च पराशरः।

एकाहाच् छुद्यते विप्रो यो ऽग्निवेदसमन्वितः ।

त्र्यहात् केवलवेदस् तु निर्गुणो दशभिर् दिनैः ॥

इति वृत्ताद्यपेक्षयैव शौचवैचित्र्यम् आह । वृत्ताद्यपेक्षे ऽपि शौचाशौचसङ्कोचे ब्राह्मणस्य च स्वाध्यायानिवृत्त्यर्थम् इत्येवमादिगौतमादिवाक्यदर्शनाद् अध्ययनादिमध्याद् यत एव यस्यार्तिस् तावन्मात्रानुष्ठानप्रयोजन एव तस्याशौचसङ्कोचो न कार्यान्तरे । यस्यैव च स्वाध्यायाद्यार्तिस् तस्यैवायम् आशौचसङ्क्ōचः । न पिण्डान्तरस्याग्निहोत्रार्थं स्नानोपस्पर्शनात् तत्कालं पिता शुचिर् इत्य् एवमादिशङ्खादिवाक्यदर्शनाद् इति । एवं चार्तिविषये शौचसङ्कोचे स्थिते तद्व्यतिरिक्तान्तरेषूभयत्र दशाहानि कुलस्यान्नं न भुज्येत ।

दानं प्रतिग्रहो होमं स्वाध्यायश् च निवर्तते ।

इत्य् एतद् वाक्यं भवत्य् एव । उत्तरत्रापि वृत्ताद्यपेक्षयैव विकल्पाविज्ञेयाः ॥ ५.५९ ॥

सपिण्डता तु पुरुषे सप्तमे विनिवर्तते ।

समानोदकभावस् तु जन्मनाम्नोर् अवेदने ॥ ५.६० ॥

अलौकिकत्वात् सपिण्डस्य लक्षणम् आह सपिण्डतेति । षट् पुरुषान् पितृपितामहादीन् अतिक्रम्य सप्तमे प्राप्ते सपिण्डत्वं निवर्तते । एवं पुत्रपौत्रादिष्व् अपि विज्ञेयम् । समानोदकत्वं पुनर् अयम् अस्मत्कुले जात एवन्नामश् चास्मद्वंश्यो ऽस्यादिपुरुष इत्येवं जन्मनामोभयापरिज्ञाने सति निवर्तते ॥ ५.६० ॥

यथेदं शावम् आशौचं सपिण्डेषु विधीयते ।

जनने ऽप्य् एवम् एव स्यान् निपुणां शुद्धिम् इच्छताम् ॥ ५.६१ ॥

सर्वेषां शावम् आशौचं मातापित्रोस् तु सूतकम् ।

सूतकं मातुर् एव स्याद् उपस्पृश्य पिता शुचिः ॥ ५.६२ ॥

जनन इति । सर्वेषाम् इति । यथा सपिण्डेषु दशाहं शावम् आशौचम् इत्यादिपक्षचतुष्टयं तथैव सपिण्डजनने ऽपि स्यात् सूतकं पुनर् उपस्पृश्यत्वतत्कारणं मातापित्रोर् एव न सपिण्डानां तद् अपि च पितुः ।

जाते पुत्रे पितुः स्नानं सचैलं तु विधीयते ।

माता सुद्ध्येद् दशाहेन स्नात्वा तु स्पर्शनं पितुः ॥

इति संवर्तदर्शनेन कृतस्नानोपस्पर्शणः पिता शुद्धो भवति । यत् त्व् अत्र दशाह एतैः को ऽतिदिश्यते नान्ये कल्पाः सर्वातिदेशे मातुर् अप्य् आचारविरोधस्येकाहादिप्राप्नोतीत्य् आहुः । तद् असत्, य अध्ययनाद्यर्थात्वेनैकाहादेर् इष्यमाणत्वात् कुतो मातुः प्राप्तिः ॥ ५.६१–६२ ॥

निरस्य तु पुमाञ् छुक्रम् उपस्पृश्यैव शुध्यति ।

बैजिकाद् अभिसम्बन्धाद् अनुरुन्ध्याद् अघं त्र्यहम् ॥ ५.६३ ॥

**निरस्य त्व् **इति । “स्नानं मैथुनिनः स्मृतम्” इति मिथुने स्नानविधानान् मैथुनाद् अन्यत्राबुद्धिपूर्वं रेतः स्रावे सत्य् उपस्पृश्यैव पुमान् शुद्ध्यति । तथा च मूत्रवद् रेतस उत्सर्गे शौचम् इत्य् आपस्तम्बो ऽब्रवीद् एतच् चेह प्रसङ्गेनाह । यत्र पुनर् जनने बीजनिमित्तमात्र एवाभिसम्बन्धो न शास्त्रतो यथा परपूर्वाभार्याप्रसवे तत्र त्र्यहम् आशौचम् अनुवर्तते । तथा च विष्णुः- “परपूर्वासु भार्यासु प्रसूतासु त्रिरात्रम्” इति ॥ ५.६३ ॥

अह्ना चैकेन रात्र्या च त्रिरारैर् एव च त्रिभिः ।

शवस्पृशो विशुध्यन्ति त्र्यहाद् उदकदायिनः ॥ ५.६४ ॥

अह्ना चैकेनेति । एकेनाहोरात्रेण नवभिश् चाहोरात्रैर् एवंवृत्तवशाद् दशाहेन निर्दिष्टेन मूल्येन ब्राह्मणस्य मूल्येन ब्राह्मणस्य स्नानालङ्कारनिर्हरणादिकारिणो ब्राह्मणः सपिण्डसमानोदकव्यतिरिक्ताः शुद्ध्यन्ति । स्नेहनिर्हरणे सति । “असपिण्डं द्विजं प्रेतम्” इति वक्ष्यति । धर्मार्थं पुनर् निर्हरणमाणानाम् आशौचाभाव एव । “एतद् वै परमं तपो यत् प्रेतम् अरण्यं नयन्ति” इति श्रुतेः ।

न तेषाम् अशुचं किञ्चित् पापं वाशुभकर्मणाम् ।

जलावगाहनात् तेषां सद्यः शौचं विधीयते ॥

इति पराशरस्मरणाच् चैवं वेदं पारशिष्यान् मूल्यविषये च तिष्ठते । उदकदायिनः केवलोदकं समानोदकास् त्रिरात्रेण शुद्ध्यन्ति ॥ ५.६४ ॥

गुरोः प्रेतस्य शिष्यस् तु पितृमेधं समाचरन् ।

प्रेतहारैः समं तत्र दशरात्रेण शुद्ध्यति ॥ ५.६५ ॥

गुरोर् इति । असपिण्डस्याचार्यादेर् गुरोः प्रेतस्यान्त्येष्टिं शिष्यः कृत्वा प्रेतनिर्हारिकैः पूर्वोक्तैस् तुल्यं दशरात्रेण शुद्ध्यति ॥ ५.६५ ॥

रात्रिभिर् मासतुल्याभिर् गर्भस्रावे विशुद्ध्यति ।

रजस्य् उपरते साध्वी स्नानेन स्त्री रजस्वला ॥ ५.६६ ॥

नृणाम् अकृतचूडानां विशुद्धिर् नैशिकी स्मृता ।

निर्वृत्तमुण्डकानां तु त्रिरात्राच् छुद्धिर् इष्यते ॥ ५.६७ ॥

रात्रिभिर् इति ।

नवमे दशमे वापि प्रबलैः सूतिमातुतैः ।

निःसार्यते बाण इव यन्त्रच्छिद्रेण सज्वरः ॥

इति याज्ञवल्क्येन प्रसवकालस्मरणात् नवमासाद् अर्वाक् गर्भस्रावे सति यावन् मासो गर्भस् तत्सङ्ख्याभिः रात्रिभिर् विशुध्यति । यत्र पुनर् अप्राप्ते काले जातस्य कथञ्चिज् जीवनं भवति तत्र परिपूर्णम् एवाशौचं वृद्धव्यवहाराभिव्यङ्ग्यत्वाच् छब्दार्थ्सम्बन्धस्य तथाविधेर् गर्भप्रस्रावशब्दाप्रयोगात् । रजस्वलास्त्री रजोनिवृत्तौ सत्यां स्नाने साध्यदृष्टार्थकर्मयोग्या भवति । स्पर्शयोग्या पुनस् त्रिरात्रं रजस्वलाशुचिर् भवतीति वसिष्ठस्मरणाच् चतुर्थ एवाह्नि स्नानं कृत्वा शुद्धा भवति ।

आदन्तजन्मनः सद्य आचूडान् नैशिकी स्मृता ।

त्रिरात्रम् आ व्रतादेशाद् दशरात्रम् अतः परम् ॥

इति याज्ञवल्क्येन स्मरणाद् दन्तजननाद् ऊर्ध्वं प्राक् चूडाकरणकालात् मृतानां नराणां सपिण्डेष्व् अहोरात्रेण शुद्धिः । चूडाकरणकालाद् ऊर्ध्वं प्राग् उपनयनकालात् मृतानां त्रिरात्रेण शुद्धिर् इष्यते । ५.६६–६७ ॥

ऊनद्विवार्षिकं प्रेतं निदध्युर् बान्धवा बहिः ।

अलङ्कृत्य शुचौ भूमाव् अस्थिसञ्चयनाद् ऋते ॥ ५.६८ ॥

ऊनद्विवार्षिकम् इति । मासमात्रोनवर्षद्वयप्रमाणं प्रेतम् अलङ्कृत्य ग्रामाद् बहिः शुद्धायां भूमौ कालान्तरसम्भाव्यस्थिसञ्चयनवर्जं बान्धवाः प्रक्षिपेयुः ॥ ५.६८ ॥

नास्य कार्यो ऽग्निसंस्कारो न च कार्योदकक्रिया ।

अरण्ये काष्ठवत् त्यक्त्वा क्षपेत त्र्यहम् एव तु ॥ ५.६९ ॥

नास्येति । अस्योनद्विवार्षिकस्य प्रेतस्याग्निसंस्कारो न कर्तव्यो नापि सकृत् प्रसिञ्चत्य् उदकं नामगोत्रेण वाग्यताः । इत्येवमादियाज्ञवल्क्याद्युक्तप्रक्रियोदकक्रियाद्यौर्ध्वदेहिकं किञ्चित् कर्तव्यम् । किं तर्हि, अग्निसंस्कारनिरपेक्ष्यम् अरण्ये काष्ठवत् परित्यज्य त्यहम् अपेताशौचे सति शास्त्रतकर्माणि न कुर्याद् अयं चाकृतचूडस्य त्र्यहविकल्पः, कृतचूडविषये त्र्यहस्योक्तत्वात् । अनर्थकम् इदं स्याद् विकल्पश् च वृत्ताद्यपेक्ष्येत्य् उक्तम् ॥ ५.६९ ॥

नात्रिवर्षस्य कर्तव्या बान्धवैर् उदकक्रिया ।

जातदन्तस्य वा कुर्युर् नाम्नि वापि कृते सति ॥ ५.७० ॥

नात्रिवर्षस्येति । यस्य तृतीयं वर्षं नापक्रान्तं तं तस्योदकक्रिया अग्निसंस्काराद्यौर्ध्वदेहिकं न कर्तव्यम् इत्य् उत्तरविधित्सार्थं पूर्वानुवादः । जातदन्तस्य चोदकक्र्या अग्निसंस्काराद्यौर्ध्वदेहिकं कर्तव्यं दशम्याम् उपस्थाप्य पिता नाम करोतीति गृह्यदर्शणाद् अस्माद् वाक्याद् ऊर्ध्वं कर्तव्यम् । यद्य् अकरणपक्षसम्भवे करणपक्षादरणं क्लेशावहं तथा पक्षद्वयाम्नानाज् जातन्दतानम्नो [*?] करणे प्रेतोपकारो भवत्य् अकरणात् पुनःप्रत्यवायाभाव इत्य् अवसीयते ॥ ५.७० ॥

सब्रह्मचारिन्य् एकाहम् अतीते क्षपणम् स्मृतम् ।

जन्मन्य् एकोदकानां तु त्रिरात्राच् छुद्धिर् इष्यते ॥ ५.७१ ॥

सब्रह्मचारिणीर्ति । सहाध्यायिनि प्रेते [ए]काहम् आशौचं समानोदकानां पुनर् जनने सति त्रिरात्राच् छुद्दिर् इष्यते । त्र्यहात् तूदकदायिन इति प्रथमविषयम् उक्तम् ॥ ५.७१ ॥

स्त्रीणाम् असंस्कृतानां तु त्र्यहाच् छुध्यन्ति बान्धवाः ।

यथोक्तेनैव कालेन शुध्यन्ति तु सनाभयः ॥ ५.७२ ॥

स्त्रीणाम् इति । वाग्दत्तानां न विवाहितानां भर्त्रादयस् त्र्यहाच् छुध्यन्ति । भ्रात्रादयः पुनः स्त्रीणाम् अकृतचूडानाम् इत्य् एतद् उक्तेन विधिनेति ॥ ५.७२ ॥

अक्षारलवणान्नाः स्युर् निमज्जेयुश् च ते त्र्यहम् ।

मांसाशनं च नाश्नीयुः शयीरंश् च पृथक् क्षितौ ॥ ५.७३ ॥

**अक्षारलवणान्ना **इति । बिडलवणादिक्षारवर्जितम् अन्नम् अश्नीयुः । नदादौ मृद्वावर्जं स्नानं कुर्युः । “मांसवर्जं चान्नम् आ शुद्धेः” इति गौतमस्मरणात् । यावद् आशौचं नाश्नीयुर् भूमौ चैककाः शयीरन् ॥ ५.७३ ॥

सन्निधाव् एष वै कल्पः शावाशौचस्य कीर्तितः ।

असन्निधाव् अयं ज्ञेयो विधिः सम्बन्धिबान्धवैः ॥ ५.७४ ॥

सन्निधाव् एष इति । प्रेतदाहावस्थानापरिज्ञानेन सत्य् एष शावाशौचस्य कीर्तितो विधिः कथितो देशाण्तरावस्थानाद् अज्ञाने सत्य् अयं वक्ष्यमाणो विधिः सपिण्डसमानोदकैर् बोद्धव्यः

॥ ५.७४ ॥

विगतं तु विदेशस्थं शृणुयाद् यो ह्य् अनिर्दशम् ।

यच् छेषं दशरात्रस्य तावद् एवाशुचिर् भवेत् ॥ ५.७५ ॥

विगतं त्व् इति । तच् छेषं दशरात्रं स्याद् इति । देशान्तरस्थं मृतं जातं वा अनिगतदशाहादिकं श्रुत्वा दशरात्रादेर् यच् छिष्टं तावद् एवाशौचवान् भवेन् न तु परिज्ञानात् प्रभृति दशाहाशौचम् आद्रियते ॥ ५.७५ ॥

अतिक्रान्ते दशाहे च त्रिरात्रम् अशुचिर् भवेत् ।

संवत्सरे व्यतीते तु स्पृष्ट्वैवापो विशुद्ध्यति ॥ ५.७६ ॥

अतिक्रान्त इति । आशौचातिक्रमे सपिण्डजननं मरणं वा ज्ञात्वा त्रिरात्रम् आशौचवान् भवति । संवत्सरे पुनर् अतीते ज्ञात्वा स्नात्वैव शुध्यति ॥ ५.७६ ॥

निर्दशं ज्ञातिमरणं श्रुत्वा पुत्रस्य जन्म च ।

सवासा जलम् आप्लुत्य शुद्धो भवति मानवः ॥ ५.७७ ॥

निर्दशं ज्ञातिमरणम् इति । निर्गतदशाहादिकं सपिण्डमरणं श्रुत्वा पुत्रस्य च जन्म मनुष्यः श्रुत्वा सचैलं स्नात्वा शुद्धो भवत्य् एवं चान्तरोक्तेन । त्रिरात्रेणास्य सहस्ये विकल्पः ॥ ५.७७ ॥

बाले देशान्तरस्थे च पृथक्पिण्डे च संस्थिते ।

सवासा जलम् आप्लुत्य सद्य एव विशुध्यति ॥ ५.७८ ॥

बाल इति । **आदेशान्तरस्थे **ऽपि दन्तजात्यूने **बाले देशान्तरस्थे **वा बाले ऽपि **असपिण्डसमानोदके । देशान्तरस्थेति **। मृते सचैलं स्नात्वा **सद एव विशुध्यति **। देशान्तरस्थसपिण्डजननमरणयोस् तच्छेषशुद्धिर् उक्ता । समानोदकानां च त्र्यहाच् छुद्धिर् उक्ता तद्वैकल्पिकम् अनेन सद्यःशौचम् उच्यते ॥ ५.७८ ॥

अन्तर्दशाहे चेत् स्यातां पुनर्मरणजन्मनी ।

तावत् स्याद् अशुचिर् विप्रो यावत् तत् स्याद् अनिर्दशम् ॥ ५.७९ ॥

अन्तर्दशाह इति । तावत् स्याद् अशुचिर् विप्रो यावत् तत् स्याद् अनिर्दशम् । दशाहादिमध्ये यदि जन्मपुनर्मरणे मरणं जनने जननं स्यात् । पुनःशब्दात्,

सूतके सूतकं भूयो यद्य् अपि स्यात् कथञ्चन ।

तच्छेषेणैव शुद्धिः स्यान् मृतके मृतकं तथा ॥

इत्य् अङ्गिरसः स्मरणात् । च तदा तावत्कालम् एव ब्राह्मणादेर् आशौचं स्याद् यावत् पूर्वोत्पन्नम् आशौचं नापगतं तत् पश्चाद् अतीतम् । दशाहादि यावत् तत्रापि च “रात्रिशेषे द्वाभ्यां प्रभाते तिसृभिः” इति गौतमीयो विशेषो द्रष्टव्यः ॥ ५.७९ ॥

त्रिरात्रम् आहुर् आशौचम् आचार्ये संस्थिते सति ।

तस्य पुत्रे च पत्न्यां च दिवारात्रम् इति स्थितिः ॥ ५.८० ॥

त्रिरात्रम् इति । आचार्ये प्रेते त्रिरात्रम् आशौचम् आहुस् तत्पुत्रपत्न्योश् चाहोरात्रम् इति शास्त्रमर्यादा ॥ ५.८० ॥

श्रोत्रिये तूपसम्पन्ने त्रिरात्रम् अशुचिर् भवेत् ।

मातुले पक्षिणीं रात्रिं शिष्यर्त्विग्बान्धवेषु च ॥ ५.८१ ॥

श्रोत्रिय इति । वेदाध्यायिनि केनापि मैत्र्यादिना निमित्तेन निकटवर्तिश् च सब्रह्मचारिण्य् अपि प्रेते त्रिरात्रम् आशौचवान् भवति । मातुलशिष्यर्विग्भागिनेयादिषु उभयतो ऽहर्द्वयं पक्षद्वयम् इव । यस्यास् तां रात्रिम् आशौचं बान्धवत्वे ऽपि मातुलस्य पुनर्वचनं मातुलेयादीनां विकल्पार्थम् ॥ ५.८१ ॥

प्रेते राजनि सज्योतिर् यस्य स्याद् विषये स्थितः ।

अश्रोत्रिये त्व् अहः कृत्स्नम् अनूचारे तथा गुरौ ॥ ५.८२ ॥

प्रेते राजनि सज्योतिर् यस्य स्याद् विषयेषु चेति । यत्सम्बन्धिनि देशे ब्राह्मणादिस्थितः तस्मिन् राजनि प्रेते सज्योतिषा दिनादित्येन रात्रौ तारकाभिः सह वर्तते इति सज्योतिर् दिवोत्पन्ने दिवैवाशौचं रात्राव् उपजायते रात्राव् एवेति । “श्रोत्रिये सङ्गते त्रिदिवसम्” इत्य् उक्तम् अश्रोत्रिये पुनः सङ्गते ऽहः समग्रं रात्रौ न भवति । रात्राव् उत्पन्ने रात्रिम् एव नाहौ अङ्गादि अवक्तिर् इव (?) “अल्पं वा बहु वा यस्य” इत्य् एवं धर्मके गुराव् एवम् एव ॥ ५.८२ ॥

शुद्ध्येद् विप्रो दशाहेन द्वादशाहेन भूमिपः ।

वैश्यः पञ्चदशाहेन शूद्रो मासेन शुद्ध्यति ॥ ५.८३ ॥

शुद्ध्येद् इति । अनुपूर्वशश् चतुर्णां वर्णानां प्रेतशुद्धिं वक्ष्यामीत्य् उक्तमतापूर्वो दशाहविधिः । ब्राह्मणविषय एवैवं चासौ दशाहेन ब्राह्मणः शुद्ध्येद् इतीतरविधित्सया विहितम् अनूद्यते । जननमरणनिमित्त आशौचे । क्षत्रियो द्वादशेन वैश्यः पञ्चदशाहेन शूद्रो मासेन शुध्यति ॥ ५.८३ ॥

न वर्धयेद् अघाहानि प्रत्यूहेन् नाग्निषु क्रियाः ।

न च तत् कर्म कुर्वाणः सनाभ्यो ऽप्य् अशुचिर् भवेत् ॥ ५.८४ ॥

न वर्धयेद् इति । यस्याग्निहोत्राद्यपेक्षम् अर्वाक् सञ्चयनाद् अस्थ्नाम् इत्य् एवमाद्यशौचसङ्कोच उक्तः स तु क्रियार्थं तावद् एवाशौचम् आश्रयेन् न तु निष्कर्मा सुखम् आसिष्युः इति बुद्ध्या । अशौचसंयुक्तान्य् अहानि वर्धयेत् तस्यां क्रियायां दशाहं नाश्रयेत् । रतेष् चाग्निष्व् अपि होत्रादिक्रिया न निरस्यन् न च तच्छ्रौतं कर्म कुर्वन् सपिण्डो ऽप्य् अशुद्धो भवति किं पुनर् अन्यत् तस्माद् अन्यं कारयेत् । तद् उक्तं गृह्ये “नित्यानि निवर्तन्ते । वैतनवर्जं शालाग्नौ चैके अन्य एतानि कुर्युः” इति ॥ ५.८४ ॥

दिवाकीर्तिम् उदक्यां च पतितं सूतिकां तथा ।

शवं तत्स्पृष्टिनं चैव स्पृष्ट्वा स्नानेन शूध्यति ॥ ५.८५ ॥

दिवाकीर्तिम् इति । चण्डालरजस्वलापतितसूतिकाशवतत्स्पृष्टिनः स्पृष्ट्वा स्नानेन शूद्ध्यति । अन्ये तु चण्डालादिस्पर्शे पि तत्स्पृष्टिन्यायम् इच्छन्ति । किं तु,

उदक्याशुचिभिः स्नायात् संस्पृष्टस् तैर् उपस्पृशेत् । [य्ध् ३.३०]

इत्य् एवं याज्ञवल्क्यवचनम् अस्ति । इत्थं स्मृत्यर्थे ऽपि समाचारो ऽन्वेष्यः ॥ ५.८५

आचम्य प्रयतो नित्यं जपेद् अशुचिदर्शने ।

सौरान् मन्त्रान् यथोत्साहं पावमानीश् च शक्तितः ॥ ५.८६ ॥

आचम्येति । प्रकृतचण्डालाद्यशुचिदर्शने सर्वदाचम्य शुचिः । स सूर्यदैवत्यान् मन्त्रान् यथासामर्थ्यं पावमानीश् च “स्वादिष्ठये”त्याद्याः शक्त्या जपेत् ॥ ५.८६ ॥

नारं स्पृष्ट्वास्थि सस्नेहं स्नात्वा विप्रो विशुध्यति ।

आचम्यैव तु निःस्नेहं गाम् आलभ्यार्कम् ईक्ष्य वा ॥ ५.८७ ॥

नारम् इति । स्नेहयुक्तं मानुषास्थि स्पृष्ट्वा ब्राह्मणादि स्नात्वा विशुध्यति । स्नेहशून्यं पुनः स्पृष्ट्वोपस्पृश्य गोस्पर्शनादित्येक्षणयोर् अन्यतरत् कृत्वा विशुद्ध्यति ॥ ५.८७ ॥

आदिष्टी नोदकं कुर्याद् आ व्रतस्य समापनात् ।

समाप्ते तूदकं कृत्वा त्रिरात्रेणैव शुध्यति ॥ ५.८८ ॥

आदिष्टी नोदकम् इति । व्रतादेशयोगाद् आदिष्टी ब्रह्मचारी ब्रह्मचारिणः “शवकर्मणां व्रतान् निवृत्तिर् अन्यत्र मातापित्रोर्” इति वसिष्ठस्मरणान् मातापितृव्यतिरिक्तानां सपिण्डादीनाम् अनिष्टोद्कसमावर्तनान् न कुर्यत् । समाप्ते पुनः ब्रह्मचर्ये तेभ्यो ऽनिष्टोदकं दत्वा त्रिरात्रेणैव शुध्यति ॥ ५.८८ ॥

वृथासङ्करजातानां प्रव्रज्यासु च तिष्ठताम् ।

आत्मनस् त्यागिनां चैव निवर्तेतोदकक्रिया ॥ ५.८९ ॥

वृथासङ्करजातानाम् इति । वृथाजातानां बाहुल्येनोत्सृष्टस्वधर्माणां सङ्करजातानां वा नियुक्तासुतादीनां व्यतिक्रमसाहचर्याच् च वेदबाह्येषु च व्रतेषु रक्तपटादित्वादिषु वर्तमानानां तथा ॥ ५.८९ ॥

पाषण्डम् आश्रितानां च चरन्तीनां च कामतः ।

गर्भभर्तृद्रुहां चैव सुरापीनां च योषिताम् ॥ ५.९० ॥

पाखण्डम् इति । वेदब्राह्मव्रतवर्तिनां कुलटानां च यथा गर्भभर्तृघ्नीनां सुरापीणां च द्विजातिवन् निषेधातिक्रमेण चरन्तीनां च यथासङ्ख्यं द्विजातिस्त्रियं प्रत्याह । सुरालशुनपलाण्डुगृञ्जनकादीन्य् अभक्ष्याणि वर्जयेद् एवंविधानां स्त्रियाम् उदकक्रियाद्यौर्ध्वदेहिकम् आशौचं निवर्तेत ॥ ५.९० ॥

आचार्यं स्वम् उपाध्यायं पितरं मातरं गुरुम् ।

निर्हृत्य तु व्रती प्रेतान् न व्रतेन वियुज्यते ॥ ५.९१ ॥

**आचार्यम् **इति । स्वम् आचार्यं न गुरौ सन्निहिते गुरुवृत्तिम् आचरेद् इति न्यायेनाचार्यम् अपि मातृपित्रुपाध्यायम् “अल्पं वा बहु वा यस्य" इत्येवंविधं गुरुं प्रेतान् निर्हृत्य ब्रह्मचारी लुप्तव्रतो न भवति । एवं वा निर्हृत्य भवतीति गम्यते ॥ ५.९१ ॥

दक्षिणेन मृतं शूद्रं पुरद्वारेण निर्हरेत् ।

पश्चिमोत्तरपूर्वस् तु यथायोगं द्विजन्मनः ॥ ५.९२ ॥

दक्षिणेनेति । शूद्रं मृतं दक्षिणदिग्वर्तिना नगरादिद्वारेण निर्हरेत् । पश्चिमोत्तरपूर्वदिग्वर्तिभिः पुरद्वारैर् यथाक्रमं वैश्यक्षत्रियब्राह्मणान् निर्हरेत् । अमङ्गलत्वाच् छूद्रादिप्रक्रमेणात्र धर्माभिधानम् ॥ ५.९२ ॥

न राज्ञाम् अघदोषो ऽस्ति व्रतिनां न च सत्त्रिणाम् ।

ऐन्द्रं स्थानम् उपासीना ब्रह्मभूता हि ते सदा ॥ ५.९३ ॥

न राज्ञाम् इति । यतो राजान ऐन्द्रं स्थानम् आधिपत्यपदम् आश्रिता ब्रह्मचारिणः चान्द्रायणादिव्रतप्रवृत्ताः सत्त्रिणश् च गवामयनादिस्था ब्रह्मत्वप्राप्त्यभिमुखा अतस् तेषां स्वकर्मण्य् आशौचाख्यो दोषो न भवति । तथा च विष्णुः- “न राज्ञां राजकर्मणि न व्रतिनां व्रते न सत्रिणां सत्त्रे च” इति एवं च ॥ ५.९३ ॥

राज्ञो माहात्मिके स्थाने सद्यःशौचं विधीयते ।

प्रजानां परिरक्षार्थम् आसनं चात्र कारणम् ॥ ५.९४ ॥

राज्ञ इति । महानात्मस्वरूपं यस्य स्थानस्य तस्मिन् राजाख्ये पदे वर्तमानस्य राज्ञः सद्यह्शौचम् उपदिश्यते । अत्र च सद्यःशौचे शान्तिहोमदुर्भिक्षान्नदानादि-प्रजापरिपालनार्थं राज्ञो यद् अवस्थानं तत् कारणम् ॥ ५.९४ ॥

डिम्भाहवहतानां च विद्युता पार्थिवेन च ।

गोब्राह्मणस्य चैवार्थे यस्य चेच्छति पार्थिवः ॥ ५.९५ ॥

डिम्बाहवहतानाम् इति । डिम्बे जनौघसम्पीडने अशस्त्रकलहे वा हतानां तथा सङ्ग्रामाशनिहतानां राज्ञा वा सङ्ग्रामे ऽपि हतानां गोब्राह्मणपरित्राणार्थम् असङ्ग्रामे ऽपि व्याघ्रादिव्यापादितानां यस्य च पुरोहितादेः स्वकार्यविघातार्थं पृथिवीपतिर् इच्छति तस्यापि सद्यःशौचम् ॥ ५.९५ ॥

सोमाग्न्यर्कानिलेन्द्राणां वित्ताप्पत्योर् यमस्य च ।

अष्टानां लोकपालानां वपुर् धारयते नृपः ॥ ५.९६ ॥

सोमाग्न्यर्कानिलेन्द्राणाम् इति । चन्द्राग्न्यादित्यवाय्विन्द्रयमानां धनपतेः वैश्रवणस्यापां पतेश् च वरुणस्येत्य् एषां लोकपालानां सम्बन्धि तेजः पार्थिवो धारयति ॥ ५.९६ ॥

लोकेशाधिष्ठितो राजा नास्याशौचं विधीयते ।

शौचाशौचं हि मर्त्यानां लोकेशप्रभवाप्य् अयम् ॥ ५.९७ ॥

लोकेशाधिष्ठित इति । एवमुक्तनीत्या यतो लोकेश्वराक्रान्तो राजानो ऽन्यस्याशौचं विधीयते स्वकार्यम् उपदिश्यते । यस्मान् मनुष्याणां यच् छौचम् आशौचं तल् लोकेशेभ्यः प्रभवत्य् अपैति च । तस्माद् अन्यशौचाशौचोत्पादनोपासनसमर्थलोकेशरूपस्य राज्ञः कुत एवात्मनो ऽशौचम् इति प्रकृतार्थस्तुतिः ॥ ५.९७ ॥

उद्यतैर् आहवे शस्तैः क्षत्रधर्महतस्य च ।

सद्यः सन्तिष्ठते यज्ञस् तथाशौचम् इति स्थितिः ॥ ५.९८ ॥

उद्यतैर् इति । सङ्ग्राम उद्यतैः खड्गादिभिः अपराङ्मुखत्वादिक्षत्रियधर्मयुक्तस्य हतस्य तत्क्षणाद् एव यज्ञसमाप्तिस् तत्कालम् एव यज्ञफलसम्बन्धात् तथाशौचम् अपि तत्क्षणाद् एव समाप्तिम् एतीत्य् एवं शास्त्रमर्यादा ॥ ५.९८ ॥

विप्रः शुध्यत्य् अपः स्पृष्ट्वा क्षत्रियो वाहनायुधम् ।

वैश्यः प्रतोदं रश्मीन् वा यष्टिं शूद्रः कृतक्रियः ॥ ५.९९ ॥

विप्र इति । आशौचान्ते कृतश्राद्धादिक्रियो ब्राह्मणो ऽप औचित्याद् धस्तेन स्पृष्ट्वा क्षत्रियश् च खड्गादिकं वैश्यो बलीवर्दादिप्रतोदम् अयःप्रान्तं प्रग्रहं वाश्वादिनियमरज्जुं शूद्रो यष्टिं स्पृष्ट्वा शुध्यति ॥ ५.९९ ॥

एतद् वो ऽभिहितं शौचं सपिण्डेषु द्विजोत्तमाः ।

असपिण्डेषु सर्वेषु प्रेतशुद्धिं निबोधत ॥ ५.१०० ॥

एतद् इति । हे ब्राह्मणाः । सपिण्डेषु प्रेतेषु यच् छैचं युष्माकम् उक्तं अधुना त्व् असपिण्डेषु सर्वेषु मृतेषु प्रेतशुद्धिं शृणुतेति भृगुर् महर्षीन् आह ॥ ५.१०० ॥

असपिण्डं द्विजं प्रेतं विप्रो निर्हृत्य बन्धुवत् ।

विशुध्यति त्रिरात्रेण मातुर् आप्तांश् च बान्धवान् ॥ ५.१०१ ॥

असपिण्डम् इति । असपिण्डं मृतं ब्राह्मणं ब्राह्मणो बन्धुवत् स्नेहेन निर्हृत्य मातुश् च सन्निकृष्टान् बान्धवान् मातुलादीन् निर्हृत्य त्रिरात्रेण शुध्यति ॥ ५.१०१ ॥

यद्य् अन्नम् अत्ति तेषां तु दशाहेनैव शूध्यति ।

अनदन्न् अन्नम् अह्नैव न चेत् तस्मिन् हृहे वसेत् ॥ ५.१०२ ॥

यदीति । स निर्हारको यदि तेषाम् आशौचिनां सम्बन्ध्यन्नम् अश्नाति तदा दशाहेन शुध्यति, न त्रिरात्रेण । अन्नं पुनस् तत्सम्बन्धि अनश्नन् यदि तत्सम्बन्धिनि गृहे न निवसेत् तदाहोरात्रेणैव, न त्रिरात्रदशरात्राभ्याम् । एवं च निर्हारकस्य निवासान्नभोजनरहितस्याहोरात्रम् अनश्नतस् तत्र वसतः पूर्वोक्तं त्रिरात्रम् अश्नतो वसतश् च दशाहम् ॥ ५.१०२ ॥

अनुगम्येच्छया प्रेतं ज्ञातिम् अज्ञातिम् एव च ।

स्नात्वा सचैलं स्पृष्ट्वाग्निं घृतं प्रास्य विशुध्यति ॥ ५.१०३ ॥

अनुगम्येति । बन्धुम् अन्यं प्रेतं वा बुद्धिपूर्वकम् अनुगम्य स्नानं कृत्वा ततो ऽग्निं स्पृष्ट्वा तदनु च घृतप्राशनं कृत्वा विशुध्यति ॥ ५.१०३ ॥

न विप्रं स्वेषु तिष्ठत्सु मृतं शूद्रेण नाययेत् ।

अस्वर्ग्या ह्य् आहुतिः सा स्याच् छूद्रसंस्पर्शदूषिता ॥ ५.१०४ ॥

नेति । पुत्रादिर् विप्रं मृतं समानजातिषु तिष्ठत्सु स्थितेषु सत्सु शूद्रेण न निर्हारयेत् । यस्मात् सा शारीराहुतिः शूद्रस्पर्शदुष्टा सती मृतस्य स्वर्गलोकसाधनी न भवत्य् एवं च दोषनिर्देशात् स्वेषु तिष्ठत्सु इति विवक्षितम् ॥ ५.१०४ ॥

ज्ञानं तपो ऽग्निर् आहारो मृन् मनो वार्य् उपाञ्जनम् ।

वायुः कर्मार्ककालौ च शुद्धेः कर्तॄनि देहिनाम् ॥ ५.१०५ ॥

इदानीं कानिचिद् वाक्यान्तरसिद्धानि शुद्धिसाधनानि सङ्क्षेपावबोधाय प्रसङ्गतो ऽनुवदितुं कानिचिच् च प्रसङ्गतो ऽंशपूर्वानि विधातुम् आह **जानम् **इति । ज्ञानं बुद्धेः शुद्धिर्तर्तृ, यथा वक्ष्यति “बुद्धिर् ज्ञानेन शुध्यति” इति । सङ्कल्पकं मनो निश्चायिका बुद्धिर् इति । बुद्धिर् मनसो भेदः । एवं तपो वेदविदां यथाभिधास्यति “तपसा वेदवित्तमाः” इत्य् अग्निर् यथा वदिष्यति “पुनःपाकेन मृन्मयम्” इत्य् आहार्तो यथा कथयिष्यति “हविष्येन यवाग्वा वा” इति मृवारिणी यथा जल्पिष्यति “मृद्वाति चादेयम् अर्थवद्” इति । मनो यथा ख्यास्यति “मनःपूतं सदा भवेद्” इति । उपाञ्जनम् उपलेपनं यथा भणिष्यति “सम्माऋजनेनाञ्जनेन” इति । वायोर् इह शास्त्रे शोध्यं न निर्दिष्टं तस्य मृत्पर्णतृणकाष्टानां च चाण्डालादिवायसैः स्पर्शने शौचम् “सोमसूर्यांसुमारुतैः” इत्य् एवमादिविप्लाव्याद्युक्तं कर्म यथा कीर्तयिष्यति “यजेत वाश्वमेधेन” इत्यदित्यौ यथोक्तं “गाम् आलभ्यार्कं वीक्ष्य वा” इति कालो यथोक्तम् “शुध्येद् विप्रो दशाहेन” इत्य् एवं ज्ञानादीनि मनुष्याणां साक्षाद् उपयोग्यद्रव्यद्वारेण च शुद्धेः कर्तॄणि ॥ ५.१०५ ॥

सर्वेषाम् एव शौचानाम् अर्थशौचं परं स्मृतम् ।

यो ऽर्थे शुचिर् हि स शुचिर् न मृद्वारिशुचिः शुचिः ॥ ५.१०६ ॥

सर्वेषाम् इति । सर्वेषां मृद्वारीन्दिर्यमनःशौचादीनां मध्याद् अर्थशौचं परद्रादीच्छापरिहारार्थं प्रकृष्टम् ऋषीभिः स्मृतम् । यस्माद् यो ऽर्थे शुद्धः शुद्धो बोद्धव्यो यः पुनर् मृद्वारिशुचिर् अर्थे चाशुद्धेः सो ऽशुद्ध एव ॥ ५.१०६ ॥

क्षान्त्या शुध्यन्ति विद्वांसो दानेनाकार्यकारिणः ।

प्रच्छन्नपापा जप्येन तपसा वेदवित्तमाः ॥ ५.१०७ ॥

क्षाण्त्येति । ये शास्त्रज्ञास् ते ऽपराधक्षमया शुध्यन्ति । यथा वक्ष्यति (११.२४५) “महायज्ञ(क्रिया) क्षमा । नाशयन्त्य् आसु पापानि” इति । अकार्यकारिणो दानेन । यथा वक्ष्यति “सर्वस्वं वा वेदविदे” इति । अप्रख्यातपापा जप्येन । यथा वक्ष्यति परं तरत्समन्दीयम् इति । वेदतत्त्वार्थज्ञाश् चान्द्रायणादिना प्रायश्चित्तप्रकारेण वक्ष्यमाणेन ॥ ५.१०७ ॥

मृत्तोयैः शुध्यते शोध्यं नदी वेगेन शुध्यति ।

रजसा स्त्री मनोदुष्टा सन्न्यासेन द्विजोत्तमाः ॥ ५.१०८ ॥

मृत्तोयैर् इति । **मृत्तोयैः शुध्यते **शोधनीयं तावन् मृद्वारि चादेयम् इति वक्ष्यमाणेन प्रकारेण । नदी च निदाघादाव् अत्यल्पप्रवाहतया शुध्यत्य् उपहतपुलिनदेशा सती वर्षादिजनितेनोदकवेगेनावक्षालितपारावारतया शुध्यति । सकृत् स्त्री च कथञ्चिन् मनसा परपुरुषसङ्कल्पा आर्तवेन शुध्यति । ब्राह्मणाश् च सन्न्यासेन षष्टाध्यायवक्ष्यमाणेन शुध्यन्ति ॥ ५.१०८ ॥

अद्भिर् गात्राणि शुध्यन्ति मनः सत्येन शुध्यति ।

विद्यातपोभ्यां भूतात्मा बुद्धिर् ज्ञानेन शुध्यति ॥ ५.१०९ ॥

अद्भिर् इति । अङ्गानि स्वेदाद्युपहतानि अद्भिः शुध्यन्तिमनश् च कथञ्चिद् असत्सङ्कल्पोपहतं सत्याभिधानेन शुध्यति । पारमार्थिकश् चात्मापरमात्माख्यकोशकारकृमिवद् आत्मैव रागादिमलजालावबद्धो विद्ययोपनिषदाद्युक्तात्मोपासनाभिस् तपसा चाखिलमललोपी ब्रह्मस्वरूप एवावतिष्टते । तथा बुद्धिर् विपरीतार्थग्राहिणी तेनाशुद्धासती यथा भूतार्थग्राहिणा विज्ञानेन शुध्यति ॥ ५.१०९ ॥

एष शौचस्य वः प्रोक्तः शारीरस्य विनिर्णयः ।

नानाविधानां द्रव्याणां शुद्धेः शृणुत निर्णयम् ॥ ५.११० ॥

एष इति । **एष **शरीरसम्बन्धिनः शौचस्य युष्माकं विचार उक्तः । इदानीं नानाप्रकाराणां द्रव्याणां शुद्धेः निर्णयं शृणुत ॥ ५.११० ॥

तैजसानां मणीनां च सर्वस्याश्ममयस्य च ।

भस्वनाद्भिर् मृदा चैव शुद्धिर् उक्ता मनीषिभिः ॥ ५.१११ ॥

तैजसानाम् इति । अग्नितेजसा यानि द्रवीभवन्ति तानि तैजसानि सुवर्णादीनि । एवं प्रसिद्धेस् तेषां मणीनां पाषाणमयस्य च सर्वस्य चकारान् मृदादेर् अपि अद्भिर् मृद्भस्मनोश् चान्यतरेण लेपगन्धापकर्षणाख्यैककार्यत्वाद् विकल्पितेन विद्वद्भिर् मन्वादिभिः शुद्धिर् उक्ता । इदं समानजातीयोच्छिष्टलेपामेध्यद्रव्यसंस्पर्शादिष्व् अल्पोपघातविषयम् । तथा चोपघातविषये शुद्ध्यन्तराणि दृश्यन्ते । यथा बौधायनादिभिस् तैजसानां मूत्रपुरीषशुक्रासृक्कुणपमयैर् अत्यन्तवासितानाम् आवर्तनम् । अल्पकालसंसर्गेषु परिलेखनम्, स्पर्शमात्रोपघाते तु त्रिःसप्तकृत्वः परिमार्जनायुक्तम् । आवर्तनं पुनःकरणम्, परिलेखनं तक्षणम् ॥ ५.१११ ॥

निर्लेपं काञ्चनं भाण्डम् अद्भिर् एव विशुध्यति ।

अब्जम् अश्ममयं चैव राजतं चानुपस्कृतम् ॥ ५.११२ ॥

निर्लेपम् इति । उच्छिष्टादिलेपरहितं पानीयपानाद्युपहतं सौवर्णभाण्डम् अब्जं च रूप्यमारकतपूरितम् अद्भिर् एव केवलाभिर् विशुध्यति, न मृद्भस्मसहिताभिः ॥ ५.११२ ॥

अपाम् अग्नेश् च संयोगाद् धर्मे रौप्यं च निर्बभौ ।

तस्मात् तयोः स्वयोन्यैव निर्णेको गुणवत्तरः ॥ ५.११३ ॥

अपाम् इति । “अग्निर् वै वारुणानीरकामयत” इत्यादि वेदे श्रूयते । तत्राग्नेः सुवर्णम् इन्द्रियं वरुणादीनां रजतम् इत्य् एवं श्रूयते । एवं चाग्न्यापःसंयोगाद् यतः सुवर्णं रूप्यं चोद्भूतम् अतः तयोः स्वकारणेनैवोदकाख्येन तथैककारणकेन भस्मनैव शोधनं प्रशस्यतरम् एवं च मृदः काञ्चनरजतयोर् भस्मातिशयवत् ॥ ५.११३ ॥

ताम्रायःकांस्यरैत्यानां त्रपुणः सीसकस्य च ।

शौचं यथार्हं कर्तव्यं क्षाराम्लोदकवारिभिः ॥ ५.११४ ॥

**ताम्रायःकांस्यरैत्यानाम् **इति । ताम्रलोहकांस्यपित्तलत्रपुसीसानां भस्मोदकलाञ्जिककादिभिर् मलनिर्हरणातिक्रमेण शौचं कर्तव्यम् । इदं च यत्र मृद्भस्मनाम् उच्च्छिष्टादिमलनिर्हरणासामर्थं तद्विषयम्, यथार्हवचनात् ॥ ५.११४ ॥

द्रवाणां चैव सर्वेषां शुद्धिर् उत्पवनं स्मृतम् ।

प्रोक्षणं संहतानां च दारवाणां च तक्षणम् ॥ ५.११५ ॥

द्रवाणाम् इति । **द्रवाणां **घृतादीनां बौधायनाद्यभिहितप्रस्थमात्रप्रमाणानां श्वकाकाद्युच्छिष्टानाम् अमेध्यसंसर्गकोटाद्युपहतानाम् अमेध्यस्पृष्टद्रव्यस्पृष्टानां चोत्प्लवनम् “कुशाग्राभ्यां पवमानः सुवर्जन” इत्य् अनुवाकेनेति स्मृत्यन्तरोक्तो दधिदुग्धप्रक्षेपणपर्यन्तः । समानजातीयद्रव्यसेवनं वा स्मृतम् । संहतानां च शयनादीनाम् उच्छिष्टाद्युपहतानां क्षालितैकदेशानाम् अभ्युक्षणं दारुमयानां चोच्छिष्टलेपाद्युपहतानां तक्षणम् ॥ ५.११५ ॥

मार्जनं यज्ञपात्राणां पाणिना यज्ञकर्मणि ।

चमसानां ग्रहाणां च शुद्धिः प्रक्षालणेन तु ॥ ५.११६ ॥

मार्जनम् इति । **यज्ञपात्राणां **जुह्वाज्यधानीप्रभृतीनां यज्ञक्रियायां कर्माङ्गतया हस्तेन परिमार्जनम् । चमसग्रहाणां च यज्ञपात्रविशेषाणां कर्माङ्गतयैव प्रक्षालनेन शुद्धिः ॥ ५.११६ ॥

चरूणां स्रुक्स्रुवाणां च शुद्धिर् उष्णेन वारिणा ।

स्फ्यशूर्पशकटानां च मुसलोलूखलस्य च ॥ ५.११७ ॥

चरूणाम् इति । चरुशूर्पादीनां यज्ञाङ्गभूतानां भाण्डविशेषाणां तदङ्गतयोष्णोदकेन शुद्धिः ॥ ५.११७ ॥

अद्भिस् तु प्रोक्षणं शौचं बहूनां धान्यवाससाम् ।

प्रक्षालनेन त्व् अल्पानाम् अद्भिः शौचं विधीयते ॥ ५.११८ ॥

अद्भिर् इति । “अनेकोद्धार्ये दारुशिले भूमिसमे” इति बोधायनीयाद्यनेकोद्धार्यस्य द्रव्यान्तरस्थाल्पशौचत्वदर्शनात् पुरुषाभावाद् ऊर्ध्वं धान्यवस्त्राणां चाण्डालादिर् अभ्युक्षणम् । तदल्पानां पुनर् अद्भिः प्रक्षालनं विधीयते ॥ ५.११८ ॥

चैलवच् चर्मणां शुद्धिर् वैदलानां तथैव च ।

शाकमूलफलानां तु धान्यवच् छुद्धिर् इष्यते ॥ ५.११९ ॥

चैलवद् इति । स्पृश्यचर्मणां वैदलानां च तरुत्वगादिनिर्मितानां वस्त्रवच् छुद्धिःशाकमूलफलानां पुनः पक्वापक्वभेदेनावहतानवहतशुद्धाशुद्धधान्यवच् छुद्धिर् इष्यतेचैलवद् इति सिद्धे धान्यवद् इत्य् आरम्भात् ॥ ५.११९ ॥

कौशेयाविकयोर् ऊषैः कुतपानाम् अरिष्टकैः ।

श्रीफलैर् अंशुपट्टानां क्षौमाणां गौरसर्षपैः ॥ ५.१२० ॥

कौशेयाविकयोर् ऊषैर् इति । कोशनिवृत्तस्य पट्टविशेषस्योर्णामयस्य च “सोषरोदकगोमूत्रैः” (य्ध् १.१८६) इति याज्ञवल्क्यादिदर्शनाद् उदकसहितैर् ऊषैः मृद्विशेषैर् एवं कुतपानाम् (?) आजलोमनिर्मितानां सोदकेनारिष्टकचूर्णेन । अंशुपट्टानां वल्कलतनुकृतानां पट्टानां सोदकबिल्वचूर्णेन क्षुमादिकृतानां सोदकेन गौरसर्षपचूर्णेन शुद्धिर् इष्यते ॥ ५.१२० ॥

क्षौमवच् छङ्खशृङ्गाणाम् अस्थिदन्तमयस्य च ।

शुद्धिर् विजानता कार्या गोमूत्रेणोदकेन वा ॥ ५.१२१ ॥

क्षौमवद् इति । शङ्खशृङ्गास्पृश्यास्थिदन्तमलानां क्षौमवद् गौरसर्षपचूर्णेन सोदकेन गोमूत्रेण वा मलोपघातविशेषज्ञेन शुद्धिः कार्या ॥ ५.१२१ ॥

प्रोक्षणात् तृणकाष्ठं च पलालं चैव शुध्यति ।

मार्जनोपाञ्जनैर् वेश्म पुनःपाकेन मृन्मयम् ॥ ५.१२२ ॥

मद्यैर् मूत्रैः पुरीषैर् वा ष्ठिवनैः पूयशोणितैः ।

संस्पृष्टं नैव शुध्येत पुनःपाकेन मृन्मयम् ॥ ५.१२३ ॥

**प्रोक्षणाद् **इति । **मार्जनोल्लेखनैर् वेश्मेति **। तृणकाष्ठं पलालं चाण्डालादिस्पर्शनाद् दुष्टम् अभ्युक्षणाच् छुध्यति । तृणपलालसाहचर्याद् गृहभाण्डव्यतिरिक्तम् अत्र काष्ठं विज्ञेयम् । तत्र तूदकं दारवाणां चाभ्युक्षणम् इत्यादि गृहं च शवोदक्याप्रवेशादिस्पृष्टम् इत्यादिमलापकर्षणे चण्डालादिप्रवेशाद् दुष्टं शवादिदुष्टं सुधागोमयादिनोपलेपनेन यन् मृन्मयं चोच्छिष्टाद्युपहतद्रव्यादिस्पृष्टं पुनःपाकेन पाकशब्दान् नवत्वापादनेनात्यन्तोपहतस्य पुनस् त्याग एव । यथा च वसिष्ठः-

मद्यैर् मूत्रपुरीषैर् वा ष्ठीवनैः पूयशोणितैः ।

संस्पृष्टं नैव शुध्येत पुनःपाकेन मृन्मयम् ॥ इति ॥ ५.१२२ ॥

सम्मार्जनेन दाहेन सेकेनोल्लेखनेन च ।

गवां च परिवासेन भूमिः शुध्यति पञ्चभिः ॥ ५.१२४ ॥

**सम्मार्जनेन दाहेनेति । **अवकरशोधनगोमधूपलेपनक्षीरोदकगोमूत्रादिसेकतक्षणैर् अहोरात्रमात्रं बहुगोनिवासेन चोच्छिष्टमूत्रपुरीषचण्डालश्मशानाद्युपघातविशेषापेक्षया व्यस्तैः समस्तैर् वा पञ्चभिर् भूमिः शूध्यति ॥ ५.१२४ ॥

पक्षिजग्धं गवाघ्रातम् अवधूतम् अवक्षुतम् ।

दूषितं केशकीटैश् च मृत्प्रक्षेपेण शुध्यति ॥ ५.१२५ ॥

पक्षिदग्धम् इति । अत्यन्तानुपहतं शुकादिपक्ष्युच्छिष्टं गोघ्रातं अवधूतं कृतवासोपरि अवधूननं तस्योपरि (?) क्षुवथुकं केशापहतम् अमेध्यसंसर्पिकृम्युपहतं जग्धशब्दाद् अन्नं मृप्रक्षेपेण शुध्यति ॥ ५.१२५ ॥

यावन् नापैत्य् अमेध्याक्ताद् गन्धो लेपश् च तत्कृतः ।

तावन् मृद् वारि चादेयं सर्वासु द्रव्यशुद्धिषु ॥ ५.१२६ ॥

यावन् नापैत्य् अमेध्याक्ताद् गन्धो लेपश् च तत्कृतः इति । पुरीषादिदग्धाद् यावत् पुरीषादिसम्बन्धिनौ गन्धलेपौ नापगच्छतः तावत् सर्वद्रव्यशुद्धिषु मृद् वारि प्रग्रहीतव्यम् इत्य् अमेध्याक्तद्रव्योक्तानुक्तशुद्धिविशेषविषयम् इदम् ॥ ५.१२६ ॥

त्रीणि देवाः पवित्राणि ब्राह्मणानाम् अकल्पयन् ।

अदृष्टम् अद्भिर् निर्णिक्तं यच् च वाचा प्रशस्यते ॥ ५.१२७ ॥

त्रीणीति । यस्य प्रमाणेन केनचिद् अप्य् उपघातसम्बन्धो न परिच्छिन्नो यच् च सङ्घातोपघातशङ्क्यं तद् अद्भिर् निर्णिक्तम् । तथा हारीतः- “यद् यन् मीमांस्यं स्यात् तद् अद्भिः संस्पर्शाच् छुचि भवति” इति । यच् चोपघातसन्देहे सति प्रक्षालनासहं “शुद्धम् भवत्व्” इति ब्राह्मणस्य वाचा प्रशस्यते । तानि त्रीणि पवित्राणि ब्राह्मणानां देवाः कल्पितवन्तः ॥ ५.१२७ ॥

आपः शुद्धा भूमिगता वैतृष्ण्यं यासु गोर् भवेत् ।

अव्याप्ताश् चेद् अमेध्येन गन्धवर्णरसान्विताः ॥ ५.१२८ ॥

आप इति । यत्परिमाणास्व् अप्सु गोस् तृष्णाच्छेदो भवति ता आपो गन्धवर्णरसान्वितत्वेन अमेध्येन यदि व्याप्ता न भवन्ति तदा भूम्यादिगताः शुद्धा अप्रयतप्रसङ्गासु चित्ताशङ्कायाम् इदं भूमिग्रहणं नान्तरिक्षापां शुद्धत्वव्यावृत्त्यर्थम् ॥ ५.१२८ ॥

नित्यं शुद्धः कारुहस्तः पण्ये यच् च प्रसारितम् ।

ब्रह्मचारिगतं भैक्ष्यं नित्यं मेध्यम् इति स्थितिः ॥ ५.१२९ ॥

**नित्यम् **इति । कारोः सूपचारादेर् देवब्राह्मणाद्यर्थे ऽपि पाके द्रव्यप्रयोजनापक्ष-शुद्धिविशेषाकरणे ऽपि सुशुद्ध्यैव हस्तः शुद्धः, तथा अशौचे ऽपि “कारूणां कारुकर्मणि” इति विष्णुस्मरणात् । स्वव्यापारमात्रे हस्तः शुद्धः हस्तप्रधानप्रायत्वाच् च तत्कर्मणां हस्तग्रहणम् । तथा यद् विक्रेतव्यम् आपणभूमौ वितत्य स्थापितं तद् अनेकक्रेतृसामान्यकरपरिघटितम् अपि “नापणीयम् अन्नम् अश्नीयात्” इति शङ्खस्मरणात् । सिद्धान्नवर्जं शुचि ब्रह्मचर्यादिगतं भैक्ष्यम् अनाचान्तस्त्रीप्रदानशुचि रथाक्रमणादिनापि नित्यं शुद्धम् इति शास्त्रमर्यादा ॥ ५.१२९ ॥

नित्यम् आस्यं शुचि स्त्रीणां शकुनिः फलपातने ।

प्रस्रवे च शुचित्र् वत्सः श्वा मृगग्रहणे शुचिः ॥ ५.१३० ॥

नित्यम् इति । “स्त्रियश् चरति संसर्गम्” इति गौतमस्मरणात् तत्कालं नित्यं स्त्रीणाम् आस्यं शुचि । तथा काकाद्यत्यन्ताहतपक्षिचञ्चुघातपातिफलं शुचि । वत्समुखं च दोहवेलायां क्षीरप्रस्नावने शुचि । श्वा च यदा मृगादि हन्तुं गृह्णाति तदा तद्व्यापारे शुचिः ॥ ५.१३० ॥

स्वभिर् हतस्य यन् मांसं शुचि तन् मनुर् अब्रवीत् ।

क्रव्याद्भिश् च हतस्यान्यैश् चण्डालाद्यैश् च दस्युभिः ॥ ५.१३१ ॥

अत एवम् अतः श्वभिर् इति । क्रव्याद्भिश् च हस्तस्यान्यश् चाण्डालाद्यैश् च दस्युभिः । श्वभिर् हतस्य मृगादेर् यन् मांसं शुचीत्य् एवं मनुर् अब्यधात् तथान्यैर् अपि चाममांसभक्ष्यैः श्येनादिभिश् चाण्डालपुलिन्दादिभिश् च मृगादिवधजीविभिर् हतस्येति ॥ ५.१३१ ॥

ऊर्ध्वं नाभेर् यानि खानि तानि मेध्यानि सर्वशः ।

यान्य् अधस्तान्य् अमेध्यानि देहाच् चैव मलाश् च्युताः ॥ ५.१३२ ॥

ऊर्ध्वम् इति । नाभेर् उपरि यानीन्द्रियाणि तानि सर्वाणि शुचीनीत्य् एवं मलशून्यस्पर्शे सति नाशुचीनि भवन्ति (?) । यानि पुनर् नाभेर् अधस्तान्य् अशुद्धानि तानि नाभ्यपेक्षम् अधः छिद्राणां यानीति बहुवचनम् । तथा वक्ष्यमाणमलाः शरीरतः स्वस्थानाच् च्युता अशुद्धाः ॥ ५.१३२ ॥

मक्षिका विप्रुषश् छाया गौर् अश्वः सूर्यरश्मयः ।

रजो भूर् वायुर् अग्निश् च स्पर्शे मेध्यानि निर्दिशेत् ॥ ५.१३३ ॥

**मक्षिका **इति । मक्षिका अमेध्यस्पर्शिन्यो ऽपि तल्लेपरहिताः जलकणाश् च स्पर्शमात्रानुमेयाः छाया चाण्डालादिसम्बन्धिनी गोश् च मुखवर्जम् । तथा बौधायनः-

अजाश्वा मुखतो मेध्या गावो मेध्या मुखाद् ऋते ।

मार्जारनकुलौ स्पर्शौ शुभाश् च मृगपक्षिणः ॥

इत्य् अश्व आदित्यरश्मयो रजो वायुनेरितं भूरथ्यादौ चाण्डालादि स्पृष्ट्वा गमनमात्रेण वाय्वग्नि चेत्यादिस्पर्शे शुचीनीति जानीयात् ॥ ५.१३३ ॥

विण्मूत्रोत्सर्गशुद्ध्यर्थं मृद्वारि ग्राह्यम् अर्थवत् ।

दैहिकानां मलानां च शुद्धिषु द्वादशस्व् अपि ॥ ५.१३४ ॥

विण्मूत्रोत्सर्गशुद्ध्यर्थम् इति । विण्मूत्रम् उत्सृजते येन तस्य पाद्यादेः शुद्ध्यर्थं गन्धलेपनिर्हरणप्रयोजनपर्यन्तं मृद्वारि ग्राह्यं ग्रहीतव्यम्, तथा कायिकानां च वक्ष्यमाणमलानां सम्बन्धिनी शुद्धा दशस्व् अपि शुद्धिषु लेपाद्यपासनपर्यन्तं मृद्वारि ग्राह्यम् । अत्र कश्चित्,

आददीत मृदो ऽपश् च षट्सु पूर्वेषु शुद्धये ।

उत्तरेषु तु षट्स्व् अद्भिः केवलाभिर् विशुध्यति ॥

इति स्मृत्यन्तरदर्शनाद् उत्तरेषु कर्णमलादिषु न कदाचिद् अपि मृद् दातव्येति मन्यते । तद् असत् । “द्वादशस्व् अपि” इत्य् एवम् इह चोदनात् तस्माद् उत्तरेषु विकल्पः । स च देशकालाद्यपेक्षया व्यवस्थितविकल्पः, यथाह बौधायनः-

देशं कालं तथात्मानं द्रव्यं द्रव्यप्रयोजनम् ।

उपपत्तिम् अवस्थां च ज्ञात्वा शौचं समाचरेत् ॥ इति ।

अतो देवपित्राद्यदृष्टार्थकर्मप्रवृत्त उत्तरेष्व् अप्य् आददीत, अन्यत्र तु नेति । आत्मा श्रोत्रियत्वाचाराद्यतिशयोपेतो ऽन्यथा वा द्रव्यम् अल्पमया वा बह्व्या चाशौचक्रियया प्रायश्चित्तार्हं द्रव्यप्रयोजनं दृष्टादृष्टाद्युपयोगित्वेनोपपत्तिः संशोधकद्रव्यसम्पत्तिर् अवस्थाशरीरात् ॥ ५.१३४ ॥

वसा शुक्रम् असृङ् मज्जा मूत्रविड् घ्रानकर्णविट् ।

श्लेष्माश्रुदूषिकास्वेदो द्वादशैते नृणां मलाः ॥ ५.१३५ ॥

वसेति । वसा कायस्नेहः । शुक्रं रेतः । असृक् रुधिरम्, मज्जा शिरःस्थमेदो मूत्रपुरीषकर्णमलश्लेष्मास् त्व् अक्षिमलस्वेदा इत्य् एते नृणां मलाः । नरादीनाम् अभक्ष्यप्राणीनां मलाः मूत्रपुरीषोत्सर्गे सति ॥ ५.१३५ ॥

एका लिङ्गे गुदे तिस्रस् तथैकत्र करे दश ।

उभयोः सप्त दातव्या मृदः शुद्धिम् अभीप्सता ॥ ५.१३६ ॥

एकेति । शुद्धिम् इच्छतैका मृन् मृद्वार्य् आदेयम् अर्थवद् इत्य् उदकसहिता लिङ्गे दातव्या । **गुदे **च तिस्रः । तथा एकस्मिन् हस्ते वामे,

धर्मविद् दक्षिणं हस्तम् अधः शौचे न योजयेत् ।

तथैव वामहस्तेन नाभेर् ऊर्ध्वं न शोधयेत् ॥

इति देवलदर्शनेन तेनैव शौचविधिना दश दातव्यास् तत्र उभयोर् हस्तयोः सप्त दातव्याः । यत् तूक्तसङ्ख्यया गन्धलेपक्षयो न भवति तदा “यावन् नापैत्य् अमेध्याक्ताद्” इति वचनात् उक्तसङ्ख्यानतिक्रमेणापि तत्क्षयपर्यन्तं शौचं कार्यम् अर्वाक् सङ्ख्यापूरणाल् लेपादिक्षये ऽपि सङ्ख्यावाक्यारम्भसामर्थात् सङ्ख्या पूरयितव्यैव ॥ ५.१३६ ॥

एतच् छौचं गृहस्थानां द्विगुणं ब्रह्मचारिणाम् ।

त्रिगुणं स्याद् वनस्थानां यतीनां तु चतुर्गुणम् ॥ ५.१३७ ॥

एतद् इति । यद् एतद् “एका लिङ्गे” इत्यादि शौचम् एतद् उक्तं गृहस्थानाम् एव ब्रह्मचारि-वानप्रस्थभिक्षूणाम् एतद् एव द्वित्रिचतुर्गुणम् ॥ ५.१३७ ॥

कृत्वा मूत्रं पुरीषं वा खान्य् आचान्त उपस्पृशेत् ।

वेदम् अध्येष्यमाणश् च अन्नम् अश्नंश् च सर्वदा ॥ ५.१३८ ॥

कृत्वेति । मूत्रपुरीषं कृत्वा कृतपूर्वोक्तशौचः कृतान्नभक्षः सण् शीर्षन्यादीन्द्रियछिद्राणि उपस्पृशेत् । आचमनम् एव वृत्तानुरोधात् । एवम् उक्तं तथा चोत्तरश्लोके विशेषयिष्यति । वेदं चाध्येतुम् इच्छन्न् अन्नं चाश्नन् यावज्जीवं आचामेद् इति । तच् च द्वितीयाधाय उभयम् अपि “अध्येष्यमाणस् त्व् आचान्तो” “निवेद्य गुरवे ऽश्नीयाद् आचामेद्” इत्य् उक्तं व्रताङ्गत्वार्थम्, इह तु शौचाङ्गतयोच्यते ॥ ५.१३८ ॥

त्रिर् आचामेद् अपः पूर्वं द्विः प्रमृज्यात् ततो मुखम् ।

शारीरं शौचम् इच्छन् हि स्त्री शूद्रस् तु सकृत् सकृत् ॥ ५.१३९ ॥

तथा चाह त्रिर् इति । शरीरशुद्धिम् इच्छन् त्रीन् वारान् प्रथमम् अप आचामेत् ततो द्वौ वारौ ओष्ठदेशे मुखं परिमृज्यात् । स्त्रीशूद्रं पुनर् एकवारं आचमनार्थम् अपो भक्षयेत्

॥ ५.१३९ ॥

शूद्राणां मासिकं कार्यं वपनं न्यायवर्तिनाम् ।

वैश्यवच् छौचकल्पश् च द्विजोच्छिष्टं च भोजनम् ॥ ५.१४० ॥

शूद्राणाम् इति । शास्त्रमर्यादानुवर्तिनो द्विजात्याश्रितानां शूद्राणाम् आश्रयभूतद्विजातीनां मासि मासि मुण्डनं वैश्यवच् च “एका लिङ्गे” इत्याद्याचमनपर्यन्तशौचविधिः कार्यः, द्विजोच्छिष्टभोजनप्रकृतत्वाद् आत्मसम्बन्धे दातव्यम् ॥ ५.१४० ॥

नोच्छिष्टं कुर्वते मुख्या विप्रुषो ऽङ्गं पतन्ति याः ।

न श्मश्रूणि गतान्य् आस्यं न दन्तान्तरधिष्ठितम् ॥ ५.१४१ ॥

नोच्छिष्टम् इति । मुखनिःसृता विप्रुषो व्यङ्गत्वेन निपतन्ति तदोच्छिष्टं न जनयन्ति । तस्मात् श्मश्रूण्य् आस्यप्रतिष्ठानि दन्तान्तरलग्नं वान्नावयवादि, दन्तश्लिष्टं तु दन्तवद् अन्यत्र जिह्वाभिमर्शनात् प्राक् च्युतेर् इत्य् एके । “च्युतेष्व् आश्राववद् विद्यान् निर्गिरन्न् एव तच्छुचिः” इत्य् एवं गौतमप्रक्रिया नोच्छिष्टं करोति ॥ ५.१४१ ॥

स्पृशन्ति बिन्दवः पादौ य आचामयतः परान् ।

भौमिकैस् ते समा ज्ञेया न तैर् अप्रयतो भवेत् ॥ ५.१४२ ॥

स्पृशन्तीति । **भौमिकैस् ते समा ज्ञेया न तैर् अप्रयतो भवेत् **। अन्येषाम् आचमनं ददतो ये बिन्दवः पादाव् एव स्पृशन्ति न जङ्घादि ते त्व् अपहतभूम्यवस्थैः शुद्धैर् उदकबिन्दुभिः तुल्या ज्ञेयास् ततस् तैर् नाचमनार्हो भवति ॥ ५.१४२ ॥

उच्छिष्टेन तु संस्पृष्टो द्रव्यहस्तः कथञ्चन ।

अनिधायैव तद् द्रव्यम् आचान्तः शुचिताम् इयात् ॥ ५.१४३ ॥

उच्छिष्टेनेति । गृहीतद्रव्यः सन् यद्य् उच्छिष्टेन स्पृष्टो भवति तदा द्रव्यम् अवस्थापैतत् कृताचमनः शुद्धित्वं प्राप्नोति ॥ ५.१४३ ॥

वान्तो विरिक्तः स्नात्वा तु घृतप्राशनम् आचरेत् ।

आचामेद् एव भुक्त्वान्नं स्नानं मैथुनिनः स्मृतम् ॥ ५.१४४ ॥

वान्त इति । “कृतवमनो दशैव तु द्विगुणाविरक्तः” इत्य् आयुर्वेददर्शनाद् दशविरेकान् विरक्तः स्नात्वा घृतप्राशनम् आचरेत् । भुक्त्वान्नं पुनर् यदि समन्तरम् एव वमति तद् आचामेद् एव, न स्नानघृतप्राशने कुर्यात् । मौथुनं च कृतवतः स्नानं स्मृतम् ॥ ५.१४४ ॥

सुप्त्वा क्षुत्वा च भुक्त्वा च निष्ठीव्योक्त्वानृतानि च ।

पीत्वा ऽपो ऽध्येष्यमाणश् च आचामेत् प्रयतो ऽपि सन् ॥ ५.१४५ ॥

सुप्त्वेति । स्वप्नक्षुत्भोजनश्लेष्मनिरसनासत्याभिधानोदकपानानि कृत्वाध्ययनं च प्रारिप्सन् शुचिर् अपि सन्न् आचामेत् । तत्र “भुक्त्वा चोपस्पृशेत् सम्यग्” इति द्वितीयाध्याये भुक्त्वाचमनम् उक्तं व्रताङ्गत्वार्थम् इह तु शौचार्थम् उच्यते । तथा वेदाध्ययनं काले ऽप्य् अध्येषमाणस् त्व् आचान्तो वेदम् अध्येष्यमाणश् चेति द्विभक्तम् अपीहेतरविधिवत् सार्थं निरूप्यते ॥ ५.१४५ ॥

एष शौचविधिः कृत्स्नो द्रव्यशुद्धिस् तथैव च ।

उक्तो वः सर्ववर्णानां स्त्रीणां धर्मान् निबोधत ॥ ५.१४६ ॥

एष इति । एष जननादिशौचविधिः समग्रो द्रव्याणां च तैजसानां शुद्धिः सकला सर्ववर्णानां ब्राह्मणादीनां सम्बन्धिनी युष्माकम् उक्ता, अधुना तु स्त्रीणां यो ऽनुष्ठेया धर्मास् ताञ् छृणुत ॥ ५.१४६ ॥

बालया वा युवत्या वा वृद्धया वापि योषिता ।

न स्वातन्त्र्येण कर्तव्यं किञ्चित् कार्यं गृहेष्व् अपि ॥ ५.१४७ ॥

बालयेति । बालयौवनवार्ध्क्यावस्थयापि स्त्रिया सूक्ष्मम् अपि गृहकार्यं स्वेच्छया न किञ्चिद् अपि कर्तव्यम् ॥ ५.१४७ ॥

बाल्ये पितुर् वशे तिष्ठेत् पाणिग्राहस्य यौवने ।

पुत्राणां भर्तरि प्रेते न भजेत् स्त्री स्वतन्त्रताम् ॥ ५.१४८ ॥

किं तर्हि बाल्य इति । **पुत्राणां भर्तरि प्रेते न भजेत् स्त्री स्वतन्त्रताम् **। बाल्ययौवनभर्तृप्रमीतेषु पितृभर्तृपुत्राणाम् आयत्ता भवेत् तदभावे ऽपि ज्ञातिराजायत्ता स्यात् । न तु कदाचित् स्वातन्त्र्यम् आश्रयेत् ॥ ५.१४८ ॥

पित्रा भर्त्रा सुतैर् वापि नेच्छेद् विरहम् आत्मनः ।

एषां हि विरहेण स्त्री गर्ह्ये कुर्याद् उभे कुले ॥ ५.१४९ ॥

पित्रेति । पितृभर्तृपुत्रैः सर्वदा सर्वैर् यथासम्भवम् आत्मना विरहिता न स्याद् यस्माद् एतद्वियोगेनासती भर्तृपितृकुले निन्दिते करोति ॥ ५.१४९ ॥

सदा प्रहृष्टया भाव्यं गृहकार्ये च दक्षया ।

सुसंस्कृतोपस्करया व्यये चामुक्तहस्तया ॥ ५.१५० ॥

सदेति । सर्वदा भर्तरि क्रुद्धे ऽपि प्रसन्नवदनया गृहकर्मणि चतुरया सुसंस्पृष्टकुण्डकटाहादिभाण्डया व्यये चानुदारया भवितव्यम् ॥ ५.१५० ॥

यस्मै दद्यात् पिता त्व् एनां भ्राता वानुमते पितुः ।

तं शुश्रूषेत जीवन्तं संस्थितं च न लङ्घयेत् ॥ ५.१५१ ॥

यस्मै दद्याद् इति । **यस्मै पिता **पित्रनुमते **भ्राता एनां दद्यात् तं जीवन्तं **परिचरेत्, मृतं च नातिक्रमेत् व्यभिचारेण ॥ ५.१५१ ॥

मङ्गलार्थं स्वस्त्ययनं यज्ञश् चासां प्रजापतेः ।

प्रयुज्यते विवाहेषु प्रदानं स्वाम्यकारणम् ॥ ५.१५२ ॥

मङ्गलार्थम् इति । यद् आसां स्वस्त्ययनं शान्त्यादिमन्त्रवाचनं हि प्रजापतियागश् च विवाहेषु क्रियते तन् मङ्गलार्थम् अभीष्टार्थं सम्पत्त्यर्थं न तु भर्तुः स्वत्वापादनार्थं यस्मात् प्राग् विवाहात् यद् वाग्दानं तद् भर्तुः स्वाम्यजनकं एवं च वाग्दानतः प्रभृत्य् आसां भर्तृपारतन्त्र्यं न विवाहात् ॥ ५.१५२ ॥

अनृताव् ऋतुकाले च मन्त्रसंस्कारकृत् पतिः ।

सुखस्य नित्यं दातेह परलोके च योषितः ॥ ५.१५३ ॥

अनृताव् इति । यो विवाहकृद् भर्ता “सर्वत्र वा प्रीतिविवर्जितम्” इति गौतमदर्शनाद् ऋतुकाले अन्यदा च स्त्रिया नित्यम् इह लोके च सुखस्य दाता तदाराधनेनैव च स्वर्गादिलोकप्राप्तेः परलोके च सुखस्य दाता ॥ ५.१५३ ॥

विशीलः कामवृत्तो वा गुणैर् वा परिवर्जितः ।

उपचर्यः स्त्रिया साध्व्या सततं देववत् पतिः ॥ ५.१५४ ॥

विशील इति । दुराचारो भार्यान्तरासक्तो वा विद्यानुष्ठानादिवर्जितो वा तथापि साध्व्या स्त्रिया सर्वदा देव इव पतिर् आराधनीयः ॥ ५.१५४ ॥

नास्ति स्त्रीणां पृथग्यज्ञो न व्रतं नाप्य् उपोषणम् ।

पतिं शुश्रूषते येन तेन स्वर्गे महीयते ॥ ५.१५५ ॥

यथा भर्तृर् भार्यान्तरम् अवलम्बनेन यज्ञकरणम् अस्ति, नैवं भर्तारं विना स्त्रीणां यज्ञो ऽस्ति, न च तदनुज्ञातानां कृच्छ्रादिर् उपवासो विद्यते । किं तर्हि । भर्तृपरिचरणेन स्वर्गे महिमानं प्राप्नोमि । तस्मात् परलोकोपयान्तरं यस्माच् च भावात् ॥ ५.१५५ ॥

पाणिग्राहस्य साध्वी स्त्री जीवतो वा मृतस्य वा ।

पतिलोकम् अभीप्सन्ती नाचरेत् किञ्चिद् अप्रियम् ॥ ५.१५६ ॥

पाणिग्राहस्येति । भर्त्रा सह धर्माचरणेन स्वर्गादिलोकत्वम् आप्तुकामा साध्वी स्त्री भर्तुर् जीवतो मृतस्य वा अप्रियं व्यभिचारादि न किञ्चिद् आचरेत्, वृत्त्यसम्भवे ऽपि च ॥ ५.१५६ ॥

कामं तु क्षपयेद् देहं पुष्पमूलफलैः शुभैः ।

न तु नामापि गृह्णीयात् पत्यौ प्रेते परस्य तु ॥ ५.१५७ ॥

कामं त्व् इति । पुष्पमूलफलैः पवित्रैर् वरं देहं क्षपयेत् न वृत्त्यर्थं व्यभिचारबुद्ध्या परस्य नामापि उच्चरेत् ॥ ५.१५७ ॥

आसीता मरणात् क्षान्ता नियता ब्रह्मचारिणी ।

यो धर्म एकपत्नीनां काङ्क्षन्ती तम् अनुत्तमम् ॥ ५.१५८ ॥

एवं च आसीतेति । एकभर्तृकाणां यो धर्मस् तं सर्वधर्मोत्कृष्टम् अभिलषन्ती आ मरणात् क्षुद्दुःखं सहमानान्यमनस्का पुंसः प्रयोगं वर्जयेत् । न चापत्यार्थम् अपि प्रीतिमयेनान्तरेण तिष्ठेत् ॥ ५.१५८ ॥

अनेकानि सहस्राणि कुमारब्रह्मचारिणाम् ।

देवं गतानि विप्राणाम् अकृत्वा कुलसन्ततिम् ॥ ५.१५९ ॥

अनेकानीति । बाल्यत एव ब्रह्मचारिणाम् अकृतदाराणां वालखिल्यानां ब्राह्मणानां पुराणोपवर्णितानां बहुसहस्राण्य् अष्टाशीतिकुलवृद्ध्यर्थम् अपत्यान्य् अनुत्पाद्यैव स्वर्गं गतानि ॥ ५.१५९ ॥

मृते भर्तरि साध्वी स्त्री ब्रह्मचर्ये व्यवस्थिता ।

स्वर्गे गच्छत्य् अपुत्रापि यथा ते ब्रह्मचारिणः ॥ ५.१६० ॥

मृत इति । साध्वी स्त्री मृते भर्तरि अकृतपुंसं प्रयोगा अपुत्रापि सती स्वर्गं प्राप्नोति । यथा ते वालखिल्याद्या ब्रह्मचारिणः प्राप्ताः, दृष्टोपकारापेक्षयापि च ॥ ५.१६० ॥

अपत्यलोभाद् या तु स्त्री भर्तारम् अतिवर्तते ।

सेह निन्दाम् अवाप्नोति परलोकाच् च हीयते ॥ ५.१६१ ॥

अपत्यलोभाद् इति । या स्त्री अपत्यलोभातिशया **भर्तारम् **अतिकर्म्य वर्तते व्यभिचरति सा इह लोके गर्हां प्राप्नोति, भर्त्रा सहार्जितं स्वर्गादिलोकं न प्राप्नोति । किं चापत्यम् अपि तत् तस्या न भवति ॥ ५.१६१ ॥

नान्योत्पन्ना प्रजास्तीह न चान्यस्य परिग्रहे ।

न द्वितीयश् च साध्वीनां क्वचिद् भर्तोपदिश्यते ॥ ५.१६२ ॥

**नान्योत्पन्ना **इति । भर्तृव्यतिरिक्ततया उत्पादिता प्रजासेहशास्त्रे तस्मात् पौनर्भवसंस्कारादि योगेनापि न भर्त्रान्तरम् आश्रयणीयम् ॥ ५.१६२ ॥

पतिं हित्वावकृष्टं स्वम् उत्कृष्टं या निषेवते ।

निन्द्यैव सा भवेल् लोके परपूर्वेति चोच्यते ॥ ५.१६३ ॥

पतिम् इति । या क्षत्रियादिका स्वं पतिं परित्यज्य उत्कृष्टं ब्राह्मणादिकम् आश्रयति सा उत्कृष्टसेवनेनापि गर्हणीयैव लोके भवति । परो ऽन्यो भर्ता पूर्वो यस्याश् सा परपूर्वेत्य् एवं च लोके उच्यते ॥ ५.१६३ ॥

व्यभिचारात् तु भर्तुः स्त्री लोके प्राप्नोति निन्द्यताम् ।

शृगालयोनिं प्राप्नोति पापरोगैश् च पीड्यते ॥ ५.१६४ ॥

नरान्तरसम्पर्कात् तु स्त्री इहलोके गर्ह्यतां जन्मान्तरे च सृगालयोनिं प्राप्नोति । अत्यन्तक्रूरैश् च कुष्टादिरोगैः सम्पीड्यते ॥ ५.१६४ ॥

पतिं या नाभिचरति मनोवाग्देहसंयता ।

सा भर्तृलोकम् आप्नोति सद्भिः साध्वीति चोच्यते ॥ ५.१६५ ॥

या मनोवाग्देहसंयुता सती तैर् वाग्मनोदेहैः पतिं न व्यभिचरति सा भर्त्रा सह अर्जितान् स्वर्गादिलोकान् प्राप्नोतीह विशिष्टैः साध्वीत्य् उच्यते । इति वाङ्मनसनिरासार्थं मुक्तं पुनर्वचनम् ॥ ५.१६५ ॥

अनेन नारी वृत्तेन मनोवाग्देहसंयता ।

इहाग्र्यां कीर्तिम् आप्नोति पतिलोकं परत्र च ॥ ५.१६६ ॥

अनेनेति । मनोवाक्कायसंयतया नार्य् अनेन पूर्वोक्तेनाचारेणेह लोके श्रेष्टां कीर्तिं पतिलोकं च परलोके प्राप्नोतीत्य् उपसंहारार्थम् ॥ ५.१६६ ॥

एवंवृत्तां सवर्णां स्त्रीं द्विजातिः पूर्वमारिणीम् ।

दाहयेद् अग्निहोत्रेण यज्ञपात्रैश् च धर्मवित् ॥ ५.१६७ ॥

एवम् इति । धर्मज्ञो द्विजातिर् उक्ताचारां समानजातीयां पूर्वमृतस्त्रियं श्रौतस्मार्ताग्निभिः यज्ञपात्रैश् च स्रुक्स्रुवादिभिर् दाहयेत् ॥ ५.१६७ ॥

भार्यायै पूर्वमारिण्यै दत्वाग्नीन् अन्त्यकर्मणि ।

पुनर्दारक्रियां कुर्यात् पुनराधानम् एव च ॥ ५.१६८ ॥

भार्याया इति । पूर्वमृतायै भार्यायै अन्त्येष्टिदाहाव् अग्नीन् दत्वा गार्हस्त्यैकाश्रमनिर्वाहेच्छया पुत्राभावाद् वा प्राप्तपर्यन्तत्वादिना वा केनचित् कारणेन वानप्रस्थाद्याश्रमान्तराश्रयेण पुनर् विवाहाग्निपरिग्रहौ कुर्यात् ॥ ५.१६८ ॥

अनेन विधिना नित्यं पञ्चयज्ञान् न हापयेत् ।

द्वितीयम् आयुषो भागं कृतदारो गृहे वसेत् ॥ ५.१६९ ॥

अनेनेति । तृतीयाध्यायोक्तविधानेन पञ्चयज्ञाद्य् अजहन् द्वितीयम् आयुर्भागं कृतभार्यो गृहस्थाश्रमम् अनुतिष्ठेत् ॥ ५.१६९ ॥

इति श्रीभट्टमाधवात्मजगोविन्दराजविरचितायां मनुटीकायां

**मन्वाशयानुसारिण्यां **

भक्ष्याभक्ष्यसुतकद्रव्यशुद्धिस्त्रीधर्मनिरूपणं

नाम पञ्चमो ऽध्यायः

षष्ठो ऽध्यायः

एवं गृहाश्रमे स्थित्वा विधिवत् स्नातको द्विजः ।

वने वसेत् तु नियतो यथावद् विजितेन्द्रियः ॥ ६.१ ॥

एवम् इति । कृतसमावर्तनो द्विज उक्तप्रक्रियो यथाशास्त्रं गृहाश्रमम् अनुष्ठाय ततो नियतः कृतनिश्चयो विशेषेण यतेन्द्रियः सन् यथा वक्ष्यमाणप्रकारेण यथार्हति तथा वानप्रस्थाश्रमम् अनुतिष्ठेत् ॥ ६.१ ॥

गृहस्थस् तु यदा पश्येद् वलीपलितम् आत्मनः ।

अपत्यस्यैव चाप्त्यं तदारण्यं समाश्रयेत् ॥ ६.२ ॥

गृहस्थ इति । गृहस्थो यदात्मनस् त्वक्शैथिल्यं शिरःपाण्डुर्यं पौत्रांश् च पश्येत् तदा वानप्रस्थस्यार्थे अरण्यम् आश्रयेत् ॥ ६.२ ॥

सन्त्यज्य ग्राम्यम् आहारं सर्वं चैव परिच्छदम् ।

पुत्रेषु भर्यां निक्षिप्य वनं गच्छेत् सहैव वा ॥ ६.३ ॥

सन्त्यज्येति । ग्रामोद्भवान्नभक्षणं गवाश्वादि च सर्वं त्यक्त्वा भार्या पुत्रेषु समर्प्य सह वा तया वनं गच्छेत् ॥ ६.३ ॥

अग्निहोत्रं समादाय गृह्यं चाग्निपरिच्छदम् ।

ग्रामाद् अरण्यं निःसृत्य निवसेन् नियतेन्द्रियः ॥ ६.४ ॥

अग्निहोत्रम् इति । श्रौताग्नीन् गृह्यं चाग्निम् अग्न्युपकरणं च स्रुक्स्रुवादि समादाय ग्रामाद् बहिः निःसृत्य जितेन्द्रियः सन् निवसेत् ॥ ६.४ ॥

मुन्यन्नैर् विविधैर् मेध्यैः शाकमूलफलेन वा ।

एतान् एव महायज्ञान् निर्वपेद् विधिपूर्वकम् ॥ ६.५ ॥

मुन्यन्नैर् इति । मुन्यन्नैर् अपरैः पवित्रैः शाकमूलफलैर् वा एतान् एव पूर्वोक्तान् महायज्ञान् यथाशास्त्रम् अनुतिष्थेत् ॥ ६.५ ॥

वसीत चर्म चीरं वा सायं स्नायात् प्रगे तथा ।

*जटाश् च बिभृयान् नित्यं श्मश्रुलोमनखानि च ॥ ६.६ ।*

“वसीत चर्म चीरं वा मार्गं वा चार्क्षम् एव वा” इति । मृगादिचर्म वस्त्रखण्डं वा वृक्षवल्कलं वा आच्छदयेत् । सायं प्रातश् च स्नायात्श्मश्रुलोमनखांश् च नित्यं धरयेत् ॥ ६.६ ॥

यद्भक्षः स्यात् ततो दद्याद् बलिं भिक्षां च शक्तितः ।

अम्मूलफलभिक्षाभिर् अर्चयेद् आश्रमागतम् ॥ ६.७ ॥

यद्भक्ष इति । यद्भक्षं भुञ्जीत ततस् तस्मात् पूर्वोक्तवत् बलिं भिक्षां च दद्यात् । आश्रमागतांश् च उदकमूलफलभिक्षादानेन पूजयेत् ॥ ६.७ ॥

स्वाध्याये नित्ययुक्तः स्याद् दान्तो मैत्रः समाहितः ।

दाता नित्यम् अनादाता सर्वभूतानुकम्पकः ॥ ६.८ ॥

स्वाध्यायशीलो नित्यं स्याद् दान्तो मैत्रसमाहितः ।

त्यक्तद्वन्द्वो ऽनिशं दाता सर्वभूतानुकम्पनः ॥

वेदाभ्यासरतः शीतातपादिद्वन्द्वसहिष्णुः सर्वोपकारशीलसंयतमानाः स्यात् ॥ ६.८ ॥

वैतानिकं च जुहुयाद् अग्निहोत्रं यथाविधि ।

दर्शम् असकन्दयन् पर्व पौर्णमासं च योगतः ॥ ६.९ ॥

वैतानिकम् इति । अमावास्यापौर्णमसं च पर्वयोर् दर्शं अत्यजन् श्रौतम् अग्निहोत्रं यथाशास्त्रं भार्यानिक्षेपपक्षे ऽपि वचनाद् द्रव्यलाभार्थं च जुहुयात् ॥ ६.९ ॥

दर्शेष्ट्याग्रयणं चैव चातुर्मास्यानि चाहरेत् ।

तुरायणं च क्रमशो दाक्षस्यायनम् एव च ॥ ६.१० ॥

नक्षत्रेष्टिं तथा दर्शपौर्णमसानि चाहरेत् ।

उत्तरायणं च क्रमशो दक्षिणायनम् एव च ॥

नक्षत्रेष्टिं सूत्रकारोक्तस्वरूपभवम्, तस्येष्टिं च तथा दर्शपौर्णमासानि च उत्तरायणान् दक्षिणायणान् श्रौतविशेषादीन् क्रमेण कुर्यात् । यत् तु कैश्चिद् उक्तं सर्वम् एतत् स्मार्तं कर्म दर्शपौर्णमासादिशब्दैः स्तुत्यर्थम् उच्यते; श्रौतस्य दर्शपौर्णमासादिश्रुत्या ग्राम्यान्नचारुपुरोषाशसाध्यत्वविधानात् न शक्त्या स्मृतिव्रीह्यादि निवर्तत इति — तद् असत् । उच्यते । यतो न सत्यागतिसुखं शब्दार्थहानं न्याय्यं व्रीह्यादिभिर् एव कथञ्चिद् अरण्यजातैर् एतानि निवर्तयिष्यन्त इति किम् अनुपपन्नं स्वत एवोत्तरश्लोके “मुन्यन्नैर् मेध्यैः” इति वक्ष्यति । मेधो यस् तदर्हाणि मेध्यानि ॥ ६.१० ॥

वासन्तशारदैर् मेध्यैर् मुन्यन्नैः स्वयम् आहृतैः ।

पुरोषाशांश् चरूंश् चैव विधिवन् निर्वपेत् पृथक् ॥ ६.११ ॥

वासन्तशारदैर् इति । वसन्तोद्भवैः यागार्हैः स्वयम् आनीतैर् मुन्यन्नैः पुरोडाशांश् चरूंश् च यथाशास्त्रं प्रतियोगं प्रतिपादयेत् ॥ ६.११ ॥

देवताभ्यस् तु तद् बुद्ध्वा वन्यं मेध्यतरं हविः ।

शेषम् आत्मनि युञ्जीत लवणं च स्वयं कृतम् ॥ ६.१२ ॥

देवताभ्यश् चेति । तद् वनोद्भवं सम्पादितहविः अतिशयेन यागार्हं शास्त्रचोदितदेवताभ्य्ओ हुत्वा शेषम् आत्मन्य् उपयोजयेत् । आत्मना च सम्पादितं लवणभूषालवादि ॥ ६.१२ ॥

स्थलजौदकशाकानि पुष्पमूलफलानि च ।

मेध्यवृक्षोद्भवान्य् अद्यात् स्नेहांश् च फलसम्भवान् ॥ ६.१३ ॥

स्थलजौदकशाकानीति । स्थलोदकोद्भवानि शाकानि अरण्योद्भवानि यज्ञियवृक्ष्ōभवानि च पुष्पमूलफलानि अद्यात् । इङ्गुदा(द्या)दिफलोद्भवांश् च स्नेहानारण्यत्वे ऽपि सति ॥ ६.१३ ॥

वर्जयेन् मधु मांसं च भौमानि कवकानि च ।

भूस्तृणं शिग्रुकं चैव श्लेष्मातक्फलानि च ॥ ६.१४ ॥

त्यजेद् आश्वयुजे मासि मुन्यन्नं पूर्वसञ्चितम् ।

जीर्णानि चैव वासांसि शाकमूलफलानि च ॥ ६.१५ ॥

वर्जयेद् इति । माक्षिकमासं भूजातानि कवकानि छत्राकानि न वार्क्षाणि । भूस्तृणं भूतृणम् इति मालवदेशप्रसिद्धम् । तत्साहचर्यात् तत्सदृशम् एव शिग्रुकम् इति तृणजातीयं वाहीकदेशप्रसिद्धं श्लेष्मातकाख्यवृक्षफलानि वासांसि जीर्णानि आश्वयुजे मासि त्यजेत्

॥ ६.१४–१५ ॥

न फालकृष्टम् अश्नीयाद् उत्सृष्टम् अपि केनचित् ।

न ग्रामजातान्य् आर्तो ऽपि मूलानि च फलानि च ॥ ६.१६ ॥

न फालकृष्टम् इति । न ग्रामजातान्य् आर्तो ऽपि पुष्पाणि च फलानि च । आरण्यम् अपि फालकृष्टप्रदेशजातस्वामिनोपेक्षितम् अपि नाश्नीयात् । तथारण्यानि अकालकृष्टान्य् अपि कथञ्चित् ग्रामे जातानि पुष्पमूलफलानि क्षुत्पीडितो ऽपि नाश्नीयात् ॥ ६.१६ ॥

अग्निपक्वाशनो वा स्यात् कालपक्वभुग् एव वा ।

अश्मकुट्टो भवेद् वापि दन्तोलूखलिको ऽपि वा ॥ ६.१७ ॥

अग्निपक्वाशन इति । अग्निपक्वम् आरण्यान्नं भुञ्जीत कालपक्वं वा फलादि तस्मात् तथाश्मना वा तद् अन्नं नीवाराद्यव्हत्यान्नम् एव भक्षयेत् दन्तोलूखलेन दन्ता एवास्य निस्तूषीकरणे उलूखलकार्ये स्युः ॥ ६.१७ ॥

सद्यःप्रक्षालको वा स्यान् माससञ्चयिको ऽपि वा ।

षण्मासनिचयो वा स्यात् समानिचय एव वा ॥ ६.१८ ॥

सद्यःप्रक्षालक इति । षण्मासनिचयो वापि समानिचय एव वा । आह्निकमात्रम् अन्नं वा सञ्चिनुयात् । मासपर्याप्तं वा षण्माससमर्थं वा संवत्सरपूरकं वा ॥ ६.१८ ॥

नक्तं चान्नं समश्नीयाद् दिवा वाहृत्य शक्तितः ।

चतुर्थकालिको वा स्यात् स्याद् वाप्य् अष्टमकालिकः ॥ ६.१९ ॥

नक्तम् इति । यथाशक्त्यान्नम् आहृत्य प्रदोष एव चाश्नियाद् इति वा चतुर्थकालाशिनो वा भवेत् । “सायम्प्रातर् मनुष्याणाम् अशनं देवनिर्मितम्” इत्य् एतत् प्राप्त इत्य् एकस्मिन्न् अहन्य् उपोष्य अपरेद्युः सायम् अश्नीयात् अष्टमकालिको त्र्यहम् उपोष्य चतुर्थे ऽहनि सायम् अश्नीयात् ॥ ६.१९ ॥

चान्द्रायणविधनैर् वा शुक्लकृष्णे च वर्तयेत् ।

पक्षान्तयोर् वाप्य् अश्नीय्द् यवागूं क्वथितां सकृत् ॥ ६.२० ॥

चान्रायणविधानैर् इति । शुक्लकृष्णपक्षयोश् चान्द्रायणविधानैर् वा वक्ष्यमाणैः पिण्डोपचयापचयरूपैर् वर्तेत । पौर्णमास्यमावास्ययोर् वा यवपिष्टादिपेयां क्वथिताम् एकवारम् अश्नीयात् ॥ ६.२० ॥

पुष्पमूलफलैर् वापि केवलैर् वर्तयेत् सदा ।

कालपक्वैः स्वयंशीर्णैर् वैखानसमते स्थितः ॥ ६.२१ ॥

पुष्पमूलफलैर् इति । मूलफलान्य् एव कालपक्वानि नाग्निपक्वानि स्वयम्पक्वानि भक्षयेत् । वैखानसाख्ये वानप्रस्थशास्त्रदर्शने स्थितः तदुक्तम् अन्यद् अप्य् अनुतिष्ठेत् ॥ ६.२१ ॥

भूमौ विपरिवर्तेत तिष्ठेद् वा प्रपदैर् दिनम् ।

स्थानासनाभ्यां विहरेत् सवनेषूपयन्न् अपः ॥ ६.२२ ॥

भूमाव् इति । भूमौ लुठन् गतागतानि वा कुर्यात् । पादाग्रभ्यां वा दिनं तिष्ठेत् किञ्चिच् च कालस्थित एव स्यात् । किञ्चिच् चोपविष्ट एव सवनेषु सायम्प्रातर् मध्यन्दिनेषु च स्नानं कुर्यात् । “प्रगे तथा” इत्य् एतेन सहास्य विकल्पो नियमातिशयापेक्षः ॥ ६.२२ ॥

ग्रीष्मे पञ्चतपास् तु स्याद् वर्षास्व् अभ्रावकाशिकः ।

आर्द्रवासास् तु हेमन्ते क्रमशो वर्धयंस् तपः ॥ ६.२३ ॥

ग्रीष्म इति । शनैः शनैस् तपोविवृद्ध्यर्थं दिक् चतुष्टयोपनिहितैर् उपरिष्टाच् चादित्येन ग्रीष्मे आत्मानं तापयेत् । वर्षासु गलत्सलिलं जलधारागलितं शिरसि धारयेत् । हेमन्ते चार्द्रवस्त्रो भवेत् । त्र्यृतुः संवत्सर इत्य् एतद्दर्शनावष्टम्भेन सकलसंवत्सरापेक्षम् एवैतद् उक्तम् ॥ ६.२३ ॥

उपस्पृशंस् त्रिषवणं पितॄन् देवांश् च तर्पयेत् ।

तपश् चरंश् चोग्रतरं शोषयेद् देहम् आत्मनः ॥ ६.२४ ॥

उपस्पृशन्न् इति । सायम्प्रातर् मध्यन्दिनेषूक्तं त्रिषवणं स्नानं कुर्वन् देवपितृतर्पणं कुर्वन्न् अन्यद् अपि वैखानसशास्त्रोक्तं तीव्रं तपश् चरंश् च शरीरं क्षपयेत् ॥ ६.२४ ॥

अग्नीन् आत्मनि वैतानान् समारोप्य यथाविधि ।

अनग्निर् अनिकेतनः स्यान् मुनिर् मूलफलाशनः ॥ ६.२५ ॥

अग्नींश् चेति । ऊर्ध्वं षड्भ्यो मासेभ्यो “अनगिर् अनिकेतः” इति वसिष्ठदर्शनात् तस्मात् कालाद् ऊर्ध्वं श्रौतान् अग्नीन् वैखानसशास्त्रविधानेन आत्मनि भस्मपानादिद्वारेण समारोप्य ततो लौकिकाग्निपर्णकुटीगृहशून्यो मुनिश् च संयतवाङ्मूलफलाशन एव स्यात् ॥ ६.२५ ॥

अप्रयत्नः सुखार्थेषु ब्रह्मचारी धराशयः ।

शरणेष्व् अममश् चैव वृक्षमूलनिकेतनः ॥ ६.२६ ॥

अप्रयत्न इति । सुखप्रयोजनेषु शीतातपपरिहारादिषु यत्नरहितः स्त्रीसम्प्रयोगरहितः वरण्डकस्थण्डिलशायी आश्रमेषु वृक्षमूलेषु ममेदम् इत्य् एवमात्मीयाभिमानशून्यो वृक्षनिकेतननिवासी स्यात् ॥ ६.२६ ॥

तापसेष्व् एव विप्रेषु यात्रिकं भैक्षम् आहरेत् ।

गृहमेधिषु चान्येषु द्विजेषु वनवासिषु ॥ ६.२७ ॥

फलमूलाभावे तु तापसेष्व् इति । वानप्रस्थेभ्य एव ब्राह्मणेभ्यः प्राणवृत्तिमात्रप्रयोजनं भैक्ष्यम् आहरेद् अन्येभ्यश् चैव वनवासिभ्यः ॥ ६.२७ ॥

ग्रामाद् आहृत्य वाश्नीयाद् अष्टौ ग्रासान् वने वसन् ।

प्रतिगृह्य पुटेनैव पाणिना शकलेन वा ॥ ६.२८ ॥

तदभावे तु **ग्रामाद् **इति । ग्रामाद् आनीय ग्रामस्याप्य् अन्नस्याष्टौ ग्रासान् पर्णपुटिकया हस्तेन वा शरावादिखण्डेन वा प्रतिगृह्य वानप्रस्थो ऽश्नीयात् ॥ ६.२८ ॥

एतांश् चान्यांश् च सेवेत दीक्षा विप्रो वने वसन् ।

विविधाश् चौपनिअषदीर् आत्मसंसिद्धये श्रुतीः ॥ ६.२९ ॥

एतान् इति । वानप्रथ्यम् अनुतिष्ठन् विप्र एतान् अन्यांश् चैव वैखानसशास्त्रोक्तान् नियमान् अभ्यसेत् । आत्मनश् च वृक्षत्वप्राप्तये नानाप्रकार उपनिषदुक्ताः श्रुतीर् अर्थतो ऽभ्यसेत्

॥ ६.२९ ॥

ऋषिभिर् ब्राह्मणैश् चैव गृहस्थैर् एव सेविताः ।

विद्यातपोविवृद्ध्यर्थं शरीरस्य च शुद्धये ॥ ६.३० ॥

यस्माद् एताः ऋषिभिर् इति । ऋषिभिः सर्वार्थदर्शिभिः अङ्गीरसप्रभृतिभिर् अन्यैश् च ब्राह्मणैर् वानप्रस्थैर् एव गृहस्थैश् च विज्ञानविवृद्ध्यर्थम् उपनिषच्छ्रुतयः सेविताः तपोविवृद्ध्यर्थं शरीरस्य च कल्मषक्षयाय चादरेण दीक्षाः सेविताः तस्माद् एताः सेविता इति पूर्वविधिशेषपुराकल्पार्थवादः ॥ ६.३० ॥

अपराजितां वास्थाय व्रजेद् दिशम् अजिह्मगः ।

आ निपाताच् छरीरस्य युक्तो वार्यनिलाशनः ॥ ६.३१ ॥

अचिकित्स्यव्याध्युद्भवे ऽनिष्टसन्दर्शने वा सति अपराजिताम् इति । उत्तरपूर्वां वा दिशम् आश्रित्य अकुटिलयोगनिष्ठावान् वार्यम्बुभक्षः सन् आ शरीरसन्निपाताद् गच्छेत् । न पुरायुषः स्वकामी प्रेयाद् इत्य् एतत्श्रुतिविरोधो न, यतः स्वकामिशब्दाद् अविधिमरणम् अत्र निषिध्यते इति अवसीयते न शास्त्रचोदितम् इति ॥ ६.३१ ॥

आसां महर्षिचर्याणां त्यक्त्वान्यतमया तनुम् ।

वीतशोकभयो विप्रो ब्रह्मलोके महीयते ॥ ६.३२ ॥

आसाम् इति । एषां पूर्वोक्तानाम् अनुष्ठानानां मध्याद् अन्यतमेनानुष्ट्ःआनेन श्रीरं त्यक्त्वा विगतसन्तापो गतभयश् च विप्रो ब्रह्मलोके पूजां लभते सम्यगुक्तमरणाकरणेन वासौ

॥ ६.३२ ॥

वनेषु च विहृत्यैवं तृतीयं भागम् आयुषः ।

चतुर्थम् आयुषो भागं त्यक्त्वा सङ्गान् परिव्रजेत् ॥ ६.३३ ॥

वनेषु तु विहृत्यैवम् तृतीयं भागम् आयुषः । चतुर्थम् आयुषो भागस् त्यक्तसङ्गः परिव्रजेत् ॥ एवम् उक्तरीत्या तृतीयम् आयुर्भागं वानप्रस्थानुष्ठानार्थं वने उषित्वा ततश् चतुर्थम् आयुर्भागं पूर्वावस्थानाद् अतिशयेन रागादीन् त्यक्त्वा चतुर्थाश्रमम् अनुतिष्ठेत् वक्ष्यमाणाश्रमसमुच्चयपक्षे ॥ ६.३३ ॥

आश्रमाद् आश्रमं गत्वा हुतहोमो जितेन्द्रियः ।

भिक्षाबलिपरिश्रान्तः प्रव्रजन् प्रेत्य वर्धते ॥ ६.३४ ॥

आश्रमाद् इति । पूर्वोक्तेष्व् आश्रमेषु यथाक्रमं पूर्वस्मात् पूर्वस्माद् अनन्तरं आश्रमम् अनुष्ठाय यथासम्भव आश्रमेषु हुतहोमो जितेन्द्रियो भिक्षाबलिदानश्रान्तः सन् प्रव्रज्याम् अनुतिष्ठन् परलोके वर्धते । मोक्षप्राप्त्यानन्दमयं ब्रह्मेत्य् एवम् ऋद्ध्यतिशययुक्तो भवति ॥ ६.३४ ॥

ऋणानि त्रीण्य् अपाकृत्य मनो मोक्षे निवेशयेत् ।

अनपाकृत्य मोक्षं तु सेवमानो व्रजत्य् अधः ॥ ६.३५ ॥

तथाश्रमसमुच्चयपक्षाङ्गीकरणे सति ऋणानि त्रीण्य् अपाकृत्य मनो मोक्षे नियोजयेद् इति । उत्तरश्लोकवक्ष्यमाणानि त्रीणि ऋणानि संशोध्य ततः प्रव्रज्याद्वारेण मोक्षविषये मनो नियोजयेत् । तानि पुनर् असंशोध्य साक्षेपो ऽयं प्रव्रज्याम् अनुतिष्ठन् नरकं व्रजति ॥ ६.३५ ॥

अधीत्य विधिवद् वेदान् पुत्रांश् चोत्पाद्य धर्मतः ।

इष्ट्वा च शक्तितो यज्ञैर् मनो मोक्षे निवेशयेत् ॥ ६.३६ ॥

तानि ऋणानि दर्शयति अधीत्येति । “त्रिभिर् ऋणैर् ऋणवा जायते मनुष्यो यज्ञेन देवेभ्यः प्रजया पितृभ्यः स्वाध्यायेन ऋषिभ्यः” इति ब्रूयात् । यथाशास्त्रं वेदान् अधीत्य पुरांश् च पर्वगमनानृतुरिरंसावर्जम् ऋतुकालादिगमनधर्मेणोत्पाद्य यज्ञैश् च ज्योतिष्टोमादिभिर् यथाशक्तिर् इष्ट्वा ततो मोक्षोपायप्रव्रज्याख्ये मनो नियोजयेत् ॥ ६.३६ ॥

अनधीत्य द्विजो वेदान् अनुत्पाद्य तथा प्रजाम् ।

अनिष्ट्वा चैव यज्ञश् च मोक्षम् इच्छन् व्रजत्य् अधः ॥ ६.३७ ॥

अनधीत्य द्विजो वेदम् अनुत्पाद्य तथा सुतम् इति । वेदाध्ययनप्रजोत्पादन-यज्ञानुष्ठानान्य् अकृत्वा मोक्षम् इच्छन् नरकं व्रजति ॥ ६.३७ ॥

प्राजापत्यां निरुप्येष्टिं सर्ववेदसदक्षिणाम् ।

आत्मन्य् अग्नीन् समारोप्य ब्राह्मणः प्रव्रजेद् गृहात् ॥ ६.३८ ॥

प्राजापत्याम् इति । यजुर्वेदपूर्वाख्यग्रन्थोक्तां प्रजापतिदेवताकां सर्वस्वधनदक्षिणाम् इष्टिं कृत्वा तदुक्तविधिनैव भस्मपानादिना समारोप्य वानप्रथाश्रमम् अनन्तरम् अकृत्वैव गृहस्थाश्रमान्तरम् एव ब्राह्मणः प्रव्रज्याम् अनुतिष्ठेद् इति । एवम् आश्रमाणां समुच्चयपक्षो ऽनेन दर्शितः । त्रिचतुःसमुच्चयविकल्पपक्षाश् च सर्व एव श्रुतिनोदिताः स्थिताः । तथा च जाबालश्रुतौ- “ब्रह्मचर्यं समाप्य गृही भवेत् गृही भूत्वा वनी भवेत् वनी भूत्वा प्रव्रजेद् यदि चेतरथानुकुर्यात् । ब्रह्मचर्याद् एव प्रव्रजेद् गृहाद् वा वनाद् वा” इत्य् उक्तम् ॥ ६.३८ ॥

यो दत्वा सर्वभूतेभ्यः प्रव्रजत्य् अभयं गृहात् ।

तस्य तेजोमया लोका भवन्ति ब्रह्मवादिनः ॥ ६.३९ ॥

इति । तस्य ते तैजसा लोका भवन्ति ब्रह्मवादिनःयः सर्वभूतेभ्यो ऽभयं दत्वा गृहाद् एव प्रव्रजति तस्य ब्रह्मस्वरूपनिरूपणार्थोपनिषदादिशास्त्रनिष्ठस्य नित्यप्रकाशका लोका भवन्ति ॥ ६.३९ ॥

यस्माद् अण्व् अपि भूतानां द्विजान् नोत्पद्यते भयम् ।

तस्य देहाद् विमुक्तस्य भयं नास्ति कुतश्चन ॥ ६.४० ॥

यस्माद् इति । यस्य द्विजस्य सकाशाद् भूतानां सूक्ष्मम् अपि भयं नोत्पद्यते तस्य साम्प्रतिकशरीरपाताद् अनन्तरं कस्माच्चिद् अपि भयं न भवति ॥ ६.४० ॥

अगाराद् अभिनिष्क्रान्तः पवित्रोपचितो मुनिः ।

समुपोढेषु कामेषु निरपेक्षः परिव्रजेत् ॥ ६.४१ ॥

अगाराद् इति । गृहान् निर्गतः पवित्रैर् दर्भाजिनदण्डकमण्डल्वादिभिर् युक्ता संयतवाक् केनचिद् वोपहृतेषु स्वाद्वन्नादिष्व् अपगतस्पृहः व्रजेत् ॥ ६.४१ ॥

एक एव चरन् नित्यं सिद्ध्यर्थम् असहायवान् ।

सिद्धम् एकस्य सम्पश्यन् न जहाति न हीयते ॥ ६.४२ ॥

एक इति । एकस्य सतो मोक्षावाप्तिर् भवतीति एवं जानन्न् एक एव न प्रव्रजितान्तरेण सहासीतासहायवान् भृत्यादिरहितो ऽन्यत्यागेनेत्य् अपरे । बौधायनेन हि “स्त्रीणां चैके” इति स्त्रीणाम् अपि प्रव्रज्योक्ता, एवं प्रकुर्वन् न किञ्चित् त्यजति, नापि केन त्यज्यते, वियोगदुःखं न तेनानुब्ःऊयते, न चान्यो ऽनुभाव्यते, सुसम्बन्धात्मकाभावाद् अविघ्नेन मोक्षोपायसम्पत्तिः ॥ ६.४२ ॥

अनग्निर् अनिकेतः स्याद् ग्रामम् अन्नर्थम् आश्रयेत् ।

उपेक्षको ऽसङ्कुसुको मुनिर् भावसमाहितः ॥ ६.४३ ॥

अनग्निर् इति । अप्रेक्षको ऽसङ्कुसुको मुनिर् भाव्समाहितः । शास्त्रे ऽग्निसमारोपणस्योक्तत्वात् लौकिकाग्निरहितः अगृह्यक उपेक्षको व्याध्यादेर् उत्पत्तेः शरीरस्यापि । यथाह शङ्खः- “आत्मनः प्रतिकारं कुर्यात् नापि कारयेत्” । नानुमान्येति (?) । असङ्कुसुकः संयतबुद्धिः, चेतसा च संयतः स्यात्, भिक्षार्थं च ग्रामं गच्छेत् ॥ ६.४३ ॥

कपालं वृक्षमूलानि कुचैलम् असहायता ।

समता चैव सर्वस्मिन्न् एतन् मुक्तस्य लक्षणम् ॥ ६.४४ ॥

कपालं वृक्षमूलानि कुचैलम् असहायवान् इति । कर्पटं भिक्षार्थं वृक्षमूलानि आश्रयः, कुचैलं कन्था वासोर्थम्, एकारामता सङ्गत्यागाय शत्रौ मित्रे च साम्यम् इत्य् एतत् मुक्तिसाधनन्त्वान् मुक्तस्य चिह्नम् ॥ ६.४४ ॥

नाभिनन्देत मरणं नाभिनन्देत जीवितम् ।

कालम् एव प्रतीक्षेत निर्देशं भृतको यथा ॥ ६.४५ ॥

नाभिनन्देतेतिमरणं जीवितं वा नाभिलषेत्, अपि तु भृतिसंशुद्धिकालं यथा भृतको ऽपेक्ष्यते एवं स्वेच्छापनिपाते तं मरणकालम् अपेक्षते ॥ ६.४५ ॥

दृष्टिपूतं न्यसेत् पदं वस्त्रपूतं जलं पिबेत् ।

सत्यपूतां वदेद् वाचं मनःपूतं समाचरेत् ॥ ६.४६ ॥

दृष्टिपूतम् इति । प्राण्युपघातपरिहारार्थं चक्षुःशोधितं पदं क्षिपेत् । उदकसूक्ष्मजन्तुपरिहारार्थं च वस्त्रसंशोधितं जलं पिबेत्सत्यपवित्रीकृतां च वाचं वदेत् । एवं च मौनेन हास्यविकल्पः असत्सङ्कल्पेन परिहारेण च मनसा पवित्रीकृतात्मा सर्वदा स्यात् ॥ ६.४६ ॥

अतिवादांस् तितिक्षेत नावमन्येत कञ्चन ।

न चेमं देहम् आश्रित्य वैरं कुर्वीत केनचित् ॥ ६.४७ ॥

अतिवादान् इति । सामर्षवादान् क्षमेत न कञ्चन परिभवेत् । न चेदं शरीरम् आश्रित्य व्याध्यायतनभूतं विद्युदुद्द्योत इव विनश्वरं एतन्निमित्तकं स्वर्गापवर्गपरिपन्थि केनचिद् अपि सह चैरं न कुर्यत् ॥ ६.४७ ॥

क्रुध्यन्तं न प्रतिक्रुध्येद् आक्रुष्टः कुशलं वदेत् ।

सप्तद्वारावकीर्णां च न वाचम् अनृतां वदेत् ॥ ६.४८ ॥

क्रुध्यन्तम् इति । सञ्जातक्रोधाय प्रतीपं न क्रुध्येत । अधिक्षिप्तश् चाधिक्षेप्तारम् भद्रं वदेत् । धर्मो ऽर्थः कामो धर्मार्थाव् अर्थकामौ धर्मकामार्थकामा समस्ताश् चेत्य् एतानि यानि वाचः सप्तोच्चारणनिमित्तानि तेष्व् अवकीर्णां विक्षिप्तां तद्विषयां सर्वस्य च भेदस्वास्त्यरूपस्यानृतार्थां वाचं न वदेद् अपि तु मोक्षाश्रिताम् एव वदेत् ॥ ६.४८ ॥

अध्यात्मरतिर् आसीनो निरपेक्षो निरामिषः ।

आत्मनैव सहायेन सुखार्थी विचरेद् इह ॥ ६.४९ ॥

अध्यात्मरतिर् इति । उपनिषदाद्यध्यात्मवृत्तिः सन् दण्डकमण्डल्वादिष्व् अपगताविशेषापेक्षो निःस्पृहो असहायः सण् सुखान्य् अस्मिन् संसारे विचरन् ॥ ६.४९ ॥

न चोत्पातनिमित्ताभ्यां न नक्षत्राङ्गविद्यया ।

नानुशासनवादाभ्यां भिक्षां लिप्सेत कर्हिचित् ॥ ६.५० ॥

**न चेति **। भूकम्पाद्युत्पातचक्षुःस्पन्दनादिनिमित्तफलकथनेन अद्याश्विनी, हस्तनखकरलेकालक्षणम् इत्य् एतत् नक्षत्राङ्गविद्यया च तथायं नीतिमर्गम् इच्छन् नान्यं वर्तितुम् इत्य् अनुशासनेन शास्त्रार्थवदनेन कदाचिद् अपि भिक्षां लब्धुम् इच्छेत् ॥ ६.५० ॥

न तापसैर् ब्राह्मणैर् वा वयोभिर् अपि वा श्वभिः ।

आकीर्णं भिक्षुकैर् वान्यैर् अगारम् उपसंव्रजेत् ॥ ६.५१ ॥

नेति । वानप्रस्थब्राह्मणपक्षिश्वभिर् अन्यैर् भिक्षाटनशीलैर् व्याप्तं गृहं भिक्षार्थं न प्रविशेत् ॥ ६.५१ ॥

कॢप्तकेशनखश्मश्रुः पात्री दण्डी कुसुम्भवान् ।

विचरेन् नियतो नित्यं सर्वभूतान्य् अपीडयन् ॥ ६.५२ ॥

कॢप्तकेशनखश्मशुर् इति । लूनकेशनखश्मश्रुः पात्री दण्डकुसुम्भवा सर्वभूतान्य् अपीडयन् नियतो बुद्धिमान् सर्वदा विचरेत् ॥ ६.५२ ॥

अतैजसानि पात्राणि तस्य स्युर् निर्व्रणानि च ।

तेषाम् अद्भिः स्मृतं शौचं चमसानाम् इवाध्वरे ॥ ६.५३ ॥

अतैजसानीति । सौवर्णलोहादिवर्जितानि अच्छिद्राणि भिक्षाभोजनपात्राणि स्युर् निर्व्रणानि च तेषां च उदकेनैव शुद्धिर् यज्ञे चमसानाम् इव ॥ ६.५३ ॥

अलाबुं दारुपात्रं च मृन्मयं वैदलं तथा ।

एतानि यतिपात्राणि मनुः स्वायम्भुवो ऽब्रवीत् ॥ ६.५४ ॥

अलाबुं वा दारुपात्रम् इति । अलाबुदारुमृत्तरुत्वङ्निर्मितानि पात्राणि प्रव्रजितानां स्वायम्भुवो मनुर् आह ॥ ६.५४ ॥

एककालं चरेद् भैक्षं न प्रसज्जेत विस्तरे ।

भैक्षप्रसक्तो हि यतिर् विषेयेष्व् अपि सज्जति ॥ ६.५५ ॥

एककालम् इति । सकृत्प्राणयात्रामात्रार्थम् एकवारम् एव भैक्षं चरेत् । नोभयकालम् अपि भैक्षचरणविस्तरप्रसङ्गं न कुर्यात् । यस्माद् भैक्षाशनातिशयेन शक्तो यतिर् अन्नमदोद्रेकात् विषयान्तरेष्व् अपि सज्जति ॥ ६.५५ ॥

विधूमे सन्नमुसले व्यङ्गारे भुक्तवज्जने ।

वृत्ते शरावसम्पाते भिक्षां नित्यं यतिश् चरेत् ॥ ६.५६ ॥

विधूम इति । विगतधूमे काले निवृत्तमुसलावहननेषु पाकज्वालासूपशान्तासु गृहस्थपर्यन्तेषु जनेषु कृतभोजनेषु उच्छिष्टशरावेषु त्यक्तेषु सर्वदा यतिर् भिक्षां चरेत्

॥ ५.५६ ॥

अलाभे न विषादी स्याल् लाभे चैव न हर्षयेत् ।

प्राणयात्रिकमात्रः स्यान् मात्रासङ्गाद् विनिर्गतः ॥ ६.५७ ॥

“न रागी न विषादी स्याल् लाभश् चैनं न हर्षयेत्” इति । लाभालाभयोर् हर्षविषदौ न भजेत । प्राणाप्यायनमात्रम् अन्नं भुञ्जीत । दण्डकमण्डल्वादिमात्रायाम् इदं शोधनं नेत्य् एवं सङ्गं न कुर्यात् ॥ ६.५७ ॥

अभिपूजितलाभांस् तु जुगुप्सेतैव सर्वशः ।

अभिपूजितलाभैश् च यतिर् मुक्तो ऽपि बध्यते ॥ ६.५८ ॥

“अतिपूजितलाभात् तु भिक्षां यत्नेन वर्जयेत् । अतिपूजितलोभैस् तु यतिर् मुक्तो ऽपि बध्यत्” ॥ पूजापूर्वकभैक्ष्यलाभात् सर्वदा निन्द्येद् अतश् च वर्जयेत् । यस्मात् पूजितलाभसहोत्पत्त्या यतिर् मोक्षमाणो ऽपि संसारं प्राप्नोति ॥ ६.५८ ॥

अल्पान्नाभ्यवहारेण रहःस्थानासनेन च ।

ह्रियमाणानि विषयैर् इन्द्रियाणि निवर्तयेत् ॥ ६.५९ ॥

अल्पान्नाभ्यवहारेणेति । विषयै रूपादिभिर् उपभोगार्थम् इन्द्रियाणि अल्पान्नभोजनेन एकान्तदेश उपवेशनेन च ह्रियमाणानि विषयेन्द्रियाणि निवर्तयेत् ॥ ६.५९ ॥

इन्द्रियाणां निरोधेन रागद्वेषक्षयेण च ।

अहिंसया च भूतानाम् अमृतत्वाय कल्पते ॥ ६.६० ॥

यस्मात् इन्द्रियाणाम् इति । इन्द्रियजयरागद्वेषादिनः अहिंसावर्जनैर् मोक्षाय योग्यो भवति

॥ ६.६० ॥

अवेक्षेत गतीर् नॄणां कर्मदोषसमुद्भवाः ।

निरये चैव पतनं यातनाश् च यमक्षये ॥ ६.६१ ॥

अधुनेन्द्रियजय्पायतया संसारनिषेधम् उपदिशति अवेक्षेतेति । शिष्टाकरणप्रतिषिद्धसेवनेनोत्पन्नपापसमुद्भवाः क्षेत्रज्ञानां सर्पकृकलासकृम्यादिशरीरप्राप्तीः यमगृहे ऽपि नरकपतनं यातनाश् च निशिततरकरपत्रविदारात्मकाः शास्त्रदृष्ट्या विलोकयेत् ॥ ६.६१ ॥

विप्रयोगं प्रियश् चैव संयोगं च तथाप्रियैः ।

जरया चाभिभवनं व्याधिभिश् चोपपीडनम् ॥ ६.६२ ॥

विप्रयोगम् इति । इष्टवियोगानिष्टसंयोगजरजाभिभवव्याध्युपपीडनानि कर्मदोषोद्भवानि पर्यालोचयेत् ॥ ६.६२ ॥

देहाद् उत्क्रमणं चास्मात् पुनर् गर्भे च सम्भवम् ।

योनिकोटिसहस्रेषु सृतीश् चास्यान्तरात्मनः ॥ ६.६३ ॥

देहाद् इति । अस्य क्षेत्रज्ञस्य अस्माच् छरीराद् दुःसहसन्धिबन्धनिघट्टनपूर्वबहुलतर-तमःप्रवेशकर्कशम् उत्क्रमणं पुनश् च शीतोष्णतिक्तकटुकादिजननान्य् अशनपानादिदुःखबहुलगर्भ उत्पत्तिं सृगालादिनिकृष्टजात्यन्तयोनिगमनानि च कर्मदोषसमुद्भवान्य् अवेक्षेत ॥ ६.६३ ॥

अधर्मप्रभवं चैव दुःखयोगं शरीरिणाम् ।

धर्मार्थप्रभवं चैव सुखसंयोगम् अक्षयम् ॥ ६.६४ ॥

अधर्मप्रभवम् इति । शरीरवतां क्षेत्रज्ञानाम् अधर्मकारणकं दुःखसम्बन्धं धर्मार्थनिमित्तकं च क्षेमं सुखसम्बन्धम् अवेक्षेत । अत इत्थं पर्यालोच्येन्द्रियजये मोक्षोपायभूते यतेत ॥ ६.६४ ॥

सूक्ष्मतां चान्ववेक्षेत योगेन परमात्मनः ।

देहेषु चैवोपपत्तिम् उत्तमेष्व् अधमेषु च ॥ ६.६५ ॥

सूक्ष्मताम् इति । परमात्मनश् चित्तवृत्तिस्थैर्येण सूक्ष्मताम् अवेक्षेत । य त्षो ऽन्तर्हृदये ऽणीयान् इति श्रुतेर् यदि वा शरीरादिस्थूलपदार्थव्यतिरिक्तत्वावलम्बनेनोपरचितसूक्ष्मत्व-व्यपदेशे सति सूक्ष्मताम् अवेक्षेत । तथोत्कृष्टापकृष्टशरीरेषु शुभाशुभफलोपभोगार्थम् अधिष्ठातृत्वम् अस्वावेक्षेत ॥ ६.६५ ॥

भूषितो ऽपि चरेद् धर्मं यत्र तत्राश्रमे रतः ।

समः सर्वेषु भूतेषु न लिङ्गं धर्मकारणम् ॥ ६.६६ ॥

“भूषितो ऽपि चरेद् धर्मं यत्र तत्राश्रमे वसन्” इति । यस्मिन् कस्मिंश्चिद् आश्रमे स्थितः सर्वभूतेषु समः सन् आश्रमलिङ्गपरित्यागेन तद्विरुद्धवेषालङ्कारयुक्तो ऽपि तदाश्रमोक्तं यमसमूहम् अनुतिष्ठेत् । यस्मान् न दण्डकमण्डल्वादिधारणं धर्मस्य कारणम् अपि तु यमनियमानुष्ठानं यमनियमानुष्ठानकर्मप्राधान्यख्यापनार्थम् एतल्लिङ्गनिन्दावचनं न लिङ्गपरित्यागार्थं विहितत्वात् ॥ ६.६६ ॥

फलं कतकवृक्षस्य यद्य् अप्य् अम्बुप्रसादकम् ।

न नामग्रहणाद् एव तस्य वारि प्रसीदति ॥ ६.६७ ॥

अत्र दृष्टान्तम् आह फलम् इति । कतकवृक्षफलं यद्य् अपि कलुषोदकप्रसन्नतोत्पादकं तथापि तत्सम्बन्धिनामोच्चारणमात्रेणैव उदकं प्रसन्नं न भवति, अपि तु फलप्रक्षेपक्रियाम् अपेक्षते, एवं न लिङ्गधारणमात्रेणैव धर्मोन्नत्य् अपि तु अनुष्ठानम् अपेक्षते ॥ ६.६७ ॥

संरक्षणार्थं जन्तूनां रात्राव् अहनि वा सदा ।

शरीरस्यात्यये चैव समीक्ष्य वसुधां चरेत् ॥ ६.६८ ॥

संरक्षणार्थम् इति । शरीरपीडायाम् अपि यस्माद् एतं समीक्ष्य वसुधां चरेद् इति, तस्य च प्रायश्चित्तम् अप्रकरणे ऽप्य् आदरार्थम् ॥ ६.६८ ॥

अह्ना रात्र्या च याञ् जन्तून् हिनस्त्य् अज्ञानतो यतिः ।

तेषां स्नात्वा विशुद्ध्यर्थं प्राणायामान् षड् आचरेत् ॥ ६.६९ ॥

**अह्नेति **। यान् अचिन्तितान् प्राणिनो ऽहनि रात्रौ वा यतिर् हन्ति तद्वध्पापहिर्हरणार्थं स्नात्वा,

सव्याहृतिं सप्रणवां गायत्रीं शिरसा सह ।

त्रिः पठेद् आयतप्राणः प्राणायामः स उच्यते ॥

इति वसिष्ठकृतलक्षणात् प्राणायामान् षट् कुर्यात् । अस्य च प्रायश्चित्तप्रकर्षेणोत्कर्ष आदरार्थः । असिञ्चितवृत्ते ऽपि व्यतिक्रमे पापं भवति अस्माद् अज्ञानत इति वचनाद् अवसीयते ॥ ६.६९ ॥

प्राणायामा ब्राह्मणस्य त्रयो ऽपि विधिवत् कृताः ।

व्याहृतिप्रणवैर् युक्ता विज्ञेयं परमं तपः ॥ ६.७० ॥

यस्मात् प्राणायामा इति । प्राणायामा भूर् भुवः स्वर् इत्य् एताभिर् व्याहृतिभिर् ओङ्कारेण च युक्ताः कुम्भकपूरकरेचकविधानेन कृता प्रकृष्टं तपो ब्राह्मणस्य बोद्धव्यम् । तत्र बाह्याभ्यन्तरवायोः कोष्ठप्रवेशनिष्क्रमणनिरोधकुम्भकोच्छ्वास्यवायोर् अनवरतोत्सर्गो रेचक इति ॥ ६.७० ॥

दह्यन्ते ध्मायमानानां धातूनां हि यथा मलाः ।

तथेन्द्रियाणां दह्यन्ते दोषाः प्राणस्य निग्रहात् ॥ ६.७१ ॥

दह्यन्त इति । धातूनां सुवर्णाद्युत्पत्तिमृदाद्यग्निमध्ये भस्मादिना ध्मायमानानां यथा द्रव्याणि दह्यन्ते एवम् इन्द्रियाणां विषयप्रवृत्त्या ये रागादयो दोषा उद्भवन्ति ते प्राणनिर्ग्रहेण विषयान् प्राणनिग्रहणविषयानाम् अभिध्यानं ततो रागादिव्यावृत्तिः इत्य् एतद् अनेनोच्यते ॥ ६.७१ ॥

प्राणायामैर् दहेद् दोषान् धारणाभिश् च किल्बिषम् ।

प्रत्याहारेण संसर्गान् ध्यानेनानीश्वरान् गुणान् ॥ ६.७२ ॥

एवं च सति प्राणायामैर् इति । अनन्तरोक्तनीत्या प्राणायामै रागादीन् दहेत् । देशबन्धश् चित्तस्य धारणेतियोगादिलक्षणादिवित्तस्याव्यापृष्टतावस्थस्य अप्रतिष्टास्य हृदयादिदेशधारणात्मिकाभिः किल्बिषं दहेत् । पापम् उद्धर्तुं रक्षेत् । प्रत्याहारेण च मनसो विषयेभ्यः प्रत्याकर्षणेन संसर्गान् इन्द्रियव्षयसम्पर्काखान् विषयोपलब्धिहेतून् उद्धर्तुं रक्षेत् । तत्प्रत्यैकताध्यानम् इति योगशास्त्रोक्तलक्षणेन विजातीयप्रत्यान् अनुविद्धात्मसाक्षत्कारणरूपेण च ध्यानेन धर्मो ज्ञानं निरागम् ऐश्वर्यं सात्त्विकम् एतद्रूपं नित्यम् अस्माद् विपर्यस्तं इत्य् एतत् साङ्ख्योक्तेन धर्माज्ञानाद्यैर् वैरागानैश्वर्यान् गुणान् दहेत् ॥ ६.७२ ॥

उच्चावचेषु भूतेषु दुर्ज्ञेयाम् अकृतात्मभिः ।

ध्यानयोगेन सम्पश्येद् गतिम् अस्यान्तरात्मनः ॥ ६.७३ ॥

उच्चावचेष्व् इति । अस्य क्षेत्रज्ञस्योत्कृष्टापकृष्टेषु ब्रह्मादिस्तम्बपर्यन्तेषु भूतेषु प्राप्तिम् असंस्कृतात्मभिर् अशास्त्रात् तैर् एवाहरेत् (?) तथावद् द्विजायतीयाद् अनेन हेतुना यं संसारान् प्रतिपद्यत इति ॥ ६.७३ ॥

सम्यग्दर्शनसम्पन्नः कर्मभिर् न निबध्यते ।

दर्शनेन विहीनस् तु संसारं प्रतिपद्यते ॥ ६.७४ ॥

यस्मात् सम्यग् इति । आत्मविषयसम्यग्ज्ञानोपेतः कर्मभिस् तैलपक्वबीजवद् अत्मज्ञाने सति कार्यजननासमर्थैर् न निबध्यते संसारे नोपपद्यते आत्मज्ञानशून्यः पुनः संसारम् आवर्तते ॥ ६.७४ ॥

अहिंसयेन्द्रियासङ्गैर् वैदिकैश् चैव कर्मभिः ।

तपसश् चरणैश् चोग्रैः साधयन्तीह तत् पदम् ॥ ६.७५ ॥

अहिंसयेति । अशास्त्रितहिंसावर्तनेनेन्द्रियाणां च विषयासक्तिपरिहारेण वैदिकैश् च नित्यैः कर्मभिः तीर्थैश् च कृच्छ्रचान्द्रायणानुष्ठानैर् इह संसारे च ब्रह्मप्राप्तिलक्षणं पदं साधयन्तीह श्लोकद्वयेन ज्ञानकर्मसमुच्चयफलम् आह ॥ ६.७५ ॥

अस्थिस्थूणं स्नायुबद्धं मांसशोणितलेपनम् ।

चर्मावनद्धं दुर्गन्धि पूर्णं मूत्रपुरीषयोः ॥ ६.७६ ॥

जराशोकसमाविष्टं रोगायतनम् आतुरम् ।

रजस्वलम् अनित्यं च भूतावासम् इमं त्यजेत् ॥ ६.७७ ॥

इदानीं अपवर्गसाधनभूतवैराग्योद्भवविषयकायस्वरूपम् आह अस्थिस्थूणं स्नायुबद्धम् इति । जराशोकसमाविष्टम् इति । पृथिव्यादिभूतविकारमांसादिमयं शरीरम् इदं गृहकं त्यजेत् । रूपकभङ्ग्या चास्य गृहत्वं दर्शयति । अस्थीनि स्थूणा इव यस्य तदवष्टब्धत्वात् स्नायुभिर् बद्धं मांसरुधिराभ्याम् उपलिप्तं चर्मच्छादितं मूत्रपुरीषाभ्यां पूर्णम् अत एव दुर्गन्धिजरोपेताभ्याम् आक्रान्तं व्याधीनां आश्रयभूतम् आतुरं क्षुत्पिपासादिकातरं बाहुल्येन राजसं नश्वरम् इति ॥ ६.७६–७७ ॥

नदीकूलं यथा वृक्षो वृक्षं वा शकुनिर् यथा ।

तथा त्यजन्न् इमं देहं कृच्छ्राद् ग्राहाद् विमुच्यते ॥ ६.७८ ॥

त्यक्तुर् वैरूप्याद् दृष्टान्तद्वयं दर्शयितुम् आह नदीकूलम् इति । यस् तावद् आत्मज्ञानाभ्यासनिष्ठो न चात्मतत्त्वतः कर्मक्षयात् परतन्त्रं शरीरपातं नदीकूलवृक्षवद् अपेक्षेत यः पुनर् अधिगतविविक्तात्मज्योतिः स बुद्धिपूर्वकम् अपि शकुनिभिर् इव वृक्षम् उत्क्रान्तिसमवलम्बनेन देहं त्यजेत् । एवम् इदं शरीरं त्यजन् दुःखमूलाज् जलचरप्राणिभेदाद् इव संसाराद् विमुच्यते । आत्मज्ञानाभ्यासनिष्ठस्य सत्य् अप्य् अन्तरा कथञ्चित् शरीरपाते शरीरान्तरेणावशिष्टात्मज्ञानपरिपूरणे सति अपवर्गो ऽवश्यं भवतीति योगविदां दर्शनम् अतस् तं प्रत्य् अपि तथा त्यजन्न् इमं देहं कृच्छ्राद् ग्राहाद् विमुच्यते इत्य् एतत् घटते ॥ ६.७८ ॥

प्रियेषु स्वेषु सुकृतम् अप्रियेषु च दुष्कृतम् ।

विसृज्य ध्यानयोगेन ब्रह्माभ्येति सनातनम् ॥ ६.७९ ॥

प्रियेष्व् इति । स्वधर्माविरोधिप्रियेषु केनचित् क्र्तेषु न प्राग्जन्मार्जितसुकृतम् अन्तरेण कस्यचित् घटते । तेनायं पुरुषो मम प्रियकर्ता अपि त्व् आत्मक्र्तसुकृतम् इत्य् एवं ध्यानापयासेनात्मीयम् एव सुकृतं कर्तृत्वेनारोप्य एवम् अप्रियेष्व् अपि केनचित् कृतेष्व् आत्मीयम् एव प्राग्जन्मार्जितं दुष्कृतं कारणत्वेन प्रकल्प्य तत्सम्पादयितारं पुरुषं प्रति रागद्वेषाभावान् नित्यं ब्रह्माभ्येति तद्भावम् उपगच्छति ॥ ६.७९ ॥

यदा भावेन भवति सर्वभावेषु निःस्पृहः ।

तदा सुखम् अवाप्नोति प्रेत्य चेह च शाश्वतम् ॥ ६.८० ॥

**यदेति **। यदा पारमार्थिकेन चेतोधर्मेण सर्ववस्तुषु विगताभिलाषो भवति तदा देहपाताद् ऊर्ध्वम् इहलोके शतमखं प्रमीतश् चापवर्गसुखं नित्यं प्राप्नोति ॥ ६.८० ॥

अनेन विधिना सर्वांस् त्यक्त्वा सङ्गाञ् छनैः शनैः ।

सर्वद्वन्द्वविनिर्मुक्तो ब्रह्मण्य् एवावतिष्थते ॥ ६.८१ ॥

अनेनेति । अनेन विधिना संसारस्वरूपनिरूपणात्मकेन शनैः शनैः सर्वान् विषयसम्पर्कांस् त्यक्त्वा ततः सर्वद्वन्द्वैः क्षुत्सौहित्यादिभिर् विनिर्मुक्तः सिद्धरूपे ब्रह्मण्य् अवतिष्ठते ॥ ६.८१ ॥

ध्यानिकं सर्वम् एवैतद् यद् एतद् अभिशब्दितम् ।

न ह्य् अनध्यात्मवित् कश्चित् क्रियाफलम् उपाश्नुते ॥ ६.८२ ॥

ध्यानिकम् इति । यद् एतच् छास्त्रम् उक्तम् एतद् ध्यानिकं ध्याने न सति परमात्मचिन्तने सति उत्कृष्टफलं भवति यस्माद् आत्मस्वरूपविद् यो न भवति सो ऽनुष्ठानफलम् अपरिपूर्णं प्राप्नोति यथा रहस्यब्राह्मणं “यो वा एतद् अक्षरं गार्ग्य विदित्वास्मिंल् लोके जुहोति यजते तपस् तप्यते बहूनि वर्षसहस्राण्य् अन्तवद् एवास्य भवति” इति ॥ ६.८२ ॥

अधियज्ञं ब्रह्म जपेद् आधिदैविकम् एव च ।

आध्यात्मिकं च सततं वेदान्ताभिहितं च यत् ॥ ६.८३ ॥

अधियज्ञम् इति । यज्ञम् अधिकृत्य प्रवृत्तं ब्राह्मणाख्यं वेदं देवताम् अधिक्र्त्य प्रवृत्तं देवताप्रकाशनपरम् अग्निर् मूर्धेत्यादिकं आत्मानं चाधिकृत्य प्रवृत्तं पुरुषसूकादिकम् उपनिषत्सु चोक्तं सर्वकालं जपेत् ॥ ६.८३ ॥

इदं शरणम् आज्ञानाम् इदम् एव विजानताम् ।

इदम् अन्विच्छतां स्वर्गम् इदम् आनन्त्यम् इच्छताम् ॥ ६.८४ ॥

इदम् इति । शास्त्रार्थानभिज्ञानां ब्रह्मैव वेदाख्यं शरणगतिः इत्य् उत्कर्षापकर्षणप्राप्तपरिहारहेतुत्वा । एवम् इदम् एव ज्ञानवतां स्वर्गापवर्गम् इच्छताम् इति

॥ ६.८४ ॥

अनेन क्रमयोगेन परिव्रजति यो द्विजः ।

स विधूयेह पाप्मानं परं ब्रह्माधिगच्छति ॥ ६.८५ ॥

अनेनेति । उक्तेनाश्रमसम्बन्धेन यो द्विजः प्रव्र्ज्याम् आश्रयति इहैव लोके कल्मषं निर्दह्य क्षयात् परं ब्रह्मरूपं सम्पद्यते ॥ ६.८५ ॥

एष धर्मो ऽनुशिष्टो वो यतीनां नियतात्मनाम् ।

वेदसन्न्यासिकानां तु कर्मयोगं निबोधत ॥ ६.८६ ॥

एष इति । एषो ऽन्यतरोक्तो यतात्मनां सम्बन्धी धर्मो युष्माकम् उक्तः । इदानीं वेदोदिताग्निहोत्रादिकर्मपरित्यागिनाम् एतान् ऐके महायज्ञान् इत्यादिप्रकारेण ज्ञानबलाद् अग्निहोत्रादिकर्मसम्पादिनां कर्मबन्धं शृणुत । न चाग्निहोत्रादीनां श्रुतिचोदितानां स्मृत्या कथं त्याग इति वाच्यम् आत्मज्ञाननिष्ठं प्रति यावद् वै पुरुषो भाषत इत्यादि चतुर्थाध्यायदर्शितश्रुतिप्रकारेणास्याप्य् अनुष्ठानस्य श्रौतत्वाद् यद्य् अपि गृहस्थविशेष एव वेदसन्न्यासिकस् तथापि प्रव्रज्यावैकल्पिकत्वं सन्न्यासिकत्वस्य ज्ञापयितुं प्रव्रजितधर्मसमनन्तरम् अभिधानम् एवं च गृहस्थवेदत्वेन वेदसन्न्यासिकस्य चातुराश्रम्यान्तर्भावाद् आश्रमाणां चतुस्त्रिद्विसमुच्चयविकल्पबाधपक्षात् दर्शयितुं तावद् इष्टम् आह ॥ ६.८६ ॥

ब्रह्मचारी गृहस्थश् च वानप्रस्थो यतिस् तथा ।

एते गृहस्थप्रभवाश् चत्वारः पृथग् आश्रमाः ॥ ६.८७ ॥

ब्रह्मचारीति । य एते ब्रह्मचर्यादय आश्रमिणः पृथग् उक्ता एते गृहस्थजन्याः । एवं च गृहस्थव्यतिरिक्ताश्रमिभिः शास्त्रव्यतिक्रमेण ज्ञातानां नास्ति हस्तचर्याद्याश्रमाधिकारः

॥ ६.८७ ॥

सर्वे ऽपि क्रमशस् त्व् एते यथाशास्त्रं निषेविताः ।

यथोक्तकारिणं विप्रं नयन्ति परमां गतिम् ॥ ६.८८ ॥

सर्वे ऽपीति । **सर्वे ऽपि **चत्वारो ऽप्य् अपिशब्दात् त्रयो द्वाव् एक एव इत्य् एतद् उक्तशास्त्रानतिक्रमेणानुष्ठिताः सन्तो यथोक्तानुष्ठातारं विप्रब्रह्मप्राप्तिलक्षणां गतिं प्रापयन्ति । समुच्चयविकपपक्षाणां ब्रह्मचर्यं परिसक्त इत्यादिश्रुतिमूलं दर्शितम् । बाधापक्षे ऽपि जरामयं च एतत् सत्रं यद् अग्निहोमं जुहोति यद् दर्शपूर्णमासाभ्यां यजत इत्यादिश्रुतिमूलत्वम् । एवं च समुच्चयविकल्पबाधापक्षाणां सर्वेषां श्रुतिमूलत्वाद् यथारुच्य् अन्यतमपक्षानुष्ठानं नैष्ठिकत्वस्यापि श्रुतिमूलत्वं दर्शितम् । एवं च यत् कैश्चिन् नैष्ठिकत्वादीनां स्मार्तत्वाद् गार्हस्थ्येन श्रौतेन बाधो गार्हस्थम् अप्य् अनधिकृतम् अन्धादिविषयता चेत्य् उक्तम्, तद् असत् – सर्वेषां प्रत्यक्षश्रुतिमूलत्वस्य दर्शितत्वात् ॥ ६.८८ ॥

सर्वेषाम् अपि चैतेषां वेदश्रुतिविधानतः ।

गृहस्थ उच्यते श्रेष्ठः स त्रीन् एतान् बिभर्ति हि ॥ ६.८९ ॥

सर्वेषाम् इति । सर्वेषाम् एव ब्रह्मचार्यादीनां मध्यात् गृहस्थबाहुल्येन साक्षाद् वेदवाक्यैः कर्मविधानाद् गृहस्थः श्रेष्ठी इति मन्वादिभिर् उच्यते । स च यस्मात् ब्रह्मचारितापसयतीन् भिक्षादिनाभिपोषयति । यथोक्तम् “ज्ञानेनान्नेन चान्वहम्” गृहस्थैर् एव धार्यन्ते इति तस्माद् असौ श्रेष्ठः ॥ ६.८९ ॥

यथा नदीनदाः सर्वे सागरे यान्ति संस्थितिम् ।

तथैवाश्रमिणः सर्वे गृहस्थे यान्ति संस्थितिम् ॥ ६.९० ॥

**यथेति **। यथा गङ्गाशोषाद्याः सर्वे नदीनदाः समुद्रे ऽवस्थानं प्राप्नुवन्ति । एवं सर्व एव ब्रह्मचार्यादय आश्रमिणो अन्नादिलाभार्थं गृहस्थविषये ऽवस्थितिं प्राप्नुवन्ति ॥ ६.९० ॥

चतुर्भिर् अपि चैवैतैर् नित्यम् आश्रमिभिर् द्विजैः ।

दशलक्षणको धर्मः सेवितव्यः प्रयत्नतः ॥ ६.९१ ॥

एतैश् चतुर्भिर् ब्रह्मचार्यादिभिः आश्रमिभिर् द्विजैर् वक्ष्यमाणदशकारणिको धर्मो यत्नेनाभ्यसनीयः ॥ ६.९१ ॥

धृतिः क्षमा दमो ऽस्तेयं शौचम् इन्द्रियनिग्रहः ।

धीर् विद्या सत्यम् अक्रोधो दशकं दर्मलक्षणम् ॥ ६.९२ ॥

धृतिर् इति । सन्तोषो ऽपराधसहनं शीतातपादिद्वन्द्वसहिष्णुता परद्रव्याग्रहणं मृद्वार्यादिशुद्धिर् जितेन्द्रियतानुपहता बुद्धिर् आत्मज्ञानं यथोपलब्धाभिधानं क्रोधानुत्पत्तिर् इत्य् एतत् दशपरिमाणं धर्मलक्षणं सर्वम् एतद् इह शास्त्रविक्षिप्तम् उक्तम् अपि प्रायश एतावन्मात्रत्वाद् धर्मस्येह पुनर् उच्यते । सङ्क्षेपतो सम्मोहेनावबोधार्थम् ॥ ६.९२ ॥

दश लक्षणानि धर्मस्य ये विप्राः समधीयते ।

अधीत्य चानुवर्तन्ते ते यान्ति परमां गतिम् ॥ ६.९३ ॥

**दश लक्षणानीति **। ये ब्राह्मणाः एतानि दश लक्षणानि पठन्ति पठित्वा चानुतिष्ठन्ति ते उत्कृष्टं स्थानं ब्रह्मलोकं वा ज्ञाने सति मोक्षं प्राप्नुवन्ति ॥ ६.९३ ॥

दशलक्षणकं धर्मम् अनुतिष्ठन् समाहितः ।

वेदान्तं विधिवच् छ्रुत्वा सन्न्यसेत् अनृणो द्विजः ॥ ६.९४ ॥

दशलक्षणिकम् इति । एवं दशलाक्षणिकम् उक्तं धर्मं संयतात्मना आचरन्न् उपनिषदः सम्यक् ज्ञात्वा “त्रिभिर् ऋणै ऋणवां” नित्याद्युपाकृतवर्णत्रयो द्विज उक्तं वेदसन्न्यासित्वम् अनुतिष्ठेत् ॥ ६.९४ ॥

सन्न्यस्य सर्वकर्माणि कर्मदोषान् अपानुदन् ।

नियतो वेदं अभ्यस्य पुत्रैश्वर्ये सुखं वसेत् ॥ ६.९५ ॥

सन्न्यस्येत् । सर्वाण्य् अग्निहोत्रादिकर्माणि परित्यज्य “ज्ञानेनैवापरे विप्राः” इत्य् एवमादिप्रकारेण ज्ञावबलात् तान्य् अनुथिष्ठन्न् अबुद्धिपूर्वां सञ्चितपापान्य् उत्तरश्लोके वक्ष्यमाणत्वात् सन्न्यासेनैव संहरन् गृहीतनिश्चयो वेदं ग्रन्थतो ऽर्थतश् चाभ्यसन् पुत्रगतसमृद्ध्युपेतेन पुत्रोपकृतग्रासाच्छादनविऋत्तित्वात् सुखं वसेत् ॥ ६.९५ ॥

एवं सन्न्यस्य कर्माणि स्वकार्यपरमो ऽस्पृहः ।

सन्न्यासेनापहत्यैनः प्राप्नोति परमां गतिम् ॥ ६.९६ ॥

एवम् इति । एवम् उक्तनीत्या कर्माणि अग्निहोत्रादीनि परित्यज्यात्मज्ञानाख्यस्वकार्यप्रधानो विगताभिलाषकं सन्न्यासेनासञ्चेतितोत्पन्नं पापं निर्हृत्य ब्रह्मलोकं ज्ञाने वा सति मोक्षं प्राप्नोति ॥ ६.९६ ॥

एष वो ऽभिहितो धर्मो ब्राह्मणस्य चतुर्विधः ।

पुण्यो ऽक्षयफलः प्रेत्य राज्ञां धर्मं निबोधत ॥ ६.९७ ॥

एष इति । एष ब्रह्मचारिगृहस्थवानप्रस्थप्रव्रजितानुष्ठेयरूपश् चतुःप्रकारो ब्राह्मणसम्बन्धी पुण्यहेतुत्वात् पुण्यो ब्रह्मलोकापवर्गफलत्वात् परलोके ऽक्षयफलो धर्मो युष्माकम् उक्तः । एवं चास्माद् ब्राह्मणग्रहणात् “ब्राह्मणः प्रव्रजेद् गृहात्” इति चास्माद् ब्राह्मणाः प्रव्रजन्तीति श्रुतेर् ब्राह्मणस्यैव प्रव्रज्याधिकारो न द्विजातिमात्रस्येत्य् अवसीयते । इदानीं राजसम्बन्धिनं धर्मं शृणुत ॥ ६.९७ ॥

**इति श्रीभट्टमाधवात्मजगोविन्दराजविरचितायां **

मनुटीकायां यतिधर्मे षष्ठो ऽध्यायः ॥ ६ ॥

सप्तमो ऽध्यायः

राजधर्माण् प्रवक्ष्यामि यथावृत्तो भवेन् नृपः ।

सम्भवश् च यथा तस्य सिद्धिश् च परमा यथा ॥ ७.१ ॥

राजधर्मान् इति । नृपतिना यथाचारेण भवितव्यम्, वीक्ष्य दृष्टादृष्टार्थान् कर्तव्यान् कथयिष्यामि । तथा येन प्रकारेण राज्ञ उत्पत्तिर् यथा च प्रकृष्टा दृष्टादृष्टार्थफलसम्पत्तिस् तद् वक्ष्यामि ॥ ७.१ ॥

ब्राह्मं प्राप्तेन संस्कारं क्षत्रियेण यथाविधि ।

सर्वस्यास्य यथान्यायं कर्तव्यं परिरक्षणम् ॥ ७.२ ॥

ब्राह्मम् इति । वेदाधिगमार्थम् उपनयनार्थं स्नानपर्यन्तं यथाशास्त्रं संस्कारं प्राप्तवता क्षत्रियेण सर्वस्यास्य जगतः शास्त्रमर्यादान् अतिक्रमेण नियमतो रक्षणं कर्तव्यम्, वृत्त्यर्थत्वे ऽपि “तपः क्षत्रस्य रक्षणम्” इति अदृष्टार्थत्वेनापि रक्षणोपदेशात्

॥ ७.२ ॥

अराजके हि लोके ऽस्मिन् सर्वतो विद्रुते भयात् ।

रक्षार्थम् अस्य सर्वस्य राजानम् असृजत् प्रभुः ॥ ७.३ ॥

अराजक इति । यस्मात् पूर्वम् अविद्यमानराजके अस्मिन् जगति भयेन समन्तात् प्रचलति सति अस्य जगतो रक्षार्थं हिरण्यगर्भो राजानं सृष्टवान्, तस्मात् तेन रक्षणं कर्तव्यम् ॥ ७.३ ॥

इन्द्रानिलयमार्काणाम् अग्नेश् च वरुणस्य च ।

चन्द्रवित्तेशयोश् चैव मात्रा निर्हृत्य शाश्वतीः ॥ ७.४ ॥

कथम् असृजद् इत्य् आह इन्द्रानिलयमार्काणाम् इति । इन्द्रवायुयमादित्याग्निवरुणचन्द्र-वैश्रवणानां सम्बन्धिनो ऽंशान् सारभूतान् निष्कृष्य राजानम् असृजत् ॥ ७.४ ॥

यस्माद् एषां सुरेन्द्राणां मात्राभ्यो निर्मितो नृपः ।

तस्माद् अभिभवत्य् एष सर्व्भूतानि तेजसा ॥ ७.५ ॥

**यस्माद् **इति । तेषाम् इन्द्रादीनां देदेश्वराणां सम्बन्धिभ्यः अंशेभ्यो यस्मान् नृपतिः कृतः, तस्माद् एष प्राणिनो वीर्येणाधरीकरोति ॥ ७.५ ॥

तपत्य् आदित्यवच् चैष चक्षूंषि च मनांसि च ।

न चैनं भुवि शक्नोति कश्चिद् अप्य् अभिवीक्षितुम् ॥ ७.६ ॥

**तपतीति **। एष च राजा पश्यतां स्ववीर्येण चक्षूंषि मनांसि च आदित्यवत् सन्तापयति, न चैनं राजानं वीर्येणातिशययोगात् कश्चिद् अपि पृथिव्याम् आभिमुख्येन वीक्षितुं शक्नोति । एवं चेन्द्रांशांशोद्भावत्वाद् इति कथनार्थम् ॥ ७.६ ॥

सो ऽग्निर् भवति वायुश् च सो ऽर्कं सोमः स धर्मराट् ।

स कुबेरः स वरुणः महेन्द्रः प्रभावतः ॥ ७.७ ॥

**स **इति । “प्रतापयुक्तस् तेजस्वी” इत्यादिवक्ष्यमाणात् । आदित्यतुल्यव्यापारकरणाद् असाव् अलौकिकशक्तियोगेन तासु क्रियासु राजाग्निवाय्वादित्यचन्द्रयमवैश्रवणवरुणेन्द्रतुल्यो भवति ॥ ७.७ ॥

बालो ऽपि नावमन्तव्यो मनुष्य इति भूमिपः ।

महती देवता ह्य् एषा नररूपेण तिष्ठति ॥ ७.८ ॥

बालो ऽपीति । भूपतिर् बालो ऽपि मनुष्यबुद्ध्या नावज्ञेयो यस्माद् देवांशोद्भवत्वान् महत्य् एषा देवता मनुष्यरूपेणास्ते ॥ ७.८ ॥

एकम् एव दहत्य् अग्निर् नरं दुरुपसर्पिणम् ।

कुलं दहति राजाग्निः सपसुद्रव्यसञ्चयम् ॥ ७.९ ॥

एकम् इति । अग्निर् अनुपायसेवितं मनुष्यम् एकम् एव दहति । **राजाग्निः **पुनः पशुधनसमूहसहितम् अपराधिसम्बन्धिबन्धुवर्गम् अपि नाशयति । तस्माद् असौ नवमन्तव्यो राजाग्निर् इव विनाशकत्वान् न च स्नेहातिशयातिदर्शनेन तं प्रत्याश्वसनीयं यस्मात् ॥ ७.९ ॥

कार्यं सो ऽवेक्ष्य शक्तिं च देशकालौ च तत्त्वतः ।

कुरुते धर्मसिद्ध्यर्थं विश्वरूपं पुनः पुनः ॥ ७.१० ॥

कार्यम् इति । स राजा प्रयोजनं पर्यालोच्यात्मशक्तिं देशकालौ च स्नेहवैरकरणोचितैः सम्यग् अवेक्ष्य शास्त्रव्यवस्थासिद्ध्यर्थं मित्रशत्रुमध्यस्थतया मुहुर् मुहुर् नानाविश्वरूपं कुरुते ॥ ७.१० ॥

यस्य प्रसादे पद्मा श्रीर् विजयश् च पराक्रमे ।

मृत्युश् च वसति क्रोधे सर्वतेजोमयो हि सः ॥ ७.११ ॥

यस्येति । यस्माद् असाव् अग्न्याद्यंशोद्भवत्वाद् अग्न्यादिसर्वतेजोयुक्तस् तस्मात् तद्गतायां प्रसन्नतायां महती श्रीर् **वसति **। एवं च श्रीकामेनासौ आराधनीयो वीर्ये तदा ॥ ७.११ ॥

तं यस् तु द्वेष्टि सम्मोहात् स विनश्यत्य् असंशयम् ।

तस्य ह्य् आशु विनाशाय राजा प्रकुरुते मनः ॥ ७.१२ ॥

तम् इति । यथोक्तम् उपदेशम् अपरिगणय्य पौनःपुन्येन यतस् तन् न द्विष्याद् अन्यथार्थापराधं च येन । अन्यस् तु द्विष्यमाणः कदाचिद् धर्मपरीक्षा शक्त्या वा सहेत । राज्ञः पुनः सहमानस्य स्वतन्त्रविरोधः । यतो ऽशक्तश् चासौ निग्रहणं कर्तुम् इति । अतः सदानुवर्तितव्यः निरुपधैः सद्भिः ॥ ७.१२ ॥

तस्माद् धर्मं यम् इष्टेषु स व्यवस्येन् नराधिपः ।

अनिष्टं चाप्य् अनिष्टेषु तं धर्मं न विचालयेत् ॥ ७.१३ ॥

यत एवं तस्माद् धर्मम् इष्टेषु वर्तयेत् तं नराधिप इति । **तस्मान् **नरेश्वर आत्मवल्लभेषु शास्त्रविरुद्धायां दृष्टार्थायां व्यवस्थाम् इष्टानाम् एषां वर्तितव्यम् इति निश्चिनुयात् । एवम् अप्रियेष्व् अपि यच् छास्त्राविरुद्धं बहिष्करणीयादींश् चैतां व्यवस्थां नातिक्रमेत् ॥ ७.१३ ॥

तस्यार्थं सर्वभूतानां गोप्तारं धर्मम् आत्मजम् ।

ब्रह्मतेजोमयं दण्डम् असृजत् पूर्वम् ईश्वरः ॥ ७.१४ ॥

**तदर्थम् **इति । राज्ञः प्रजापालनस्य प्रयोजनसिद्ध्यर्थं सर्वप्राणिनां च रक्षितारं चौराद्युपद्रवसंरक्षणेन च सम्यक् कर्मघटनाद् [??] धर्मं स्वशरीराच् चोद्भूतं ब्रह्मणस्य यत् तेजस् तेन निर्मितं दमनाद् दण्डं पूर्वं प्रजापतिः सृष्टवांस् तं विना राजत्वानुपपत्तेः ॥ ७.१४ ॥

तस्य सर्वाणि भूतानि स्थावराणि चराणि च ।

भयाद् भोगाय कल्पन्ते स्वधर्मान् न चलन्ति च ॥ ७.१५ ॥

तस्येति । “अन्तःसञ्ज्ञा भवन्त्य् एते” इति स्थावराणाम् अपि चैतन्यस्योक्तत्वात् छेदनदिदण्डभयेन वृक्षादिस्थावराण्य् अपि फलपुष्पादिद्वारेणोपभोगार्थं सम्पद्यन्ते नियतकालं पुष्पादिदानव्यवस्थां नतिक्रामन्ति किं पुनर् जङ्गमानि ॥ ७.१६ ॥

तं देशकालौ शक्तिं च विद्यां चावेक्ष्य तत्त्वतः ।

यथार्हतः सम्प्रणयेन् नरेष्व् अन्यायवर्तिषु ॥ ७.१६ ॥

तस्मात् तम् इति । तं दण्डं ग्राम्यारण्यादिदिवानक्ताद्यपराधकत्वाद् रजकत्वस्य गतदेशकालौ विचार्य अपराधिसम्बन्धि च शरीरधनसामर्थं वेदाध्ययनादि सम्यग् अवेक्ष्य अन्यायकारिषु नरेषु अपराधानुरूपं कुर्वीत इत्य् अमात्यादिविषयम् इदं व्यवहारिणा प्रभवन्तम् “अनुबन्धं परिज्ञाय” [८.१२६] इति वक्ष्यमाणत्वात् ॥ ७.१६ ॥

स राजा पुरुषो दण्डः स नेता शासिता च सः ।

चतुर्णाम् आश्रमाणां च धर्मस्य प्रतिभूः स्मृतः ॥ ७.१७ ॥

**स **इति । दण्डहेतुतत्र (हेतुतस् तत्र) द्रोहत्वस्य स दण्ड एव राजा स एवम् अनेनैव न्यायेन स एव पुरुषो ऽपराध्यानेता स एव च नेता दण्डनायकः सेनापत्यादिः स एव चानुशासिता धर्माधिकृतो राजस्थानीयः स एव चतुर्णाम् अपि ब्रह्मचर्य्(आद्य्)आश्रमाणां धर्मानुष्ठाने प्रतिभूर् इवानुस्थापकत्वात् स्मृतः ॥ ७.१७ ॥

दण्डः शास्ति प्रजाः सर्वा दण्ड एवाभिरक्षति ।

दण्डः सुप्तेषु जागर्ति दण्डं धर्मं विदुर् बुधाः ॥ ७.१८ ॥

यत एवं तस्माद् दण्ड इति । दण्डभयाद् एव राजादिशासनं प्रजानां निवर्तते । अतो दण्द एव सर्वाः प्रजाः कर्तव्या(दिषु) इति तु स्थापयति न राजा शास्त्रं वा दण्ड एव चासाधुभ्यः साधून् रक्षति सुप्तेषु चापि रक्षयितृषु दण्ड एव जागर्ति तद्भयाद् एव चौरादीनाम् अप्रवृत्तेर् दण्ड(म्) एव धर्मं वद्वांसो मन्यन्ते ऐहिकामुत्रिकदण्डभयाद् धर्मप्रवृत्तेः ॥ ७.१८ ॥

समीक्ष्य स धृतः सम्यक् सर्वा रञ्जयति प्रजाः ।

असमीक्ष्य प्रणीतस् तु विनाशयति सर्वतः ॥ ७.१९ ॥

**समीक्ष्येति **। स दण्डो देशकालादि विचार्य सम्यक् लोभादिपरित्यागेन कृतः सर्वाः प्रजाः सानुरागाः करोति । अविचार्य पुनः कृतो दृष्टादृष्टेभ्यः कर्तारं नाशयति ॥ ७.१९ ॥

यदि न प्रणयेद् राजा दण्डं दण्ड्येष्व् अतन्द्रितः ।

शूले मत्स्यान् इवापक्ष्यन् दुर्बलान् बलवत्तराः ॥ ७.२० ॥

यदीतियदि राजानलसो भूत्वा दण्डार्हेषु दण्डं न कुर्यात् यथा शूल्या मत्स्या निषादादिभिर् निभयैः शूले पच्यन्ते एवं बलातिशययुक्ता दुर्बलान् पचेयुः ॥ ७.२१ ॥

अद्यात् काकः पुरोडाशं श्वावलिह्याद् धविस् तथा ।

स्वाम्यं च न स्यात् कस्मिंश्चित् प्रवर्तेताधरोत्तरम् ॥ ७.२१ ॥

अद्याद् इति । यदि दण्डो नाभविष्यत् तदा देवेभ्यः दत्तम् अत्यन्तापसदः काको ऽपि पुरोडाशाख्यं हविर् आत्स्यत् तथात्यन्ताधम(ः) श्वापि यवाग्वादि हविर् अलेक्ष्यत्, न च कस्यचित् कस्मिंश्चित् स्वामित्वं भवेत् । ब्राह्मणक्षत्रियादीञ् चोत्कर्षापकर्षवैपरीत्यं प्रवर्तेत

॥ ७.२१ ॥

सर्वो दण्डजितो लोको दुर्लभो हि शुचिर् नरः ।

दण्डस्य हि भयात् सर्वं जगद् भोगाय कल्पते ॥ ७.२२ ॥

सर्व इति । सर्वः कश्चिल् लोको दण्डेन सन्मार्गे स्थाप्यते तस्मान् निसर्गशुद्धो नरः कृच्छ्रेण लभ्यते । तथा सर्वम् इदं जगद् दण्डभयाद् अवश्यकर्तव्योपकाराय प्रवर्तते

॥ ७.२२ ॥

देवदानवगन्धर्वा रक्षांसि पतगोरगाः ।

ते ऽपि भोगाय कल्पन्ते दण्डेनैव निपीडिताः ॥ ७.२३ ॥

**देवदानवरक्षांसि गर्धर्वा **इति । देवादयः प्रथमाध्यायोक्तभेदा पतङ्गा पक्षिण उरगाः सर्पा ये ते ऽपि सकलजगदुत्पत्त्यनुशासनकारणरूपेश्वरसम्बन्धिभयपीडिताः सन्तो वर्षादानाद्युपकारं च दानवादयो न कुर्वन्ति । तथा चाध्वर्यवश्रुतिः-

भयाद् अस्याग्निस् तपति भयात् तपति सूर्यः ।

भयाद् इन्द्रश् च वायुश् च मृत्युर् धावति पञ्चमः ॥ इति ॥ ७.२३ ॥

दुष्येयुः सर्ववर्णाश् च् भिद्येरन् सर्वसेतवः ।

सर्वलोकप्रकोपश् च भवेद् दण्डस्य विभमात् ॥ ७.२४ ॥

दुष्येयुर् इति । दण्डस्याकरणाद् अन्यायेन च करणात् सर्वे ब्राह्मणादयो वर्णा इतरेतर्स्त्रीगमनेन सङ्कीर्येरन् सर्वाश् (सर्वे) च धर्मार्थकाममोक्षार्थाः शास्त्रमर्यादा उत्सीदेयुः । एवं चाग्नौ पास्तेत्यादि परस्परोपकाराय प्रवर्तते ॥ ७.२४ ॥

यत्र श्यामो लोहिताक्षो दण्डश् चरति पापहा ।

प्रजास् तत्र न मुह्यन्ति नेता चेत् साधु पश्यति ॥ ७.२५ ॥

यत्रेतियत्र राष्ट्त्रे श्यामवर्णो होहितनेत्रः इत्थम्भूतः शास्त्रप्रमाणकाधिष्ठातृ-देवतारूपो दण्डः पापकृन्नाशयिता विचरति तत्र प्रजा न व्याकुलीभवन्ति । यदि दण्डप्रणयनकर्ता राजादिः सम्यग् विचारयति ॥ ७.२५ ॥

तस्याहुः सम्प्रणेतारं राजानं सत्यवादिनम् ।

समीक्ष्य्कारिणं प्राज्ञं धर्मकामार्थकोविदम् ॥ ७.२६ ॥

तस्याहुर् इति । तस्य दण्डस्य कर्तारं क्षत्रियम् अभिषेकादियुक्तं यथोपलब्धाभिधायिनं विमृश्यकारिणम् ऊहापोहसमर्थं प्राज्ञोपेतं धर्मार्थकामानाम् इतरेतरानुष्ठानकुशलं मन्वादयः आहुः ॥ ७.२६ ॥

तं राजा प्रण्यन् सम्यक् त्रिवर्गेणाभिवर्धते ।

कामात्मा विषमः क्षुद्रो दण्डेनैव निहन्यते ॥ ७.२७ ॥

तम् इति । तं दण्डं राजा सम्यक् कुर्वन् धर्मार्थकामैर् वृद्धिम् एति । यः पुनः रागप्रधानः क्रोधनः छली द्वेषी राजा न सम्यक्कृतेन दण्डेनैवात्यन्तकोपाद् अधर्माद् वा विनश्यति ॥ ७.२७ ॥

दण्डो हि सुमहत् तेजो दुर्धरश् चाकृतात्मभिः ।

धर्माद् विचलितं हन्ति नृपम् एव सबान्धवम् ॥ ७.२८ ॥

दण्द इति । यतो यत् तत् सुमहत् तेजः स दण्डः सहजाद् एव विनयशून्यात्मभिश् च दुःखेन कर्तुं शक्यते ऽन्यायवर्तिनं राजानम् एव पुत्रादि बान्धवसहितं विनाशयति ॥ ७.२८ ॥

ततो दुर्गं च राष्ट्रं च लोकं च सचराचरम् ।

अन्तरिक्षगतांश् चैव मुनीन् देवांश् च पीडयेत् ॥ ७.२९ ॥

तत इति । सबन्धुनृपतिनाशानन्तरं स दण्डो वक्ष्यमाणं धन्वदुर्गादिदुर्गं राष्ट्रं च देशं पृथिवीलोकं जङ्गमस्थावरसहितम् इतः प्रदानजीविनो देवा इत्य् अतस् तद्भावाद् अन्तरिक्षगतान् ऋषींश् च देवांश् च पीडयेत् ॥ ७.२९ ॥

सो ऽसहायेन मूर्खेन लुब्धेनाकृतबुद्धिना ।

न शक्यो न्यायतो नेतुं सक्तेन विषयेषु च ॥ ७.३० ॥

सो ऽसहायेन मूर्खेनेति । स दण्डो ऽविद्यमानमन्त्र्यादिसहायेन मूर्खेण लोभवता शास्त्रसंस्कारश् चाकृतबुद्धिना (शास्त्रसंस्काररहितेनाकृतबुद्धिना) द्यूतादिविषयसक्तेन राज्ञा शास्त्रमर्यादया कर्तुम् अशक्यः ॥ ७.३० ॥

शुचिना सत्यसन्धेन यथाशास्त्रानुसारिणा ।

प्रणेतुं शक्यते दण्डः सुसहायेन धीमता ॥ ७.३१ ॥

शुचिनेति । अर्थादिशौचयुक्तेन जितेन्द्रियत्वात् सत्यप्रतिज्ञेन शास्त्रान्ततिक्रमवर्तिना सहायेन प्रज्ञावतेय् एवं पूर्वोक्तदोषप्रतिपक्षभूतगुणयुक्तेन राज्ञा सम्यक् दण्डः कर्तुं शक्यते ॥ ७.३१ ॥

स्वराष्ट्रे न्यायवृत्तिः स्याद् भृशदण्डश् च शत्रुषु ।

सुहृत्स्व् अजिह्मः स्निग्देषु ब्राह्मणेषु क्षमान्वितः ॥ ७.३२ ॥

स्वराष्ट्रे न्यायवृत्तिर् इति । आत्मराष्ट्रे शास्त्रमर्यादया वर्तेत । शत्रुविषये पुनस् तीक्ष्णदण्डो भवेत् । स्निग्धेषु च मित्रेषु कार्यमित्रेषु अकुटिलः स्यात् । ब्राह्मणेषु बुद्धिपूर्वं चाल्पं तदपराधं कृतवत्सु क्षमायुक्तः स्यात् ॥ ७.३२ ॥

एवंवृत्तस्य नृपतेः शिलोञ्छेनापि जीवतः ।

विस्तीर्यते यशो लोके तैलबिन्दुर् इवाम्भसि ॥ ७.३३ ॥

एवम् इति । एवमाचारस्य राज्ञो ऽयं तत्क्षीणकोशस्यापि जले तैलबिन्दुसेकाद् वा लोके ख्यातिः विस्तरम् एति ॥ ७.३३ ॥

अस्तु विपरीतस्य नृपतेर् अजितात्मनः ।

सङ्क्षिप्यते यशो लोके घृतबिन्दुर् इवाम्भसि ॥ ७.३४ ॥

**अत **इति । एतस्माद् आचाराद् विपरीताद् आचारतो राज्ञो जितेन्द्रियस्य घृतबिन्धुर् इवोदके ख्यातिः सङ्कोचम् उपयाति ॥ ७.३४ ॥

स्वे स्वे धर्मे निविष्टानां सर्वेषाम् अन्ज्पूर्वशः ।

वर्णानाम् आश्रमाणां च राजा सृष्टो ऽभिरक्षिता ॥ ७.३५ ॥

स्वे स्व इति । क्रमेण स्वधर्मरतानां सर्वेषां ब्राह्मणादीनां वर्णानां ब्रह्मचर्यादीनां चाश्रमाणां ब्रह्मणा राजा रक्षिता सृष्टः । उत्तरविवक्षार्थम् उक्तवान् ॥ ७.३५ ॥

तेन यद् यत् सभृत्येन कर्तव्यं रक्षता प्रजाः ।

तत् तद् वो ऽहं प्रवक्ष्यामि यथावद् अनुपूर्वशः ॥ ७.३६ ॥

तेनेति । तेन राज्ञा प्रजां पालयता अमात्यसहितेन यत् कर्तव्यं तत् कृत्स्नं क्रमेण युष्माकम् अहं कथयिष्यामि ॥ ७.३६ ॥

ब्राह्मणान् पर्युपासीत प्रातर् उत्थाय पार्थिवः ।

त्रैविद्यवृद्धान् विदुषस् तिष्ठेत् तेषां च शासने ॥ ७.३७ ॥

ब्राह्मणान् इति । अहर् अहः प्रातर् उत्थाय ब्राह्मणान् ऋग्यजुःसामाख्यविद्यात्रयग्रन्थार्थ-पारगान् विदुषो वक्ष्यमाणान् वीक्षिकीदण्डनीत्याभिज्ञान् सेवेत तदाज्ञां चानुतिष्ठेत् ॥ ७.३७ ॥

वृद्धांश् च नित्यं सेवेत विप्रान् वेदविदः शुचीन् ।

वृद्धसेवी हि सततं रक्षोभिर् अपि पूज्यते ॥ ७.३८ ॥

वृद्धान् इति । तांश् च विप्रान् वयोवृद्धान् वेदज्ञानार्थादिशुद्धान् विश्वसनीयत्वोत्पादनार्थम् अपि नित्यं सेवेत । यस्माद् वृद्धसेवी यः सो ऽत्यन्ताविश्वासिभी राक्षसैर् अपि पूज्यते, तेषाम् अपि विश्वसनीयो भवति, किं पुनर् मनुष्याणाम् ॥ ७.३८ ॥

तेभ्यो ऽधिगच्छेद् विनयं विनीतात्मापि नित्यशः ।

विनीतात्मा हि नृपतिर् न विनश्यति कर्हिचित् ॥ ७.३९ ॥

तेभ्य इति । यद्य् अप्य् अशक्यशास्त्राभिज्ञतया सहजप्रज्ञया वातिविनीतो भवति, तथाप्य् अतिशयार्थं तेभ्यो ब्राह्मणेभ्यो नीतिमार्गं नित्यं शिक्षेत, यस्मान् नीतिप्रधानो राजा न कदाचिद् अपि नश्येत् ॥ ७.३९ ॥

बहवो ऽविनयान् नष्टा राजानः सपरिच्छदाः ।

वनस्था अपि राज्यानि विनयात् प्रतिपेदिरे ॥ ७.४० ॥

बहव इति । बहवो राजानो हस्त्यश्वकोशादिप्रच्छदयुक्ता अपि अविनीततया नष्टाः, अन्ये पुनर् वनवासिनो ऽपरिच्छदा अपि विनयत्वेन राज्यानि प्राप्तवन्तः ॥ ७.४० ॥

वेनो विनष्टो ऽविनयान् नहुषश् चैव पार्थिवः ।

सुदाः पैजवनश् चैव सुमुखो निमिर् एव च ॥ ७.४१ ॥

तथा च वेन इति । वेनो नहुषश् चापि पिजवनस्य च पुत्रः सुदानाममुखौ निमिश्चाविनयान् नष्टाः ॥ ७.४१ ॥

पृथुस् तो विनयाद् राज्यं प्राप्तवान् मनुर् एव च ।

कुबेरश् च धनैश्वर्यं ब्राह्मण्यं चैव गाधिजः ॥ ७.४२ ॥

पृथुर् इति । पृथुमनू विनीततया राज्यं प्राप्तवन्तौ । वैश्रवणश् च विनये सति धनैश्वर्यं प्राप्तवान् । गाधिपुत्रश् च विश्वामित्रः क्षत्रियः सन् तेनैव शरीरेणात्त्यन्तदुष्प्रापं ब्राह्मण्यं विनययोगात् प्राप्तवान् । तस्मात् वृद्धेभ्यो विनयम् अधिगच्छेत् ॥ ७.४२ ॥

त्रैविद्येभ्यस् त्रयीं विद्यां दण्डनीतिं च शाश्वतीम् ।

आन्वीक्षिङीं चात्मविद्यां वार्तारम्भांश् च लोकतः ॥ ७.४३ ॥

त्रैविद्येभ्य इति । ऋग्यजुःसामाख्यविद्यात्रयाध्यायिभ्य ऋग्यजुःसामाख्यां त्रयीविद्याम् अभ्यसेत्, न तु शिक्षयेत् । समावृत्तस्य राज्याधिकारात् तुर्यावस्थायाम् एवाधिगच्छेत् । दण्डनीतिं चार्थशास्त्रम् अर्थयोगक्षेमोपयोगिनीं शाश्वतीम् अनादिपारम्पर्यागतां तेभ्य एव शिक्षयेत । तथा तर्कविद्यां चाध्यात्मिकां साङ्ख्यादिविद्यां परमण्डलदूतोक्तिपङ्क्त्याद्युपयोगिनीम् अभ्युदयव्यसनकालेषु च हर्षविषादानुत्पादकारिणीं शिक्षेत तथा क्षत्रियः कृषिवाणिजादिपशुपालनादिवार्तां तन्निमित्तारम्भान् प्रवृत्तीः धनोपचयहेतून् लोकतस् तद्विधेभ्यः कर्षकादिभ्यः शिक्षेत् ॥ ७.४३ ॥

इन्द्रियाणां जये योगं समातिष्ठेद् दिवानिशम् ।

जितेन्द्रियो हि शक्नोति वशे स्थापयितुं प्रजाः ॥ ७.४४ ॥

**इन्द्रियाणाम् **इति । चक्षुरादीनाम् इन्द्रियाणां विषयशक्तिपरिहारे । नित्यकालम् अभियोगं कुर्यात् । स जितेन्द्रियः प्रजाः वशीकर्तुं शक्नोति ॥ ७.४४ ॥

दश कामसमुत्थानि तथाष्टौ क्रोधजानि च ।

व्यसनानि दुरन्तानि प्रयत्नेन विवर्जयेत् ॥ ७.४५ ॥

दशेति । दश कामोद्भवानि वक्ष्यमाणानि नित्यव्यअनानि, क्रोधजानि चाष्टौ दुःखावसानानि यत्नतः परिहरेत् ॥ ७.४५ ॥

कामजेषु प्रसक्तो हि व्यसनेषु महीपतिः ।

वियुज्यते ऽर्थधर्माभ्यां क्रोधजेष्व् आत्मनैव तु ॥ ७.४६ ॥

कामजेषु व्यसनेषु प्रसक्तो महीपतिर् अर्थधर्माभ्यां वियुयते । क्रोधजेषु व्यसनेषु प्रसक्तो महीपतिर् आत्मनैव वियुज्यते ॥ ७.४६ ॥

मृगयाक्षो दिवास्वप्नः परिवादः स्त्रियो मदः ।

तौर्यत्रिकं वृथाठ्या च कामजो दशको गणः ॥ ७.४७ ॥

मृगयेति । आखेटकार्थं मृगवधाक्षादिक्रीडासकलम् अपि विघ्नहेतुभूतो दिवास्वप्नः परदोषवचनं स्त्रियो मदो मद्यपानकृतः तूर्यत्रिको नृत्यगीतवादित्राणि, अनिमित्तश् चानुगमनम् इत्य् एष दशपरिमाणो व्यसनवर्गो ऽभिलाषविशेषाज् जायते ॥ ७.४७ ॥

पैशुन्यं साहसं द्रोह ईर्ष्यासूयार्थदूषणम् ।

वाग्दण्डजं च पारुष्यं क्रोधजो ऽपि गणो ऽष्टकः ॥ ७.४८ ॥

पैशुन्यम् इति । पैशुन्यम् अविज्ञातदोषाविष्करणम् । साहसं साधोर् निकृष्टकर्मविनियोगो बन्धनं वा । द्रोहश् छद्मना वधः । **ईर्ष्या **परस्यात्मना सह गुणसामान्याक्षमणम् । असूया परगुणस्तवामर्षणम् । अर्थदूषणं प्राप्तानाम् अर्थानाम् अदानम् अपहारो वा । **वाक्पारुष्यम् **आक्रोशादि । दण्डपारुष्यं ताडनादि । इत्य् अष्टपरिमाणो व्यसनसङ्घः क्रोधाज् जायते ॥ ७.४८ ॥

द्वयोर् अप्य् एतयोर् मूलं यं सर्वे कवयो विदुः ।

तं यत्नेन जयेल् लोभं तज्जाव् एताव् उभौ गणौ ॥ ७.४९ ॥

द्वयोर् इति । **द्वयोर् अप्य् एतयोः **कामकोर्धव्यसनवर्गयोः स्वयं कारणभूतं सर्वे स्मृत्युपनिबन्धग्रन्थकारा मन्यन्ते । तं लोभं यत्नतः परिहरेत् । यस्माद् एतत् समुद्भवम् एतद् गणद्वयं सर्वेषां लोभो मूलम्, क्वचिद् धनलिप्सया क्वचिच् छरीरसुखलोभेन प्रवृत्तेः ॥ ७.४९ ॥

पानम् अक्षाः स्त्रियश् चैव मृगया च यथाक्रमम् ।

एतत् कष्टतमं विद्याच् चतुष्कं कामजे गणे ॥ ७.५० ॥

पानम् इति । मदपर्यन्तं **पानम् **अक्षक्रिडा स्त्रीसम्प्रयोगो मृगया चेत्य् एतत् क्रमपठितं कामजगणं मध्वाधीनेषु व्यसनेषु चतुष्कम् अतिशयेन दुःखहेतुं बहुतरदुःखहेतुत्वाज् जानीयात् ॥ ७.५० ॥

दण्डस्य पातनं चैव वाक्पारुष्यार्थदूषणे ।

क्रोधजे ऽपि गणे विद्यात् कष्टम् एतत् त्रिकं सदा ॥ ७.५१ ॥

**दण्डस्येति **। वाक्पारुष्यदण्डपारुष्यार्थदुषणात्मकं त्रिकं क्रोधजव्यसनगनमध्याद् दोषभूयस्त्वे सति सर्वदा दोषहेतुं बुध्येत ॥ ७.५१ ॥

सप्तकस्यास्य वर्गस्य सर्वत्रैवानुषङ्गिणः ।

पूर्वं पूर्वं गुरुतरं विद्याद् व्यसनम् आत्मवान् ॥ ७.५२ ॥

सप्तकस्यास्येति । अस्य पानदण्डपातनादेः कामक्रोधोद्भवस्य सप्तपरिमाणगतस्य व्यसनगणस्य सर्वस्मिन्न् एव राजमण्डले प्रायेणावस्थितस्य यद् यत् पूर्वं पठितं व्यसनं तत् तत् परस्माद् दुष्टतरं प्रशस्तात्मा जानीयात् । द्यूतात् पानं दुष्टतरम्, तत्र हि सञ्ज्ञाप्रणाशादयो नीतिशास्त्रोक्ता दोषाः, द्यूतेषु पाक्षिको धनप्राप्तिर् अपि भवति । स्त्रीव्यसनात् द्यूतं दुष्टतरम्, तत्र हि वैरोद्भादयो नीतिशास्त्रोक्ता दोषाः, स्त्रीव्यसने पुनर् अपत्योत्पादगुणयोगोत्पत्तिः । मृगयायां पुनर् व्यायामादिना गुणयोगो ऽपि भवति । एवं कामजचतुष्कस्य पूर्वं पूर्वम् पापीयः । क्रोधजानाम् अपि वाक्पारुष्याद् दण्डापारुष्यं दुष्टम्, अङ्गच्छेदादिना अशक्यप्रतिकारत्वात् । वाक्पारुष्ये पुनर् दानसम्मानादिना अस्ति प्रतिसन्धनम् । अर्थदूषणाद् वाक्पारुष्यं दुष्टतरम्, अरुन्तुदाक्रोशसन्तापोपशमनस्य दुःसहत्वात् । अर्थदूषणं पुनः प्रचुरतरार्थदानेन परिहर्तुं पार्यते । एवं क्रोधजत्रिकस्यापि पूर्वं पूर्वं पापीयः, अतश् च यद् यद् दुष्टतरं तत् तद् दुर्व्यसनं परिहरेत् ॥ ७.५२ ॥

व्यसनस्य च मृत्योश् च व्यसनं कष्टम् उच्यते ।

व्यसन्य् अधो ऽधो व्रजति स्वर् यात्य् अव्यसनी मृतः ॥ ७.५३ ॥

वयसनस्येति । मृत्य्व्यसनयोर् मध्ये व्यसनं दुष्टतरं यस्माद् व्यसनी यावद् दीर्घकालं जीवति तावत् तावच् छास्त्रार्थातिक्रमाधिक्याद् अधिकतरं नरकं गच्छति । अव्यसनी पुनर् मृतः शास्त्रानुष्ठानात् स्वर्गं व्रजति ॥ ७.५३ ॥

मौलाञ् छास्त्रविदः शूरांल् लब्धलक्षान् कुलोद्गतान् ।

सचिवान् सप्त चाष्टौ वा कुर्वीत सुपरीक्षितान् ॥ ७.५४ ॥

मौलान् इति । पित्राद्यन्वयायातान् स्नेहातिशयेनाव्यभिचारार्थं दृष्टादृष्टार्थशास्त्रज्ञान् दृष्टादृष्टमर्यादानुल्लङ्घनार्थं विक्रान्तान् शरीरानपेक्षं प्रभुवृत्त्यर्थं पुनः कृतराजकार्यान् असम्मोहेन कर्मसम्पत्त्यर्थम् । कुलीनान् कुलाभिमानेनाव्यभिचारार्थम् । धर्मार्थकाममयविषये चारप्रयोगादिद्वारेण कृतपरीक्षान् शुद्धान् सप्त चाष्टौ वामात्यान् सहायभूतान् मन्त्रादौ कुर्वीत ॥ ७.५४ ॥

अपि यत् सुकरं कर्म तद् अप्य् एकेन दुष्करम् ।

विशेषतो ऽसहायेन किं नु राज्यं महोदयम् ॥ ७.५५ ॥

यस्माद् अपीतिविशेषतो ऽसहायेन किम् उ राज्यं महोदयम् । यद् अपि कर्म कर्तुं शक्यते, तद् अप्य् एकस्य दुःसाध्यं भवति, विशेषेण राज्यं यन् महाफलं तत् कथम् असहायेन कर्तुं शक्यते ॥ ७.५५ ॥

तैः सार्धं चिन्तयेन् नित्यं सामान्यं सन्धिविग्रहम् ।

स्थानं समुदयं सुप्तिं लब्धप्रशमनानि च ॥ ७.५६ ॥

तैर् इति । तैः सचिवैः सह सर्वदा यच् चातिरहस्यं सन्धिविग्रहादिवक्ष्यमाणं तद् विचारयेत् । तथा तिष्ठत्य् अनेनेति स्थानं दण्डकोशपुरराष्ट्राख्यं चिन्तयेत् । तत्र दण्डो हस्त्यश्वरथपदात्यात्मकस् तस्य पोषणादि चिन्त्यम् । कोशो ऽर्थनिचयस् तस्य व्ययादि चिन्त्यम् । पुरस्य तस्यायुधसम्पन्नम् इति वक्ष्यति । राष्ट्रं देशस् तस्य च राष्ट्रियजनपश्वादिरणाक्षमत्वादि चिन्त्यम् । तथा समुद्यन्त्य् उत्पद्यन्ते ऽस्माद् अर्था इति समुदयः, कृष्यादिधान्यहिरण्यादि स्थानं (=उत्पत्तिस्थानम्) तच् चिन्तयेत् । गुप्तिं रक्षाम् आत्मगताम्, सुपरीक्षितम् अन्नाद्यम् अद्यात् । “परीक्षिताः स्त्रियश् चैनम्” (७.२१९) इत्यादिना वक्ष्यति राष्ट्रगतां च “राष्ट्रस्य सङ्ग्रहे नित्यम्” (७.२१२) इत्यादिना अभिधास्यति, लब्धप्रशमनानि च “जित्वा सम्पूजयेद् देवान्” (७.२०१) इति वक्ष्यति ॥ ७.५६ ॥

तेषां स्वं स्वम् अभिप्रायम् उपलभ्य पृथक् पृथक् ।

समस्तानां च कार्येषु विदध्याद् धितम् आत्मनः ॥ ७.५७ ॥

तेषाम् इति । तेषां सचिवानां रहः प्रगल्भतरसम्भवात् पृथक् पृथक् स्वं स्वं मतं कार्येषु विज्ञाय पर्षत्प्रगल्भसम्भवाच् च समस्तानाम् अपि युगपद् अभिप्रायं बुद्ध्वा यद् आत्मानं हितं तत् कुर्यात् ॥ ७.५७ ॥

सर्वेषां तु विशिष्टेन ब्राह्मणेन विपश्चिता ।

मन्त्रयेत् परमं मन्त्रं राजा षाड्गुण्यसंयुतम् ॥ ७.५८ ॥

सरेषाम् इति । एषाम् एव सर्वेषां मध्याद् अन्यतमेन गुणातिशयवता अत्यन्तविदुषा **ब्राह्मणेन **सह सन्धिविग्रहादि वक्ष्यमाणगुणषट्कयुक्तं प्रक्षृष्टमन्त्रं राजा विचारेयते ॥ ७.५८ ॥

नित्यं तस्मिन् समाश्वस्तः सर्वकार्याणि निक्षिपेत् ।

तेन सार्धं विनिश्चित्य ततः कर्म समारभेत् ॥ ७.५९ ॥

नित्यम् इति । तस्मिन् ब्राह्मणे सम्यक् निर्विशङ्कः सञ्जातविश्वासो भूत्वा सर्वदा **सर्वकार्याणि **समर्थयेत् (समर्पयेत्?) । यद्य् अपि चात्मना कुर्यात् तद् अपि तेन सह निश्चयीकृत्य ततो ऽनुतिष्ठेत् ॥ ७.५९ ॥

अन्यान् अपि प्रकुर्वीत शुचीन् प्राजानवस्थितान् ।

सम्यगर्थसमाहर्तॄन् अमात्यान् सुपरीक्षितान् ॥ ७.६० ॥

अन्यान् इति । **अन्यान् अपि **भृत्यान् अर्थादिशुद्धान् प्रज्ञावतः स्थिरानुचारादिद्वारेण कृतार्थादिशुद्धिपरीक्षान् आकरस्थानेभ्यः सम्यग् अर्थोत्पादनशीलान् अर्थाधिगतान् कुर्यात्

॥ ७.६० ॥

निवर्तेतास्य यावद्भिर् इतिकर्तव्यता नृभिः ।

तावतो ऽतन्द्रितान् दक्षान् प्रकुर्वीत विचक्षणान् ॥ ७.६१ ॥

**निवर्तेतेति **। अस्य राज्ञः कर्मजातं यत् कर्तव्यं तद् यत् सङ्ख्याकैर् मनुष्यैः सम्पद्यते तत्सङ्ख्यान् अनलसांश् चतुरांस् तत्कर्मज्ञान् कुर्वीत ॥ ७.६१ ॥

तेषाम् अर्थ नियुञ्जीत शूरान् दक्षान् कुलोद्गतान् ।

शुचीन् आकरकर्मान्ते भीरून् अन्तर्निवेशने ॥ ७.६२ ॥

तेषाम् इति । **तेषां **मध्ये शूरान् कोशे विनियुञ्जीत स्वाकरेषु सुवर्णाद्युत्पत्तिस्थानेषु इक्षुधान्यादिपीडनादिस्थानेषु अर्थशौचोपेतान् कुर्वीत । अन्तर्निवेशने च भोजनान्तःपुरादौ भीरून् विनियोजयेत् ॥ ७.६२ ॥

दूतं चैव प्रकुर्वीत सर्वशास्त्रविशारदम् ।

इङ्गिताकारचेष्टज्ञं शुचिं दक्षं कुलोद्गतम् ॥ ७.६३ ॥

दूतम् इति । **दूतं च **दृष्टादृष्टार्थशास्त्रार्थपारगम् इति तस्याभिप्रायसूचकस्य वाक्कायव्यापारविशेषस्याकारस्य चाभिप्रायसूचकस्य शरीरविकारस्य चेष्टायाश् च कवचायुधभोजनात्मिकाया विज्ञातारम् अर्थस्त्रीशौचादियुक्तं कुलीनं कुर्वीत ॥ ७.६३ ॥

अनुरक्तः शुचिर् दक्षः स्मृतिमान् देशकालवित् ।

वपुष्मान् वीतभीर् वाग्मी दूतो राज्ञः प्रशस्यते ॥ ७.६४ ॥

यस्मात् अनुरक्त इति । अनुरागवान् अर्थस्त्रीशौचयुक्तभेद्यर्थपरिहारार्थं चतुरः कालानतिक्रमार्थं स्मरणवान्, समग्रसन्देशार्थं देशकालज्ञः, तदनुरूपे व्यवहारार्थं स्वाकृतिप्रियदर्शनेनादेयवाक्यतत्वार्थं चतुरो यो वाग्मी पुरुषसन्देशकथनार्थं संस्कृतविचित्राभिधायी उक्तिप्रत्युक्तिसामर्थ्यार्थम् इत्य् एवंविधो दूतो राज्ञः प्रकर्षेणेष्यते ॥ ७.६४ ॥

अमात्ये दण्ड आयत्तो दण्डे वैनयिकी क्रिया ।

नृपतौ कोशराष्ट्रे च दूते सन्धिविपर्ययौ ॥ ७.६५ ॥

अमात्य इति । सेनापतौ हस्त्यश्वरथपदात्यात्मके दण्ड आयत्तः, तद् इच्छया तस्योपचयः दण्डे च हस्त्यादिके नीत्यर्थो व्यापार आयत्तः, तदभावे नीत्याभावात् राजनि चार्थागारदेशाव् आयत्तौ, तदिच्छया वृद्धिक्षयोत्पत्तेः, दूते च सन्धिविग्रहाव् आयत्तौ तदिच्छया तत्प्रवृत्तेः

॥ ७.६५ ॥

दूत एव हि सन्धत्ते भिनत्त्य् एव च संहतान् ।

दूतस् तत् कुरुते कर्म भिद्यन्ते येन मानवाः ॥ ७.६६ ॥

दूत इति । दूतस् तत् कुरुते कर्म भिद्यन्ते येन मानवाः । यस्माद् दूत एव भिन्नानां सन्ध्युत्पादने समर्थः, संहतानां च भेदने तथा परराष्ट्रे व्यवहरति येन संहता भिद्यन्ते तस्माद् दूते सन्धिविपर्ययाव् आयत्तौ चेत्य् एतन् नियमार्थम् आह ॥ ७.६६ ॥

स विद्याद् अस्य कृत्येषु निगूढेङ्गितचेष्टितैः ।

आकारम् इङ्गितं चेष्टां भृत्येषु च चिकीर्षितम् ॥ ७.६७ ॥

स विद्याद् इति । स सूतो ऽप्रकाशाभिर् आकारचेष्टाभिर् आत्मीयाभिः परस्य राज्ञो मुखविकाशवैवर्ण्याद्याकारं हर्षविषादसूचितम् इङ्गितस्वेदवेपयुरोमाञ्चाद्यात्मकं पञ्चसन्धिविग्रहाभिप्रायसूचकं चेष्टां च वाहनायुधसंस्कारोदासीनात्मिकाम् उत्साहसूचनीं जानीयात् । अभिलषितं तु नोपेक्षितम् इति जानीयात्, कृत्येषु च क्रुद्धलुब्धभीतापमानितेषु तद्भृत्येषु कर्तुम् इष्टसङ्ग्रहणम् ॥ ७.६७ ॥

बुद्ध्वा च सर्वं तत्त्वेन परराजचिकीर्षितम् ।

तथा प्रयत्नम् आतिष्ठेद् यथात्मानं न पीडयेत् ॥ ७.६८ ॥

बुद्ध्वेति । परराजसम्बन्धि करुम् इष्टम् अशेषं परमार्थतो ज्ञात्वा तथा दूतो यतेत यथा स्वामिनाशद्वारेण तस्यात्मनाशो न भवति ॥ ७.६८ ॥

जाङ्गलं सस्यसम्पन्नम् आर्यप्रायम् अनाविलम् ।

रम्यम् आनतसामन्तं स्वाजीव्यं देशम् आवसेत् ॥ ७.६९ ॥

जाङ्गलं सस्यसम्पन्नम् आर्यप्रायम् अनाकुलम् इति ।

अल्पोदकतृणो यस् तु प्रवातः प्रचुरातपः ।

ज्ञेयः स जाङ्गलो देशः ॥

इति तथाविधं देशं प्रचुरधान्यादिकं बहुधार्मिकजनं रोगमशकाद्युपद्रवानाकुलं फलकुसुमोद्यानादियुतं च चाटविकादिसामन्तनिवासिनं कर्षकादीनां सुखोपजीव्यम् आश्रित्य राजा निवासं कुर्यात् ॥ ७.६९ ॥

धन्वदुर्गं महीदुर्गम् अब्दुर्गं वार्क्षम् एव वा ।

नृदुर्गं गिरिदुर्गं वा समाश्रित्य वसेत् पुरम् ॥ ७.७० ॥

धन्वदुर्गम् इति । धन्वदुर्गम् अन्तरुदकं बाह्यतः समन्तात् पञ्चयोजनमात्रमरुभूम्युपेतम् । महीदुर्गं दृढं वप्रोपनिहितं विस्ताराद् द्विगुणोच्छ्रायद्वादशहस्ताधिकोच्छ्रितोपरि युद्धार्थगवाक्षादिप्राकारोपेतम् । अम्बुदुर्गं बाह्यतो ऽगाधानाश्रावकोदकपरिवृतम् । वृक्षदुर्गं बहिःसमन्तात् ततो योजनमात्रं व्याप्यास्ति संहतमहावृक्षोपेतम् । मनुष्यदुर्गं समन्ततो ऽवस्थापितहस्त्यश्वपदात्युपेतम्, आयुधाविक्रान्तपुरुषम् । गिरिदुर्गं पर्वतपृष्ठम् अतिदुरारोहम् अतिसङ्कटैर् वा मार्गानुगतम् । अन्तर्नदीप्रस्रवणादि उदकयुक्तम् इत्य् एवम् एतेषु दुर्गेषु मध्याद् अन्यतमं दुर्गम् आश्रित्य पुरं कुर्यात् ॥ ७.७० ॥

सर्वेण तु प्रयत्नेन गिरिदुर्गं समाश्रयेत् ।

एषां हि बाहुगुण्येन गिरिदुर्गं विशिष्यते ॥ ७.७१ ॥

सर्वेण तु प्रयत्नेनेति । यत् एषां दुर्गाणां मध्याद् गुणभूयस्त्वेन गिरिदुर्गः प्रशस्यते इति गिरिदुर्गं सर्वप्रयत्नेन समाश्रयेत् ॥ ७.७१ ॥

त्रीण्य् आद्यान्य् आश्रितास् त्व् एषां मृगगर्ताश्रयाप्सरः ।

त्रीण्य् उत्तराणि क्रमशः प्लवङ्गमनरामराः ॥ ७.७२ ॥

त्रीण्य् आद्यान्य् आश्रितास् त्व् एषां मृगगर्ताश्रया पुरेति । मध्याद्यानि त्रीणि धन्वमह्यब्दुर्गाणि मृगादय आश्रिताः । तत्र धन्वदुर्गं मृगैर् आश्रितम् । महीदुर्गं बिलासादैर् नकुलादिभिः । अम्बुदुर्गम् उदकचारिभिः कूर्मादिभिः । उत्तराणि त्रीणि वृक्षनृगिरिदुर्गाणि क्रमेण प्लगङ्गमादय आश्रिताः । तत्र वृक्षदुर्गं वानरैर् आश्रितम् । नृदुर्गं मनुष्यैः । गिरिदुर्गं देवैः ॥ ७.७२ ॥

यथा दुर्गाश्रितान् एतान् नोपहिंसन्ति शत्रवः ।

तथारयो न हिंसन्ति नृपं दुर्गसमाश्रितम् ॥ ७.७३ ॥

यथेतियथैतान् मृगादीन् दुर्गवर्तिनो व्याधादयः शस्त्रवः न हिंसन्ति अशक्तत्वात्, एवं दुर्गाश्रितं राजानं न शत्रव इति ॥ ७.७३ ॥

एकः शतं योधयति प्राकारस्थो धनुर्धरः ।

शतं दशसहस्राणि तद्माद् दुर्गं विधीयते ॥ ७.७४ ॥

एक इति । यस्माद् एको धानुष्कः प्राकारस्थः परकीयानां शतं योद्धुं शक्नोति तस्माद् दुर्गं कर्तव्यतयोपदिश्यते ॥ ७.७४ ॥

तत् स्याद् आयुधसम्पन्नं धनधान्येन वाहनैः ।

ब्राह्मणैः शिल्पिभिर् यन्त्रैर् यवसेनौदकेन च ॥ ७.७५ ॥

तस्माद् इति । तद् दुर्गं खड्गाद्यायुधधनधान्याश्वादिवाहनब्राह्मणत्क्षादिशिल्पयन्त्र-घासोदकसमृद्धं कार्यम् ॥ ७.७५ ॥

तस्य मध्ये सुपर्याप्तं कारयेद् गृहम् आत्मनः ।

गुप्तं सर्वर्तुकं शुभ्रं जलवृक्षसमन्वितम् ॥ ७.७६ ॥

तस्येतितस्य दुर्गस्य मध्ये सुष्ठु पर्याप्तं पृथग् आयुधानां शालाद्युपेतं प्राकारपरिखादिरक्षितं सर्वर्तुकं फलपुष्पादियोगेन सर्वे ऋतवो यत्र सुधाधवलितं दीर्घकादिजलयुक्तं वृक्षाश्रितं गृहम् आत्मनः कारयेत् ॥ ७.७६ ॥

तद् अध्यास्योद्वहेद् भार्यां सवर्णां लक्षणान्विताम् ।

कुले महति सम्भूतां हृद्यां रूपगुणान्विताम् ॥ ७.७७ ॥

तद् इति । तद् गृहम् अधिष्ठाय समानवर्णां प्रशस्तलेखातिलकादिलक्षणोपेतां महाकुलीनां मनोरमां स्वाकृतिम् आचारादिसम्पन्नां भार्याम् उपयच्छेत् ॥ ७.७७ ॥

पुरोहितं च कुर्वीत वृणुयाद् एव चर्त्विजः ।

ते ऽस्य गृह्याणि कर्माणि कुर्युर् वैतानिकानि च ॥ ७.७८ ॥

पुरोहितम् इति । पुरोहितं चाथर्वणविधिज्ञं कुर्वीतऋत्विजश् च सूत्रकारोक्तप्रक्रियया वृणुयात्ते चास्य राज्ञो गृह्योक्तानि श्रौतानि कर्माणि कुर्युः ॥ ७.७८ ॥

यजेत राजा क्रतुभिर् विविधैर् आप्तदक्षिणैः ।

धर्मार्थं चैव विप्रेभ्यो दद्याद् भोगान् धनानि च ॥ ७.७९ ॥

यजेतेति । राजाश्वमेधपुण्डरीकादीन् नानाप्रकारान् पर्याप्तदक्षिणान् यज्ञान् कुर्यात् । ब्राह्मणेभ्यः स्वीयान् गृहशय्यादीन् **भोगान् धनानि च **सुवर्णादीनि धर्मार्थं दद्याद् इतीदम् अधिकं राज्ञो दानयागम् अवश्यकर्तव्यम् उच्यते ॥ ७.७९ ॥

सांवत्सरिकम् आप्तैश् च राष्ट्राद् आहारयेद् बलिम् ।

स्याच् चाम्नायपरो लोके वर्तेत पितृवन् नृषु ॥ ७.८० ॥

सांवत्सरिकम् इति । आप्तैर् हितकारिभिर् उक्तगुणैः अमात्यैर् वार्षिकं वक्ष्यमाणं धान्यादिकं राष्ट्राद् आनाययेत् । शास्त्रप्रधानश् च लोके करशुल्कादिषु स्यात् राष्ट्रीयेषु पितृवत् स्नेहादिना वर्तेत ॥ ७.८० ॥

अध्यक्षान् विविधान् कुर्यात् तत्र तत्र विपश्चितः ।

ते ऽस्य सर्वाण्य् अवेक्षेरन् नृणां कार्याणि कुर्वताम् ॥ ७.८१ ॥

अध्यक्षान् इति । तस्य कार्याण्य् अवेक्षेरन् नृणां काऋयाणि कुर्वताम् । **तत्र तत्र **हस्त्यश्वायुधार्थादिस्थानेषु अधिकृतान् विपश्चितः तत्र तत्कर्मकुशलान् विविधान् पृथक् पृथक् कुर्यात् । न चास्याक्षतेषु तेषु हस्त्यश्वादिस्थानेषु तदौपयिकानि कार्याणि कुर्वतां मनुष्याणां सर्वाणि कार्याणि सम्यक्करणार्थम् अवेक्षेरन् ॥ ७.८१ ॥

आवृत्तानां गुरुकुलाद् विप्राणां पूजको भवेत् ।

नृपाणाम् अक्षयो ह्य् एष निधिर् ब्राह्मो ऽभिधीयते ॥ ७.८२ ॥

आवृत्तानाम् इति । नृपाणाम् अक्षयो ह्य् एष निधिर् ब्राह्मो विधीयते । यतो गुरुकुलनिवृत्तानां ब्राह्मणानां नियमतो धनदानेन पूजां च कुर्यात्, यस्मात् सो ऽयं निधिर् इव निधिः ब्राह्मणेषु निहितो धनादिषु विनश्वरो राज्ञां शास्त्रेणोपदिश्यते । ब्राह्मणाख्यो जन्मान्तरे ऽपि सुनिहितो भवति ॥ ७.८२ ॥

न तं स्तेना न चामित्रा हरन्ति न च नश्यति ।

तस्माद् राज्ञा निधातव्यो ब्राह्मणेष्व् अक्षयो निधिः ॥ ७.८३ ॥

नेतितं ब्राह्मं निधिं न चौरा नापि शत्रवो हरन्ति । अन्यनिधिवन् नापि मृत्संयोगादिना नश्यति । तस्माद् यो ऽयम् अक्षयो निधिर् ब्राह्मणाख्यनिधिर् जन्मान्तरे उत्तमान्तफलावाप्तये राज्ञा धनादिर् ब्राह्मणेषु निधातव्यः ॥ ७.८३ ॥

न स्कन्दते न च्यवते न विनश्यति कर्हिचित् ।

वरिष्ठम् अग्निहोत्रेभ्यो ब्राह्मणस्य मुखे हुतम् ॥ ७.८४ ॥

न स्कन्दत इति । अग्निहोत्राद्याहुतेः किल स्रवणं चलम् नाशाख्या दोषा भवन्ति । अतश् च कर्मवैगुण्यं यत् पुनर् एतद् ब्राह्मणमुखाग्नौ हुतम्, ब्राह्मणस्य दत्तं तन् न स्रवति न चलति नापि दाहादिना कदाचिद् विनश्यति । तस्माद् एतद् दोषासम्भवाद् अग्निहोत्रादिभ्यः श्रेष्ठम् इति प्रकृतदानस्तुतिपरम् एतत् ॥ ७.८४ ॥

समम् अब्राह्मणे दानं द्विगुणं ब्राह्मणब्रुवे ।

आचार्ये शतसाहस्रम् अनन्तं वेदपारगे ॥ ७.८५ ॥

समम् इति । सहस्रगुणम् आचार्ये अनन्तं वेदपारगे । ब्राह्मणव्यतिरिक्तविषये उपकारकरणरूपेण यद् दानं न दानप्रतिग्रहरूपेण तत्र तदभावात् तत्समं यस्य देयद्रव्यस्य यत् फलं श्रुतं तत् ततो नात्युत्कृष्टम् इति प्राप्यते । एवं जातिमात्रोपजीविनि ब्राह्मणे पूर्वापेक्षया द्विगुणं फलम् एवं प्रक्रान्ताध्ययने लक्षगुणं फलम्, समस्तशाखाध्यायिनि अनन्तफलम् ॥ ७.८५ ॥

पात्रस्य हि विशेषेण श्रद्दधानतयैव च ।

अल्पं वा बहु वा प्रेत्य दानस्य फलम् अश्नुते ॥ ७.८६ ॥

पात्रस्य हि विशेषेण श्रद्दधानस् तथैव च । अल्पं वा बहु वा प्रेत्य दानस्यावाप्यते फलम् । अध्ययनं विज्ञानतपोयुक्ततया पात्रतारतम्यम् अपेक्ष्य श्रद्धातारतम्यं चान्यं वा बहु चापरलोके वा दानस्य फलं प्राप्यते ॥ ७.८६ ॥

समोत्तमाधमै राजा त्व् आहूतः पालयन् प्रजाः ।

न निवर्तेत सङ्ग्रामात् क्षात्रं धर्मम् अनुस्मरन् ॥ ७.८७ ॥

**समोत्तमाधमैर् **इति । समाधिकहीनबलैः राजभिर् युद्धार्थम् आहूतः प्रजारक्षणोद्यतः क्षत्रियेणाहूतेनावश्यं योद्धव्यम् इत्य् एवं क्षात्रधर्मं सम्भावयन् सङ्ग्रामान् न निवर्तेत ॥ ७.८७ ॥

सङ्ग्रामेष्व् अनिवर्तित्वं प्रजानां चैव पालनम् ।

शुश्रूषा ब्राह्मणानां च राज्ञां श्रेयस्करं परम् ॥ ७.८८ ॥

सङ्ग्रामेष्व् इति । युद्धेभ्यो ऽपराङ्मुखत्वम्, प्रजानां पालनम्, ब्राह्मणानां परिचर्येत्य् एतद् राज्ञां प्रकृष्टं स्वर्गादिसाधनम् ॥ ७.८८ ॥

आहवेषु मिथो ऽन्योन्यं जिघांसन्तो महीक्षितः ।

युध्यमानाः परं शक्त्या स्वर्गं यान्त्य् अपराङ्मुखाः ॥ ७.८९ ॥

**तथा चाहवेष्व् **इति । महीपालाः मिथः स्पर्धमानाः सङ्ग्रामेष्व् इतरेतरं हन्तुकामाः प्रकृष्टया शक्त्या सम्मुखं युध्यमानाः स्वर्गं गच्छन्ति ॥ ७.८९ ॥

न कूटैर् आयुधैर् हन्याद् युध्यमानो रणे रिपून् ।

न कर्णिभिर् नापि दिग्धैर् नाग्निज्वलिततेजनैः ॥ ७.९० ॥

न कूटैर् इति । **न कर्णिकैर् नापि दग्धैर् नाग्निज्वलिततेजनैः **। सङ्ग्रामे युद्धं कुर्वन् कूटशस्त्रादिभिः शत्रून् हन्यमानो ऽपि कृतकर्णाकारफलकैर् नापि विषलिप्तैर् न चाग्निज्वलितफलकैः ॥ ७.९० ॥

न च हन्यात् स्थलारूढं न क्लीबं न कृताञ्जलिम् ।

न मुक्तकेशं नासीनं न तवास्मीति वादिनम् ॥ ७.९१ ॥

न चेति । युद्धभूमिं त्यक्त्वा स्थलम् आरूढं नपुंसकं बद्धाञ्जलिं, मुक्तकेशोपविष्टं त्वदीयो ऽहम् इत्य् एवं वक्तारं न हन्यात् ॥ ७.९१ ॥

न सुप्तं न विसन्नाहं न नग्नं न निरायुधम् ।

नायुध्यमानं पश्यन्तं न परेण समागतम् ॥ ७.९२ ॥

न सुप्तम् इति । **सुप्तं **विगतसन्नाहम् अपरिधानान् आयुधप्रधनप्रेक्षकान् अन्यैश् च युध्यमानान् न हन्यात् ॥ ७.९२ ॥

नायुधव्यसनप्राप्तं नार्तं नातिपरिक्षतम् ।

न भीतं न परावृत्तं सतां धर्मम् अनुस्मरन् ॥ ७.९३ ॥

नायुधव्यसनप्राप्तम् इति । भग्नायुधं हतपुत्रादिकं प्रहारोपेतं भीतं सङ्ग्रामप्रतिनिवृत्तं शिष्टाचारं स्मरन् न हन्यात् ॥ ७.९३ ॥

यस् तु भीतः परावृत्तः सङ्ग्रामे हन्यते परैः ।

भर्तुर् यद् दुष्क्र्तं किञ्चित् तत् सर्वं प्रतिपद्यते ॥ ७.९४ ॥

यस् त्व् इति । **यो भीतः **पराङ्मुखीभूतः सङ्ग्रामे शत्रुभिर् हन्यते ऽपि यदि तथापि प्रभोर् यत् किञ्चित् पापं तत् सर्वं प्राप्नोति । पापं तस्य भवति ह्य् एतावद् अत्र विवक्षितम् । अन्यं वा कथयति अपापे प्रभौ पापाभावप्रसङ्गेन च प्रभोर् एव तत् प्रायश्चित्तं तेनासौ दुष्कृतात् प्रमुच्यते । भर्तृग्रहणाद् अमात्यस्यापि परावर्तनादिदोष एव, न प्रकृतस्यैव राज्ञः ॥ ७.९४ ॥

यच् चास्य सुकृतं किञ्चिद् अमुत्रार्थम् उपार्जितम् ।

भर्ता तत् सर्वम् आदत्ते परावृत्तहतस्य तु ॥ ७.९५ ॥

यद् इति । अस्य च पराङ्मुखहतस्य यत् किञ्चित् परलोकार्थं सुकृतम् अर्जितम् अस्ति तत् सर्वं प्रभोर् भवति ॥ ७.९५ ॥

रथाश्वं हस्तिनं छत्रं धनं धान्यं पशून् स्त्रियः ।

सर्वद्रव्याणि कुप्यं च यो यज् जयति तस्य तत् ॥ ७.९६ ॥

रथाश्वम् इति । रथाश्वहस्तिध्वजहिरण्यधान्यपशुदास्यात्मकं सर्वाणि गुडलवणादीनि कुप्यं ताम्रलोहादि यो यत् परान् अवजित्य हरति तस्यैव तत् भवति न राज्ञः ॥ ७.९६ ॥

राज्ञश् च दद्युर् उद्धारम् इत्य् एषा वैदिकी श्रुतिः ।

राज्ञा च सर्वयोधेभ्यो दातव्यम् अपृथग्जितम् ॥ ७.९७ ॥

**राज्ञे चेति **। यद्य् अपि यो यज् जयति तस्य तद् युक्तम् । तथा च यद् यत् तत्र श्रेयस् तत् तत् राज्ञे भृत्या दद्युः । “माहेन्द्रम् उद्धारम् उद्धारम् उद्धरन् वृत्रं हत्वा” इत्य् एवमादिकात्र वैदिकी श्रुतिः । यच् चाविभागेन जितं तद् राज्ञा सर्वयोधेभ्यो दातव्यम् ॥ ७.९७ ॥

एषो ऽनुपस्कृतः प्रोक्तो योधधर्मः सनातनः ।

अस्माद् धर्मान् न च्यवेत क्षत्रियो घ्नन् रणे रिपून् ॥ ७.९८ ॥

एष इति । एषो ऽविगर्हितो ऽनादिपारम्पर्यायातो योधधर्म उक्तः । ततः सङ्ग्रामे शत्रून् हिंसन् क्षत्रिय एतं धर्मं न परित्यजेत् ॥ ७.९८ ॥

अलब्धं चैव लिप्सेत लब्धं रक्षेत् प्रयत्नतः ।

रक्षितं वर्धयेच् चैव वृद्धं पात्रेषु निक्षिपेत् ॥ ७.९९ ॥

अलब्धम् इति । अजितं भूहिरण्यसुवर्णादि जेतुं यत्नं कुर्यात् । जितं च यत्नतो रक्षेत् । रक्षितं च वृद्धिं नयेत् । एवम् अस्य महाधनत्वात् स्वपरपरिभवो न भवति । वर्धितं च पात्रेभ्यो दद्यात् । तथा सति परलोकाभ्युदयो ऽप्य् अस्य भवति ॥ ७.९९ ॥

एतच् चतुर्विधं विद्यात् पुरुषार्थप्रयोजनम् ।

अस्य नित्यम् अनुष्ठानं सम्यक् कुर्याद् अतन्द्रितः ॥ ७.१०० ॥

एतद् इति । एतदर्जनरक्षणवर्धनदानात्मकं चतुःप्रकारं पुरुषकारस्य प्रयोजनं जानीयात् । अतो ऽस्यानलसः सर्वदानुष्ठाने यत्नं कुर्यत् ॥ ७.१०० ॥

अलब्धम् इच्छेद् दण्डेन लब्धं रक्षेद् अवेक्षया ।

रक्षितं वर्धयेद् वृद्ध्या वृद्धं पात्रेषु निक्षिपेत् ॥ ७.१०१ ॥

अलब्धम् इति । अनर्जितं हस्त्यश्वरथपदात्यात्मकेन दण्डेन जेतुम् इच्छेत् । जितं च शास्त्रदृष्टेन प्रत्यवेक्षणेन रक्षेत् । रक्षितं च वृद्ध्यर्थैर् उपायैः स्थलपदादिभिर् वर्धयेत् । वर्धितं च यद् अधिकं तत् परलोकार्थं पात्रेभ्यो दद्यात् ॥ ७.१०१ ॥

नित्यम् उत्द्यतदण्डः स्यान् नित्यं विवृतपौरुषः ।

नित्यं संवृतसंवार्यो नित्यं छिद्रानुसार्य् अरेः ॥ ७.१०२ ॥

नित्यम् इति । हस्त्यश्वरथपदात्यात्मको दण्डो नित्यम् उद्यतः कृतयुद्धादिशिष्याभ्यासो यस्य स तथा स्यात् । नित्यं च विवृतं प्रकाशीकृतं सीमाटव्यादिदेशोद्यतायुधं सन्नद्धपुरुषमारणेन पौरुषं पराक्रमो यस्य स तथा स्यात् । नित्यं संवृतं गुप्तं संवार्यं गोपनीयमन्त्रकृत्योत्थानानि यस्य स तथा स्यात् । सर्वदा च शत्रोर् व्यसनापेक्षणकृत्यदूषणादिना छिद्रान्वेषणपरः स्यात् ॥ ७.१०२ ॥

नित्यम् उद्यतदण्डस्य कृत्स्नम् उद्विजते जगत् ।

तस्मात् सर्वाणि भूतानि दण्डेनैव प्रसाधयेत् ॥ ७.१०३ ॥

नित्यम् उद्यतदण्डस्येति । यस्मान् नित्योद्यतदण्डात् सर्वं जगद् उद्विजते तस्मात् सर्वाणि भूतानि दण्डेनैव वशीकुर्यात् ॥ ७.१०३ ॥

अमाययैव वर्तेत न कथञ्चन मायया ।

बुध्येतारिप्रयुक्तां च मायां नित्यं सुसंवृतः ॥ ७.१०४ ॥

**बुध्येतारिप्रयुक्तां च नित्यं मायां सुसंवृतः **। यावच् छत्रूणां प्रकृत्युपजापादिछद्मना कृतं तावच् छद्मनैव व्यवहारान् न तु कदाचित् पूर्वं छद्म समाचरेत् । सुव्यक्तपक्षरक्षश् च भूत्वा शत्रुकृतं प्रकृतिभेदादिछद्मं सर्वदा चारादिभिर् अवेक्षेत ॥ ७.१०४ ॥

नास्य छिद्रं परो विद्याद् विद्याच् छिद्रं परस्य च ।

गूहेत् कूर्म इवाङ्गानि रक्षेद् विवरम् आत्मनः ॥ ७.१०५ ॥

नास्येति । तथा यतेत यथास्य छिद्रं प्रकृतिभेदादि शत्रुर् न जानीते, शत्रोः पुनर् असौ प्रकृतिभेदादि यत्नतो जानीयात् । तथा कूर्म इवावयवानुप्रवेशेन प्रकृत्यादीनि राज्याङ्गानि सङ्ग्रामादिना रक्षेत् । कथञ्चिच् च प्रकृतिभेदादि यद् आत्मनः छिद्रम् उपजातं तत्र यत्नतः समाधानं कुर्यात् ॥ ७.१०५ ॥

बकवच् चिन्तयेद् अर्थान् सिंहवच् च पराक्रमेत् ।

वृकवच् चावलुम्पेत शशवच् च विनिष्पतेत् ॥ ७.१०६ ॥

**बकवच् चिन्तयेद् अर्थान् शशवच् च विनिष्पतेत् । वृकवच् चावलुम्पेत सिंहवच् च पराक्रमेत् **। यथा बको दुर्गाश्रयम् अतिचरन् स्वभावम् अपि मत्स्यमांसग्रहणाद् अनिर्विण्णैकाग्रान्तःकरणतया चिन्तयत्य् एवम् अतिगुप्ते च रिपौ तद्राष्ट्रसम्बन्धादीन् अर्थान् चिन्तयेत् । यथा शबरगोचरताम् उपगतो ऽपि शशो ऽतिचलकुटिलगतितया देशान्तरम् उपसरत्य् एवं सकलसामन्तप्रकोपातिचलरिपुमध्यवर्ती वा कथञ्चिद् अरिसम्मोहम् आधाय ततः प्रदेशाद् गुणवद्राजान्तरसंश्रयार्थं उपसर्पेत् । यथा च वृकः कृतरक्षाण् अपि पशूंस् तद्ग्रहणाभियोगेन कथञ्चिद् अनवधाने पाने (प्राप्ते?) हिनस्त्य् एवं दुर्गाद्यवस्थितम् अपि परं कथञ्चिद् अपि, तत्प्रमादम् आसाद्यावलुम्पेत । यथा च गिरिवरशिखराकारम् अपि करिणम् उत्साहशक्तियोगात् सिंहो निहन्तुम् आक्रामत्य् एवम् अल्पबलो ऽपि बलवत्तराभिभूतसंश्रयाद्युपायान्तराभावे सकलबलावष्टम्भेन परिहन्तुम् आक्रमेत् ॥ ७.१०६ ॥

एवं विजयमानस्य ये ऽस्य स्युः परिपन्थिनः ।

तान् आनयेद् वशं सर्वान् सामादिभिर् उपक्रमैः ॥ ७.१०७ ॥

एवम् इति । एवम् उक्तरीत्या जेतुं प्रवृत्तस्य राज्ञो ये विजयप्रतिकूलाः स्युः तान् सर्वान् सामभेददानदण्डैर् उपायैर् वशीकुर्यात् ॥ ७.१०७ ॥

यदि ते तु न तिष्ठेयुर् उपायैः पर्थमैः त्रिभिः ।

दण्डेनैव प्रसह्यैतांश् छनकैर् वशम् आनयेत् ॥ ७.१०८ ॥

यदीति । ते च परिपन्थिनो यद्य् आद्यैः सामदानभेदैर् उपायैः वशं नायान्ति तदा दण्डेनैव देशोपमर्यादादिना हठाद् एव शनकैर् यादृशो दण्डक्रमस् तेन वशं नयेत् ॥ ७.१०८ ॥

सामादीनाम् उपायानां चतुर्णाम् अपि पण्डिताः ।

सामदण्डौ प्रशंसन्ति नित्यं राष्ट्राभिवृद्धये ॥ ७.१०९ ॥

सामादीनाम् इति । **सामादीनां चतुर्णाम् अप्य् उपायानां **मध्यात् सामदण्डौ राष्ट्रविवृद्ध्यर्थं प्रशस्तौ नित्यं विद्वांसो मन्यन्ते । साम्नि क्षयव्ययासानाम् अभावाद् दण्डे च युद्धाद्यनर्योत्पादे च सिद्ध्यतिशयात् ॥ ७.१०९ ॥

यथोद्धरति निर्दाता कक्षं धान्यम् च रक्षति ।

तथा रक्षेन् नृपो राष्ट्रं हन्याच् च परिपन्थिनः ॥ ७.११० ॥

**यथोद्धरतीति **। यथा क्षेत्रस्य कक्षस्योत्पाटयिता कक्षं नाशयति धान्यं च रक्षति, एवं नृपो ऽनुकूलान् राष्ट्रियान् रक्षेत् प्रतिकूलांश् च हन्यात् ॥ ७.११० ॥

मोहाद् राजा स्वराष्ट्रं यः कर्शयत्य् अनवेक्षया ।

सो ऽचिराद् भ्रश्यते राज्याज् जीविताच् च सबान्धवः ॥ ७.१११ ॥

मोहाद् इति । यो राजा हिताहिताविवेकेन प्रजाः पीडयति स क्षिप्रं प्रकृतिलोपादिनाधर्मभूयस्त्वेन राज्याज् जीविताच् च बन्धुसहितो नश्यत्य् अचिरात् ॥ ७.१११ ॥

शरीरकर्षणात् प्राणाः क्षीयन्ते प्राणिनां यथा ।

तथा राज्ञाम् अपि प्राणाः क्षीयन्ते राष्ट्रकर्षणात् ॥ ७.११२ ॥

शरीरकर्षणाद् इति । यथा प्राणभृतां दीर्घाध्वगमनादिना **प्राणाः क्षीयन्ते **एव तथा राज्ञाम् अपि राष्ट्रोपपीडनात् प्रकृतिकोपे सति प्राणाः विनाशम् उपयान्ति ॥ ७.११२ ॥

राष्ट्रस्य सङ्ग्रहे नित्यं विधानम् इदम् आचरेत् ।

सुसङ्गृहीतराष्ट्रो हि पार्थिवः सुखम् एधते ॥ ७.११३ ॥

एवं चैतद् दोषपरिजिहीर्षयाह **राष्ट्रस्येति **। राष्ट्रसंरक्षणे सर्वदा वक्ष्यमाणम् उपायं कुर्यात् । यस्मात् सुसंरक्षितराष्ट्रो राजा यत्नेन वर्धते ॥ ७.११३ ॥

द्वयोस् त्रयाणां पञ्चानां मध्ये गुल्मम् अधिष्ठितम् ।

तथा ग्रामशतानां च कुर्याद् राष्ट्रस्य सङ्ग्रहम् ॥ ७.११४ ॥

द्वयोर् इति । द्वयोर् ग्रामयोर् मधे त्रयाणां पञ्चानां बहूनां वा ग्रामशतानां देशकालाद्यपेक्षया आत्त(आप्त)पुरुष्आधिष्ठितं राष्ट्रस्य सङ्ग्रहं रक्षाभूतं स्थानकं कुर्यात् ग्रामदोषाद्यवबोधार्थं करादिग्रहणार्थं च ॥ ७.११४ ॥

ग्रामस्याधिपतिं कुर्याद् दशग्रामपतिं तथा ।

विंशतीशं शतेशं च सहस्रपतिम् एव च ॥ ७.११५ ॥

ग्रामस्येति । ग्रामदशग्रामाध्यक्षं कुर्यात् ॥ ७.११५ ॥

ग्रामदोषान् समुत्पन्नान् ग्रामिकः शनकैः स्वयम् ।

शंसेद् ग्रामदशेशाय दशेशो विंशतीशिने ॥ ७.११६ ॥

विंशतीशस् तु तत् सर्वं शतेशाय निवेदयेत् ।

शंसेद् ग्रामशतेशस् तु सहस्रपतये स्वयम् ॥ ७.११७ ॥

ग्रामदोशान् इति । विंशतीश इति । ग्रामे चौर्यादिदोषान् उत्पन्नान् ग्रामाधिपतिर् आज्ञां प्रतिसन्धानाशक्तो ऽनाकुलतया स्वयं दशग्रामाधिपतये कथयेत् । दशाधिपतिर् विंशतिस्वामिने, विंशतीशः शतेशाय, शतेशो सहस्रेशाय ॥ ७.११६–११७ ॥

यानि राजप्रदेयानि प्रत्यहं ग्रामवासिभिः ।

अन्नपानेन्धनादीनि ग्रामिकस् तान्य् अवाप्नुयात् ॥ ७.११८ ॥

यानीतियानि ग्रामवासिभिर् अन्नपानादीनि सर्वाणि स्वामिने दातव्यानि तानि ग्रामाधिपतिर् गृह्णीयात् ॥ ७.११८ ॥

दशी कुलं तु भुञ्जीत विंशी पञ्चकुलानि च ।

ग्रामं ग्रामशताध्यक्षः सहस्राधिपतिः पुरम् ॥ ७.११९ ॥

**दशीति । **

****अष्टागवं धर्महलं षड्गवं जीविकार्थिनाम् ।

चतुर्गवं गृहस्थानां द्विगवं ब्रह्मघातिनाम् ॥

इति हारीतः । षड्गवं मध्यमं हलम्, तद्द्विगुणं कुलं मन्यन्ते । तेन मध्यमेन हलद्वयेन यावती भूर् वाह्यते तत्फलं दशाधिपतिः भृत्यर्थं भुञ्जीत । एवं विंशत्यधिपतिः पञ्चकुलानि शताधिपतिर् मध्यमं ग्रामम्, सहस्राधिपतिर् मध्यमं पुरम् ॥ ७.११९ ॥

तेषां ग्राम्याणि कार्याणि पृथक्कार्याणि चैव हि ।

राज्ञो ऽन्यः सचिवः स्निग्धस् तानि पश्येद् अतन्द्रितः ॥ ७.१२० ॥

तेषाम् इति । एवं ग्रामाधिपतिप्रभृतीनां यानि ग्रामनिवासकार्याणि, तदश्क्यप्रतिसन्धानानि यानि च तेषां सम्बन्धीनि कृताकृतानि वान्यान्य् अपि राज्ञा नियुक्तो ऽनलसो भूत्वावेक्षेत ॥ ७.१२० ॥

नगरे नगरे चैकं कुर्यात् सर्वार्थचिन्तकम् ।

उच्चैःस्थानं घोररूपं नक्षत्राणाम् इव ग्रहम् ॥ ७.१२१ ॥

नगर इति । प्रतिनगरम् एकैकम् उच्चैःस्थानं महाकुलीनं घोररूपं छात्रालङ्कारहस्त्यश्वादिबलसामग्र्या भयानकाकारं मध्ये ग्रहम् इव भास्कराकारं नगराधिपतिं कुर्यात् ॥ ७.१२१ ॥

स तान् अनुपरिक्रामेत् सर्वान् एव सदा स्वयम् ।

तेषां वृत्तं परिणयेत् सम्यग् राष्ट्रेषु तच्चरैः ॥ ७.१२२ ॥

इति । नागरिक एकग्रामाधिपत्यादीन् बलपूरणाय सति प्रयोजने सर्वदा स्वयं पश्चात् यातात् । तेषां नागरिकपर्यन्तानां राष्ट्रेषु यदाचरितं तद्विषयनियुक्तैः चारैर् यथा तद् राजा आगमयेत् ॥ ७.१२२ ॥

राज्ञो हि रक्षाधिकृताः परस्वादायिनः शठाः ।

भृत्या भवन्ति प्रायेण तेभ्यो रक्षेद् इमाः प्रजाः ॥ ७.१२३ ॥

राज्ञ इति । यस्माद् राज्ञो भृत्या रक्षाधिकृतां भृत्यास् ते बाहुल्येन परस्वग्रहणशीला वञ्चकाश् च भवन्ति, तस्मात् तेभ्य आत्मीयाः प्रजाः राजा रक्षेत् ॥ ७.१२३ ॥

ये कार्यिकेभ्यो ऽर्थम् एव गृह्णीयुः पापचेतसः ।

तेषां सर्वस्वम् आदाय राजा कुर्यात् प्रवासनम् ॥ ७.१२४ ॥

इति । ये राजाधिकृताः कार्यिकेभ्यः परस्वादायिरूपेण पापबुद्धयो ऽर्थं गृह्णीयुः तेषां सर्वस्वम् अपहृत्य देशान् निर्वासनं राजा कुर्यात् ॥ ७.१२४ ॥

राजकर्मसु युक्तानां स्त्रीणां प्रेष्यजनस्य च ।

प्रत्यहं कल्पयेद् वृत्तिं स्थानकर्मानुरूपतः ॥ ७.१२५ ॥

**राजकर्मस्व् इति । **राजोपयोगिकर्मसु युक्तानां दास्यादिस्त्रीणां दासवर्गस्य चोत्कृष्टहीनस्थानानुरूपेणैव कर्मानुरूपेण प्रत्यहं वृत्तिं दद्यात् ॥ ७.१२५ ॥

पणो देयो ऽवकृष्टस्य षड् उत्कृष्टस्य वेतनम् ।

षाण्मासिकस् तथाच्छादो धान्यद्रोणस् तु मासिकः ॥ ७.१२६ ॥

ताम् एव दर्शयति पणो देयो ऽवकृष्टस्य षद् उत्कृष्टस्य भक्तकम् इति** । **पणो वक्ष्यमाणः, स जघन्यभृतकस्य भक्तार्थं प्रत्यहं दातव्यः । षाण्मसिकश् चाच्छाद्यो वस्त्रयुगलं मासि धान्यद्रोणो द्वादशोत्तराणि पञ्चपलशतानि देयः । उत्कृष्टस्य तु षट्पणा भक्तार्थं देयाः । अनयैव कल्पनया षाण्मासिकं वस्त्रयुगषट्कं देयम् । अनयैव च दिशा मध्यमस्य पणत्रयं षाण्मासिकं वस्त्रयुगत्रयम्, मासिकं च धान्यद्रोणत्रयं देयम् इति ॥ ७.१२६ ॥

क्रयविक्रयम् अध्वानं भक्तं च सपरिव्ययम् ।

योगक्षेमं च सम्प्रेक्ष्य वणिजो दापयेत् करान् ॥ ७.१२७ ॥

क्रयविक्रयम् इति । कियता क्रीतम्, कियता च विक्रीयते, कियद्दूराद् आनीतम्, किम् अस्य वणिजो देशान्त्रराद् आगच्छतो भक्तसूपाद्यर्थं गतम्, किं चास्यारण्यादौ चौरादियोगक्षेमार्थं गतम् इत्य् एतद् अपेक्ष्य वणिजः करान् दापयेत् ॥ ७.१२७ ॥

यथा फलेन युज्येत राजा कर्ता च कर्मणाम् ।

तथावेक्ष्य नृपो राष्ट्रे कल्पयेत् सततं करान् ॥ ७.१२८ ॥

यथेतियथा राज्ञो वणिक्कर्षणादेश् च कर्मकर्तुः फलसम्बन्धो भवति तथा पर्यालोच्य राजा सर्वदा राष्ट्रे करान् कल्पयेत् ॥ ७.१२८ ॥

यथाल्पाल्पम् अदन्त्य् आद्यं वार्योकोवत्सषट्पदाः ।

तथाल्पाल्पो ग्रहीतव्यो राष्ट्राद् राज्ञाब्दिकः करः ॥ ७.१२९ ॥

यथाल्पाल्पम् इति । अत्र दृष्टान्तम् आह – यथा जलौकोवत्सभ्रमराः शनैः शनैः स्तोकं स्तोकम् अदनीयं असृक्क्षीरमकरन्दम् अदन्त्य् एवं मूलम् अच्छिन्दता राज्ञा सांवत्सरिको करो ऽल्पो ऽल्पो ग्रहीतव्यः ॥ ७.१२९ ॥

पञ्चाशद्भाग आदेयो राज्ञा पशुहिरण्ययोः ।

धान्यानाम् अष्टमो भागः षष्ठो द्वादश् एव वा ॥ ७.१३० ॥

पञ्चाशद्भाग इति । मूलाधिकयोः पशुहिरण्ययोः पञ्चाशत्तमो भागो राज्ञा ग्राह्यः । एवं धान्यानां षष्ठो ऽष्टमो द्वादशो वा कर्षकक्लेशापेक्षया ग्राह्यः ॥ ७.१३० ॥

आददीताथ षड्भागं द्रुमांसमधुसर्पिषाम् ।

गन्धौषधिरसानां च पुष्पमूलफलस्य च ॥ ७.१३१ ॥

पत्रशाकतृणानां च चर्मणां वैदलस्य च ।

मृन्मयानां च भाण्डानां सर्वस्याश्ममयस्य् अच ॥ ७.१३२ ॥

आददीतेति । तृणानां चैव षड्भागं चर्मणां वैणवस्य च । इति । वृक्षमांसमाक्षिकघृतकर्पूरादिगन्धानां गुडूच्याद्यौषधीनां लवणादिरसानां पुष्पमूलफलपत्रशाकतृणचर्मवेणुमयमृन्मयाश्ममयानां षड्भागं गृह्णीयात् ॥ ७.१३१–१३२ ॥

म्रियमाणो ऽप्य् आददीत न राजा श्रोत्रियात् करम् ।

न च क्षुधास्य संसीदेच् छ्रोत्रियो विषये वसन् ॥ ७.१३३ ॥

म्रियमाण इति । न च गच्छेद् विषादं च श्रोत्रियो विषये वसन् । अत्यन्तक्षीणकोशो ऽपि राजा वेदाध्यायिनो ब्राह्मणान् करं न गृह्णीयात् । न च तदीये देशे वसन् श्रोत्रियो विषादं गच्छेत्

॥ ७.१३३ ॥

यस्य राज्ञस् तु विषये श्रोत्रियः सीदति क्षुधा ।

तस्यापि तत्क्षुधा राष्ट्रम् अचिरेणैव सीदति ॥ ७.१३४ ॥

यस्मात् यअस्येति । यस्य राज्ञो देशे श्रोत्रियः क्षुधावसन्नो भवति, तस्य राष्ट्रम् अपि अचिरात् क्षुधावसादम् एति ॥ ७.१३४ ॥

श्रुतवृत्ते विदित्वास्य वृत्तिं धर्म्यां प्रकल्पयेत् ।

संरक्षेत् सर्वतश् चैनं पिता पुत्रम् इवौरसम् ॥ ७.१३५ ॥

यत एवम् अतः श्रुतवृत्ते इति । भयेभ्यश् च तथा रक्षेत् पिता पुत्रम् इवौरसम् । ज्ञानानुष्ठाने ऽस्य ज्ञात्वा तदनुरूपां धर्माद् अनपेतां स जीविकां कल्पयेत्, चौरपारदारिकादिभ्यो भयेभ्यश् च रक्षणीयस् तथा यथा पिता पुत्रं रक्षति ॥ ७.१३५ ॥

संरक्ष्यमाणो राज्ञा यं कुरुते धर्मम् अन्वहम् ।

तेनायुर् वर्धते राज्ञो द्रविणं राष्ट्रम् एव च ॥ ७.१३६ ॥

संरक्ष्यमाण इति । स च ब्राह्मणो राज्ञा रक्ष्यमाणो धर्मम् अन्वहं कुरुते, तेन राज्ञ आयुर् वर्धते, राष्ट्राणि वर्धन्ते ॥ ७.१३७ ॥

यत् किञ्चिद् अपि वर्षस्य दापयेत् करसञ्ज्ञितम् ।

व्यवहारेण जीवन्तं राजा राष्ट्रे पृथग्जनम् ॥ ७.१३७ ॥

यत् किञ्चिद् इति । तद्राष्ट्रे क्रयविक्रयादिजीवितम् आपूपिकादिकं निकृष्टजनं यत् किञ्चित् स्वल्पम् अपि कराख्यं वर्षे राजा दापयेत् ॥ ७.१३७ ॥

कारुकान् शिल्पिनश् चैव शूद्रांश् चात्मोपजीविनः ।

एकैकं कारयेत् कर्म मासि मासि महीपतिः ॥ ७.१३८ ॥

कारुकान् इति । कारून् सूपकारादीन् शिल्पिनश् चर्मकारादीन् शूद्रांश् च कायक्लेशजीविनो भारिप्रभृतीन् मासि मासि एकैकम् अहोरात्रं कर्म कारयेत् ॥ ७.१३८ ॥

नोच्छिन्द्याद् आत्मनो मूलं परेषां चातितृष्णया ।

उच्छिन्दन् ह्य् आत्मनो मूलम् आत्मानं तांश् च पीडयेत् ॥ ७.१३९ ॥

नोच्छिन्द्याद् इति । उच्छिन्दन्न् आत्मनो मूलम् इति । राजा अतिस्नेहेन कराद्यग्रहणे सति आत्मनः कोशक्षयाद् राज्यविनाशाख्यं मूलच्छेदं न कुर्यात् । तथातिलोभवान् आसां प्रजानाम् अपि न च मूलच्छेदं कुर्यात् । तस्माद् आत्ममूलच्छेदेन राजा कराक्रमणे सति आत्मानं प्रजाश् च पीडयेत् ॥ ७.१३९ ॥

तीक्ष्णश् चैव मृदुश् च स्यात् कार्यं वीक्ष्य महीपतिः ।

तीक्ष्णश् चैव मृदुश् चैव राजा भवति सम्मतः ॥ ७.१४० ॥

न तीक्ष्णो न मृदुश् च स्यात् कार्यं वीक्ष्य महीपतिर् इति । कार्यवशात् तीक्ष्णो मृदुर् वा राजा भवेत् । नैकान्ततः कार्यतः तीक्ष्णमार्दवावलम्बी राजा प्रजानाम् अभिमतो भवति ॥ ७.१४० ॥

अमात्यमुख्यं धर्मज्ञं प्राज्ञं दान्तं कुलोद्गतम् ।

स्थापयेद् आसने तस्मिन् खिन्नः कार्येक्षणे नृणाम् ॥ ७.१४१ ॥

अमात्यमुख्यम् इति । भृत्यविषये कार्यदर्शने राजा खिन्नः सन् प्रधानामात्यं धर्मज्ञं प्राज्ञं यतेन्द्रियं कुलीनं तस्मिन् कार्यदर्शनस्थाने विनियुञ्जीत ॥ ७.१४१ ॥

एवं सर्वं विधायेदम् इतिकर्तव्यम् आत्मनः ।

युक्तश् चैवाप्रमत्तश् च परिरक्षेद् इमाः प्रजाः ॥ ७.१४२ ॥

एवम् इति । एवम् उक्तरीत्या सर्वम् आत्मनः कार्यजातं सम्पाद्य यत्नवान् बुद्ध्यास्खलन्न् आत्मीयाः प्रजाः परिरक्षेत् ॥ ७.१४३ ॥

विक्रोशन्त्यो यस्य राष्ट्राद् ह्रियन्ते दस्युभिः प्रजाः ।

सम्पश्यतः सभृत्यस्य मृतः स न तु जीवति ॥ ७.१४३ ॥

विक्रोशन्य इति । यस्य राज्ञः सभृत्यस्य पश्यत एव राष्ट्राद् आक्रन्दन्त्यः प्रजाः शत्रुप्रभृतिभिर् अपह्रियन्ते स्वजीवितकार्याभावात् मृत एव, न तु जीवति ॥ ७.१४३ ॥

क्षत्रियस्य परो धर्मः प्रजानाम् एव पालनम् ।

निर्दिष्टफलभोक्ता हि राजा धर्मेण युज्यते ॥ ७.१४४ ॥

**क्षत्रियस्येत् । क्षत्रियस्य **धर्मान्तरेभ्यः प्रजापालनम् एव प्रकृष्टो धर्मो यस्माद् रक्षणम् इति फलभोक्ता राजा धर्मे(ण) सम्बध्यते ॥ ७.१४४ ॥

उत्थाय पश्चिमे यामे कृतशौचः समाहितः ।

हुताग्निर् ब्राह्मणांश् चार्च्य प्रविशेत् स शुभां सभाम् ॥ ७.१४५ ॥

उत्थायेति । मुहूर्तमात्रावशिष्टायां रात्राव् उत्थाय कृतावश्यकशौचः संयतमनाः कृताग्निहोत्रो ब्राह्मणान् पूजयित्वा वास्तुलक्षणोपेतां सभाम् अमात्यादिधर्शनवेश्म प्रविशेत् ॥ ७.१४५ ॥

तत्र स्थितः प्रजाः सर्वाः प्रतिनन्द्य विसर्जयेत् ।

विसृज्य च प्रजाः सर्वा मन्त्रयेत् सह मन्त्रिभिः ॥ ७.१४६ ॥

तत्रेति । तस्यां सभायां स्थितो दर्शनार्थं सभायाताः सर्वाः प्रजाः वाक्चक्षुरादिना परितोष्य विसर्जयेत् । ताः विसर्ज्य मन्त्रिभिः सह सन्धिविग्रहादीन् चिन्तयेत् ॥ ७.१४६ ॥

गिरिपृष्ठं समारुह्य प्रासादं वा रहोगतः ।

अरण्ये निःशलाके वा मन्त्रयेद् अविभावितः ॥ ७.१४७ ॥

गिरिपृष्ठम् इति । पर्वतपृष्ठम् आरुह्य धवलगृहं वा विविक्तदेशस्थो ऽरण्ये वा तृणादिरहिते मन्त्रभेदकभयादिवर्जिते पञ्चाङ्गमन्त्रकर्मणाम् आरम्भोपायः – पुरुषद्रव्यसम्पत्, देशकालविभागो, विनिपातप्रतीकारः, कार्यसिद्धिश् चेत्य् एवं चिन्तयेत् ॥ ७.१४७ ॥

यस्य मन्त्रं न जानन्ति समागम्य पृथग्जनाः ।

स कृत्स्नां पृथिवीं भुङ्क्ते कोशहीनो ऽपि पार्थिवः ॥ ७.१४८ ॥

यस्येति । यस्य राज्ञो मन्त्रिव्यतिरिक्ताः जनाः सम्मील्याभ्यूह्य मन्त्रं न जानन्तिक्षीणकोशो ऽपि समग्रां पृथिवीं भुनक्ति ॥ ७.१४८ ॥

जडमूकान्धबधिरांस् तैर्यग्योनान् वयोतिगान् ।

स्त्रीम्लेच्छव्याधितव्यङ्गान् मन्त्रकाले ऽपसारयेत् ॥ ७.१४९ ॥

जडमूकान्धबधिरान् इति । बुद्धिवाक्चक्षुःश्रोत्रविकलान् तथा गोमृगशुकान् तथा वृद्धस्त्रीम्लेच्छातुरान् अङ्गहीनान् च मन्त्रकाले अपसारयेत् ॥ ७.१४९ ॥

भिन्दन्त्य् अवमता मन्त्रं तैर्यग्योनास् तथैव च ।

स्त्रियश् चैव विशेषेण तस्मात् तत्रादृतो भवेत् ॥ ७.१५० ॥

भिन्दन्तीति । जडत्वादिदोषयोगेन सावमाना जडादयो मन्त्रभेदं कुर्वन्ति । तथा क्षितिपरिवर्तादिश्रवणा तिर्यग्योना अपि मन्त्रं भिन्दन्ति । विशेषतश् च स्त्रियो ऽपि चापलातिशयात्वात् तस्मात् तदपासने यत्नवान् स्यात् ॥ ७.१५० ॥

मध्यन्दिने ऽर्धरात्रे वा विश्रान्तो विगतक्लमः ।

चिन्तयेद् धर्मकामार्थान् सार्धं तैर् एक एव वा ॥ ७.१५१ ॥

मध्यन्दिन इति । विगतचित्तखेदो ऽपगतशरीरक्लमश् च मध्याह्ने ऽर्धरात्रे वा मन्त्रिभिः सहैको वा धर्मकामार्थान् “कथं मया धर्मः कामो वार्थो वा संसेव्यः” इति चिन्तयेत् ॥ ७.१५१ ॥

परस्परविरुद्धानां तेषां च समुपार्जनम् ।

कन्यानां सम्प्रदानं च कुमाराणां च रक्षणम् ॥ ७.१५२ ॥

परस्परविरुद्धानाम् इति । तेषां च धर्मकामार्थानां परस्परविरोधाविर्भावे सति अविरोधार्जनोपायं चिन्तयेत् । दुहितॄणां दानं स्वकार्यसंसिद्धिफलं विचारयेत् । कुमाराणां च पुत्राणाम् अविनयनिवर्तनं नीचोपसङ्ग्रहफलं चिन्तयेत् ॥ ७.१५२ ॥

दूतसम्प्रेषणं चैव कार्यशेषं तथैव च ।

अन्तःपुरप्रचारं च प्रणिधीनां च चेष्टितम् ॥ ७.१५३ ॥

दूतसम्प्रेषणम् इति । दूतानां च निसृष्टार्थपरिमितार्थलेखहारित्वादिना परराष्ट्रसम्प्रेषणं चिन्तयेत् । तथारब्धकार्यावशेषसम्पादनाय चिन्तयेत् । स्त्रीणां चातिचपलविषमाचाराधिष्ठितत्वाद् आत्मना आत्मसंरक्षणार्थम् अव्यभिचाराय चान्तःपुरचेष्टितं चिन्तयेत् । चराणां चरान्तरैश् चेष्टिततम् आगमयेत् ॥ ७.१५३ ॥

कृत्स्नं चाष्टविधं कर्म पञ्चवर्गं च तत्त्वतः ।

अनुरागापरागौ च प्रचारं मण्डलस्य च ॥ ७.१५४ ॥

कृत्स्नम् इति । अष्टविधं कर्म उशनसोक्तम् ।

आदाने च विसर्गे च तथा प्रैषनिषेधयोः ।

पञ्चमे चार्थवचने व्यवहारस्य चेक्षणे ॥

दण्डशुद्धौ सदा युक्तस् तेनाष्टगतिको नृपः ।

अष्टकर्मा दिवं याति राजा शक्राभिपूजितः ॥

तत्रादानं करादीनां भृत्येभ्यो धनविसर्गः । प्रैषो यो दुष्टत्यागो ऽधिकृतानां कामचारनिषेधो वर्णाश्रमिणां स्वकर्मसन्देहे ऽर्थवदनम्, प्रजानां धनादिविप्रतिपत्तौ व्यवहारेक्षणम्, पराजितानां दण्डनं प्रमादस्खलिते प्रायश्चित्तं शुद्धिः इत्य् एतद् अष्टविधं कर्म चिन्तयेत् । तथा कार्पटिकोदास्थितगृहपतिवैदेहिकतापस-व्यञ्जनात्मकं पञ्चपरिमाणं चारवर्गं यथावच् चिन्तयेत् । तत्र च परमर्मविदृष्टछात्रः कार्पटिकः व्यञ्जनस् तं वृत्त्यर्थं मत्वा अर्थमानाभ्यां स्वीकृत्य अन्यत् पूर्ववत्, रहसि राजा ब्रूयात् तं च पश्यसि तत् तदानीम् एवम् अपि वक्तव्यम् इति प्रव्रज्यारूढपतितौदास्थव्यञ्जनस् तं प्रजाशौचयुक्तं वृत्त्यर्थिनं ज्ञात्वा रहसि राजा तं ब्रूयात् । त्वं च सर्वान्नोत्पादनयोग्यायां भुञ्ज्यन्तेवासिकर्म कुरु ततश् च भूमेर् अत्मनो ऽन्येषां च तत्प्रयुक्तानां प्रव्रजितानां अस्मदर्थव्यवहारिणां यथेष्टम् आहार्च्छादनादि देहीति ब्रूयात् कर्षकक्षीणवृत्तिः प्रज्ञाशौचोपेतो गृहपतिव्यञ्जनस् तं पूर्ववद् उक्त्वा यथोक्तायां भूमौ कृषिं कारयेत् । शिष्टं पूर्ववत् । मुण्डो जटिलो वा वृत्तिकामस् तापसव्यञ्जनः पूर्ववद् उक्त्वा उक्तपूर्ववद् भूमौ वणिक्कर्म कारयेत् । मुण्डो जटिलो वा वृत्तिकामस् तापसव्यञ्जनः पूर्ववद् राजाज्ञया नगरसमीपे अतिबहुमुण्डजटिलान्तर-कपटशिष्टपणोपेतस् तापस्यं कुर्यात् । मासद्विमासान्तरितं प्रकाशम् इगुदबदरादिमुष्टिम् अश्नीयात् । रहसि तु यथेष्टम् आहारं राजार्पितं भुञ्जीत । लोके चास्यातीतानागतज्ञं तदन्तेवासिनः ख्यापयेयुः । तथायं लोकानां लाभपूजाचौरोपद्रवादि व्यादिशेत् । तद् राज्यप्रयुक्ताः छद्मचारिणः सत्याभिधायित्वजननार्थं सम्पादयेयुः । एवं सकलजनोपसञ्जातास्वा(श्वा)समया सर्व एव कार्याकार्यं संसिद्धिविजिज्ञासवस् तम् आगत्य पृच्छन्ति । वार्तान्तराण्य् आरिराधयिषया वर्तयन्तीत्य् एवं पञ्चवर्गं तत्त्वतश् चिन्तयेत् । एवं पञ्चवर्गं प्रकल्प्य ततस् तेनैव वर्गद्वारेण परराजस्यात्मीयांस् तांश् च मन्त्र्यादीनाम् अनुरागापरागौ ज्ञात्वा तद् अनुचिन्तयेत् । वक्ष्यमाणस्य राजमण्डलस्य प्रचारं कः सन्ध्यर्थीत्य् एवमादिकं बुद्ध्वा तदनुगुणं चिन्तयेत् ॥ ७.१५४ ॥

मध्यमस्य प्रचारं च विजिगीषोश् च चेष्टितम् ।

उदासीनप्रचारं च शत्रोश् चैव प्रयत्नतः ॥ ७.१५५ ॥

मध्यमस्येति । अरिविजिगीषयोर् भूम्यन्तरं संहतहोर् अनुत्साहसमर्थो विग्रहे वा संहतयोः सममध्यमस् तस्य प्रचारं चिन्तयेत् । तथा प्रज्ञोत्साहप्रकृतिगुणसम्पन्नो विजिगीषुस् तस्य चेष्टितं चिन्तयत् किम् असौ चिकीर्षति । तथारिविजिगीषुमध्यमायां यः संहतानाम् अनुग्रहसमर्थो निग्रह(हे) चासंहतानां स उदासीनस् तत्प्रचारं चिन्तयेत् । शत्रोश् च सह कृत्रिमभूम्यनन्तरस्य त्रिविधस्यापि पूर्वेभ्यः प्रयत्नेन प्रचारं चिन्तयेत् ॥ ७.१५५ ॥

एताः प्रकृतयो मूलं मण्डलस्य समासतः ।

अष्टौ चान्याः समाख्याता द्वादशैव तु ताः स्मृताः ॥ ७.१५६ ॥

एता इति । एता मध्यमाद्यास् चतस्रः प्रकृतयः सङ्क्षेपेण मण्डलस्य मूलम् अन्यासां प्रकृतीनाम् आभ्यः प्रसूतेर् एता मूलम् इत्य् उच्यन्ते । अन्याश् चाष्टौ समाख्याताः । तद् यथा – अग्रतो भूतानां मित्रम् अमित्रं मित्रमित्रम् अरिमित्रं चेति । एवम् अन्याश् चतस्रो भवन्ति । पश्चाच् च पार्ष्णिग्राह आक्रन्द पार्ष्णिग्राहासार आक्रन्दासार इति चतस्र एवम् अष्टौ मूलप्रकृतिभिश् चतसृभिः सह द्वादशप्रकृतयः स्मृताः ॥ ७.१५६ ॥

अमात्यराष्ट्रदुर्गार्थदण्डाख्याः पञ्च चापराः ।

प्रत्येकं कथिता ह्य् एताः सङ्क्षेपेण द्विसप्ततिः ॥ ७.१५७ ॥

**अमात्यराष्ट्रदुरार्थदण्डाख्याः **इति । आसां चतसॄणां मूलप्रकृतीनां च शाखाप्रकृतीनाम् उक्तानाम् एकैकस्याः प्रकृतेर् अमात्यदेशदुर्गकोशदण्डाख्याः पञ्च द्रव्यप्रकृतयो भवन्ति । एवं च मूलप्रकृतयश् चतस्रः, शाखाप्रकृतयो ऽष्टौ, द्रव्यप्रकृतयः षष्टिर् इत्य् एवं सङ्क्षेपतो द्विसप्ततिः कथिताः ॥ ७.१५७ ॥

अनन्तरम् अरिं विद्याद् अरिसेविनम् एव च ।

अरेर् अनन्तरं मित्रम् उदासीनं तयोः परम् ॥ ७.१५८ ॥

अनन्तरम् अरिं विद्याद् अरिसेविनम् एव चेति । विजिगीषोः समन्तन् मण्डलीभूतानां भूम्यनन्तरान् अरीन् जानीयात् । तथा तत्सेविनं चारिम् एव विद्याद् अरेः पुनर् अन्तरान् विजिगीषोः भूम्येकन्तरा मित्रप्रकृतिं विद्यात् । तयोश् चारिमित्रयोः पराम् उदासीनप्रकृतिं विद्यात् । तासाम् एवाग्रे पश्चात् भेदेनारिपार्ष्ण्ग्रादिव्यपदेशभेदः ॥ ७.१५८ ॥

तान् सर्वान् अभिसन्दध्यात् सामादिभिर् उपक्रमैः ।

व्यस्तैश् चैव समस्तैश् च पौरुषेण नयेन च ॥ ७.१५९ ॥

तान् सर्वान् अभिसन्ध्यायाद् इति । तान् सर्वान् प्रकृतीन् सामदानभेददण्डाख्यैर् यथासम्भवं व्यस्तैः समस्तैर् वा पौरुषेण वा दण्डेनैव केवलेन नयेन वा साम्नैव वा केवलेन वशीकुर्यात् ॥ ७.१५९ ॥

सन्धिं च विग्रहं चैव यानम् आसनम् एव च ।

द्विधीभावं संश्रयं च षड् गुणांश् चिन्तयेत् सदा ॥ ७.१६० ॥

सन्धिम् इति । द्वैधीभावं संश्रयं च षाड्गुण्यं चिन्तयेत् सदा । तत्रोभयानुग्रहकृत्यपरीबन्धः सन्धिः, अपकारो विग्रहः अभ्युदये सत्य् उपरि गमनं यानम्, उपेकणम् आसनम् । एकेन सह सन्धिर् अन्येन सह विग्रहो द्वैधीभावः । परम् आत्मार्पणं संश्रयम् इत्य् एतान् षड्गुणान् उपकारकान् सर्वदा चिन्तयेत् । षड्गुणाश्रयणे नात्मनो ऽभ्युदयः परस्यापचयो भवति तम् एव गुणम् अधितिष्ठेत् ॥ ७.१६० ॥

आसनं चैव यानं च सन्धिं विग्रहम् एव च ।

कार्यं वीक्ष्य प्रयुञ्जीत द्वैधं संश्रयम् एव च ॥ ७.१६१ ॥

आसनं चैव यानं च सन्धिं विग्रहम् एव चेति । आत्माभ्युदयपरहान्यादिकं कार्यं वीक्ष्य सन्धायासनं विगृह्य वा यानं द्वैधं वा संश्रयं वानुतिष्ठेत, तत्र तदात्वायतिकालयोः (?) परेण सह साम्याशङ्कायां सन्धिं क्र्त्वासीत । यदा तु तदावसाम्ये ऽप्य् आत्मा प्रकृतीनां न विचलितत्वं परप्रकृतीनां चोपजापसहत्वं मन्येत तदा विग्रहम् आश्रित्यासीत । यदा पुनः परस्माद् अभ्युत्थितो भवति तथा कृतात्मराष्ट्रसन्धानो विगृह्य यायाद् विगृह्य यानहेत्वभावे पार्ष्णिग्राहेण सह सन्धाय यायात् तथा कार्यापेक्षया एकेन सह सन्धिम् अपरेण सह विग्रहम् इत्य् एवं द्वैधं कुर्यात् । यदा तु दुर्बलः सन् बलवताक्षिप्तस् तदा तद्विशिष्टबलम् अन्यम् आश्रयेत् ॥ ७.१६१ ॥

सन्धिं तु द्विविधं विद्याद् राजा विग्रहम् एव च ।

उभे यानासने चैवे द्विविधः संश्रयः स्मृतः ॥ ७.१६२ ॥

**सन्धिम् **इति । सन्धिविग्रहादीन् गुणान् सर्वान् एव द्विप्रकारान् राजा जानीयात् इत्य् उत्तरं विपक्षार्थम् ॥ ७.१६३ ॥

समानयानकर्मा च विपरीतस् तथैव च ।

तदात्वायतिसंयुक्तः सन्धिर् ज्ञेयो द्विलक्षणः ॥ ७.१६३ ॥

**समानयानकर्मेति **। साम्प्रतिकफलयोगेनागामिफलावष्टम्भेन राजान्तरेण यात्रान्यं प्रति यानकर्म क्रियते स समानयानकर्मा सन्धिर् यः त्व् अनया ह्य् अहम् अनुयास्यामीति साम्प्रतिकः । आगामिफलापेक्षयैव क्रियते सो ऽसमानयानं कर्मसन्धिर् इत्य् एवं द्विप्रकारः सन्धिर् विज्ञेयः ॥ ७.१६३ ॥

स्वयङ्कृतश् च कार्यार्थम् अकाले काल एव वा ।

मित्रस्य चैवापकृते द्विविधो विग्रहः स्मृतः ॥ ७.१६४ ॥

स्वयङ्कृत इति । मित्रेण चैवापक्र्ते द्विविधो विग्रहः स्मृतः । वक्ष्यमाणमार्गशीर्षादिकालाद् अन्यत्र तस्मिन्न् एव वा काले कार्यापेक्षया स्वयङ्कृत इत्य् एको विग्रहः । यश् च परस्य शत्रुः तद्विजिगीषोर् मित्रं तेनापकारे क्रियमाणे व्यसनिनि शत्रौ द्वितीय इत्य् एवं द्विविधो विग्रहः स्मृतः ॥ ७.१६४ ॥

एकाकिनश् चात्ययिके कार्ये प्राप्ते यदृच्छया ।

संहत्य च मित्रेण द्विविधं यानम् उच्यते ॥ ७.१६५ ॥

एकाकिन इति । परस्य व्यसनादौ क्षिप्रप्रतीकारे ऽकस्मात् कार्ये प्राप्ते समर्थस्यैकाकिनो यानसमर्थस्य तु मित्रसहितस्येत्य् एवं यानम् उच्यते द्विविधम् ॥ ७.१६५ ॥

क्षीणस्य चैव कर्मशो दैवात् पूर्वकृतेन वा ।

मित्रस्य चानुरोधेन द्विविधं स्मृतम् आसनम् ॥ ७.१६६ ॥

क्षीणस्येति । प्राग्जन्मार्जितं कर्मवशेन ऐहिकेन पूर्वप्रमादेन शनैः शनैः क्षीणभूम्यादिकस्य सर्वसमृद्धस्यापि वा मित्रानुरोधेन तत्कार्यरक्षार्थम् इत्य् एवं स्मृतम् द्विविधम् आसनम् ॥ ७.१६६ ॥

बलस्य स्वामिनश् चैव स्थितिः कार्यार्थसिद्धये ।

द्विविधं कीर्त्यते द्वैधं षाड्गुण्यगुणवेदिभिः ॥ ७.१६७ ॥

बलस्येति । कार्यसिद्ध्यर्थं बलस्य हस्त्यादेः सेनापत्याद्यधिष्ठितस्यावस्थानम् एकत्र कार्यम् । राज्ञश् च बलैकदेशयुक्तस्य दुर्गावस्थानम् इत्य् एवं द्विप्रकारं सन्ध्यादिगुणषट्कोपकारज्ञैः **द्वैधं कीर्त्यते ** । एकेन सन्धिर् अन्येन सह विग्रहः, प्रत्येकरूपतयावस्थानम् इत्य् एवं द्वैधस्यापि पुनर् द्वैविध्यम् ॥ ७.१६७ ॥

अर्थ्स्सम्पादनार्थं च पीड्यमानस्य शत्रुभिः ।

साधुषु व्यपदेशार्थं द्विविधः संश्रयः स्मृतः ॥ ७.१६८ ॥

अर्थसम्पादनार्थम् इति । शत्रुभिर् अभिभूयमानस्य अभयनिवृत्त्याख्यः प्रयोजनसम्पादनार्थम् असत्य् अपि वा तदानीम् अभिभव आगाम्यभिभवाशङ्कयामुकस्ंश्रितो ऽयम् इत्य् एवं व्यपदेशार्थं साधुनृपसंश्रयनम् इत्य् एवं द्विविधः संशयः स्मृतः ॥ ७.१६८ ॥

यदावगच्छेद् आयत्याम् आधिक्यं ध्रुवम् आत्मनः ।

तदात्वे चाल्पिकां पीडां तदा सन्धिं समाश्रयेत् ॥ ७.१६९ ॥

यदावगच्छेद् आयत्याम् आधिकं ध्रुवम् आत्मन इति । यदागामिनि काल आत्मनो निश्चितम् आधिकं मन्येत, साम्प्रतिकश् चाल्प उपक्षयस् तदापक्षयम् अङ्गीकृत्याधिसन्धिम् एवाश्रयेत् ॥ ७.१६९ ॥

यदा प्रहृष्टा मन्येत सर्वास् तु प्रकृतीर् भृशम् ।

अत्युच्छ्रितं तथात्मानं तदा कुर्वीत विग्रहम् ॥ ७.१७० ॥

**यदेति **। यदामात्यादिकाः सर्वाः प्रकृतीः दानमानादिनात्यन्तं परितुष्टाः मन्येत, आत्मानं च प्रभूतमन्त्रोत्साहशकत्यदिनोच्छ्रितं तदा विग्रहम् अध्यवस्येत् ॥ ७.१७० ॥

यदा मन्येत भावेन हृष्टं पुष्टं बलं स्वकम् ।

परस्य विपरीतं च तदा यायाद् रिपुं प्रति ॥ ७.१७१ ॥

यदामन्येतेति । यदा स्वकम् अमात्यादिसैन्यं परितुष्टं धनादिना पुष्टं परमर्थेन जानीयात्, शत्रोश् च विपरीतं तदा तस्योपरि यायात् ॥ ७.१७१ ॥

यदा तु स्यात् परिक्षीणो वाहनेन बलेन च ।

तदासीत प्रयत्नेन शनकैः सान्त्वयन्न् अरीन् ॥ ७.१७२ ॥

यदा त्व् इति । यदा पुनर् हस्त्यादिना भृयैश् च परिक्षीणः स्यात् तदा शनैः सामोपप्रदानादिना शत्रून् सान्त्वयन् यत्नेनात्युच्छ्रयाद् आसनम् आश्रयेत् ॥ ७.१७२ ॥

मन्येतारिं यदा राजा सर्वथा बलवत्तरम् ।

तदा द्विधा बलं कृत्वा साधयेत् कर्यम् आत्मनः ॥ ७.१७३ ॥

मन्येतेति । सर्वप्रकारेण यदातिशयेन बलिनम् अशक्यसाधनं शत्रुं मन्येत तदा बलैकदेशसहितो दुर्गो ऽपाश्रयो ऽपरेण बलैकदेशेन तदुपघातम् आचरन् एवं द्विधा बलं कृत्वा मित्रसङ्ग्रहाद् आत्मनः कार्यं साधयेत् ॥ ७.१७३ ॥

यदा परबलानां तु गमनीयतमो भवेत् ।

तदा तु संश्रयेत् क्षिप्रं धार्मिकं बलिनं नृपम् ॥ ७.१७४ ॥

यदेति । **यदा **शत्रुबलानां प्रकृतिकोपादिनातिशयेन यातव्यो भवति, तदा क्षिप्रम् एव धार्मिकं परित्राणसमर्थं नृपम् आश्रयेत् ॥ ७.१७४ ॥

निग्रहं प्रकृतीनां च कुर्याद् यो ऽरिबलस्य च ।

उपसेवेत तं नित्यं सर्वयत्नैर् गुरुं यथा ॥ ७.१७५ ॥

निग्रहम् इति । यत्सम्बन्धिदोषेणास्य गमनीयत्वम् आयातं तासां प्रकृतीनां शत्रुबलस्य येनासौ बलिभूतस् तयोर् उभयोर् अपि स विजितः सन् यो निग्रहं कुर्यात्, तं सर्वबलैर् गुरुवन् नित्यं सेवेत ॥ ७.१७५ ॥

यदि तत्रापि सम्पश्येद् दोषं संश्रयकारितम् ।

सुयुद्धम् एव तत्रापि निर्विशङ्कः समाचरेत् ॥ ७.१७६ ॥

**यदीति । सुयुद्धम् एव तत्रापि **निर्विकल्पः समाचरेत् । अगतिका हि गतिः संश्रयो नाम, तत्रापि च संश्रयकृतं दोषं यदि पश्येत् तदा निर्विकल्पो भूत्वा शोभनं युद्धम् एव तस्मिन् काले समाचरेत्, दुर्बलेनापि बलवतः पराजयदर्शनात् निहतस्य च स्वर्गप्राप्तेः ॥ ७.१७६ ॥

सर्वोपायैस् तथा कुर्यान् नीतिज्ञः पृथिवीपतिः ।

यथास्याभ्यधिका न स्युर् मित्रोदासीनशत्रवः ॥ ७.१७७ ॥

सर्वोपायैर् इति । नीतिकुशलो राजा सर्वैः सामादिभिर् उपायैः तथा यतेत यथास्य मित्रोदासीनशत्रुमध्यमा अधिका न भवन्ति । आधिक्ये हि तेषां सुतरां क्षोभ्यो भवति, धनगर्वेण मित्रस्य शात्रवापत्तेः ॥ ७.१७७ ॥

आयतिं सर्वकार्याणां तदात्वं च विचारयेत् ।

अतीतानां च सर्वेषां गुणदोषौ च तत्त्वतः ॥ ७.१७८ ॥

आयतिम् इति । सर्वेषां स्वल्पानाम् अपि कार्याणाम् आगामिनि काले गुणदोषा इत्य् एवं विचारयेत् वर्तमानकाले च क्षिप्रसम्पादनार्थं सर्वेषां काऋयाणां गुणदोषौ किम् एषां कृतं विचारितं किं वावशिष्टम् इत्य् एवं यावद् विचारयेत् ॥ ७.१७८ ॥

आयत्यां गुणदोषज्ञस् तदात्वे क्षिप्रनिश्चयः ।

अतीते कार्यशेषज्ञः शत्रुभिर् नाभिभूयते ॥ ७.१७९ ॥

**आयताम् **इति । यः कार्याणाम् आगामिकालदोषज्ञो गुणवत्कार्यम् आरभते, दोषवत् परिहरति यश् च वर्तमानकाले क्षिप्रम् एवावधार्यं कार्यं करोति, न दीर्घसूत्रो कार्ये यः कार्यशेषज्ञो भवति स तत्कार्यसमाप्तौ तत् फलं लभते । अत एवंविधकालत्रयसावधानत्वान् न कदाचित् शत्रुभिर् अभिभूयते ॥ ७.१७९ ॥

यथैनं नाभिसन्दध्युर् मित्रोदासीनशत्रवः ।

तथा सर्वं संविदध्याद् एष सामासिको नयः ॥ ७.१८० ॥

**यथेति । यथैनं **राजानं मित्रादय उक्ता न वञ्चयेयुः तथा सर्वं सविधानं कुर्यात् । इत्य् एवं साङ्क्षेपिको नयो नीतिः ॥ ७.१८० ॥

यदा तु यानम् आतिष्ठेद् अरिराष्ट्रं प्रति प्रभुः ।

तदानेन विधानेन यायाद् अरिपुरं शनैः ॥ ७.१८१ ॥

**यदेति ॥ यदा त्व् अरिराष्ट्रं प्रति **यात्राम् आरभेत शक्तः संस् तदानेन वक्ष्यमाणेन प्रकारेण शत्रुदेशे ऽत्वरमाणो गच्छेत् ॥ ७.१८१ ॥

मार्गशीर्षे शुभे मासि यायाद् यात्रां महीपतिः ।

फाल्गुनं वाथ चैत्रं वा मासौ प्रति यथाबलम् ॥ ७.१८२ ॥

मार्गशीर्ष इति । यश् चतुरङ्गबलप्रायो महीपतिः स मार्गशीर्षे मासि शुभे प्रचुरतरयवसं धान्यरथमार्दोपेते तच्छुभे दीर्घकालम् अग्रतो वासन्नसस्यप्रत्यासन्ने यात्रां कुर्यात् । यः पुनर् अश्वबलप्रायो वासन्तसस्यप्रायं देशं याति, अदीर्घकाल एव यस्य यात्रा स फाल्गुने चैत्रे वा एवं स्वबलयोग्यकालानतिक्रमेण यायात् ॥ ७.१८२ ॥

अन्येष्व् अपि तु कालेषु यदा पश्येद् ध्रुवं जयम् ।

तदा यायाद् विगृह्यैव व्यसने चोत्थिते रिपोः ॥ ७.१८३ ॥

अन्येष्व् इति । उक्तकालव्यतिरिक्तेष्व् अपि कालेषु यदात्मनो निश्चितं जयम् आशङ्केत तदा हस्तिबलप्रायो ऽश्वबलप्रायो वर्षास्व् अश्वबलप्रायो हस्तिबलप्रायो ग्रीष्मे तदा विगृह्यैव यात्रां कुर्यात् । शत्रोश् च प्रकृतिकोपादौ व्यसने उपपन्ने उक्तकालव्यतिरिक्ते ऽपि काले यायात् ॥ ७.१८३ ॥

कृत्वा विधानं मूले तु यात्रिकं च यथाविधि ।

उपगृह्यास्पदं चैव चारान् सम्यग् विधाय च ॥ ७.१८३ ॥

संशोध्य त्रिविधं मार्गं षड्विधं च बलं स्वकम् ।

साम्परायिककल्पेन यायाद् अरिपुरं शनैः ॥ ७.१८४ ॥

**कृत्वेति । संशोध्येति **। पार्ष्णिग्राहसन्धानजनपददुर्गसंरक्षणक्रुद्धादिवर्गोपदेशम् अनादिकं मूलम् आत्मदुर्गराष्ट्ररूप् संविधानं कृत्वा उपयोगिवाहनायुधचर्ममन्त्रादिविधानं यथाशास्त्रं कृत्वा परमण्डलगतस्य येनास्पदम् अवस्थानं भवति तद् उपगृह्य तदीयान् भृत्यपक्षान् आत्मसात्कृत्य परान् स्वकार्पटिकादीन् परमण्डलवार्तां च योधार्थं सम्यग् अवस्थाप्य जाङ्गलानूपाटविकभेदेन त्रिविधं पन्थानं मार्गरोधकगुल्मादिच्छेदनिम्नोन्नतादिसमीकरणोदपानखननादिना संशोध्य, तथा हस्त्यश्वरथपदातिसेनापतिकर्मकरात्मिकं षड्विधं बलं स्वकम्, यथोपयोगम् आहारौषधसत्कारपूरणादिना संशोध्य साङ्ग्रामिकविधिना शत्रुदेशम् अत्वरया व्रजेत् ॥

७.१८४–१८५ ॥

शत्रुसेविनि मित्रे च गूढे युक्ततरो भवेत् ।

गतप्रत्यागते चैव स हि कष्टतरो रिपुः ॥ ७.१८६ ॥

शत्रुसेविनीतिगतप्रत्यागते चैवे तौ हि कष्टतरौ रिपू । यस्मिन् मित्रं गूढं कृत्वा शत्रुं सेवते, यश् च भृत्यादिः पूर्वं विरागाद् गतः पश्चाद् आगतस् तयोः सावधानो भवेत् यस्मात् ताव् अतिशयेन रिपू कष्टतरौ ॥ ७.१८६ ॥

दण्डव्यूहेन तन् मार्गं यायात् तु शकटेन वा ।

वराहमकराभ्यां वा सूच्या वा गरुडेन वा ॥ ७.१८७ ॥

दण्डव्यूहेनेति । दण्डाकृतिव्यूहरचना व्यूहः, एवं शकटादिव्यूहो ऽपि । तत्राग्रे च बलाध्यक्षो, मध्ये राजा, पश्चात् सेनापतिः, पार्श्वयोर् हस्तिनः, तत्समीपे अश्वाः, ततः पदातयः, एवं कृतरचनो दीर्घः सर्वतः समविन्यासो दण्डव्यूहस् तेन तं यातव्यं मार्गं सर्वतो भये सति यायात् । सूच्याकाराग्रः पश्चात् पृथुः शकटव्यूहस् तेन पार्श्वतो भये सति व्रजेत् । वराहविपर्ययेण मकरव्यूहस् तेनाग्रे पश्चाद्भागे भये सति गच्छेत् । पिपीलिकापङ्क्तिवत् अग्रपश्चाद्भागेनासंहतरूपतया यत्र सैनिकावस्थानं स दीर्घप्रचारः पुरुषमुखः सूचीव्यूहस् तेनाग्रतो भये सति यायात् ॥ ७.१८७ ॥

यतश् च भयम् आशङ्केत् ततो विस्तारयेद् बलम् ।

पद्मेन चैव व्यूहेन निविशेत सदा स्वयम् ॥ ७.१८८ ॥

यत इति । यस्या दिशः शत्रुकृतं भयम् आशङ्येत तस्याम् एव बलं विस्तारयेत् । तम् अन्ततो विस्तृतपरिमण्डलो मध्योपविष्टो विजिगीषुः पद्मव्यूहेन पुरान् निर्गत्यैवं सर्वदा स्वयं सुस्थातव्यम् ॥ ७.१८८ ॥

सेनापतिबलाध्यक्षौ सर्वदिक्षु निवेशयेत् ।

यतश् च भयम् आशङ्केत् प्राचीं तां कल्पयेद् दिशम् ॥ ७.१८९ ॥

सेनापतिबलाध्यक्षाव् इति । हस्त्यश्वरथपदात्यात्मकस्याङ्गदशकस्यैकः पतिः कार्यः, स पत्तिक उच्यते । पत्तिकदशकस्यैकः पतिः स सेनापतिः । तद्दशकस्यैकः स नायकः । स एव च बलाध्यक्षः, तौ सर्वासु दिक्ष्व् अनेकप्रधानत्वे सति सङ्घर्षयुद्धार्थं नियोजयेत् । यस्यां च दिशो भयम् आशङ्केत् ताम् अग्रे दिशं कुर्यात् ॥ ७.१८९ ॥

गुल्मांश् च स्थापयेद् आप्तान् कृतसञ्ज्ञान् समन्ततः ।

स्थाने युद्धे च कुशलान् अभीरून् अविकारिणः ॥ ७.१९० ॥

गुल्मान् इति । **गुल्मान् **स्थानकव्याप्तपुरुषाधिष्ठितान् स्थानापसरणयुद्धाद्यथकृतशङ्ख-भेरीपटहादिसङ्केतान् वनावस्थानप्रणीतान् निर्भयान् अव्यभिचारान् समन्तात् स्थापयेत्

॥ ७.१९० ॥

संहतान् योधयेद् अल्पान् कामं विस्तारयेद् बहून् ।

सूच्या वज्रेण चैवैतान् व्यूहेन व्यूह्य योधयेत् ॥ ७.१९१ ॥

संहतान् इति । अल्पान् योधान् संहतान् कृत्वा योधयेद् बहून् पुनर् यथेच्छं विस्तारयेत् । सूच्या पूर्वोक्तया वज्राख्येन वा व्यूहेन त्रिधावस्थितबलेन रचयित्वा योधनं योधयेत्

॥ ७.१९१ ॥

स्यन्दनाश्वैः समे युध्येद् अनूपे नौद्विपैस् तथा ।

वृक्षगुलावृते चापैर् असिचर्मायुधैः स्थले ॥ ७.१९२ ॥

स्यन्दनाश्वैर् इति । समभूभागे रथाश्वैर् योद्धव्यम्, तत्र रथसामर्थ्यात्, तथानुगतोदके नौहस्तिभिर् वृक्षगुल्मव्याप्ते धनुर्भिः पाषाणकण्टकगर्तादिरहिते खड्गफलकाख्यैर् आयुधैः ॥ ७.१९२ ॥

कुरुक्षेत्रांश् च मत्स्यांश् च पञ्चालान् शूरसेनजान् ।

दीर्घांल् लधूंश् चैव नरान् अग्रानीकेषु योजयेत् ॥ ७.१९३ ॥

कौरुक्षेत्रान् इति । कुरुक्षेत्रभवान् मत्स्यान् विराटदेशवासिनः पाञ्चालान् कान्यकुब्जान् भृत्यान् शूरसेनजान् पृथुशरीरान् प्रायेण पृथुशरीरबलशौर्याभिमानयोगात् सेनाग्रेषु योजयेत्, तथान्यान् अपि दीर्घान् लघुमनुष्यांश् च ॥ ७.१९३ ॥

प्रहर्षयेद् बलं व्य्ःय तांश् च सम्यक् परीक्षयेत् ।

चेष्टाश् चैव विजानीयाद् अरीन् योधयताम् अपि ॥ ७.१९४ ॥

प्रहर्षयेद् इति । चेष्टां चैव विजानीयाद् अरीणां युध्यताम् इति । बलं रचयित्वा जये धर्मार्थौ पराजये स्वर्गानृष्ये इत्य् एवमादिना युद्धार्थं प्रोत्साहयेत् । तांश् च योधान् समीक्ष्य परीक्षयेत् । क एवम् उक्त्वा हृष्यन्ति कुप्यन्ति चेति तथा योधानाम् अरिष्व् अयुध्यमानानाम् अपि सोपधानयुद्धादिचेष्टाः विजानीयात् ॥ ७.१९४ ॥

उपरुध्यारिम् आसीत राष्ट्रं चास्योपपीडयेत् ।

दूषयेच् चास्य सततं यवसान्नोदकेन्धनम् ॥ ७.१९५ ॥

उपरुध्येति । दुर्गापाश्रितम् अपि युध्यमानम् अरिं दुर्गवेष्टनद्वारेणावेष्ट्यासीत । अस्य च रात्रौ दुर्गाद् बहिर्देशं लुण्ठनादिनोपपीडयेत् । घासान्नोदकेन्धनानि वास्य सर्वदापद्द्रव्यसम्मिश्रणादिना दूषयेत् ॥ ७.१९५ ॥

भिन्द्याच् चैव तडागानि प्राकारपरिखास् तथा ।

समवस्कन्दयेच् चैनं रात्रौ वित्रासयेत् तथा ॥ ७.१९६ ॥

भिन्द्याद् इति । दुर्गोपस्थजीव्यानि तडागादीनि प्रभेदेन नाशयेत् । तथा दुर्गप्राकारान् भिन्द्यात् तत्परिखाश् च पूरयेत् । छिद्रकरणेन वा निरुदकाः कुर्यात् । एवं च शत्रुम् अशङ्कितम् एव सम्यग् अवस्कन्दयेत्, तस्योपरि निपतेद् रात्रौ वा दिवा वा शिवासितादिभिः त्रासयेत् । इदानीं च मुहुर् मुहुः ॥ ७.१९६ ॥

उपजप्यान् उपजपेद् बुध्येतैव च तत्कृतम् ।

युक्ते च दैवे युध्येत जयप्रेप्सुर् अपेतभीः ॥ ७.१९७ ॥

उपजप्यान् इति । तदन्वयिनो राज्यार्थिनः क्रुद्धान् भृत्यांश् चोपजापार्हान् उपजपेत् । तत्कृतं च यत् तत्कृत्यं यत् तज् जानीयात् ग्रहसौम्यादिनानुकूले दैवे सति विजयेप्सुर् अपगतभयो युध्येत ॥ ७.१९७ ॥

साम्ना दानेन भेदेन समस्तैर् अथ वा पृथक् ।

विजेतुं प्रयतेतारीन् न युद्धेन कदाचन ॥ ७.१९८ ॥

साम्नेतिविजेतुं प्रयतेतारीन् न युद्धेन कदाचनसाम्ना प्रीत्या वरदर्शनेन हितकथनाद्यात्मकेन दानेन च हिरण्यादीनां भेदनेन च तत्प्रकृतीनां तदन्वयिनां च विश्लेषणेनैवं तैर् व्यस्तैः समस्तैर् वा यथोपयोगं विजेतुम् अरीन् प्रयतेत पुनः कदाचिद् युद्धेन ॥ ७.१९८ ॥

अनित्यो विजयो यस्माद् दृश्यते युध्यमानयोः ।

पराजयश् च सङ्ग्रामे तस्माद् युद्धं विवर्जयेत् ॥ ७.१९९ ॥

अनित्य इति । युध्यमानयोर् यतो बलवदबलस्थानापेक्षायाम् एवानियमेन जयपराजयौ दृश्येते । तस्माद् उपायान्तरसम्भवे सति युद्धं विवर्जयेत् ॥ ७.१९९ ॥

त्रयानाम् अप्य् उपायानां पूर्वोक्तानाम् असम्भवे ।

तथा युध्येत सम्पन्नो विजयेत रिपून् यथा ॥ ७.२०० ॥

त्रयाणाम् अप्य् उपायानां पूर्वोक्तानां परिक्षये । ततो युध्येत संयत्त इति । सामादिनां पूर्वोक्तानाम् उपायानाम् असाधकत्वे सति जयपराजयसन्देहे तथा सावधानो युध्येत यथा शत्रून् विजयेत् । यदि नो जयेत् तदा स्वर्गनिःसन्दिग्धे पुनः पराजये निःसरणं साधयेद् यथा वक्ष्यति ऽआत्मानं सर्वतो रक्षेद्ऽ इति ॥ ७.२०० ॥

जित्वा सम्पूजयेद् देवान् ब्राह्मणांश् चैव धार्मिकान् ।

प्रदद्यात् परिहारांश् च ख्यापयेद् अभयानि च ॥ ७.२०१ ॥

जित्वेति । परराष्ट्रं जित्वा तत्रत्यान् देवान् धर्मप्रधानान् ब्राह्मणांश् च दानमानादिभिः पूजयेत् । तथा श्रोत्रियादिगतावश्यदानेषु मयैतद् अनुज्ञातम् इत्य् एवं परिहारान् दद्यात् तथा स्वामिभक्त्यास्माकं यैर् अपकृतं तेषां मया क्षान्तम् इदानीम् आश्वस्ताः सन्तः स्वव्यापारम् अनुतिष्ठन्त्व् एवम् अभयानि ख्यापयेत् ॥ ७.२०१ ॥

सर्वेषां तु विदित्वैषां समासेन चिकीर्षितम् ।

स्थापयेत् तत्र तद्वंश्यं कुर्याच् च समयक्रियाम् ॥ ७.२०२ ॥

सर्वेषाम् इति । तेषां परकीयानां सर्वेषां सङ्क्षेपतो ऽभिलषितं ज्ञात्वा तस्मिन् जितराष्ट्रे जितराजान्वयिनम् अभिषेचयेत् । राज्ये इदं त्वया कार्यम् इदं नेत्य् एवं तस्य तदमात्यादीनां परिभाषणं च कुर्यात् ॥ ७.२०२ ॥

प्रमाणानि च कुर्वीत तेषां धर्म्यान् यथोदितान् ।

रत्नैश् च पूजयेद् एनं प्रधानपुरुषैः सह ॥ ७.२०३ ॥

**प्रमाणानीति **। तेषां परकीयानां ये धर्माद् अनपेता देशधर्मतया शास्त्रेणाभ्युपगता आचारास् तान् प्रमाणीकुर्यात् । एवं चाभिषिक्तं मन्त्र्यादिभिः सह रत्नादिदानेन पूजयेद् यत्नात् ॥ ७.२०३ ॥

आदानम् अप्रियकरं दानं च प्रियकारकम् ।

अभीप्सितानाम् अर्थानां काले युक्तं प्रशस्यते ॥ ७.२०४ ॥

आदानम् इति । ये अभिलषितानाम् अर्थानाम् एव हरणम् अप्रियकरं दानं च तेषां प्रियजनकं इत्य् उत्सर्गं तथा कालवशेन दानम् अपि वा प्रशस्यते तस्मात् तस्मिन् काले एनं पूजयेत् ॥ ७.२०४ ॥

सर्वं कर्मेदम् आयत्तं विधाने दैवमानुषे ।

तयोर् दैवम् अचिन्त्यं तु मानुषे विद्यते क्रिया ॥ ७.२०५ ॥

सर्वम् इति । यत् किञ्चित् सम्पाद्यं तत् प्राग्जन्मशुभाशुभं उभे कर्मणी तद् इहलोककृते च मनुष्यव्यापार आयत्तं तत्र तयोर् मध्ये दैवं चिन्तयितुम् अशक्यम् । मानुषे पुनः पर्यालोचनं भवत्य् एतद् द्वारेण कार्यसिद्ध्यर्थं यतितव्यं निरीहेन भाव्यम् ॥ ७.२०५ ॥

सह वापि व्रजेद् युक्तः सन्धिं कृत्वा प्रयत्नतः ।

मित्रं हिरण्यं भूमिं वा सम्पश्यंस् त्रिविधं फलम् ॥ ७.२०६ ॥

**सह वापि व्रजेद् यस् त्व् **इति । एवं यातव्येन सह युद्धं कार्यं यदि वा स एव मित्रं हिरण्यं वा तेन दत्ते भूम्येकदेशो वा त्यक्त इत्य् एवं यात्राफलं मत्वा तेन सह सन्धिं कृत्वा यत्नवान् व्रजेत् ॥ ७.२०६ ॥

पार्ष्णिग्राहं च सम्प्रेक्ष्य तथाक्रन्दं च मण्डले ।

मित्राद् अथाप्य् अमित्राद् वा यात्राफलम् अवाप्नुयात् ॥ ७.२०७ ॥

पार्ष्णिग्राहम् इति । विजिगीषोर् अरिं प्रति निर्यातस्य यो देशाक्रमणाद्य् आचरति स पार्ष्णिग्राहस् तथा कुर्वतः पार्ष्णिग्राहस्य यो ऽङ्कुशस्थानीयः स आक्रन्दस् तम् अपेक्ष्य यातव्यान् मैत्रीभूताद् अमित्राद् वा फलं गृह्णीयात् तावद् अनवेक्ष्य गृह्णन् कदाचित् तद्गतेन दोषेण युज्यते ॥ ७.२०७ ॥

हिरण्यभूमिसम्प्राप्त्या पार्थिवो न तथैधते ।

यथा मित्रं ध्रुवं लब्ध्वा कृशम् अप्य् आयतिक्षमम् ॥ ७.२०८ ॥

**हिरण्यभूमिसम्प्राप्त्येति **। हिरण्यभूमिलाभेन राजा तथा न वर्धते यथा सम्प्रति कृशम् अप्य् आगामिकाललब्धवृद्ध्याद्युपेतं स्थिरं मित्रं प्राप्य वर्धते ॥ ७.२०८ ॥

धर्मज्ञं च कृतज्ञं च तुष्टकृतिम् एव च ।

अनुरक्तं स्थिरारम्भं लघुमित्रं प्रशस्यते ॥ ७.२०९ ॥

धर्मज्ञम् इति । धर्मज्ञम् उपकारस्य दक्षम् अनुरक्तामात्यं सानुरागं स्थिरकार्यं दक्षं यत् तस्मिन् मित्रम् अतिशयेनेष्यते ॥ ७.२०९ ॥

प्राज्ञं कुलीनं शूरं च दक्षं दातारम् एव च ।

कृतज्ञं धृतिमन्तं च कष्टम् आहुर् अरिं बुधाः ॥ ७.२१० ॥

प्राज्ञम् इति । प्राज्ञं महाकुलं विक्रान्तम् उत्साहयुक्तम् उदारम् । उपकारस्य रक्षितारम् अर्थानर्थयोर् एकरूपं शत्रुं दुरुच्छेदं विद्वांसं आहुः । अतस् तथाविधं यत्नतः सन्दध्यात् ॥ ७.२१० ॥

आर्यता पुरुषज्ञानं शौर्यं करुणवेदिता ।

स्थौललक्ष्यं च सततम् उदासीनगुणोदयः ॥ ७.२११ ॥

**आर्यतेति ** । साधुत्वं पुरुषविशेषज्ञता शौर्यं दयालुत्वं सर्वदा च स्थूललक्षम् अर्थेषु सूक्ष्मदर्शित्वम् इष्यते । स्थूललक्षं सततम् उदासीनगुणसामग्र्यम् अत एवंविधम् उदासीनम् आश्रित्य उक्तलक्षणेनाप्य् अरिणा सह योद्धव्यम् ॥ ७.२११ ॥

क्षेम्यां सस्यप्रदां नित्यं पशुवृद्धिकरीम् अपि ।

परित्यजेन् नृपो भूमिम् आत्मार्थम् अविचारयन् ॥ ७.२१२ ॥

क्षेम्याम् इति । परित्यजेन् नृपो भूमिम् आत्मार्थम् अवधारयन् । रक्षाक्षमाम् अपि नदीम्मातृकतया सर्वदा सत्यप्रदाम् अपि बहुतृणपत्रादियोगात् पशुवृद्धिकरीम् अपि भूमिम् आत्मरक्षार्थम् अवलम्बमानो राजानन्यगतिकः परित्यजेत् ॥ ७.२१२ ॥

आपदर्थे धनं रक्षेद् दारान् रक्षेद् धनैर् अपि ।

आत्मानं सततं रक्षेद् दारैर् अपि धनैर् अपि ॥ ७.२१३ ॥

यतः सकलपुरुषविषयो ऽयं धर्मः स्मर्यते आपदर्थ इति । अपन्निवृत्त्यर्थं धनं रक्षणीयम् । धनपरित्यागेनापि दाराः संरक्षणीयाः । आत्मा पुनर् धनदारादिना सर्वपरित्यागेनापि संरक्ष्यः । यत् तु राजव्यतिरेकेणान्यस्य दारार्थम् आत्मत्यागो न्याय्य इत्य् आहुस् तद् असत् । सर्वत आत्मानं गोपायेद् इति अशास्त्रितमरणस्य निषिद्धत्वान् न च सहसैव धनदारपरित्यागः कार्यः ॥ ७.२१३ ॥

सह सर्वाः समुत्पन्नाः प्रसमीक्ष्यापदो भृशम् ।

संयुक्तांश् च वियुक्तांश् च सर्वोपायान् सृजेद् बुधाः ॥ ७.२१४ ॥

यस्मात् **सहेति **। प्रकृतिकोपकोषक्षयमित्रव्यसनादिका युगपत् सर्वा आपदो ऽत्यर्थम् उत्पन्ना ज्ञात्वा न मोहम् उपेयाद् अपि तु व्यस्तान् समस्तान् वा सामादीन् उपायान् सर्वान् वा प्राज्ञः प्रयुञ्जीत सर्वथा ॥ ७.२१४ ॥

उपेतारम् उपेयं च सर्वोपायांश् च कृत्स्नशः ।

एतत् त्रयं समाश्रित्य प्रयतेतार्थसिद्धये ॥ ७.२१५ ॥

उपेतारम् इति । एतत् त्रयं समाश्रित्य प्रयतेतात्मसिद्धये । उपेतात्मा उपेयं च प्राप्तव्यं सर्वे च सामादय उपायास् ते च परिपूर्णा इति तत् त्रयसामर्थ्ये सति आत्मसिद्ध्यर्थं यतेतेय् उप्संहारः ॥ ७.२१५ ॥

एवं सर्वम् इदं राजा सह सम्मन्त्र्य मन्त्रिभिः ।

व्यायम्याप्लुत्य मध्याह्ने भोक्तुम् अन्तःपुरं विशेत् ॥ ७.२१६ ॥

एवम् इति । एवम् उक्तनीत्या सर्वं राजा मन्त्रिभिः सह विचार्य तद् अनु धनुरादिना व्यायामं कृत्वा स्नात्वा च मध्याह्ने काले अन्तःपुरं भोक्तुं प्रविशेत् ॥ ७.२१६ ॥

तत्रात्मभूतैः कलज्ञैर् अहार्यैः परिचारकैः ।

सुपरीक्षितम् अन्नाद्यम् अद्यान् मन्त्रैर् विषापहैः ॥ ७.२१७ ॥

तत्रेतितत्रान्तःपुर आत्मतुल्यैर् भोजनकालवेदिभिर् अभेद्यैः सूपकारादिभिर् यत् कृतम् अन्नाद्यं सुष्ठु च परीक्षितम् अग्निप्रक्षेपचकोरादिदर्शनेन अग्निर् हि सविषान्नप्रक्षेपे सति चतचटायते चकोरस्याक्षिणी रक्ते भवत इत्य् एव्मादिना परीक्षितं विषापहारैश्मन्त्रैर् जप्तम् अद्यात् ॥ ७.२१७ ॥

विषघ्नैर् उदकैश् चास्य सर्वद्रव्याणि शोधयेत् ।

विषघ्नानि च रत्नानि नियतो धारयेत् सदा ॥ ७.२१८ ॥

विषघ्नैर् इति । **विषघ्नैर् **औषधप्रयोगैः सर्वद्रव्यानि भोगभोज्यादीनि लक्षयेत् । विषघ्नानि च रत्नानि गरुडोद्गीर्णनागमणिप्रभृतीनि यत्नवान् सर्वदा धारयेत् ॥ ७.२१८ ॥

परीक्षिताः स्त्रियश् चैनं व्यजनोदकधूपनैः ।

वेषाभरणसंशुद्धाः स्पृशेयुः सुसमाहिताः ॥ ७.२१९ ॥

परीक्षिता इति । स्त्रियश् च दास्यो धर्मार्थकामोभयविषये चारप्रयोगादिद्वारेण कृतपरीक्षाः गूडायुधग्रहणविषलिप्ताभरणधारणाशङ्कया संशुद्धवेषालङ्करणाः अनन्यमनस्काश् चामरस्नानाद्युदकधूपैर् एनं राजानं परिचरेयुः ॥ ७.२१९ ॥

एवं प्रयत्नं कुर्वीत यानशय्यासनाशने ।

स्नाने प्रसाधने चैव सर्वालङ्कारकेषु च ॥ ७.२२० ॥

एवम् इति । एवंविधपरीक्षादिप्रयत्नं वाहनशयनासनभोजनस्नानानुलेपनेषु सर्वालङ्कारार्थेषु कुर्वीत ॥ ७.२२० ॥

भुक्तवान् विहरेच् चैव स्त्रीभिर् अन्तःपुरे सह ।

विहृत्य तु यथाकालं पुनः कार्याणि चिन्तयेत् ॥ ७.२२१ ॥

भुक्तवान् इति । कृतभोजनः सन् तस्मिन्न् एवान्तःपुरे भार्याभिः सह क्रीडेत् । कालातिक्रमेण च सप्तमे दिवसस्य भागे तत्र विहृत्याष्टमे भागे पुनः कार्याणि चिन्तयेत् ॥ ७.२२१ ॥

अलङ्कृतश् च सम्पश्येद् आयुधीयं पुनर् जनम् ।

वाहनानि च सर्वाणि शस्त्राण्य् आभरणानि च ॥ ७.२२२ ॥

अलङ्कृत इति । **अलङ्क्र्तश् च **सन्न् आयुधजीविनं पुनर् जनं वाहनानि चाश्वादीनि सर्वाणि खड्गादीनि च शस्त्राण्य् अलङ्करणानि च सम्पश्येत् ॥ ७.२२२ ॥

सन्ध्यां चोपास्य शृणुयाद् अन्तर्वेश्मनि शस्त्रभृत् ।

रहस्याख्यायिनां चैव प्रणिधीनां च चेष्टितम् ॥ ७.२२३ ॥

सन्ध्याम् इति । ततः सन्ध्योपासनं कृत्वा गृहाभ्यन्तरे भृतशस्त्रो रहस्याभिधायिनां स्वव्यापारं शृणुयात् ॥ ७.२२३ ॥

गत्वा कक्षान्तरं त्व् अन्यत् समनुज्ञाप्य तं जनम् ।

प्रविशेद् भोजनार्थं च स्त्रीवृतो ऽन्तःपुरं पुनः ॥ ७.२२४ ॥

गत्वेति । तस्मात् प्रदेशाद् अन्यद् विमुक्तं प्रदेशान्तरं गत्वा चारजनं सम्प्रेक्ष्य परिचारिकादिभिः स्त्रीवृतः सन् पुनर् भोक्तुम् अन्तःपुरं प्रविशेत् ॥ ७.२२४ ॥

तत्र भुक्त्वा पुनः किञ्चित् तूर्यघोषैः प्रहर्षितः ।

संविशेत् तु यथाकालम् उत्तिष्ठेच् च गतक्लमः ॥ ७.२२५ ॥

तत्र भुक्त्वा पुनः किञ्चित् तूर्यघोषैः प्रहर्षिभिःसंविशेच् च यथाकालम् उत्तिष्ठेद् विगतक्लमःतत्रान्तःपुरे किञ्चिन् नातितृप्तं वादित्रशब्दैः श्रुतिसुखैर् युक्ते भुक्त्वा कालानतिक्रमेण गतार्धरात्रप्रहरायां रात्रौ सुप्यात् । सुप्त्वा च पश्चिमे यामे उत्तिष्ठेत् ॥ ७.२२५ ॥

एतद् विधानम् आतिष्ठेद् अरोगः पृथिवीपतिः ।

अस्वस्थः सर्वम् एतत् तु भृत्येषु विनियोजयेत् ॥ ७.२२६ ॥

एतद् इति । अरोगो राजइतद् अनुत्क्रान्तं प्रजारक्षणाइ स्वयम् अनुतिष्ठेत् । अस्वस्थः पुनः सर्वम् एतद् अमात्येषु समर्पयेत् ॥ ७.२२६ ॥

**इति श्रीभट्टमाधवात्मजगोविन्दराजविरचितायां **

मनुटीकायां मन्वानुसारिण्यां राजधर्मो नाम सप्तमो ऽध्यायः ॥ ६ ॥

अष्टमो ऽध्यायः

व्यवहारान् दिदृक्षुस् तु ब्राह्मणैः सह पार्थिवः ।

मन्त्रज्ञैर् मन्त्रिभिश् चैव विनीतः प्रविशेत् सभाम् ॥ ८.१ ॥

व्यवहारान् नृपः पश्येद् इति । अर्थिप्रत्यर्थिनोर् ऋणादानादिविषयाणीतरेतरविरुद्धावहरणरूपाणि कार्याणि द्रष्टुम् इच्छन् राजा वक्ष्यमाणलक्षणैर् मन्त्रिभिश् चोक्तपञ्चाङ्गमन्त्रज्ञैः सह चापलादिरहितो वक्ष्यमाणसभां प्रविशेत् ॥ ८.१ ॥

तत्रासीनः स्थितो वापि पाणिम् उद्यम्य दक्षिणम् ।

विनीतवेषाभरणः पश्येत् कार्याणि कार्यिणाम् ॥ ८.२ ॥

तत्रेति । तस्यां सभायां गुरुकार्यापेक्षयोपविष्टो ऽन्यथोत्थितो दक्षिणबाहुं वासस उद्धृत्य अनुद्धतवेषालङ्कारः कार्यार्थिनां व्यवहारं नियमतो विचारयेत् ॥ ८.२ ॥

प्रत्यहं देशदृष्टैश् च शास्त्रदृष्टैश् च हेतुभिः ।

अष्टादशसु मार्गेषु निबद्धानि पृथक् पृथक् ॥ ८.३ ॥

प्रत्यहम् इति । तांश् च व्यवहारान् अष्टादशव्यवहारस्थाने ऋणादानादिषु वक्ष्यमाणेषु पृथक् पृथक् व्यवस्थितान् प्रतिनियतदेशव्यवस्थावणिक्कर्षकादिगतया शास्त्राविरुद्धया शास्त्रगतया च साक्षिशपथानुमानाद्यात्मकया प्रत्यहम् आलोक्यम् एव ॥ ८.३ ॥

तेषाम् आद्यम् ऋणादानं निक्षेपो ऽस्वामिविक्रयः ।

सम्भूय च समुत्थानं दत्तस्यानपकर्म च ॥ ८.४ ॥

वेतनस्यैव चादानं संविदश् च व्यतिक्रमः ।

क्रयविक्रयानुशयो विवादः स्वामिपालयोः ॥ ८.५ ॥

सीमाविवादधर्मश् च पारुष्ये दण्डवाचिके ।

स्तेयं च साहसं चैव स्त्रीसङ्ग्रहणम् एव च ॥ ८.६ ॥

स्त्रीपुन्धर्मो विभागश् च द्यूतम् आह्वय एव च ।

पदान्य् अष्टादशैतानि व्यवहारस्थिताव् इह ॥ ८.७ ॥

तेषाम् इति । **वेतनस्येति । सीमाविवादधर्म **इति । स्त्रीपुन्धर्म इति । तेषाम् अष्टादशानाम् आदाव् अधर्मगृहीतस्य ऋणस्यादानम् इह विचार्यते । ततः क्रमेण निक्षेपो ऽस्वामिना च यः क्रियते विक्रयादिः । एकीभूय धनार्जनेहा । यागाद्यर्थं दत्तस्य प्रतिश्रुतस्य वा यागाद्यकरणे सत्यप्रदानम् । भृतेर् अदानम् । ग्रामादिकृतव्यवस्थाव्यतिक्रमः । क्रये विक्रये वा सति पश्चत्तापः । स्वामिपालयोः विप्रतिपत्तिः । ग्रामादिसीमाविवादव्यवस्था । वाक्पारुष्यं ताडनादि । चौर्यम् । प्रधष्यापहरणादि सासहम् । स्त्रियश् च परस्परं च सम्पर्कं रामकाम् स्त्रीसहितस्य । पुंसो भर्तुर् व्यवस्था । पैतृकादिधनविभागो ऽक्षादिक्रीडाव्यवस्थापनम् । पशुपक्ष्यादियोधनम् इत्य् एवम् अष्टादशैतानि व्यवहारोत्पत्तौ लोके स्थानानि ॥ ८.४–७ ॥

एषु स्थानेषु भूयिष्ठं विवादं चरतां नृणाम् ।

धर्मं शाश्वतम् आश्रित्य कुर्यात् कार्यविनिर्णयम् ॥ ८.८ ॥

**एष्व् **इति । **एष्व् **अष्टादशसु स्थानेषु व्यवस्थानेषु बाहुल्येन मनुष्याणां विवादं कुर्वताम् अनादिपारम्पर्यायानां व्यवस्थाम् आश्रित्य व्यवहारनिर्णयं कुर्यात् । भूयिष्ठवचनाद् अन्यान्य् अपि सन्ति । यथोक्तं नारदेन-

तेषाम् एव प्रभेदो ऽन्यः शतम् अष्टोतरं स्मृतम् ॥ ८.८ ॥

यदा स्वयं न कुर्यात् तु नृपतिः कार्यदर्शनम् ।

तदा नियुञ्ज्याद् विद्वांसं ब्राःमणं कार्यदर्शने ॥ ८.९ ॥

**यदेति **। यदा कार्यान्तरव्याकुलतयात्मना व्यवहारेक्षणम् राजा न कुर्यात् तदा कार्यदर्शनार्थं विद्वांसं ब्राह्मणं नियुञ्जीत ॥ ८.९ ॥

सो ऽस्य कार्याणि सम्पश्येत् सभ्यैर् एव त्रिभिर् वृतः ।

सभाम् एव प्रविश्याग्र्याम् आसीनः स्थित एव वा ॥ ८.१० ॥

**स **इति । **स **ब्राह्मणः सभायां साधुभिर् धार्मिकैर् ब्राह्मणैः युक्तस् ताम् एव राजसभां श्रेष्ठां प्रविश्योपविष्तः स्थितो वा अस्य राज्ञो द्रष्टव्यान् व्यवहारान् सम्पश्येत् ॥ ८.१० ॥

यस्मिन् देशे निषीदन्ति विप्रा वेदविदस् त्रयः ।

राज्ञश् चाधिक्र्तो विद्वान् ब्रह्मणस् तां सभां विदुः ॥ ८.११ ॥

यस्मिन्न् इति । **यस्मिन् **स्थाने ऋग्यजुःसामपारगाः त्रयो ऽपि ब्राह्मणा राजाधिकृतश् च विद्वान् अवतिष्ठते हिरण्यगर्भाम् इव तां सभां मन्यन्ते ॥ ८.११ ॥

धर्मो विद्धस् त्व् अधर्मेण सभां यत्रोपतिष्ठते ।

शल्यं चास्य न कृन्तन्ति विद्धास् तत्र सभासदः ॥ ८.१२ ॥

यस्मिन् द्रष्टरि धर्मशास्त्रव्यवस्थाश् चाधर्मेण व्यवस्थायापीडितः सभाम् उपतिष्ठते यत्रावस्थानं कुरुते सभ्याश् च ब्राह्मणास् तस्य धर्मस्य शल्यम् इव शल्यम् अधर्माख्यं नोद्धरन्ति तत्र तेनाधर्मशल्येन सभ्या विद्धा भवन्ति ॥ ८.१२ ॥

सभां वा न प्रवेष्टव्यम् वक्तव्यं वा समञ्जसम् ।

अब्रुवन् विब्रुवन् वापि नरो भवति किल्बिषी ॥ ८.१३ ॥

**सभां वा न प्रवेष्टव्येति **। व्यवहारदर्शनार्थं सभा न प्रवेष्टव्या । प्रविष्टश् चेत् तदा सत्यं वक्तव्यम् । अथ वा तूष्णीम् आसीनो विरुद्धं वा ब्रुवन् सभ्य एव एनस्वी भवति ॥ ८.१३ ॥

यत्र धर्मो ह्य् अधर्मेण सत्यं यत्रानृतेन च ।

हन्यते प्रेक्षमाणानां हतास् तर सभासदः ॥ ८.१४ ॥

**यत्रेति ** । यस्यां सभायां सभावस्थितानां प्राड्विवाकवादीनां प्रेक्षमाणानां वादिना प्रतिवादिना वा धर्मो बाध्यते । यत्र च साक्षिभिः सत्यम् अनृतेन बाध्यते तत्र ते प्राड्विवाकादयः सभासदः पापेन हता भवन्ति । तस्मान् न चापि प्रतिवादिना साक्षिकृतो व्यतिक्रमो रक्षणीयः ॥ ८.१४ ॥

धर्म एव हतो हन्ति धर्मो रक्षति रक्षितः ।

तस्माद् धर्मो न हन्तव्यो मा नो धर्मो हतो वधीत् ॥ ८.१५ ॥

धर्म इति । तस्माद् धर्म एव व्यतिक्रान्तो दृष्टादृष्टाभ्यां नाशयति । नार्थिप्रत्यर्थ्यादि । स एव चानतिक्रान्ततया रक्षति तस्माद् धर्मो नातिक्रमणीयः मास्माकं त्वत्सहितानां धर्मो व्यतिक्रान्तो दृष्टादृष्टार्थं नाशं कार्षीद् इति । सभ्यैर् असत्प्रवृत्तः प्राड्विवाकः सम्बोधनीयः ॥ ८.१५ ॥

वृषो हि भगवान् धर्मस् तस्य यः कुरुते ह्य् अलम् ।

वृषलं तं विदुर् देवास् तस्माद् धर्मं न लोपयेत् ॥ ८.१६ ॥

वृष इति । तस्मात् सकलकामवर्णानां वृषशब्देन धर्म उच्यते । तस्य व्याहरणं कुरुते । तं देवा वृषलं मन्यन्ते न जातिवृषलं तस्माद् धर्मं नोच्छिन्द्याद् इति धर्मव्यतिक्रमपरिहारार्थं वृषलवचनम् ॥ ८.१६ ॥

एक एव सुहृद् धर्मो निधने ऽप्य् अनुयाति यः ।

शरीरेण समं नाशं सर्वम् अन्यद् धि गच्छति ॥ ८.१७ ॥

एक इति । तस्माद् अन्यत् सर्वं भर्यापुत्रमित्रादि शरीरेणैव सह नाशं गच्छति न धर्मवत् त्राणार्थं किञ्चिद् अपि पश्चाद् अन्वेति तस्मात् सुहृद् धर्मो न हातव्यः ॥ ८.१७ ॥

पादो ऽधर्मस्य कर्तारं पादः साक्षिणम् ऋच्छति ।

पादः सभासदः सर्वान् पादो राजानम् ऋच्छति ॥ ८.१८ ॥

पाद इति । तद् व्यवहारतो ऽधर्मसम्बन्धी चतुर्थो भागो ऽर्थिनं प्रत्यर्थिनं वादिसम्प्रवृत्तं गच्छत्य् अन्यश् चतुर्थभागो ऽसत्यवादिनं साक्षिणं चान्यः परः सर्वान् सभास्थितान् प्रेक्षमाणान् परित्यज्य राजानं प्रयातीति सर्वेषाम् अधर्मसम्बन्धो भवतीत्य् एतत्प्रतिपादनपरम् एतत् ॥ ८.१८ ॥

राजा भवत्य् अनेनास् तु मुच्यन्ते च सभासदः ।

एनो गच्छति कर्तारं निन्दार्हो यत्र निद्यते ॥ ८.१९ ॥

राजेति । यत्र पुनः सभायाम् असद्वादित्वाद् अर्थी प्रत्यर्थी वा सम्यग्दर्शनेन कुत्स्यते तत्र राजापापो भवति सभासदश् च पापेन न सम्बध्यन्ते चार्थादिकर्तारम् एव गच्छति ॥ ८.१९ ॥

जातिमात्रोपजीवी वा कामं स्याद् ब्राह्मणब्रुवः ।

धर्मप्रवक्ता नृपतेर् न तु शूद्रः कथञ्चन ॥ ८.२० ॥

जातिमात्रोपजीवीति । केवलं ब्राह्मणजातिमात्रं यस्य तेन ब्राह्मणधर्मानुसारेण स तु ब्राह्मणो ऽस्य राज्ञो विद्वद्ब्राह्मणाभावे व्यवस्थाने धर्मस्य प्रवक्ताधिकृतः स्यात् न कदाचित् शूद्र इति । तदा नियुञ्ज्याद् विद्वांसं ब्राह्मणम् इत्य् अनेनैव सिद्धे शूद्रप्रतिषेधे पुनर्वचनं क्षत्रियवैश्यानियोजनाच् छूद्रनियोजनस्य निषेधः ॥ ८.२० ॥

यस्य शूद्रस् तु कुरुते राज्ञो धर्मविवेचनम् ।

तस्य सीदति तद् राष्ट्रं पङ्के गौर् इव पश्यतः ॥ ८.२१ ॥

यस्मात् **यस्येति **। यस्य राज्ञः शूद्रो धर्मविचारं कुरुते तस्य पश्यत एव कर्दम इव गौः तद् राष्ट्रम् अवसीदति ॥ ८.२१ ॥

तद् राष्ट्रं शूद्रभूयिष्ठं नास्तिकाक्रान्तम् अद्विजम् ।

निवश्यत्य् आशु तत् कृत्स्नं दुर्भिक्षव्याधिपीडितम् ॥ ८.२२ ॥

यद् इति । यद् राष्ट्रं शूद्रबहुलं परलोकायतिकाक्रान्तं अविद्यमानद्विजं तत् सर्वं दुर्भिक्षव्याधिपीडितं भूत्वा विनश्यति । अग्नौ प्रास्तेत्य् एतद् अभावाच् छान्त्यर्थयागाद्यभावाच् च ॥ ८.२२ ॥

धर्मासनम् अधिष्ठाय संवीताङ्गः समाहितः ।

प्रणम्य लोकपालेभ्यः कार्यदर्शनम् आचरेत् ॥ ८.२३ ॥

धर्मासनम् इति । प्रणम्य लोकपालेभ्यः कार्यदर्शनम् आचरेत् । धर्मदर्शनार्थम् आसने उपविश्याच्छादितदेहो ऽनन्यमना लोकपालान् नमस्कृत्य ततो व्यवहारेक्षणं राजा चरेत् ॥ ८.२३ ॥

अर्थानर्थाव् उभौ बुद्ध्वा धर्माधर्मौ च केवलौ ।

वर्णक्रमेण सर्वाणि पश्येत् कार्याणि कार्यिणाम् ॥ ८.२४ ॥

**अर्थानर्थाव् ** इति । प्रकृतिसम्प्रसादकोपात्मकान् तथाविधान् लोकगतान् आलोच्य परलोकार्थं च धर्माधर्माव् एव केवलाव् आलोक्य यथा धर्महानिः अधर्मानर्थोत्पादश् च न भवति तथा सर्वान् व्यवहारान् पश्येत् । सन्निपाते च वर्णानां ब्राह्मणादिक्रमेण पश्येत् ॥ ८.२४ ॥

बाह्यैर् विभावयेल् लिङ्गैर् भावम् अन्तर्गतं नृणाम् ।

स्वरवर्णेङ्गिताकारैश् चक्षुषा चेष्टितेन च ॥ ८.२५ ॥

बाह्यैर् इति । गद्गदत्वादिचक्षुःस्वरपाण्डुरादिवर्णवेपथुरोमाञ्चादीङ्गितविवर्णत्वाद्य्-आकाराधोनिरीक्षणादिचतुर्गतहस्तनिष्पेषादिविशेषचेष्टाकारैर् बाह्यलिङ्गैर् अवश्यगमकेन स्वभावैर् गूढम् अभिप्रायं सदसद्रूपं व्यवहारिणां निश्चयं अनुभूय ॥ ८.२५ ॥

आकारैर् इङ्गितैर् गत्या चेष्टया भाषितेन च ।

नेत्रवक्त्रविकारैश् च गृह्यते ऽन्तर्गतं मनः ॥ ८.२६ ॥

यस्मात् लोके ऽपि आकारैर् इति । नेत्रवक्त्रविकारैश् च ज्ञायते ऽन्तर्गतं मनः । आकारादिभिः पूर्वोक्तैः गत्या च स्कलनरूपया निगूढसद्रूपं ज्ञायते ॥ ८.२६ ॥

बालदायादिकं रिक्थं तावद् राजानुपालयेत् ।

यावत् स स्यात् समावृत्तो यावच् चातीतशैशवः ॥ ८.२७ ॥

बालदायादिकम् इति । अनाथबालस्वामिकं धनं तावद् राजा रक्षेत् । यावद् असौ गुरुकुलान् निवृत्तो यावद् वा निवृत्तबालभावः स्याद् इति भावः पितृव्यादिभ्यः स्वामित्वोपन्यासादिव्याजेनापजिहीर्षद्भ्यो रक्षितार्थम् इदम् अस्मिन् व्यवहार उच्यते । सामान्यविषयस्य रक्षणस्य राज्ञः सर्वविषयत्वात् ॥ ८.२७ ॥

वशापुत्रासु चैवं स्याद् रक्षणं निष्कुलासु च ।

पतिव्रतासु च स्त्रीषु विधवास्व् आतुरासु च ॥ ८.२८ ॥

वन्ध्यापुत्रास्व् इति । यथा बालधनस्य राज्ञो रक्षणं स्याद् एवं सत्य् अपि भर्तरि वन्ध्यासु स्त्रीष्व् अप्रजासु निष्कुलासु च कन्यकासु मृतप्रोषितभर्तृकासु साध्वीषु व्याधितासु च रक्षणं स्याद् अत्र गोबलिवर्दन्यायेनानेकशब्दोपादानम् ॥ ८.२८ ॥

जीवन्तीनां तु तासां ये तद् धरेयुः स्वबान्धवाः ।

ताञ् छिष्याच् चौरदण्डेन धार्मिकः पृथिवीपतिः ॥ ८.२९ ॥

जीवन्तीनाम् इति । भाविस्वाम्याद् अस्माद् अधीनत्वादिव्याजेन ये बान्धवास् तासां जीवन्तीनां धनं हरेयुः ॥ ८.२९ ॥

प्रनष्टस्वामिकं रिक्थं राजा त्र्यब्दं निधापयेत् ।

अर्वाक् त्र्यब्दाद् धरेत् स्वामी परेण नृपतिर् हरेत् ॥ ८.३० ॥

प्रनष्टस्वामिकम् इति । अज्ञापमानस्वामिकं धनं राजा कस्य किं प्रनष्टम् इत्य् एवं पटहादिनाख्याय द्वारादौ वर्षत्रयं स्थापयेत् । वर्षत्रयाद् अर्वाक् स्वाम्य् आयातो गृह्णीयाद् ऊर्ध्वं पुनर् नृपतिर् गृह्णीयात् । यावत् स्वाम्य् आगच्छति तावद् अपहरेत् । एवं परको यस्य धर्मतो वर्षशतैर् अपि स्वापहारस्यान्याय्यत्वात् प्रनष्ट इत्यावि चार्वाक् ॥ ८.३० ॥

ममेदम् इति यो ब्रूयात् सो ऽनुयोज्यो यथाविधि ।

संवाद्य रूपसङ्ख्यादीन् स्वामी तद् द्रव्यम् अर्हति ॥ ८.३१ ॥

**ममेति **। मत्सम्बन्ध्य् एतद् धनम् इति यो ब्रूयात् स किं सारं किं सङ्ख्याकं क्व प्रणष्टम् इत्य् एवमादिविधानेन पर्यनुयोक्तव्यः । ततो यदि रूपसङ्ख्यादीन् सत्यान् ब्रवीति तद् धनं ग्रहीतुम् अर्हति ॥ ८.३१ ॥

अवेदयानो नष्टस्य देशं कालं च तत्त्वतः ।

वर्णं रूपं प्रमाणं च तत्समं दण्डम् अर्हति ॥ ८.३२ ॥

अवेदयान इति । नष्टद्रव्यस्य देशकालौ यथासम्भवं च वर्णशुल्कादिकम् आकारं कण्टकत्वादिकं प्रमाणं च यथावद् अजानतः तत्तुल्यं दण्डम् इति ॥ ८.३२ ॥

आददीताथ षड्भागं प्रनष्टाधिगतान् नृपः ।

दशमं द्वादशं वापि सतां धर्मम् अनुस्मरन् ॥ ८.३३ ॥

सङ्ख्यादिसंवादे पुनः आददीतेति । यद् एतत् प्रनष्टं राज्ञा प्राप्तं ततः स्वामिगतसङ्ख्यादिसंवादानन्तरं रक्षणक्लेशापेक्षया षड्भागं दशमं द्वादशं वा साधूनाम् अयं धर्म इत्य् एवं राजा गृह्णीयात् शिष्टं पुनः स्वामिने उत्सृजेत् ॥ ८.३३ ॥

प्रनष्टाधिगतं द्रव्यं तिष्ठेद् युक्तैर् अधिष्ठितम् ।

यांस् तत्र चौरान् गृह्णीयात् तान् राजेभेन घातयेत् ॥ ८.३४ ॥

प्रनष्टाधिगतम् इति । यद् द्रव्यं कस्यचित् प्रनष्टं सद् राजपुरुषैर् लब्धं तद् रक्षयेत् । नियुक्तं रक्षितं कृत्वा राजा स्थाप्यं तस्मिंश् च द्रव्ये यान् चौरान् राजा गृह्णीयात् तान् शताद् अभ्यधिके वध इति दर्शनात् सुवर्णशतमूल्यादिचौर्ये सति हस्तिना घातयेत् ॥ ८.३४ ॥

ममायम् इति यो ब्रूयान् निधिं सत्येन मानवः ।

तस्याददीत षड्भागं राजा द्वादशम् एव वा ॥ ८.३५ ॥

ममायम् इति । तत्सम्बन्धीदं निधानम् इत्य् एवं निधिं अन्येन वा तथ्ये सति तयोरूपसङ्ख्यादिपूर्वप्रतिज्ञासंवादेन मनुष्यो ब्रूयात् तस्य ततो निधानाद् देशकालावर्णाद्यपेक्षया षड्भागं द्वादशम् एव वा राजा गृह्णीयात् शिष्टं तस्योत्सृजेत् ॥ ८.३५ ॥

अनृतं तु वदन् दण्ड्यः स्ववित्तस्यांशम् अष्टमम् ।

तस्यैव वा निधानस्य सङ्ख्याल्पीयसीं कलाम् ॥ ८.३६ ॥

अनृतम् इति । अप्तपुनः (?) सत्यं ब्रुवन् स्वधनस्याष्टमं भागं दण्ड्याः । यद् वा तस्यैव निधानस्यात्यन्ताल्पं भागं विगनय्य स विषादं न गच्छति विनयं च गृह्णीयात् तं दण्ड्यो गुणवदगुणापेक्षया विकल्पः ॥ ८.३६ ॥

विद्वांस् तु ब्राह्मणो दृष्ट्वा पूर्वोपनिहितं निधिम् ।

अशेषतो ऽप्य् आददीत सर्वस्याधिपतिर् हि सः ॥ ८.३७ ॥

विद्वान् इति । शास्त्रविद् पुनर् ब्राह्मणः पित्रादिस्थापितं निधिं दृष्ट्वा राज्ञो भागं न दद्यात् । अशेषं गृह्णीयाद् यस्मात् सर्वस्य धनजातस्य ब्राह्मणः प्रभुः इत्य् अशेषग्रहणार्थवादः । एवं च ममायम् इति । अयम् अविद्वद्ब्राह्मणविषयः क्षत्रियादिविषयश् च ॥ ८.३७ ॥

यं तु पश्येन् निधिं राजा पुराणं निहितं क्षितौ ।

तस्माद् द्विजेभ्यो दतार्धम् अर्धं कोशे प्रवेशयेत् ॥ ८.३८ ॥

यम् इति । **यं **पुनः चिरन्तनस्वामिकं भूमिप्रक्षिप्तं निधिं लभेत तस्माद् अर्धं ब्राह्मणेभ्यो दत्वा अर्धम् आत्मनो ऽर्थागारे प्रवेशयेत् ॥ ८.३८

निधीनां तु पुराणानां धातूनाम् एव च क्षितौ ।

अर्धभाग् रक्षणाद् राजा भूमेर् अधिपतिर् हि सः ॥ ८.३९ ॥

निधीनाम् इति । चिरन्तनानां निधीनाम् अस्वामिकानां अन्येनापि लब्धानां भूमिगतानां च सुवर्णानां अर्धहरो राजा यस्माद् रक्षणाद् असौ भूमिस्वामीति ॥ ८.३९ ॥

दात्वयं सर्ववर्नेभ्यो राज्ञा चौरैर् हृतं धनम् ।

राजा तद् उपयुञ्जनश् चौरस्याप्नोति किल्बिषम् ॥ ८.४० ॥

दातव्यम् इति । यच् चौरैर् हृतं लोकानां धनं तद् राज्ञा चौरेभ्यश् चाहृतं धनं तेभ्यो देयम् । यस्माद् राजा स्वीकुर्यात् चौरस्य यावत् पापं तावत् प्राप्नोति ॥ ८.४० ॥

जातिजानपदान् धर्मान् श्रेणीधर्मांश् च धर्मवित् ।

समीक्ष्य कुलधर्मांश् च स्वधर्मं प्रतिपादयेत् ॥ ८.४१ ॥

जातिधर्मान् जानपदान् इति । जातिधर्मान् अध्ययनादीन् जानपदांश् च नियतदेशव्यवहारान् अविरुद्धान् एवं वणिक्कर्षणादिगतान् श्रेणीधर्मान् कुलधर्मांश् च प्रतिनियतकुलस्थितान् ज्ञात्वा यस्य यः स्वधर्मस् तं तथा तत् स्थापयेत् । अतश् च तद्विरुद्धव्यवहारिषु वादिनं निगृह्णीयात् ॥ ८.४१ ॥

स्वानि कर्माणि कुर्वाणा दूरे सन्तो ऽपि मानवाः ।

प्रिया भवन्ति लोकस्य स्वे स्वे कर्मण्य् अवस्थिताः ॥ ८.४२ ॥

यस्मात् स्वानीति । जातिकुलदेशधर्माण्य् अनुतिष्ठन्तः सन्तो ऽपि निष्कर्षस्नेहाविदूरे ऽपि वर्तमाना मनुष्याः स्वे स्वे कर्मन्य् अवस्थिता परकर्माणि परलोकस्य प्रिया भवन्ति ॥ ८.४२ ॥

नोत्पादयेत् स्वयं कार्यं राजा नान्यस्य कस्यचिद् ।

न च प्रापितम् अन्येन ग्रसेद् अर्थं कथञ्चन ॥ ८.४३ ॥

एवं धनप्रसङ्गेन प्रसक्तानुप्रसक्तिकयाभिधायाधुना प्राकृतम् आह । **नोत्पादयेत् स्वयं कार्यं राजा नान्यस्य कस्यचिद् **इति । यद्य् अपि पश्येत् कर्याणि कार्यिणाम् इत्य् उक्तं भवति तथापि तदाक्षेपान्तरेण ऋणादानादिराजकर्तव्यसाहसाधिरक्षणवर्जितेषु राजा स्वयम् उपजापेन व्यवहारान् नोत्पादयेत् । नापि राजाधिकृतः स्वयम् उत्पादयेत् तथा प्रत्यर्थिनाम् अपि तदा वेदितव्यं कार्यार्थं केनापि प्रकारेण रागद्वेषादिना नोपेक्षेत ॥ ८.४३ ॥

यथा नयत्य् असृक्पातैर् मृगस्य मृगयुः पदम् ।

नयेत् तथानुमानेन धर्मस्य नृपतिः पदम् ॥ ८.४४ ॥

यथेति । **यथा मृगस्य **विद्धस्य सतो दृष्टिनष्टस्य पदं व्याधो रुधिरस्रावबिन्दुदर्शनेन नयति तथा राजानुमानप्रमाणेन धर्मस्य गतिं नयेत् । विद्वद्भिः धर्मप्रधानैर् द्विजातिभिर् यच् छास्त्राविरुद्धम् आसेवितं तद् देशकुलजातीनाम् अत्र रूपं कल्पयेत् । वादिवाद्याशयग्रहणाय यत्नादिशयं कुर्यात् इत्य् एवमर्थम् ॥ ८.४४ ॥

सत्यम् अर्थं च सम्पश्येद् आत्मानम् अथ साक्षिणम् ।

देशं रूपं च कालं च व्यवहारविधौ स्थितः ॥ ८.४५ ॥

सत्यम् इति । व्यवहारकर्मप्रवृत्तो राजा सत्यं द्रष्टाद्रष्टहेतुतया सम्पश्येत् । अर्थं च सारासारत्वेन आत्मानं च सदसत्कर्मणा, देशं च समनन्तरं राजान्तरं विहारं कालं च जीवितसम्बन्धम् अतिक्रान्तबलं रूपं चेदं व्याधिजराभोज्यप्रायं लोभादिनास्खलनार्थं सम्पश्येत् ॥ ८.४५ ॥

सद्भिर् आचरितं यत् स्याद् धार्मिकैश् च द्विजातिभिः ।

तद् देशकुलजातीनाम् अविरुद्धं प्रकल्पयेत् ॥ ८.४६ ॥

सद्भिर् इति । एतच् च विरुद्धव्यवहारेषु वादिनं गृह्णीयाद् इह च सद्भिर् आचरितम् इत्य् उपादानाद् इदं सदाचारविषयं जातिजानपदाद्य् एतत् पुनः सद्चारव्यतिरिक्तधर्मविषयम् ॥ ८४६ ॥

अधमणार्थसिद्ध्यर्थम् उत्तमर्णेन चोदितः ।

दापयेद् धिकस्यार्थम् अधमर्णाद् विभावितम् ॥ ८.४७ ॥

एवं सकलव्यवहारसाधारणपरिभाषात्मकम् उक्त्वाधुना ऋणादानाद्य् अधिकृत्याह **अधमर्णार्थ्सिद्ध्यर्थम् **इति । दापयेद् धनिकस्यार्थम् अधमर्णविभावितम् । अधमर्णेन धनग्राहिणा गृहीतं तत्प्राप्त्यर्थं धनस्वामिना राज्ञा ज्ञापितः सन् वक्ष्यमाणलेख्यादिना प्रतिपादितं धनं धनस्वामिनो ऽधमर्णं दापयेत् इत्य् उत्तरप्रपञ्चस्यैवायं सामान्यनिर्देशः ॥ ८.४७ ॥

यैर् यैर् उपायैर् अर्थे स्वं प्राप्नुयाद् उत्तमर्णिकः ।

तैस् तैर् उपायैः सङ्गृह्य दापयेद् अधमर्णिकम् ॥ ८.४८ ॥

यैर् यैर् इति । उत्तमर्णो यैर् यैर् उपायैः स्वधनं लभते तैस् तैर् उपायैः अधमर्णं निगृह्य तम् अर्थं दापयेत् ॥ ८.४८ ॥

धर्मेण व्यवहारेण छलेनाचरितेन च ।

प्रयुक्तं साधयेद् अर्थं पञ्चमेन बलेन च ॥ ८.४९ ॥

कैः पुनस् तैर् इत्य् अत आह **धर्मेणेति **। यद् अधमर्णस्य प्रयुक्तं धनं तद् धर्मेण नीत्या व्यवहारेण वक्ष्यमाणेन छलेनोपाधिपूर्वकं प्रतिद्रव्यग्रहणेनाचरितेनाभोजनादिना बलेन गृहावरोधादिना पण्चमेनोत्तमर्णं साधयेत् ॥ ८.४९ ॥

यः स्वयं साधयेद् अर्थम् उत्तमर्णो ऽधमर्णिकात् ।

न स राज्ञाभियोक्तव्यः स्वकं संसाधयन् धनम् ॥ ८.५० ॥

**स्वयं य **इति । उत्तमर्णो व्यवहारम् अन्तरेण धर्मादिभिर् उपायैर् वा नरैः स्वं राजनिरपेक्षम् अधमर्णात् धनं साधयेत् । आत्मधनं साधयन् मदनपेक्षं बन्धनादिकृतवान् असीति एवं राजा न क्षेप्तव्यः ॥ ८.५० ॥

अर्थे ऽपव्ययमानं तु करणेन विभावितम् ।

दापयेद् धनिकस्यार्थं दण्डलेशं च् शक्तितः ॥ ८.५१ ॥

अर्थे ऽपव्ययमानं तु करणेन विभावयेद् इति । नाहम् अस्मै धारयिष्यामीत्य् एवं धने विप्रतिपद्यमानम् अधमर्णं करणेनालिख्यसाक्षिपथात्मकेन प्रतिपादितम् उत्तमर्णस्य धनं दापयेत् ॥ ८.५१ ॥

अपह्नवे ऽधमर्णस्य देहीत्य् उक्तस्य संसदि ।

अभियोकादिशेद् देश्यं कारणं वान्यद् उद्दिशेत् ॥ ८.५२ ॥

अपह्नव इति । अभियोक्ता दिशेद् देश्यं करणं वान्यम् उद्दिशेत् । अधमर्णस्य देहीत्य् उत्त्मर्णस्य धनम् इत्य् एवं सभायां प्राड्विवाकेनोक्तश् च न धारयामीत्य् एवम् अपलापे सत्य् आक्षेपक्रोधग्रहणदेशं तत्रत्र्यसाक्ष्युपन्यासाद्यपह्नवत्वात् करणं शंसेत् ॥ ८.५२ ॥

अदेशं यश् च दिशेत् निर्दिश्यापह्नुते च यः ।

यश् चाधरोत्तरान् अर्थान् विगीतान् नावबुध्यते ॥ ८.५३ ॥

अपदिश्यापदेश्यं च पुनर् यस् त्व् अपधावति ।

सम्यक्प्रणिहितं चार्थं पृष्टः सन् नाभिनन्दति ॥ ८.५४ ॥

असम्भाष्ये साक्षिभिश् च देशे सम्भाषते मिथः ।

निरुच्यमानं प्रश्नं च नेच्छेद् यश् चापि निष्पतेत् ॥ ८.५५ ॥

ब्रूहीत्य् उक्तश् च न ब्रूयाद् उक्तं च न विभावयेत् ।

न च पूर्वापरं विद्यात् तस्माद् अर्थात् स हीयते ॥ ८.५६ ॥

अदेशं यश् च दिशति निर्दिश्यापह्नवीति चेति । अपदिश्येति । **असम्भाष्येति । ब्रूहीति । **अभियोक्ता दिशेद् इत्य् उक्तं तत्र यो ऽर्थी तथाविधं देशम् अपह्नवादिकं निर्दिशति यत्र दानग्रहणे न सम्भाव्येते अधमर्णस्य वा तदानीं तत्रापस्थानं सम्भवतीति यश् चादेशादिकं निर्दिश्य न तन् मया निर्दिष्टम् इत्य् एवं पश्चाद् अपजानीते यो वा पूर्वं पश्चाद् उक्तान् अर्थान् परस्परविरुद्धान् नावगच्छति यश् चानेन मम हस्तात् सुवर्णं गृहीतम् इत्य् एवं निर्देष्टव्यं निर्दिश्य एतत् पत्रेण गृहीतम् इत्य् एवमादिना पुनर् अपसरति यो वा प्रतिज्ञाकालोपन्यस्तम् अर्थं कस्मात् पुनस् तथा रात्र्यादौ दानग्रहणं कृतम् इत्य् एवमादिरूपेण पूर्वपक्षविस्तारकाले प्राड्विवाकेन सम्यक् पृष्टः सन्न् अन्तर्धत्ते यश् च सम्भाषणानर्हे उपहारादौ देशे साक्षिभिः परस्परं भाषते यश् च साक्षिप्रश्नं क्रियमाणं नो गच्छति वा सभान्तः प्रतिवादिसन्निहितहठाद् उत्प्लुत्य गच्छति यथास्मिन् पूर्वपक्षे किं ब्रूहीत्य् उक्त उत्तरं न ब्रूयात् यो वा प्रतिज्ञातं साक्षिभिर् न विभावयेत् पूर्वं वा साक्षिगतं न जानीयात् स्वगतस्वयं चाधरोत्तराणि व्यक्तत्वात् स तस्माद् व्यवहाराद् धीयते ॥ ८.५३–५६ ॥

साक्षिणः सन्ति मेत्य् उक्त्वा दिशेत्य् उक्तो दिशेन् न यः ।

धर्मस्थः कारणैर् एतैर् हीनं तम् इति निर्दिशेत् ॥ ८.५७ ॥

साक्षिण इति । साक्षिणो ऽत्र मम विद्यन्ते इत्य् उक्त्वा ब्रूहि तान् इत्य् उक्तो यस्मान् न ब्रूयात् तं पूर्वोक्तैर् एभिः पराजयकारणैः धर्मनिर्णयप्रवृत्तः प्राद्विवाको जितो ऽय्म् इति कथयेत्

॥ ८.५७ ॥

अभियोक्ता न चेद् ब्रूयाद् वध्यो दण्ड्यश् च धर्मतः ।

न चेत् त्रिपक्षात् प्रब्रूयाद् धर्मं प्रति पराजितः ॥ ८.५८ ॥

अभियोक्तेति । यो ऽर्थी सद्य एव पूर्वपक्षं न ब्रूयात् तदा धर्मव्यतिक्रमतारतम्यापेक्षया वधार्हो दण्डनीयश् च स्यात् । आक्षिप्तः पुनः पक्षत्रये यदि न ब्रूयात् तदा धर्मविषये पराजितो ऽन्याय्यप्रवृत्तत्वेनाधार्मिकत्वात् ॥ ८.५८ ॥

यो यावन् निह्नुवीतार्थं मिथ्या यावति वा वदेत् ।

तौ नृपेण ह्य् अधर्मज्ञौ दाप्यौ तद्द्विगुणं दमम् ॥ ८.५९ ॥

इति । यः प्रत्यर्थी यत्परिमाणं धनम् अपजानीते यत्परिमाणं वा धनम् अर्थी मिथ्या कथयति अधर्मप्रवृत्तौ तस्माद् अपह्नुतान् मिथ्योक्ताच् च धनात् द्विगुणं दण्डार्थं दापनीयः । अधर्मज्ञाव् इति वचनाद् इदम् अत्यन्ताभिनिवेशादिप्रवृत्तविषयम् । अभिनिवेशे त्व् अपह्नवे तद्द्विगुणम् अपि दशकं शतं वक्ष्यति ॥ ८.५९ ॥

पृष्टो ऽपव्ययमानस् तु कृतावस्थो धनैषिणा ।

त्र्यवरैः साक्षिभिर् भाव्यो नृपब्राह्मणसन्निधौ ॥ ८.६० ॥

पृष्ट इति । प्रत्यर्थी धनार्थिनोत्तमर्णेन कृतराजपुरुषकर्षणादिपरिभवः प्राड्विवाकेन पृष्टो यदावधारयामीत्य् एवम् अपह्नवानो भवति तदा राजाधिकृतब्राह्मणसमक्षं यद्य् अत्यन्तन्यूनैस् ततः त्रिभिः साक्षिभिः तत्र धनार्थिना भावनीयः ॥ ८.६० ॥

यादृशा धनिभिः कार्या व्यवहारेषु साक्षिणः ।

तादृशान् सम्प्रवक्ष्यामि यथा वाच्यम् ऋतं च तैः ॥ ८.६१ ॥

या इति । यथाविधाः साक्षिण ऋणादानादिव्यवहारेषु उत्तमर्णादिभिः कर्तव्याः तथाविधान् कथयिष्यामि यथा च तैः सत्यं कर्तव्यं तम् अपि प्रकारम् अभिधास्यामि ॥ ८.६१ ॥

गृहिणः पुत्रिणो मौलाः क्षत्रविट्शूद्रयोनयः ।

अर्थ्युक्ताः साक्ष्यं अर्हन्ति न ये केचिद् अनापदि ॥ ८.६२ ॥

गृहिण इति । गृहस्थाः पुत्रवन्तः तद्देशाभिजनाः क्षत्रियवैश्यशूद्रजातीया अर्थिनिर्दिष्टाः सन्तः साक्षित्वयोग्या भवन्ति । ते ऽपि गृहादिपरिभवभयान् नान्यथा ब्रुवते । ननु ये केचिद् ऋणादानाद् अनपक्षे व्यवहारे वाग्दण्डपारुष्यादौ पुनः साक्षेप उक्तगृहादिव्यतिरिक्ता अपि भवन्ति ॥ ८.६२ ॥

आप्ताः सर्वेषु वर्णेषु कार्याः कार्येषु साक्षिणः ।

सर्वधर्मविदो ऽलुब्धा विपरीतांस् तु वर्जयेत् ॥ ८.६३ ॥

आप्ता इति । सर्ववर्णानां व्यवहारेष्व् असंवादिनः सर्वधर्मशाश्त्रज्ञा लोभरहिताः साक्षिनः कार्याः । एतद्विपरीतान् पुनर् वर्जयेद् इत्य् अर्थः । सिद्धस्य तु शब्दाभिधानं दाण्डार्थम्

॥ ८.६३ ॥

नार्थसम्बन्धिनो नाप्ता न सहाया न वैरिणः ।

न दृष्टदोषाः कर्तव्या न व्याध्यार्ता न दूषिताः ॥ ८.६४ ॥

**नेति **। साक्षिणो भयलोभरागद्वेषस्मृतिभ्रंशादिनान्यायाभिधानाशङ्कायां न कार्याः । ऋणाधर्मर्णसम्बन्धिमित्रवैरकृतकौटसाक्षिव्याधिमूर्च्छितमहाव्याधिका दूषिता न कार्याः ॥ ८.६४ ॥

न साक्षी नृपतिः कार्यो न कारुककुशीलवौ ।

न श्रोत्रियो न लिङ्गस्थो न सङ्गेभ्यो विनिर्गतः ॥ ८.६५ ॥

न साक्षीति । राजानन्तत्वाद् व्यवहारदृष्टत्वाच् च शास्त्रधर्मेण च प्रष्टुम् अशक्यत्वान् न साक्षी कर्यः । सूपकारनटादयश् च वेदसन्न्यासिनो गृहस्था एते धर्मपरा न कार्याः नटादयश् च प्रायेणार्थपराः स्वकर्मग्रस्ताश् च व्यग्राश् च ते न कार्याः । श्रोत्रियब्रह्मचारितापसभिक्षवश् च लिङ्गस्थाः सङ्गवर्जिता न कार्याः । श्रोत्रियग्रहणाद् अध्ययनानुष्ठानरहितस्य ब्राह्मणस्य न निषेधः ॥ ८.६५ ॥

नाध्यधीनो न वक्तव्यो न दस्युर् न विकर्मकृत् ।

न वृद्धो न शुशुर् नैको नान्त्यो न विकलेन्द्रियः ॥ ८.६६ ॥

नाध्यधीन इति । अध्यधीनो गर्भदासो ऽत्यन्तपरत्वान् न कार्यः । न वक्तव्यसर्वकर्मदोषाद् गर्हणीयः यः कुत्सादितरत एव वचनादिदस्युर् भृतकसत्युदास इति कर्माणीति नैरुक्तात् सो ऽपि पारतन्त्र्यान् न कार्यः । तस्करस्य तथाभिधास्यमानत्वात् प्रतिषिद्धकर्मकृदनास्वासात् न वृद्धो ऽतिक्रान्तव्यवहारकत्वात् । न शिशुः अव्यवहारकत्वात् । एको ऽपि न नाशप्रवासाशङ्कया तस्य त्र्यवरैर् इति निषेधसिद्धौ कस्याञ्चिद् अवस्थायां द्वयोर् अभ्यनुज्ञानार्थवचनम् । अन्त्यश् चाण्डालादिः धर्मानभिज्ञत्वात् । विकलेन्द्रिय उपलब्धिवैकल्यात् ॥ ८.६६ ॥

नार्तो न मत्तो नोन्मत्तो न क्षुत्तृष्णोपपीडितः ।

न श्रमार्तो न कामार्तो न क्रुद्धो नापि तस्करः ॥ ८.६७ ॥

नार्त इति । आर्तो बन्धुविनाशादिना मत्तो मद्यादिना उन्मत्तो भूताद्याविष्टः क्षुधा पिपासया चाक्रान्तः श्रान्तो ऽध्वगमनादिखिन्नः कामाक्रान्त अत्यन्तक्रोधबुद्धिवैकल्यात् न कार्याश् चौरा अधार्मिकत्वात् ॥ ८.६७ ॥

स्त्रीणां साक्ष्यं स्त्रियः कुर्युर् द्विजानां सदृशा द्विजाः ।

शूद्राश् च सन्तः शूद्राणाम् अन्त्यानाम् अन्त्ययोनयः ॥ ८.६८ ॥

स्त्रीणाम् इति । स्त्रीणां स्त्रियः साक्षिणो भवन्तीति अन्यागोचररहस्यप्रायः स्त्रीकार्यविषयम् इदम् । तत्र पुंसः साक्षित्वे को यस्मान् न गोचर इति नित्याभिधानाशङ्का स्यात् । अन्यत्र ऋणादानादिव्यवहारे तासां पूर्वोक्ता एव साक्षिणो भवन्तीत्य् एव द्विजानाम् इत्य् एवमादाव् अपि द्रष्टव्यम् । द्विजानां ब्राह्मणादीनां समानजातिगुणा द्विजाः शूद्राणां साधवः शूद्राः चाण्डालादीनां तज्जातीया एव भवन्ति ॥ ८.६८ ॥

अनुभावी तु यः कश्चित् कुर्यात् साक्ष्यं विवादिनाम् ।

अन्तर्वेश्मन्य् अरण्ये वा शरीरस्यापि चात्यये ॥ ८.६९ ॥

अनुभावीति । येन गृहाभ्यन्तरे रत्नादिचौरकृतोपद्रवे शरीरोपघाते चातताय्यादिभिः क्रियमाणे ऋणादानादिस्वस्थकार्यवशाच् चोक्तसाक्षिसम्पादनाय शक्ते यः कश्चिद् उपलब्धवान् स वादिनां साक्षी भवति ॥ ८.६९ ॥

स्त्रियाप्य् असम्भवे कार्यं बालेन स्थविरेण वा ।

शिष्येण बन्धुना वापि दासेन भृतकेन वा ॥ ८.७० ॥

स्त्रियेति । अन्तर्वेश्मादौ मनुष्याभावे सति स्त्रीबालवृद्धशिष्यबन्धुदासकर्मकरा अपि साक्षिणो भवन्ति ॥ ८.७० ॥

**बालवृद्धातुराणां च साक्ष्येषु वदतां मृषा । **

जानीयाद् अस्थिरां वाचम् उत्सिक्तमनसां तथा ॥ ८.७१ ॥

नन्व् अस्थिरबुद्धित्वादिकारणावगमे स्त्र्यादीनां साक्ष्यं निषिद्धम् अतो ऽत्रापि कथं तद्वचनान् निश्चय इत्य् अत आह बालवृद्धातुराणाम् इति । बालवृद्धव्याधितानाम् अप्लुतमनसां च मत्तोन्मत्तादीनाम् अनृतं वदताम् अस्थिरा वाग् भवति अतस् तान् साक्ष्ये अनुमानेन “बाह्यैर् विभावयेल् लिङ्गैः” इति जानीयात् ॥ ८.७१ ॥

साहसेषु च सर्वेषु स्तेयसङ्ग्रहणेषु च ।

वाग्दण्डयोश् च पारुष्ये न परीक्षेत साक्षिणः ॥ ८.७२ ॥

सहसेष्व् इति । वस्त्रपाटनाग्निदानादिसर्वेषु साहसेषु चौर्यस्त्रीसङ्ग्रहणवाग्दण्डपारुष्येषु च गृहस्थपुत्रधनादिना साक्षिणो न परीक्षेत । बालार्थसम्बन्धादीनां पुनर् अनुमानपरीक्षा न निषिद्यते । तथा सति नन्व् अनिश्चयभावः बालवृद्धातुरानां चेत्यादेश् चोक्तत्वात् ॥ ८.७२ ॥

बहुत्वं परिगृह्णीयात् साक्षिद्वैधे नराधिपः ।

समेषु तु गुणोत्कृष्टान् गुणिद्वैधे द्विजोत्तमान् ॥ ८.७३ ॥

यत्रार्थिप्रत्यर्थिनः साक्षिणस् तत्र बहुत्वम् इति । साक्षिणः सर्वेषु अधिगतानां परस्परविरुद्धभावे सति बहुभिः यद् उक्तं तद् एवं निर्णयार्थत्वेन प्राड्विवाको गृह्णीयात् । समेषु तूभयोर् उक्तवत्सु गुणवतः प्रमाणी कुर्यात् । गुणवतां विप्रतिपत्ताव् उभयत्र गुणवत्सु ब्राह्मणान् प्रमाणी कुर्यात् ॥ ८.७३ ॥

समक्षदर्शनात् साक्ष्यं श्रवणाच् चैव सिध्यति ।

तत्र सत्यं ब्रुवन् साक्षी धर्मार्थाभ्यां न हीयते ॥ ८.७४ ॥

समक्षदर्शनाद् इति । चक्षुर्ग्राह्ये साक्षाद् दर्शनात् श्रोत्रग्राह्ये च साक्षात् साक्ष्यं सिद्ध्यति तत्र साक्षी सत्यम् अभिवदन् धर्मार्थाभ्यां न मुच्यते सत्यवचनधर्मोत्पादाद् दण्डाभावः ॥ ८.७४ ॥

साक्षी दृष्टश्रुताद् अन्यद् विब्रुवन्न् आर्यसंसदि ।

अवाङ् नरकम् अभ्येति प्रेत्य स्वर्वाच् च हीयते ॥ ८.७५ ॥

साक्षीतिसाक्षी दृष्टश्रुतविपरीतं ब्राह्मणसभायां विरुद्धं वदन्न् अधोमुखो नरकं व्रजति । परलोके धर्मान्तरजनकात् स्वर्गादेश् तत्पापप्रतिबन्धे सति प्रतिहीयते ॥ ८.७५ ॥

यत्रानिबद्धो ऽपीक्षेत श्रुणुयाद् वापि किञ्चन ।

पुष्टस् तत्रापि तद् ब्रूयाद् यथादृष्टं यथाश्रुतम् ॥ ८.७६ ॥

यत्रेति । त्वं मे साक्षी स्या इत्य् एवं निबद्धो ऽपि यत्र किञ्चिद् ऋणादानादि पश्येद् वाक्पारुष्यादि शृणुयात् तत्रापि पृष्टः सन् साक्षी न ह्य् अर्थोपलब्धं कथयेत् ॥ ८.७६ ॥

एको लुब्धस् त्व् असाक्षी स्याद् बहव्यः शुच्यो ऽपि न स्त्रियः ।

स्त्रीबुद्धेर् अस्थिरत्वात् तु दोषैश् चान्ये ऽपि ये वृताः ॥ ८.७७ ॥

**एको ऽउब्धस् त्व् असाक्षीति **। लोभवान् एकः साक्षी न भवत्य् एवं चालुब्धो ऽत्यन्तगुअणवान् कयाञ्चिद् अवस्थायाम् एको भवति । स्त्रियश् च स्थिरचापल्यात् बहव्यो ऽपि अर्थशौचयुक्ता अपि साक्षिण्यो न भवन्त्य् एव ऋणादानादौ स्वस्थे व्यवहारे आत्यन्तिके तूक्तं स्त्रियो ऽप्य् असम्भवे कार्यम् इत्य् एवम् अन्यतो ऽपि ये यैः अशुच्यादिभिर् दोषैः प्राप्तास् ते ऽपि स्वस्थव्यवहारे साक्षिणो न भवेयुः ॥ ८.७७ ॥

स्वभावेनैव यद् ब्रूयुस् तद् ग्राह्यं व्यावहारिकम् ।

अतो यद् अन्यद् विब्रूयुर् धर्मार्थं तद् अपार्थकम् ॥ ८.७८ ॥

**स्वभावेनेति । **असाक्षिणः स्वाभाविकं सत्यरूपं ब्रूयुः । तद्व्यवहारनिर्णयार्थत्वाभाविकात् पुनः यद् अन्यकारणार्थं विरुद्धं ब्रूयुस् तन् निष्प्रयोजनम् अतश् च न ग्राह्यम् ॥ ८.७८ ॥

सभान्तः साक्षिणः प्राप्तान् अर्थिप्रत्यर्थिसन्निधौ ।

प्राड्विवाको ऽनुयुञ्जीत विधिनानेन सान्त्वयन् ॥ ८.७९ ॥

सभान्तर् इति । सभामध्ये साक्षिणः सम्प्राप्तान् अर्थिप्रत्यर्थिसमक्षं राजाधिकृतो ब्राह्मणः प्रियं कुर्वन् वक्ष्यमाणप्रकारेण पृच्छेत् ॥ ८.७९ ॥

यद् द्वयोर् अनयोर् वेत्थ कार्ये ऽस्मिंश् चेष्टितं मिथः ।

तद् ब्रूत सर्वं सत्येन युष्माकं ह्य् अत्र साक्षिता ॥ ८.८० ॥

यद् इति । असम्यक् वस्तु ह्य् अनयोर् अर्थिप्रत्यर्थिनोर् यत् परस्परं वृत्तं जानीध्वे यत् सर्वं सत्येन कथय । तद् युष्माकम् अत्र साक्षात् द्रष्टव्यम् ॥ ८.८० ॥

सत्यं साक्ष्ये ब्रुवन् साक्षी लोकान् आप्नोत्य् अनिन्दितान् ।

इह चानुत्तमां कीर्तिं वाग् एषा ब्रह्मपूजिता ॥ ८.८१ ॥

सत्यम् इति । साक्ष्यकर्मणि सत्यं कथयन् सर्वोत्कृटान् ब्रह्मलोकादीन् इहलोके चाप्य् उत्कृष्टां ख्यातिं प्राप्नोति । यस्माद् एषा सत्यात्मिका वाक् प्रजापतिना पूजिता ॥ ८.८१ ॥

साक्ष्ये ऽनृतं वदन् पाशैर् बध्यते वारुणैर् भृशम् ।

विवशः शतम् आजातीस् तस्मात् साक्ष्यं वदेद् ऋतम् ॥ ८.८२ ॥

साक्ष्य इति । यस्मात् साक्ष्यकर्मणि साक्ष्य् असत्यं कथयन् वरुणसम्बन्धिभिः पाशैः सर्परज्जुभिः परवशः सन् जन्मशतं बाध्यते ऽत्यर्थं तस्मात् साक्ष्ये सत्यम् एव वदेत् ॥ ८.८२ ॥

सत्येन पूयते साक्षी धर्मः सत्येन वर्धते ।

तस्मात् सत्यं हि वक्तव्यं सर्ववर्णेषु साक्षिभिः ॥ ८.८३ ॥

सत्येनेति । यस्मात् सत्येनान्यस्माद् अपि पापकर्मणः साक्षी मुच्यते । धर्मश् चास्य सत्याभिधानेन वृद्धिम् एति । तस्मात् सर्ववर्णविषये साक्षिभिः सत्यं वक्तव्यम् ॥ ८.८३ ॥

आत्मैव ह्य् आत्मनः साक्षी गतिर् आत्मा तथात्मनः ।

मावमंस्थाः स्वम् आत्मानं नृणां साक्षिणम् उत्तमम् ॥ ८.८४ ॥

अत्मेति । यस्मात् शुभाशुभकर्मप्रवृत्तस्यात्मनः चात्मैव साक्षी तथात्मैवात्मनः शरणं तस्माद् एनं स्वम् आत्मानं नराणां मध्याद् उत्तरं साक्षिणम् असत्याभिधानेन भावज्ञासीः केन ममैतद् दृष्टमित्य् एवं बुद्धिं कृत्वा, यत आत्मा तवात्र सर्वसाक्ष्य् उत्तमः साक्षी विद्यते एकस्यैवात्मनः कर्मकर्तव्यापदेशो ऽसत्यनिवृत्त्यर्थः ॥ ८.८४ ॥

मन्यन्ते वै पापकृतो न कश्चित् पश्यतीति नः ।

तांस् तु देवाः प्रपश्यन्ति स्वस्यैवान्तरपूरुषः ॥ ८.८५ ॥

मयन्ते ऽमीति । **तांस् तु देवाः प्रपश्यन्ति स्वस्यैवान्तरपूरुषः **। अस्मान् न कश्चित् पश्यतीत्य् एवं पापवृत्तावबुध्यन्ते न पुनर् वक्ष्यमाणा देवाः पश्यन्ति स्वश् चान्त्रात्मा पश्यति ॥ ८.८५ ॥

द्यौर् भूमिर् आपो हृदयं चन्द्रार्काग्नियमानिलाः ।

रात्रिः सन्ध्ये च धर्मश् च वृत्तज्ञाः सर्वदेहिनाम् ॥ ८.८६ ॥

द्यैर् इति । द्युलोके पृथिव्युदकचन्द्रमादित्याग्निवायुरात्रिसन्ध्याधर्माणाम् इतिहासादिदृष्ट्या विग्रहवद् रूपसद्भावा एते हृदयायतनश् चात्मा यमश् च सर्वशरीरिणाम् आचरितं जानन्ति

॥ ८.८६ ॥

देवब्राह्मणसान्निध्ये साक्ष्यं पृच्छेद् ऋतं द्विजान् ।

उदङ्मुखान् प्राङ्मुखान् वा पूर्वाह्णे वै शुचिः शुचीन् ॥ ८.८७ ॥

**देवब्राह्मणसान्निध्य **इति । आलेख्यादिविन्यस्तोक्तदेवसन्निधाने ब्राह्मणानां समक्षं सभ्यानां यत्नकरणेन सत्यरूपताम् आपन्नं साक्ष्यं द्विजातीन् प्रयतान् उत्तराभिमुखान् पूर्वाभिमुखान् वा प्रयतः सन् प्राड्विवाकः पूर्वाह्णकाले तु पृच्छेत् ॥ ८.८७ ॥

ब्रूहीति ब्राह्मणं पृच्छेत् सत्यं ब्रूहीति पार्थिवम् ।

गोबीजकाञ्चनैर् वैश्यं शूद्रं सर्वैस् तु पातकैः ॥ ८.८८ ॥

ब्रूहीति । **गोबीजकाञ्चनैर् वैश्यं शूद्रं सर्वैस् तु पातकैः **। ब्रूहीत्य् एवं शब्दम् उच्चार्य ब्राह्मणं पृच्छेत् । सत्यम् इत्य् एवम् अभिधाय क्षत्रियम् । गोबीजसुवर्णापहारे यत् पातकं तवानृतवदने स्याद् इत्य् एवं वैश्यम् । शूद्रं वक्ष्यमाणैः पापप्रतिपादकैः शब्दैः पृच्छेत् ॥ ८.८८ ॥

ब्रह्मघ्नो ये स्मृता लोका ये च स्त्रीबालघातिनः ।

मित्रद्रुहः कृतघ्नस्य ते ते स्युर् ब्रुवतो मृषा ॥ ८.८९ ॥

**ब्रह्मघ्नानां स्मृता लोका ये च स्त्रीबालघातिनाम् **इति । ब्राह्मणस्त्रीबालघातिनां ये नरकादिलोका ऋषिभिः स्मृता ये चात्रापकारिणां ये च कृथापकारिणः ते तव च मिथावदतो भवेयुः ॥ ८.८९ ॥

जन्मप्रभृति यत् किञ्चित् पुण्यं भद्र त्वया कृतम् ।

तत् ते सर्वं शुनो गच्छेत् यदि ब्रूयास् त्वम् अन्यथा ॥ ८.९० ॥

जन्मप्रभृतीति । हे कल्याण बाल जन्मप्रभृति यत् किञ्चित् पुण्यं कृतं तत् सर्वं तव सम्बन्धि शुनः फलदं ब्रूयात् यदि त्वम् असत्यं कथयसे ॥ ८.९० ॥

एको ऽहम् अस्मीत्य् आत्मानं यस् त्वं कल्याण मन्यसे ।

नित्यं स्थितस् ते हृद्य् एष पुण्यपापेक्षिता मुनिः ॥ ८.९१ ॥

**एक **इति । हे भद्र एक एवाहं भवान् शरीरमात्रात्मक एव अहम् इत्य् एवंरूपम् आत्मानं यस् त्वं बुध्यसे तन् मैवं मंस्थाः । यस्माद् एव पुण्यपापानां द्रष्टा मुनिस्वरूपतो ऽत्यन्तशुद्धरूपस् तव हृदये नित्यम् अवस्थितः ॥ ८.९१ ॥

यमो वैवस्वतो देवो यस् तवैष हृदि स्थितः ।

तेन चेद् अविवादस् ते मा गङ्गां मा कुरून् गमः ॥ ८.९२ ॥

यम इति । सर्वभूतमयः सविता विवस्वत् पुत्रो यमाख्यो देवो ऽयं लोकतः कर्णगोचरीभूतत्वात् तव हृदये परिस्फुरति तेन सह यवितवाधर्मकारित्वाभावाद् विवादो नास्ति तदा पापनिर्हरणार्थं मा गङ्गां कुरुक्षेत्रं यासीः ॥ ९.९२ ॥

नग्नो मुण्डः कपाली च भिक्षार्थी क्षुत्पिपासितः ।

अन्धः शत्रुगृहं गच्चेद् यः साक्ष्यम् अनृतं वदेत् ॥ ८.९३ ॥

नग्न इति । अन्धः शत्रुगृहं गच्छेद् इति । यः साक्ष्यम् अनृतं ब्रूयात् स नग्नः कृतकेशमुण्डनः परिभावाद् अन्धः क्षुत्तृष्णार्तः कर्पटेण युक्तो भिक्षार्थं शत्रुगृहं गच्छेद् इति साक्षिमात्रविषयत्वेनैतद् उच्यते न शूद्रप्रश्नार्थं मध्यपुरुषनिर्देशाद् एते शपथा बभूवुः ॥ ८.९३ ॥

अवाक्शिरास् तमस्य् अन्धे किल्बिषी नरकं व्रजेत् ।

यः प्रश्नं वितथं ब्रूयात् पृष्टः सन् धर्मनिश्चये ॥ ८.९४ ॥

**अवाग् **इति । यो धर्मनिश्चयनिमित्तं पृष्टः सन् असत्यं प्रश्नं ब्रूयात् स पापी अधोमुखो ऽतिसान्द्रे तमसि नरके पतेत् ॥ ८.९४ ॥

अन्धो मत्स्यान् इवाश्नाति स नरः कण्टकैः सह ।

यो भाषते ऽर्थवैकल्यम् अप्रत्यक्षं सभां गतः ॥ ८.९५ ॥

अन्ध इति । यः सभां प्राप्तः तत् त्व् अस्य विप्रलब्धं मुखलेखभ्रान्त्या चादृष्टं भाषते सो ऽन्ध इव सकण्टकान् मत्स्यान् भक्षयति सः । सुखहेतोर् वर्तमानो दुःखम् एवातिशयं तद् उपार्जयति ॥ ८.९५ ॥

यस्य विद्वान् हि वदतः क्षेत्रज्ञो नातिशङ्कते ।

तस्मिन् न देवाः श्रेयांसं लोके ऽन्यं पुरुषं विदुः ॥ ८.९६ ॥

यस्येति । यस्य वदतः शुभाशुभं सत्यं वदति उतानृतम् इत्य् एवं साशङ्को न भवत्य् अपि निश्चितम् एवार्थं सत्यं वक्तीत्य् एवं निर्विशङ्कस् तस्मात् पुरुषाद् अन्यं प्रशस्यतरं पुरुषं देवा न मन्यन्त इत्य् अर्थः ॥ ८.९६ ॥

यावतो बान्धवान् यस्मिन् हन्ति साक्ष्ये ऽनृतं वदन् ।

तावतः सङ्ख्यया तस्मिन् शृणु सौम्यानुपूर्वशः ॥ ८.९७ ॥

यावन्त इति । यस्मिन् पश्वादिनिमित्ते साक्ष्ये ऽनृतं ब्रुवन् यत्सङ्ख्याकान् मित्रादिबान्धवान् नरकेण योजयति तस्मिन् साक्ष्ये तत्सङ्ख्याकान् क्रमेण सङ्ख्यया मयोच्यमानान् शृणुत इत्य् अतश् च नरकपातनिमित्ताचरणस् तस्यापि नरकं भवति इत्य् उक्तं भवति, तत्र चानृतवादिबान्धवाः स्वार्जितकर्मचरान् नरकम् उपयन्ति । अकृताभ्यागमकृतविप्रणाशचोद्यापत्तिर् यथा विषादिना क्वचित् किञ्चिद् व्यापादयति तत्र प्राग्जन्मार्जितकर्मवशतो ऽसौ तथा म्रियते यथा यम् अपि तं निमित्तभावम् उपगच्छन् फले चात्र निरालम्बनार्थवादमात्रपर्यवसायिता युक्ता अप्रमादाभिधा इति ॥ ८.९७ ॥

पञ्च पश्वनृते हन्ति दश हन्ति गवानृते ।

शतम् अश्वानृते हन्ति सहस्रं पुरुषानृते ॥ ८.९८ ॥

पञ्चेति । पशुविषये ऽनृते पञ्चबान्धवान् नरकेण योजयति दश गोविषये शतम् अश्वविषये सहस्रं पुरुषविषये ॥ ८.९८ ॥

हन्ति जातान् अजातांश् च हिरण्यार्थे ऽनृतं वदन् ।

सर्वं भूम्यनृते हन्ति मा स्म भूम्यनृतं वदीः ॥ ८.९९ ॥

**हन्तीति **। हिरण्यविषये ऽनृतं वदन् जातान् पित्रादीन् अनुजातांश् च पुत्रादीन् आत्मानृतत्वान् नरके यजयति । भूमिविषये चानृतं वदन् सर्वप्राणिजातं योजयति, तस्माद् भूमिविषये ऽनृतं न वदेत् ॥ ८.९९ ॥

अप्सु भूमिवद् इत्य् आहुः स्त्रीणां भोगे च मैथुने ।

अब्जेषु चैव रत्नेषु सर्वेष्व् अश्ममयेषु च ॥ ८.१०० ॥

अप्स्व् इति । उदकविषये ऽनृते स्त्रीणां भोगेषु विषये अब्जेषु पद्मरागादिषु पाषाणमयेषु च सर्ववैडूर्यदिषु अनृते भूमिवद् दोषं आहुः सर्वं हन्तीति ॥ ८.१०० ॥

एतान् दोषान् अवेक्ष्य त्वं सर्वान् अनृतभाषणे ।

यथाश्रुतं यथादृष्टं सर्वम् एवाञ्जसा वद ॥ ८.१०१ ॥

एतान् इति । एतान्सर्वान् अनृतभाषणे दोषान् ज्ञात्वा दृष्टश्रुतानतिक्रमेण सर्वम् एतत् तत्त्वतो ब्रूहि ॥ ८.१०१ ॥

गोरक्षकान् वाणिजकांस् तथा कारुकुशीलवान् ।

प्रेष्यान् वार्द्धुषिकांश् चैव विप्रान् शूद्रवद् आचरेत् ॥ ८.१०२ ॥

गोरक्षकान् इति । गोरक्षकवाणिज्यसूपकारादिकारुकर्मदास्यप्रतिषिद्धजीविनो ब्राह्मणान् साक्षिप्रश्ने शूद्रवत् पृच्छेत् ॥ ८.१०२ ॥

तद् वदन् धर्मतो ऽर्थेषु जाजन्न् अप्य् अन्यथा नरः ।

न स्वर्गाच् च्यवते लोकाद् दैवीं वाचं वदन्ति ताम् ॥ ८.१०३ ॥

तद् वदन्न् इति । तद् एतत् साक्ष्यम् अन्यथा जानन्न् अपि मनुष्यो धर्मेण दयया हेतुभूतयोपाधिरहितो व्यवहारेष्व् अन्यथा ब्रुवन् न स्वर्गात् लोकात् भ्रष्यति यस्माद् एतन्निमित्तविशेषाणाम् अनृताभिधानम् एतां दैवसम्बन्धिनीं वाचं मन्वादयो वदन्ति । अन्ये तु प्राड्विवाकविषयाम् इदं व्याचक्षते प्राड्विवाको गोरक्षकादिषु ब्राह्मणेषु सच्छूद्रप्रश्नं कुर्वन् न धर्महानिं प्राप्नोति ॥ ८.१०३ ॥

शूद्रविट्क्षत्रविप्राणां यत्रर्तोकौ भवेद् वधः ।

तत्र वक्तव्यम् अनृतं तद् धि सत्याद् विशिष्यते ॥ ८.१०४ ॥

क्व पुनस् तद् अनृतं वक्तव्यम् इत्य् अत आह **शूद्रविट्क्षत्रविप्राणां यत्र चैव भवेद् वध **इति । यत्र तत्प्राणसंरक्षणेनेदं चात्यन्तधार्मिकप्रमादस्खलितपुरुषविषयं न त्व् अत्यन्ताधार्मिकविषयम्, तथा च गोतमो नानृतवचने दोषो जीवनं वेत् तदधीनं न तु पायीयसो जीवनम् इत्यादिविषये प्रमाणान्तरेण राजा निर्णयं कुर्यात् न साक्षिभिः न प्रमाणान्तरान् न चैवानुमानादिनात्यन्तं साक्षिपरिङ्षां कुर्यात् । न जातु ब्राह्मणं हन्याद् इति वचनात् कथं ब्राह्मणस्य वध आपतेद् इत्य् आशङ्कनीयं कृतदण्डत्वाद् राज्ञः कथां सम्भवाद् व्यवहारो ऽन्यत्रापि चैवंविधे विषये ऽनृतस्येष्यमाणत्वात् वधस्यामङ्गल्यत्वाच् छूद्रादिक्रमेण निर्देशः ॥ ८.१०४ ॥

वाग्दैवत्यैश् च चरुभिर् यजेतंस् ते सरस्वतीम् ।

अनृतस्यैनसस् तस्य कुर्वाणा निष्कृतिं पराम् ॥ ८.१०५ ॥

**वाग्दैवत्यैर् **इति । वाग् वै सरस्वतीति श्रुतेर् वाक्सरस्वत्योर् ऐक्याद् वाग्देवताकैश् चरुभिः सरस्वतीं ते साक्षिणो ऽनृताभिधायिनस् तस्यासत्यस्य यत् पापं तस्य प्रकृष्टां संसिद्धिं कुर्वाणा यजेरन् । अत्रैके साक्षिणः अपि कपिञ्जलवच् चरुत्रयं आहुस् तद् असद् देवश् चेद् वर्षे बहवो ब्राह्मणा यजेरन् इति । इत्य् एतत् प्रायश्चित्तं कर्तृबहुत्वापेक्षया चरुभिर् इत्य् बहुवचनं व्रात्यस्तोमवद् एषां सम्पाद्य यागास् चोत्पादिताः । अत्र प्रायश्चित्तस्य प्रकरणोत्कर्षो लाधवा तत्र हि क्रियमाणे विट्क्षत्रियविषयान् ऋताभिधाने वृद्ध एतत् कर्तव्यं स्यात् ॥ ८.१०५ ॥

कूष्माण्डैर् वापि जुहुयाद् घृतम् अग्नौ यथाविधि ।

उद् इत्य् ऋचा वा वारुण्या त्र्यृचेनाब्दैवतेन वा ॥ ८.१०६ ॥

कूष्माण्डैर् इति । यद् देवा देवहेडनम् इत्य् एभिर् मन्त्रदेवताकैर् घृअम् अग्नौ परिस्तरणादिहोमविधिना जुहुयात् । उद् उत्तमं वरुणदेवताकया ऋचा आपो हि ष्टेत्य् अनेनाब्देवताकेन जुहुयात् ॥ ८.१०६ ॥

त्रिपक्षाद् ब्रुवन् साक्ष्यम् ऋणादिषु नरो ऽगदः ।

तद् ऋणं प्राप्नुयात् सर्वं दशबन्धं च सर्वतः ॥ ८.१०७ ॥

**त्रिपक्षान् **इति । अव्याधितः साक्षी ऋणादानादिव्यवहारेषु पक्षत्रयं यावत् यदि साक्ष्यं न दद्यात् तदा तद्विवादास्पदीभूतसर्वम् ऋणम् अप्य् उत्तमर्णस्य दद्यात् । तस्माच् च ऋणात् सर्वस्माद् दशमं भागं राज्ञो दण्डं दद्यात् ॥ ८.१०७ ॥

यस्य दृश्येत सप्ताहाद् उक्तवाक्यस्य साक्षिणः ।

रोगो ऽग्निर् ज्ञातिमरणम् ऋणं दाप्यो दमं च सः ॥ ८.१०८ ॥

यस्येति । यस्य साक्षिण उक्तसाक्ष्यस्य सप्ताहस्य मध्यान् निमित्तान्तरं विनापि व्याध्यग्निबन्धुदाहमरणानाम् अन्यतमम् उत्पद्यते सदैव प्रतिपादितमिथ्याभावात् तादृशदण्डं दाप्यः ऋणं च ॥ ८.१०८ ॥

असाक्षिकेषु त्व् अर्थेषु मिथो विवदमानयोः ।

अविन्दंस् तत्त्वतः सत्यं शपथेनापि लम्भयेत् ॥ ८.१०९ ॥

असाक्षिकेष्व् इति । अविद्यमानसाक्षिके परस्परं विवदमानयोः वादिनोस् तत्त्वेन सत्यम् अलभमानः प्राड्विवाकः शपथेन वक्ष्यमाणेन सत्यम् उद्धरेत् ॥ ८.१०९ ॥

महर्षिभिश् च देवैश् च कार्यार्थं शपथाः कृताः ।

वसिष्ठश् चापि शपथं शेपे प्रैजवने नृपे ॥ ८.११० ॥

**महर्षिभिर् **इति । महर्षिभिर् अगस्त्यादिभिर् विशस्तैन्याद् देवैश् चन्द्रादिभिः सन्दिग्धकार्यनिर्णयार्थं शपथा वृताः । वसिष्ठो ऽपि अनेन पुत्रशतं भक्षितम् इत्य् एवं विश्वामित्राकृष्टः पिजवनापत्यै सुदासे राजनि पतिशुद्ध्यर्थं सपथं चकार । न वृथा शपथं चकार ॥ ८.११० ॥

न वृथा शपथं कुर्यात् स्वल्पे ऽप्य् अर्थे नरो बुधः ।

वृथा हि शपथं कुर्वन् प्रेत्य चेह च नश्यति ॥ ८.१११ ॥

नेति । स्वल्पे ऽपि कार्ये विद्वान् मिथ्याशपथं न कुर्यात् । मिथ्याशपथं कुर्वन् इहलोकपरलोकयोर् अकीर्तिः, नरकावाप्त्या च नश्यति ॥ ८.१११ ॥

कामिनीषु विवाहेषु गवां भक्ष्ये तथेन्धने ।

ब्राह्मणाभ्युपपत्तौ च शपथे नास्ति पातकम् ॥ ८.११२ ॥

कामिनीष्व् इति । बहुभार्यस्य नान्याम् अहं कामये त्वं मे प्राणेश्वरीत्य् एवं विधिविषये न च त्वयान्या वोढव्या इत्य् एवंविधे गवार्थं घासापहारे वा सम्भवाद् उपायान्तर एवं शास्त्रिताग्निहोमार्थं चर्वपहारे ब्राह्मणरक्षायां च धनदानादिविषयायां मिथ्याशपथे पातकं न भवति ॥ ८.११२ ॥

सत्येन शापयेद् विप्रं क्षत्रियं वाहनायुधैः ।

गोबीजकाञ्चनैर् वैश्यं शूद्रं सर्वैस् तु पातकैः ॥ ८.११३ ॥

**सत्येनेति **। ब्राह्मणं वादिनं सत्यशब्दोच्चारणेन शापयेत् । क्षत्रियं च वाहनायुधं निष्फलं स्याद् इत्य् एवम् । वैश्यं च गोबीजकाञ्चनादीनि ते निष्फलानि स्युर् इत्य् एवम् । शूद्रं सर्वाणि ते पातकानि स्युर् इत्य् एवं शापयेत् ॥ ८.११३ ॥

अग्निं वाहारयेद् एनम् अप्सु चैनं निमज्जयेत् ।

पुत्रदारस्य वाप्य् एनं शिरांसि स्पर्शयेत् पृथक् ॥ ८.११४ ॥

कार्यगुरुत्वापेक्षया च अग्निम् इति । अग्निवर्णसुवर्णपिण्डं शूद्रम् अश्वत्थपत्रावृतहस्तं याज्ञवल्क्याद्युक्त्येतिकर्तव्यतया सप्तपदानि भावयेत् । अप्सु वा गृहीत्वान्तर्जलं विशेद् इत्य् एवमादितदेतद्युक्त्येतिकर्तव्यतयैव निमज्जयेद् अथ वा पुत्राणां दाराणां च एतस्य शल्य इत्य् एवं पृथग् एकैकस्य शिरांसि स्पर्शयेत् ॥ ८.११४ ॥

यम् इद्धो न दहत्य् अग्निर् आपो नोन्मज्जयन्ति च ।

न चार्त्तिम् ऋच्छति क्षिप्रं स ज्ञेयः शपथे शुचिः ॥ ८.११५ ॥

**यम् **इति । दीप्तो ऽग्निर् यं न दहति आपश् च नोप्लावयन्ति न च समनन्तरम् एव निर्निमित्तां मूर्च्छावस्थां प्राप्नोति स शपतेषु वृद्धो ज्ञेयः ॥ ८.११५ ॥

वत्सस्य ह्य् अभिशस्तस्य पुरा भ्रात्रा यवीयसा ।

नाग्निर् ददाह रोमानि सत्येन जगतः स्पृशः ॥ ८.११६ ॥

अतः पुराकृतार्थवादम् आह वत्सस्येति । यस्मात् पूर्वस्मिन् काले च समाप्ते ऋषे ब्राह्मणो ऽसि शूद्रापुर इत्य् एवं वैमात्रेयेण कनीयसा भ्रात्राक्रुष्टस्य नैतद् एवम् इति शपथार्थम् अग्निप्रविष्टस्य अग्निः सर्वस्य जगतः सदसत्कर्तव्येषु चारभूतः सत्येन हेतुभूतेन लोममात्रम् अपि न दग्धवान् ॥ ८.११६ ॥

यस्मिन् यस्मिन् विवादे तु कौटसाक्ष्यं कृतं भवेत् ।

तत् तत् कार्यं निवर्तेत कृतं चाप्य् अकृतं भवेत् ॥ ८.११७ ॥

यस्मिन्न् इति । यस्मिन् यस्मिन् व्यवहारे साक्षिभिः अनृतम् उक्तं स्यात् तत् तत् कार्यम् अप्य् अकृतं एव प्राड्विवाको निवर्तयेत् । यद् अपि कृतदण्डपर्यन्तं तद् अपि पुनः प्रीक्षयेत् ॥ ८.११७ ॥

लोभान् मोहाद् भयान् मैत्रात् कामात् क्रोधात् तथैव च ।

अज्ञानाद् बालभावाच् च सक्ष्यं वितथम् उच्यते ॥ ८.११८ ॥

लोभाद् इति । लोभविपरीतज्ञानभयमैत्रीकामक्रोधाद् अज्ञानमौर्ख्यैः बालभावात् साक्ष्यम् असत्यम् उच्यते इति दण्डवैचित्र्यार्थो ऽयम् उपन्यासः ॥ ८.११८ ॥

एषाम् अन्यतमे स्थाने यः सक्ष्यम् अनृतं वदेत् ।

तस्य दण्डविशेषांस् तु प्रवक्ष्याम्य् अनुपूर्वशः ॥ ८.११९ ॥

एषाम् इति । एषां लोभादीनाम् अन्यतमस्मिन् निमित्ते सति यो ऽसत्यं साक्ष्यं ब्रूयात् तस्य दण्डविशेषात् क्रमेण वक्ष्यामि ॥ ८.११९ ॥

लोभात् सहस्रं सण्ड्यस् तु मोहात् पूर्वं तु साहसम् ।

भयाद् द्वौ मध्यमौ दण्डौ मैत्रात् पूर्वं चतुर्गुणम् ॥ ८.१२० ॥

लोभाद् इति । लोभेनानृताभिधाने सति पणानां वक्ष्यमाणानां सहस्रं दण्ड्यः । मोहेन प्रथमसाहसं वक्ष्यमाणम् । भयेन वक्ष्यमाणसाहसौ द्वौ । मैत्र्यात् प्रथमसाहसं चतुर्गुणम् ॥ ८.१२० ॥

कामाद् दशगुणं पूर्वं क्रोधात् तु त्रिगुणं परम् ।

अज्ञानाद् द्वे शते पूर्णे बालिश्याच् छतम् एव तु ॥ ८.१२१ ॥

कामाद् इति । कामेनानृतं वदन् प्रथमसाहसं दशगुणं दण्ड्यः । क्रोधेनोत्तमसाहसं वक्ष्यमाणं त्रिगुणम् । अज्ञानेन द्वे शते पणे सम्पूर्णे मअर्ख्येण शतम् एव च ॥ ८.१२१ ॥

एतान् आहुः कौटसाक्ष्ये प्रोक्तान् दण्डान् मनीषिभिः ।

धर्मस्याव्यभिचारार्थम् अधर्मनियमाय च ॥ ८.१२२ ॥

एतान् इति । शास्त्रव्यवस्थाया अपरिलोपार्थम् अव्यवस्थायाश् चोत्पत्तिवारणार्थम् एतान् कूटसाक्षिविषये चिरन्तनैर् विद्वद्भिः प्रोक्तान् दण्डान् मन्वादयः प्राहुः । एतच् च सकृतधिकरणे ॥ ८.१२२ ॥

कौटसाक्ष्यं तु कुर्वाणांस् त्रीन् वर्णान् धार्मिको नृपः ।

प्रवासयेद् दण्डयित्वा ब्राह्मणं तु विवासयेत् ॥ ८.१२३ ॥

कूटसाक्ष्यम् इति । क्षत्रियादीन् त्रीन् वर्णान् कृतकूटसाक्ष्यान् पूर्वोक्तेन दण्डेन दण्डयित्वा धर्मप्रधानो राजा राष्ट्रान् निर्वासयेत् । ब्राह्मणं पुनर् दण्डयित्वा नग्नीकुर्यात् ॥ ८.१२३ ॥

दश स्थानानि दण्डस्य मनुः स्वायम्भुवो ऽब्रवीत् ।

त्रिषु वर्णेषु यानि स्युर् अक्षतो ब्राह्मणो व्रजेत् ॥ ८.१२४ ॥

**दशेति ** । हैरण्यगर्भो मनुर् दशदण्डस्याश्रमयान् उक्तवान् । ये क्षत्रियादिवर्णत्रयविषये भवन्ति ब्राह्मणं पुनर् महत्य् अपि अपराधे अक्षतशरीरं देशान् निर्वासयेत् ॥ ८.१२४ ॥

उपस्थम् उदरं जिह्वा हस्तौ पादौ च पञ्चमम् ।

चक्षुर् नासा च कर्णौ च धनं देहस् तथैव च ॥ ८.१२५ ॥

उपस्थम् इति । लिङ्गाद् एतानि दण्दस्थानानि ततस् तदङ्गापराधे अपराध भूयिष्ठापेक्षया तत् तद् अङ्गापराधतानादिकर्तव्यम् । अल्पापराधे तु धनदण्ड इति ॥ ८.१२५ ॥

अनुबन्धं परिज्ञाय देशकालौ च तत्त्वतः ।

सारापराधौ चालोक्य दण्डं दण्ड्येषु पातयेत् ॥ ८.१२६ ॥

अनुबन्धम् इति । पुनः पुनर् इच्छातो ऽपराधकारणम् अवलोक्य ग्रामारण्यादि चापराधस्थानम् दिवारात्र्यादिकं चापराधकालं सम्यग् अवेक्ष्य सारं चापराधिनो धनशरीरादि सामर्थ्यम् अपराधं च गुरुलघुभावेनालोक्य दण्डनीयेषु दण्डं कुर्यात् इतीदम् उक्तानुक्तदण्डशेषभूतम् ॥ ८.१२६ ॥

अधर्मदण्डनं लोके यशोघ्नं कीर्तिनाशनम् ।

अस्वर्ग्यं च परत्रापि तस्मात् तत् परिवर्जयेत् ॥ ८.१२७ ॥

अधर्मदण्डनम् इति । यस्माद् अनुबन्धाद्य् अनपेक्ष्य दण्डनम् इह लोके यशसो जीवनख्यातेर् नाशम् अनृतस्य च परलोके समनन्तरकपातात् कर्मान्तरार्जितस्वर्गप्रतिबन्धकं तस्मात् तत् परिहरेत् ॥ ८.१२७ ॥

अदण्ड्यान् दण्डयन् राजा दण्ड्यांश् चैवाप्य् अदण्डयन् ।

अयशो महद् आप्नोति नरकं चैव गच्छेति ॥ ८.१२८ ॥

अदण्ड्यान् इति । राजा दण्डानर्हान् दण्डयन् दण्डार्हश् चोत्स्ञ्य महद् अयशः प्राप्नोति नरक्ं च गच्छति ॥ ८.१२८ ॥

वाग्दण्डं प्रथमं कुर्याद् धिग्दण्डं तदनन्तरम् ।

तृतीयं धनदण्डं तु वधदण्डम् अतः परम् ॥ ८.१२९ ॥

वाग्दण्डम् इति । न साधु कृतवान् असि नैवं भूयः कार्षीः इत्य् एवं वाग्निर् भर्त्सनं कर्मभिर् अधर्मापराधे गुणवतः कुर्याद् इति । यदि तु तथा नोपशाम्यति तदा धिग्जाल्मत्वाम् अभिभवति स्तेयं भूयाद् इत्य् एवमादि तस्य कार्यं ततो ऽपि यदि तन्मार्गान् न निवर्तते तदा धनदाण्डं तृतीयं तस्य कुर्यात् । एवम् अपि चेन् नावतिष्ठते अतः परं वधताडनाङ्गच्छेदनादिरूपं तस्य कुर्यात् ॥ ८.१२९ ॥

वधेनापि यदा त्व् एतान् निग्रहीतुं न शक्नुयत् ।

तदैषु सर्वम् अप्य् एतत् प्रयुञ्जीत चतुष्टयम् ॥ ८.१३० ॥

**वधेनेति **। यदा पुनस् तानाङ्गच्छेदनादिनापि एतान् वशीकर्तुं न शक्नुयात् तदैष्व् अपराधिषु एतद् धिग्दण्डादि चतुष्टयम् अपि सर्वं कुर्यत् ॥ ८.१३० ॥

लोकस्ङ्ख्याव्यवहार्थं याः सञ्ज्ञाः प्रथिता भुवि ।

ताम्ररूप्यसुवर्णानां ताः प्रवक्ष्याम्य् अशेषतः ॥ ८.१३१ ॥

लोकसंव्यवहारार्थम् इति । ताम्ररूप्यसुवर्णानां पणादिसञ्ज्ञा क्रयविक्रयलोकव्यवहारार्थं पृथिव्यां विशेषेणाभिधास्याम्य् उपयोगार्थं दण्डादेः ॥ ८.१३१ ॥

जालान्तरगते भानौ यत् सूक्ष्मं दृश्यते रजः ।

प्रथमं तत् प्रमाणानां त्रसरेणुं प्रचक्षते ॥ ८.१३२ ॥

त्रसरेणवो ऽष्टौ विज्ञेया लिक्षैका परिमाणतः ।

ता राजसर्षपस् तिस्रस् ते त्रयो गौरसर्षपः ॥ ८.१३३ ॥

सर्षपाः षट् यवो मध्यस् त्रियवं त्व् एककृष्णलम् ।

पञ्चकृष्णलिको माषस् ते सुवर्णस् तु षोडश ॥ ८.१३४ ॥

पलं सुवर्णाश् चत्वारः पलानि धरणं दश ।

द्वे कृष्णले समधृते विज्ञेयो रूप्यमाषकः ॥ ८.१३५ ॥

ते षोडश् स्याद् धरणं पुराणश् चैव राजतः ।

कार्षापणस् तु विज्ञेयस् ताम्रिकः कार्षिकः पणः ॥ ८.१३६ ॥

धरणानि दश् विज्ञेयः शतमानस् तु राजतः ।

चतुःसौवर्णिको निष्को विज्ञेयस् तु प्रमाणतः ॥ ८.१३७ ॥

जालान्तरगत इति । त्रसरेणव इति । सर्षपा इति । **पलम् **इति । **त **इति । **धरणानीति । **गवाक्षादिप्रविष्टाभिर् आदित्यरश्मिषु यद् रजो दृश्यते तत् त्रसरेणुः । ते ऽष्टौ लिक्षैका प्रमाणेन विज्ञेया ताः लिक्षास् तिस्रो राजसर्षपः । ते त्रयः गौरसर्षपः । ते षट् यवो मध्यमः न स्थूलो नापि सूक्ष्मः त्रिभिर् यवैः कृष्णलम् । पञ्चभिः कृष्णलैः माषः । षोडश माषाः सुवर्णः । चत्वारः सुवर्णाः पलम् । दशपणा धरणम्, कृष्णलद्वयं तुलया धृतं रूप्यमाषको बोधव्यः । षोडशरूप्यमयमाषकाः रूप्यं धरणं पुराणं वोच्यते । राजतो रूप्यसम्बन्धी कर्षप्रमाणः ताम्रमयः कार्षापणः इति विज्ञेयः दशरूप्यधरणानि रूप्यशतमानो बोद्धव्यः चतुर्भिः सुवर्णैर् निष्कः प्रमाणेन विज्ञेयः ॥ ८.१३२–१३७ ॥

पणानां द्वे शते सार्धे प्रथमः साहसः स्मृतः ।

मध्यमः पञ्च विज्ञेयः सहस्रं त्व् एव चोत्तमः ॥ ८.१३८ ॥

पणानाम् इति । सार्धे द्वे शते पणानां प्रथमः साहसो मन्वादिभिः मृतः, पञ्चपणशतानि मध्यमो विज्ञेयः, सहस्रं त्व् एवं चोत्तमः ततः सहस्र एव ॥ ८.१३८ ॥

ऋणं देये प्रतिज्ञाते पञ्चकं शतम् अर्हति ।

अपह्नवे तद्द्विगुणं तन् मनोर् अनुशासनम् ॥ ८.१३९ ॥

ऋण इति । देयं मयोत्तमर्णस्य ऋणम् इत्य् एवम् अधमर्णेन सभायाम् उक्ते सत्य् असौ अधमर्णः पणशतात् पञ्चपणा इत्य् एवं दण्डम् अर्हति । न किञ्चिद् अस्मै दारयामीत्य् एवम् अपह्नुते सति दशकशतं दण्डम् अर्हति । एतन् मनुस्मृतं दण्डम् ॥ ८.१३९ ॥

वसिष्ठविहितां वृद्धिं सृजेद् वित्तविवर्द्धिनीम् ।

अशीतिभागं गृह्णीयान् मासाद् वार्धुषिकः शते ॥ ८.१४० ॥

वसिष्ठविहिताम् इति । वसिष्ठोक्तां वृद्धिं धर्मत्वाद् धनवृद्धिकरीं वृद्धिजीव्य् उत्पादयेत् । साकल्यत आह अशीतिभागम् इति । शते प्रयुक्ते मासाद् गतात् तस्माच् छताद् अशीतिभागं वृद्ध्यर्थं गृह्णीयात् ॥ ८.१४० ॥

द्विकं शतं वा गृह्णीयात् सतां धर्मम् अनुस्मरन् ।

द्विकं शतं वा हि गृह्णानो न भवत्य् अर्थकिल्बिषी ॥ ८.१४१ ॥

द्विकम् इति । पणशताद् वा मासेन द्वौ पणौ पूर्ववृद्ध्या च जीवन् साधूनाम् अर्थधर्मः नाधर्म इति मन्यमानो गृह्णीयात् । यस्मात् द्विकं शतं गृह्णन् परस्वादानपापयुक्तो न भवति ॥ ८.१४१ ॥

द्विकं त्रिकं चतुष्कं च पञ्चकं च शतं समम् ।

मासस्य वृद्धिं गृह्णीयाद् वर्णानाम् अनुपूर्वशः ॥ ८.१४२ ॥

द्विकम् इति । ब्राह्मणादिवर्णानां क्रमेण द्विकत्रिकचतुष्कपञ्चशतं समम् अन्यूनाधिकं मासस्य सम्बन्धिवृद्धिं गृह्णीयात् ॥ ८.१४२ ॥

न त्व् एवाधौ सोपकारे कौसीदीं वृद्धिम् आप्नुयात् ।

न चाधेः कालसंरोधान् निसर्गो ऽस्ति न विक्रयः ॥ ८.१४३ ॥

न त्व् इति । भोजनार्थबन्धे दत्ते धनप्रयोगाभावानन्तरोक्ता या वृद्धिस् ताम् उत्तर्मर्णो न लभते । न च वृद्धिदत्तस्य बन्धस्य द्विगुणीभूत धनकालाद् ऊर्ध्वम् अव्यवस्थानाद् अन्यत्र बन्ध वेतनत्वेनार्थम् अस्ति नापि विक्रयो ऽपि द्विगुणीभूतधनकालाद् ऊर्ध्वं समोक्षणाद् आधिर् भुज्यत एव अन्यथा धनप्राप्त्यभावात् ॥ ८.१४३ ॥

न भोक्तव्या बलाद् आधिर् भुञ्जानो वृद्धिम् उत्सृजेत् ।

मूल्येन तोषयेच् चैनम् आधिस्तेनो ऽन्यथा भवेत् ॥ ८.१४४ ॥

**न भोक्तव्य **इति । मा भुङ्क्ष्वेति स्वामिवचनम् अवगणयन् यद्लाभाद् धनं न भुञ्जीत तथा भुञ्जानो वृद्धिं नाप्नुयात् यदि भोगेन बन्धः क्षयं यातस् तदा अक्षतबन्धसम्बन्धिमूल्येन बन्धस्वामिनं तोषयेद् अन्यथा बन्धचौरः स्यात् ॥ ८.१४४ ॥

आधिश् चोपनिधिश् चोभौ न कालात्ययम् अर्हतः ।

अवहार्यौ भवेतां तौ दीर्घकालम् अवस्थितौ ॥ ८.१४५ ॥

आधिर् इति । बन्धः प्रीतिभोग्यश् च पदार्थ एतौ द्वौ कालातिक्रमणं नार्हतो ऽपि तु प्राप्ते काले स्वामिना प्रत्याहरणीयौ यस्मात् तस्मात् तौ दीर्घकालम् अन्यहस्तावस्थितौ आधित्वोपनिधित्वात् साक्ष्याद्यभावेन हारयितुं शक्याव् इति सुहृदुपदेशरूपतयैवेदं न कदाचिद् अपि ह्रियते आधिःसीमेत्य् अपहारस्य वक्ष्यमाणत्वात् ॥ ८.१४५ ॥

सम्प्रीत्या भुज्यमानानि न नश्यन्ति कदाचन ।

धेनुर् उष्ट्रो वहन्न् अश्वो यश् च दम्यः प्रयुज्यते ॥ ८.१४६ ॥

**सम्प्रीत्येति **। दोग्ध्री गौर् उष्ट्रो वहंश् चाश्व एते प्रीत्या अन्योन्यं भुज्यमाना न कदाचिद् अपि स्वामिनो ऽपहार्यन्ते । अश्वादिदमनार्थं दमनस्य दीयते सम्प्रीत्या भुज्यमानानीति सामान्योपक्रमविशेषाभिधानम् ॥ ८.१४६ ॥

यत् किञ्चिद् दशवर्षाणि सन्निधौ प्रेक्षते धनी ।

भुज्यमानं परैस् तूष्णीं न स तल् लब्धुम् अर्हति ॥ ८.१४७ ॥

यद् इति । यत् किञ्चिद् धनजातं समक्षम् एवान्यैर् दशवर्षाणि भुज्यमानं धनस्वामी तूष्णीं प्रतीक्षते किम् एतन् मा मैवं भुङ्क्ष्वेति न प्रतिबध्नाति नासौ तत् पुनर् न्यायेन स्वीकर्तुम् अर्हति ॥ ८.१४७ ॥

अजडश् चेद् अपोगण्डो विषये चास्य भुज्यते ।

भग्नं तद् व्यवहारेण भोक्ता तद् धनम् अर्हति ॥ ८.१४८ ॥

अजड इति । निधानस्वामी यदि बुद्धिविकलो न भवति बालो वा, अस्य च तस्मिन्न् एव देशे व्यवस्थितस्यान्येन तदीयं भुज्यते तद् धनं व्यवहारेण भग्नं स्वामिनस् तत्र विवादो न भवति । यतो भोक्तैव तद् धनम् अर्हति । व्यवहारेण भग्नम् इति वचनाद् धर्मेण तत्स्वामिन एव सर्वदा स्वम् एवं चायं पूर्वशेषश्लोकः ॥ ८.१४८ ॥

आधिः सीमा बालधनं निक्षेपोपनिधिः स्त्रियः ।

राजस्वं श्रोत्रियस्वं च न भोगेन प्रणश्यति ॥ ८.१४९ ॥

आधिर् इति । बन्धः क्षेत्रग्रामादिमर्यादा बालधनं निक्षेपः । प्रीतिभोग्यं दास्यो राजश्रोत्रियदनादि उक्तेन दशवर्षभोग्येन स्वामिनो नापहारयितुं चास्य दशवर्षं भोग्यद्रव्यापवादत्वाद् बन्धादीनां चाल्पकालभोग्यत्वेन नेहाननुप्रवेशाशङ्कास्थानं प्रीत्या भुज्यमानानीति पृथग् वचनम् ॥ ८.१४९ ॥

यः स्वामिनाननुज्ञातम् आधिं भुङ्क्ते विचक्षणः ।

तेनार्धवृद्धिर् भोक्तव्या तस्य भोगस्य निष्कृतिः ॥ ८.१५० ॥

इति । यो वृद्धिदत्तं धनं भोगेनाविनश्यरूपं स्वामिनाननुज्ञातो मूर्खो रहसि भुङ्क्ते बलभोगेन भोक्तव्यो बलावधिर् इत्युक्तान्तेन तस्य शुद्ध्यर्थम् अर्धवृद्धिस् त्यक्तव्या ॥ ८.१५० ॥

कुसीदवृद्धिर् द्वैगुण्यं नात्येति सकृदाहिता ।

धान्ये सदे लवे वाह्ये नातिक्रामति पञ्चताम् ॥ ८.१५१ ॥

कुसीदवृद्धिर् इति । या वृद्ध्यर्थप्रयुक्तधनसम्बन्धिनी वृद्धिर् अतिभूयस्यकाले गते सकृदधमर्णाद् आनीता शनैः शनैः मासं प्रत्यक्षं वासौ द्वैगुण्यं नातिक्रामति मूलद्विगुणैव भवति न ततो ऽधिका लभ्यते धान्ये पुनर् वृद्धिप्रयुक्ते सहे वा वृक्षफले लवे वा ऊर्णमये वाहनीये च बलीवर्दादौ प्रयुक्ते भूयस्य् अपि कालगते सकृद् अधमर्णाद् आहृता सती मूलधान्यादिना सह पञ्चगुणतां नातिक्रामति ॥ ८.१५१ ॥

कृतानुसाराद् अधिका व्यतिरिक्ता न सिद्ध्यति ।

कुसीदपथम् आहुस् तं पञ्चकं शतम् अर्हति ॥ ८.१५२ ॥

कृतानुसाराद् इति । गृहीतृनृगतम् अर्थिताविशेषम् उत्तमर्णेन विज्ञाय उक्तवृद्धिर् अधिका वृद्धिः कृता सतीयतः शास्त्रबाह्या सा च नो सिद्ध्यति । प्रतिषिद्धवृद्धिमार्गैः किलैनं शिष्टाः प्राहुः । यदि परं शूद्रविषये यद् उक्तं पञ्चकं शतं तद् असाव् उत्तमर्णो द्विजातेर् आदातुम् अर्हति । शूद्रविट्क्षत्रियदिव्जातेर् अप्य् आदतुम् अर्हति ॥ ८.१५२ ॥

नातिसांवत्सरीं वृद्धिं न चादृष्टां विनिर्हरेत् ।

चक्रवृद्धिः कालवृद्धिः कारिता कायिका च या ॥ ८.१५३ ॥

नातिसंवत्सरीम् इति । यदि द्वयोर् वा त्रयाणां वर्षाणां रूपकान् न गृह्णाति ततो ददाति । यातु संवत्सरम् अतिक्रान्ता वृद्धिस् तां न गृह्णीयात् । चक्रवत् गन्त्र्यादियानप्रयोगे सति या वृद्धिः सा चक्रवृद्धिः । सा पूर्वोक्तवृद्धेर् अधिकापि स्याद् इत्य् एवं नानुज्ञाता सा चार्यस्याभिमता प्रथमानिर्देशाण् न विनिहरेद् इत्य् एतत् सम्बन्धाभावाच् चक्रवृद्धिसमारूढ इति च वक्ष्यमाणत्वाद् अत एव चेह वृद्धेर् वृद्धिश् चक्रवृद्धिर् इत्य् एवमादिका चक्रवृद्धिशब्देनोच्यते । अपि तु ग्रन्थाश्रिते वा कालिका प्रतिमासं तु कालिकेति स्मरणान् मासि ग्राह्याः । कारितेच्छा कृता परस्परापेक्षया वणिक् प्रभृतीनां स्याद् अन्येषां पुनः कृतानुसाराद् अधिकेत्य् उक्तम् । कायिका कायकर्मसङ्ख्यावाच्या स्यात् ॥ ८.१५३ ॥

ऋणं दातुम् अशक्तो यः कर्तुम् इच्छेत् पुनः क्रियाम् ।

स दत्वा निर्जितां वृद्धिं करणं परिवर्तयेत् ॥ ८.१५४ ॥

ऋणम् इति । यो ऽधर्मर्णो धनदानासामर्थ्यात् आनीतं स्याद् इति क्रियां कर्तुम् इच्छेत् आनीतां वृद्धिं दत्वा करणं लेख्यादि पुनः कुर्यात् ॥ ८.१५४ ॥

अदर्शयित्वा तत्रैव हिरण्यं परिवर्तयेत् ।

यावती सम्भवेद् वृद्धिस् तावतीं दातुम् अर्हति ॥ ८.१५५ ॥

अदर्शयित्वेति । दौर्गत्याद् वृद्धिहिरण्यम् अप्य् अदत्वा तत्रैव पुनः क्रियमाणे लेख्यादौ तद् आरोपयेत् ॥ ८.१५५ ॥

चक्रवृद्धिं समारूढो देशकालव्यवस्थितः ।

अतिक्रामन् देशकालौ न तत्फलम् अवाप्नुयात् ॥ ८.१५६ ॥

चक्रवृद्धिम् इति । भाटकपूर्वकं गन्त्र्यादिदानेन गन्त्र्यादिवृद्धिम् आश्रित्य उत्तमर्णो देशकालव्यवस्थितस्य गतदेशकालविशेषस् तौ देशकालौ देयादेयपरिपूरयंस् तद्गन्त्रीं वहनलाभं न प्राप्नोति ॥ ८.१५६ ॥

समुद्रयानकुशला देशकालार्थदर्शिनः।

स्थापयन्ति तु यां वृद्धिं सा तत्राधिगमं प्रति ॥ ८.१५७ ॥

समुद्रयानकुशला इति । वार्यध्वयानकुशला अस्मिन् देशे काले ऽस्मिन्न् अर्थे हिरण्यादिक उह्यमाने अयं लाभ इत्य् एवमादिवेतनो वणिक्प्रभृतयो यां वृद्धिं तथाविधविषये निरूपयन्ति सा तत्र निश्चयार्थं विज्ञेया ॥ ८.१५७ ॥

यो यस्य प्रतिभूस् तिष्ठेद् दर्शनायेह मानवः ।

अदर्शयन् स तं तस्य यतेत स्वधनाद् ऋणम् ॥ ८.१५८ ॥

इति । अदर्शयन् मतं तस्य यतेत स्वधनाद् ऋणम् । प्रतिभूः दानकाले मय अयं दर्शनीय इत्य् एवं धनं प्रयोगकाले ऽन्यदा च यो यस्याधर्मर्णस्योत्तमर्णप्रतिभूत्वेन तिष्ठेत् । स तम् अधर्मर्णं तस्मिन् काले उत्तमर्णस्यादर्शयन् स्वधना ऋणदानं यतेत ॥ ८.१५८ ॥

प्रातिभाव्यं वृथा दानम् आक्षिकं सौरिकं च यत् ।

दण्डशुल्कावशेषं च न पुत्रो दातुम् अर्हति ॥ ८.१५९ ॥

प्रातिभाव्यम् इति । प्रतिभुवा यद् देयं वृथा दानं पारितोषिकादि यत् पित्रा देयत्वेनाङ्गीकृतं द्यूतसमाह्व्याभ्यां यज् जितं पित्रा सुरापानादि यद् ध्वजिनः सुरामूल्यं दण्डशेषं शुल्कशेषं च यत् पितृसम्बन्धि पितरि मृते पुत्रो दातुं नार्हति ॥ ८.१५९ ॥

दर्शनप्रातिभाव्ये तु विधिः स्यात् पूर्वचोदितः ।

दानप्रतिभुवि प्रेते दायादान् अपि दापयेत् ॥ ८.१६० ॥

दर्शनप्रातिभाव्य इति । यो यं प्रातिभाव्यं न पुत्रो दातुम् अर्हतीति पुरोक्तविधिः स दर्शनप्रतिभूकर्मणि पितृकृते विज्ञेयो दानर्थं पुनः यः प्रतिभूः स्थितः तस्मिन् मृते रिक्थभाजो ऽपि दापयेत् कुम् उत पुत्रान् ॥ ८.१६० ॥

**अदातरि पुनर् दाता विज्ञातप्रकृताव् ऋणम् । **

पश्चात् प्रतिभुवि प्रेते परीप्सेत् केन हेतुना ॥ ८.१६१ ॥

**अदातरीति **। तद्ग्रहणपूर्वकत्वे ऽयं प्रतिभूः स्थित इत्य् एवं विज्ञातप्रातिभाव्यकरणे पुनर्दर्शनत्वप्रत्ययप्रतिभुवि प्रेते सत्य् अनन्तरं धनप्रयोक्ता केन हेतुना प्रतिभूपुत्राद् धनं प्राप्तुम् इच्छेत् किं तस्य प्राप्तिहेतुर् विद्यते उत नेति यतो ऽसौ दानप्रतिभूपुत्रो न भवत्य् अत प्राप्त्याशङ्का विद्यते । यतस् तु धनग्रहणे पूर्वकं तत्पितादर्शनप्रतिभूर् वा स्थितो ऽस्ति तत्पुत्रात् प्राप्त्याशङ्का ॥ ८.१६१ ॥

निरादिष्टधनश् चेत् तु प्रतिभूः स्याद् अलन्धनः ।

स्वधनाद् एव तद् दद्यान् निरादिष्ट इति स्थितिः ॥ ८.१६२ ॥

एवं सन्देहम् उपन्यस्येदम् आह निरादिष्टधन इति । असौ दर्शनप्रतिभूः प्रत्ययप्रतिभूर् वा यदि निसृष्टधनो भवति । भव्प्रतिभूर् इदं ते विश्वासार्थं धनम् इत्य् एवं प्राप्तधनश् च यावत्य् असौ प्रतिभूः स्थितः तावत् प्रमाणं तस्य् अहस्ते दत्तं तदा स्वधनाद् एव तद् धनं निरादिष्टपुत्रः प्रकृतम् उत्तमर्णाय दद्याद् इति शास्त्रमर्यादा ॥ ८.१६२ ॥

मत्तोन्मत्तार्ताध्यधीनैर् बालेन स्थविरेण वा ।

असम्बद्धकृतश् चैव व्यवहारो न सिद्ध्यति ॥ ८.१६३ ॥

**मत्तोन्मत्तार्तान्य्धीनैर् **इति । क्षीबोन्न्मत्तव्याध्याद्युपहतचित्तगर्भदासबालातिवृद्धैः असम्बद्धेन पितृभ्रातृनियुक्तादिव्यतिरेकेण यो व्यवहारः ऋणदानादि कृतः न सिद्ध्यति ॥ ८.१६३ ॥

सत्या न भाषा भवति यद्य् अपि स्यात् प्रतिष्ठिता ।

बहिश् चेद् भाष्यते धर्मान् नियताद् व्यावहारिकात् ॥ ८.१६४ ॥

**भाषा न सत्या भवतीति **। मया इदं तवानुष्ठेयम् इत्यादिका परिभाषा लेख्याद्युपनिबन्धने यद्य् अपि स्थिरीकृता भवति तथापि यद्य् अनादिपारम्पर्यायाता लोकशास्त्रव्यवहारवर्तिनो धर्माद् बहिर् भासते । तद्विरुद्धा निरूप्यते तदा सत्या न भवति न तदीयार्थानुष्ठेयम् ॥ ८.१६४ ॥

योगाधमनविक्रीतं योगदानप्रतिग्रहम् ।

यत्र वाप्य् उपधिं पश्येत् तत् सर्वं विनिवर्तयेत् ॥ ८.१६५ ॥

योगाधमनविक्रीतम् इति । उपाधिना ये बन्धविक्रयदानप्रतिग्रहाः क्रियन्ते न ग्रहणादि तान् राजा विनिवर्तयेत् कृतान् अकृतान् कुर्यात् । तथान्यत्रापि निक्षेपादौ यत्र छद्मार्थं करणं जानीयान् न वस्तुतो निक्षेपादि कृतं विनिवर्तयेत् ॥ ८.१६५ ॥

ग्रहीता यदि नष्टः स्यात् कुटुम्बार्थे कृतो व्ययः ।

दातव्यं बान्धवैस् तत् स्यात् प्रविभक्तैर् अपि स्वतः ॥ ८.१६६ ॥

ग्रहीतेति । अविभक्तो विभक्तो वा भ्रात्रादिसाधारणकुटुम्बव्ययार्थं विभक्तभातृकुटुम्बव्ययार्थं च ऋणं गृहीत्वा कुटुम्बव्ययकृत् मृतो बाधितो वा तदा तद् ऋणं अविभक्तैर् विभक्तैर् वा ऋक्थिभिः स्वधनाद् दातव्यम् ॥ ८.१६६ ॥

कुटुम्बार्थे ऽध्यधीनो ऽपि व्यवहारं यम् आचरेत् ।

स्वदेशे वा विदेशे वा तं ज्यायान् न विचालयेत् ॥ ८.१६७ ॥

कुटुम्बार्थ इति । कुटुम्बार्थे धनिनो ऽपि व्यवहारं समाचरन् स्वदेशे विदेशे वा गतं सन्तं आगच्छन्तं प्रीक्षयेत् ॥ ८.१६७ ॥

बलाद् दत्तं बलाद् भुक्तं बलाद् यच् चापि लेखितम् ।

सर्वान् बलकृतान् अर्थान् अकृतान् मनुर् अब्रवीत् ॥ ८.१६८ ॥

बलाद् इति । बलाद् दत्तं कुत्सितकन्यादि, बलाद् भुक्तं क्षेत्रादि बलाच् च लेखितं पत्रादीत्य् एवमादीन् सर्वान् बलकृतान् अर्थान् निवर्तनीयान् मनुर् आह ॥ ८.१६८ ॥

त्रयः परार्थे क्लिश्यन्ति साक्षिणः प्रतिभूः कुलम् ।

चत्वारस् तूपचीयन्ते विप्र आढ्यो वणिङ् नृपः ॥ ८.१६९ ॥

त्रय इति । साक्षिणः प्रतिभुवो धर्मद्रष्टारो त्रयः क्लिश्यन्ते क्लेशम् अनुभवन्त्य् एते । ह हठाद् एते साक्ष्यादिकारयितव्याः । चत्वारः पुनः ब्राह्मणोत्त्मर्णवणिग्राजानः परार्थदानफलोत्पादनोद्यमे धनार्पनविक्रयव्यवहारेण उपकुर्वाणा धनोपचयं प्राप्नुवन्ति । तस्मान् नैव हठाद् अनाग्रहणक्रयव्यवहारकरणेषु दात्रधमर्णके व्यवहारे प्रवर्तनीयाः ॥ ८.१६९ ॥

अनादेयं नाददीत परिक्षीणो ऽपि पार्थिवः ।

न चादेयं समृद्धो ऽपि सूक्ष्मम् अप्य् अर्थम् उत्सृजेत् ॥ ८.१७० ॥

अनादेयम् इति । क्षीणकोशो ऽपि राजा अग्राह्यं न गृह्णीयात् । समृद्धो ऽपि अल्पम् अपि ग्राह्यम् अर्थं न परित्यजेत् ॥ ८.१७० ॥

अनादेयस्य चादानाद् आदेयस्य च वर्जनात् ।

दौर्बल्यं ख्याप्यते राज्ञः स प्रेत्येह च नश्यति ॥ ८.१७१ ॥

**अनादेयस्येति **। अग्राह्यग्रहणात् ग्राह्यपरित्यागाच् चाशक्तान् असद्दण्डे योजयति । शक्तानां पुनः प्रकृतम् अप्य् उपेक्षते भीरुतयेत्य् एवं पौरैर् दौर्बल्यं राज्ञः प्रकाश्यते स चादेयादाने अस्वधर्मोत्पादप्रकृतिकोपाभ्याम् आदेयवर्जनएन च क्षीणकोशतया राज्यविनाशाद् इहलोकपरलोकयोर् विनश्यति ॥ ८.१७१ ॥

स्वादानाद् वर्णसंसर्गात् त्व् अबलानां च रक्षणात् ।

बलं सञ्जायते राज्ञः स प्रेत्येह च वर्धते ॥ ८.१७२ ॥

स्वादानाद् इति । बलान् ख्याप्यते राजा स प्रेत्येह च वर्धते । न्याय्यधनग्रहणाद् वर्णानां समानजातीयैर् वर्णैः स्त्रीषु च सम्बन्धाद् दुर्बलानां च बलवद्भ्यो रक्षणाद् बलवान् इति राजा लोके कथ्यते । अतश् चासाव् इह(पर)लोकयोर् वर्धते ॥ ८.१७२ ॥

तस्माद् यम इव स्वामी स्वं हित्वा प्रियाप्रिये ।

वर्तेत याम्यया वृत्या जितक्रोधो जितेन्द्रियः ॥ ८.१७३ ॥

यतः तस्माद् इति । तस्माद् यम इव राजा वशीकृतक्रोधेन्द्रिय आत्मनश् च प्रियाप्रिये परिहृत्य यमसम्बन्धिन्या चेष्टया रिपुमित्रसाम्यत्वेन वर्तते (वर्तेत) ॥ ८.१७३ ॥

यस् त्व् अधर्मेण कार्याणि मोहात् कुर्यान् नराधिपः ।

अचिरात् तं दुरात्मानं वशे कुर्वन्ति शत्रवः ॥ ८.१७४ ॥

**य **इति । यः पुनर् नृपो लोभादिव्यामूढतयाधर्मेण व्यवहारधर्शनादीनि कार्याणि कुरुते, तम् अधर्मप्रकृतत्वात् क्षिप्रम् एव शत्रवश् चासादयन्ति ॥ ८.१७४ ॥

कामक्रोधौ तु संयम्य यो ऽर्थान् धर्मेण पश्यति ।

प्रजास् तम् अनुवर्तन्ते समुद्रम् इव सिन्धवः ॥ ८.१७५ ॥

कामक्रोधाव् इति । यश् च द्वेषपरित्यागेन राजा धर्मेण कार्याणि निवारयति तं नद्य इव समुद्रं प्रजाः सम्भजन्ते तन् मनसश् च भवन्ति ॥ ८.१७५ ॥

यः साधयन्तं छन्देन वेदयेद् धनिकं नृपे ।

स राज्ञा तच्चतुर्भागं दाप्यस् तस्य च तद् धनम् ॥ ८.१७६ ॥

इति । स राज्ञर्णचतुर्भागं दण्डार्थं तस्य तद् धनम् । यो ऽधमर्णो राजवल्लभाभिमानी सामादिना साधयन्तम् उत्तमर्णं नृपे निवेदयेत्, स राज्ञा ऋणचतुर्भागं दण्डार्थं तस्य तद् धनं दापनीयः ॥ ८.१७६ ॥

कर्मणापि समं कुर्याद् धनिकायाधमर्णिकः ।

समो ऽवकृष्टजातिस् तु दद्याच् छ्रेयांस् तु तच् छनैः ॥ ८.१७७ ॥

कर्मणेति । समहीनजातिश् चाधर्मर्णो धनाभावे सति स्वजात्यनुरूपकर्म कारयितव्यो ऽपि तु शनैः तद् धनं यथासम्भवं दद्यात् ॥ ८.१७७ ॥

अनेन विधिना राजा मिथो विवदतां नृणाम् ।

साक्षिप्रत्ययसिद्धानि कार्याणि समतां नयेत् ॥ ८.१७८ ॥

अनेनेति । परस्परं विवदमानयोर् अर्थिप्रत्यर्थिनोर् अनेनोक्तप्रकारेण राजा साक्षिनिर्णीतानि अनुमानशपथादिप्रत्ययनिर्णीतानि कार्याण्य् अर्थिप्रथ्यर्थिविप्रतिपत्तिरोधेन समीकुर्यात् ॥ ८.१७८ ॥

कुलजे वृत्तसम्पन्ने धर्मञ्जे सत्यवादिनि ।

महापक्षे धनिन्यार्ये निक्षेपं निक्षिपेद् बुधः ॥ ८.१७९ ॥

कुलज इति । महाजने आचारवर्तिनि धर्मज्ञे सत्यवादिनि बहुसुहृत्सुजनके धनवति ऋजुप्रकृतौ मनुष्ये व्यभिचाराभावान् निक्षेपं छादयेत् (स्थापयेत्) इति सुहृदुपदेशो ऽयं दृष्टार्थः ॥ ८.१७९ ॥

यो यथा निक्षिपेद् धस्ते यम् अर्थं यस्य मानवः ।

स तथैव ग्रहीतव्यो यथा दायस् तथा ग्रहः ॥ ८.१८० ॥

इति । यो मनुष्यो येन प्रकारेण समुद्रं वा ससाक्षिकम् असाक्षिकं वा यद् अर्थं सुवर्णादिकं यस्य हस्ते निक्षिपेत् सो ऽर्थस् तेन निक्षेप्त्रा तेनैव प्रकारेण गृहीतव्यः यस्माद् येनैव प्रकारेण समर्पणं तेनैव ग्रहणं न्याय्यम् एवम् अन्यथाकरणे दण्ड्यः ॥ ८.१८० ॥

यो निक्षेपं याच्यमानो निक्षेप्तुर् न प्रयच्छति ।

स याच्यः प्राड्विवाकेन तन्निक्षेप्तुर् असन्निधौ ॥ ८.१८१ ॥

स यदि प्रतिपद्येत यथान्यस्तं यथाकृतम् ।

न तत्र विद्यते किञ्चिद् यत् परैर् अभियुज्यते ॥ ८.१८२ ॥

तेषां न दद्याद् यदि तु तद् धिरण्यं यथाविधि ।

स निगृह्यओभयं दाप्य इति धर्मस्य धारणा ॥ ८.१८३ ॥

साक्ष्यभावे प्रणिधिभिर् वयोरूपसमन्वितैः ।

अपदेशैश् च सन्न्यस्य हिरण्यं तस्य तत्त्वतः ॥ ८.१८४ ॥

यो निक्षेपम् इति । इति । तेषाम् इति । साक्ष्यभाव इति । देहि मे निक्षिप्तं हिरण्यादि इत्य् एवं यः प्रार्थ्यमानः साक्ष्यभावान् निक्षेप्तुर् न ददाति तस्य निक्षेप्त्रर्थित्वेन प्राड्विवाकेन तस्मिन् निक्षेप्तर्य् असन्निहिते कश्चिच् चारपुरुषैः रुचिरप्रायैः सौम्याकृतिभिर् नृपोपद्रवव्याजाभिधायिभिः हिरण्यं तत्त्वेन यथा तस्य शङ्का नोत्पद्यते तथा निक्षेपयित्वा, ततो ऽसौ कालान्तरे प्राड्विवाकेन पूर्वनिक्षेप्तुर् असन्निधौ तेन तच्चारनिक्षेप्तृहिरण्यं तैर् एव पुरुषैर् देह्य् अस्माकं निक्षेपहिरण्यं इत्य् एवं याचितव्यः । स च निक्षेपधारी यथान्यस्तं समुद्रम् अमुद्रं वा यथाकृतं च कटसूत्राद्याकारेण यदि तथैव प्रतिपाद्यते समस्तैर् गृहीतं तद् इति तदा यत् परैर् निक्षेप्तृभिः प्राड्विवाकवेदिभिः अस्य हस्ते अस्माकं विद्यत इत्य् आक्षिप्यते तत् तत्र किञ्चिद् विज्ञेयम् । यदि पुनस् तेषां चारपुरुषाणां तत् क्षिप्तं हिरण्यं यथान्यस्तं न दद्यात् तदा द्वाव् अपि निक्षेपौ ज्ञापकचारसम्बन्धिनाव् अवष्टभ्य दापनीयः स्याद् इत्य् एवंरूपो धर्मनिश्चयः । इत्य् एवम् एतद् श्लोकचतुष्टयम् ॥ ८.१८१–१८४ ॥

निक्षेपोपनिधी नित्यं न देयौ प्रत्यनन्तरे ।

नश्यतो विनिपाते वाविनिपाते त्व् अनाशितौ ॥ ८.१८५ ॥

**निक्षेपोपनिधीति । नश्यतो विनिपाते वाविनिपाते त्व् अनाशितौ । **निक्षेपप्रीतिभोग्यौ निक्षेप्त्रुपनिधात्रोः जीवतोस् तदर्धेनाह पुत्रभात्रादौ न कदाचिद् देयौ । यतस् तस्य पुत्रादेर् विनाशे तौ निक्षेपोपनिधी ह्य् अर्थस्वामिनि याचमाने किं वक्तव्यं पुत्रादेः पुनर् अविनाशे कदाचिद् अविनाशौ स्याताम् ॥ ८.१८५ ॥

स्वयम् एव तु यौ दद्यान् मृतस्य प्रत्यनन्तरे ।

न स राज्ञाभियोक्तव्यो न निक्षेप्तुश् च बन्धुभिः ॥ ८.१८६ ॥

स्वयम् इति । निक्षेप्तुः मृतस्य यो ऽज्ञातं निक्षिप्तं स्वयम् एव तद्धनार्हे पुत्रादौ दद्यात्, न राज्ञा निक्षेप्तुः पुत्रादिभिर् बन्धुभिः (न) नियोक्तव्यः ॥ ८.१८६ ॥

अच्छलेनैव चान्विच्छेत् तम् अर्थं प्रीतिपूर्वकम् ।

विचार्य तस्य वा वृत्तं साम्नैव परिसाधयेत् ॥ ८.१८७ ॥

अथास्य तस्योपरि किञ्चिद् भ्रान्तिः स्यात् तदा अच्छलेनेति । **विचार्य तस्य देयं साम्नैव परितोषयन् **। तद् वस्तु धनान्तरसद्भावलक्षणवाक्छलादिपरिहारेणैव प्रीतिपूर्वेण वक्रगतिदिव्यादिदानेन निश्चिनुयात् तस्य वा निक्षेपधारिणः शीलम् अविक्ष्य धार्मिको ऽयम् इति ज्ञात्वा सामादिप्रयोगेणैव प्रतिनिश्चिनुयात् तद् दण्डादिना दिव्यैर् वा ॥ ८.१८७ ॥

निक्षेपेष्व् एषु सर्वेषु विधिः स्यात् परिसाधने ।

समुद्रे नाप्नुयात् किञ्चिद् य्दि तस्मान् न संहरेत् ॥ ८.१८८ ॥

**निक्षेपेष्व् **इति । सर्वेषु निक्षेपेषु प्रत्यायने साक्ष्यभाव इत्यादिविधिः स्यात् मुद्रिते पुनः प्रत्यर्थिने निक्षेपधारी न किञ्चिद् दोषजातं प्राप्नुयाद् यदि तस्माद् अधः श्रवणप्रतिमुद्रादिना न किञ्चिद् अपहरेत् ॥ ८.१८८ ॥

चौरैर् हृतं जलेनोढम् अग्निना दग्धम् एव वा ।

न दद्याद् यदि तस्मात् स न संहरति किञ्चन ॥ ८.१८९ ॥

चौरैर् इति । चौरैर् मुषितम् उदकेन देशान्तरं प्रापितम् अग्निना च दग्धं निक्षेपधारी न दद्यात् । यदि तत्त्वतो निक्षेपात् किञ्चिन् नापहरति ॥ ८.१८९ ॥

निक्षेपस्यापहर्तारम् अनिक्षेप्तारम् एव च ।

सर्वैर् उपायैर् अन्विच्छेच् छपथैश् चैव वैदिकैः ॥ ८.१९० ॥

निक्षेपस्येत् । निक्षेपस्यापहर्तारं मुनिभिस् तत्त्वदर्शिभिः सर्वैर् उपायैः सामादिभिर् वैदिकैश् च शपथैर् अग्निहरणादिभिः राजा निश्चिनुयात् । अनिक्षिप्तारम् इति ब्रुवन् नियोक्तुर् अपि इति ज्ञापयति ॥ ८.१९० ॥

यो निक्षेपं नार्पयति यश् चानिक्षिप्य याचते ।

ताव् उभौ चौरवच् छास्यौ दाप्यौ वा तत्समं दमम् ॥ ८.१९१ ॥

**निक्षेपम् **इति । यो निक्षेपं न त्यजति यश् चानिक्षिप्यैवार्थयते तौ द्वौ महत्य् अपराधे कृतापराधे चौरवद् उत्तमसाहसादिकं दण्ड्यौ । स्वल्पे वा तस्य निक्षेपस्य समं दण्ड्यौ

॥ ८.१९१ ॥

निक्षेपस्यापहर्तारं तत्समं दापयेद् दमम् ।

तथोपनिधिहर्तारम् अविशेषेण पार्थिवः ॥ ८.१९२ ॥

निक्षेपस्येति । निक्षेपापहारिणं तत्समं दण्डयेद् इति पूर्वसिद्धस्य पुनर्वचनं प्रथमापराधे महत्य् अपि पुनश् चौरवद् इत्य् एवमर्थम् । ये तु ब्राह्मणस्याङ्गविच्छेदादिचौरदण्डनिवृत्त्यर्थम् इदं पुनर्वचनम् इत्यादि तद् असत् । न जातु ब्राह्मणं हन्याद् इत्यादेर् वक्ष्यमाणत्वात् तथा प्रीतिभोग्यद्रव्यापहारिणम् अविशेषेण जातिमात्रविशेषेण तत् सर्वम् एव दापयेत् ॥ ८.१९२ ॥

उपधाभिश् च यः कश्चित् परद्रव्यं हरेन् नरः ।

ससहायः स हन्तव्यः प्रकाशं विविधैर् वधैः ॥ ८.१९३ ॥

उपधाभिस् तु यत् किञ्चिद् इति । यो नरः परद्रव्यं हरेत् ससहायः करचरणछेदादिभिः नानाप्रकारैः वधोपायैः शकलं कृत्वा राजमार्गादौ राज्ञा हन्तव्यः ॥ ८.१९३ ॥

निक्षेपो यः कृतो येन यावांश् च कुलसन्निधौ ।

तावान् एव स विज्ञेयो विब्रुवन् दण्डम् अर्हति ॥ ८.१९४ ॥

निषेप इति । यज्जातीयं द्रव्यं द्रव्यपरिमाणं च अथ साक्षिसमक्षं निक्षिप्तं द्रव्यं तत्परिमाणम् एव साक्षिप्रत्ययेन बोद्धव्यं न प्रमाणान्तरेण तत्र परीक्षा कार्या । तत्र च निक्षेप्ता वितथं ब्रुवन् विष्णूक्तं दण्डम् अर्हति ॥ ८.१९४ ॥

मिथा दायः कृतो येन गृहीतो मिथ एव वा ।

मिथ एव प्रदातव्यो यथा दायस् तथा ग्रहः ॥ ८.१९५ ॥

मिथ इति । परस्परं। रहसि येन निक्षेपो कृतो निक्षेपितः निक्षेपधारिणापि रहस्य् एव गृहीतः स निक्षेपो रहस्य् एव प्रत्यर्पणीयः । न प्रत्यर्थेन साक्ष्याद्यपेक्षं (क्ष्यं) यस्माद् येन प्रकारेण दानं तेनैव प्रत्यर्पणम् इतीव निक्षेपधारिनियमार्थं प्रदातव्य इति यो यथा निक्षिपेद् वस्तु इतीदं निक्षेप्तृनियमार्थं गृहीतव्यश्रवनाधिक्ये सति यद् अस्य श्लोकप्रतिविधिविषयत्वं व्याख्यातम्, सामान्यविषयं तावत् व्याख्यानं वा केषाञ्चित् तच्छिष्टैः परीक्ष्यम् ॥ ८.१९५ ॥

निक्षिप्तस्य धनस्यैवं प्रीत्योपनिहितस्य च ।

राजा विनिर्णयं कुर्याद् अक्षिण्वन् न्यासधारिणम् ॥ ८.१९६ ॥

**निक्षिप्तस्येति । **निक्षेपधारिणम् अपीडयन् निक्षिप्तस्य द्रव्यस्य प्रीत्या च साम्प्रतिकोपभोगार्थम् अर्पितस्यानेन प्रकारेण निर्णयं कुर्यात् ॥ ८.१९६ ॥

विक्रीणीते परस्य स्वं यो ऽस्वामी स्वाम्यसम्मतः ।

न तं नयेत साक्ष्यं तु स्तेनम् अस्तेनमानिनम् ॥ ८.१९७ ॥

विक्रीणीत इति । यो ऽस्वामी स्वामिनाननुज्ञातः परकीयं द्रव्यं विक्रीणीते तम् अचौरम् आत्मानं श्रुतचौरं प्राड्विवाकः साक्षिकं न कारयेद् इति साक्षिकर्मनिषेधद्वारेण तस्यापकारित्वप्रतिपादनं क्रियान्तरेष्व् अप्य् अयोग्यत्वप्रतिपादनार्थम् ॥ ८.१९७ ॥

अवहार्यो भवेच् चैव सान्वयः षट्शतं दमम् ।

निरन्वयो ऽनपसरः प्राप्तः स्याच् चौरकिल्बिषम् ॥ ८.१९८ ॥

अवहार्य इति । एष च परस्वविक्रयी यदि स्वामिना पुत्रादिरूपत्वेनानुगतो भवति षट्पणशतानि दण्डार्थम् आनयितव्यः । यदि पुनः स्वामिनो नानुमतो भवति अविद्यमानापसरश् च यदि स्वामिसम्बन्धपुत्रादेः सकाशात् कार्यादिना तद् द्रव्यं तस्य न संश्रित्रं भवति तदा चौरसम्बन्धिपापं प्राप्नोति । पापसहचरापदेशे ऽपि दण्डतिदेशः ॥ ८.१९८ ॥

अस्वामिना कृतो यस् तु दायो विक्रय एव वा ।

अकृतः स तु विज्ञेयो व्यवहारे यथा स्थितिः ॥ ८.१९९ ॥

**अस्वामिनेति । **अस्वामिना अदत्तं विक्रीतं वा तद् अकृतम् एव बोद्धव्यम् इत्य् एवंविधा व्यवहारमर्यादा ॥ ८.१९९ ॥

सम्भोगो दृश्यते यत्र न दृश्येतागमः क्वचित् ।

आगमः कारणं तत्र न सम्भोग इति स्थितिः ॥ ८.२०० ॥

सम्भोग इति । यस्मिन् वस्तुनि भोगो दृश्यते आगमः पुनः क्रियादिः न क्वचिद् अस्ति तत्रागमः कारणं न सम्भोगो ऽतश् च शुद्धागमस्य दशवर्षभोगेनापि कार्यसिद्धिः ॥ ८.२०० ॥

विक्रयाद् यो धनं किञ्चिद् गृह्णीयात् कुलसन्निधौ ।

क्रयेण स विशुद्धं हि न्यायतो लभते धनम् ॥ ८.२०१ ॥

विक्रेयाद् इति । आपणभूमौ (यत्) प्रयच्छेत तद् व्यवहर्तृपुरुषसमक्षं बोद्धव्यम् । किञ्चिन् मौल्येन गृह्णीयात् स यस्मात् प्रकाशोचितः मूल्यकुलसन्निध्यापणस्थानानुष्ठितेन न्यायक्रमेण विशुद्धं तदीयं धनं मूल्यमानाधिकं हस्तान् न लभते ॥ ८.२०१ ॥

अथ मूलम् अनाहार्यं प्रकाशक्रयशोधितः ।

अदण्ड्यो मुच्यते राज्ञा नाष्टिको लभते धनम् ॥ ८.२०२ ॥

**अथ मूलम् अनाहार्यं प्रकाशक्रयशोधितम् **इति । यदि तेन किञ्चिद् देशाण्तरं गत्वा क्रीतद्रव्यमूल्यम् आहर्तुम् अशक्यं तदा पूर्वश्लोकन्यायेन प्रकाशक्रयशोधितं कृत्वा क्रेता दण्डत एव राज्ञा द्रष्टव्यः । स्वामी च तद् द्रव्यं यद् अस्वामिना विक्रीतं तत् क्रेतृहस्ताल् लभते ॥ ८.२०२ ॥

नान्यद् अन्येन संसृष्टरूपं विक्रयम् अर्हति ।

न सावद्यं न च न्यूनं न दूरे न तिरोहितम् ॥ ८.२०३ ॥

**नेति **। न सावद्यम् इति । कुङ्कुमादिद्रव्यं कुसुम्भादिना व्याजबुद्ध्या मिश्रीकृतं विक्रेतव्यम् । न चाप्तकरान्तःक्लेशादिदोषोपेतं यत् तुलादिनापि व्यवस्थितं न च रागादिना स्थगितरूपं एवं चात्रास्वामिविक्रयदण्डवत् स्यात् ॥ ८.२०३ ॥

अन्यां चेद् दर्शयित्वान्या वोढुः कन्या प्रदीयते ।

उभे ते एकशुल्केन वहेद् इत्य् अब्रवीन् मनुः ॥ ८.२०४ ॥

अन्याम् इति । शुल्कदेयां कन्यां शुल्कवृद्ध्येच्छाकाले निरवद्यां दर्शयित्वा यदि सावद्या वरस्य दीयते तदा द्वे अपि कन्ये तेन एकेनैव शुल्कदानेन हरेत् । इति विक्रयसाधर्म्येणास्येहाभिधानम् ॥ ८.२०४ ॥

नोन्मत्ताया न कुष्टिन्या न च या स्पृष्टमैथुना ।

पूर्वं दोषान् अभिख्याप्य प्रदाता दण्डम् अर्हति ॥ ८.२०५ ॥

नेति । उन्मत्तायाः कन्यायास् तथा कुष्ठवत्या या चानुभूतमैथुना तस्याः ब्राह्म्यादिविवाहादाव् अपि दानात् पूर्वम् उन्मत्तादीन् दोषान् वराय कन्यां दत्वा ख्यापयन् दण्डम् अर्हति । दण्डं च दोषवतीम् इति वक्ष्यते ॥ ८.२०५ ॥

ऋत्विग् यदि वृतो यज्ञे स्वकर्म परिहापयेत् ।

तस्य कर्मानुरूपेण देयो ऽंशः सह कर्तृभिः ॥ ८.२०६ ॥

सम्भूय च समुत्थानम् आह ऋत्विग् इति । प्रधानऋत्विक् होमादिश्रौतकरणेन कृतकरणो ज्योतिष्टोमादौ यदि व्याधिना स्वं कर्म परित्यजेत् तदा तस्य तद् अनुयाचितमित्रावरुणादिभिः तस्य कृतकर्मानुसारेण दक्षिणा दातव्याः ॥ ८.२०६ ॥

दक्षिणासु च दत्तासु स्वकर्म परिहापयन् ।

कृत्स्नम् एव लभेतांशम् अन्येनैव च कारयेत् ॥ ८.२०७ ॥

दक्षिणास्व् इति । दक्षिणासु च माध्यन्दिने सवने दक्षिणानयन्तीत्य् एवमादिदक्षिणाकाले दत्तासु दैवात् स्वसाध्यं कर्म परित्यजन् कृत्स्नम् एव दक्षिणाकर्मशेषं चान्येनासौ प्रकृत ऋत्विक् कारयेत् ॥ ८.२०७ ॥

यस्मिन् कर्मणि यास् तु स्युर् उक्ता प्रत्यङ्गदक्षिणाः ।

स एव ता आददीत भजेरन् सर्व एव वा ॥ ८.२०८ ॥

यस्मिन्न् इति । यस्मिन् कर्मणि आदानाग्नौ अङ्गम् अङ्गं प्रति याः दक्षिणाश् च उदिता स्युः यथारब्धम् अध्वर्युम् इत्यादौ प्रधानदक्षिणाश् च गावो देयाः आदिना कियत् उद्देशेन श्रूयन्ते स एव श्रुतत्वात् स्वीकुर्यात् । अथ पर्षद्वारिकावत् प्रतिग्रहमात्राव्यापारात् सर्वं एव उदितः इति सन्देहे उपन्यासः ॥ ८.२०८ ॥

रथं हरेत चाध्वर्युर् ब्रह्माधाने च वाजिनम् ।

होता वापि हरेद् अश्वम् उद्गाता वाप्य् अनः क्रये ॥ ८.२०९ ॥

अत्र श्रुतत्वात् तादर्थ्यपक्षम् आश्रित्य निर्णयम् आह रथम् इति । अध्वर्योरथोदेयत्वेन श्रुतोवसताम् एव स्वीकुर्यात् तथाधाने ब्रह्मा अश्वो देय इति तस्य श्रुतेः आददीत होताप्य् अश्वम् आत्मसात् कुर्यात् उद्धातापि सोमक्रये यच् छकटं तद् गृह्णीयात् ॥ ८.२०९ ॥

सर्वेषाम् अर्धिनो मुख्यास् तदर्धेनार्धिनो ऽपरे ।

तृतीयिनस् तृतीयांशाश् चतुर्थांशाश् च पादिनः ॥ ८.२१० ॥

अधुना प्रधानदक्षिणाविधिम् आह सर्वेषां इति । तं शतेन दीक्षयतीति श्रूयते । तत्र सर्वेषाम् ऋत्विजां मध्यांशे मुख्या ऋत्विजो होत्रध्वर्युर्ब्रह्मोद्गातारस् ते अर्धहरा अष्टाचत्वारिंशद्गोभाज एवं तदर्धादिसङ्ख्याभिधानं वक्ष्यमाणं समञ्जसम् भवति । कात्यायनश् च द्वादशद्वादशाद्येभ्यः इत्य् आह । तस्या अष्टाचत्वारिंशतो ऽर्धेन चतुर्विंशत्याश् च परे द्वितीयेभ्य इत्य् आह । तृतीयस्थानिनीच्छावाकान शब्द अग्नीन् प्रतिहर्तारो ऽष्टाचत्वारिंशत्तृतीयांशषोडशगोभाजः । कात्याननश् चतस्रचतस्रस् तृतीयेभ्य इति आह, पादिनश् चतुर्थव्यवस्थाः पादसुब्रहमण्याग्रावष्टुनोतारे अष्टाचत्वारिंशश् चतुर्थांशद्वादशगोभाजः । कात्यायनश् च तिस्रस् तिस्र इतरेभ्य इत्य् अत आह ॥ ८.२१० ॥

सम्भूय स्वानि कर्माणि कुर्वद्भिर् इह मानवैः ।

अनेन विधियोगेन कर्तव्यांशप्रकल्पना ॥ ८.२११ ॥

सम्भूयेति । एकीभूय गृहनिर्वर्तनादीनि स्वकार्याणि स्थपतिवर्धकिसूत्रधारादिभिः मनुष्यैः सम्पादयद्भिर् अनेकम् उक्तविधानाश्रयेण विज्ञानव्यापाराद्यपेक्षया भागकल्पना कार्या ॥ ८.२११ ॥

धर्मार्थं येन दत्तं स्यात् कस्मैचिद् याचते धनम् ।

पश्चाच् च न तथा तत् स्यान् न देयं तस्य तद् भवेत् ॥ ८.२१२ ॥

धर्मार्थम् इति । येअन् यागाद्यर्थं भिक्षमाणाय कस्मैचिद् धनं दत्तं प्रतिज्ञातं च स्यात् पश्चात् तद्धनसमौ यागार्थं यदि न युञ्जीत तदास्य प्रतिश्रुतं न देयम्, दत्तं वा प्रत्याहरणीयम् ॥ ८.२१२ ॥

यदि संसाधयेत् तत् तु दर्पाल् लोभेन वा पुनः ।

राज्ञा दाप्यः सुवर्णं स्यात् तस्य स्तेयस्य निष्कृतिः ॥ ८.२१३ ॥

यद् इति । यदि तत्प्रतिश्रुतं धनसमौ प्रतिगृहीताहङ्काराल् लोभाद् वा मार्गे स्वकृतं वा दातुं न त्यजेत् तदा तस्य चौर्यपापस्य संशुद्ध्यर्थं राज्ञा दण्डनीयो भवेत् । हठाद् अपि दण्डितस्य दण्डेन पापनिर्हरणं भवतीत्य् अस्मान् निष्कृतिवचनाद् अवसीयते ॥ ८.२१३ ॥

दत्तस्यैषोदिता धर्म्या यथावद् अनपक्रिया ।

अत ऊर्ध्वं प्रवक्ष्यामि वेतनस्यानपक्रियाम् ॥ ८.२१४ ॥

दत्तस्येति । एतद् अस्य प्रतिपादनं धर्माद् अनपेतं तत्त्वं तद् उक्तम् अतो ऽनन्तरम् अन्यतरद् अपि प्रतिपादनं कथयिष्यामि ॥ ८.२१४ ॥

भृतो ऽनार्तो न कुर्याद् यो दर्पात् कर्म यथोदितम् ।

स दण्ड्यः कृष्णलान्य् अष्टौ न देयं चास्य वेतनम् ॥ ८.२१५ ॥

भृत इति । यो भृतः परक्रीतो व्याध्याद्यपीडितो यथानिरूपितं कर्म अहङ्कारान् न कुर्यात् स कुर्वाण क्रियोक्तस्वरूपे सुवर्णादिकृष्णलान् अष्टौ दण्ड्यो भृतिश् चास्य कर्मभागाद् अपि न देया ॥ ८.२१५ ॥

आर्तस् तु कुर्यात् स्वस्थाह् सन् यथाभाषितम् आदितः ।

स दीर्घस्यापि कालस्य तल् लभेतैव वेतनम् ॥ ८.२१६ ॥

आर्त इति । यदा पुनः पीडादिना वा कर्म न करोति तदा स्वस्थः सन् पूर्वं यादृक् निरूपितं तादृक् कुर्यात् तां च वृत्तिं सकलाद् अपि कालाल् लभेतैव ॥ ८.२१६ ॥

यथोक्तम् आर्तः सुस्थो वा यस् तत् कर्म न कारयेत् ।

न तस्य वेतनं देयम् अल्पोनस्यापि कर्मणः ॥ ८.२१७ ॥

एष धर्मो ऽखिलेनोक्तो वेतनादानकर्मणः ।

अत ऊर्ध्वं प्रवक्ष्यामि धर्मं समयभेदिनाम् ॥ ८.२१८ ॥

यथोक्तम् इति । एष धर्म इति । एषा व्यवस्था वेतनदानाख्यस्य कर्मणो निःशेषत उक्ता । अनन्तरं संविद्व्यतिक्रमकारिणां दण्डादिव्यवस्थां वक्ष्यामि ॥ ८.२१८ ॥

यो ग्रामदेशसङ्घानां कृत्वा सत्येन संविदम् ।

विसंवदेन् नरो लोभात् तं राष्ट्राद् विप्रवासयेत् ॥ ८.२१९ ॥

इति । ग्राम्याणां देशवासिनां वणिगादीनां मध्याद् यो नर इदम् अस्माभिः कर्तव्यं परिहार्यं चेत्य् एवं सङ्केतं निरुद्धेन रूपेण कृत्वा वचलेत् तं राष्ट्राद् राजा निर्वासयेत् ॥ ८.२१९ ॥

निगृह्य दापयेच् चैनं समयव्यभिचारिणम् ।

चतुःसुवर्णान् षण्णिष्कांश् छतमानं च राजतम् ॥ ८.२२० ॥

निगृह्येति । य एवं संविद्व्यतिक्रमेत् चतुःसुवर्णकार्षिकानिष्कान् उक्तरूपान् न तु सार्धशतं सुवर्णानां निष्कान् आहुर् इति सास्त्रान्तरोक्तान् राजतं च शतमानम् उक्तम् ॥ ८.२२० ॥

एवं दण्डविधिं कुर्याद् धार्मिकः पृथिवीपतिः ।

ग्रामजातिसमूहेषु समयव्यभिचारिणम् ॥ ८.२२१ ॥

एवं दण्डविधिम् इति । धर्मप्रधानो राजा ग्रामेषु ब्राह्मणादिषु व्यतिक्रमिणं एतद् दण्डविधानम् अनुतिष्ठेत् ॥ ८.२२१ ॥

क्रीत्वा विक्रीय वा किञ्चिद् यस्येहानुशयो भवेत् ।

सो ऽन्तर्दशाहात् तद् द्रव्यं दद्याच् चैवाददीत वा ॥ ८.२२२ ॥

क्रीवेत्य् । विक्रीय किञ्चिद् द्रव्यम् अचिरस्वभावं स्थिरार्थं विक्रीय वा यस्य लोभात् पश्चात्तापो भवति न साधु मया कृतम् इति दशाहमध्ये प्रत्यर्थं यद् विक्रीतं तद् गृह्णीयात् ॥ ८.२२२ ॥

परेण तु दशाहस्य न दद्यान् नापि दापयेत् ।

आददानो ददच् चैव राजा दण्ड्यो शतानि षट् ॥ ८.२२३ ॥

परेणेति । दशाहोत्तरकालं क्रीतं च न दापयेत् ॥ ८.२२३ ॥

यस् तु दोषवतीं कन्याम् अनाख्याय प्रयच्छति ।

तस्य कुर्यान् नृपो दण्डं स्वयं षण्णवतिं पणान् ॥ ८.२२४ ॥

अकन्येति तु यः कन्यां ब्रूयाद् द्वेषेण मानवः ।

स शतं प्राप्नुयाद् दण्डं तस्या दोषम् अदर्शयन् ॥ ८.२२५ ॥

यस् त्व् इति ॥ अकन्येति । नेयं कन्या क्षतयोनिर् इयम् इत्य् एवं यो मनुष्यो द्वेषेण कन्यायाः कुर्यात् स तस्याः तं दोषम् अविभावयन् पणशतं दण्डं प्राप्नुयात् । उक्तस्याप्य् अतिक्रमकारित्वाद् दण्डः ॥ ८.२२५ ॥

पाणिग्रहणिका मन्त्राः कन्यास्व् एव प्रतिष्ठिताः ।

नाकन्यासु क्वचिन् नृणां लुप्तधर्मक्रिया हि ताः ॥ ८.२२६ ॥

यस्मात् प्राणिग्रहणिका इति । अर्यमणं नु देयं कन्या अग्निमयक्षतेत्य् एवमादयो वैवाहिका मनुष्याणां मन्त्राः ॥ ८.२२६ ॥

पाणिग्रहणिका मन्त्रा नियतं दारलक्षणम् ।

तेषां निष्ठा तु विज्ञेया विद्वद्भिः सप्तमे पदे ॥ ८.२२७ ॥

पाणिग्रहणिका मन्त्रा नियतम् इति । वैवाहिका मन्त्रा निश्चितं भार्यात्वे निमित्तम्, तैः प्रयुक्तैः भार्या भवति, तेषां पुनर् मन्त्राणां सख सप्तपदी भवेति मन्त्रेण कन्याया सप्तमे पदे दत्ते सति शास्त्रज्ञैः समाप्तिर् बोद्धव्यैव च सप्तमात् पदाद् अर्वाग् अकन्यकन्त्वपरिज्ञाने ऽनुशये सति त्यजेन् नोर्ध्वं कानीनसहोढगूढोत्पन्नानां शास्त्रे वोढुः पुत्रदर्शनात् ॥ ८.२२७ ॥

यस्मिन् यस्मिन् कृते यस्येहानुशयो भवेत् ।

तम् अनेन विधानेन धर्म्ये पथि निवेशयेत् ॥ ८.२२८ ॥

यस्मिन्न् इति । न केवलं क्रयविक्रयः एवं यावद् यस्मिन्त् संविद्वेदनादाव् अपि कार्ये कृते यस्य लोके पश्चात्तापः स्यात् तं पुत्रदानादिकविधिना धर्माद् अनपेते मार्गे नृपः स्थापयेत् ॥ ८.२२८ ॥

पशुषु स्वामिनां चैव पालानां च व्यतिक्रमे ।

विवादं सम्प्रवक्ष्यामि यथावद् धर्मतत्त्वतः ॥ ८.२२९ ॥

पशुष्व् इति । पशुविवाददोषैर् उत्पन्नैः स्वामिनां तत्पालानां च विवादम् अशेषअं कृत्वा तात्त्विकव्यवस्थां वक्ष्यति ॥ ८.२२९ ॥

दिवा वक्तव्यता पाले रात्रौ स्वामिनि तद्गृहे ।

योगक्षेमे ऽन्यथा चेत् तु पालो वक्तव्यताम् इयात् ॥ ८.२३० ॥

दिवेति । पालकन्यस्तानां पशूनां दिवा दोष उत्पन्ने पालस्य गर्हणीयता रात्रौ पुनः पालप्रथ्यर्थिनां स्वामिनो दोषो यै पुना रात्राव् अपि पालहस्तगता भवन्ति तत्र दोष उच्यते । तदा पाल एव गर्हतां प्राप्नुयाद् अयोगक्षेमे योगक्षेमशब्दप्रकाशवत् ॥ ८.२३० ॥

गोपः क्षिरभृतो यस् तु स दुह्याद् दशतो वराम् ।

गोस्वाम्यानुमते भृत्यः सा स्यात् पाले ऽभृते भृतिः ॥ ८.२३१ ॥

गोप इति । यो गोपालाख्यो भृत्यः क्षीरभृतो न भक्तादिभृतः स स्वाम्यनुज्ञया दशभ्यो गोभ्य एकां श्रेष्ठाम् आत्मभृत्यर्थं दुहीत । सा भक्तादिना भृते पाले भृया स्याद् एव चैकक्षीराद् अनेन दश गाः पालयेत् ॥ ८.२३१ ॥

नष्टं विनष्टं कृमिभिः श्वहतं विषमे मृतम् ।

हीनं पुरुषकारेण प्रदद्यात् पाल एव तु ॥ ८.२३२ ॥

नष्टम् इति । पालसम्बन्धिरक्षणाद् यः साक्षात् पुरुषव्यापारेण शून्यं सन्तं नष्टं द्रष्टिगोचरातीतं कृमिभिः भक्षितं श्वभ्रादिमृतं पाल एव स्वामिनं दद्यात् ॥ ८.२३२ ॥

विघुष्य तु हृतं चौरैर् न पालो दातुम् अर्हति ।

यदि देशे च काले च स्वामिनः स्वय शंसति ॥ ८.२३३ ॥

विघुष्येति । चौरैः पुनः पटहाद्याघुष्य हृतं पालो दातुं नार्हति । यदि तस्मिन्न् एव देशे हरणं कालानन्तरं एवात्मीयस्य स्वामिनः कथयते (कथ्यते) ॥ ८.२३३ ॥

कर्णौ चर्म च वालांश् च बस्तिं स्नायुं च रोचनाम् ।

पशुषु स्वामिनां दद्यात् मृतेष्व् अङ्गांश् च दर्शयेत् ॥ ८.२३४ ॥

कर्णौ च लोमांश् चेति । पशुस्वाषु दद्यात् तु मृतेष्व् अङ्गांश् च दर्शयेत् । स्वयम्मृतेषु पशुषु कर्णचर्मलोमबस्त्याख्यमूत्राधाराङ्गविशेषस्नायुगोरोचना उपकारकत्वात् स्वामिने दद्यात् । चिह्नानि वदताकर्णत्वगादीनि प्रत्यभिज्ञानं दर्शयेत् ॥ ९.२३४ ॥

अजाविके तु संरुद्धे वृकैः पाले त्व् अनायति ।

यां प्रसह्य वृको हन्यात् पाले तत् किल्बिषं भवेत् ॥ ८.२३५ ॥

अजाविकेष्व् इति । अजैडके शृगालादिभिः आक्रान्ते भवति तदा पाले ऽनागच्छति यान् अभिभूय वृको हन्यात् स पालस्य दोषः स्यात् । बहुत्वाद् वृकाक्षेपासम्भवे सत्य् अजादिग्रहणम् ॥ ८.२३५ ॥

तासां चेद् अवरुद्धानां चरन्तीनां मिथो वने ।

याम् उत्प्लुत्य वृको हन्तान् न पालस् तत्र किल्बिषी ॥ ८.२३६ ॥

तासाम् इति । यदि तासाम् अजाविकानां पालेनैव श्वानुगतश् चावरुद्धगमनानां संहतीभूय वने चरन्तीनां मध्यात् कंश्चित् कुतस्चित् वनादेर् उत्पत्य शृगालादि हन्यात् न तत्र पालो दोषभाक् ॥ ८.२३६ ॥

धनुःशतं परीहारो ग्रामस्य स्यात् समन्ततः ।

शम्यापातास् त्रयो वापि त्रिगुणो नगरस्य तु ॥ ८.२३७ ॥

धनुःशतम् इति । चतुर्हस्तं धनुः शम्या यष्टिः तस्याः पातः शम्याप्रक्षेपः ग्रामसमीपे सर्वासु दिक्षु चत्वारि हस्तशतानि त्रीन् वा यष्टिप्रक्षेपान् यावत् सस्यवपनपरिहारः पशुप्रचारार्थं कार्यो नगरसमीपे पुनर् अयं त्रिगुणः कार्यः ॥ ८.२३७ ॥

तत्रापरिवृतं धान्यं विहस्युः पशवो यदि ।

न तत्र प्रणयेद् दण्डं नृपतिः पशुरक्षिणाम् ॥ ८.२३८ ॥

तत्रेति । तस्मिन् व्यवहारस्थाने यदि केनचिद् धान्यम् उप्येत अदत्तवृत्तिके चेद् यदि पशवो भक्षयेयुः तदा तत्र पशुपालानां राजा दण्डं न कुर्यात् ॥ ८.२३८ ॥

वृतिं तत्र प्रकुर्वीत याम् उष्ट्रो न विलोकयेत् ।

छिद्रं च वारयेत् सर्वं श्वसूकरमुखानुगम् ॥ ८.२३९ ॥

वृतिम् इति । तस्मिन् परिहारस्थाने क्षेत्रे वृतिं कण्टकादिमयी प्राकाराकृतिं तथाविधाम् ऊर्जितां कुर्यात् वामपरपार्श्वतः यथा उष्ट्रो नावलोकयेत् । तस्यां च यावत् किञ्चिच् छिद्रं श्वसूकरमुखप्रवेशक्षमम् अपि तत् सर्वं स्थगयेयुः ॥ ८.२३९ ॥

पथि क्षेत्रे ऽपरिवृते ग्रामान्तीये ऽथ वा पुनः ।

सपालः शतदण्डार्हो विपालान् वारयेत् पशून् ॥ ८.२४० ॥

पथीति । यदि पुनर् मार्गसमीपवर्तिनि ग्रामसमीपे गते ऽकृतवृतौ सपालः पशुपालप्रक्षिप्तो न रक्षति तदा पणशतं दण्ड्यः पशोर् दण्डासम्भवात् पाल एव दण्ड्यो विपालं पुनर् भक्षणे प्रवृत्तं क्षेत्रस्वामी वारयेत् ॥ ८.२४० ॥

क्षेत्रेष्व् अन्येषु तु पशुः सपादं पणम् अर्हति ।

सर्वत्र तु सदो देयः क्षेत्रिकस्येति धारणा ॥ ८.२४१ ॥

क्षेत्रेष्व् इति । सर्वत्र त्व् असितं ज्ञेयम् इति । पथिग्रामान्तव्यतिरिक्तेषु क्षेत्रेषु पशुर् भक्षयन् सपादं पणदण्डं अर्हति, अर्थात् पाल एव सर्वस्मिंश् च क्षेत्रे स्वामिनः पशुभक्षितं फलं पालेन पशुस्वामिना वा यथापराधं दातव्यम् इति निश्चयः ॥ ८.२४१ ॥

अनिर्दशाहां गां सूतां वृषान् देवपशूंस् तथा ।

सपालान् वा विपालान् वा न दण्ड्यान् मनुर् अब्रवीत् ॥ ८.२४२ ॥

अनिर्दशाहाम् इति । गां प्रसूताम् अनिर्दशाहां तथा ग्रहणदत्तछागवृषभादि प्रतिमासं बन्धिपशून् यवान् रक्षायुक्तान् शून्यान् वा सस्यभक्षणे ऽदण्डार्हान् मनुर् आह । न पालस्य दण्डो स्वामिन इत्य् अर्थः । परिपालकोपेक्षानां देवप्रकृतीनां परिपालाय पशुसम्बन्धिशङ्काते अतो विपालदेवपशुः सस्यभक्षकस्य दण्ड इति न चोदनीयः ॥ ८.२४२ ॥

क्षेत्रिकस्यात्यये दण्डो भागाद् दशगुणो भवेत् ।

ततो ऽर्धदण्डो भृत्यानाम् अज्ञानात् क्षेत्रिकस्य तु ॥ ८.२४३ ॥

क्षेत्रिकस्येत् । क्षेत्रस्वामिनः आत्मपशुसस्यभक्षणकालवपनसयापहारादौ अपराधे यावतो राजभागस्य तेन हानिः कृता ततो दशगुणो दण्डः स्यात् । भृत्यानां पुनः क्षेत्रस्वाम्यविदित एवं कुर्वतां दशगुणाद् अर्धदण्डः स्यात् । तदौज्ञानात् तु तस्यैव दशगुणो दण्ड इति क्षेत्रापराधे ऽपीडमन्त्रम् ॥ ८.२४३ ॥

एतद् विधानम् आतिष्ठेद् धार्मिकः पृथिवीपतिः ।

स्वामिनां च पशूनां च पालानां च व्यतिक्रमे ॥ ८.२४४ ॥

एतद् इति । पशुभिः सस्यभक्षणेन स्वामिनां पालानां चापराधे देवपश्वादिसस्यभक्षणे धर्मप्रधानो राजा एतत् पूर्वोक्तं कर्तव्यम् अनुतिष्ठेत् ॥ ८.२४४ ॥

सीमां प्रति समुत्पन्ने विवादे ग्रामयोर् द्वयोः ।

ज्येष्ठे मासि नयेत् सीमां सुप्रकाशेषु सेतुषु ॥ ८.२४५ ॥

सीमाम् इति । द्वयोर् ग्राममर्यादाविषयायां विप्रतिपत्तौ उत्पन्नायां ज्येष्ठे मासि ग्रीष्मे तापसंशुष्कतृणत्वात् प्रकटीभूतेषु सीमालिङ्गेषु राजा सीमां निश्चिनुयात् । सीमापरिज्ञाने सर्वदा लोके जनानां भ्रान्तिं दृष्ट्वोक्तानि गृह्यानि वक्ष्यमाणानि सीमा चिह्नानि कारयेत् ॥ ८.२४५ ॥

सीमावृक्षांश् च कुर्वीत न्यग्रोधाश्वत्थकिंशुकान् ।

शाल्मलीन् सालतालांश् च क्षीरिणश् चैव पादपान् ॥ ८.२४६ ॥

सीमावृक्षान् इति ।सीमालिङ्गभूतान् न्यग्रोधादीन् वृक्षविशेषान् क्षीरिणश् च वृक्षान् उदुम्बरादीन् चिरस्थान् कारयेत् ॥ ८.२४६ ॥

गुल्मान् वेणूंश् च विविधान् शमीवल्लीस्थलानि च ।

शरान् कुब्जकगुल्मांश् च तथा सिमा न नश्यति ॥ ८.२४७ ॥

गुल्मान् इति । अप्रकाण्डाः स्मृता इति काण्डाभिधानात् गुल्मान् वृक्षान् विविधान् वेणूंश् च वेणुकीचकवेण्वादीन् नानाप्रकारान् शम्याख्यान् मल्लिकादिविचित्रान् उप्तान् भूभागान् शरान् कुब्जकसम्बन्धिनो गुल्मान् अचिरोपभोगत्वेन पृथक् विनिष्टत्वात् ॥ ८.२४७ ॥

तडागान्य् उदपानानि वाप्यः प्रस्रवणानि च ।

सीमासन्धिषु कार्याणि देवतायतनानि च ॥ ८.२४८ ॥

तडागानीति । तडागकूपपुष्करिण्युदकप्रणीतदेवगृहाणि सीमायां ग्रामद्वयसन्धिस्थानेषूदकाभ्यर्थित्वेन जनसंसर्गे सति साक्षिसम्भावनार्थे कर्तव्यानि ॥ ८.२४८ ॥

उपच्छन्नानि चान्यानि सीमालिङ्गानि कारयेत् ।

सीमाज्ञाने नृणां वीक्ष्य नित्यं लोके विपर्ययम् ॥ ८.२४९ ॥

उपच्छन्नानीति । सीमापरिज्ञाने सर्वदा लोके जनानां भ्रान्तिं दृष्ट्वा अदुष्टानि गुह्यानि वक्ष्यमाणानि सीमाचिह्नानि कारयेत् ॥ ८.२४९ ॥

अश्मनो ऽस्थीनि गोवालांस् तुषान् भस्मकपालिकाः ।

करीषम् इष्टकाङ्गारांश् छर्करा वालुकास् तथा ॥ ८.२५० ॥

यानि चैवम्प्रकाराणि कालाद् भूमिर् न भक्षयेत् ।

तानि सन्धिषु सीमाया अप्रकाशानि कारयेत् ॥ ८.२५१ ॥

अश्मन इति । यानीति । पाषाणास्थिगोवालतुषभस्मखर्परिकाशुष्कगोमयपक्वेष्टकाङ्गार-दृषत्कणिका सिकता अन्यान्य् अप्य् एवंविधानि खदिरसारिकाकालाञ्जनादीन् तानि ग्रामसन्धिषु प्रच्छन्नानि स्थापयेत् ॥ ८.२५०–२५१ ॥

एतैर् लिङ्गैर् नयेत् सीमां राजा विवदमानयोः ।

पूर्वभुक्त्या च सततम् उदकस्यागमेन च ॥ ८.२५२ ॥

एतैर् इति । विवदमानयोर् ग्रामयोः शून्ययोर् अशून्ययोर् वा एतैर् उक्तैश् चिह्नैर् नृपः सीमां निश्चिनुयात् । अशून्यत्वे पुनर् अपि पूर्वभुक्त्या च शून्यत्वे आधिः सीमेत्य् उक्तत्वाद् उदकप्रवाहे चान्यकारणकेन ग्रामयोर् यत् सन्निवेशकालवृत्तेन शून्यता वसतेः ॥ ८.२५२ ॥

यदि संशय एव स्याल् लिङ्गानाम् अपि दर्शने ।

साक्षिप्रत्यय एव स्यात् सीमावादविनिश्चयः ॥ ८.२५३ ॥

यदीति । लिङ्गदर्शने ऽपि ईषद् उभयत्र सीमां प्रति संशय एव भवेत् तदा साक्षिप्रत्ययः सीमाविवादनिर्णयः स्यात् ॥ ८.२५३ ॥

ग्रामेयककुलानां च समक्षं सीम्नि साक्षिणः ।

प्रष्टव्याः सीमलिङ्गानि तयोश् चैव विवादिनोः ॥ ८.२५४ ॥

ग्रामेयककुलानाम् इति । ग्रामजनसमूहानां ग्रामेण नियुक्तयोश् च विवादिनोः प्रत्यक्षसीमाचिह्नानि साक्षिणः प्रष्टव्याः ॥ ८.२५४ ॥

ते पृष्टास् तु यथा ब्रूयुः समस्ताः सीम्नि निश्चयम् ।

निबध्नीयात् तथा सीमां सर्वांस् तांश् चैव नामतः ॥ ८.२५५ ॥

ते पृष्टास् तु यथा ब्रूयुः समस्ताः सीम्नि निश्चयम् इति । ते साक्षिणः पृष्टाः सन्तो येन प्रकारेण समस्तान् अद्वैधं सीमाविषयं निश्चितं ब्रूयुः तेन प्रकारेण स्मरणार्थं पत्रके सीमां लेख्य तांश् च सर्वान् एव साक्षिणो नामविभागतो लिखेत् ॥ ८.२५५ ॥

शिरोभिस् ते गृहीत्वा वा स्रग्विणा रक्तवाससः ।

सुकृतैः शापिताः स्वैः स्वैर् नयेयुस् ते समञ्जसम् ॥ ८.२५६ ॥

**शिरोभिर् **इति । ते साक्षिणः कृतमाल्यरक्तवाससो मूर्धनि मृल्लोष्ठं गृहीत्वा यद् अस्माकं सुकृतं तन् निष्फलं स्याद् इत्य् एवमदिभिः सुकृतैः शापिताः समस्ता सीमां सत्याद् अनपेतां कृत्वा निश्चिनुयुः ॥ ८.२५६ ॥

यथोक्तेन नयन्तस् ते पूयन्ते सत्यसाक्षिणः ।

विपरीतं नयन्तस् तु दाप्याः स्युर् द्विशतं दमम् ॥ ८.२५७ ॥

यथोक्तेनेति । ते सत्यप्रधानाः साक्षिणः शास्त्रोक्तेन रूपेण निश्चयन्तः सत्याभिधाननियमाः सर्वे पवित्रा भवन्ति । असत्यं पुनर् निश्चयन्तः प्रत्येकं पणशतद्वयं दण्डं दाप्याः स्युः ॥ ८.२५७ ॥

साक्ष्यभावे तु चत्वारो ग्रामसीमान्तवासिनः ।

सीमाविनिर्णयं कुर्युः प्रयता राजसन्निधौ ॥ ८.२५८ ॥

साक्ष्यभावे तु चत्वारो ग्राम्याः सीमान्तवासिनः इति । तद्ग्रामद्वयस्य विवादीभूतस्य साक्षिणो ऽभावे चतसृषु दिक्षु सीमान्तवासिनः चत्वारो ग्राम्याः साक्षिधर्मेण राजसमक्षं सीमानिर्णयं कुर्युः ॥ ८.२५८ ॥

सामन्तानां अभावे तु मौलानां सीम्नि साक्षिणाम् ।

इमान् अप्य् अनुयुञ्जीत पुरुषान् वनगोचरान् ॥ ८.२५९ ॥

सामन्तानां अभावे तु मौलानां सीमसाक्षिणाम् । इतरान् अपि युञ्जीत पुरुषान् वनगोचरान् ॥ ग्रामसन्निवेशकालाद् आरभ्य तद्ग्रामाभिजनानां सीमान्तवासिनां सीमासाक्षिणाम् अभावे इतरान् अपि वक्ष्यमाणान् वनम् अभ्यवहारिणः पुरुषान् पृच्छेत् ॥ ८.२५९ ॥

व्याधांश् छाकुनिकान् गोपान् कैवर्तान् मूलखानकान् ।

व्यालग्राहान् उञ्छवृत्तीन् अन्यांश् च वनचारिणः ॥ ८.२६० ॥

व्याधान् इति । लुब्धकान् पक्षिवधजीविनो गोपालान् तडागादिखनन्वृत्तीन् वृक्षादिमूलोत्पादकान् सर्पग्राहिणो शिलोञ्छजीविनो ऽन्यांश्च फलपुष्पेन्धनाद्यर्थं वनव्यवहारिणः पृच्छेद् एतैर् इहकार्यार्थं ग्राममध्यं ते सकृद् वनं व्रजन्ति ॥ ८.२६० ॥

ते पृष्टास् तु यथा ब्रूयुः सीमासन्धिषु लक्षणम् ।

तत् तथा स्थापयेद् राजा धर्मेण ग्रामयोर् द्वयोः ॥ ८.२६१ ॥

इति । ते व्याधदयः पृष्टाः सन्तः सीमायाः सन्धिर् यथादेशं येन प्रकारेण ज्ञापकं कुर्युः तत् तेन रूपेण पक्षपातपरिहारेण राजा द्वयोर् ग्रामयोः मर्यादां स्थापयेत

॥ ८.२६१ ॥

क्षेत्रकूपतडागानाम् आरामस्य गृहस्य च ।

सामन्तप्रत्ययो ज्ञेयः सीमासेतुविनिर्णयः ॥ ८.२६२ ॥

सामन्ताश् चेन् मृषा ब्रूयुः सेतौ विवदतां नृणाम् ।

सर्वे पृथक् पृथग् दण्ड्या राज्ञा मध्यमसाहसम् ॥ ८.२६३ ॥

क्षेत्रकूपतडागानाम् इति । सामन्ता इति । सीमानिमित्तं विवदमानानां मनुष्याणां यदि सीमान्तेवासिनः मिथ्या ब्रूयुः तदा राज्ञा ते सर्वे प्रत्येकं मध्यमसाहसं दण्ड्याः । एवं च सामन्तरूपाणां द्वे शते दमः पूर्वोक्तो विज्ञेयः ॥ ८.२६२–२६३ ॥

गृहं तडागम् आरामं क्षेत्रं वा भीषया हरन् ।

शतानि पञ्च दण्ड्यः स्याद् अज्ञानाद् द्विशतो दमः ॥ ८.२६४ ॥

गृहम् इति । गृहतडागोद्यानान्म् अन्यतममारणबन्धनभयकथनपूर्वकं हरन् पञ्चशतपणानि दण्डनीयः स्याद् अत्र भ्रान्त्या तु हरतो द्विशतो दण्ड्यः ॥ ८.२६४ ॥

सीमायाम् अविषह्यायां स्वयं राजैव धर्मवित् ।

प्रदिशेद् भूमिम् एतेषाम् उपकाराद् इति स्थितिः ॥ ८.२६५ ॥

सीमायाम् इति । सीमायां लिङ्गसाक्ष्याद्यभावात् परिच्छेतुम् अशक्यायां राजा धर्मज्ञो ऽपक्षपातेन ग्रामद्वयस्य मध्यवर्तिनीं भूमिं येषाम् एव ग्रामीणानां तया भूम्या उपकारो भवति तेषाम् एवेति मर्यादा ॥ ८.२६५ ॥

एषो ऽखिलेनाभिहितो धर्मः सीमाविनिर्णये ।

अत ऊर्ध्वं प्रवक्ष्यामि वाक्पारुष्यविनिर्णयम् ॥ ८.२६६ ॥

एष इति । एषो ऽनन्तरोक्तो धर्माद् अनपेतः सीमाविनिर्णयो निःशेषेणोक्तः । अनन्तरं परुषभाषणविषयनिर्णयं प्रकर्षेण वक्ष्यामि दण्डपारुष्यतो वाक्पारुष्यस्य प्रायेणासहत्वम् । प्रथमं वाक्पारुष्यविचारो ऽनुक्रमण्यां पुनः पारुष्ये दण्डः वाचिक इति वृत्तानुरोधाद् दण्डशब्दस्य पूर्वाभिधानम् ॥ ८.२६६ ॥

शतं ब्राह्मणम् आक्रुश्य क्षत्रियो दण्डम् अर्हति ।

वैश्यो ऽप्य् अर्धशतं द्वे वा शूद्रस् तु वधम् अर्हति ॥ ८.२६७ ॥

शतम् इति । वादेष्व् इति वक्ष्यमाणत्वान् मातृभगिन्यास्यश्लीलपतनीयवर्जं पुरुषं ब्राह्मणम् आक्रुश्य पणशतं क्षत्रियो वैश्यो ऽध्यर्धशतं द्वे वा शूद्रस् तु वधम् अर्हति । पुनर् आक्रोशविशेषापेक्षया ताडनजिह्वाकर्तनाद्यम् अर्हति ॥ ८.२६७ ॥

पञ्चाशद् ब्राह्मणो दण्ड्यः क्षत्रियस्याभिमर्शने ।

वैश्ये स्याद् अर्धपञ्चाशच् छूद्रे द्वादशको दमः ॥ ८.२६८ ॥

पञ्चाशद् इति । ब्राह्मणक्षत्रियवैश्यशूद्राणाम् उक्ताद्यपेक्षा पञ्चाशत् पञ्चविंशतिः विंशतिः चार्धद्वाशपणान् यथाक्रमं ब्राह्मणो दण्ड्यः ॥ ८.२६८ ॥

समवर्णे द्विजातीनां द्वादशैव व्यतिक्रमे ।

वादेष्व् अवचनीयेषु तद् एव द्विगुणं भवेत् ॥ ८.२६९ ॥

समवर्ण इति । द्विजातीनां समजातिविषये उक्तरूपे आक्रोशे कृते व्यतिक्रमे सति द्वादशैव पणान् दण्ड्यः अवचनीयेषु वादेषु मातृभगिन्याद्यश्लीलरूपेषु शतं ब्राह्मणम् आक्रुश्येत्यादि यद् उक्तं तद् एव दण्डं द्विगुणं दण्डाद् भवति ॥ ८.२६९ ॥

एकजातिर् द्विजातींस् तु वाचा दारुणया क्षिपन् ।

जिह्वायाः प्राप्नुयाच् छेदं जघन्यप्रभवो हि सः ॥ ८.२७० ॥

एकजातिर् इति । शूद्रो द्विजातीन् घातकाद्यभियोगिन्या वाचा आक्रुश्य जिह्वाच्छेदं प्राप्नुयात् यद् अमी पादाख्यनिकृष्ट इति ॥ ८.२७० ॥

नामजातिग्रहं त्व् एषाम् अभिद्रोहेण कुर्वतः ।

निक्षेप्यो ऽयोमयः शङ्कुर् ज्वलन्न् आस्ये दशाङ्गुल्ः ॥ ८.२७१ ॥

नामजातिग्रहम् इति । एषां द्विजातीनाम् आक्रोशबुद्ध्या नामोच्चार्य जात्युच्छारणं च शूद्रस्य कृतवतः आयसकीलो ऽग्निना दीप्यमानो दशाङ्गुलप्रमाण आस्ये प्रक्षेप्तव्यः ॥ ८.२७१ ॥

धर्मोपदेशं दर्पेण विप्राणाम् अस्य कुर्वतः ।

तप्तम् आसेचयेत् तैलं वक्त्रे श्रोत्रे च पार्थिवः ॥ ८.२७२ ॥

धर्मोपदेशम् इति । छद्मना कृतश्चिद् धर्मलेशं बुद्ध्वा अयं ते स्वधर्म इत्य् एवम् अहङ्कारेण ब्राह्मणानां शूद्रस्योपदिशतः आस्ये कर्णयोश् च ज्वलत् तैलं राजा प्रक्षेपयेत्

॥ ८.२७२ ॥

श्रुतं देशं च जातिं च कर्म शारीरम् एव च ।

वितथेन ब्रुवन् दर्पाद् दाप्यः स्याद् द्विशतं दमम् ॥ ८.२७३ ॥

श्रुतम् इति । न त्वयैतच् छ्रुतं न भवान् एतद् देशाभिजातो न तवेयं जातिः न तवोपनयनादिशरीरसंस्कारकं कर्म कृतम् इत्य् एवम् अनृतम् एव्वामार्षीत् समानजातिं ब्रुवन् द्विशतं दण्डं दाप्यः स्यान् न शूद्रः प्रकृतो द्विजातीनां ब्रुवन् दण्डलाघवात् ॥ ८.२७३ ॥

काणं वाप्य् अथ वा खञ्जम् अन्यं वापि तथाविधम् ।

तथ्येनापि ब्रुवन् दाप्यो दण्डं कार्षापणावरम् ॥ ८.२७४ ॥

काणम् इति । काणं पादविकलं वा अन्यम् अपि वा तथारूपम् अङ्गविकलम् अन्धादिकं काणादिशब्देन सत्येनापि ब्रुवन् यदि सर्वनिकृष्टं कार्षापणं दण्डं दाप्यः ॥ ८.२७४ ॥

मातरं पितरं जायां भ्रातरं तनयं गुरुम् ।

आक्षारयञ् छतं दाप्यः पन्थानं चाददद् गुरोः ॥ ८.२७५ ॥

मातरम् इति । क्षारिताक्षारितौ सद्भिर् अभिशताव् उदाहृताव् इति त्रिकाण्डदर्शनात् मातृपितृभार्याभ्रातृपुत्रगुरूणां महापातकाभिशापम् उत्पादयन् गुरोश् च पन्थानम् अददच् छतं दण्ड्यः । अभ्यासानभ्यासाक्षारणेन वात्र मातृभार्यादीनां दण्डस्य विषमसीमाकरणं परिहरणीयम् ॥ ८.२७५ ॥

ब्राह्मणक्षत्रियाभ्यां तु दण्डः कार्यो विजानता ।

ब्राह्मने साहसः पूर्वः क्षत्रिये त्व् एव मध्यमः ॥ ८.२७६ ॥

ब्राह्मणक्षत्रियाभ्याम् इति । ब्राह्मणक्षत्रियाभ्याम् इतरेतरं पतनीयाक्रोशे कृते सति तयोः शास्त्राभिजनदेशजात्यादिनायं दण्डः कर्तव्यः । क्षत्रियाक्रोशे सति ब्राह्मणे प्रथमसाह्सः कर्तव्यः । ब्राह्मणाक्रोशे निपुणः क्षत्रिये मध्यमसाहसः ॥ ८.२७६ ॥

विट्शूद्रयोर् एवम् एव स्वजातिं प्रति तत्त्वतः ।

छेदवर्जं प्रणयनं दण्डस्येति विनिश्चयः ॥ ८.२७७ ॥

विट्शूद्रयोर् इति । वैश्यशूद्रयोः परस्परजातिं प्रति पतनीयाक्रोशे ब्राह्मणक्षत्रियवत् । प्रथममध्यमसाहसात्मकं जिह्वाच्छेदवर्जं यथावद् दण्डस्य करणम् । एकं च ब्राह्मणक्षत्रियाक्रोशे । एवं शूद्रस्य जिह्वाच्छेदनम् अवतिष्ठते ॥ ८.२७७ ॥

एष दण्डविधिः प्रोक्तो वाक्पारुष्यस्य तत्त्वतः ।

अत ऊर्ध्वं प्रवक्ष्यामि दण्डपारुष्यनिर्णयम् ॥ ८.२७८ ॥

एष इति । एषो ऽनन्तरो वाक्सम्बन्धिनः पारुष्यस्य दण्डप्रकारो यः प्रागुक्तो ऽस्माद् अनन्तरहस्तकाष्ठशस्त्रादिसम्बन्धिनः पारुष्यस्य दुःखोत्पादनहेतोस् ताडनहिंशनादेर् दण्डनिर्णयं वक्ष्यामि ॥ ८.२७८ ॥

येन केनचिद् अङ्गेन हिंस्याच् चेच् छ्रेष्टम् अन्त्यजः ।

छेत्तव्यं तत् तद् एवास्य तन् मनोर् अनुशासनम् ॥ ८.२७९ ॥

येनेति । अन्त्यजः शूद्रो येन केनचिद् धस्तपादादिना वा न साक्षाद् दण्डादिव्यवहितेन वा द्विजम् एव प्रहरेत् तत् तद् अङ्गम् एवास्य छेदनीयम् इत्य् एवं अम्नुसम्बन्धिनी उपदेशो मनुग्रहणम् आदरार्थम् अस्यैवोत्त्तरं च ॥ ८.२७९ ॥

पाणिम् उद्यम्य दण्डं वा पाणिच्छेदनम् अर्हति ।

पादेन प्रहरन् कोपात् पादच्छेदनम् अर्हति ॥ ८.२८० ॥

**पाणिम् उद्यम्येति **। हस्तं दण्डं वावगूर्य हस्तच्छेदनयोग्यो भवति । पादेन क्रोधेन प्रहरन् पादच्छेदनार्हो भवति ॥ ८.२८० ॥

सहासनम् अभिप्रेप्सुर् उत्कृष्टस्यापकृष्टजः ।

कट्यां कृताङ्को निर्वास्यः स्फिचं वास्यावकर्तयेत् ॥ ८.२८१ ॥

सहासनम् इति । ब्राह्मणेन सहैकस्मिन्न् आसने निकृष्टजन्मा शूद्र उपविशन् कट्यां कृततप्तायःस्थिरचिह्नो देशान् निर्वासनीयः । स्फिजाख्यं वा श्रोष्यधोकर्तनं कुर्यात् ॥ ८.२८१ ॥

अवनिष्ठीवतो दर्पाद् द्वाव् ओष्ठौ छेदयेन् नृपः ।

अवमूत्रयतो मेढ्रम् अवशर्धयतो गुदम् ॥ ८.२८२ ॥

अवनिष्ठीवनाद् इति । निष्ठीवनेन श्लेष्मणां मर्षेण श्लेष्माणं वमयन् शूद्रस्य द्वाव् अप्य् ओष्ठौ छेदयेद् एवं मूत्रेणावमानयतो लिङ्गम् अधमाङ्गध्वनिनावमानयतः पायुं छेदयेत् ॥ ८.२८२ ॥

केशेषु गृह्णतो हस्तो छेदयेद् अविचारयन् ।

पादयोर् दाढिकायां च ग्रीवायां वृषणेषु च ॥ ८.२८३ ॥

केशेष्व् इति । केशपादश्मश्रुग्रीवावृषणानां चान्यतमस्माद् ब्राह्मणं शूद्रस्य हस्ताभ्याम् आकर्षयतो हस्ताविलम्बमानो राजा छेदयेत् ॥ ८.२८३ ॥

त्वग्भेदकः शतं दण्ड्यो लोहितस्य च दर्शकः ।

मांसभेत्ता तु षण्णिष्कान् प्रवास्यस् त्व् अस्थिभेदकः ॥ ८.२८४ ॥

त्वग्भेदक इति । चर्ममात्रभेदकृत् समानजातिः न तु शूद्रो ब्राह्मणस्य दण्डलाघवात् पणशतं दण्डनीयः । तथा रुधिरोत्पादी शतम् एव दण्ड्यो मांसभेदकृत् षड् निष्कान् दण्ड्यो ऽस्थिभेदी देशान् निर्वास्यः ॥ ८.२८४ ॥

वनस्पतीनां सर्वेषाम् उपभोगो यथा यथा ।

तथा तथा दमः कार्यो हिंसायाम् इति धारणा ॥ ८.२८५ ॥

वनस्पतीनां सर्वेषाम् उपभोगो यथा यथेति । छायादानात्मकेन निकृष्ट उपभोगः वनस्पतिवृक्षाणां सर्वेषां येन येन प्रकारेण उपभोगः कुसुमादानरूपेण मध्यमः फलादानमायतोत्कृष्टः तदपेक्षया छेदने दण्डः कार्यः । छायामात्रोपभोगिनि तदादौ स्वल्पो दण्डः पुष्पोप्भोगिनि मल्लिकादाउ मध्यमः फलोपभोगिनि आम्रादाव् उत्कृष्टः

॥ ८.२८५ ॥

मनुष्याणां पशूनां च दुःखाय प्रहृते सति ।

यथा यथा महद् दुःखं दण्डं कुर्यात् तथा तथा ॥ ८.२८६ ॥

मनुष्यानाम् इति । मनुष्याणां पशूनां च पीडोत्पादनार्थं प्रहारे दत्ते सति यथा यथा महती पीडा त्वग्भेदादाव् अपि मर्मभेदनादिना भवति तथा तथा त्वग्भेदकरी शरं दण्ड्य इत्य् एवमादितो ऽधिकम् अपि दण्डं कुर्यात् ॥ ८.२८६ ॥

अङ्गावपीडनायां च प्राणशोणितयोस् तथा ।

समुत्थानव्ययं दाप्यः सर्वदण्डम् अथापि वा ॥ ८.२८७ ॥

**अङ्गावपीडनायां च प्राणशोणितयोस् तथा । समुत्थानव्ययं दाप्यः सर्वदण्डम् अथापि वा । **अङ्गेनोदरबाह्वादीनां येन वस्त्रादिबन्धनादिना पीडनानि कृतानि तथा प्राणस्य वायोर् येन निरोधादिना पीडनानि कृतानि रुधिरस्यापि येन दृढमुष्टिरज्ज्वाद्याकर्षणेन बहिःस्रवणवर्जितम् अपि पीडनं कृतं सशरीरस्य प्राग् रूपापत्त्युत्पादकम् औषधादिव्ययं तस्य राज्ञा दापनीयः । आत्मीयश् च दण्डम् असौ समुत्थानव्ययं न गृह्णाति तदा तद् व्यययं दण्डं चोभयम् अपि दण्डार्थं राज्ञा दापनीयः ॥ ८.२८७ ॥

द्रव्याणि हिंस्याद् यो यस्य ज्ञानतो ऽज्ञानतो ऽपि वा ।

स तस्योत्पादयेत् तुष्टिं राज्ञे दद्याच् च तत्समम् ॥ ८.२८८ ॥

द्रव्याणीति । चर्मचार्मिकादि वक्ष्यमाणम् अतिरिक्तानि कटकाङ्गदादीनि द्रव्याणि यस्य सम्बन्धीनि यो हठात् प्रमादाद् वा नाशयेत् स तस्य प्रतिसंस्कारादिना तुष्टिम् उत्पादयेद् राज्ञे विनाशितद्रव्यसमानं दण्डं दद्यात् ॥ ८.२८८ ॥

चर्मचार्मिकभाण्डेषु काष्ठलोष्ठमयेषु च ।

मूल्यात् पञ्चगुणो दण्डः पुष्पमूलफलेषु च ॥ ८.२८९ ॥

चर्मचार्मिकभाण्देष्व् इति । चर्मेषु चर्मकाष्ठमृण्मयेषु भाण्डेषु पुष्पमूलफलेषु च परकीयेषु च नास्ति तेषु तन्मूल्यात् पञ्चगुणो दण्डो राज्ञादेयः तुष्ट्युत्पत्तिश् च स्वामिनः कार्याः ॥ ८.२८९ ॥

यानस्य चैव यातुश् च यानस्वामिन एव च ।

दशातिवर्तनान्य् आहुः शेषे दण्डो विधीयते ॥ ८.२९० ॥

यानस्येति । यानस्य गन्त्र्यादेर् यातुश् च सारथ्यादेर् यानस्वामिनः यत्सम्बन्धियानं तेषां छिन्ननासास्यत्वादीनि वक्ष्यमाणानि निमित्तादीनि अतिवर्तनानि दण्डं चातिक्रम्य वर्तन्ते । तेषु सत्सु यानेन प्राणिहिंसाद्रव्यविनाशयोर् अपि कृतयोर् यानस्वाम्यादीनां सारथ्ये इत्य् एवं सारथ्यादिसम्बन्धिवाग्दाने सति यानेन प्राणिहिंसाद्रव्यविनाशयोः सारथ्यादेः दण्डो न भवतीति मन्वादय आहुस् तन् न, निमितव्यतिरेकेषु पुनर् दण्डः क्रियते ॥ ८.२९० ॥

यत्र नास्ति दोषस् तानि तावद् आह ।

छिन्ननास्ये भग्नयुगे तिर्यक्प्रतिमुखागते ।

अक्षभङ्गे च यानस्य चक्रभङ्गे तथैव च ॥ ८.२९१ ॥

छेदने चैव यन्त्राणां योक्त्ररश्म्योर् तथैव च ।

आक्रन्दने चाप्य् अपैहीति न दण्डं मनुर् अब्रवीत् ॥ ८.२९२ ॥

छिन्ननास्य इति । छेदन इति । छिन्ननासिकारज्जौ बलीवर्दे भग्ने युग्माख्यकाष्ठे गन्त्र्यादौ भूमिविषमादिना तिरश्चीनं वा गतं प्रतीचीनं वा तथा यानस्य गन्त्यादेष्व् अक्षमप्रविश्य कीलकादि तस्य भङ्गे यन्त्राणां च चर्मबन्धानां छेदने योक्त्राख्यपशुग्रीवाकाष्ठरज्जुछेदने ऽपसरापसरेत्य् एवं सारथ्यादिसम्बन्धिनि चाह्वाने सति यानेन प्राणिहिंसाद्रव्यविनाशयोः सारथ्यादेर् दण्डो न भवति इति मनुर् आह ॥ ८.२९१–९२ ॥

यत्रापवर्तते युग्यं वैगुण्यात् प्राजकस्य तु ।

तत्र स्वामी भवेद् दण्ड्यो हिंसायां द्विशतं दमम् ॥ ८.२९३ ॥

यत्रापवर्तते युग्मम् इति । यत्र पुनः सारथेर् अकौशल्यात् यानम् अन्यथा व्रजति तत्र हिंसायाम् अकुशलसारथिकरणाद्यान् अस्वामी द्विशतं दण्डं दाप्यः । सारथेश् च मनुष्यमारणे सत्य् अपि अविलम्बितत्वं क्षिप्रम् इत्य् एव सारथिर् वक्ष्यमाणो भवति । एवं च द्विशतग्रहस्योत्तरश्लोके च शतग्रहणस्य विवक्षितत्वम् आहुस् तद् असद् अप्रमादाभिधायितत्वाद् ऋषेः ॥ ८.२९३ ॥

प्राजकश् चेद् भवेद् आप्तः प्राजको दण्डम् अर्हति ।

युग्यस्थाः प्राजके ऽनाप्ते सर्वे दण्ड्याः शतं शतम् ॥ ८.२९४ ॥

प्राजक इति । यदि पुनः सारथिः कुशलस् तदा सारथिर् एव मनुष्यमारणे इत्यादि वक्ष्यमाणम् अर्हति दण्डं न स्वामी द्विशतम् अकुशले सारथौ स्वाम्यतिरिक्ता अन्ये ऽपि यानारूढाः अकुशलसारथियानारोहणात् सर्वे शतं शतं दण्ड्याः । सारथिस् तु मनुष्यमारण इत्यादिस्थित एव ॥ ८.२९४ ॥

स चेत् तु पथि संरुद्धः पशुभिर् वा रथेन वा ।

प्रमापयेत् प्राणभृतस् तत्र दण्डो ऽविचारितः ॥ ८.२९५ ॥

इति । स प्राजकः सम्मुखागतयानान्तराद् अवरुद्धैर् बलीवर्दादिभिः संरुद्धयानो रथान्तरेण व भूमिवैषम्यात् प्रत्यग् अपसर्पिणा अकुशलत्वात् प्राणिनो रथप्रमापयेत् तत्र दण्डो मन्वादिभिर् विचारितः ॥ ८.२९५ ॥

मनुष्यमारणे क्षिप्रं चौरवत् किल्बिषं भवेत् ।

प्राणभृत्सु महत्स्व् अर्थं गोगमोष्ट्रहयादिषु ॥ ८.२९६ ॥

मनुष्यमारण इति । प्राजकस्याकौशलेन मनुष्यमारणे सत्य् अपि विलम्बत्वम् एव चोरवत् तस्य उत्तमसाहसो न तु वधादिचोरदण्डः । प्राणभृत्सु महत्स्व् अर्धदर्शनान् महत्सु च प्राणिषु प्रभावतो गवादिषु प्रमाणतः स्यात् । (मारितेषु अहिमहिषेषु) उत्तमस्य साहसपञ्चशतानि दण्डो भवेत् ॥ ८.२९६ ॥

क्षुद्रकाणां पशूनां तु हिंसायां द्विशतो दमः ।

पञ्चाशत् तु भवेद् दण्डः शुभेषु मृगपक्षिषु ॥ ८.२९७ ॥

क्षुद्रकाणाम् इति । अजाविकानां वक्ष्यमाणत्वाद् अपचितप्रमाणानां वत्सकिशोरादीनां पशूनां हिंसायाम् द्विशतो दण्दः कार्यः । पुनर् मृगपक्षिषु वराहादिषु हिंसायां पञ्चाशत्पणो दण्डो भवेत् ॥ ८.२९८ ॥

गर्दभाजाविकानां तु दण्डः स्यात् पाञ्चमाषिकः ।

माषिकस् तु भवेद् दण्डः श्वसूकरनिपातने ॥ ८.२९८ ॥

गर्दभाजाविकानाम् इति । खरच्छागाविविषयवधे रूप्यमाषकपरिमाणो दण्डः स्याद् उत्तरोत्तरम् अपचितं दण्डाभिधानदर्शनाद् अहैरण्यं माषग्रहणं पूर्वदण्डानूनत्वान् नापि ताम्रिकस्य करणम् अत्यन्तलधुत्वोदयं श्वशूकरमारणे ऽपि रूप्यमाषकपरिमाणो दण्डः स्यात् ॥ ८.२९८ ॥

भार्या पुत्रश् च दासश् च प्रेष्यो भ्रात च सोदरः ।

प्राप्तापराधास् ताड्याः स्यू रज्ज्वा वेणुदलेन वा ॥ ८.२९९ ॥

भार्या शिष्यश् च दासश् च पुत्रो भ्राता च सोदर इति । भार्यादयः कृतापराधा रज्ज्वा वेणुत्वचा वा दण्डनीयाः स्युर् इति हिंसादण्डोपराधार्थः । साधने दण्ड्याः स्युः ॥ ८.२९९ ॥

पृष्ठतस् तु शरीरस्य नोत्तमाङ्गे कथञ्चन ।

अतो ऽन्यथा तु प्रहरन् प्राप्तः स्याच् चौरकिल्बिषम् ॥ ८.३०० ॥

पृष्ठत इति । ते पुनः शरीरस्य पृष्ठदेशे ताडनीयाः न तु कदाचित्द् उत्त्माङ्गे न वक्षसि उक्तप्रकारव्यतिरेकेण ताडयित्वा दण्डरूपेण वाग्दण्डरूप चौरदण्दं प्राप्नुयात् ॥ ८.३०० ॥

एषो ऽखिलेनाभिहितो दण्डपारुष्यनिर्णयः ।

स्तेनस्यातः प्रवक्ष्यामि विधिं दण्डविनिर्णये ॥ ८.३०१ ॥

एष इति । अनन्तरोक्तो वाग्दण्डः पारुष्यस्य निर्णयो निःशेषेणोक्तः । अत ऊर्ध्वं चौरदण्डस्य व्यवस्थाया विधानं वक्ष्यामि ॥ ८.३०१ ॥

परमं यत्नम् आतिष्ठेत् स्तेनानां निग्रहे नृपः ।

स्तेनानां निग्रहाद् अस्य यशो राष्ट्रं च वर्धते ॥ ८.३०२ ॥

परमम् इति । चौरनियमे प्रकृष्टम् अभियोगं राजा कुर्यात् यस्मात् तन्निग्रहात् राज्ञः प्रजाः निरुप्द्रवतया च देशो जनधनबाहुल्येन वृद्धिम् एति ॥ ८.३०२ ॥

अभयस्य हि यो दाता स पूज्यः सततं नृपः ।

सत्त्रं हि वर्धते तस्य सदैवाभ्यदक्षिणम् ॥ ८.३०३ ॥

**अभयस्येति **। चौरपापस्य निग्रहेण साधूनाम् अभयं ददाति स सदा सर्वस्य पूज्यो भवति । यस्मात् सत्त्रम् ऋतुविशेषवत् स्तेननिग्रहः सम्पद्यते । स्तेननिग्रहाख्यं तस्यान्यसत्रविलक्षणम् अतिशयेन सम्पद्यते । अन्यत् किल सत्रं नियतकालं भवति इदं सदैव भवति चादक्षिणं चान्यत् सत्रम् । इदं पुनर् अभयं दक्षिणा यस्य तद् अभयदक्षिणम् ॥ ८.३०३ ॥

सर्वतो धर्मषड्भागो राज्ञो भवति रक्षतः ।

अधर्माद् अपि षड्भागो भवत्य् अस्य ह्य् अरक्षतः ॥ ८.३०४ ॥

सर्वत इति । सर्वतो भृतिप्रदानव्यतिरिक्ताच् च श्रोत्रियादीनां साधूनां सकाशाद् धर्मषड्भागो राज्ञः प्रजारक्षणाद् भवति । अरक्षतश् चाधर्माद् अपि लोके चौर्यभागात् षड्भागो ऽस्य भवति तस्माद् यत्नतः स्तेननिग्रहेण प्रजासंरक्षणं कुर्यात् । न च वृत्तिपरिक्रीतत्वाद् राज्ञो धर्मप्राप्तिर् अयुक्ता वृत्तिपरिक्रयवद् धर्मभागपरिक्रयस्यापि शास्त्रीयत्वात् ॥ ८.३०४ ॥

यद् अधीते यद् यजते यद् ददाति यद् अर्चति ।

तस्य षड्भागभाग् राजा सम्यग् भवति रक्षणात् ॥ ८.३०५ ॥

यद् अधीत इति । यः कश्चिद् अध्ययनयजनयाजनदेवतार्चनादि यत् फलं तस्य फलस्य राज्ञा सम्यक् प्रजापालनात् षड्भागः प्राप्यते ॥ ८.३०५ ॥

रक्षन् धर्मेण भूतानि राजा वध्यांश् च घातयन् ।

यजते ऽहर् अहर् यज्ञैः सहस्रशतदक्षिणैः ॥ ८.३०६ ॥

**रक्षन् धर्मेणेति **। भूतानि स्थावरजङ्गमानि शास्त्रव्यवस्थया राजा रक्षन् वध्यान् स्तेनादीन् यथाशास्त्रं घातयन् लक्षदक्षिणानां यज्ञानां सम्बन्धिफलं प्रत्यहम् अर्जयति । तत्र महाप्रयासकर्मसम्बन्धिफलं कथम् अल्पप्रयासात् कर्मणः प्राप्यते तथा सति को नाम प्रयासेषु वर्तेतेति चोदनीयम् । फलोपभोगकालाल्पभूयस्त्वे च विशेषसम्भवात् । एवम् अन्यत्रापि द्रष्टव्यम् ॥ ८.३०६ ॥

यो ऽरक्षन् बलिम् आदत्ते करं शुल्कं च पार्थिवः ।

प्रतिभागं च दण्डं च स सद्यो नरकं व्रजेत् ॥ ८.३०७ ॥


यो ऽरक्षन्न् इति । भूतिभोगं चेति । यो राजा प्रजासंरक्षणम् अकुर्वन् धान्यादेः षड्भागादिकं करं गुल्मदास्यादिकं स्थलपथादिजीविभ्यो गतागतिभ्यो भूतेर् भोगं फलं फलकुसुमाद्युपायेन शुल्कं दण्डं व्यवहारादौ गृह्णात् । स आयुःक्षयेण सत्यम् एव नरकं याति ॥ ८.३०७ ॥

अरक्षितारम् अत्तारं बलिषड्भागहारिणम् ।

तम् आहुः सर्वलोकस्य समग्रमलहारकम् ॥ ८.३०८ ॥

अरक्षितारम् इति । यो राजा न रक्षति अन्यच् च दान्यादिषड्भागं बलिरूपं गृह्णाति तं सकललोकसम्बन्धिसर्वपापस्वीकारिणं मन्वाद्या आहुः ॥ ८.३०८ ॥

अनवेक्षितमर्यादं नास्तिकं विप्रलुम्पकम् ।

अरक्षितारम् अत्तारं नृपं विद्याद् अधोगतिम् ॥ ८.३०९ ॥

अनपेक्षितमर्यादम् इति । अतिक्रान्तशास्त्राचारमर्यादं परलोकाभावबुद्धिम् असद्दण्डादिधनच्छेद्नं करबलियादेर् च राजानं नरकगामिनं जानीयात् ॥ ८.३०९ ॥

अधार्मिकं त्रिभिर् न्यायैर् निगृह्णीयात् प्रयत्नतः ।

निरोधनेन बन्धेन विविधेन वधेन च ॥ ८.३१० ॥

अधार्मिकम् इति । अधार्मिकं चौरम् अपराधापेक्षया त्रिभिर् नियमनप्रकारैः प्रयत्नेन नियच्छेत् । बन्धनागारस्थापननिगडादिबन्धनकरचरणकर्तनादि नानाप्रकारहिंसनैर् इति ॥ ८.३१० ॥

निग्रहेण हि पापानां साधूनां सङ्ग्रहेण च ।

द्विजातय इवेज्याभिः पूयन्ते सततं नृपाः ॥ ८.३११ ॥

निग्रहेणेति । यस्मात् पापकर्मणो निग्रहेण साध्वाचाराणां चानुग्रहेण राजानो द्विजातय इव महायज्ञादिभिः सर्वकालं पवित्री भवन्ति तस्माद् अधार्मिकं निगृह्णीयात् ॥ ८.३११ ॥

क्षन्तव्यं प्रभुणा नित्यं क्षिपतां कार्यिणां नृणाम् ।

बालवृद्धातुराणां च कुर्वता हितम् आत्मने ॥ ८.३१२ ॥

क्षन्तव्यम् इति । बालवृद्धातुराणां च कुर्वतां हितम् आत्मने । कार्यवतां क्षिपतां स्तेनहतबान्दवादीनां सन्तापेनाक्रोशतां बालवृद्धव्याधितानां चाक्रोशतां आत्मने वक्ष्यमाणम् उपकारम् इच्छतां पार्थिवेन सर्वदा क्षमणीयम् ॥ ८.३१२ ॥

यः क्षिप्तो मर्षयत्य् आर्तैस् तेन स्वर्गे महीयते ।

यस् त्व् ऐश्वर्यान् न क्षमते नरकं तेन गच्छति ॥ ८.३१३ ॥

यत् क्षिप्तो मर्षयतीति । सन्तप्तैर् आक्रुष्टो यत् तेषां क्षमते तेन स्वर्गलोके महीयते महिमानं भजते यत् पुनः प्रभुत्व्दर्पान् न सहते तेन नरकं व्रजति ॥ ८.३१३ ॥

राजा स्तेनेन गन्तव्यो मुक्तकेशेन धीमता ।

आचक्षाणेन तत् स्तेयम् एवङ्कर्मास्मि शाधि माम् ॥ ८.३१४ ॥

स्कन्धेनादाय मुशलं लगुडं वापि खादिरम् ।

शक्तिं चोभयतस् तीक्ष्णाम् आयसं दण्डम् एव वा ॥ ८.३१५ ॥

राजेति । स्कन्धेनेति । सुवर्णस्तेयकृद् विप्र इत्यादिना प्रायश्चित्तप्रकरणे वक्ष्यमाणस् तेन कर्तव्यः अनेन श्लोकद्वयेन अस्मिन् दण्डप्रकरणे ऽनूद्यते सुवर्णस्तेनं प्रति दण्डाख्यराजकर्तव्यस्योपदेशार्थः । ब्राह्मणसुवर्णचौरेण मुक्तकेशेनादराद् वेगगतिना ब्राह्मणसुवर्णम् इदं मयापहृतम् इत्य् एवं तत्स्तेयं ख्यापयता मुशलाख्येनायुधं खदिरमयं वा लगुडं शक्त्याख्यं चायुधं तीक्ष्णोभयप्रान्तम् अयोमयं वा दण्डं स्कन्धेन गृहीत्वा राजसमीपं गन्तव्यम् । गत्वा च ब्राह्मणसुवर्णापहारी चाहम् अनेन मुशलादिना मां जहीत्य् एवं राज्ञो वक्तव्यम् ॥ ८.३१४–३१५ ॥

शासनाद् वा विमोक्षाद् वा स्तेनः स्तेयाद् विमुच्यते ।

अशासित्वा तु तं राजा स्तेनस्याप्नोति किल्बिषम् ॥ ८.३१६ ॥

शासनाद् इति । प्रशाधि त्वेति । राजसम्बन्धिहननेन परित्यागेन वा स चौरंस् तस्मात् पापात् विमुच्यते । तं पुनः स्तेनं न जातु ब्राह्मणं हन्यात् सर्वपापेष्व् अपि स्थितम् इति वक्ष्यमाणत्वात् ब्राह्मणतर्जनहन्ता राजा तस्य सम्बन्धि यत् पापं प्राप्नोति तस्माद् असौ राज्ञा हन्तव्यः । इत्य् एवम्परम् एतत् सर्वम् इहाभिधानम् ॥ ८.३१६ ॥

अन्नादे भ्रूणहा मार्ष्टि पत्यौ भार्यापचारिणी ।

गुरौ शिष्यश् च याज्यश् च स्तेनो राजनि किल्बिषम् ॥ ८.३१७ ॥

यस्माद्** अन्नाद** इति । यो ब्राह्म्हा स तत्सम्बन्धि अन्नम् अत्ति तद्विषयम् आत्मीयं पापं शोधयति पापं तस्य भवतीत्य् एवम् एतद् एवात्र विवक्षितम् । न तु भ्रूणपापप्रायश्चित्तधिया । तथैवं भार्या व्यभिचारिणी उपपतिं क्षममाणे भर्तरि पापं तं संश्लेषयति । शिष्यश् च यमनियमाननुष्ठानजन्यं पापं गुरौ सहमाने अर्पयति । याज्यश् च यागे ऽन्यथा प्रचरन् याजके क्षममाणे प्रक्षिपति । स्तेनश् च राजनि सहमाने सत्य् असति तस्माद् राज्ञा वक्तव्यः ॥ ८.३१७ ॥

राजभिर् धृतदण्डास् तु कृत्वा पापानि मानवाः ।

निर्मलाः स्वर्गम् आयान्ति सन्तः सुकृतिनो यथा ॥ ८.३१८ ॥

राजभिर् इति । ते समुद्धृताः पापानि कृत्वा पूर्वर्जनं तथा क्रतुवरान् कृत्वा स्वर्गम् अपापाः सन्तः शिष्टा इव शुभकारिणो व्रजन्ति । ये तत्पापनिमित्तं राजनि कृतदण्डा भवन्ति इह पापानीति बहुवचनात् हिरण्यस्तेनविषय एव दण्ड्यः न कार्यनिष्कृतिः अपि तु सकलैनः स्वविषये व्यवसीयते न च स्वयम् आगतविषयैव दण्डेन पापनिष्कृतिः न हठदण्डितविषये मन्तव्यम् । हठदण्डितस्यापि यदि संसाधयेत् तच्चित्यादिनिष्कृतेर् दर्शितत्वाद् याम्ययातनाभिर् वा कथं परवशस्य निष्कृतिः स्यात् ॥ ८.३१८ ॥

यस् तु रज्जुं घटं कूपाद् धरेद् भिन्द्याच् च यः प्रपाम् ।

स दण्डं प्राप्नुयान् माषं तच् च तस्मिन् समाहरेत् ॥ ८.३१९ ॥

इति । यः कूपाद् रज्जुघटम् अपहरेत् यो वा उदकदानगृहं विनाशयेत् [विदारेयेत्] सरूप्यं सुवर्णं वा माषं स राज्ञा सकलेशाद्यपेक्षया दण्डं प्राप्नुयात् । तत्र च रज्ज्वादि तस्मिन् कूपे प्रत्यानयेत् ॥ ८.३१९ ॥

धान्यं दशभ्यः कुम्भेभ्यो हरतो ऽभ्यधिकं वधः ।

शेषे ऽप्य् एकादशगुणं दाप्यस् तस्य च तद् धनम् ॥ ८.३२० ॥

धान्यम् इति । द्विपलं शतं द्रोणं विंशतिद्रोणा एककुम्भः । दशकुम्भेभ्यो ऽधिकं धान्यं हरतो हर्तृक्रियमाणगुणापेक्षया सुभिक्षदुर्भिक्षाद्यपेक्षया च ताडनाङ्गच्छेदनाद्यात्मको वधदण्डः कर्तव्यो राज्ञा दशकुम्भं पुनर् यावद् अपहृतम् एकादशगुणं दण्डं दाप्यः । तस्य च तद् धनं दाप्यः । वक्ष्यमाणं च सर्वत्र स्वामिनो दाप्यः ॥ ८.३२० ॥

तथा धरिममेयानां शताद् अभ्यधिके वधः ।

सुवर्णरजतादीनाम् उत्तमानां च वाससाम् ॥ ८.३२१ ॥

तथेति । सुवर्णरजतादीनां महार्घाणां वाससाम् । न केवलं धान्ये यथा पूर्वोक्तो यावत् तुलाछेद्यानाम् अपि सुवर्णरजतप्रवालादीनाम् उत्कृष्टानां च वाससां चान्तःपट्टादीनां एतच् छताद् अभ्यदिके ऽपहृते वधः कर्तव्यः । विषमसमीकरणं चात्र देशकालापहृतद्रव्यं स्वामिजातिगुणाद्यपेक्षया परिहरणीयम् । अन्यथा महार्घालपार्घयोः तुल्यदण्डता स्याद् एवं द्रष्टव्यम् ॥ ८.३२१ ॥

पञ्चाशतस् त्व् अभ्यधिके हस्तच्छेदनम् इष्यते ।

शेषे त्व् एकादशगुणं मूल्याद् दण्डं प्रकल्पयेत् ॥ ८.३२२ ॥

पञ्चाशत इति । एषां पूर्वनिर्दिष्टानां पञ्चाशत ऊर्ध्वं शतस्य यावद् अपहृते चैतत् हस्तच्छेदनं मन्वादिभिर् उच्यते । पञ्चाशतः पञ्चाशतः यावद् अपहृते तन्मूल्याद् एकादशगुणं राजा दण्डं कुर्यात् ॥ ८.३२२ ॥

पुरुषाणां कुलीनानां नारीणां च विशेषतः ।

मुख्यानां चैव रत्नानां हरण्र् वधम् अर्हति ॥ ८.३२३ ॥

पुरुषाणाम् इति । महाकुलानां मनुष्याणां विशेषेण च स्त्रीणां महाकुलोत्पन्नानां प्रधानानां मणीनां वज्रवैडुर्यादीनां हरणे देशकालहर्तृस्वामिजात्याद्यपेक्षया ताडनाङ्गच्छेदनत्मकं वधम् अर्हति ॥ ८.३२३ ॥

महापशूनां हरणे शस्त्राणाम् औषधस्य च ।

कालम् आसाद्य कार्यं च दण्डं राजा प्रकल्पयेत् ॥ ८.३२४ ॥

महापशूनाम् इति । हस्त्यश्वगोमहिषादीनां महतां पशूनां हरणे खड्गादीनां कल्याणघृतादेश् च कालविग्रहदुर्भिक्षात्मकं कार्यं चापहारप्रयोजनं द्युतवैररज्ज्ववसादादिरूपं पर्यालोच्य राजन्यूनाधिकं दण्डं प्रकल्पयेत् । अनुबन्धं परिज्ञाय नैतल्लाघवार्थम् अपि सादरार्थम् उच्यते शस्त्रौषधहस्ताद्यपहारे विग्रहादौ स्थूलानर्थोत्पादनात् ॥ ८.३२४ ॥

गोषु ब्राह्मणसंस्थासु नासिकायाश् च भेदने ।

पशूनां हरणे चैव सद्यः कार्यो ऽर्धपादिकः ॥ ८.३२५ ॥

गोषु ब्राह्मणसंस्थासु नासिकायाश् च भेदन इति । ब्राह्मणसम्बन्धीनां गवाम् अपहरणे, एवं वन्ध्यायाश् च गोः वाहनाध्यर्थं नासिकाभेदने पशूनां चैडकादीनां दण्डभूयस्ताद् यागाद्यर्थानाम् अपहरणे समनन्तरम् एव पादार्धच्छेदयुक्तो दण्डः कार्यः ॥ ८.३२५ ॥

सूत्रकार्पासकिण्वानां गोमयस्य गुडस्य च ।

दध्नः क्षीरस्य तक्रस्य पानीयस्य तृणस्य च ॥ ८.३२६ ॥

वेणुवैदलभाण्डानां लवणानां तथैव च ।

मृण्मयानां च हरणे मृदो भस्मन एव च ॥ ८.३२७ ॥

मत्स्यानां पक्षिणां चैव तैलस्य च घृतस्य च ।

मांसस्य मधुनश् चैव यच् चान्यत् पशुसम्भवम् ॥ ८.३२८ ॥

अन्येषां चैवमादीनाम् अद्यानाम् ओदनस्य च ।

पक्वान्नानां च सर्वेषां तन्मूल्याद् द्विगुणो दमः ॥ ८.३२९ ॥

**सूत्रकार्पासकिण्वानाम् **इति । **वेणुवैदलभाण्डानाम् **इति । ऊर्णादिसूत्रस्य किण्वाख्यस्य च तुराद्रव्यस्य तक्रस्य गोरसस्य वैदलानां च वेण्वादित्वङ्निर्मितानां भाण्डानां लवणानां सैन्धवबिडलवणादीनां मधुनः माक्षिकस्य यद् अप्य् अल्पतरपशुप्रभवं शृङ्गदन्तादि तस्य तथान्येषाम् अप्य् एवंविधानां च सारद्रव्याणां मनःशिलसिन्दूरादीनां ओदनस्य च भक्तसक्त्वादेः पक्वान्नानां चापूपमोदकानां सर्वेषां च कार्पासादीनां च प्रसिद्धानां हरणान् मूल्याद् द्विगुणो दण्डः कार्यः ॥ ८.३२६–३२९ ॥

पुष्पेषु हरिते धान्ये गुल्मवल्लीनगेषु च ।

अन्येष्व् अपरिपूतेषु दण्डः स्यात् पञ्चकृष्णलः ॥ ८.३३० ॥

पुष्पेष्व् इति । पुष्पेषु नीलीक्षेत्रेषु धान्येषु गुल्मलतावृक्षेषु पुरुषभारप्रायेषु वक्ष्यमाणाच् छ्लोकात् परिवपनसम्भवाच् च धान्येषु खलवासितापहृतेषु देशकालापेक्षया सुवर्णस्य रूप्यस्य वा पाञ्चकृष्णलपरिमाणो दण्डः स्यात् ॥ ८.३३० ॥

परिपूतेषु धान्येषु शाकमूलफलेषु च ।

निरन्वये शतं दण्डः सान्वये ऽर्धशतं दमः ॥ ८.३३१ ॥

परिपूतेष्व् इति । अपासितेषु शेषेषु शाकादिषु वापहृतेषु स्वामिना सह सङ्ग्रामे ऽपहारे पणशतं दण्डः । सङ्गतेषु पुनः पञ्चाशतं दण्डः ॥ ८.३३१ ॥

स्यात् साहसं त्व् अन्वयवत् प्रसभं कर्म यत् कृतम् ।

निरन्वयं भवेत् स्तेयं हृतापव्ययते च यत् ॥ ८.३३२ ॥

स्यात् साहसम् इति । यत् कर्मधान्यापहारादिद्रव्यस्वामिसमक्षम् एव प्रसह्य कृतं तत् साहसं स्याद् अतस् तत्र स्तेयदण्डो न कार्यः इत्य् एवमर्थस्तेयप्रकारस्योपदेशः । यत् पुनः परोक्षं कृतं तत् स्तेयं भवेत् । यद्य् अपि च हृत्वापह्नुते तद् अपि स्तेयम् एव ॥ ८.३३२ ॥

यश् चैतान्य् उपकॢप्तानि द्रव्याणि स्तेनयेन् नरः ।

तस्माद् यं दण्डयेद् राजा यश् चाग्निं चोरयेद् गृहात् ॥ ८.३३३ ॥

यश् चैतानीति । एतानि सूत्रादीनि द्रव्याणि उपभोगार्थम् उद्यमितानि उपभोगार्थम् उद्यमितानि यो मनुष्तश् चोरयेत् यश् चाग्निं लौकिकम् अपि चोरयेत् तं प्रथमसाहसं राजा दण्डयेत् । अग्नेश् च मूल्यव्यवहाराप्रसिद्धेस् तन्मूल्यात् द्विगुणो दम इत्य् एतदसम्भवे सते सूत्रादिभ्यः पृथग् ग्रहणम् ॥ ८.३३३ ॥।

येन येन यथाङ्गेन स्तेनो नृषु विचेष्टते ।

तत् तद् एव हरेत् तस्य प्रत्यादेशाय पार्थिवः ॥ ८.३३४ ॥

**येन येनेति **। यच् च येन हस्तपादादिकाङ्गेन येन प्रकारेण ग्रन्थिच्छेदनिःश्रेण्यारोहणादिना चौरो मनुष्येषु विरुद्धं धनापहारादि कर्तुम् ईहते तत् तद् एवाङ्गं तस्याभ्यासप्रवृत्तौ सत्यां तदपराधच्छेदनाय राजा छेदयेत् ॥ ८.३३४ ॥

पिताचार्यः सुहृन् माता भार्या पुत्रः पुरोहितः ।

नादण्ड्यो नाम राज्ञो ऽस्ति यः स्वधर्मे न तिष्ठति ॥ ८.३३५ ॥

**पिताचार्य **इति । पित्राचार्यमित्रमातृभार्यापुत्रपुरोहितानाम् मध्याद्यः स्वधर्मे न प्रवर्तेत स नादण्डनीयो नाम राज्ञो वर्तते, अपि तु सो ऽपि दण्डनीयः । पितृमात्रादीनां गौर्वस्नेहाभ्यां अदण्डशङ्कायाम् इदं वचनम् ॥ ८.३३५ ॥

कार्षापणं भवेद् दण्ड्यो यत्रान्यः प्राकृतो जनः ।

तत्र राजा भवेद् दण्ड्यः सहस्रम् इति धारणा ॥ ८.३३६ ॥

कार्षापणम् इति । यस्मिन्न् अपराधे राजव्यतिरिक्तो जनः पणं दण्डनीयो भवेत् तस्मिन्न् अपराधे राजा पणसहस्रं दण्डनीय इति निश्चयः । अप्सु प्रवेश्य तं दण्डम् इत्यादि वक्ष्यमाणेन राजात्मको दण्डः प्रक्षेप्तव्यो ब्राह्मणाय वा देयः ॥ ८.३३६ ॥

अष्टापाद्य तु शूद्रस्य स्तेये भवति किल्बिषम् ।

षोडशैव तु वैश्यस्य द्वात्रिंशत् क्षत्रियस च ॥ ८.३३७ ॥

ब्राह्मणस्य चतुःषष्टिः पूर्णं वापि शतं भवेत् ।

द्विगुणा वा चतुःषष्टिस् तद्दोषगुणविद् धि सः ॥ ८.३३८ ॥

अष्टापाद्य्म् इति । ब्राह्मणस्येति । यस्मिन् स्तेये यो दण्ड उक्तः स गुण्दोषज्ञस्य शूद्रस्याष्टभिर् आपद्यते गुणतो ऽष्टगुणः कार्यः । षोडशगुणो विदुषो वैश्यस्य द्वात्रिंशद्गुणः शास्त्रोक्तस्य क्षत्रियस्य चतुःषष्टिगुणो ब्राःमणस्य द्विचतुःषष्टिगुणो वा पूर्णं वा शतं गुणातिशयापेक्षया यस्माद् असौ ब्राह्मणः स्तेयगुणदोषज्ञः ॥ ८.३३७–३३८ ॥

वानस्पत्यं मूलफलं दार्वग्न्यर्थं तथैव च ।

तृणं च गोभ्यो ग्रासार्थम् अस्तेयं मनुर् अब्रवीत् ॥ ८.३३९ ॥

**वानस्पत्यम् **इति । “पुष्पाणि फलानि अपरिवृत्तानाम्” इति गौतमस्मरणाद् अपरिवृत्तवनस्पत्यादिसम्बन्धिमूलफलं गवाग्निसाहचर्यं दृष्टार्थं शास्त्रिताग्न्यर्थं च दारु गत्यन्तराभावे चात्र गोग्रासार्थं तृणं परकीयम् अपि अस्तेयं मनुर् आह अतश् चात्र दण्डाद्यभावः ॥ ८.३३९ ॥

यो ऽदत्तादायिनो हस्ताल् लिप्सेत ब्राह्मणो धनम् ।

याजनाध्यापनेनापि यथा स्तेनस् तथैव सः ॥ ८.३४० ॥

इति । अदत्तग्राहिणश् चौरस्य ब्राह्मणो याजनाध्यापनप्रतिग्रहैर् अपि परकीयं धनम् अण्व् अपि गृह्णाति सो ऽपि चौरो विज्ञेयः अतश् चासौ चौरवद् दण्ड्यः ॥ ८.३४० ॥

द्विजो ऽध्वगः क्षीणवृत्तिर् द्वाव् इक्षू द्वे च मूलके ।

आददानः परक्षेत्रान् न दण्डं दातुम् अर्हति ॥ ८.३४१ ॥

द्विज इति । द्विजातिः पथिकः क्षीणपाथेयः द्वाव् इक्षू द्वे च मूलके तु त्रपुसीसादि परक्षेत्रात् गृह्णन् दण्डं दातुं योग्यो न भवति ॥ ८.३४१ ॥

असन्दितानां सन्दाता सन्दितानां च मोक्षकः ।

दासाश्वरथहर्ता च प्राप्तः स्याच् चौरकिल्बिषम् ॥ ८.३४२ ॥

असन्दितानाम् इति । परकीयानाम् अश्वादीनाम् अबद्धानां दर्पेण बन्धयिता बद्धानां वा मोचयिता रथानां च मन्दुरादौ चोरयिता यो वा दासाश्वरथापहारी स चौरदण्डं प्राप्नुयात्

॥ ८.३४२ ॥

अनेन विधिना राजा कुर्वाणः स्तेननिग्रहम् ।

यशो ऽस्मिन् प्राप्नुयाल् लोके प्रेत्य चानुत्तमं सुखम् ॥ ८.३४३ ॥

अनेनेति । अनेनोक्तविधानेन चौरनियमनं कुर्वन् नृप इहलोके यशोलाभं परत्र चोत्तमं सुखं प्राप्नुयात् ॥ ८.३४३ ॥

ऐन्द्रं स्थानम् अभिप्रेप्सुर् यशश् चाक्षयम् अव्ययम् ।

नोपेक्षेत क्षणम् अपि राजा साहसिकं नरम् ॥ ८.३४४ ॥

इदानींसाहसम् आह । ऐन्द्रम् इति । सर्वाधिपत्यलक्षणं पदं चाविनाशनम् अनपचयं ख्यातिं चाभिमुख्येनेच्छन् राजा साहसेन बलवशेनापि अग्निदाहवस्त्रपाटनादिकारिणं मनुष्यं क्षणम् अपि नोपेक्षेत ॥ ८.३४४ ॥

वाग्दुष्टात् तस्कराच् चैव दण्डेनैव च हिंसतः ।

साहसस्य नरः कर्ता विज्ञेयः पापकृत्तमः ॥ ८.३४५ ॥

**वाग्दुष्टाद् **इति । वाक्पारुष्यकृच् चौरदण्डकारिभ्यः सकाशात् साहसकृन् मनुष्यो ऽतिशयेन पापकृद् बोद्धव्यः ॥ ८.३४५ ॥

साहसे वर्तमानं तु यो मर्षयति पार्थिवः ।

स विनाशं व्रजत्य् आशु विद्वेषं चाधिगच्छति ॥ ८.३४६ ॥

साहस इति । साहसे प्रवृत्तस्य यः क्षमते सो ऽतिमात्रं प्रसङ्गात् साहसकारिभिः क्षिप्रम् एव विनाश्यते द्वेष्यतां च लोके प्राप्नोति ॥ ८.३४६ ॥

न मित्रकारणाद् राजा विपुलाद् वा धनागमात् ।

समुत्सृजेत् साहसिकान् सर्वभूतभयावहान् ॥ ८.३४७ ॥

नेति । मित्रोक्त्या वा महत्या वा धनप्राप्त्या साहसिकान् सर्वभूतभयजनकान् राजा न परित्यजेत् ॥ ८.३४७ ॥

शास्त्रं द्विजातिभिर् ग्राह्यं धर्मो यत्रोपरुध्यते ।

द्विजातीनां च वर्णानां विप्लवे कालकारिते ॥ ८.३४८ ॥

आत्मनश् च परित्राणे दक्षिणानां च सङ्गरे ।

स्त्रीविप्राभ्युपपत्तौ च घ्नन् धर्मेण न दुष्यति ॥ ८.३४९ ॥

शास्त्रम् इति । आतम्न इति । ब्राह्मणादिभिश् च खड्गाद्यायुधं ग्रहीतव्यम् । यस्मिन् काले वर्णाश्रमिणां चौरादिभिः धर्मं कर्तुं न दीयते तत्र तथा द्विजानां ब्राह्मणादीनां राजाभावपरचक्राक्षेपकारादिभिः कालजनिते वर्णानां सङ्करे तथा आत्मनश् च शरीरदायादिरक्षायां दक्षिणासम्बन्धिनि सङ्गरे अपहारनिमित्ते सङ्ग्रामे स्त्रीब्राह्मणरक्षायां च धर्मेण कूटयुद्धेन तेन शस्त्रेणानन्यगतिकः परान् हिंसन् न प्रत्यवैति एवं चात्र साहसदण्डो न कार्यः ॥ ८.३४८–३४९ ॥

गुरुं वा बालवृद्धौ वा ब्राह्मणं वा बहुश्रुतम् ।

आततायिनम् आयान्तं हन्याद् एवाविचारयन् ॥ ८.३५० ॥

गुरुम् इति ।

अग्निदो गरदश् चैव शस्त्रपाणिर् धनापहः ।

क्षेत्रदारापहारी च षड् एते आततायिनः ॥

इति वसिष्ठाद्युक्तं गुरुबालवृद्धब्राह्मणानाम् अप्य् अन्यतमम् आततायिनम् आयान्तं हननादिव्यापाराभिमुखीभूतम् अविलम्बमानो हन्याद् एव। किम् उतान्यम् अपि पूर्वार्थवादकामाय स्यात् । आचार्यं च प्रवक्तारम् इत्यादीनाम् अपकारिणाम् अपि गुर्वादीनां हिंसायाविनिन्दित्वात् ?? ॥ ८.३५० ॥

नाततायिवधे दोषो हन्तुर् भवति कश्चन ।

प्रकाशं वाप्रकाशं वा मन्युस् तं मन्युम् ऋच्छति ॥ ८.३५१ ॥

**नेति **। प्रकाशं युद्धेनाप्रकाशं चाभिचरणे चाततायिमारणे हन्तुर् न कश्चिद् अपि अधमदण्डप्रायश्चित्ताख्यदोषो भवति । यस्माद् धन्तृकृतो मन्युः क्रोधाभिमानी देवता तं मनुं हन्यमानगतं क्रोधं निवर्तयतीति पूर्वार्धवादः कामः कामाय स्याद् इतिवत् । साहसे चापराधापेक्षया प्रथममध्यमोत्तमसाक्षादङ्गच्छेदनिर्वासनादयो दण्डाः कार्याः ॥ ८.३५१ ॥

परदाराभिमर्शेषु प्रवृत्तान् नॄन् महीपतिः ।

उद्वेजनकरैर् दण्डैश् चिह्नयित्वा प्रवासयेत् ॥ ८.३५२ ॥

स्त्रीसङ्ग्रहणम् इदानीम् आह । **परदाराभिमर्शेष्व् **इति । उद्वेजनकरैर् दण्डैश् चिह्नयित्वा प्रवासयेत् । परदारसम्भोगेषु बहुषु प्रवृत्तान् मनुष्यान् पीडाकरैर् दण्डैर् नासौष्ठकर्तनादिभिर् अङ्कयित्वा राजा देशाद् निर्वासयेत् ॥ ८.३५२ ॥

तत्समुत्थो हि लोकस्य जायते वर्णसङ्करः ।

येन मूलहरो ऽधर्मः सर्वनाशाय कल्पते ॥ ८.३५३ ॥

तत्समुत्थ इति । यस्मात् परदारसङ्गमनसमुद्भूतो लोकस्य वर्णसङ्कर उत्पद्यते येन वर्णसङ्करेण यागाद्यधिकृतयजमानाभावाद् अग्नौ प्रास्तेत्य् एतदभावे सति अवृष्ट्याख्यजगद्विनाशमूलधर्मो मूलच्छेदेन निवाशायोत्पद्यते ॥ ८.३५३ ॥

परस्य पत्न्या पुरुषः सम्भाषां योजयन् रहः ।

पूर्वम् आक्षारितो दोषैः प्राप्नुयात् पूर्वसाहसम् ॥ ८.३५४ ॥

परस्य पत्न्या पुरुषः सम्भाषां योजयेत् सहेति । परदारगमनपूर्वदोषैः पूर्वम् उत्पन्नाभिशापः परभार्यया सह सम्भाषणं कुर्यात् सः । प्रथमसाहसं दण्डं प्राप्नुयात् ॥ ८.३५४ ॥

यस् त्व् अनाक्षारितः पूर्वम् अभिभाषेत कारणात् ।

न दोषं प्राप्नुयात् किञ्चिन् न हि तस्य व्यतिक्रमः ॥ ८.३५५ ॥

इति । यः पुनः पूर्वाभिशापहितकारणेन केनचिज् जनसमक्षम् अभिभाषणं कुर्यात् स न दण्डं प्राप्नुयात् यस्मान् न कश्चिद् अपराधो ऽस्ति ॥ ८.३५५ ॥

परस्त्रियं यो ऽभिवदेत् तीर्थे ऽरण्ये वने ऽपि वा ।

नदीनां वापि सम्भेदे स सङ्ग्रहणम् आप्नुयात् ॥ ८.३५६ ॥

परस्त्रियम् इति । उदकोत्तीर्यमाणे ग्रामाद् बहिर् निर्जने प्रदेशे वृक्षगुल्मलताकीर्णे वा देशे नदीनां वा सङ्गमे यः परस्त्रियम् अनाक्षारितो ऽपि पूर्वकारणाद् इति सम्भाषेत स वक्ष्यमाणं दोषं प्राप्नुयात् । सम्यग् गृह्यते ज्ञायते ऽस्याः श्रयं सम्बन्ध इति येन तत्सङ्ग्रहणम् ॥ ८.३५६ ॥

उपचारक्रियाकेलिः स्पर्शो भूषणवाससाम् ।

सह खट्वासनं चैव सर्वं सङ्ग्रहणं स्मृतम् ॥ ८.३५७ ॥

उपकारक्रिया केलिर् इति । सह खट्वासनम् इति । अङ्गानुलेपनाद्युपचारकरणं क्रीडा अलङ्करणवाससां स्पर्शनम् । एकखट्वासनं एकयानगमनम् इत्य् एतत् सर्वं सङ्ग्रहणं मन्वादिभिः स्मृतम् ॥ ८.३५७ ॥

स्त्रियं स्पृशेद् अदेशे यः स्पृष्टो वा मर्षयेत् तया ।

परस्परस्यानुमते सर्वं सङ्ग्रहणं स्मृतम् ॥ ८.३५८ ॥

स्त्रियम् इति । यो ऽदेशे स्तयोर् अङ्गे वा निर्जने प्रदेशे वा स्पृशेत् तया वा अप्रदेशे श्रोण्यादौ निर्जने वा देशे स्पृष्टस् तूष्णीम् आसीत तस्यैतद् अन्योन्यस्याङ्गीकरणे सति सङ्ग्रहणं मन्वादिभिः स्मृतम् । अत्र यद्य् अपि सङ्गमो न जातः तदा सङ्ग्रहणमात्रे मुखोपगमदण्डाद् ऊनदण्डकल्पना कार्या यतो ऽनुबन्धं परिज्ञायेति उक्तम् ॥ ८.३५८ ॥

अब्राह्मणः सङ्ग्रहणे प्राणान्तं दण्डम् अर्हति ।

चतुर्णाम् अपि वर्णानां दारा रक्ष्यतमाः स्मृता ॥ ८.३५९ ॥

अब्राह्मण इति । चतुर्णाम् अपि वर्णानां दारा रक्ष्यतमा स्मृताः । दण्डभूयस्त्वाद् अब्राह्मणशूद्रो ब्राह्मण्याम् अनिच्छन्त्यां सङ्ग्रहणे दण्डम् अर्हति । चतुर्णाम् अपि वर्णानां धनपुत्रादीनां मध्याद् दारा अतिशयेन रक्षणीयाः । अत उत्कृष्टसङ्ग्रहनाद् अपि वर्णैः भार्या संरक्षणीया ॥ ८.३५९ ॥

भिक्षुका बन्दिनश् चैव दीक्षिताः कारवस् तथा ।

सम्भाषणं सह स्त्रीभिः कुर्युर् अप्रतिवारिताः ॥ ८.३६० ॥

भिक्षुका इति । भिक्षाजीविनः स्तावकाः यज्ञार्थं कृतदीक्षाः सूपकारादयो भिक्षादिस्वरूपार्थं गृहे स्त्रीभिः सह सम्भाषणम् अनिवारिता एव कुर्युः । तेषां निवारणा नास्त्य् एव सङ्ग्रहणाभावात् ॥ ८.३६० ॥

न सम्भाषां सह स्त्रीभिः प्रतिषिद्धः समाचरेत् ।

निषिद्धो भाषमाणस् तु सुवर्णं दण्डम् अर्हति ॥ ८.३६१ ॥

न सम्भाषं सह स्त्रीभिर् इति । स्वामिना निषिद्धः सन् स्त्रीभिः सम्भाषणं न कुर्यत् । निषिद्धः सम्भाषमाणस् तु राज्ञः सुवर्णं दण्डं ददाति ॥ ८.३६१ ॥

नैष चारणदारेषु विधिर् नात्मोपजीविषु ।

सज्जनयन्ति हि ते नारीर् निगूढाश् चारयन्ति च ॥ ८.३६२ ॥

नैष इति । “परस्त्रियं यो ऽभिवदेत्” इत्यादिकः सम्भाषणनिषेधविधिः नटगायनादिदारेषु वेशजीविदारेषु च नास्ति यतश् चारणा आत्मोपजीविनश् च स्वभार्याः परपुरुषे संश्लेषयन्ति प्रच्छन्नाश् च भूत्वा नैतत् किलास्माभिः शतम् इति कृत्वा वेशकर्मणि सूचयन्त्य् अतस् तद्धारणां वेश्याप्रकारत्वात् नास्ति सम्भाषणे निषेधः ॥ ८.३६२ ॥

किञ्चिद् एव तु दाप्यः स्यात् सम्भाषां ताभिर् आचरन् ।

प्रेष्यासु चैकभक्तासु रहः प्रव्रजितासु च ॥ ८.३६३ ॥

किञ्चिद् एव तु दाप्यः स्यात् सम्भाषां ताभिर् आचरन् । चारण आत्मोपजीविस्त्रीभिः रहो ऽप्रकाशं सम्भाषणं कुर्वन् किञ्चिद् एव स्वल्पं दण्डं दापनीयः । दासीभिर् अवरुद्धाभिर् बौद्धाभिर् व्रतचारिणीभिश् च सह सम्भाषणं कुर्वन् काञ्चिद् दण्डमात्रां दाप्यः स्यात् ॥ ८.३६३ ॥

यो ऽकामां दूषयेत् कन्यां स सद्यो वधम् अर्हति ।

सकामां दूषयंस् तुल्यो न वधं प्राप्नुयान् नरः ॥ ८.३६४ ॥

**यो ऽकामां दूषयेत् कन्यां स सद्यो वधम् अर्हतीति **। यस् तुल्यजातीयो ऽनिच्छन्तीं कन्यां दूषयति गच्छति स तत्क्षणाद् एव ब्राह्मणवर्जं लिङ्गच्छेदादिकं वधम् अर्हति । सकामां दूषयंस् तुल्यो न वधं प्राप्नुयात् ॥ ८.३६४ ॥

कन्यां भजन्तीम् उत्कृष्टं न किञ्चिद् अपि दापयेत् ।

जघन्यं सेवमानं तु संयतां वासयेद् गृहे ॥ ८.३६५ ॥

कन्याम् इति । उत्कृष्टं पुरुषं कन्यां सेवमानां न किञ्चिद् अपि दण्डं राजा दापयेत् । हीनजातिं पुनः सेवमानां रक्षिता पितृगृहे स्थापयेत् । यावद् अनिवृत्ताभिलाषा स्याद् वृत्तिहीनज्ञातिसम्प्रयोगाद् यावज्जीवं स्थापयेत् ॥ ८.३६५ ॥

उत्तमां सेवमानस् तु जघन्यो दण्डम् अर्हति ।

शुल्कं दाप्यः सेवमानः समाम् इच्छेत् पिता यदि ॥ ८.३६६ ॥

उत्तमाम् इति । शुल्कं दाप्यः सेवमानः समाम् इच्छेत् पिता यदि । उत्कृष्टजातीयां कन्याम् इच्छन्तीं वा हीनजातिर् गच्छन् जात्यपेक्षयाङ्गच्छेदमारणात्मकं वधम् अर्हति । समानजातीया पुनर् इच्छन्तीं गच्छन् यदि पिता इच्छति तदा पितुः शुल्कम् अनुरूपम् आसुरवद् दद्यान् न तु दण्ड्यो ऽथ पिता नेच्छति तदा राज्ञा शुल्कपरिमाणं दाप्यः ॥ ८.३६६ ॥

अभिषह्य तु यः कन्यां कुर्याद् दर्पेण मानवः ।

तस्याशु कर्त्या अङ्गुल्यो दण्डं चार्हति षट्शतम् ॥ ८.३६७ ॥

अभिषह्येति । मनुष्यः प्रस्ह्य हठाद् अहङ्कारेण समानां समानजातीयां तां गमनवर्जं अङ्गुलिप्रक्षेपमात्रेणैव नाशयेत् तस्य क्षिप्रम् एवाङ्गुलिद्वयं कर्तनीयम्, दण्डं षट्शतम् असौ दापनीयः ॥ ८.३६७ ॥

सकामां दूषयंस् तुल्यो नाङ्गुलिच्छेदम् आप्नुयात् ।

द्विशतं तु दमं दाप्यः प्रसङ्गविनिवृत्तये ॥ ८.३६८ ॥

सकामाम् इति । समानजातिर् इच्छन्तीं कन्याम् अङ्गुलिमात्रप्रक्षेपेण नाशयन् अङ्गुलिच्छेदं न प्राप्नुयात् किं तु पौनःपुन्येन एषः प्रसङ्गान् नावर्तेत तदर्थं शतमयं दण्डं दाप्यः ॥ ८.३६८ ॥

कन्यैव कन्यां या कुर्यात् तस्याः स्याद् द्विशतो दमः ।

शुल्कं च द्विगुणं दद्याच् छिफाश् चैवाप्नुयात् दश ॥ ८.३६९ ॥

कन्येति । शुल्कं च त्रिगुणं दद्यात् शिफाश् चैवाप्नुयाद् दश । या कन्यैव कन्याम् अपराम्म् अङ्गुलिप्रक्षेपेण नाशयेत् तस्या द्विशतो दण्डः स्यात् । शुल्कं वासौ कन्यापितुर् दद्यात् ।शिफाप्रहारांश् च दश प्राप्नुयात् ॥ ८.३६९ ॥

या तु कन्यां प्रकुर्यात् स्त्री सा सद्यो मौण्ड्यम् अर्हति ।

अङ्गुल्योर् एव वा छेदं खरेणोद्वहनं तथा ॥ ८.३७० ॥

येति । या पुनः स्त्री कन्यां नाशयेत् सा तत्क्षणाद् एव शिरोमुण्डनसानुबन्धापेक्षया अङ्गुल्योर् एव छेदनम् अर्हति । तथा खरेण राजमार्गे वहनम् अर्हति इदं चात्र पूर्वाभ्यां विकल्पिताभ्यां समन्वितम् ॥ ८.३७० ॥

भर्तारं लङ्घयेद् या तु स्त्री ज्ञातिगुणदर्पिता ।

तां श्वभिः क्ःअदयेद् राजा संस्थाने बहुसंस्थिते ॥ ८.३७१ ॥

भर्तारम् इति । या स्त्री बलवदाढ्यपित्रादिबान्धवदर्पेण रूपवैदग्ध्याद् गुणगणदर्विता पूर्वेण च भर्तारं पुरुषान्तरकरणेनोल्लङ्घयेत् तां राजा बहुजनाकीर्णे प्रदेशे श्वभिर् भक्षयेत् ॥ ८.३७१ ॥

पुमांसं दाहयेत् पापं शयने तप्त आयसे ।

अभ्यादध्युश् च काष्ठानि तत्र दह्येत पापक्र्त् ॥ ८.३७२ ॥

तं दर्पिताजारं पुरुषं दाहयेद् इति । तं पापकारिणं पुरुषम् अयोमये शयने अग्निज्वलिते राजा दाहयेत् । काष्ठानि निक्षिपेयुः यावद् असौ पापकृद् दग्धः स्यात् ॥ ८.३७२ ॥

संवत्सराभिशस्तस्य दुष्टस्य द्विगुणो दमः ।

व्रात्यया सह संवासे चाण्डाल्या तावद् एव तु ॥ ८.३७३ ॥

संवत्सराभिशस्तस्येति । परस्त्रीगमनदोषेण पुंसो दण्डितस्य पुनः संवत्सरे ऽतीते तस्याम् एवाभिशप्तस्य तस्य यथोपदेशस्य द्विगुणो दण्डः कर्तव्यः दण्डः कल्पते । इह चाण्डाल्या सह निर्देशात् सहस्रं त्व् अन्त्यजस्त्रियः इति चाण्डालीगमनतुल्य एव स पुनः संवत्सरे ऽतीते ताम् एव व्रात्यां गच्छतो द्विगुणो दण्डः कार्यः ॥ ८.३७३ ॥

शूद्रो गुप्तम् अगुप्तं वा द्वैजातं वर्णम् आवसन् ।

अगुप्तम् अङ्गसर्वस्वी गुप्तं सर्वेण हीयते ॥ ८.३७४ ॥

शूद्र इति । शूद्रो यदि भर्त्रा रक्षिताम् अरक्षितां पुनर्गच्छेद् आ स्त्रीरक्षिता गच्छन् लिङ्गच्छेदसर्वस्वापहाराभ्यां योजनीयः । अरक्षितां पुनर् गच्छन् शरीरधनदण्डः कर्तव्यः । कार्यावरुद्धापेक्षया दण्डस्य गुरुलघुभावः कल्पनीयः ॥ ८.३७४ ॥

वैश्यः सर्वस्वदण्डः स्यात् संवत्सरनिरोधतः ।

सहस्रं क्षत्रियो दण्ड्यो मौण्ड्यं मूत्रेण चार्हति ॥ ८। ३७५ ॥

वैश्य इति । वैश्यो गुप्तब्राह्मणीगमने संवत्सरबन्धने च स्थाप्यः सर्वस्वं दण्डनीयः । क्षत्रियागमने वैश्यस्य वैश्यश् चेत् कषत्रियायां गुप्तायाम् इति वक्ष्यति । क्षत्रियो गुप्तब्राह्मणीगमने सहस्रं दण्डनीयः । शिरोमुण्डनं खरमूत्रेणास्य कार्यम् ॥ ८.३७५ ॥

ब्राह्मणीं यद्य् अगुप्तां तु गच्छेतां वैश्यपार्थिवौ ।

वैश्यं पञ्चशतं कुर्यात् क्षत्रियं तु सहस्रिणम् ॥ ८.३७६ ॥

ब्राह्मणीम् इति । अरक्षितां पुनर् ब्राह्मणीं यदि वैश्यक्षत्रियौ गच्छेतां तदा वैश्यः पञ्चशतं दण्ड्यः । क्षत्रियः पुना रक्षाम् अकृतत्वाद् वैश्याद् अधिकदण्डः सहस्रदण्डोपेतः कार्यः ॥ ८.३७६ ॥

उभाव् अपि तु ताव् एव ब्राह्मण्या गुप्तया सह ।

विप्लुतौ शूद्रवद् दण्ड्यौ दग्धव्यौ वा कटाग्निना ॥ ८.३७७ ॥

उभाव् इति । ताव् एव द्वाव् अपि क्षत्रियवैश्यौ रक्षितया ब्राह्मण्या सह कृतमैथुनौ शूद्रवद् गुप्ते सर्वेण हीयत इति दण्ड्यौ वाग्निना वा सर्वथा दग्धव्याव् इति चात्यन्तदण्ड्यौ श्रोत्रियदारगुणवद् ब्राह्मणीविषयं दण्डगुरुत्वात् । वैश्यः सर्वस्वदण्ड्यः स्यात् सहस्रं क्षत्रियस् तथा ॥ ८.३७७ ॥

सहस्रं ब्राह्मणो दण्ड्यो गुप्तां विप्रां बलाद् व्रजन् ।

शतानि पञ्च दण्ड्यः स्याद् इच्छन्त्या सह सङ्गतः ॥ ८.३७८ ॥

सहस्रम् इति । ब्राह्मणो रक्षितां ब्राह्मणीं हठात् गच्छन् सहस्रं दण्ड्यः । इच्छन्त्या तु पुनः सह मैथुने पञ्चशतानि दण्डनीयः ॥ ८.३७८ ॥

मौण्ड्यं प्राणान्तको दण्डो ब्राह्मणस्य विधीयते ।

इतरेषां तु वर्णानां दण्डः प्राणान्तको भवेत् ॥ ८.३७९ ॥

मौण्ड्यम् इति । ब्राह्मणस्य वधदण्डस्थाने शिरोमुण्डने शास्त्रेणोपदिश्यते । क्षत्रियादीनां पुनर् उक्तेषु वधदण्डो भवति ॥ ८.३७९ ॥

न जातु ब्राह्मणं हन्यात् सर्वपापेष्व् अपि स्थितम् ।

राष्ट्राद् एनं बहिः कुर्यात् समग्रधनम् अक्षतम् ॥ ८.३८० ॥

न जात्व् इति । सर्वपापकारिणम् अपि ब्राह्मणं कदाचिद् अपि न हन्यात् । अपि सर्वधनसंयुक्तम् अक्षतशरीरं राष्ट्रान् निर्वासयेत् ॥ ८.३८० ॥

न ब्राह्मणवधाद् भूयान् अधर्मो विद्यते भुवि ।

तस्माद् अस्य वधं राजा मनसापि न चिन्तयेत् ॥ ८.३८१ ॥

न ब्राह्मणवधाद् इति । ब्राह्मणवधाद् अपि अधिको ऽन्यः पृथिव्याम् अधर्मो नास्ति । ब्राह्मणं सर्वपापकारिणम् अपि राजा मनसापि न हन्यात् ॥ ८.३८१ ॥

वैश्यश् चेत् क्षत्रियां गुप्तां वैश्यां वा क्षत्रियो व्रजेत् ।

यो ब्राह्मण्याम् अगुप्तायां ताव् उभौ दण्डम् अर्हति ॥ ८.३८२ ॥

वैश्य इति । वैश्यो यदि रक्षितायां क्षत्रियायां गच्छेत् क्षत्रियो वा वैश्यां तदा यो ब्राह्मण्याम् अरक्षितायां गमने क्षत्रियवैश्ययोः दण्डो वैश्यं पञ्चशतं कुर्यात् क्षत्रियं तु सहस्रम् इति दण्डं तौ क्षत्रियवैश्यौ वार्हतः । अतश् च वैश्यस्य क्षत्रियागमने पञ्चशतानि क्षत्रियस्य वैश्याधिगमने रक्षाधिकृतत्वाद् अधिकगुणदण्डसहस्रम् इति ॥ ८.३८२ ॥

सहस्रं ब्राह्मणो दण्डं दाप्यो गुप्ते तु ते व्रजन् ।

शूद्रायाः क्षत्रियविशोः साहस्रो वै भवेद् दमः ॥ ८.३८३ ॥

सहस्रम् इति । क्षत्रियवैश्ये रक्षिते ब्राह्मणो गच्छन् सहस्रं दण्ड्यः । क्षत्रियवैश्यौ रक्षितां शूद्रां गच्छतः सहस्रपरिमाणो दण्डः स्यात् ॥ ८.३८३ ॥

क्षत्रियायाम् अगुप्तायां वैश्ये पञ्चशतं दमः ।

मूत्रेण मौण्ड्यम् ऋच्छेत् तु क्षत्रियो दण्डम् एव वा ॥ ८.३८४ ॥

अगुप्ते क्षत्रियावैश्ये शूद्रां वा ब्राह्मणो व्रजन् ।

शतानि पञ्च दण्ड्यः स्यात् सहस्रं त्व् अन्त्यजस्त्रियम् ॥ ८.३८५ ॥

क्षत्रियाम् इति । अगुप्ते इति । वैश्यां क्षत्रियां शूद्रां रक्षितां ब्राह्मनो व्रजन् पञ्चशतानि दण्ड्यः स्यात् । चाण्डालादिस्त्रियं गच्छन् पुनः सहस्रं दण्ड्यः ॥ ८.३८४–३८५ ॥

यस्य स्तेनः पुरे नास्ति नान्यस्त्रीगो न दुष्तवाक् ।

न साहसिकदण्डघ्नो स राजा शक्रलोकभाक् ॥ ८.३८६ ॥

यस्येति । यस्य राज्ञो राष्ट्रे चौरपारदारिकवाक्पारुष्यकृद्दण्डपारुष्याग्निदाहादिसाहसकारिणः न सन्ति स राजा स्वर्गं व्रजेत् ॥ ८.३८६ ॥

एतेषां निग्रहो राज्ञः पञ्चानां विषये स्वके ।

साम्राज्यकृत् सजात्येषु लोके चैव यशस्करः ॥ ८.३८७ ॥

एतेषाम् इति । एतेषां स्तेनादीनां स्वराष्ट्रे राज्ञो निग्रहः समजातीयेषु मध्ये राजत्वस्य कारको लोके च ख्यातेर् उत्पादकः ॥ ८.३८७ ॥

ऋत्विजं यस् त्यजेद् याज्यो याज्यं चर्त्विक् त्यजेद् यदि ।

शक्तं कर्मण्य् अदुष्टं च तयोर् दण्डः शतं शतम् ॥ ८.३८८ ॥

ऋत्विजम् इति । यो याज्य ऋत्विजं पारम्पर्यागतं कर्मानुष्ठानसमर्थम् अतिजापादिदोषरहितम् अदुष्टं याज्यं त्यजति तयोः शतं शतं दण्डः कार्य इति प्रसङ्गाद् एतद् आह ॥ ८.३८८ ॥

न माता न पिता न स्त्री न पुत्रस् त्यागम् अर्हति ।

त्यजन्न् अपतितान् एतान् राज्ञा दण्ड्यः शतानि षट् ॥ ८.३८९ ॥

न मातेति । मातृपितृभार्यापुत्रत्यागं भरणशुश्रूषाद्य्करणात्मकं नार्हति । अत एतान् पतितान् अपि परित्यजन् अन्योन्यपरित्यागे राज्ञा षट्शतानि दण्ड्यः ॥ ८.३८९ ॥

आश्रमेषु द्विजातीनां कार्ये विवदतां मिथः ।

न विब्रूयान् नृपो धर्मं चिकीर्षन् हितम् आत्मनः ॥ ८.३९० ॥

आश्रमेष्व् इति । द्विजानां गृहस्थानाम् आश्रमविषये शास्त्रार्थो ऽयं नेत्य् एवं परस्परं विवदमानानां राजा आत्मने दृष्टादृष्टहितं कर्तुम् इच्छन् नायं शास्त्रार्थ इति महासनविशेषेण ब्रूयात् ॥ ८.३९० ॥

यथार्हम् एतान् अभ्यर्च्य ब्राह्मणैः सह पार्थिवः ।

सान्त्वेन प्रशमय्यादौ स्वधर्मं प्रतिपादयेत् ॥ ८.३९१ ॥

किं तर्हि यथार्हम् इति । यादृशीं यः पूजाम् अर्हति तं तथा पूजयित्वा अन्यैर् ब्राह्मणैः सह राजा प्रथमशास्त्राद् अपगतकोपात् कृत्वा ततस् तेषां यः स्वधर्मः तं बोधयेत् ॥ ८.३९१ ॥

प्रतिवेश्यानुवेश्यौ च कल्याणे विंशतिद्विजे ।

अर्हाव् अभोजयन् विप्रो दण्डम् अर्हति माषकम् ॥ ८.३९२ ॥

प्रातिवेश्यानुवेश्याव् इति । यत्रान्ये विंश्तिमात्राधिका भोजनीयास् तस्मिन्न् उत्सवे वेश्माग्रात् पश्चान् निवासिनौ योग्याव् अभोजयन् ब्राह्मणादिर् उत्तरत्र हिरण्यग्रहणाद् इह माषकं दण्डम् अर्हति ॥ ८.३९२ ॥

श्रोत्रियः श्रोत्रियं साधुं भूतिकृत्येष्व् अभोजयन् ।

तदन्नं द्विगुणं दाप्यो हैरण्यं चैव माषकम् ॥ ८.३९३ ॥

अन्धो जडः पीठसर्पी सप्तत्या स्थविरश् च यः ।

श्रोत्रियेषूपकुर्वंश् च न दाप्याः केनचित् करम् ॥ ८.३९४ ॥

श्रोत्रिय इति । अन्ध इति । अन्धबधिरपङ्गवः सप्ततिवर्षात् प्रभृति च वृद्धः श्रोत्रियाणां च शुश्रूषादिनोपकारकरणे केनचिद् अपि क्षोणकोशेनापि राज्ञा दान्यषड्भागं गुल्मादानादिकं राजदेयम् न दापनीयः ॥ ८.३९३–३९४ ॥

श्रोत्रियं व्याधितार्तौ च बालवृद्धाव् अकिञ्चनम् ।

महाकुलीनम् आर्यं च राजा सम्पूजयेत् सदा ॥ ८.३९५ ॥

**श्रोत्रियं व्याधिनार्तं चेति **। अध्ययनानुष्ठानवन्तं ब्राह्मणं रोगिणं प्रियवियोगाक्रान्तं बालवृद्धदरिद्रमहाकुलीनोत्पन्नार्जवोपेतान् राजा दानमानप्रियकरणेन सर्वदा पूजयेत् ॥ ८.३९५ ॥

शाल्मलीफलके श्लक्ष्णे नेनिज्यान् नेजकः शनैः ।

न च वासांसि वासोभिर् निर्हरेन् न च वासयेत् ॥ ८.३९६ ॥

शाल्मलीफलक इति । शाल्मल्यादिवृक्षसम्बन्धिनि फलके अपरुषे वासोधावकः शनैः शनैः वासांसि क्षालयेत् । न च परकीयैर् वस्तैः संवेष्ट्य वस्त्रादि बहिः न चान्यस्याच्छादनर्थम् दद्यात् । यद्य् एवं कुर्यात् तदासौ दण्ड्यः स्यात् ॥ ८.३९६ ॥

तन्तुवायो दशपलं दद्याद् एकपलाधिकम् ।

अतो ऽन्यथा वर्तमानो दाप्यो द्वादशकं दमम् ॥ ८.३९७ ॥

तन्तुवाय इति । तन्तुवायिना छेदे दशपलादिसूत्रस्य गृहीत्वा पिष्टखल्यानुप्रवेश्याद् एकादशपलं वासो दद्यात् । अतो यच् छिष्टं तत् तद् द्वादशगुणं दण्ड्यः ॥ ८.३९७ ॥

शुल्कस्थानेषु कुशलाः सर्वपण्यविचक्षणाः ।

कुर्युर् अर्धं यथापण्यं ततो विंशं नृपो हरेत् ॥ ८.३९८ ॥

शुल्कस्थानेष्व् इति । आपणादिव्यवहर्तृभ्यो राजग्राह्यं शुल्कं च स्थाप्यापणस्थलपथजलपथादिषु नियतं लब्धुम् अशक्याः पण्यानां च सारासारादिज्ञास् ते पणे पणे ऽनुरूपम् अर्धं कुर्युस् ततो लाभधनाद् विंशतिभागं शुल्कं राजा दापयेत् ॥ ८.३९८ ॥

राज्ञः प्रख्यातभाण्डानि प्रतिषिद्धानि यानि च ।

तानि निर्हरतो लोभात् सर्वहारं हरेन् नृपः ॥ ८.३९९ ॥

राज्ञ इति । यानि राज्ञस् तद्देशोद्भवानि मनिमुक्तादीनि यानि च राज्ञा प्रतिषिद्धानि तथा दुर्भिक्षे धान्यं देशान्तरे न नेयम् इति तानि लोभाद् देशाण्तरं नयतः सर्वहरणं कुर्यात् ॥ ८.३९९ ॥

शुल्कस्थानं परिहरन्न् अकाले क्रयविक्रयी ।

मिथ्यावादी च सङ्ख्याने दाप्यो ऽष्टगुणम् अत्ययम् ॥ ८.४०० ॥

शुल्कस्थानम् इति । उक्तपरिजिहीर्षया य उत्पथेन गच्छत्य् अकाले वा क्रयविक्रयशुल्कम् एव यथार्थं चात्मद्रव्यं स्वल्पां सङ्ख्यां वक्ति स राजदेयं यत् तदष्टगुणं दण्डं दाप्यः ॥ ८.४०० ॥

आगमं निर्गमं स्थानं तथा वृद्धिक्षयाव् उभौ ।

विचार्य सर्वपण्यानां कारयेत् क्रयविक्रयौ ॥ ८.४०१ ॥

आगमम् इति । कियतो दूराद् आनीतम् एतद् इति देशान्तरीयद्रव्यस्य स्थानम् आगमनं विचार्य कियद्दूरं नीयते स्वदेशोद्भवस्य निर्गमम् अवेक्ष्य कियत्कालो वाणिज्यस्य विकीतम् एतद् आसितम् इति एवं च स्थानम् आलोक्य तथा कियान् तस्य वणिजो लाभो ऽनपायो वा भक्ताच्छादनकर्मकरादिम् अत इति मत्वा सर्वपण्यानां यथा विणिजा कर्तॄणां च पीडनं न भवति तथा क्रयविकर्यौ कारयेत् ॥ ८.४०१ ॥

पञ्चरात्रे पञ्चरात्रे पक्षे पक्षे ऽथ वा गते ।

कुर्वीत चैषां प्रत्यक्षम् अर्घसंस्थापनं नृपः ॥ ८.४०२ ॥

**पञ्चरात्र इति । **आगमोपयोगादेर् अनियतत्वाद् एषां पण्यानाम् अस्थिरार्घाणां पञ्चरात्रे पञ्चरात्रे तत् तत् स्थिरप्रायार्घाणां च पक्षे पक्षे गते मूल्यस्थापनम् आत्मनो राज्ञा (राजा?) प्रत्यक्षी कुर्यात् ॥ ८.४०२ ॥

तुला मानं प्रतीमानं सर्वं च स्यात् सुलक्षितम् ।

षट्सु षट्सु च मासेषु पुनर् एव परीक्षयेत् ॥ ८.४०३ ॥

**तुलामानम् **इति । तुलां तथा मानं काष्ठादिमयं द्रोणकुडपातप्रतीमानं सुवर्णादिपरिच्छेदकवर्तकादि तद् एतत् सर्वं राजचिनाङ्कितं कार्यम् । षट्सु षट्सु मासेषु पुनः पुनः तत् सर्वं आप्तपुरुषैः परीक्षयेत् ॥ ८.४०३ ॥

पणं यानं तरे दाप्यं पौरूषो ऽर्धपणं तरे ।

पादे पशुश् च योषिच् च पादार्धं रिक्तकः पुमान् ॥ ८.४०४ ॥

पणम् इति । भाण्डपूर्णानि यानि तानीति वक्ष्यति अतो रिक्तं गन्त्र्यादितरमूल्यं पणं राजा (राज्ञा?) दाप्यम् । एवं पुरुषवाह्यो भारो ऽर्धपणं दाप्यः । गवादिश् च पशुः स्त्री च पणचतुर्भागं दापनीयो भाण्डरहितो मनुष्यः पणाष्टभागं दापनीयः ॥ ८.४०४ ॥

भाण्डपूर्णानि यानानि तार्यं दाप्यानि सारतः ।

रिक्तभाण्डानि यत् किञ्चित् पुमांसश् चापरिच्छदाः ॥ ८.४०५ ॥

भाण्डपूर्णानीति । प्रत्यगूर्णानि गन्त्र्यादीनि द्रव्यगतोत्कर्षापकर्षगुरुलघुभावापेक्षया तरमूल्यं दाप्यानि पुमांसश् च परिच्छदार्हा वणिक्प्रभृतयो ऽपि अपरिच्छदा आयाता यत् किञ्चिद् दापनीयाः । अन्यस्य पुंसः पदार्थं रिक्तकः पुमान् इत्य् उक्तम्, अत्र नियमस्य कर्तुम् अशक्यत्वात् । एतावद् एवोपदेशार्थं एवं द्रव्यरहितानि मञ्जूषादीनि भाण्डानि यत् किञ्चित् स्वयं दाप्यानि ॥ ८.४०५ ॥

दीर्घाध्वनि यथादेशं यथाकालं तरो भवेत् ।

नदीतीरेषु तद् विद्यात् समुद्रे नास्ति लक्षणम् ॥ ८.४०६ ॥

दीर्घाध्वनीति । पारावारतरणार्थं पूर्वम् उक्तं दूराध्वनि पुनः नदीमार्गेण नावादिना यातव्यस्खलनाद्युपलाद्युपेतदूरदेशापेक्षया ग्रीष्महेमन्तादिकालापेक्षया तरमूल्यं कल्पयितव्यम् एतच् च नदीतीरेषु बोद्धव्यं समुद्रे पुनर् वातवशतः पातालादिवहनात् आयतत्वाभावे सति तरमूल्यविशेषज्ञापकम् । नदी च योजनादिकं नास्त्य् अतो ऽत्रोचितम् एव शुल्कं ग्राह्यम् ॥ ८.४०६ ॥

गर्भिणी तु द्विमासादिस् तथा प्रव्रजितो मुनिः ।

ब्राह्मणा लिङ्गिनश् चैव न दाप्यास् तारिकं तरे ॥ ८.४०७ ॥

गर्भिणीति । गृहीतगर्भा स्त्री मासद्वयाद् ऊर्ध्वं ब्रह्मचारिणः तरमूल्यं ते न दाप्याः

॥ ८.४०७ ॥

यन् नावि किञ्चिद् दाशानां विशीर्येतापराधतः ।

तद् दाशैर् एव दातव्यं समागम्य स्वतो ऽंशतः ॥ ८.४०८ ॥

यद् इति । नावारूढैः प्रदेयं तत्समागम्य स्वतो ऽंशतः । यत् किञ्चिद् द्रव्यं नाविकापराधेन विपद्येत यन् नावारूढेः सम्भूय स्वांशाद् दातव्यम् ॥ ८.४०८ ॥

एष नौयानिनाम् उक्तो व्यवहारस्य निर्णयः ।

दाशापराधतस् तोये दैविके नास्ति निग्रहः ॥ ८.४०९ ॥

एष इति । नाविकापराधेन यद् उक्तं तत् सर्वं नाविकैर् दातव्यम् । इत्य् एष नौयायिनां व्यवहारनिर्णय उक्तो दैविके पुनर् दोषे उत्पातवातनौभङ्गादौ स च न नाविकानां दण्डबन्धनादिविग्रहो विद्यते ॥ ८.४०९ ॥

वाणिज्यं कारयेद् वैश्यं कुसीदं कृषिम् एव च ।

पशूनां रक्षणं चैव दास्यं शूद्रं द्विजन्मनाम् ॥ ८.४१० ॥

वाणिज्यम् इति । वाणिज्यधनप्रयोगकृषिपशुरक्षणानि दृष्यत्वाद् वैश्यम्, शूद्रं च द्विजन्मनां दास्यं नियमेन राजा कारयेत् अकुर्वाणौ राज्ञा दण्ड्यौ इहोपदेशात् ॥ ८.४१० ॥

क्षत्रियं चैव वैश्यं च ब्रह्मणो वृत्तिकर्शितौ ।

बिभृयाद् आनृशंस्येन स्वानि कर्माणि कारयन् ॥ ८.४११ ॥

क्षत्रियम् इति । क्षत्रियवैश्यौ वृत्त्यभावे पीडितौ ब्राह्मणः कारयेत् स्वानि कर्माणि रक्षणकृष्यादीनि कारयन् ग्रासाच्छादनादिना बिभृयाद् एवं च (न कुर्वाणो) महाधनो ब्राह्मणस् तावद् विधिवत् राज्ञा ताडनीयम् इति प्रकरणम् ॥ ८.४११ ॥

दास्यं तु कारयंल् लोभाद् ब्राह्मणः संस्कृतान् द्विजान् ।

अनिच्छतः प्राभवत्याद् राज्ञा दण्ड्यः शतानि षट् ॥ ८.४१२ ॥

यो दास्यम् इति । ब्राह्मण उपनीतान् द्विजान् दास्यकर्मणि लौल्यात् तदा तत् कर्म पादधावनादि कारयन् राज्ञा षट्पणशतानि दण्ड्यः ॥ ८.४१२ ॥

शूद्रं कारयेद् दास्यं क्रीतम् अक्रीतम् एव वा ।

दास्यायैव हि सृष्टो ऽसौ ब्राह्मणस्य स्वयम्भुवा ॥ ८.४१३ ॥

शूद्रम् इति । शूद्रं पुनर् भक्तादिना भृतम् अभृतं वा दास्यं कारयेत् । यस्माद् असौ ब्राह्मणदासा(-दास्या)र्थम् एव प्रजापतिना सृष्टः ॥ ८.४१३ ॥

न स्वामिना निसृष्टो ऽपि शूद्रो दास्याद् विमुच्यते ।

निसर्गजं हि तत् तस्य कस् तस्मात् तद् अपोहति ॥ ८.४१४ ॥

न स्वामिनेति । यस्यासौ स्वजातिविहितत्वात् दासत्वम् आपन्नस् तेन विमुक्तो ऽपि शूद्रो दास्यान् न मुच्यते । तस्माद् दास्यं हि शूद्रस्य सहजं शूद्रत्वं वदतः कः शूद्रात् तद्दास्यम् अपनेतुं दृष्टार्थम् अपि दृश्यते । न दास्यं कर्तव्यम् इत्य् एवं परम् एतद् अन्यथा वर्तमानदासयोनिगणितम् ॥ ८.४१४ ॥

ध्वजाहृतो भक्तदासो गृहजः क्रीतदत्रिमौ ।

पैत्रिको दण्डदासश् च सप्तैते दासयोनयः ॥ ८.४१५ ॥

ध्वजाहृत इति । सङ्ग्रामे स्वामिना कोशाज् जितो वेतनभृतो दासीपुत्रो ऽन्यस्मात् क्रीतो ऽन्येन दत्तः पित्रादिप्रबन्धायातो निर्धनतया दण्डशुद्ध्यभावे सति शुद्ध्यर्थं दास्यम् उपगत इति सतध्वजाः सप्ततत्त्वादीनि दासत्वकारणानि ॥ ८.४१५ ॥

भार्या पुत्रश् च दासश् च त्रय एवाधनाः स्मृताः ।

यत् ते समधिगच्छन्ति यस्य ते तस्य तद्धनम् ॥ ८.४१६ ॥

भार्येति । अतो ऽपि निर्धन एव मन्वादिभिः स्मृतः यस्माद् तद् वित्तं ते ऽर्जयन्ति यस्य ते भार्यादयस् तत्सम्बन्धि तद्धनम् इति । तत्पारतन्त्र्यादि वा यस्यैतद् उच्यते ॥ ८.४१६ ॥

विश्रब्धं ब्राह्मणः शूद्राद् द्रव्योपादानम् आचरेत् ।

न हि तस्यास्ति किञ्चित् स्वं भर्तृहार्यधनो हि सः ॥ ८.४१७ ॥

विश्रब्धम् इति । ब्राह्मणो निर्विचिकित्सम् एव प्राकृताद् दासशूद्रत्वेन अयुक्तः । तस्मात् तस्य दासशूद्रस्य न किञ्चित् स्वं विद्यते यतो ऽस्य स्वामिनो धनम् अपह्रियते एवं च यदि विश्रब्धं द्रव्यं दासाद् ब्राह्मणो गृह्णन् न दण्डनीय एव इत्य् एवं सर्वम् इत्य् एतद् उच्यते

॥ ८.४१८ ॥

वैश्यशूद्रौ प्रयत्नेन स्वानि कर्माणि कारयेत् ।

तौ हि च्युतौ स्वकर्मभ्यः क्षोभयेताम् इदं जगत् ॥ ८.४१८ ॥

वैश्यशूद्राव् इति । वैश्यशूद्रौ कृषिदास्यादीनि स्वकार्माणि राजा कारयेत् । यस्माद् वैश्यः कृषिवाणिज्यादि शूद्रो दास्याद्य् अकुर्वन् धर्मक्षयाद् इदं जगद् आकुली कुर्यत् । शूद्रश् च दास्यम् अकुर्वन् अनतिम् अभिज्ञाय कदाचिद् द्वैजाते कर्मणि प्रवर्तमानो दुर्भिषनरकाद्युपद्रवकृत् स्यात् ॥ ८.४१८ ॥

अहन्य् अहन्य् अवेक्षेत कर्मान्तान् वाहनानि च ।

आयव्ययौ च नियताव् आकरान् कोशम् एव च ॥ ८.४१९ ॥

अहनीति । प्रत्यहं कर्मान्तान् कृषिशुल्कादिस्थानानि धनसञ्चयं योगक्षेमार्थं प्रति जागृयाद् इति व्यवहारदर्शनाशक्तस्यापि राजधर्मापरित्यागार्थं पुनर् वचनम् ॥ ८.४१९ ॥

एवं सर्वान् इमान् राजा व्यवहारान् समापयन् ।

व्यपोह्य किल्बिषं सर्वं प्रप्नोति परमां गतिम् ॥ ८.४२० ॥

एवम् इति । व्यपोह्य कल्मषं सर्वं प्राप्नोति परमां गतिम् । एवम् उक्तनीत्या एतान् ऋणादानादीन् व्यवहारानिर्णयेनान्तं नयन् राजा अपक्षपातव्यवहारदर्शनेन शास्त्रदानसामर्थ्यात् प्रमादकृतसञ्चितपापम् अपनुद्य ब्रह्मलोकं प्राप्नोति इति समस्तव्यवहारासमाप्ताव् अपि प्रधानविवादसमाप्ताभिप्रायेणेदं फलकथनम् ॥ ८.४२० ॥

इति श्रीभट्टमाधवात्मजगोविन्दराजविरिचितायां मन्वाशयानुसारिण्यां

सर्वव्यवहारनिर्णयो नामाष्टमो ऽध्यायः ॥

नवमो ऽध्यायः

पुरुषस्य स्त्रियाश् चैव धर्म्ये वर्त्मनि तिष्ठतोः ।

संयोगे विप्रयोगे च धर्मान् वक्ष्यामि शाश्वतान् ॥ ९.१ ॥

पुरुषस्येति । स्त्रीपुंसयोर् दम्पत्योर् अन्योन्याव्यभिचारलक्षणे मार्गे वर्तमानयोः संयुक्तयोर् वियुक्तयोश् च नित्यान् धर्मान् वक्ष्यामि । जायापत्योर् इतरेतरविप्रतिपत्तौ कथञ्चित् राजनिवेदने सत्य् अनया व्यवस्थया राज्ञा दण्डादिनापि मार्गस्थापनं करणीयम् । अकरणाद् राज्ञो दोषः । इत्य् एतदर्थं व्यवहारमध्ये राजधर्मेषु स्त्रीपुंसयोः धर्मा उच्यन्ते ॥ ९.१ ॥

अस्वतन्त्राः स्त्रियः कार्याः पुरुषैः स्वैर् दिवानिशम् ।

विषयेषु च सज्जन्त्यः संस्थाप्या आत्मनो वशे ॥ ९.२ ॥

अस्वतन्त्रा इति । भर्त्रादिभिः स्त्रियः सर्वदा परतन्त्राः कार्याश् च, निषिद्धे ऽपि च शब्दादिषु विषयेष्व् अतिसक्तिं भजमानास् ततो ऽपास्यात्मवर्तिन्यः कर्याः ॥ ९.२ ॥

पिता रक्षति कौमारे भर्ता रक्षति यौवने ।

रक्षन्ति स्थविरे पुत्रा न स्त्री स्वातन्त्र्यम् अर्हति ॥ ९.३ ॥

पितेति । प्राग् विवाहात् पिता स्त्रियं रक्षति । तद् अनु भर्ता, तदभावे पुत्राः, अत एभिर् न कदाचित् स्वतन्त्राः कार्याः । भर्तृपुत्रयौवनवार्धक्यग्रहणं व्यवस्थार्थम् अपि त्व् औचित्यात् प्राप्तानुवादो ऽयम् ॥ ९.३ ॥

काले ऽदाता पिता वाच्यो वाच्याश् चानुपयन् पतिः ।

मृते भर्तरि पुत्रस् तु वाच्यो मातुर् अरक्षिता ॥ ९.४ ॥

काल इति । “प्रदानं पार्ग् ऋतोर्” इति गौतमस्मरणम् । अस्मिन् काले पिता कन्याद् अदन् गर्ह्यः । ऋतुकाले ऽगच्छन् भर्ता निन्द्यः । पतौ पुनर् मृते मातरम् अरक्षन् पुत्रो गर्हणीयः ॥ ९.४ ॥

सूक्ष्मेभ्यो ऽपि प्रसङ्गेभ्यः स्त्रियो रक्ष्या विशेषतः ।

द्वयोर् हि कुलयोः शोकम् आवहेयुर् अरक्षिताः ॥ ९.५ ॥

सूक्ष्मेभ्य इति । अल्पेभ्यो ऽपि दुःसम्पर्केभ्यो दुःशीलत्वसम्पादिभ्यो ऽतिशयेन रक्षणीयाः । किम् उत महद्भ्यो यस्माद् अरक्षिता सद्यो ऽभिचारोत्पत्त्या पितृभर्तृकुलयोर् द्वयोर् अपि सन्तापं कुर्युः ॥ ९.५ ॥

इमं हि सर्ववर्णानां पश्यन्तो धर्मम् उत्तमम् ।

यतन्ते रक्षितुं भार्यां भर्तारो दुर्बला अपि ॥ ९.६ ॥

इमम् इति । यस्मात् सर्वेषां ब्राह्मणादिवर्णानां भार्यारक्षणं वक्ष्यमाणश्लोकनीत्या सर्वधर्मेभ्य उत्कृष्टम् अतो भर्तारो दुर्बला अप् भायां रक्षितुं यत्नं कुर्युः । यतः “स्त्रियो रक्ष्याः” (९.५) इति पूर्वम् एव (उक्तम्?) ॥ ९.६ ॥

स्वां प्रसूतिं चरित्रं च कुलम् आत्मानम् एव च ।

स्वं च धर्मं प्रयत्नेन जायां रक्षन् हि रक्षति ॥ ९.७ ॥

स्वाम् इति । भ्यायां यत्नतो रक्षन् स्वां सन्ततिं सङ्करानुत्पादनेन रक्षति । भार्यासंरक्षणे च तिष्ठन् समाचारं च रक्षति । पितृपितामहाद्यन्वयम् आत्मानं चासङ्कीर्णापद्य् और्ध्वदैहिककरणेषु रक्षति । स्वं धर्मं विशुद्धना(भा)र्यस्याधानाद्यधिकाराद् रक्षति ॥ ९.७ ॥

पतिर् भार्यां सम्प्रविश्य गर्भो भूत्वेह जायते ।

जायायास् तद् धि जायात्वं यद् अस्यां जायते पुनः ॥ ९.८ ॥

पतिर् इति । भर्ता भार्यायाम् सम्प्रविश्य गर्भताम् आपद्येह जायते । एवं चाप्य् अक्षरवर्णसामान्यानि ब्रूयाद् इति तेन हेतुना जायाया जायात्वं पुनर् असौ पुत्ररूपेणैवं चासौ रक्षणियेत्य् एतदर्थं नामनिर्वचनम् ॥ ९.८ ॥

यादृशं भजते हि स्त्री सुतं सूते तथाविधम् ।

तस्मात् प्रजाविशुद्ध्यर्थं स्त्रियं रक्षेत् प्रयत्नतः ॥ ९.९ ॥

यादृशम् इति । यस्माद् यथाविधं पुरुषं यथाचोदितं भर्तारं शास्त्रनिषिद्धं वा स्त्री सेवते तादृशं शास्त्रोक्तम् एव तथोकृष्टं निषिद्धसेवनेन च निकृष्टं पुत्रं जनयति । तस्माद् अपत्यशुद्ध्यर्थं भार्यां यत्नतो रक्षेत् ॥ ९.९ ॥

न कश्चिद् योषितः शक्तः प्रसह्य परिरक्षितुम् ।

एतैर् उपाययोगैस् तु शक्यास् ताः परिरक्षितुम् ॥ ९.१० ॥

एवं रक्षणियम् उपदिष्टे कथं रक्ष्या इत्य् अत आह न कश्चिद् इति । न कश्चिद् बलाद् अन्त[नि]रोधादिना स्त्रियो रक्षितुं (पारयति?) अनयोर् मनोव्यभिचारत्वे ऽरक्ष्यत्वाद् वक्ष्यमाणै रक्षणोपययोगैस् तु शक्यास् ताः परिरक्षितुम् ॥ ९.१० ॥

अर्थस्य सङ्ग्रहे चैनां व्यये चैव नियोजयेत् ।

शौचे धर्म ऽन्नपक्त्यां च पारिणाह्यस्य वेक्षणे ॥ ९.११ ॥

तान् उपायान् आह अर्थस्येति । धनावस्थानविनियोगयोस् तथा द्रव्यशरीरशुद्धौ शौचे धर्मे च शयनासनादिषु प्रतिजागरणे एवं च तद्व्यापृतमना श्रान्ता स्वपिति संयोगं न स्मरति

॥ ९.११ ॥

अरक्षिता गृहे रुद्धाः पुरुषैर् आप्तकारिभिः ।

आत्मानम् आत्मना यास् तु रक्षेयुस् ताः सुरक्षिताः ॥ ९.१२ ॥

**अरक्षिता **इति । ता अपि अरक्षिता एव मनोव्यभिचारसम्भवाद् याः पुनर् आत्मनैवात्मानं संयमाश्रयेण रक्षत एव सुष्ठुमना (समा?)चारेण संयमाधान आसां यत्नः कार्यः । इति प्रधानसंरक्षणोपायोपदेशः ॥ ९.१२ ॥

पानं दुर्जनसंसर्गः पत्या च विरहो ऽटनम् ।

स्वप्नो ऽन्यगेहवासश् च नारीसन्दूषणानि षट् ॥ ९.१३ ॥

पानम् इति । मद्यपानदुर्जनसंसर्गो ऽसत्पुरुषेण सहाधिवासः, भर्तृवियोगः, इतरगृहे वासः सर्वथैव नारीणाम् इत्येतानि षट् दूषणानि साधुप्रकृतेर् अपि नार्याः व्यभिचाराख्यदोषजननानि, तस्माद् एभ्य एताः परिरक्षणीयाः ॥ ९.१३ ॥

नैता रूपं परीक्षन्ते नासां वयसि संस्थितिः।

सुरूपं वा विरूपं वा पुनाम् इत्य् एव भुञ्जते ॥ ९.१४ ॥

**नैता **इति । नैता सुरूपकुरूपविचारं कुर्वन्ति । न ह्य् आसां यौवनवान् पुरुषश् च प्रियो भवति । अपि तु सुरूपं वा विरूपं वा पुमान् इत्य् एवावतैव ताः नरम् उपभुञ्जन्ते । अपि च पुम्मात्रदर्शणेन धर्यचलनायासां ताः पुंश्चल्यः ॥ ९.१४ ॥

पौंश्चल्याच् चलचित्ताच् च नैःस्नेह्याच् च स्वभावतः ।

रक्षिताः यत्नतो ऽपीह भर्तृष्व् एता विकुर्वते ॥ ९.१५ ॥

**पौंश्चल्याद् **इति । पूम्श्चल्याः चलचित्तत्वात् स्वभावेनैव स्नेहाभावात् एताः यत्नेन रक्षिता अपि (अ) सत्योक्त्यभिचाराश्रयेण भर्तृषु विक्रियां गच्छन्ति ॥ ९.१५ ॥

एवं स्वभावं ज्ञात्वासां प्रजापतिनिसर्गजम् ।

परमं यत्नम् आतिष्ठेत् पुरुषो रक्षणं प्रति ॥ ९.१६ ॥

एवम् इति । एवं श्लोकद्वयं दौःशील्याच् चलचित्तत्वोक्तरूपम् आसां स्वभावं हिरण्यगर्भसृष्टिकाले जनितं ज्ञात्वा रक्षायां यत्नेन (यत्नः?) पुरुषेण कार्यम् (कार्याः?)

॥ ९.१६ ॥

शय्यासनम् अलङ्कारं कामं क्रोधम् अनार्जवम् ।

द्रोहभावं कुचर्यां च स्त्रीभ्यो मनुर् अकल्पयन् ॥ ९.१७ ॥

शय्यासनम् अलङ्कारं कामं क्रोधम् अनार्जवम् इति । स्वापोपवेशनाल्ङ्करणमणिं कामक्रोधलोभापथातित्वकुत्सिताचारत्वानि स्त्रीभ्यो मनुः सर्गादौ कल्पितवान् । ततो आसां रक्षाकरणे यत्नः कार्यः ॥ ९.१७ ॥

नास्ति स्त्रीणां क्रिया मन्त्रैर् इति धर्मे व्यवस्थितः ।

निरिन्द्रिया ह्य् अमन्त्राश् च स्त्रियो ऽनृतम् इति स्थितिः ॥ ९.१८ ॥

नास्ति स्त्रीणां क्रिया मन्त्रैर् इति धर्मे व्यवस्थितः इति । मन्त्रैर् जातकर्मादिसंस्कारक्रिया स्त्रीणां नास्तीति शास्त्रमर्यादा । एवं मन्त्रवज् जातकर्मादिसंस्काराभावात् स्वभावतश् च स्त्रियो निर्वीर्या अध्ययनाभावाच् चामन्त्राश् चामन्त्रित्वे सति धर्मज्ञत्वाभाव(वाद?)शौचे ऽपि प्रवर्तेरन् । तत्पर्वृत्तौ च भयाद्यभावात्वाद् अशुभाः स्त्रियःइति शास्त्रमर्यादा ॥ ९.१८ ॥

तथा च श्रुतयो बह्व्यो निगीता निगमेष्व् अपि ।

स्वालक्षण्यपरीक्षार्थं तासां शृणुत निष्कृतीः ॥ ९.१९ ॥

तथेति । निश्चितम् एव व्यभिचारात्मकत्वे ज्ञापिका ऽन चैतद् विद्मो ब्राह्मणो(-णाः) वा” इत्य् एवमाद्या बह्व्याः श्रुततो वेदेष्व् इति पठिताः । तासां च श्रुतीनां मध्यात् प्रायश्चित्तरूपां श्रुतिं शृणुत ॥ ९.१९ ॥

यन् मे माता प्रलुलुभे विचरन्त्य् अपतिव्रता ।

तन् मे रेतः पिता वृङ्क्ताम् इत्य् अस्यैतन् निदर्शणन्म् ॥ ९.२० ॥

यन् म इति । मम माता अप्त्यपरायणा यथान्यपुरुषः सञ्जातलोभाभूत् परपुरुषसङ्कल्पदुष्टं मातृरजो मम पिता बोधयित्वान्यस्य व्यभिचारात्मकत्वस्यैतत् लिङ्गम् इति कारणावस्थितो ऽयम् मन्त्रो ऽयं च चातुर्मास्येष्ट्यष्टकायां च पाद्यानुमन्त्रणे विनियुक्तप्रसङ्गान् मन्त्रप्रयोजनम् आहुः ॥ ९। २० ॥

ध्यायत्य् अनिष्टं यत् किञ्चित् पाणिग्राहस्य चेतसा ।

तस्यैष व्यभिचार्स्य निह्नवः सम्यग् उच्यते ॥ ९.२१ ॥

ध्यायतीति । भर्तुर् अनभिप्रेतं यत् किञ्चित् पुरुषगमनं मनसा चिन्तयति तस्य मनोव्यभिचारस्यानेन सम्यग् बुद्धिर् उच्यते । न वाक्कायविषयो ऽतस् तस्यां तद्व्यभिचारस्वभावत्वाद् एता यत्नतो रक्ष्या । मातेति श्रवणात् पुत्रस्यैवेदं प्रायश्चित्तं न मातुः ॥ ९.२१ ॥

यादृग्गुणेन भर्त्रा स्त्री सम्पूज्येत यथाविधि ।

तादृग्गुणा सा भवति समुद्रेणेव निम्नगा ॥ ९.२२ ॥

यादृग्गुणेनेति । यथारूपेण साधुनासाधुना वा स्त्रीभिः सह विधिना संयोगं (-गो?) भवेत् तथारूपेण तत्सम्पर्कात् साध्वाचारा दुःशीला वा भवति । समुद्रेण संयुज्यमाना गङ्गापि तथा स्वादूदकापि क्षारोदका सम्पद्यत इत्य् आत्मसंयमाख्यां स्त्रीरक्षणोपायान्तरोपदेशार्थम् इदम् ॥ ९.२२ ॥

अक्षमाला वसिष्ठेन संयुक्ताधमयोनिजा ।

सारङ्गी मन्दपालेन जगामाभ्यर्हणीयताम् ॥ ९.२३ ॥

अत दृष्टान्तम् आह अक्षमालेति । **शार्ङ्गेति **च । अक्षमालाख्या चण्डाली परिणीता वसिष्ठेन चाटविका शार्ङ्गी च मन्दपालाख्येन ऊढा सती पूयतां प्राप्ता ॥ ९.२३ ॥

एताश् चान्याश् च लोके ऽस्मिन्न् अपकृष्टप्रसूतयः ।

उत्कर्षं योषितः प्राप्ताः स्वैः स्वैर् भर्तृगुणैः शुभैः ॥ ९.२४ ॥

एता इति । उत्कर्षं योषितः प्राप्ताः स्वैः स्वैर् भर्तृगुणैः शुभैः । एताः प्रकृतत्वे दर्शनार्थम् अनयोर् मत्वा एता इति बहुवचनम् आहुः, अपि तास् तथान्याधमकुलाद्या निकृष्टपतयो नार्यः स्वभर्तुर् अस्मिंल् लोके उत्कृष्टतां प्राप्ताः । अतो भार्यासंरक्षणार्थं मयात्मसंयम आश्रयणीयः ॥ ९.२४ ॥

एषोदिता लोकयात्रा नित्यं स्त्रीपुंसयोः शुभा ।

प्रेत्येह च सुखोदर्कान् प्रजाधर्मान् निबोधत ॥ ९.२५ ॥

एष इति । एष लोकाचारं सर्वो वः शुभो दम्पतीनिर्णय उक्तः, इदानीं सुखहेतून् कृपणो पण्यसुतजीविनोश् चोभयोर् इत्य् एवंविधान् प्रजाधर्मान् शृणुत ॥ ९.२५ ॥

प्रजनार्थं महाभागाः पूजार्हा गृहदीप्तयः ।

स्त्रियः श्रियश् च गेहेषु न विशेषो ऽस्ति कश्चन ॥ ९.२६ ॥

प्रजनार्थम् इति । एवम् एषां दोषवत्य् अपि शक्यप्रतीकार्तवाद् अतः स्त्रियो माल्यवस्त्रालङ्करणादिदानेन सम्पादनार्हाः । एताश् च गृहशोभाभूताः स्त्रियः श्रियश् च गृहेषु तुल्यरूपाः निःश्रीकं गृहं न राजते स्त्रीं विना गृहं च । एवं महाधनम् अपि प्रजानिमित्तत्वात् स्त्रीणाम् इयं श्लोकत्रये ऽपि भूतिः ॥ ९.२६ ॥

उत्पादनम् अपत्यस्य जातस्य परिपालनम् ।

प्रत्यहं लोकयात्रायाः प्रत्यक्षं स्त्री निबन्धनम् ॥ ९.२७ ॥

उत्पादनम् इति । प्रीत्यर्थं लोकयात्रायाः प्रत्यहं स्त्री निबन्धनम् । अपत्योत्पादनं जातस्य च पालनम् मित्रबन्धुभोजनादेश् च लोकव्यवहारस्य एकैकगुणः ॥ ९.२७ ॥

अपत्यं धर्मकार्याणि शुश्रूषा रतिर् उत्तमा ।

दाराधीनस् तथा स्वर्गः पितॄणाम् आत्मनश् च ह ॥ ९.२८ ॥

अपत्यम् इति । दाराधीनस् तथा स्वर्गः पितॄणाम् आतमः सदा । प्रजोत्पादनम् अग्निहोत्रसाधनशरीरशुश्रूषारतिक्रीडापितॄणाम् आत्मनश् चापत्यजननादिना स्वर्ग इत्य् एतत् सदा भार्यायत्तम् ॥ ९.२८ ॥

पतिं या नाभिचरति मनोवाग्देहसंयता ।

सा भर्तृलोकान् आप्नोति सद्भिः साध्वीति चोच्यते ॥ ९.२९ ॥

पतिम् इति । या मनोवाग्देहसंयता सती मनोवाग्देहैः पतिं न व्यभिचरति सा भर्त्रार्जितान् स्वर्गलोकान् प्राप्नोति सा साध्वीति चोच्यते ॥ ९.२९ ॥

व्यभिचारात् तु भर्तुः स्त्री लोके प्राप्नोति निद्यताम् ।

शृगालयोनिं चाप्नोति पापरोगैश् च पीड्यते ॥ ९.३० ॥

व्यभिचाराद् इति । दुर्जनसंसर्गाल् लोके स्त्री गर्ह्यताम्, जन्मान्तरे शृगालयोनिं चाप्नोति । अन्तःकरश् च कुठारै रोगादिभिः पीड्यते । महाप्रयोजनतया स्त्रीणाम् उत्सेकोत्पत्त्याशङ्कायां तन्निवारणार्थम् इह पुनर् उक्तम् ॥ ९.३० ॥

पुत्रं प्रत्युक्तं सद्भिः पूर्वजैश् च महर्षिभिः ।

विश्वजन्यम् इमं पुण्यम् उपन्यासं निबोधत ॥ ९.३१ ॥

पुतम् इति । पुनर् अधिकृत्य शिष्टैर् मन्वादिभिः पूर्वजातैश् चान्यैर् महर्षिभिः संवक्ष्यमाणं सर्वजनहितं कल्याणकरं परं शृणुत ॥ ९.३१ ॥

भर्तुः पुत्रं विजानन्ति श्रुतिद्वैधं तु भर्तरि ।

आहुर् उत्पादकं केचिद् अपरे क्षेत्रिणं विदुः ॥ ९.३२ ॥

भर्तुर् इति । यो भर्ता साक्षाद् उत्पादितपुत्र इति तं यो न मन्यते नात्र विप्रतिपत्तिं [-तिः], यत्र पुनर् उद्वोड्ःआ जनयिता तत्र द्विःप्रकारा श्रुतितः । केचिद् उत्पादकम् अवोढारम् अपि तेन पुत्रेण पुत्रवन्तम् आत्मानम् आहुः । अपरे तु क्षेत्रस्वामिनं वोढारम् अन्यजनितेनापि पुत्रेण पुत्रवन्तम् आहुः ॥ ९.३२ ॥

क्षेत्रभूता स्मृता नारी बीजभूतः स्मृतः पुमान् ।

क्षेत्रबीजसमायोगात् सम्भवः सर्वेदेहिनाम् ॥ ९.३३ ॥

क्षेत्रभूतेति । व्रीह्याद्युत्पत्तिस्थानतुल्या ऋषिभिः स्मृता, मनुष्यश् च व्रीह्यादिबीजतुल्यः स्मृतो यस्मात् क्षेत्रबीजसंयोगात् सर्वप्राणिनाम् उत्पत्तिर् एवं चोभयोः कारणत्वस्यातिशिष्टत्वाद् युक्ता विप्रतिपत्तिः – किं यत्सम्बन्धि क्षेत्रं तस्यापत्यं उत बीजिनः इति ॥ ९.३३ ॥

विशिष्टं कुत्रचिद् बीजं स्त्रीयोनिस् त्व् एव कुत्रचित् ।

उभयं तु समं यत्र सा प्रसूतिः प्रशस्यते ॥ ९.३४ ॥

विशीष्टम् इति । कुत्रचिद् बीजं प्रधानं यत्र “जाता ये तु अनियुक्तायाम्” इति न्यायेन शुल्कोपनीता स्त्रीक्वचित् पुनः क्षेत्रं यत्र यत् तल्पजाप्रमीतस्येति न्यायेनोपनता यत्र पुनर् बीजयोन्या माता पिता च समं जनयितारौ तद् अपत्यं प्रशस्तं भवति ॥ ९.३४ ॥

बीजस्य चैव योन्याश् च बीजम् उत्कृष्टम् उच्यते ।

सर्वभूतप्रसूतिर् हि बीजलक्षणलक्षिता ॥ ९.३५ ॥

तत्र प्राधान्यपक्षे भावम् आह बीजस्येति । बीजक्षेत्रयोर् मध्यात् बीजं प्रधानम् उच्यते, यस्मात् सर्वपदार्थानाम् उत्पत्तिर् बीजगतवर्णरूपादिचिह्नेनोपलक्षिता दृश्यते ॥ ९.३५ ॥

यादृशं तूप्यते बीजं क्षेत्रे कालोपपादिते ।

तादृग् रोहति तत् तस्मिन् बीजं स्वैर् व्यञ्जितं गुणैः ॥ ९.३६ ॥

तथा च यादृशम् इति । यज्जातीयं द्रव्यं व्रीह्यादि काले सङ्गवादौ कर्षणादिना क्षेत्रे उप्यते तज्जातीयम् एव तद्बीजं स्वचिहैर् उपलक्षितं तस्मिन् क्षेत्रे जायते ॥ ९.३६ ॥

इयं भूमिर् हि भूतानां शाश्वती योनिर् उच्यते ।

न च योनिगुणान् कांश्चिद् बीजं पुष्यति पुष्टिषु ॥ ९.३७ ॥

एवम् अन्वयद्वारेण बीजप्राधान्यं प्रदर्श्य व्यतिरेकगुणेन शंसयितुम् आह इयम् इति । यस्मात् तु गुल्मलतादीनां भूतानाम् एषा भूमिर् यदि योनिः क्षेत्रं सर्वलोकैर् उच्यते न च भूम्याख्ययोनिधर्मः कांश्चिद् अपि मृन्मयत्वादीन् गुणान् गुल्मादिबीजम् आत्मदोषे स्वाङ्कुरकाण्डव्यवस्थासु खलु वर्तते तस्माद् योनिगुणान् अनुवर्तमाना प्रक्षेपं प्रधानम् ॥ ९.३७ ॥

भूमाव् अप्य् एककेदारे कालोप्तानि कृषीवलैः ।

नानारूपाणि जायन्ते बीजानीह स्वभावतः ॥ ९.३८ ॥

किं च भूवाव् इति । भूमाव् एकस्मिन्न् अपि क्षेत्रे कर्षकैर् योग्यवापनकाले कलममुद्गादीनि विचित्राण्य् उप्तानि बीजानि अन्यरूपाणि च बीजस्वभावानुवर्तमानाज् जायन्ते भूमाव् अनेकरूपाणि भवन्ति ॥ ९.३८ ॥

व्रीहयः शालयो मुद्गास् तिला माषास् तथा यवाः ।

यथाबीजं प्ररोहन्ति लशुनानीक्षवस् तथा ॥ ९.३९ ॥

व्रीहय इति । शूकधान्येषु मध्यादीयत्शूका व्रीहयः षष्टिकाद्यानि दीर्घशूकाः शालयो रक्ता शाल्यादयस् ते तथा मुद्गादयो बीजत्वभावान्नतिक्रमेनैव विचित्रा जायन्ते ॥ ९.३९ ॥

अन्यद् उप्तं जातम् अन्यद् इत्य् एतन् नोपपद्यते ।

उप्यते यद् धि यद् बीजं तत् तद् एव प्ररोहति ॥ ९.४० ॥

एवं च सति अन्यद् इति । तिलाद्युप्तं मुद्गादि जायत इत्य् एतन् न सम्भवति । यस्माद् यद् एव बीजम् उप्यते शाल्यादाव् इव मनुष्येष्व् अपि बीजप्राधान्यम् ॥ ९.४० ॥

तत् प्राज्ञेन विनीतेन ज्ञानविज्ञानवेदिना ।

आयुष्कामेन वप्तव्यं न जातु परयोषिति ॥ ९.४१ ॥

इदानीं क्षेत्रपाधान्यम् आह तद् इति । तद् बीजं प्रज्ञावता नीतियुक्तेन लोकशास्त्रव्यवहारज्ञेन ईदृशम् अनायुष्यम् इत्य् उक्तत्वाद् आयुर् इच्छता न कदाचित् परभार्यायां वप्तव्यं निष्फलत्वात् । तथा च वक्ष्यति (९.४३) “तथा नश्यति तत् क्षिप्तं बीजं परपरिग्रहे” इति ॥ ९.४१ ॥

अत्र गाथा वायुगीताः कीर्तयन्ति पुराविदः ।

यतो बीजं न वप्तव्यं पुंसा परपरिग्रहे ॥ ९.४२ ॥

**अत्रेति **। अस्मिन्न् अर्थे वायुप्रोक्ता गाथाः छन्दोविशेषयुक्तानि वाक्यानि नीतिकालज्ञाः कथयन्ति यथा परभार्यायां बीजं मनुष्येण न वप्तव्यम् इति ॥ ९.४२ ॥

नश्यतीषुर् यथाविद्धः खे विद्धम् अनुविध्यतः ।

तथा नश्यति वै क्षिप्रं बीजं परपरिग्रहे ॥ ९.४३ ॥

अत्र दृष्टान्तम् आह **नश्यतीषुर् यथा क्षिप्त **इति । यथान्येन मृगं विद्धं तस्मिन्न् एव छिद्रे अन्यथा पश्चाच् च्युतशरो निष्फलो भवति, पूर्वहन्तुर् एव मृगभागत्वात् । एवं परभार्यायाम् उप्तं क्षिप्रम् एव निष्फलं भवति । गर्भग्रहणसमन्तरम् एव क्षेत्रिणः फलम् इत्य् उक्तम् ॥ ९.४३ ॥

पृथोर् अपीमां पृथिवीं भार्यां पूर्वविदो विदुः ।

स्थानुच्छेदस्य केदारम् आहुः शल्यवतो मृगम् ॥ ९.४४ ॥

पृथोर् इति । इमाम् अपि पृथिवीम् अनिकराजसम्बन्धिपरिगणितत्वात् यथा येनैव स्थानुम् उत्पाठ्य क्षेत्रं रक्षितं तद् ध्य् उपदर्शितक्षेत्रम् आहुः । मृगम् आहुर् एवं पूर्वपरिग्रहीतुः स्वाम्यात् तस्याइवापत्यं भवति, न जनयितुः ॥ ९.४४ ॥

एतावान् एव पुरुषो यज् जायात्मा प्रजेति ह ।

विप्राः प्राहुस् तथा चैतद् यो भर्ता सा स्मृताङ्गना ॥ ९.४५ ॥

एतावान् इति । नैकः पुरुषो वापि तु भार्या शरीरम् अपत्यानीत्य् एतत् परिणम एव । तथा चैवं तस्याम् उत्पादितं भर्तुर् एवापत्यं भवति यतश् च दम्पत्योर् ऐक्यम् अतः ॥ ९.४५ ॥

न निष्क्रयविसर्गाभ्यां भर्तुर् भार्या विमुच्यते ।

एवं धर्मं विजानीमः प्राक् प्रजापतिनिर्मितम् ॥ ९.४६ ॥

**नेति **। एवं धर्मं विजानीमः प्राक् प्रजापतिनिर्मितम् । बन्धविक्रयादिना त्यागेन न च भार्यात्वात् स्त्री भर्तुर् अपैत्य् एवं प्रजापतिना स्मृतम् । पूर्वम् एव स्त्री च आत्मसात् कर्तुं न शक्येति ॥ ९.४६ ॥

सकृद् अंशो निपतति सकृत् कन्या प्रदीयते ।

सकृद् आह ददानीति त्रीण्य् एतानि सतां सकृत् ॥ ९.४७ ॥

सकृद् इति । सकृद् आह ददानीति त्रीण्य् एतानि सतां सकृत् । भागकाले पैतृकादिधनभाग एकवारम् एवापतति न धर्मभागकल्पनायां पुनर् भागी क्रियते । कन्यापि सकृद् दातव्या वाग्दत्तायाः कन्यायाः पण्यतः प्राप्ताया अपि न बीजिनो ऽपत्यं भवति । तथा कन्यातो ऽन्यस्मिन्न् अपि गवादिषु एतानि त्रीणि अङ्गनिपातनादीनि साधूनां सकृद् भवन्ति । न पुनःकरनम् एषाम् अस्ति सकृद् आह ददानीति ॥ ९.४७ ॥

यथा गोऽश्वोष्ट्रदासीषु महिष्यजाविकासु च ।

नोत्पदकः प्रजाभागी तथैवान्याङ्गनास्व् अपि ॥ ९.४८ ॥

ये ऽक्षेत्रिणो बीजवन्तः परक्षेत्रप्रवापिणः ।

ते वै सस्यस्य जतस्य न लभन्ते फलं क्वचित् ॥ ९.४९ ॥

यथेति इति । ये क्षेत्रस्वामिनो न भवन्ति केवलं बीजस्वामिनः परकीये क्षेत्रे बीजे च पतिते तस्मिन् क्षेत्रे धान्यादेर् जातस्य यत् फलं न कदाचिद् देशे लभन्त इति प्रकृतस्य दृष्टान्तः॥ ९.४८–४९ ॥

यद् अन्यगोषु वृषभो वत्सानां जनयेच् छतम् ।

गोमिनाम् एव ते वत्सा मोघं स्कन्दितम् आर्षभम् ॥ ९.५० ॥

यद् इति । स्वामिनाम् इति । यद्य् अन्यसम्बन्धिनीषु गोस्त्रीषु परकीयो वृषभः शतम् अपि वत्सानां जनयेत् तदा ते सर्ववत्सा गोस्वामिनाम् एव, तं नैको ऽपि बीजस्वामिनो वृषभसम्बन्धीयकः शुक्रो वृषभस्वामिनो निष्फल एव ॥ ९.५० ॥

तथैवाक्षेत्रिणो बीजं परक्षेत्रप्रवापिणः ।

कुर्वन्ति क्षेत्रिणाम् अर्थं न बीजी लभते फलम् ॥ ९.५१ ॥

तथेति । यद्वद् गोषु तद्वद् एवाविद्यमानस्त्रीस्वाम्याः सन्तो ये परकीयायां योषिति बीजं वपन्ति ते क्षेत्रस्वामिनाम् एवापत्यलक्षणम् उक्तं जनयितापत्याख्यं फलं न लभते ॥ ९.५१ ॥

फलं त्व् अनभिसन्धाय क्षेत्रिणां बीजिनां तथा ।

प्रत्यक्षं क्षेत्रिणाम् अर्थो बीजाद् योनिर् गरीयसी ॥ ९.५२ ॥

फलम् इति । “यद् अत्रोत्पद्यते तयोर् उभयोर् अपत्यम्” एवं क्षेत्रबीजिनोर् यत्र सम्बन्धो नास्ति तत्र निःसन्दिग्धम् एव क्षेत्रिणो ऽपत्यं यद् उक्तनीत्या बीजात् क्षेत्रं बलवत् ॥ ९.५२ ॥

क्रियाभ्युपगमात् त्व् एतद् बीजार्थं यत् प्रदीयते ।

तस्येह भागिनौ दृष्टौ बीजी क्षेत्रिक एव च ॥ ९.५३ ॥

क्रियाभ्युपगमाद् इति । आवयोर् उभयोर् अपत्यं स्याद् इत्य् एवं संविदङ्गीकरणे पुनर् एतत् क्षेत्रस्वामिना बीजवपनार्थं यद् बीजिनो फलम् ॥ ९.५३ ॥

ओघवाताहृतं बीजं यस्य क्षेत्रे प्ररोहति ।

क्षेत्रिकस्यैव तद् बीजं न वप्ता लभते फलम् ॥ ९.५४ ॥

ओघवाताहृतम् इति । तत् क्षेपं क्षेत्रिकस्येह न बीजी लभते फलम् । जलवाताभ्याम् अन्यदीयक्षेत्राद् आनीतं बीजं यदीयक्षेत्रे स्वामिनस् तद् बीजं भवति न तु तत् फलं येन बीजं न्युप्तं स लभते । एवं स्वभावाच् चैवम् एषां द्विपूर्वम् अपि परस्त्रीगमने क्षेत्रिण एवापत्यम् इत्य् एतद् अनेन सूच्यते ॥ ९.५४ ॥

एष धर्मो गवाश्वस्य दास्युष्ट्राजाविकस्य च ।

विहङ्गमहिषीणां च विज्ञेयः प्रसवं प्रति ॥ ९.५५ ॥

**एष **इति । गोऽश्वोष्ट्रघागैडकपक्षिमहिषाणां सन्ततिं प्रत्य् एषा व्यवस्था ज्ञेया । यत् क्षेत्रस्वामिन एवं गवादिसन्ततेः स्वाम्यं न ऋषभादेः, ताः संवेदात् तूभयोर् अपीति

॥ ९.५५ ॥

एतद् वः सारफल्गुत्वं बीजयोन्योः प्रकीर्तितम् ।

अतः परं प्रवक्ष्यामि योषितां धर्मम् आपदि ॥ ९.५६ ॥

एतद् इति । एतद् बीजयोन्योः सारफल्गुत्वं युष्माकं कथितम् । अतो ऽनन्तरं स्त्रीणां सन्तानाभावे यत् कर्तव्यं तद् वक्ष्यामि ॥ ९.५६ ॥

भ्रातुर् ज्येष्ठस्य भार्या या गुरुपत्न्य् अनुजस्य सा ।

यवीयसस् तु या भार्या स्नुषा ज्येष्ठस्य सा स्मृता ॥ ९.५७ ॥

भ्रातुर् इति । यवीयसस् तु या भार्या स्नुषा ज्येष्ठस्य सा स्मृता । ज्येष्ठभ्रातृपत्नी अनुजस्य गुरुभार्यया तुल्या । कनीयसः पत्नी पुनर् ज्येष्ठस्य स्नुषा प्रचक्षते ॥ ९.५७

ज्येष्ठो यवीयसो भार्यां यवीयान् वाग्रजस्त्रियम् ।

पतितौ भवतो गत्वा नियुक्ताव् अप्य् अनापदि ॥ ९.५८ ॥

ज्येष्ठ इति । ज्येष्ठः कनीयःपत्नीं कनीयान् ज्येष्ठभार्यां वक्ष्यमाणनीत्या गुरुनियुक्ताम् अपि सामान्यं (?) गत्वा पतितौ भवतः ॥ ९.५८ ॥

देवराद् वा सपिण्डाद् वा स्त्रिया सम्यङ् नियुक्तया॥

प्रजेप्सिताधिगन्तव्या सन्तानस्य परिक्षये ॥ ९.५९ ॥

देवराद् इति । स्त्रिया भर्तुर् अभावे श्वशुरादिभिर् भर्त्रा वा व्याधितेन वा पुत्रोत्पादनविधियुक्तत्वात् नियुक्तया भर्तृभ्रातुस् तदभावे तत्सपिण्डस्य वा सकाशाद् अभीष्टाः पुत्रलक्षणप्रजाः पुत्राभावात् सम्पादनीयाः ॥ ९.५९ ॥

विधवायां नियुक्तस् तु घृताक्तो वाग्यतो निशि ।

एकम् उत्पादयेत् पुत्रं न द्वितीयं कथञ्चन ॥ ९.६० ॥

विधवायाम् इति । “यस् तल्पजः पर्मीतस्य वा” इति दर्शनाद् अभर्तृकाव्याधितभार्याविषये गुरुभिर् नियुक्तो घृताभ्यक्तो मौनवाक् रात्राव् एकं पुत्रं जनयेत्, न द्वितीयम् ॥ ९.६० ॥

द्वितीयम् एके प्रजनं मन्यन्ते स्त्रीषु तद्विदः ।

अनिर्वृत्तं नियोगार्थं पश्यन्तो धर्मतस् तयोः ॥ ९.६१ ॥

द्वितीयम् इति । केचित् पुनर् आचार्याः पुत्रविधिज्ञा “एकपुत्रो ऽपुत्रतुल्यः” इत्य् एवम् एकपुत्रोत्पदने सति धर्मेण तयोर् अनिष्पन्ननियोगप्रयोजनं मन्यमानाः स्त्रीषु द्वितीयपुत्रोत्पदनं मन्यन्ते ॥ ९.६१ ॥

विधवायां नियोगार्थे निर्वृत्ते तु यथाविधि ।

गुरुवच् च स्नुषावच् च वर्तेयातां परस्परम् ॥ ९.६२ ॥

**विधवायाम् **इति । विधवादिकाया नियोगप्रयोजने संयोगाख्ये पुनर् यथाशास्त्रसम्पन्ने सति ज्येष्ठो भ्रातृभार्या च परस्परं गुरुवत् स्नुषावच् च वर्तेयाताम् ॥ ९.६२ ॥

नियुक्तौ यौ विधिं हित्वा वर्तेयातां तु कामतः ।

ताव् उभौ पतितौ स्यातां स्नुषागगुरुतल्पगौ ॥ ९.६३ ॥

नियुक्ताव् इति । यौ ज्येष्ठकनिष्ठौ नियुक्तौ घृताभ्यक्तत्वादिविधानं परित्यज्य स्वेच्छातो वर्तेयातां तौ द्वाव् अपि स्नुषागगुरुतल्पगौ स्याताम् ॥ ९.६३ ॥

नान्यस्मिन् विधवा नारी नियोक्तव्या द्विजातिभिः ।

अन्यस्मिन् हि नियुञ्जाना धर्मं हन्युः सनतनम् ॥ ९.६४ ॥

एवं नियोगम् उक्त्वा दूषयितुम् आह “नान्यस्मिन् विधवा नारी नियोक्तव्या कदाचन” इति । विधवा नारी अन्यस्मिन् देवरादौ न नियोजनीया, यस्मात् ते देवरादौ नियोजयन्तो ऽनादिधर्मम् एकपत्नीव्रतं प्रतिषेधं नाशयेयुः ॥ ९.६४ ॥

नोद्वाहिकेषु मन्त्रेषु नियोगः कीर्त्यते क्वचित् ।

न विवाहविधाव् उक्तं विधवावेदनं पुनः ॥ ९.६५ ॥

नेति । विवाहप्रयोजनेषु मन्त्रेषु “अर्यमाणं नु देवं” न च विवाहशास्त्रे विधवाया अन्येन पुंसा सह पुनर् विवाह उक्तः ॥ ९.६५ ॥

अयं द्विजैर् हि विद्वद्भिः पशुधर्मो विगर्हितः ।

मनुष्याणाम् अपि प्रोक्तो राज्यं प्रशासति ॥ ९.६६ ॥

अयम् इति । यस्माद् अयं पशुसम्बन्धी व्यवहारो ऽत्यन्तकुत्सितो वेनाख्ये राजनि कुर्वाणो ऽन्यत्वेन प्रोक्तस् तस्माद् आआदिमन्वादिभिर् एष श्रुतौ नास्तीति पूर्वोक्तस्यायम् हेतुः ॥ ९.६६ ॥

स महीम् अखिलां भुञ्जन् राजर्षिप्रवरः पुरा ।

वर्णानां सङ्करं चक्रे कामोपहतचेतसः ॥ ९.६७ ॥

इति । स वेनः पूर्वं समग्रां पृथिवीं पालयन् तत एव राजर्षिश्रेष्ठो न तु धार्मिकः, ततो ब्राह्मणानुज्ञयैतद् भ्रातृभार्यागमनलक्षणं वर्णसङ्करं वर्तितवान् ॥ ९.६७ ॥

ततः प्रभृति यो मोहात् प्रमीतपतिकां स्त्रियम् ।

नियोजयत्य् अपत्यार्थं तं विगर्हन्ति साधवः ॥ ९.६८ ॥

**तदाप्रभृतीति **। एवं चेदानीन्तनत्वा अमुष्याचारस्य तस्माद् वेनकालात् प्रभृति यो मृतभर्तृकां स्त्रियं सम्यक्शास्त्रविगर्हिते एवं च विहितप्रतिषेधत्वान् नियोगस्य कालसूत्रनियोक्तॄणां निन्दाश्रवणं स्त्रीधर्मेषु ॥ ९.६८ ॥

यस्या म्रियेत कन्याया वाचा सत्ये कृते पतिः ।

ताम् अनेन विधानेन निजो विन्देत देवरः ॥ ९.६९ ॥

नियोगप्रकारकत्वात् कन्यागतम् इदम् आह यस्या इति । वाग्दत्तायाः कन्यायाः भर्ता म्रियेत ताम् अनेन विधिना भर्तुः सोदर्यो भ्राता उद्वहेत् ॥ ९.६९ ॥

यथाविध्य् अधिगम्यैनाम् शुक्लवस्त्रां शुचिव्रताम् ।

मिथो भजेताप्रसवात् सकृत् सकृद् ऋताव् ऋतौ ॥ ९.७० ॥

**यथेति ** । स देवरो विवाहविधिना एतां स्वीकृत्य शुक्लवस्त्रां वाक्कायसंयुतां रहस्य् आ गर्भग्रहणात् प्रभृति वाचनिकत्वात् च संस्कारस्य चासौ देवरस्य भार्या भवतीति क्षेत्रस्वामिन एव तद् अपत्यं भवतीति ॥ ९.७० ॥

न दत्वा कस्यचित् कन्यां पुनर् दद्याद् विचक्षणः ।

दत्वा पुनः प्रयच्छन् हि प्राप्नोति पुरुषानृतम् ॥ ९.७१ ॥

नेति । शास्त्रज्ञो ऽन्यस्मै कन्यां पुनर् अन्यस्मै न दद्यात् ॥ ९.७१ ॥

[अत्र द्विसप्ततितमश्लोकाद् आरभ्याध्यायसमाप्तिपर्यन्तम् उपलब्धेषु पुस्तकेषु गोविन्दराजकृतटीका न दृश्यते केवलं मूलश्लोका एव वर्तन्ते । अतस् ते श्लोका अस्मिन् ग्रन्थे न गृहीताः ]

**** चोम्मेन्तर्य् ओन् वेर्सेस् ७२–३३६ इस् नोत् फ़ोउन्द् इन् थे अवैलब्ले मनुस्च्रिप्त्स्।**

दशमो ऽध्यायः

अधीयीरंस् त्रयो वर्णाः स्वकर्मस्था द्विजातयः ।

प्रब्रूयाद् ब्राह्मणस् त्व् एषां नेतराव् इति निश्चयः ॥ १०.१ ॥

ॐ सिद्धिः ॥ सङ्कीर्णानां वर्णेभ्य एवोत्पत्तिर् वर्णोत्पत्तिः अभिधानम् अन्तरेण तदुत्पत्तिकथनस्य अशक्यत्वाद् वर्णोत्पत्त्यभिधानस्य प्रसङ्गेनोत्पदनाय द्वितीयाध्यायसिद्धं त्रैवर्णिकप्रधानधर्मं वेदाध्ययनम् अनुवदितुम् आह **अधीयीरन् **इति । ब्राह्मणादयस् त्रयो वर्णा कुर्यान् न क्षत्रियवैश्याव् इत्य् अयं विश्चय इत्य् अध्ययनानुवादप्रसङ्गेन ब्राह्मणस्याध्यापननियमम् आह ऽप्रब्रूयाद् ब्राह्मणस् त्व् एषाम्ऽ इत्य् अनेनैव क्षत्रियवैश्ययोर् अध्यापननिवृत्तिसिद्धौ स्वशब्देन निषेधवचनं निषिद्धाचरणेन प्रायश्चित्तविशेषार्थम् ॥ १०.१ ॥

सर्वेषां ब्राह्मणो विद्याद् वृत्त्युपायान् यथाविधि ।

प्रब्रूयाद् इतरेभ्यश् च स्वयं चैव तथा भवेत् ॥ १०.२ ॥

किं च सर्वेषाम् इति । सर्वेषां सङ्करपर्यन्तानाम् आत्मकुटुम्बस्थित्युपायान् ब्राह्मणो यथाशास्त्रं जानीयात् । तथा तेभ्यश् चोपदिशेद् आत्मना च वृत्तिनियमान् अनुतिष्ठेत् ॥ १०.२ ॥

वैशेष्यात् प्रकृतिश्रैष्ठ्यान् नियमस्य च धारणात् ।

संस्कारस्य विशेषाच् च वर्णानां ब्राह्मणः प्रभुः ॥ १०.३ ॥

अत्रार्थवादः **वैशेष्याद् **इति । जात्युत्कर्षान् मुखोद्भवत्वेन च श्रेष्ठकारणजन्यत्वात् स्नातकस्य व्रतानां च करणात् संस्कारस्य चोपनयनाख्यस्य बालस्यैव विधानेन विशेषाद् वर्णानां वृत्तिवेदनतदुपदेशयोर् ब्राह्मण एवेशता ॥ १०.३ ॥

ब्राह्मणः क्षत्रियो वैश्यस् त्रयो वर्णा द्विजातयः ।

चतुर्थ एकजातिस् तु शूद्रो नास्ति तु पञ्चमः ॥ १०.४ ॥

ब्राह्मण इति । ब्राह्मणक्षत्रियवैश्यास् त्रयो वर्णा द्विजा उपनयनस्य तेषां विहितत्वात् । शूद्रः पुनश् चतुर्थो वर्णः एकवर्ण (एकजातिर्?) उपनयनाभावात् । पञ्चमः पुनर् वर्णो नास्ति अन्तर्प्रभवानां मातापितृजातिव्यतिरिक्तजात्यन्तरत्वाद् अस्येतरवद् एवं चायम् एषां वर्णत्वोपदेशः शास्त्रे व्यवहारार्थः । शूद्रस्योपनयनानुप्देशाद् एवैकजातित्वसिद्धौ चतुर्थ एकजातिस् तु इति इदं धर्मेण वस्तुधर्मज्ञा इत्य् अनेनायं मन्त्रः केशवपनादिना संस्कारान्तरवद् उपनयनं नास्तीति सूचनार्थम् ॥ १०.४ ॥

सर्ववर्णेषु तुल्यासु पत्नीष्व् अक्षतयोनिषु ।

आनुलोम्येन सम्भूता जात्या ज्ञेयास् त एव ते ॥ १०.५ ॥

सर्ववर्षेष्व् इति । आनुलोम्येन सम्भूता जात्या ज्ञेयास् त एव ते । ब्राह्मणादिचरुष्व् अपि वर्णेषु समानजातीयासु अक्षतयोनिषु यथाशास्त्रसमूढासु आनुलोम्येन ब्राह्मणेन ब्राह्मन्यां क्षत्रियेण क्षत्रियायाम् इत्य् एवम् अनुक्रमेण ये जाताः ते पित्रोर् जातितज्जातीया एव बोद्धव्याः । सर्ववर्णेषु इत्य् उपादानाद् वर्णत्वमात्रेण तुल्यास् तु इत्य् आशङ्कानिवृत्त्यर्थम् आनुलोम्यग्रहणम् । इदम् एव च सकलमातापितृप्रबन्धस्यापि जातिलक्षणम् अनादित्वेन पुनः संसारस्यास्यैव व्यापकत्वात् सर्वत्र चेह प्रकरणे जातिलक्षणप्रकरणं शास्त्रव्यवहारफलजातिपरिज्ञानार्थं गवाश्वादिवत् ब्राह्मणादीनां जातिभेदावबोधकस्याकारविशेषस्यानुपलब्धेः । एवं च पत्नीग्रहणाद् अपत्न्युत्पन्नानां नैव तज्जातीयत्वम् । तथा च देवलः ।

द्वितीयेन तु यः पित्रा सवर्णायां प्रजायते ।

अधरेट इति ख्यातः शूद्रधर्मा सजातितः ॥

व्रतहीना असंस्कार्याः सवर्णास्व् अपि ये सुताः ।

उत्पादिताः सवर्णेन व्रात्या इति बहिष्कृत्ः ॥

इत्य् आह । तथा ।

सवर्णेभ्यः सवर्णासु जायन्ते हि स्वजातयः ।

इत्य् एतद् अपि याज्ञवल्क्यवाक्यमानवैकवाक्यत्वाद् विन्नास्व् एष विधिः स्मृत इति चोपसंहारात् पत्नीविषयम् । एवं व्यासः ।

स्वोढाजाता समानाः स्युः सङ्कराः स्युर् अतो ऽन्यथा ।

इत्य् आह । बौधायनश् च “एतान् वान्यान् विवाहान् आहुर् एतैः सङ्कृताभ्यः उत्पन्नास् तज्जातीया भवन्ति न त्व् अन्य” इत्य् आह । बृहस्पतिश् च ।

प्रातिलोम्येन सम्भूता नियोगेन विन च ये ।

सावित्रीपतिता जातान् त्रयः सङ्करजातयः ॥

इत्य् आह । अन्ये तु ।

    सत्यकामो जाबालो जाबालं मातरम् आमन्त्रयां चक्रे । ऽभवति, ब्रह्मचर्यं च वत्स्यामि, किङ्गोत्रो ऽहम् अस्मीतिऽ । सा हैनम् उवाच, ऽनाहम् एतद् वेद यद्गोत्रस् त्वम् असि तात, बह्व् अहं चरन्ती परिचारिणी यौवने त्वाम् आलभे । साहम् एतन् न वेद यद्गोत्रस् त्वम् असि । जाबाला तु नामा अहम् अस्मि, सत्यकामो नामस् त्वम् असि । स सत्यकाम एव जाबालो ब्रवीथऽ इति । स ह हारिद्रुमतं गौतमम् एत्योवाच ऽब्रह्मचर्यं भगवतो वत्स्यामि, उपेयां भगवन्तम्ऽ इति । तं होवाच ऽकिङ्गोत्रो नु सोम्य असीतिऽ । स होवाच ऽनाहम् एतद् वेद भो यद्गोत्रो ऽहम् अस्मि । अपृच्छं मातरम् । सा मां प्रत्यब्रवीत् बह्व् अहं चरन्ती परिचारिणी यौवने त्वाम् आलभे । साहम् एतन् न वेद यद्गोत्रस् त्वम् असि । जाबाला तु नामाहम् अस्मि, सत्यकामो नामस् त्वम् असि । सो ऽहं सत्यकामो जाबालो ऽस्मि भोऽ इति तं होवाच । नैतद् अब्राह्मणो विवक्तुम् अर्हति । समिधं सोम्य आहर, उत त्वा नेष्यऽ 

इति जाबालश्रुतिदर्शनात् कुण्डगोलकयोश् च श्राद्धप्रतिषेधदर्शनाच् च एषां यस्यापि पितृजातीयत्वम् इति । तच् चापरेण सह तेनाहम् एतद् वेदेति मातुः निश्चयाभावान् नेइतद् अब्राह्मणो विवक्तुम् अर्हति इति पितृतो ऽपि तस्योत्पत्तिसम्भवात् तदभिप्रायम् एतत् स्यात्, यत् तु कुण्डगोलकयोः श्राद्धनिषेधदर्शनं तद् उक्तं श्रुतिभ्रमेण ब्राह्मण्याशङ्कायां परिहारार्थं स्यान् न तु स्वभ्रष्टब्राह्मण्यजनकम् ॥ १०.५ ॥

स्त्रीष्व् अनन्तरजातासु द्विजैर् उत्पादितान् सुतान् ।

सदृशान् एव तान् आहुर् मातृदोषविगर्हितान् ॥ १०.६ ॥

स्त्रीष्व् इति । अव्यवहितवर्जणातीयासु भार्यासु द्विजातिभिः ये उत्पादिताः पुत्राः यथा ब्राह्मणेन क्षत्रियायां क्षत्रियेण वैश्यायां वैश्येन शूद्रायां तन्मातुर् हीनजातीयत्वे गर्हिता, न ते एव पितृसदृशान् तान् मन्वादय आहुः । न तु पितृजतीयनामानि च एषां मूर्धवसिक्तमाहिष्यकरणाख्यानि याज्ञवल्क्यादिभिर् उक्तानि । वृत्तयश् च एषां अथ उशनसा निर्दिष्टाः-

    हस्त्यश्वरथशिक्षा अस्त्रधारणं च मूर्धावसिकानाम्, गीतनृत्यनक्षत्रैः जीवनं सस्यरक्षा च महिष्याणाम्, स्वजातिशुश्रूषा धान्याध्यक्षता राजसेवा दुर्गान्तःपुररक्षा च पारशवोग्रकरणानाम् ।

इति ॥ १०.६ ॥

अनन्तरासु जातानां विधिर् एष सनातनः ।

द्व्येकान्तरासु जातानां धर्म्यं विद्याद् इमं विधिम् ॥ १०.७ ॥

अनन्तरास्व् इति । एष नित्यो विधिः अनन्तरजातिभार्योत्पन्नानाम् उक्तः, एकेन द्वाभ्यां व्यवहिताः तदुत्पन्नानां यथा ब्राह्मणेन वैश्यायां क्षत्रियेण शूद्रायां ब्राह्मणेन च शूद्रायाम् इमं वक्ष्यमाणं धर्माद् अनपेतं नामविधानं जानीयात् ॥ १०.७ ॥

ब्राह्मणाद् वैश्यकन्यायाम् अम्बष्ठो नाम जायते ।

निषादः शूद्रकन्यायां यः पारशव उच्यते ॥ १०.८ ॥

ब्राह्मणाद् इति । “विन्नास्व् एष विधिः स्मृतः” इत्य् याज्ञवल्क्यदर्शनात् ब्राह्मणाद् वैश्यकन्यायाम् ऊढायां अम्बष्ठाखो जायते । शूद्रकन्यायाम् ऊढायां निषद उत्पद्यते । यः पारशव इत्य् अनेन सञ्ज्ञान्तरेणाशास्त्र उच्यते । सञ्ज्ञान्तरकथनं मत्स्यघातवृत्तिप्रतिलोमनिषादभ्रान्तिनिराकरणार्थम् ॥ १०.८ ॥

क्षत्रियाच् छूद्रकन्यायां क्रूराचारविहारवान् ।

क्षत्रशूद्रवपुर् जन्तुर् उग्रो नाम प्रजायते ॥ १०.९ ॥

क्षत्रियाद् इति । क्षत्रियात् शूद्रकन्यायां ऊढायां क्रूरचेष्टावान् पापस्वभावः क्षत्रियशूद्रोत्पन्नदेहः प्राण्य् उग्राखो नरो जायते । वृत्तिश् चास्य पूर्वश्लोके उशनसोक्ता दर्शिता

॥ १०.९ ॥

विप्रस्य त्रिषु वर्णेषु नृपतेर् वर्णयोर् द्वयोः ।

वैश्यस्य वर्णे चैकस्मिन् षड् एते ऽपसदाः स्मृताः ॥ १०.१० ॥

विप्रस्येति । ब्राह्मणक्षत्रियादिवर्णत्रयस्त्रीषु क्षत्रियस्य वैश्यादिवर्णद्वयस्त्रियोः वैश्यस्य च शूद्राख्यवर्णस्त्रियाम् । एत उक्तास् ते सवर्णपुत्रकापेक्षयापसदा पुत्रकार्याद् अवशीर्णा इत्य् एते अपसदाः स्मृताः ॥

क्षत्रियाद् विप्रकन्यायां सूतो भवति जातितः ।

वैश्यान् मागधवैदेहौ राजविप्राङ्गनासुतौ ॥ १०.११ ॥

एवम् अनुलोमान् उक्त्वा प्रतिलोमान् आह क्षत्रियाद् इति । अस्मिन् श्लोके पूर्वार्धं सुगमम् । उत्तरार्धं व्याख्यातम् । अत्र विवाहासम्भवात् कन्याग्रहणं स्त्रीमात्रप्रदर्शनार्थम् । क्षत्रियाब्राह्मण्योः यथाक्रमं मागधवैदेहाख्यौ पुत्रौ भवतः । एषां वृत्तयो ऽस्मिन्न् एव शास्त्रे निर्दिष्टाः । अनिर्दिष्टवृत्तीनां पुनः शास्त्रान्त्रोक्ता अस्माभिर् यथावसरं निर्दिश्यन्ते

॥ १०.११ ॥

शूद्राद् आयोगवः क्षत्ता चण्डालश् चाधमो नृणाम् ।

वैश्यराजन्यविप्रासु जायन्ते वर्णसङ्कराः ॥ १०.१२ ॥

शूद्राद् इति । वैश्यराजन्यविप्रासु जायन्ते वर्णसङ्कराः । शूद्रात् द्विजातिवर्णानां मैथुनाख्यसङ्करे सति वैश्यायाम् आयोगवः क्षत्रियायां क्षत्ता ब्राह्मण्यां चाण्डालो मनुष्याधमो जायते ॥ १०.१२ ॥

एकान्तरे त्व् आनुलोम्याद् अम्बष्ठोग्रौ यथा स्मृतौ ।

क्षत्तृवैदेहकौ तद्वत् प्रातिलोम्ये ऽपि जन्मनि ॥ १०.१३ ॥

एकान्तर इति । एकव्यवहिते वर्णे वर्णानुक्रमेण ब्राह्मणाद् वैश्यायां क्षत्रियात् शूद्रायां उत्पन्नौ अम्बष्ठोग्रौ यथा स्पर्शाद्यर्हौ तद्वत् प्रातिलोम्ये जनने ऽपि क्षत्रियवैदेहकौ स्पर्शादियोग्यौ विज्ञेयौ । एकान्तरोत्पन्नयोश् च स्पर्शाद्यभ्यनुज्ञानाद् अर्थान्तरोत्पन्नानाम् अपि सूतमागधायोगवानां स्पर्शादियोग्यत्वं सिद्धं भवति । एवं चण्डाल एवैको ऽत्र पर्युदास्यते ॥ १०.१३ ॥

पुत्रा ये ऽनन्तरस्त्रीजाः क्रमेणोक्ता द्विजन्मनाम् ।

तान् अनन्तरनाम्नस् तु मातृदोषात् प्रचक्षते ॥ १०.१४ ॥

पुत्रा इति । ये द्विजातीनाम् अनन्तरैकान्तरद्व्यन्तरजातिस्त्रीषु उत्पन्नाः क्रमेणोक्ताः पुत्रास् तान् हीनमातृकत्वात् मातृजातिव्यपदेशान् आचक्षते इत्यीदम् एवं मातृपितृव्यतिरिक्तजातित्वात् धर्मास् ते मातृजातिगतसंस्कारादिधर्मप्राप्त्यर्थं वचनं मातृदोषाद् इति हेतूपादानाद् अनन्तरग्रहणम् एकान्तरप्रदर्शनार्थम् ॥ १०.१४ ॥

ब्राह्मणाद् उग्रकन्यायाम् आवृतो नाम जायते ।

आभीरो ऽम्बष्ठकन्यायाम् आयोगव्यां तु धिग्वणः ॥ १०.१५ ॥

ब्राह्मणाद् इति । क्षत्रियेण शूद्रायाम् उत्पन्ना उग्री, तस्यां ब्राह्मणाद् आवृतो नाम्ना जायते । ब्राह्मणेन वैश्यायाम् उत्पन्ना अम्बष्ठो, ब्राह्मणाद् आभीराख्यो जायते । अनयोश् च हस्त्यादिस्वाधिका आवृत्तानां गोऽजाविरक्षा आभीराणाम् इत्य् अर्थे औशनसे वृत्तिर् उक्ता । शूद्रेण वैश्यायाम् उत्पन्ना आयोगवी, तस्यां ब्राह्मणाद् आभीराख्यो जायते ॥ १०.१५ ॥

आयोगवश् च क्षत्ता च चण्डालश् चाधमो नृणाम् ।

प्रातिलोम्येन जायन्ते शूद्राद् अपसदास् त्रयः ॥ १०.१६ ॥

आयोगव इति । आयोगवः क्षत्ता चण्डालो मनुष्याधम इत्य् एते त्रयो व्युत्क्र्मेण वैश्याक्षत्रियाब्राह्मणीषु शूद्राद् अपसदाः पुत्रकार्याद् अवगताः जायन्ते ॥ १०.१६ ॥

वैश्यान् मागधवैदेहौ क्षत्रियात् सूत एव तु ।

प्रतीपम् एतते जायन्ते परे ऽप्य् अपसदास् त्रयः ॥ १०.१७ ॥

जातो निषादाच् छूद्रायां जात्या भवति पुल्कसः ।

शूद्राज् जातो निषाद्यां तु स वै कुक्कुटकः स्मृतः ॥ १०.१८ ॥

वैश्याद् इति । जातो निषादाच् … कुक्कुटकः स्मृतः । पुरुषजातेः प्रतिलोमत्वान् न निषादो ऽत्र पारशवः, पितुः प्रतिलोमे हि याथा व्यासः ।

उग्रा मागधसंयोगाज् जातः कुन्तलकाभिधः ।

स नापित इति प्रोक्तः क्षुरकर्मविधानकृत् ॥

क्षत्रियाज् जायते वैश्यान् मागधो वाक्यजीवनः ।

शूद्रान् निषादो मत्स्यघ्नः क्षत्रियायां व्यतिक्रमात् ॥

इत्य् एवं य एतस्मान् निषादाच् छूद्रायां जातो जातितः पुल्कसः साक्षाद् भवति । निषाद्यां पुनर् एवंविधायां एव यः शूद्राज् जातः स कुक्कुटनामा स्मृतः, तस्य च कुक्कुटकानां प्रहरकरणं चक्रतोमरभिण्डिमालप्रासासिपरशुलगुडलोहजालिकासत्त्वघ्नाति कर्माणीति शङ्खेन वृत्तिर् उक्ताह् ॥ १०.१७–१८ ॥

क्षत्तुर् जातस् तथोग्रायां श्वपाक इति कीर्त्यते ।

वैदेहकेन त्व अम्बष्ठ्याम् उत्पन्नो वेण उच्यते ॥ १०.१९ ॥

क्षत्तुर् इति । क्षत्तुः शूद्राक्षत्रियजातायाम् उत्पन्नः श्वपाक इत्य् उच्यते । वैदेहकेन वैश्यतो ब्राह्मणजातेन अम्बष्ट्यां ब्राह्मणेन वैश्याजातायाम् उत्पन्नो वेन इति कथ्यते ॥ १०.१९ ॥

द्विजातयः सवर्णासु जनयन्त्य् अव्रतांस् तु यान् ।

तान् सावित्रीपरिभ्रष्टान् व्रात्यान् इति विनिर्दिशेत् ॥ १०.२० ॥

इदानीं व्रात्यजातानाम् अप्रतिलोमानाम् अपि सतां संस्कारत्वप्रतिपादनार्थम् अत ऊर्ध्वं ऽत्रयो ऽप्य् एतेऽ इत्याद्य् उक्तं व्रात्यलक्षणम् अनुवदितुम् आह द्विजातय इति । द्विजातिस्त्रीषु यान् पुत्रान् उत्पदयति ते चेत् उपनयनाख्यव्रतहीना भवन्ति, तदा तान् अकृतोपनयनान् व्रात्या इत्य् अन्यया सञ्ज्ञया व्यपदिशेत् ॥ १०.२० ॥

व्रात्यात् तु जायते विप्रात् पापात्मा भूर्जकण्टकः ।

आवन्त्यवाटधानौ च पुष्पधः शैख एव च ॥ १०.२१ ॥

व्रात्यात् तु जायते विप्रात् पापात्मा भूर्जकण्टकः इति । उक्तलक्षणात् व्रात्यात् सवर्णासु इति पुनरावृत्तेः ब्राह्मण्यां पापवतोत्पन्नात्वात् दुष्टशरीरः भृज्जकण्टकाख्यो जायते । तथा वाटधानपुष्पधशैखाख्या जायन्त इति एकस्यैव देशभेदप्रसिद्धैतानि नामानि । एवम् उत्तरत्रापि गौतमेन ब्राह्मणाद् वैश्यायां जातो भृज्जकण्टक उक्तः । स च अनुलोमत्वाद् अपाप्मेति विशेषणम् । एषां च वृत्तयो ऽथ औशनस उक्तः- “अभिचारमुलकर्म द्विषतां मन्त्रौषधीश् च अभिमुखीकरणं नाशनं वा भृज्जकण्टकानाम् आवन्त्यवाटधानैः स्वसैन्यानां विजित्वा चर्या व्रात्याजैर् अन्यैः परराष्ट्राणां कोशमन्त्रवृत्तज्ञानं मित्रामित्रता च ज्ञेयेति ॥ १०.२१ ॥

झल्लो मल्लश् च राजन्याद् व्रात्यान् निच्छिविर् एव च ।

नटश् च करणश् चैव खसो द्रविड एव च ॥ १०.२२ ॥

**झल्लो मल्लश् चेति **। क्षत्रियाद् व्रात्यायां सवर्णायां झल्लमल्लनिच्छविनटकरणखसद्व्रविडाख्या जायन्ते । इत्य् एषां च वृत्तयः अथ उशनस उक्तः, चारवृत्तित्वान् नटकरणानाम् उदकाहरणं प्रपावेश्मदानं च खसद्रविडानां च खसद्रविडानां व्रात्यजैः अन्यैः इत्यादिपूर्वश्लोके दर्शितम् ॥ १०.२२ ॥

वैश्यात् तु जायते व्रात्यात् सुधन्वाचार्य एव च ।

कारुषश् च विजन्मा च मैत्रः सात्वत एव च ॥ १०.२३ ॥

वैश्याद् इति । वैश्यात् पुनः व्रात्यात् सुधन्वाचार्यकारुषविजन्ममैत्रसात्वताख्या जायन्ते । वृत्तयश् च एषाम् अपि औशनस उक्ताः आचार्यसात्वतैः देवपूजनं शिष्टानां व्रात्यजैर् अन्यैर् इत्य् आदिदर्शनम् ॥ १०.२३ ॥

व्यभिचारेण वर्णानाम् अवेदावेदनेन च ।

स्वकर्मणां च त्यागेन जायन्ते वर्णसङ्कराः ॥ १०.२४ ॥

व्यभिचारेणेति । ब्राह्मणादीनां वर्णानाम् इतरेतरस्त्रीगमने स्वगोत्राद्यविवाह्याविवाहेन उपनयनाख्यस्वकर्मत्यागेन वर्णसङ्करो नाम इत्य् उत्पद्यते । अतो युक्तम् इत्य् अस्मिन् प्रकरणे व्रात्यजातानाम् अभिधानम् ॥ १०.२४ ॥

सङ्कीर्णयोनयो ये तु प्रतिलोमानुलोमजाः ।

अन्योन्यव्यतिषक्ताश् च तान् प्रवक्ष्याम्य् अशेषतः ॥ १०.२५ ॥

**सङ्कीर्णयोनय **इति । ये मिश्रयोनयः प्रतिलोमाभ्यः स्त्रीभ्यः प्रतिलोमैर् अनुलोमैश् च जायन्ते अनुलोमाभ्यश् चानुलोमैः प्रैलोमैश् च जायन्ते । एवं परस्परसम्बद्धान् तान् अशेषेण प्रवक्ष्यामि ॥ १०.२५ ॥

सूतो वैदेहकश् चैव चण्डालश् च नराधमः ।

मागधः क्षत्तृजातिश् च तथायोगव एव च ॥ १०.२६ ॥

सूत इति । सूतादय उक्तलक्षणा उत्तरार्थम् अनूद्यम् ॥ १०.२६ ॥

एते षट् सदृशान् वर्णाञ् जनयन्ति स्वयोनिषु ।

मातृजात्यां प्रसूयन्ते प्रवरासु च योनिषु ॥ १०.२७ ॥

एत इति । एते षट् सूतादय प्रतिलोमाः स्वजातीयासु स्त्रीषु सूतान् सूतायां सूतम् एव जनयति इत्य् एवं समानजातीयान् वर्णप्रभवत्वाद् वर्णान् जनयन्ति । अनुलोमाः पुनः मातृजातीयायां स्वजातीयायां च सदृशं जनयन्ति । तद् यथा – अम्बष्ठो वैश्यायाम् अम्बष्ठायां वा अमबष्ठम् एव जनयति । सङ्कीर्णयोनयो ये तु प्रतिलोमानुलोमजा इत्य् अनुलोमानाम् अपि प्रस्तुतत्वात् प्रतिलोमेभ्यश् च मातृजातीयायां सदृशजननासम्भवात् द्वितीयार्धश्लोको ऽनुलोमविषमतया व्याख्यायते ॥ १०.२७ ॥

यथा त्रयाणां वर्णानां द्वयोर् आत्मास्य जायते ।

आनन्तर्यात् स्वयोन्यां तु तथा बाह्येष्व् अपि क्रमात् ॥ १०.२८ ॥

यथेति । **आनन्तर्यात् स्वयोन्यां च तथा बाह्येष्व् अपि क्रमः **। यथा त्रयाणां वर्णानां क्षत्रियवैश्यशूद्राणां मध्यात् द्वयोर् वर्णयोः क्षत्रियवैश्ययोर् गमने ब्राह्मणस्य आनुलोम्याद् द्विज उत्पद्यते स्वजातीयायां च द्विजो जायते । एवं च बाह्येष्व् अपि वैश्यक्षत्रियाभ्यां क्षत्रियाब्राह्मण्योर् जाते व्युत्क्रमो भवतिति । शूद्रजातिप्रतिलोमापेक्षया द्विजात्युत्पन्नप्रतिलोमस्तुतिः । यत् तु ऽद्विजत्वप्रतिपादकम् एतद् एषां वचनं उपनयनार्थम्ऽ इत्य् आहुः – तद् असत्, ऽप्रतिलोमास् तु धर्महीनाः” इति गौतमीये प्रतिलोमानां संस्कारनिषेधात् ॥ १०.२८ ॥

ते चापि बाह्यान् सुबहूंस् ततो ऽप्य् अधिकदूषितान् ।

परस्परस्य दारेषु जनयन्ति विगर्हितान् ॥ १०.२९ ॥

इति । ते ऽप्य् आयोगवादयः षट् परस्परजातीयासु भार्यासु प्रतिलोमान् सुष्ठु बहून् आत्मनो ऽधिकदुष्टान् निन्दितान् जनयन्ति । तत् तथायोगवः क्षत्र्याम् आत्मनो हीनतरं जनयति, क्षत्ता आयोगव्यां हीनतरम् उत्पादयति, इत्य् एवम् अन्येष्व् अपि प्रतिलोमेषु द्रष्टव्यम् ॥ १०.२९ ॥

यथैव शूद्रो ब्राह्मण्याम् बाह्यं जन्तुं प्रसूयते ।

तथा बाह्यतरं बाह्यश् चातुर्वर्ण्ये प्रसूयते ॥ १०.३० ॥

यथेतितथा बाह्यतरं बाह्याद् बाह्यो वर्णः प्रसूयते । यथा शूद्रो ब्राह्मण्याम् निकृष्टं चाण्डालाख्यं प्राणिनं जनयति; एवं बाह्यात् चाण्डालादेः ब्राह्मणादिषु चतुर्ष्व् अपि वर्णेषु चाण्डालादिभ्यो निकृष्टतरं जायते ॥ १०.३० ॥

प्रतिकूलं वर्तमाना बाह्या बाह्यतरान् पुनः ।

हीना हीनान् प्रसूयन्ते वर्णान् पञ्चदशैव तु ॥ १०.३१ ॥

एतद् एव प्रपञ्चयति प्रतिकूलम् इति । चातुर्वर्ण्यबाह्याः चण्डालाः क्षत्तायोगवाः शूद्रप्रभावाः त्रयः चातुर्वर्ण्ये गच्च्नत आत्मनो हीनतरान् परस्परापक्षयोत्कृष्टान् आत्मनो सह पञ्चदशवर्णप्रभवत्वाद् वर्णान् सम्पादयन्ति । तद् यथा – चण्डालः शूद्रायाम् आत्मनो हीनतरं वैश्याक्षत्रियाब्राह्मणीजातेभ्यः उत्कृष्टं जनयति । ततो ऽप्य् अपसदं क्षत्रियायां चातुर्वर्ण्ये च चतुरश् चतुरो जनयेते । इत्य् एते शूद्रप्रसवेभ्यः चण्डालक्षत्रायोगवेभ्यः [अ। २] द्वादशप्रभेदा उत्पद्यन्ते । आत्मना च चाण्डालक्षत्रायोगवास् त्रयः इत्य् एवं शूद्रप्रभवाः पञ्चदश [अ। ४] क्षत्रियब्राह्मणप्रभवाश् च पञ्चदश् भवन्ति । एवं षष्टिः चातुर्वर्ण्येन सह चतुःषष्टिस्पष्टप्रभेदा भवन्ति । ते तु परस्परस्य गमनेन अनन्तान् जनयन्ति ॥ १०.३१ ॥

प्रसाधनोपचारज्ञम् अदासं दास्यजीवनम् ।

सैरिन्ध्रं वागुरावृत्तिं सूते दस्युर् अयोगवे ॥ १०.३२ ॥

प्रसाधनोपचारज्ञम् अदासं दास्यजीविनम् इति । केशरचनादिप्रसाधनाङ्ग-संवाहनाद्युपचारक्षमदाससमशूद्रत्वात् प्रसाधनादिदासकर्मजीवनं पाशबन्धनेन च मृगादिवधजीवनं सैरन्ध्याख्यं मुखबाहूरुपज्जानाम् इति वक्ष्यमाणो दस्युर् आयोगव्यां शूद्राजातायां जनयति । एतस्य मृगादिहिंसनम् आर्याणां देवपित्रौषधार्थम् आत्मपुत्रदारात्ययप्राप्तः स्यात् । एवम् अन्येषाम् अपि प्रायो वधजीविनां वेदितव्यम् ॥ १०.३२ ॥

मैत्रेयकं तु वैदेहो माधूकं सम्प्रसूयते ।

नॄन् प्रशंसत्य् अजस्रं यो घण्टाताडो ऽरुणोदये ॥ १०.३३ ॥

मैत्रेयकम् इति । वैदेहो वैश्याद् ब्राह्मणीजातः प्रकृतायाम् आयोगव्यां मैत्रेयकाख्यं मधुरभाषिणं जनयति यः प्रातः घण्टाम् आताड्य राजप्रभृतीन् अनवरतवृद्ध्यर्थं स्तौति ॥ १०.३३ ॥

निषादो मार्गवं सूते दासं नौकर्मजीविनम् ।

कैवर्तम् इति यं प्राहुर् आर्यावर्तनिवासिनः ॥ १०.३४ ॥

**निषादो मागधम् **इति । प्रतिलोमाधिकारात् प्रतिलोमो निषादो व्यासोक्तो य उक्तः स प्रकृतायाम् आयोगव्यां मागधं दासापरनामानं नौव्यापारजीविनं जनयति यम् आर्यावर्तनिवासिनाह् कैवर्तशब्देन ब्रुवते ॥ १०.३४ ॥

मृतवस्त्रभृत्स्व् अनार्यासु गर्हितान्नाशनासु च ।

भवन्त्य् आयोगवीष्व् एते जातिहीनाः पृथक् त्रयः ॥ १०.३५ ॥

मृतवस्त्रभृत्स्व् अनार्यासु इति । एते सैरन्ध्रमैत्रेयमागधहीनजातीयाः त्रयः शववस्त्रपरिधानासु क्रूरासु उच्छिष्ठादिभक्ष्याख्यायोगवीषु पितृभेदाद् भिन्नजातयो भवन्ति ॥ १०.३५ ॥

कारावरो निषादात् तु चर्मकारं प्रसूयते ।

वैदेहिकाद् अन्ध्रमेदौ बहिर्ग्रामप्रतिश्रयौ ॥ १०.३६ ॥

कारावर इति । ऽवैदेह्याम् एव जायतेऽ इत्य् अस्य वक्ष्यमाणस्यावधारणस्य पूर्वत्रापि वैदेह्यवबोधकत्वाद् इहाश्रुतापि वैदेही लक्ष्यते । निषादस्य प्रतिलोमाधिकारात् प्रतिलोम उक्तः, तेन निषादाद् वैदेह्यां कारावराख्यः कारावराणां चर्मच्छेदनसीवनम् इति पौरान् सन्दर्शनात् चर्मच्छेदनसीवनवृत्तिर् जायते । वैदेहिकाद् अन्ध्रमेदाख्यौ अरण्यनिवासिनौ स्तुत्यन्तरनिर्देशात् वैदेह्यां च भिन्नजात्युत्पादः स्यात् न आद्यत्वात् कारावरनिषादजात्योश् च श्लोके ऽत्र सन्निधानात् कारावरनिषादस्त्रियोर् एव जायते ॥ १०.३६ ॥

चण्डालात् पाण्डुसोपाकस् त्वक्सारव्यवहारवान् ।

आहिण्डिको निषादेन वैदेह्याम् एव जायते ॥ १०.३७ ॥

चाण्डालाद् इति । चाण्डालात् वैदेह्यां पाण्डुसोपाकाख्यो वेणुव्यवहारजीवी जायते । स च निषादेन वैदेह्याम् एव अहितुण्डिकाख्यो जायते । अस्य बन्धनस्थानेषु बाह्यसंरक्षणम् आहितुण्डिकानाम् इति औशनसे वृत्तिर् उक्ता ॥ १०.३७ ॥

चण्डालेन तु सोपाको मूलव्यसनवृत्तिमान् ।

पुल्कस्यां जायते पापः सदा सज्जनगर्हितः ॥ १०.३८ ॥

वाण्डालेन चेति । पुल्कस्यां जायते पापः सदा सज्जनगर्हितः । चण्डालेन पुल्कस्यां जातो निषादात् शूद्रायाम् इत्य् उक्तायां सोपाकाख्यः पापात्मा सर्वदा साधुभिर् निन्दितो राजाज्ञया वध्यमारणवृत्तिर् जायते ॥ १०.३८ ॥

निषादस्त्री तु चण्डालात् पुत्रम् अन्त्यावसायिनम् ।

श्मशानगोचरं सूते बाह्यानाम् अपि गर्हितम् ॥ १०.३९ ॥

निषादस्त्रीति । प्रतिलोमनिषादस्त्री चण्डालाद् अत्यन्तावसायाख्यं पुत्रं चण्डालादिभ्यो दुष्टतमं श्मशानवासिनं च जनयति ॥ १०.३९ ॥

सङ्करे जातयस् त्व् एताः पितृमातृप्रदर्शिताः ।

प्रच्छन्ना वा प्रकाशा वा वेदितव्याः स्वकर्मभिः ॥ १०.४० ॥

सङ्कर इति । वर्णसङ्करविषये एता जातयो अस्य इयं जननी अयं जनको ऽयम् एवञ्जातीय इति एवं पितृमातृकथनपूर्वकं प्रदर्शिताः । एताश् च गूढाः प्रकटा वा तज्जातिचोदितकर्माचरणदर्शनेन बोद्धव्याः ॥ १०.४० ॥

सजातिजानन्तरजाः षट् सुता द्विजधर्मिणः ।

शूद्राणां तु सधर्माणः सर्वे ऽपध्वंसजाः स्मृताः ॥ १०.४१ ॥

स्वजातिजानन्तरजा इति । द्विजातीनां समानजातीयासु भार्यासु जाताः तथा नान्योत्पन्ना ब्राह्मणक्षत्रियाभ्यां क्षत्रियावैश्ययोर् इत्य् एते षट् सुता द्विजधर्माणः उपनेतव्याः । तान् अनन्तरनाम्नस् तु इति अयं नामनिर्देशो व्यवहारार्थो न संस्कारार्थम् इति कस्यचिद् भ्रान्तिः स्याद् इत्य् अत इदम् एषाम् उपननयार्थं वचनम् । ये पुनर् अन्ये सङ्करजाः सूतादयः ते सर्वे तुल्यरूपाः तेषाम् उपनयनं नास्ति द्विजात्युत्पन्नानाम् अपि ॥ १०.४१ ॥

तपोबीजप्रभावैस् तु ते गच्छन्ति युगे युगे ।

उत्कर्षं चापकर्षं च मनुष्येष्व् इह जन्मतः ॥ १०.४२ ॥

**तपोबीजप्रभावेन ते गच्छन्ति युगे युगे **इति । ते स्वजातिजा इति । अनन्तरजाः तपःप्रभावेण हेतुना जातितो गच्छन्ति ॥ १०.४२ ॥

शनकैस् तु क्रियालोपाद् इमाः क्षत्रियजातयः ।

वृषलत्वं गता लोके ब्राह्मणादर्शनेन च ॥ १०.४३ ॥

तथा चाह शनकैर् इति । इमा वक्ष्यमाणाः क्षत्रियजातयः सत्य उपनयनादिक्रियालोपेन ब्राह्मणानां च यजनाध्यापनप्रायश्चित्ताद्यर्थं दर्श्नाभावेन शनैः शनैः लोके शूद्रतां प्राप्ताः ॥ १०.४३ ॥

पुण्ड्रकाश् चौड्रद्रविडाः काम्बोजा यवनाः शकाः ।

पारदा पह्लवाश् चीनाः किराता दरदाः खशाः ॥ १०.४४ ॥

पौण्ड्रका इति । पौण्ड्रकादयः क्षत्रियाः सन्तः क्रियालोपादिना शूद्रत्वम् आपन्नाः ॥ १०.४४ ॥

मुखबाहूरुपज्जानां या लोके जातयो बहिः ।

म्लेच्छवाचश् चार्यवचः सर्वे ते दस्यवः स्मृताः ॥ १०.४५ ॥

मुखबाहूरुपज्जानाम् इति । ब्राह्मणक्षत्रियवैश्यशूद्राणां या बाह्याः क्रियालोपादिना जातयो म्लेच्छभाषोपेता आर्यभाषायुक्ता वा बर्बरकालाद्यास् ते सर्वे दस्युशब्दवाच्याः स्मृताः

॥ १०.४५ ॥

ये द्विजानाम् अपसदा ये चापध्वंसजाः स्मृताः ।

ते निन्दितैर् वर्तयेयुर् द्विजानाम् एव कर्मभिः ॥ १०.४६ ॥

इति । ये द्विजानां प्रातिलोम्येनोत्पन्ना ये च द्विजातिभिर् अपि शूद्रायाम् आनुलोम्येन जातास् ते द्विजात्युपकारकैर् एव अनिन्दितैः कर्मभिः जीवेयुः ॥ १०.४६ ॥

सूतानाम् अश्वसारथ्यम् अम्बष्ठानां चिकित्सनम् ।

वैदेहकानां स्त्रीकार्यं मागधानां वणिक्पथः ॥ १०.४७ ॥

सूतानाम् इति । वैदेहकानां स्त्रीकार्यं मागधानां वणिक्पथः । सूतानाम् अश्वदमनयोजनादिकम्, अम्बष्ठानां कायशल्यादिचिकित्सा, वैदेहकानाम् अन्तःपुररक्षादिः, मागधानां स्थलपथवारिपथवाणिज्या । अम्बष्ठश् चात्र अवद्यायां शूद्रजातौ बौधायनदर्शनाद् विज्ञेयो न तु ब्राह्मणेन वैश्याज् जातः एतच्छास्त्रोक्ता ये द्विजानाम् अपसदा ये चापध्वंसजाः सुताः ते निन्दितैः वर्तयेयुर् इति प्रस्तुतत्वात् ॥ १०.४७ ॥

**मत्स्यघातो निषादानां तष्टिस् त्व् आयोगवस्य च । **

मेदान्ध्रचुञ्चुमद्गुनाम् आरण्यपशुहिंसनम् ॥ १०.४८ ॥

मत्स्यघात इति ।** मेदान्ध्रचुञ्चुमद्गुनाम् आरण्यपशुहिंसनम्** । आयोगवस्य तक्षणं मेदान्ध्रचुञ्चुमद्गूनाम् आरण्यपशुमारणम् । मागधक्षत्तारौ चुञ्चुमद्गू । यथाह यमः ।

क्षत्रियायां तु वैश्येन चुञ्चुको नाम जायते ।

शूद्रेण जायते मद्गुः क्षत्रिया यत्र मुह्यति ॥

क्षत्रुग्रपुल्कसानां तु बिलौकोवधबन्धनम् ।

धिग्वणानां चर्मकार्यं वेणानां भाण्डवादनम् ॥ १०.४९ ॥

क्षत्रुग्रपुल्कसानाम् इति । क्षत्रादीनां श्वाविड्गोधादिवधबन्धनम् उग्रश् चात्र निकृष्टकर्माभिधानाद् उग्रजातिः प्रतिलोमः कश्चिद् वेदितव्यो नर्तको ऽनुलोमस् तस्य हि द्विजातिशुश्रूषाधानाध्यक्षता इत्याद्यौशनसोक्ता वृत्तिर् दर्शिता । धिगणानां चर्मकरणतद्विक्रयौ, “चर्मकरणं तद्विक्रयजीवनं धिग्वणानां च” इति औशनसदर्शनात् । अतः कारावरेभ्यः एषां वृत्तिभेदौ वेणानां च वंशम् उरजादिवाद्यभाण्डवादनम् ॥ १०.४९ ॥

चैत्यद्रुमश्मशानेषु शैलेषूपवनेषु च ।

वसेयुर् एते विज्ञाता वर्तयन्तः स्वकर्मभिः ॥ १०.५० ॥

चैत्यद्रुमश्मशानेषु इति । ग्रामादिसमीपे ख्यातवृक्षश् चैत्यस् तन्मूलश्मशान-पर्वतवनसमीपेषु एते प्रकाशाः सन्तः स्वकर्मभिर् जीवन्तो वसेयुः ॥ १०.५० ॥

चण्डालश्वपचानां तु बहिर् ग्रामात् प्रतिश्रयः ।

अपपात्राश् च कर्तव्या धनम् एषां श्वगर्दभम् ॥ १०.५१ ॥

वासांसि मृतचैलानि भिन्नभाण्डेषु भोजनम् ।

कार्ष्णायसम् अलङ्कारः परिव्रज्या च नित्यशः ॥ १०.५२ ॥

चण्डालश्वपचानां इति । वासांसीति । चण्डालश्वपाकानां ग्रामाद् बहिर् निवासः स्यात् । पात्रबहिष्कृताश् च कर्तव्याः यतः तद् उक्तम्, लोहादिपात्रं संस्कारेणापि न शुध्यति । धनं चैषां श्वखरं नान्यत्, वासांसि च शववस्त्राणि । खण्डशरावादिषु च भोजनम् । आयसं च अलङ्कारणम् । सर्वदा नैकत्रावस्थानम् ॥ १०.५१–५२ ॥

न तैः समयम् अन्विच्छत् पुरुषो धर्मम् आचरन् ।

व्यवहारो मिथस् तेषां विवाहः सदृशैः सह ॥ १०.५३ ॥

न तैर् इति । धार्मिकः पुरुषः चण्डालश्वपचैः सहलोकयात्रादिव्यवहारान् न कुर्यात् । तेषां च दानग्रहणादिव्यवहारो विवाहश् च समानजातीयैः सह परस्परं स्यात् ॥ १०.५३ ॥

अन्नम् एषां पराधीनं देयं स्याद् भिन्नभाजने ।

रात्रौ न विचरेयुस् ते ग्रामेषु नगरेषु च ॥ १०.५४ ॥

अन्नम् इति । अन्नं चैषां परायत्तं न तु स्वतः साधितम् । तच् च भिन्नपात्रे एषां दातव्यम् । ते च रात्रौ ग्रामनगरयोर् न पर्यटेयुः ॥ १०.५४ ॥

दिवा चरेयुः कार्यार्थं चिह्निता राजशासनैः ।

अबान्धवं शवं चैव निर्हरेयुर् इति स्थितिः ॥ १०.५५ ॥

दिवेति । दिवा ग्रामादौ राजादिष्टक्षूरादिचिह्नाङ्किताः सन्तः सप्रयोजनं पर्यटेयुः । अनाथं शवं ग्रामान् निर्हरेयुर् इति साधुमर्यादा ॥ १०.५५ ॥

वध्यांश् च हन्युः सततं यथाशास्त्रं नृपाज्ञया ।

वध्यवासांसि गृह्णीयुः शय्याश् चाभरणानि च ॥ १०.५६ ॥

वध्यान् इति । राजाज्ञया च शास्त्रानतिक्रमेण शुद्धवधशूलारोपणादिना सर्वदा वधार्हान् हन्युः तद्वस्त्रशय्यालङ्करणानि च गृह्णीयुः ॥ १०.५६ ॥

वर्णापेतम् अविज्ञातं नरं कलुषयोनिजम् ।

आर्यरूपम् इवानार्यं कर्मभिः स्वैर् विभावयेत् ॥ १०.५७ ॥

वर्णापेतम् इति । वर्णत्वाद् भ्रष्टं मनुष्यं सङ्करजातं लोकतः तथाविधेन अज्ञातम् अत एव चार्यसदृशं वस्तुतः पुनर् अनार्यं कलुषयोनिजम् अनुरूपाभिः चेष्टाभिः निश्चिनुयात्, अतश् च निश्चित्य परिहरेत् ॥ १०.५७ ॥

अनार्यता निष्ठुरता क्रूरता निष्क्रियात्मता ।

पुरुषं व्यञ्जयन्तीह लोके कलुषयोनिजम् ॥ १०.५८ ॥

अनार्यतेति । नैर्घृण्यपरुषभाषित्वहिंस्रत्वविहितप्रतिषिद्धानुष्ठानशीलत्वानि सङ्करजातं पुरुषम् अस्मिन् लोके प्रकटीकुर्वन्ति ॥ १०.५८ ॥

पित्र्यं वा भजते शीलं मातुर् वोभयम् एव वा ।

न कथञ्चन दुर्योनिः प्रकृतिं स्वां नियच्छति ॥ १०.५९ ॥

यस्मात् पित्र्यम् इति । तज्जनकयोः दुष्टस्वभावत्वेन अकार्यकार्तिवाद् असौ दुष्टयोनिः पितृसम्बन्धि दुष्टभावत्वं सेवते मातृसम्बन्धोभयगतं वा, अथो न कदाचिद् असौ आत्मकारणं गोपायितुं शक्नोति ॥ १०.५९ ॥

कुल मुख्ये ऽपि जातस्य यस्य स्याद् योनिसङ्करः ।

स श्रयत्य् एव तच् छीलं नरो ऽल्पम् अपि वा बहु ॥ १०.६० ॥

कुल इति । महाकुलोत्पन्नस्यापि यस्य योनिसङ्करः प्रच्छन्नो भवति स जनः स्वपितृगतं स्वभावं ईषद् वा बाहुल्येन सेवत एव ॥ १०.६० ॥

यत्र त्व् एते परिध्वंसा जायन्ते वर्णदूषकाः ।

राष्ट्रियैः सह तद्राष्ट्रं क्षिप्रम् एव विनश्यति ॥ १०.६१ ॥

यत्रेति । यस्मिन् राष्ट्रे एते वर्णानां दूषकाः सङ्करजा विनिपाता जायन्ते तद् राष्ट्रं राष्ट्रवर्तिजनैः सह शीघ्रम् एव नाशम् एति । तस्माद् राज्ञा वर्णसङ्करो रक्षणीयः ॥ १०.६१ ॥

ब्राह्मणार्थे गवार्थे वा देहत्यागो ऽनुपस्कृतः ।

स्त्रीबालाभ्युपपत्तौ च बाह्यानां सिद्धिकारणम् ॥ १०.६२ ॥

ब्राह्मणार्थ इति । स्त्रीबालाभ्युपपत्तौ च बाह्यानां सिद्धिकारणम् । गोब्राह्मणस्त्रीबालपरित्राणार्थं दृष्टप्रयोजनानपेक्षः प्राणत्यागः प्रतिलोमार्थं स्वर्गप्राप्तिकारणम् ॥ १०.६२ ॥

अहिंसा सत्यम् अस्तेयं शौचम् इन्द्रियनिग्रहः ।

एतं सामासिकं धर्मं चातुर्वर्ण्ये ऽब्रवीन् मनुः ॥ १०.६३ ॥

अहिंसेति । श्राद्धकर्मातिथेयं च दानम् अक्रोधम् आर्जवम् । प्रजनं स्वेषु दारेषु तथा चैवानसूयता ॥ हिंसावर्जनं यथोपलब्धाभिधानं परस्वग्रहणं मृद्वारिशुद्धिर् इन्दिर्यसंयम इत्य् एतं साङ्क्षेपिकं धर्मं चातुर्वर्ण्यानुष्थेयं मनुर् आह । प्रकरणसामर्थ्याच् च चातुर्वर्ण्यग्रहणस्यान्तरप्रभवे दर्शनार्थत्वे सत्य् अन्तरप्रभवविषयम् अपीदं वाक्यम् ॥ १०.६३ ॥

शूद्रायां ब्राह्मणाज् जातः श्रेयसा चेत् प्रजायते ।

अश्रेयान् श्रेयसीं जातिं गच्छत्य् आ सप्तमाद् युगात् ॥ १०.६४ ॥

इदानीं “सर्ववर्णेषु तुल्यासु” इत्य् एतल्लक्षणव्यतिरेकेणापि ब्राह्मणादि दर्शयितुम् आह **शूद्रायाम् **इति । शूद्रायां ब्राह्मणाज् जातः पारशवाख्यो वर्णः स्त्रीलक्षणः । सा यदि स्त्री बाह्येणोढा सती प्रसूते दुहितरं च जनयति साप्य् अन्येन ब्राह्मणेन ऊढा सती दुहितरम् एव जनयति, साप्य् एवम् एवेत्य् एवं स पारशवाख्यो निकृष्टे स बीजप्राधान्यात् सप्तमे युगे ब्राह्मणजातिं प्राप्नोति । सप्तमो जातः ब्राह्मणः सम्पद्यते ॥ १०.६४ ॥

शूद्रो ब्राह्मणताम् एति ब्राह्मणश् चैति शूद्रताम् ।

क्षत्रियाज् जातम् एवं तु विद्याद् वैश्यात् तथैव च ॥ १०.६५ ॥

शूद्र इति । एवम् उक्तनीत्या शूद्रो ब्राह्मणतां प्राप्नोति । यदि पुनः ब्राह्मणाच् छूद्रायां पुमान् उत्पद्यते स केवलशूद्रोद्वाहेन ततः पुमांसम् एव जनयति, सो ऽपि केवलशूद्रोद्वाहेन नान्यं पुमांसम् एव तदा स ब्राह्मणः सप्तमां सन्ततिं प्राप्तः शनैः शनैः बीजनिष्कर्षात् केवलशूद्रतां प्राप्नोति । सप्तमो जातः शूद्रः सम्पद्यते । एवं क्षत्रियवैश्याभ्यां शूद्राज् जातस्योत्कर्षापकर्षौ जानीयात् । किं तु जातितारतम्यात् क्षत्रियस्य पञ्चमे जन्मनि उत्कर्षापकर्षौ च वैश्यस्य तृतीय इति व्यचक्षते । एवम् अनेनैव न्यायेन ब्राह्मणो वैश्याज् जातस्य पञ्चमे उत्कर्षापकर्षौ क्षत्रियाज् जातस्य तृतीयेन वैश्याज् जातस्य् च तृतीय एव ॥ १०.६५ ॥

अनार्यायां समुत्पन्नो ब्राह्मणात् तु यदृच्छया ।

ब्राह्मण्याम् अप्य् अन्यार्यात् तु श्रेयस्त्वं क्वेति चेद् भवेत् ॥ १०.६६ ॥

अनार्यायाम् इति । यः शूद्रायाम् अनूढायां ब्राह्मणाद् उत्पन्नो यश् च ब्राह्मण्याम् अपि शूद्राज् जातस् तयोः कस्य प्रशस्ततरत्वम् इति यदि भवतां संशयः स्याद् इति भृगुर् बीजप्रधान्येनोत्कर्षम् उपन्यते सति क्षेत्रबीजकारणत्वाज् जगतः क्षेत्रप्राधान्येनाप्य् उत्कर्षः किम् इति न स्याद् इत्य् ऋषीणां भ्रान्तिम् आशङ्कमानस् तान् आह ॥ १०.६६ ॥

जातो नार्याम् अनार्यायाम् आर्याद् आर्यो भवेद् गुणैः ।

जातो ऽप्य् अनार्याद् आर्यायाम् अनार्य इति निश्चयः ॥ १०.६७ ॥

अत्र निर्णयम् आह जात इति । शूद्रायां ब्राह्मणाज् जातः स्मृत्यभ्यनुज्ञानैः पाकयज्ञादिभिर् अनुष्ठीयमानैः प्रशस्यो भवति । शूद्रात् पुनर् ब्राह्मण्याम् अपि जातः प्रतिलोमत्वेन शूद्रधर्मेष्व् अप्य् अनधिकारात् न प्रशस्य इति निश्चयो यतो यावद् वचनम् अत्र प्राधान्यम् अवतिष्थते नानुमानतः ॥ १०.६७ ॥

ताव् उभाव् अप्य् असंस्कार्याव् इति धर्मो व्यवस्थितः ।

वैगुण्याज् जन्मतः पूर्व उत्तरः प्रतिलोमतः ॥ १०.६८ ॥

ताव् इति । तौ पारशवचण्डालौ द्वाव् अप्य् अनुपनेयौ चेति शास्त्रमर्यादा स्थिता । शूद्राज् जातत्वेन जातिवैगुण्यात् पारशवानुपनेयचाण्डालस्य प्रातिलोम्येन उत्पन्नत्वात् ॥ १०.६८ ॥

सुबीजं चैव सुक्षेत्रे जातं सम्पद्यते यथा ।

तथार्याज् जात आर्यायां सर्वं संस्कारम् अर्हति ॥ १०.६९ ॥

सुबीजम् इति । यथा शोभनं बीजं शोभने क्षेत्रे जातं समृद्धं भवति एवं द्विजातेर् द्विजातिस्त्रियायाम् आनुलोम्येन जातः स्वजातिजानन्तरजैकान्तरजरूपं सर्वं श्रौतं स्मार्तं संस्कारम् अर्हति न पारशवचण्डालम् इति पूर्वोक्तदार्ढ्यार्थम् एतत् ॥ १०.६९ ॥

बीजम् एके प्रशंसन्ति क्षेत्रम् अन्ये मनीषिणः ।

बीजक्षेत्रे तथैवान्ये तत्रेयं तु व्यवस्थितिः ॥ १०.७० ॥

दर्शनान्तराण्य् अपास्यैवार्थस्योपोद्वहनार्थम् आह बीजम् इति । केचिद् बीजं स्तुवन्ति, यक्षाद्युत्पन्नानां ऋष्यशृङ्गादीनाम् ऋषित्वदर्शनाद् अपरे पुनः सूरयः क्षेत्रं स्तुवन्ति, समृद्धिदर्शनात् तद् एतस्याआं पुनर् विप्रतिपन्नत्वाद् इयं वक्ष्यमाणा व्यवस्था विज्ञेया

॥ १०.७० ॥

अक्षेत्रे बीजम् उत्सृष्टम् अन्तरैव विनश्यति ।

अबीजकम् अपि क्षेत्रं केवलं स्थण्डिलं भवेत् ॥ १०.७१ ॥

अक्षेत्र इति । ऊषरप्रदेशे बीजम् उप्तम् अदत्वैव फलं विनश्यति । शोभनम् अपि न क्षेत्रं बीजरहितं शुद्धस्थण्डिलम् एव स्यात् सस्यानुत्पादः । तस्माद् उभयं प्रधानम् इति न्याय्यम्

॥ १०.७१ ॥

यस्माद् बीजप्रभावेण तिर्यग्जा ऋषयो ऽभवन् ।

पूजिताश् च प्रशस्ताश् च तस्माद् बीजं प्रशस्यते ॥ १०.७२ ॥

बीजप्राधान्यपक्षे दृष्टान्तम् आह तस्याद् इति । यस्माद् बीजमाहत्म्येन तिर्यग्जातिमातृजा अपि ऋष्यशृङ्गादयः सम्पन्नाः पूजियाश् च पादवन्दनादिभिः पूजाभिः प्रशस्ताश् च बालाः संस्तुताः । तस्माद् बीजं कैश्चित् स्तूयत इति बीजप्राधान्यं पुनर् गमयत्वेन ज्ञापयति तद् बीजयोन्योर् मध्याद् बीजोत्कृष्टजातिः प्रशस्यत इति ॥ १०.७२ ॥

अनार्यम् आर्यकर्माणम् आर्यं चानार्यकमिणम् ।

सम्प्रधार्याब्रवीद् धाता न समौ नासमाव् इति ॥ १०.७३ ॥

अनार्यम् इति । शूद्रं द्विजातिकर्मकारिणं द्विजातिं च शूद्रकर्मकारिणं प्रजापतिर् विचार्य न समौ तौ नाप्य् असमाव् इत्य् आह । यतः शूद्रो द्विजातिकर्माणि न द्विजातिसमः, तस्य द्विजतिकर्माध्कारे सति तत उत्कर्षाभावात् निषिद्धाचरणेन च प्रत्यवायात् द्विजातिर् अपि शूद्रकर्माणि आचरन् न शूद्रसमो निषिद्धसेवने जाते ऽपि महाभाग्यान् नाप्य् असमो ऽपि निषिद्धारणेनोभयोः पातित्वात् । तस्माद् यस्य विहितं तत् तेन कर्तव्यम् इति सङ्करपर्यन्तवर्णोपदेशः ॥ १०.७३ ॥

ब्राह्मणा ब्रह्मयोनिस्था ये स्वकर्मण्य् अवस्थिताः ।

ते सम्यग् उपजीवेयुः षट्कर्माणि यथाक्रमम् ॥ १०.७४ ॥

इदानीम् आपद्धर्मविवक्षयेदम् आह ब्राह्मणा इति । ये ब्राह्मणा ब्रह्मप्राप्तिकारण आत्मज्ञानाभ्यासे व्यवस्थिताः ते षट्कर्माणि सम्यग् अनुतिष्ठेयुः । तानि च स्वकर्मानुष्ठाननिरताश् च ते षट्कर्माणि वक्ष्यमाण आत्मज्ञानाभ्यासे व्यवस्थिताः सम्यग् अनुतिष्ठेयुः ॥ १०.७४ ॥

अध्यापनम् अध्ययनं यजनं याजनं तथा ।

दानं प्रतिग्रहश् चैव षट् कर्माण्य् अग्रजन्मनः ॥ १०.७५ ॥

अध्यापनम् इति । अध्यापनादीनि षट् कर्माणि ब्राह्मणस्यानुष्ठेयानि अध्ययनाध्यापनसाङ्गस्य वेदस्य पाठशिष्यप्रवचने यजनयाजने यागार्त्विज्ये ते षट् कर्माणि ॥ १०.७५ ॥

षण्णां तु कर्मणाम् अस्य त्रीणि कर्माणि जीविका ।

याजनाध्यापने चैव विशुद्धाच् च प्रतिग्रहः ॥ १०.७६ ॥

षण्णाम् इति । एषाम् अध्यापनादीनां षण्णां कर्मणां मध्याद् याजनम् अध्यापनं प्रशस्तानां स्वकर्मसु द्विजातीनां ब्राह्मणो भुञ्जीत । प्रैगृह्णीयाच् चेति गौतमदर्शनाद् धार्मिकात् द्विजातेः प्रतिग्रह इत्य् एतानि त्रीणि कर्माणि जीवनार्थानि ॥ १०.७६ ॥

त्रयो धर्मा निवर्तन्ते ब्राह्मणात् क्षत्रियं प्रति ।

अध्यापनं याजनं च तृतीयश् च प्रतिग्रहः ॥ १०.७७ ॥

त्रय इति । ब्राह्मणान् अपेक्ष्य क्षत्रियस्याध्यापनयाजनप्रतिग्रहाख्यानि त्रीणि वृत्त्यर्थानि कर्माणि निवर्तन्ते । एवं च सत्य् अध्ययनयागदानानि भवन्ति ॥ १०.७७ ॥

वैश्यं प्रति तथैवैते निवर्तेरन्न् इति स्थितिः ।

न तौ प्रति हितान् धर्मान् मनुर् आह प्रजापतिः ॥ १०.७८ ॥

वैश्यम् इति । यथैव क्षत्रियस्याध्यापनयाजनप्रतिग्रहा निवर्तन्ते एवं वैश्यस्यापीति शास्त्रव्यवस्था । यस्मान् मनुः प्रजापतिः क्षत्रियवैश्ययोर् एतानि वृत्त्यर्थानि कर्माणि कर्तव्यत्वेन स्मृतवान् । एवं च वैश्यस्याप्य् अध्ययनयागदानानि भवन्ति ॥ १०.७८ ॥

शस्त्रास्त्रभृत्त्वं क्षत्रस्य वणिक्पशुकृषिर् विशः ।

आजीवनार्थं धर्मस् तु दानम् अध्ययनं यजिः ॥ १०.७९ ॥

शस्त्रास्त्रभृत्त्वम् इति **। वृत्त्यर्थत्वेन **रक्षणार्थं खड्गाद्यायुधप्रहरणमन्त्रधारणं क्षत्रियस्य । वाणिज्यपशुपालनकर्षणानि वैश्यस्य जीवनार्थान्य् अदृष्टार्थाः पुनर् अनयोर् दानाध्ययनयागा भवन्ति ॥ १०.७९ ॥

वेदाभ्यासो ब्राह्मणस्य क्षत्रियस्य च रक्षणम् ।

वार्ताकर्मैव वैश्यस्य विशिष्टानि स्वकर्मसु ॥ १०.८० ॥

वेदाभ्यास इति । वृत्त्यर्थाभ्यां सहोपदेशाद् अध्ययनस्य समानत्वाद् वेदाभ्यासो ऽध्यापनं ब्राह्मणस्य । लोकसंरक्षणं क्षत्रियस्य । कृषिवाणिज्यपशुपाल्यं वैश्यस्य इत्य् एतान्य् एषां वृत्त्यर्थत्वे ऽपि सत्य् अदृष्टजनकत्वात् स्वकर्ममध्ये प्रशस्तानि ॥ १०.८० ॥

अजीवंस् तु यथोक्तेन ब्राह्मणः स्वेन कर्मणा ।

जीवेत् क्षत्रियधर्मेण स ह्य् अस्य प्रत्यनन्तरः ॥ १०.८१ ॥

एवं नैसर्गिकं स्वधर्मम् एषाम् उक्त्वाधुनापद्धर्मम् आह अजीवन्न् इति । उक्तरूपेण पुनर् अध्यापनादिना स्वकर्मणा ब्राह्मणकुटुम्बस्थितिनित्यकर्मानुष्ठानपूर्वकम् अजीवन् क्षत्रियकर्मणा ग्रामरक्षणनगरादिना जीवेत्, यस्मात् सो ऽस्य सन्निकृष्टवर्णनोदितत्वात् सन्निकृष्टा वृत्तिः ॥ १०.८१ ॥

उभाभ्याम् अप्य् अजीवंस् तु कथं स्याद् इति चेद् भवेत् ।

कृषिगोरक्षम् आस्थाय जीवेद् वैश्यस्य जीविकाम् ॥ १०.८२ ॥

उभाभ्याम् इति । ब्राह्मणक्षत्रियवृत्तिभ्याम् अप्य् अजीवन् (?) ब्राह्मणः केन प्रकारेण वर्तेत इति यदि संशयः स्यात् तदा कृषिगोरक्षणे आश्रित्य वैश्यवृत्तिम् अनुतिष्ठेत् । कृषिगोरक्षग्रहणं वाणिज्या वा अपि प्रदर्शनार्थम् । तथा च विक्रेयाविक्रेयाणि वक्ष्यति । स्वयङ्कृतं चेदं ब्राह्मणस्यापदि कृष्याद्य् उच्यते अस्वयङ्कृतस्यापदि “ऋतामृताभ्यां जीवेद्” इत्यादिनाभ्यनुज्ञानात् ॥ १०.८२ ॥

वैश्यवृत्त्यापि जीवंस् तु ब्राह्मणः क्षत्रियो ऽपि वा ।

हिंसाप्रायां पराधीनां कृषिं यत्नेन वर्जयेत् ॥ १०.८३ ॥

बलाबलम् अधुना कृष्यादेः प्राह वैश्यवृत्त्येति । ब्राह्मणः क्षत्रियो वा वैश्यवृत्त्यापि जीवेत् । भूमिं भूमिशयांश् च हन्तीति वक्ष्यमाणया नीत्या हिंसाबहुलां बलीवर्दाद्यायत्तां कृषिं यत्नतः परिहरेत् । अतः गोरक्षाभाव इयं कार्येति गम्यते । क्षत्रियो ऽपि चेत्य् उपादानात् क्षत्रियस्यापि स्ववृत्त्यभावे वैश्यवृत्तिर् अस्तीति गम्यते ॥ १०.८३ ॥

कृषिं साध्व् इति मन्यन्ते सा वृत्तिः सद्विगर्हिता ।

भूमिं भूमिशयांश् चैव हन्ति काष्ठम् अयोमुखम् ॥ १०.८४ ॥

कृषिं साध्व् इतीति । कृषिर् युक्तरूपेति केचिन् मन्यन्ते । सा पुनर् जीविका साधुभिर् निन्दिता । यस्माद् हलकुद्दालाद्ययःप्रान्तं काष्ठं भूमिबिलनिवासिनश् च प्राणिनो हन्ति ॥ १०.८४ ॥

इदं तु वृत्तिवैकल्यात् त्यजतो धर्मनैपुणम् ।

विट्पुण्यम् उद्धृतोद्धारं विक्रेयं वित्तवर्धनम् ॥ १०.८५ ॥

इदम् इति । ब्राह्मणस्य क्षत्रियस्य वा स्ववृत्त्या अजीवतो धनाभावाद् धर्मं प्रति निष्णातत्वं त्यजतो वैश्येन यद् विक्रेतव्यं तद्वर्जितवक्ष्यमाणवर्जनीयं धनवृद्धिकरं विक्रेतव्यम् ॥ १०.८५ ॥

सर्वान् रसान् अपोहेत कृतान्नं च तिलैः सह ।

अश्मनो लवणं चैव पश्यतो ये च मानुषाः ॥ १०.८६ ॥

तानि वर्जनीयान्य् आहुः सर्वान् इति । सर्वान् खण्डादीन् रसांस् तथा सिद्धान्नतिलपाषाणपशुलवणमनुष्यान् न क्रीणीत । लवणस्य रसशब्देनैव ग्रहणसिद्धौ पृथग्वचनं दोषविशेषज्ञापनार्थम् । एतेनान्यस्यापि पृथगाम्नातव्याख्यातम् ॥ १०.८६ ॥

सर्वं च तान्तवं रक्तं शाणक्षौमाविकानि च ।

अपि चेत् स्युर् अरक्तानि फलमूले तथौषधीः ॥ १०.८७ ॥

सर्वम् इति । सर्वतन्तुनिर्मितं रक्तं पट्टबृहतिकादि वर्जयेत् क्षौमौर्णातन्तुमयान्य् अलोहितान्य् अपि यदि भवेयुस् तथापि वर्जयेत् । तथा फलमूलद्रव्याद्यौषधीर् वर्जयेत्

॥ १०.८७ ॥

अपः शस्त्रं विषं मांसं सोमं गन्धांश् च सर्वशः ।

क्षीरं क्षौद्रं दधि घृतं तैलं मधु गुडं कुशान् ॥ १०.८८ ॥

अप इति । उदकायुधविषमांससोमक्षीरदधिघृततैलगुडदर्भास् तथा गन्धवन्ति कर्पूरादीनि सर्वाणि क्षौद्रं च माक्षिकं मधु च मधूच्चिष्टं सिक्थकं तथा “शस्त्रासवमधूच्चिष्टेति” याज्ञवल्क्येन पठितं वर्जयेत् ॥ १०.८८ ॥

आरण्यांश् च पशून् सर्वान् दंष्ट्रिणश् च वयांसि च ।

न नीलीं च लाक्षां च सर्वांश् चैकशफांस् तथा ॥ १०.८९ ॥

आरण्यान् इति । आरण्यान् पशून् हस्त्यादीन् सर्वान् दंष्ट्रिणः सिंहादीन् एकशफान् अश्वादीन् तथा पक्षिमद्यनीलीलाक्षान् न विक्रीणीत ॥ १०.८९ ॥

कामम् उत्पाद्य कृष्यां तु स्वयम् एव कृषीवलः ।

विक्रीणीत तिलान् शुद्धान् धर्मर्थम् अचिरस्थितान् ॥ १०.९० ॥

कामम् इति । विक्रीणीत तिलान् शुद्धान् धर्मर्थम् अचिरस्थितान् । कर्षकः स्वयम् एव कर्षणेन तिलान् उत्पाद्य द्रव्यान्तरेणामिश्रान् उत्पत्तिकाल एव धर्मनिमित्तम् इच्छतो विक्रीणीतेति “कृतान्नं च तिलैः सह” इति प्रतिषिद्धानाम् अयं प्रतिप्रसवः ॥ १०.९० ॥

भोजनाभ्यञ्जनाद् दानाद् यद् अन्यत् कुरुते तिलैः ।

कृमिभूतः श्वविष्ठायां पितृभिः सह मज्जति ॥ १०.९१ ॥

भोजनाभ्यञ्जनाद् इति । भोजनाभ्यञ्जनदानव्यतिरिक्तम् अन्वयाद् अन्नविक्रयादि यदि तिलानां कुरुते तदा पितृभिः सह कृमित्वं प्राप्तः श्वपुरीषे निमज्जतीति पूर्वव्यक्तिक्रमफलकथनम् ॥ १०.९१ ॥

सद्यः पतति मांसेन लाक्षया लवणेन च ।

त्र्यहेण शूद्रो भवति ब्राह्मणः क्षीरविक्रयात् ॥ १०.९२ ॥

सद्य इति । मांसलाक्षालवणविक्रयो ब्राह्मणः तत्क्षणाद् एव पतितो भवतीति दोषगौरवख्यापनार्थम् । एतत् पञ्चानाम् एव महापातकानां पातित्यनियमाद् एतद्विक्रये वा पण्यानां च विक्रय इति उपपातकप्रायश्चित्तस्य लघुतादर्शनात् । एतेन त्र्यहक्षीरविक्रयात् शूद्रतां प्राप्नोति इत्य् एतद् अपि व्याख्यातम् । तथा वैश्यभावगमनं च वक्ष्यमाणम्

॥ १०.९१ ॥

इतरेषां तु पण्यानां विक्रयाद् इह कामतः ।

ब्राह्मणः सप्तरात्रेण वैश्यभावं नियच्छति ॥ १०.९३ ॥

इतरेषाम् इति । उक्तदोषेभ्यो मांसादिभ्यो ऽन्येषां प्रतिषिद्धानां पण्यानाम् इच्छातो न तु प्रमादाद् अन्यद्रव्यसम्पृक्तानां सप्तरात्रविक्रयेण ब्राह्मणो वैश्यत्वं प्राप्नोति ॥ १०.९३ ॥

रसा रसैर् निमातव्या न त्व् एव लवणं रसैः ।

कृतान्नं चाकृतान्नेन तिला धान्येन तत्समाः ॥ १०.९४ ॥

**रसा **इति । रसा गुडादयो रसैर् घृतादिभिः परिवर्तनीयाः । लवणं पुना रसान्तरेण न परिवर्तनीयम् । सिद्धान्नम् असिद्धान्नेन परिवर्तनीयम् । तिला धान्येन प्रस्थः प्रस्थेनेत्य् एवं विनिमातव्याः ॥ १०.९४ ॥

जीवेद् एतेन राजन्यः सर्वेणाप्य् अनयं गतः ।

न त्व् एव ज्यायसीं वृत्तिम् अभिमन्येत कर्हिचित् ॥ १०.९५ ॥

जीवेद् इति । क्षत्रिय आपदं पाप्त एतद् रसादि सर्वं द्रव्यादिविक्रयेणापि जीवेन् न तु कदाचिद् ब्राह्मणजीविकाम् आश्रयेत् ॥ १०.९५ ॥

यो लोभाद् अधमो जात्या जीवेद् उत्कृष्टकर्मभिः ।

तं राजा निर्धनं कृत्वा क्षिप्रम् एव प्रवासयेत् ॥ १०.९६ ॥

इति । यो निकृष्टजातिः संल् लोभाद् उत्कृष्टजातिनोदितम् अकर्मभिर् जीवितं राजा सर्वस्वम् अपहृत्य तदानीम् एव देशान् निर्वासयेत् ॥ १०.९६ ॥

वरं स्वधर्मो विगुणः परधर्मात् स्वधिष्ठितात् ।

परधर्मेण जीवन् हि सद्यः पतति जातितः ॥ १०.९७ ॥

वरम् इति । स्वकर्म विगुणम् अपि कर्तुं न्याय्यं न तु परकीयं सम्पूर्णम् अपि । यस्माद् अपरनोदितकर्मणा जीवंस् तत्क्षणाद् एव जातितः पततीति निन्दातिशयो वर्जनार्थम् ॥ १०.९७ ॥

वैश्यो ऽजीवन् स्वधर्मेण शूद्रवृत्त्यापि वर्तयेत् ।

अनाचरन्न् अकार्याणि निवर्तेत च शक्तिमान् ॥ १०.९८ ॥

वैश्य इति । वैश्यः स्ववृत्त्या जीवन् शूद्रवृत्त्यापि द्विजशुश्रूषया उच्छिष्टभोजनादीनि अकार्याण्य् अकुर्वन् जीवेन् निस्तीर्णापत्कालः शूद्रवृत्तितो निवर्तेत ॥ १०.९८ ॥

अशक्नुवंस् तु शुश्रूषां शूद्रः कर्तुं द्विजन्मनाम् ।

पुत्रवातात्ययं प्राप्तो जीवेत् कारुककर्मभिः ॥ १०.९९ ॥

अशक्नुवन्न् इति । शूद्रो द्विजातिशुश्रूषया अजीवन् क्षुदवसन्नात्मकलत्रः सूपकारकर्मभिर् जीवेत् ॥ १०.९९ ॥

यैः कर्मभिः प्रचरितैः शुश्रूष्यन्ते द्विजातयः ।

तानि कारुककर्माणि शिल्पानि विविधानि च ॥ १०.१०० ॥

यैर् इति । यैः कर्मभिर् अनुष्ठितैः द्विजातयः परिवर्यन्ते तानि कारुककर्माणि तक्षणादीनि शिल्पानि च लाक्षादीनि नानाप्रकाराणि कुर्यात् ॥ १०.१०० ॥

वैश्यवृत्तिम् अनातिष्ठन् ब्राह्मणः स्वे पथि स्थितः ।

अवृत्तिकर्षितः सीदन्न् इमं धर्मं समाचरेत् ॥ १०.१०१ ॥

वैश्यवृत्तिम् इति । ब्राह्मणवृत्त्यभावपीडितो ऽवसादं गच्छन् क्षत्रियवैश्यवृत्तिम् अनुतिष्ठन् स्ववृत्तौ वर्तमान इदं वक्ष्यमाणं वृत्तिकर्मानुतिष्ठेत् । अतश् च परवृत्तितो ऽसत्प्रतिग्रहो ब्राह्मणस्य श्रेयांस् तद् उक्तम् “वरं स्वधर्मो विगुणः” इति ॥ १०.१०१ ॥

सर्वतः प्रतिगृह्णीयाद् ब्राह्मणस् त्व् अनयं गतः ।

पवित्रं दुष्यतीत्य् एतद् धर्मतो नोपपद्यते ॥ १०.१०२ ॥

सर्वत इति । ब्राह्मण आपद्गतः निन्दितानिन्दितम् एभ्यः क्रमेण प्रतिग्रहं कुर्याद् यस्मात् पवित्रगङ्गादिरथोदकादि न दुष्यत्य् एतच् छास्त्रस्थित्या नोपपद्यते । तच् च ब्राह्मण आपद्य् असत्प्रतिग्रहेण न प्रत्यवैति ॥ १०.१०२ ॥

नाध्यापनाद् याजनाद् वा गर्हिताद् वा प्रतिग्रहात् ।

दोषो भवति विप्राणां जव्लनाम्बुसमा हि ते ॥ १०.१०३ ॥

नाध्यापनाड् इति । ब्राह्मणानाम् अपि गर्हिताध्यापनयाजनप्रतिग्रहैर् अधर्मो न भवति । तस्मात् पवित्रत्वेनाग्न्युदकतुल्यास् ते ॥ १०.१०३ ॥

जीवितात्ययम् आपन्नो यो ऽन्नम् अत्ति ततस् ततः ।

आकाशम् इव पङ्केन न स पापेन लिप्यते ॥ १०.१०४ ॥

जीवितात्ययम् इति । यः प्राणात्ययं प्राप्तः प्रतिलोमाद् अपि अन्नम् अश्नाति सो ऽन्तरिक्षम् इव कर्दमेन पापेन न सम्बध्यते । अत्र परवृत्त्यर्थवादः ॥ १०.१०४ ॥

अजीगर्तः सुतं हन्तुम् उपासर्पद् बुभुक्षितः ।

न चालिप्यत पापेन क्षुत्प्रतीकारम् आचरन् ॥ १०.१०५ ॥

अजीगर्त इति । अजीगर्ताख्यऋषिः बुभुक्षितः पुत्रं शुनःशेफं हन्तुं प्रचक्रमे, न च तथा क्षुत्प्रतीकारं कुर्वन् पापेन लिप्तवान् ॥ १०.१०५ ॥

श्वमांसम् इच्छन्न् आर्तो ऽत्तुं धर्माधर्मविचक्षणः ।

प्राणानां परिरक्षार्थं वामदेवो न लिप्तवान् ॥ १०.१०६ ॥

श्वमांसम् इच्छन्न् इति । वामदेवाख्यऋषिः कार्याकार्यवित् क्षुधार्तः प्राणपरित्राणार्थं श्वमांसं भक्षयितुम् इच्छन् पापेन न लिप्तवान् ॥ १०.१०६ ॥

भारद्वाजः क्षुधार्तस् तु सपुत्रो विजने वने ।

बह्वीर् गाः प्रतिजग्राह वृधोस् तक्ष्णो महातपाः ॥ १०.१०७ ॥

भारद्वाज इति ।** बह्वीर् गाः प्रतिजग्राह वृधुतक्ष्णोर् महामनाः **। भारद्वाजाख्यो मुनिर् मनस्वी सपुत्रो निर्जने वने क्षुत्पीडितो बृधुनाम्नस् तक्ष्णोः बह्वीर् गाः प्रतिगृहीतवान्

॥ १०.१०७ ॥

क्षुधार्तश् चात्तुम् अभ्यागाद् विश्वामित्रः श्वजाघनीम् ।

चण्डालहस्ताद् आदाय धर्माधर्मविचक्षणः ॥ १०.१०८ ॥

क्षुदार्त इति । विश्वामित्रः कार्याकार्यवित् क्षुत्पिडितः चण्डालहस्ताद् श्वश्रोणीं प्रतिगृह्य भक्षयितुम् अध्यवसितवान् ॥ १०.१०८ ॥

प्रतिग्रहाद् याजनाद् वा यथैवाध्यापनाद् अपि ।

प्रतिग्रहः प्रत्यवरः प्रेत्य विप्रस्य गर्हितः ॥ १०.१०९ ॥

**प्रतिग्रहाद् **इति । “आपत्करणाज् जपहोमैर् अपैत्येनः” इति वक्षयाणदर्शनात् गर्हितायाजनाध्यापनप्रतिग्रहाणां मध्यात् असत्प्रतिरहो निकृष्टो ब्राःमणस्य परलोके नरकहेतुः अत आपदि प्रथमम् असद्याजनाध्यपनयोः प्रतिवर्तितव्यम् । तदभावे ऽसत्प्रतिग्रह इत्य् एवम्परम् एतत् ॥ १०.१०९ ॥

याजनाध्यापने नित्यं क्रियते संस्कृतामनाम् ।

प्रतिग्रहस् तु क्रियते शूद्राद् अप्य् अन्त्यजन्मनः ॥ १०.११० ॥

अत्र हेतुम् आह **याजनाध्यापन **इति । याजनाध्यापने आपद्य् अनापदि च द्विजातीनाम् एव क्रियेते । प्रतिग्रहः पुनर् निकृष्टजातेः शूद्राद् अपि क्रियते, अतो ऽसौ गर्हितः ॥ १०.११० ॥

जपहोमैर् अपैत्य् एनो याजनाध्यापनैः कृतम् ।

प्रतिग्रहनिमित्तं तु त्यागेन तपसैव च ॥ १०.१११ ॥

किं च जपहोमैर् इति । अतो ग्रहणाद् असद्याजनाध्यापने यदुत्पन्नं पापं तत् प्रायश्चित्तप्रकरणवक्ष्यमाणरूपेण जपहोमैर् निवर्तते । असत्प्रतिग्रहजनितं पुनस् तद्द्रव्यत्यागेन “मासं गोष्ठे पयः पीत्वा” इत्य् एवमादिवक्ष्यमाणतपसा चोपशाम्यति

॥ १०.१११ ॥

शिलोञ्छम् अप्य् आददीत विप्रो ऽजीवन् यतस् ततः ।

प्रतिग्रहाच् छिलः श्रेयांस् ततो ऽप्य् उञ्छः प्रशस्यते ॥ १०.११२ ॥

शिलोञ्छम् इति । ब्राह्मणः स्ववृत्त्या अजीवन्न् उपपातकिभ्यो ऽपि शिलोञ्छं गृह्णीयान् न तु तत्सम्भवे असत्प्रतिग्रहेण वर्तते । यस्माद् असत्प्रतिग्रहात् शिलोञ्च्चयनं प्रशस्तम् । ततो ऽप्य् एकैकधान्यकणोच्चयनम् इति ॥ १०.११२ ॥

सीदद्भिः कुप्यम् इच्छद्भिर् धनं वा पृथिवीपतिः ।

याच्यः स्यात् स्नातकैर् विप्रैर् अदित्संस् त्यागम् अर्हति ॥ १०.११३ ॥

सीदद्भिर् इति । स्नातकैर् ब्राह्मणैर् धनाभावात् धर्मात्मकुटुम्बावसादं गच्छद्भिर् असारद्रव्यं गृहोपयोगि शयनासनाशनादि वा धनं धान्यं हिरण्यादि वेच्छद्भिः पार्थिवः क्षत्रियो ऽक्षत्रियो ऽपि वोच्छास्त्रवर्ती याचितव्यः स्यात् । अददतस् तस्य देशे न वस्तव्यम् इति । इदं न राज्ञः प्रतिगृह्णीयाद् अराजन्यप्रसूतितः । यो राज्ञः प्रतिगृह्णात् लुब्धस्योच्छास्त्रवर्तिनः । इत्य् अक्षत्रियोच्छास्त्रवर्तिनो ऽराज्ञो ऽनापदि निषिद्धयोर् आपद्य् अभ्यनुज्ञानार्थम् ॥ १०.११३ ॥

अकृतं च कृतात् क्षेत्राद् गौर् अजाविकम् एव च ।

हिरण्यं धान्यम् अन्नं च पूर्वं पूर्वम् अदोषवत् ॥ १०.११४ ॥

अकृतम् इति । कृष्टात् क्षेत्रात् प्रतिग्रहे ऽकृष्टम् अनुप्तं तथा गोछागैडकहिरण्यधान्यानां मध्यात् पूर्वं पूर्वम् अदुष्टतमं चैषां पूर्वस्यासम्भवे परः परः प्रतिग्राह्यः ॥

१०.११४ ॥

सप्त वित्तागमा धर्म्या दायो लाभः क्रयो जयः ।

प्रयोगः कर्मयोगश् च सत्प्रतिग्रह एव च ॥ १०.११५ ॥

**सप्तेति । प्रयोगः सर्वयोगश् चेति **। सप्तधनागमा दायादयो धर्माद् अनपेतास् तत्र दायो ऽन्वयागतं धनम् । लाभो निधिः प्रतीतो वा कुतश्चित् । क्रयः प्रसिद्धः । एते त्रयश् चतुर्णाम् अपि वर्णानां धर्म्याः । जयो युद्धेन क्षत्रियस्य धर्म्यः । वृद्ध्यर्थं धनप्रयोगश् च कृषिवाणिज्ये इत्य् एते वैश्यस्य धर्म्याः । सत्प्रतिग्रहो ब्राह्मणस्य धर्म्यः । इत्य् एवं च सति एषु धर्म्यवचनाद् एतद् भावे नैष्व् अनापच्चोदितेषु वृत्तिकर्मसु प्रवर्तितव्यं तदभावे भावे च वापद्य् उदितेषु प्रकृतेष्व् इत्य् एवमर्थम् इहोच्यते ॥ १०.११५ ॥

विद्या शिल्पं भृतिः सेवा गोरक्ष्यं विपणिः कृषिः ।

धृतिर् भैक्षं कुसीदं च दश जीवनहेतवः ॥ १०.११६ ॥

विद्येति । आपत्प्रकरणाज् जीवनहेतव इति च निर्देशात् तेषाम् अध्याप्येन यस्यानापदि जीवनं निषिद्धं तेन तस्यापद्य् अभ्यनुज्ञायते यथा ब्राह्मणस्य भृतकाध्यापकत्वेन । तद् अनेनाप्य् अभ्यनुज्ञायते । एवं शिक्पादिष्व् अपि विज्ञेयम् । शिल्पं गन्धयुक्त्यादिकर्मकरणं भृतिः प्रेक्षत्वं सेवा चित्रानुवर्तनं गोरक्षा पाशुपाल्यं विपणिर् वणिज्या कृषिः स्वयङ्कृताभिधृतिः सन्तोषः तस्मिन् हि सति स्वल्पकेनापि जीव्यते । भक्ष्यं स्नातकस्यापि, कुसीदं वृद्ध्या धनप्रयोगः स्वयङ्कृतो ऽपि इत्य् एभिर् दशभिर् आपदि जीवनम् ॥ १०.११६ ॥

ब्राह्मणः क्षत्रियो वापि वृद्धिं नैव प्रयोजयेत् ।

कामं तु खलु धर्मार्थं दद्यात् पापीयसे ऽल्पिकाम् ॥ १०.११७ ॥

ब्राह्मण इति । ब्राःमणः क्षत्रियो वा वृद्ध्यर्थं धनम् आपद्य् अपि न प्रयुञ्जीत धर्मं तत्र प्रसङ्गे पुनर् इच्छन् निकृष्टकर्मणो ऽल्पिकया वृद्ध्या प्रयुञ्जीत ॥ १०.११७ ॥

चतुर्थम् आददानो ऽपि क्षत्रियो भागम् आपदि ।

प्रजा रक्षन् परं शक्त्या किल्बिषात् प्रतिमुच्यते ॥ १०.११८ ॥

इदानीं राज्ञ आपद्धर्मान् आह चतुर्थम् इति । राजा आपदि धान्यादेश् चतुर्थम् अपि भागं करार्थं गृह्णन् यथानापदि धान्यानाम् अष्टमो भाग इत्याद्य् उक्तं परया शक्त्या प्रजा रक्षन्न् अधिककरग्रहणपापे न सम्बध्यते ॥ १०.११८ ॥

स्वधर्मो विजयस् तस्य नाहवे स्यात् पराङ्मुखः ।

शस्त्रेण वैश्याद् रक्षित्वा धर्म्यम् आहारयेद् बलिम् ॥ १०.११९ ॥

कस्मात् पुनर् आपद्य् अपि रक्षणम् उच्यते यस्मात् स्वधर्म इति । राज्ञः शत्रुपराजयः स्वधर्मः प्रजारक्षणप्रवृत्तस्य च यदि कुतस्चिद् भयं स्यात् तदा न युद्धपराङ्मुखः स्याद् एवं च शस्त्रेण वैश्यान् क्षत्रियो दस्युभ्यो रक्षित्वा तेभ्यो धर्माद् अनपेतम् आप्तपुरुषैर् बलिम् आहरेत् ॥ १०.११९ ॥

धान्ये ऽष्टमं विशां शुल्कं विंशं कार्षापणावरम् ।

कर्मोपकरणाः शूद्राः कारवः शिल्पिनस् तथा ॥ १०.१२० ॥

को ऽसौ धर्म इत्य् अत आह धान्ये ऽष्टमम् इति । कृषिजीविनां वैश्यानां धान्यविषये उपचयतो ऽष्टमं भागं शुल्कम् अहारयेद् धिरण्यादीनां कार्षापणान्तानां विंशतितमं चतुर्थतमम् ॥ १०.१२० ॥

शूद्रस् तु वृत्तिम् आकाङ्क्षन् क्षत्रम् आराधयेद् इति ।

धनिनं वाप्य् उपाराध्य वैश्यं शूद्रो जिजीविषेत् ॥ १०.१२१ ॥

शूद्रश् चेति । शूद्रो ब्राह्मणशुश्रूषया अजीवन् यदि वृत्त्याकाङ्क्षी स्यात् तदा क्षत्रियं परिचरेत् तदभावे धनवन्तं वैश्यं परिचर्य जीवितुम् इच्छेत् तदभावे ऽत्यन्तापद्य् उक्तानि कारुकर्माणि कुर्यात् । एवं च क्षत्रियवैश्याराधनं शूद्रस्य वृत्त्यर्थम् एव धर्मार्थं च ॥ १०.१२१ ॥

स्वर्गार्थम् उभयार्थं वा विप्रान् आराधयेत् तु सः ।

जातब्राह्मणशब्दस्य सा ह्य् अस्य कृतकृत्यता ॥ १०.१२२ ॥

स्वरार्थम् इति । वृत्तिप्राप्त्यर्थम् अथ वा स्वर्गवृत्तिलिप्सयेत्य् एवम् उभयार्थं ब्राह्मणान् एव शूद्रः परिचरेत् । यस्माद् ब्राह्मणाश्रितो ऽय्म् इत्य् एवम् उत्पन्नव्यपदेशस्यात्युपदेशता तयासौ कृतकृत्यो भवति ॥ १०.१२२ ॥

विप्रसेवैव शूद्रस्य विशिष्टं कर्म कीर्त्यते ।

यद् अतो ऽन्यद् धि कुरुते तद् भवत्य् अस्य निष्फलम् ॥ १०.१२३ ॥

यत एवम् अतः** विप्रसेवैवेति** । ब्राह्मणशुश्रूषैव शूद्रस्य विशिष्टं कर्म कर्मान्तरेभ्यः शास्त्र उच्यते । यस्माद् एतद्व्यतिरिक्तं यद् असौ कर्म कुरुते तद् अस्य निष्फलं भवतीति पूर्वार्थवादो न त्व् अन्यनिवृत्त्यर्थः पाकयज्ञादीनां विहितत्वात् ॥ १०.१२३ ॥

प्रकल्प्या तस्य तैर् वृत्तिः स्वकुटुम्बाद् यथार्हतः ।

शक्तिं चावेक्ष्य दाक्ष्यं च भृत्यानां च परिग्रहम् ॥ १०.१२४ ॥

प्रकल्प्येति । तस्य शुश्रूषोः शूद्रस्य शुश्रूषासामर्थम् उत्साहं पुत्रदारादिभर्तव्यपरिमाणताम् अपेक्ष्य तैर् ब्राह्मणैः स्वगृहाद् अनुरूपा जीविका कल्पनीया

॥ १०.१२४ ॥

उच्छिष्टम् अन्नं दातव्यं जीर्णानि वसनानि च ।

पुलाकाश् चैव धान्यानां जीर्णाश् चैव परिच्छदः ॥ १०.१२५ ॥

किं च उच्चिष्टम् इति । अस्य च प्रकृतस्याश्रितस्य शूद्रस्य पात्रस्थं भुक्त्वावशिष्टं ब्राह्मणेन देयम् । एवं च “न शूद्राय मतिं दद्यान् नोच्छिष्टम्” इत्य् अनाश्रितशूद्रविषयम् इति व्याख्यातम् । तथा जीर्णवस्त्रासारधान्यजीर्णशय्यादीन्य् अस्य देयानि ॥ १०.१२५ ॥

न शूद्रे पातकं किञ्चिन् न च संस्कारम् अर्हति ।

नास्याधिकारो धर्मे ऽस्ति न धर्मात् प्रतिषेधनम् ॥ १०.१२६ ॥

न शूद्र इति । न शूद्रे पातकं किञ्चिद् भवति लशुनाद्य्भक्षणभक्षणेनैतद् उक्तं द्विजातीनां भक्षाभक्षम् इत्य् उक्तत्वान् न ब्राह्मणादिभिः “अहिंसा सत्यम् अस्तेयम्” इत्यादिसर्वविषयत्वान् न चोदितत्वान् न चोपनयनाख्यं संस्कारम् असाव् अर्हति गर्भाष्टम इत्यादिकालत्रैवर्णिककृतस्य चोदितत्वान् न चास्याग्निहोत्रादौ श्रौते धर्मे ऽधिकारे ऽन्यविवाहत्वं न च स्मार्तधर्माच् छूद्रकर्तृकत्वाद् अस्य निवारणम् अस्ति विहितत्वात् तथा चत्वारः न चेच् छूद्रः पततीति निश्चयो न चैव संस्कारम् इहारहतीति श्रुतिप्रयुक्तं न च धर्मम् अश्नुते न चास्य धर्मात् प्रतिषेधनं स्मृताव् इति । एवं चास्याथ धर्मस्य प्रेतसिद्धत्वाद् अयं श्लोकानुवाद उत्तरार्थः ॥ १०.१२६ ॥

धर्मेप्सवस् तु धर्मज्ञाः सतां धर्मम् अनुष्ठिताः ।

मन्त्रवर्जं न दुष्यन्ति प्रशंसां प्राप्नुवन्ति च ॥ १०.१२७ ॥

तथा च दर्शयति धर्मेप्सव इति । ये पुनः शूद्राः स्वधर्मवेदिनो धर्मप्राप्तिकामास् त्रैवर्णिकानां सम्बन्धिनम् अनिषिद्धम् आचारम् आश्रितास् ते ऽमन्त्रकम् अन्नप्राशनपाकयज्ञादि कुर्वाणा न प्रत्यवयन्ति न तूपनयनं चतुर्थ एकजातिस् त्व् इत्य् उक्तत्वात् ख्यातिं च लोके प्राप्नुवन्ति ॥ १०.१२७ ॥

यथा यथा हि सद्वृत्तम् आतिष्ठत्य् अनसूयकः ।

तथा तथेमं चामुं च लोकं प्राप्नोत्य् अनिन्दितः ॥ १०.१२८ ॥

**यथेति ** । यस्माद् अनिन्दकः शूद्रो यथावद् द्विजात्याचारम् अनिषिद्धम् अनुतिष्ठति तथा तथा अगर्हितः सन्न् इह लोके कीर्तिं परलोके स्वर्गं प्राप्नोति ॥ १०.१२८ ॥

शक्तेनापि हि शूद्रेण न कार्यो धनसञ्चयः ।

शूद्रो हि धनम् आसाद्य ब्राह्मणान् एव बाधते ॥ १०.१२९ ॥

शक्तेनेति । धनार्जनशक्तेनापि हि शूद्रेण न धनसञ्चयः कर्तव्यः । अपि त्व् आश्रितब्राह्मणाय यदि नियमतो धनं देयम् इत्य् एवम्परम् एतत् । तथा च गौतमः- “यं चार्थम् आश्रियेत भर्तव्यस् तेन क्षीणो ऽपि तेन चोत्तरस् तदर्थो ऽस्य निचयः स्यात्” इति । अत्रार्थवादः शूद्रो ऽर्हति, तस्माच् छूद्रो धनं प्राप्य शास्त्रानभिज्ञत्वेन धनोत्सेका शुश्रूषा ॥ १०.१२९ ॥

एते चतुर्णां वर्णानाम् अपधर्माः प्रकीर्तिताः ।

यान् सम्यग् अनुतिष्ठतो व्रजन्ति परमां गतिम् ॥ १०.१३० ॥

एत इति । चतुर्णां वर्णानाम् आपद्य् अनुष्ठेया धर्माः त एते कथिताः । यान् सम्यग् आचरन्तो आत्मसंरक्षणे सत्यात्मज्ञानाद्यवाप्त्या ब्रह्मप्राप्तिं भजन्ते ॥ १०.१३० ॥

एष धर्मविधिः कृत्स्नश् चातुर्वर्ण्यस्य कीर्तितः ।

अतः परं प्रवक्ष्यामि प्रायश्चित्तविधिं शुभम् ॥ १०.१३१ ॥

एष इति । यच् चतुर्णां वर्णानां धर्मानुष्ठानं तद् एतद् अखिलं कथितम् । अधुना ऊर्ध्वं प्रायश्चितविधिं वक्ष्यामि ॥ १०.१३१ ॥

इति श्रीभट्टमाधवात्मजगोविन्दराजविरचितायां

मनुटीकायां मन्वाशयानुसारिण्यां प्रतिलोमानुलोमजातकनिरूपणं

नाम दशमो ऽध्यायः

अथ एकादशो ऽध्यायः

सान्तानिकं यक्ष्यमाणम् अध्वगं सार्ववेदसम् ।

गुर्वर्थं पितृमात्रर्थं स्वाध्यायार्थ्य् उपतापिनः ॥ ११.१ ॥

न वै तान् स्नातकान् विद्याद् ब्राह्मणान् धर्मभिक्षुकान् ।

निःस्वेभ्यो देयम् एतेभ्यो दानं विद्याविशेषतः ॥ ११.२ ॥

यद्य् अपि धर्मं च वर्णानां प्रायश्चित्तविधिं तथेत्य् अनुक्रमण्यपेक्षयातः परं प्रवक्ष्यामि प्रायश्चित्तविधिं शुभम् इति प्रायश्चित्तप्रकरणम् अधुना वक्तव्यं तथाप्य् उच्चावचधर्मप्रकरणं तावद् अनन्तरम् इदम् एतद् अतिक्रमेण प्रायश्चित्तं यथा स्याद् इत्य् एवम् आह सान्तानिकम् इति । न वेति । सन्तानप्रयोजनत्वात् सान्तानिको विवाहार्थो तथा नित्यं ज्योतिष्टोमादियागं कर्तुम् इच्छन् तच् च निवर्तमानश् च क्षीणपाथेयः सार्ववेदः सर्ववेदकः सर्वस्वं येन विश्वजिति दत्तं गौतमीय एव दर्शनाद् विद्यागुरुपितृमात्रर्थं वेदग्रहणकाले चाच्छादनाद्यर्थं च भिक्षव उपतापी च रोगी चेत्य् एतावन्नवधर्मशास्त्रानुवर्तित्वेन भिक्षमाणप्रवृत्तान् ब्राह्मणान् स्नातकान् जानीयाद् एतेभ्यश् च निर्धनेभ्यो विद्यानुरूपेण नियमतो दानं कर्तव्यम् । अतश् चाकरणाद् अधर्मो द्रव्यविशेषेण चैतन् नियमसम्पादनात् तद्द्रव्यफलम् इति ॥ ११.१–२ ॥

एतेभ्यो हि द्विजाग्रेभ्यो देयम् अन्नं सदक्षिणम् ।

इतरेभ्यो बहिर्वेदि कृतान्नं देयम् उच्यते ॥ ११.३ ॥

एतेभ्य इति । एतेभ्यो ब्राह्मणेभ्यो यद् देयं तद् भोजयित्वा दातव्यम् एतद्व्यतिरिक्तेभ्यः पुनः सिद्धम् अन्नं यत् तद् अन्यत्र देयत्वेनोपदिश्यते । धनदाने त्व् अनियमः ॥ ११.३ ॥

सर्वरत्नानि राजा तु यथार्हं प्रतिपादयेत् ।

ब्राह्मणान् वेदविदुषो यज्ञार्थं चैव दक्षिणाम् ॥ ११.४ ॥

सर्वरत्नानीति । राजा पुनः सर्वाणि मणिमुक्तादीनि कस्य यज्ञोपयोगीर् अपि दक्षिणा नित्यं यज्ञार्थं यथोक्तेभ्यः विद्यानुरूपेण वेदविद्भ्यो ब्राह्मणेभ्यो दद्यात् ॥ ११.४ ॥

कृतदारो ऽपरान् दारान् भिक्षित्वा यो ऽधिगच्छति ।

रतिमात्रं फलं तस्य द्रव्यदातुस् तु सन्ततिः ॥ ११.५ ॥

कृतदार इति । यः सभार्यः सन् धर्मप्रजासम्पन्ने दारे ऽन्यान् कुर्वीत अन्यतरापाये तु कुर्वीतेत्य् आपस्तम्बस्मरणद् एवंविधनिमित्तम् अन्तरेण परं विवाहं भिक्षित्वा करोति तस्य मन्मथमात्रं फलं धनदातुः पुनस् तदुत्पन्नान्य् अपत्यानि भवन्तीति निन्दातिशयः । नैवन्धो ऽन्यो विवाहः कार्यो न तु तदर्थं भिक्षणीयम् । नाप्य् एवंविधाय नियमतो दातव्यम् इत्य् एवमर्थः ॥ ११.५ ॥

यस्य त्रैवार्षिकं भक्तं पर्याप्तं भृत्यवृत्तये ।

अधिकं वापि विद्येत स सोमं पातुम् अर्हति ॥ ११.६ ॥

यस्येति । यस्यावश्यकर्तव्यभरणार्थं वर्षत्रयपूरणसमर्थं तदधिकं च भक्तादि स्यात् स काम्यसोमयागं कर्तुम् अर्हति । नित्यस्य पुनर् यथा कथञ्चिद् अवश्यकर्तव्यत्वात् नायं निषेधः ॥ ११.६ ॥

अतः स्वल्पीयसि द्रव्ये यः सोमं पिबति द्विजः ।

स पीतसोमपूर्वो ऽपि न तस्याप्नोति तत् फलम् ॥ ११.७ ॥

तथा च दर्शयति अतः स्वल्पीयसीति । त्रैवार्षिकधनाद् अल्पतरे धने सति यः सोमयागं करोति तस्य प्रथमसोमयागो ऽपि नित्यो ऽवसम्पन्नो भवति किम् उत काम्य इति । तस्माद् अतो ऽल्पधनेन काम्ययागो न कर्तव्यः ॥ ११.७ ॥

शक्तः परजने दाता स्वजने दुःखजीविनि ।

मध्वापातो विषास्वादः स धर्मप्रतिरूपकः ॥ ११.८ ॥

शक्त इति । यो धनं दत्वा दानसमर्थः सजातिषु दौर्गत्योपेतेषु सत्स्व् अन्येभ्यो ददाति तस्य तद् दानं सम्पति यशस्करत्वात् मधु इव प्रथमभक्षणयोग्यो ऽमुत्र च नरकपातादिविषविपरिणामतुल्यम् अतश् चासौ धर्मप्रतिच्छन्दको न तु धम इति तस्माद् तद् एवं न कर्तव्यम् ॥ ११.८ ॥

भृत्यानाम् उपरोधेन यत् करोत्य् और्ध्वदेहिकम् ।

तद् भवत्य् असुखोदर्कं जीवतश् च मृतस्य च ॥ ११.९ ॥

**भृत्यानाम् **इति । पुत्रदाराद्यवश्यभर्तव्योपपीडने यत् पारलौकिकं दानादि करोति तस्य जीवतो मृतस्य वासुखफलं भवति ॥ ११.९ ॥

यज्ञश् चेत् प्रतिरुद्धः स्याद् एकेनाङ्गेन यज्वनः ।

ब्राह्मणस्य विशेषेण धार्मिके सति राजनि ॥ ११.१० ॥

यो वैश्यः स्याद् बहुपशुर् हीनक्रतुर् असोमपः ।

कुटुम्बात् तस्य तद् द्रव्यम् आहरेद् यज्ञसिद्धये ॥ ११.११ ॥

यज्ञ इति । इति । क्षत्रियादेर् यजमानस्य यदि यज्ञेज्यायज्ञसम्पत्तौ सत्याम् एकेनाङ्गेन विना न निरुद्धाह् स्यात् तदा यो वैश्यो बहुपश्वादिधनः प्राक् यज्ञसिद्ध्यर्थं चौर्येणाहरेत् । एतच् च धर्मप्रधाने राजनि सति कार्यं स हि शास्त्रम् अनुतिष्ठन्तम् उपेक्षते ॥ ११.१०–११ ॥

आहरेत् त्रीणि वा द्वे वा कामं शूद्रस्य वेश्मनः ।

न हि शूद्रस्य यज्ञेषु कश्चिद् अस्ति परिग्रहः ॥ ११.१२ ॥

आहरेद् इति । यज्ञस्य द्वित्राङ्गकवैकल्ये सति तानि त्रीणि वाङ्गानि द्वे चाङ्गे निर्विकल्पः । शूद्रग्रहाच् चौर्येणाहरेद् यस्माच् छूद्रस्य यज्ञसम्बन्धो मनाग् अपि नास्ति । यज्ञार्थत्वं धनम् । तथा च यज्ञाय सृष्टानि धनानि धात्रे विस्मर्यते । भिक्षितशूद्रधनस्य प्रतिषेधो भविष्यति न यज्ञार्थं धनं शूद्राद् इति ॥ ११.१२ ॥

यो ऽनाहिताग्निः शतगुर् अयज्ञश् च सहस्रगुः ।

तयोर् अपि कुटुम्बाभ्याम् आहरेद् अविचारयन् ॥ ११.१३ ॥

इति । यो ऽनाहिताग्निर् गोशतपरिमाणधनः आहिताग्निर् अपि वा असोमयाजी गोसहस्रपरिमाणधनस् तयोर् अपि गृहाभ्यां प्रकृतमद्गद्वयं त्रयं वा क्षिप्रम् आहरेत् । वैश्याद् अपहरणस्योक्तत्वाद् ब्राह्मणाच् च वक्ष्यमाणत्वाद् इदं क्षत्रियविषयम् ॥ ११.१३ ॥

आदाननित्याच् चादातुर् अहरेद् अप्रयच्छतः ।

तथा यशो ऽस्य प्रथते धर्मश् चैव प्रवर्धते ॥ ११.१४ ॥

आदाननित्याद् इति । प्रतिग्रहादिना आदानं धनग्रहणं नित्यं यस्यासाव् आदाननित्यो ब्राह्मणस् तस्माद् इष्टापूर्तदानरहिताद् यज्ञाङ्गयाच्ञायां कृतायाम् अददन् चौर्येण हरेद् एवं कृतो ऽस्यापहर्तुः ख्यातिः प्रकाश्यते धर्मश् च वृद्धिम् एति ॥ ११.१४ ॥

तथैव सप्तमे भक्ते भक्तानि षड् अनश्नता ।

अश्वस्तनविधानेन हर्तव्यं हीनकर्मणः ॥ ११.१५ ॥

तथेति । सायम्प्रातर् भोजनोपदेशात् त्र्यहम् अनुभुक्ते चतुर्थे प्रातः सप्तमे भक्ते यागादिकर्मरहिताद् आह्निकमात्रपर्याप्तं यथैव यज्ञाप्रतिरोधस् तथैव हर्तव्यम्

॥ ११.१५ ॥

खलात् क्षेत्राद् अगाराद् वा यतो वाप्य् उपलभ्यते ।

आख्यातव्यं तु तत् तस्मै पृच्छते यदि पृच्छति ॥ ११.१६ ॥

खलाद् इति । धान्यादि क्षोदनात् क्षेत्राद् वा यतो वान्यस्माद् देशाद् धीनकर्मसम्बन्धेन लभ्यते ततो हर्तव्यं यदि वासौ धनस्वामी पृच्छति तदा तस्य पृच्छतः तच् चौर्यं सनिमित्तकम् ॥ ११.१६ ॥

ब्राह्मणस्वं न हर्तव्यं क्षत्रियेण कदाचन ।

दस्युनिष्क्रिययोस् तु स्वम् अजीवन् हर्तुम् अर्हति ॥ ११.१७ ॥

ब्राह्मणस्वम् इति । उक्तेष्व् अपि निमित्तेषु ब्राह्मणधनं क्षत्रियेण न हर्तव्यम् । अर्थाच् च वैश्यशूद्राभ्याम् अपि न हर्तव्यम् । प्रतिषिद्धकृद्विहिताननुष्टानयोः पुनर् ब्राह्मनयोर् अत्यन्तापदि क्षत्रियो हर्तुम् अर्हति ॥ ११.१७ ॥

यो ऽसाधुभ्यो ऽर्थम् आदाय साधुभ्यः सम्प्रयच्छति ।

स कृत्वा प्लवम् आत्मानं सन्तारयति ताव् उभौ ॥ ११.१८ ॥

इति । यो हीनकर्मादिभ्यः सम्प्रयच्छति स कृत्वा प्लवम् आत्मानम् उक्तेभ्यो विहितेषु निमित्तेषु उक्तरूपं यज्ञाङ्गादि धनं हृत्वा साधुभ्य ऋत्विगादिभ्यो ददाति स यस्यापहरति तं धनसंरक्षणदुःखाद् यस्यैव ददाति तं दौर्गत्यादिर् इत्य् एवं द्वाव् अपि तौ नौ रूपम् आत्मानं कृत्वा दुःखान् मोचयति ॥ ११.१८ ॥

यद् धनं यज्ञशीलानां वेदस्वं तद् विधुर् बुधाः ।

अयज्वनां तु यद् वित्तम् आसुरस्वं तद् उच्यते ॥ ११.१९ ॥

यस्मात् धनं **यद् यज्ञशीलानाम् **इति । यजनस्वभावानां सम्बन्धि यद् द्रव्यं तद् यागादिविनियोगाद् देवस्वं विद्वांसो मन्यन्ते । यागशून्यानां यत् पुनर् द्रव्यं तद् विकर्मविनियोगाद् धर्माभावाद् असुरसम्बन्धि । अतस् तद् अपहृत्य यागसम्पादनेन देवस्वं कर्तव्यम् ॥ ११.१९ ॥

न तस्मिन् धारयेद् दण्डं धार्मिकः पृथिवीपतिः ।

क्षत्रियस्य हि बालिश्याद् ब्राह्मणः सीदति क्षुधा ॥ ११.२० ॥

नेति । तस्मिन् निमित्तेषु चौर्यं कुअर्वाणे ब्राह्मणे धर्मप्रधानो राजा दण्डं न कुर्यात् । यस्माद् दानमौर्ख्यात् ब्राह्मणः क्षुदवसादं प्राप्नोति ॥ ११.२० ॥

तस्य भृत्यजनं ज्ञात्वा स्वकुटुम्बान् महीपतिः ।

श्रुतशीले च विज्ञाय वृत्तिं धर्म्यां प्रकल्पयेत् ॥ ११.२१ ॥

तथा चाह तस्येति । तस्य ब्राह्मणस्यावश्यभरणीयपुत्रादिप्रैमाणं विज्ञायानुष्ठानबुद्धौ तदनुरूपां जीविकां धर्माद् अनपेतां स्वगृहाद् राजा प्रकल्पयेत्

॥ ११.२१ ॥

कल्पयित्वास्य वृत्तिं च रक्षेद् एनं समन्ततः ।

राजा हि धर्मषड्भागं तस्मात् प्राप्नोति रक्षितात् ॥ ११.२२ ॥

कल्पयित्वेति । अस्य च ब्राह्मणस्य जीविकां विधाय शत्रुचौरादेः सततं चैनं रक्षेत् । यस्माद् ब्राह्मणरक्षिताद् राजा तदर्जितधर्मषड्भागं प्राप्नोति ॥ ११.२२ ॥

न यज्ञार्थं धनं शूद्राद् विप्रो भिक्षेत कर्हिचित् ।

यजमानो हि भिक्षित्वा चण्डालः प्रेत्य जायते ॥ ११.२३ ॥

न यज्ञार्थं धनं शूद्राद् विप्रो भिक्षेत धर्मविद् इति । धर्मज्ञो ब्राह्मणो ज्योतिष्टोमादियज्ञसम्पत्त्यर्थे शूद्राद् धनं न भिक्षेत । यस्माच् छूद्राद् धनं भिक्षित्वा यो यजते स जन्मान्तरे चाण्डालो जायते ॥ ११.२३ ॥

यज्ञार्थम् अर्थं भिक्षित्वा यो न सर्वं प्रयच्छति ।

स याति भासतां विप्रः काकतां वा शतं समाः ॥ ११.२४ ॥

यज्ञार्थम् इति । यज्ञसम्पत्त्यर्थं धनं भिक्षित्वा यः सर्वं यज्ञे ब्राह्मणेभ्यो न ददाति स शतं वर्षाणां काकत्वं भासत्वं प्राप्नोति ॥ ११.२४ ॥

देवस्वं ब्राह्मणस्वं वा लोभेनोपहिनस्ति यः ।

स पापात्मा परे लोके गृध्रोच्छिष्टेन जीवति ॥ ११.२५ ॥

देवस्वम् इति । वृद्धव्यवहारैकगोचरत्वाच् छब्दार्थसम्बन्धस्य यस्य लोके देवस्वं ब्राह्मणधनं यो लोभाद् अपहरति स पापस्वभावो जन्मान्तरे जन्मसम्बन्धिनो जन्मान्तरे गृद्ध्रसम्बन्धिनोच्छिष्टेन जीवति ॥ ११.२५ ॥

इष्टिं वैश्वानरीं नित्यं निर्वपेद् अब्दपर्यये ।

कॢप्तानां पशुसोमानां निष्कृत्यर्थम् असम्भवे ॥ ११.२६ ॥

इष्टिम् इति । संवत्सरप्रवृत्तौ वसन्ते शास्त्रनोदितानां पशुयागसोमयागानाम् असम्भवे तदकरणदोषनिवर्हणार्थं सर्वदा वैश्वानरदेवताकाम् इष्टिं गृह्याद्युक्तं वैश्वानर्यादि नानापदि यो ऽनुष्ठानस्वरूपं द्विजः कुर्यात् । श्रौतप्रायश्चित्तेन सहास्य विकल्पो ऽश्वमेधद्वादशवार्षिकयोर् ब्रह्महत्यादिप्रायश्चित्तयोः श्रौतस्मार्तयोर् अपि ॥ ११.२७ ॥

आपत्कल्पेन यो धम कुरुते ऽनापदि द्विजः ।

स नाप्नोति फलं तस्य परत्रेति विचारितम् ॥ ११.२७ ॥

आपत्कल्प इति । आपच्चोदितेन विधिना वैश्वानर्यादि नानापदि यो ऽनुष्ठानं द्विजः कुरुते तस्य परलोके तं निष्फलं भवति इति मन्वादिभिर् विचारितम् ॥ ११.२७ ॥

विश्वैश् च देवैः साध्यैश् च ब्राह्मणैश् च महर्षिभिः ।

आपत्सु मरणाद् भीतैर् विधेः प्रतिनिधिः कृतः ॥ ११.२८ ॥

विश्वैर् इति । विश्वेदेवाखैर् देवैः साध्यैश् च तथा महार्षिभिः ब्राह्मणैर् मरणाद् भीतैर् आपत्सु मुख्यविधेः सोमादेर् वैश्वानर्यादिप्रतिनिधिर् अनुष्ठितो ऽतो ऽसौ मुख्यासम्भवे कार्यो न तु तत्सम्भवे ॥ ११.२८ ॥

प्रभुः प्रथमकल्पस्य यो ऽनुकल्पेन वर्तते ।

न साम्परायिकं तस्य दुर्मतेर् विद्यते फलम् ॥ ११.२९ ॥

प्रभुर् इति । यो मुख्यानुष्ठानसमर्थः सन्न् आपच्चोदितेन प्रतिनिधेर् अनुष्ठानं करोति तस्य दुर्बुद्धेः पारलौकिकम् अभ्युदयप्रत्यवायाभावाख्यं न भवतीत्य् आपत्कल्पेन यो धर्म इत्य् अनेनोक्तम् अप्य् एतद् उपसंहारार्थं पुनर् उच्यते ॥ ११.२९ ॥

न ब्राह्मणो वेदयेत किञ्चिद् राजनि धर्मवित् ।

स्ववीर्येणैव तान् शिष्यान् मानवान् अपकारिणः ॥ ११.३० ॥

**नेति **। धर्मज्ञो ब्राह्मणो न किञ्चिद् अपि अपराधजातं राज्ञः कथयेद् अपि तु शक्त्यैव वक्ष्यमाणाभिचारकरणेनैव तान् मनुष्यान् अपराद्धान् निगृह्णीयाद् इति शरीरधर्मस् तन् न व्यासाङ्गहेतुप्रकृष्टापराधकरणे सत्य् अभिचरणीयाभिचारो न दोषायेत्य् एवं परम् एतन् न व्यभिचारो विधीयते । नापि राजनिवेदनं निषिध्यते । कस्मात् पुनर् एवम् उच्यते ॥ ११.३० ॥

स्ववीर्याद् राजवीर्याच् च स्ववीर्यं बलवत्तरम् ।

तस्मात् स्वेनैव वीर्येण निगृह्णीयाद् अरीन् द्विजः ॥ ११.३१ ॥

यस्मात् स्ववीर्याद् इति । य्स्माद् राजशक्तितः स्वशक्तितः प्रकृष्टा स्वाधीनत्वात् तस्माद् ब्राह्मणः शत्रून् निगृह्णीयात् ॥ ११.३१ ॥

श्रुतीर् अथर्वाङ्गिरसीः कुर्याद् इत्य् अविचारयन् ।

वाक्शस्त्रं वै ब्राह्मणस्य तेन हन्याद् अरीन् द्विजः ॥ ११.३२ ॥

श्रुतीर् इति । अथर्वाङ्गिरेभ्यः प्रोक्ता अभिचारश्रुतीर् निर्विकल्पम् अनुतिष्ठेद् यस्माद् अभिचारमन्त्रोच्चारणात्मिका ब्राह्मणस्य वाग् एव कार्यकरणाच् छस्त्रं तेन ब्राह्मणः शत्रून् निगृह्णीयात् ॥ ११.३२ ॥

क्षत्रियो बाहुवीर्येण तरेद् आपदम् आत्मनः ।

धनेन वैश्यशूद्रौ तु जपहोमैर् द्विजोत्तमः ॥ ११.३३ ॥

क्षत्रिय इति । क्षत्रियः पौरुषेण शत्रुपराभवलक्षणम् आपदम् अतिक्रामेत् । वैश्यशूद्रौ तु पुनः राज्ञे धनं दत्वा व्यवहारलेखनेन ब्राह्मणस् त्व् अभिचारात्मकैर् होमैर् इत्य् उक्तम्

॥ ११.३३ ॥

विधाता शासिता वक्ता मैत्रो ब्राह्मण उच्यते ।

तस्मै नाकुशलं ब्रूयान् शुष्कां गिरम् ईरयेत् ॥ ११.३४ ॥

विधातेति । स्वकर्मानुष्ठातारम् अपि रिक्तेन चौर्यादिव्यापयिताचारः सर्वभूतोपकारको ब्राह्मण उच्यते । तस्माद् राजन् निगृह्यताम् अयम् इत्य् एवम् अनिष्टं तस्य नो ब्रूयान् नाप्य् आक्रोशवाचं वाग्दण्डरूपान्तरस्योच्चारयेत् ॥ ११.३४ ॥

न वै कन्या न युवतिर् नाल्पविद्यो न बालिशः ।

होता स्याद् अग्निहोत्रस्य नार्तो नासंस्कृतस् तथा ॥ ११.३५ ॥

नेति । कन्या तरुणा अल्पाध्ययनमूर्खव्याध्यादिपीडितानुपनीताः श्रौतं सायम्प्रातर्होमं न कुर्यान् नापि कारयित्वया । इति शास्त्रपरिज्ञाना प्रतिनिधिरूपेनैषां होमं कारयेत् ततो ऽयं प्रतिषेधः कन्यादीनां च ॥ ११.३५ ॥

नरके हि पतन्त्य् एते जुह्वतः स च यस्य तत् ।

तस्माद् वैतानकुसलो होता स्याद् वेदपारगः ॥ ११.३६ ॥

नरकम् इति । एते कन्यादयो होमं कुर्वाणा नरकं गच्छन्ति । यस्य च अग्निहोत्रं प्रतिनिधिरूपेण कुर्वन्ति सो ऽपि नरकं व्रजति । तस्माच् छ्रौतकर्मप्रवीणः समस्तवेदाध्यायी होता कार्यः ॥ ११.३६ ॥

प्राजापत्यम् अदत्वाश्वम् अग्न्यादेयस्य दक्षिणाम् ।

अनाहिताग्निर् भवति ब्राह्मणो विभवे सति ॥ ११.३७ ॥

प्राजापत्यम् इति । आधाने प्रजापतिदेवताकम् अश्वम् ऋत्विग्भ्यो दक्षिणां ब्राह्मणः सम्पाद्य दत्वानाहिताग्निर् भवति तस्माच् छ्रौतदक्षिणातिरिक्तो ऽश्वः समृद्धो सत्यां ब्राह्मणेनाम्नायेन दातव्यः ॥ ११.३७ ॥

पुण्यान्य् अन्यानि कुर्वीत श्रद्दधानो जितेन्द्रियः ।

न त्व् अल्पदक्षिणैर् यज्ञैर् यजेतेह कथञ्चन ॥ ११.३८ ॥

पुण्यानीति । श्रद्धालुर् वशीकृतेन्द्रियो यज्ञव्यतिरिक्तानि पुण्यानि कुर्यान् न तु शास्त्रोक्तदक्षिणा तेभ्यो दत्वा कदाचिद् इह यज्ञं कुर्यात् परिक्रयार्थत्वाद् दक्षिणायाः स्वल्पेनापि परिक्रयसिद्धिर् इत्य् आशङ्कायां इदं वचनम् ॥

इन्द्रियाणि यशः स्वर्गम् आयुः कीर्तिं प्रजाः पशून् ।

हन्त्य् अल्पदक्षिणो यज्ञस् तस्मान् नाल्पधनो यजेत् ॥ ११.३९ ॥

इन्द्रियाणीति । चक्षुरादीनि जीवितश् च ख्यातिं स्वर्गायुषी मृतस्य च ख्यातिम् अपत्यानि पशूंश् चाल्पदक्षिणो यज्ञो नाशयति । तस्माद् अल्पदक्षिणादानेन यागं न कुर्यात् ॥ ११.३९ ॥

अग्निहोत्र्य् अपविध्याग्नीन् ब्राह्मणः कामकारतः ।

चान्द्रायणं चरेन् मासं वीरहत्यासमं हि तत् ॥ ११.४० ॥

अग्निहोत्र्य् अपविध्याग्नीन् इति । आहिताग्निर् ब्राह्मण इच्छातो ऽग्नींस् त्यक्त्वा मासं चान्द्रायणं कुर्यात् । यस्माद् यजमानहत्यातुल्यम् एतद् इति । यज्ञचर्याप्रसङ्गे दमप्रकरणे ऽपि प्रायश्चित्तम् आदरार्थं मासम् इत्य् अनुवादो ऽन्ये तु मासम् अपविध्येति सम्बन्धयन्ति

॥ ११.४० ॥

ये शूद्राद् अधिगम्यार्थम् अग्निहोत्रम् उपासते ।

ऋत्विजस् ते हि शूद्राणां ब्रह्मवादिषु गर्हिताः ॥ ११.४१ ॥

इति । ये शूद्राद् याचित्वा अयाचित्वा वार्थं स्वीकृत्य “वृषलाग्न्युपसेविनाम्” [११.४२] इति वक्ष्यमाणलिङ्गाद् आधानपूर्वकम् अग्निहोत्रं कुर्वन्ति ते परमात्मस्वरूपनिरूपणपरविषये निन्दिताः शूद्राणां याजकाः न तु तेषां ततः फलं भवति ॥ ११.४१ ॥

तेषां सततम् अज्ञानां वृषलाग्न्युपसेविनाम् ।

पदा मस्तकम् आक्रम्य दाता दुर्गाणि सन्तरेत् ॥ ११.४२ ॥

**तेषाम् **इति । तेषां शूद्रधनाहिताग्निपरिचारिणाम् मूर्खाणां मूर्ध्निपादं दत्वा स दाता शूद्रस् तेन दानेन नित्यं परलोके दुःखेभ्य उत्तरति । न तु ततस् तेषां फलम् उत्पद्यते ॥ ११.४२ ॥

अकुर्वन् विहितं कर्म निन्दितं च समाचरन् ।

प्रसज्जन्न् इन्द्रियार्थेषु प्रायश्चित्तीयते नरः ॥ ११.४३ ॥

एवम् अखिलप्रकरणम् उक्त्वाधुना प्रायश्चित्तानाम् अधिकारे निरूपणार्थम् आह **अकुर्वन्न् **इति । प्रसज्जंस् त्व् इन्द्रियार्थेषु प्रायश्चित्तीयते नरः । कर्तव्यत्वेन चोदितं सन्ध्योपासनादि कर्म अननुतिष्ठन् प्रतिषिद्धं च । हिंसादि कुर्वन् इन्द्रियोपभोगेषु चार्थेषु रूपादिषु विषयेषु प्रतिषिद्धेषु शक्तिं भावयन् नरो मनुष्यमात्रं प्रायश्चित्तम् अर्हति । नन्व् इन्द्रियार्थेषु सर्वेषु न प्रसज्जेत कामतः इति प्रतिषेधान् निन्दितग्रहणेनैव प्रसज्जंस् त्व् इन्दिर्यार्थेषु इत्य् एतद् गतार्थम् इत्य् अतः पृथक् न वक्तव्यम् । उच्यते अस्य स्नातकव्रतमध्ये पाठात् तत्र न च व्रतानीमानि धारयेद् इत्य् एवंविधमुखेनोपक्रमाद् विधिसंस्पर्शयोर् यज्ञियात्मकत्वात् प्रतिषेधसंस्पर्शः येन पृथग्विधानम् । किं चासत्य् अस्मिन् ब्राह्मणांश् च स्नातकव्रताधिकाराद् अतः प्रायश्चित्तीयता स्यान् नेतरेषाम् ॥ ११.४३ ॥

अकामतः कृते पापे प्रायश्चित्तं विदुर् बुधाः ।

कामकारकृते ऽप्य् आहुर् एके श्रुतिनिदर्शनात् ॥ ११.४४ ॥

अकामत इति । अबुद्धिपूर्वकृतपापप्रायश्चित्तार्थं प्रजापतिर् आहेत्य् श्रुत्यर्थः ॥ ११.४४ ॥

अकामतः कृतं पापं वेदाभ्यासेन शुद्ध्यति ।

कामतस् तु कृतं मोहात् प्रायश्चित्तैः पृथग्विधैः ॥ ११.४५ ॥

अकामत इति । अनिच्छातः कृतं पापं शुध्यति वेदाभ्यासेन रागद्वेषादिव्यामूढ्या पुनर् इच्छातः कृतं नानाप्रकारैः प्रायश्चित्तैर् इति पूर्वोक्तदार्ढ्यार्थम् एतद् अधिकारनिरूपणप्रकरणात् न तु विषयविभागार्थं ब्रह्महाद् विज्ञातं समाहृत्यातः प्रभृति प्रायश्चित्तानाम् उपक्रम्यमाणत्वाद् उत्तरत्र चोभयोभयत्राम्नानात् ॥ ११.४५ ॥

प्रायश्चित्तीयतां प्राप्य दैवात् पूर्वकृतेन वा ।

न संसर्गं व्रजेत् सद्भिः प्रायश्चित्ते ऽकृते द्विजः ॥ ११.४६ ॥

प्रायश्चित्तीयताम् इति । प्राग्जन्मार्जितदुष्कृतकरो नरः श्यावदन्तत्वादिश्रुतेन प्रायश्चित्तार्हतां प्राप्य पूर्वकृतेन न वैतच्छरीरकृतेन प्रमादेनावाप्य प्रायश्चित्ते कृते साधुभिः सहाध्ययनक्रियादि संसर्गं न गच्छेत् ॥ ११.४६ ॥

इह दुश्चरितैः केचित् केचित् पूर्वकृतस् तथा ।

प्राप्नुवन्ति दुरात्मानो नरा रूपविपर्ययम् ॥ ११.४७ ॥

इहेति । केचिद् दुष्टात्मानो मनुष्या इह विरुद्धाचरणैः कौनख्यादिकं रूपविषयं प्राप्नुवन्त्य् अन्ये च प्राग्जन्मार्जितैर् दुष्कृतैर् इति ॥ ११.४७ ॥

सुवर्णचौरः कौनख्यं सुरापः श्यावदन्तताम् ।

ब्रह्महा क्षयरोगित्वं दौश्चर्म्यं गुरुतल्पगः ॥ ११.४८ ॥

पिशुनः पौतिनासिक्यं सूचकः पूतिवक्त्रताम् ।

धान्यचौरो ऽङ्गहीनत्वम् आतिरैक्यं तु मिश्रकः ॥ ११.४९ ॥

अन्नहर्तामयावित्वं मौक्यं वागपहारकः ।

वस्तापहारकः श्वैत्र्यं पङ्गुताम् अश्वहारकः ॥ ११.५० ॥

एवं कर्मविशेषेण जायन्ते सद्विगर्हिताः ।

जडमूकाण्धबधिरा विकृताकृतयस् तथा ॥ ११.५१ ॥

तथा च सुवर्णचौर इति । पिशुन इति । धान्यचौरो **ऽङ्गहीनत्वम् आतिरैक्यं तु मिश्रकः **। **अन्नन्नहरेति । एवम् **इति । ब्राह्मणः सुवर्णस्तेयः कुत्सितनखत्वं प्राप्नोति । निषिद्धसुरापानसुरापः श्यावदन्तत्वम् । ब्रह्महा क्षयव्याधियुक्तत्वम् । गुरुभार्यागो विकाशेन्द्रियत्वम् । परदोषाभिधायी दुर्गन्धिनासिकत्वम् । असद्दोषारोपकारो दुर्गन्धमुखत्वम् । धान्यचौरो ऽङ्गहीनत्वम् । धान्यादेर् अपरद्रव्यमिश्रयितातिरिक्ताङ्गत्वम् अन्नचौरो ऽजरान्नत्वम् । अननुज्ञातो ऽध्यायी वाग्विकलत्वम् । वस्त्रचौरः श्वित्रत्वम् । अश्वचौरः पादविअक्ल्यं प्राप्नोतीत्य् एवं बुद्धिवाक्चक्षुःश्रोत्रविकलाकृतरूपाश् च साधुविगर्हिताः । प्राग्जन्मार्जितमापगृहोपभुक्तदुष्कृतकर्मशेषेणोत्प्द्यन्ते ॥ ११.४८–५१ ॥

चरितव्यम् अतो नित्यं प्रायश्चित्तं विशुद्धये ।

निन्द्यैर् इह लक्षणैर् युक्ता जायन्ते ऽनिष्कृतैनसः ॥ ११.५२ ॥

यत एवं **चरितव्यम् **इति । यस्माद् अनकृतपापा (?) अमुत्र विचित्रं नरकदुःखम् अनुभूयाधर्मशेषेण कुनखादिकुत्सितचिह्नयुक्ता उत्पद्यन्ते तस्मात् पापनिर्हरणार्थानि प्रायश्चित्तानि ननु नैमित्तिकमात्रपर्यवसायीति भेदेन भौमान्तराधिकारोत्पादनार्थानि च न हि कर्म क्षीयते । फलदानं विनेति दर्शनान् न कर्तव्यानि शास्त्रैकगोचरत्वात् पापोत्पत्तिर् एव निर्हरणस्यापि ॥ ११.५२ ॥

ब्रह्महत्या सुरापानं स्तेयं गुर्वङ्गनागमः ।

महान्ति पातकान्य् आहुः संसर्गश् चापि तैः सह ॥ ११.५३ ॥

ब्रह्महतेति । महान्ति पातकान्य् आहुः संयोगं चैव तैः सह । ब्राह्मणवधो निषिद्धसुरापानं ब्राह्मणसुवर्णस्तेयं गुरुभार्यागमनं एतैश् च सह संवत्सरेण पततीति वक्ष्यमाणप्रकारेण संसर्ग इत्य् एते महापातकाण्य् आहुर् इति सञ्ज्ञानिर्देशाल् लाघवार्थम् उपपातकादिष्व् अपि विज्ञेयम् ॥ ११.५३ ॥

अनृतं च समुत्कर्षे राजगामि च पैशुनम् ।

गुरोश् चालीकनिर्बन्धः समानि ब्रह्महत्यया ॥ ११.५४ ॥

अनृतम् इति । जातिसमुत्कर्षे अनृतं अब्राह्मणः सन् ब्राह्मणो ऽहम् इति । राजविषये च सूचकत्वं परमाणफलप्रायं राज्ञश् चित्तसङ्क्षोभजननं गुरोश् च मिथ्याभिशापोत्पादनं यथा गौतमः “गुरोर् अनृताभिशंसनम्” इति पातकसमानीत्य् एतानि ब्रह्महत्यासमानानि

॥ ११.५४ ॥

ब्रह्मोज्झता वेदनिन्दा कौटसाक्ष्यं सुहृद्वधः ।

गर्हितानाद्ययोर् जग्धिः सुरापानसमानि षट् ॥ ११.५५ ॥

ब्रह्मोज्झतेति । ब्रह्मोज्झता अधीतस्य वेदस्यासच्छास्त्राश्रयेणापेक्षणम् । यत् तु गुरुमातृपरित्यागः स्वाध्यायाग्न्योः सुतस्य चेत्य् उपपातकत्वं न त्व् ऐहिक एवान्यस्मिन् कर्मण्य् अभियुक्ततया वेदत्यागे सति वेदितव्यं वेदनिन्दा नास्तिक्याभिनिवेशेन वेदकुत्सनम् । कूटसाक्षित्वं यत्र व्यवहारे ऽर्थिप्रत्यर्थिनोर् वधार्हतोपैति मित्रस्य चाब्राह्मणस्यापि वधो गर्हितस्य पलाण्ड्वादेर् अनदनीयस्य चामेध्यादेर् भक्षणम् इत्य् एतानि षट् सुरापानतुल्यानि ॥ ११.५५ ॥

निक्षेपस्यापहरणं नराश्वरजतस्य च ।

भूमिवज्रमणीनाञ्च रुक्मस्तेयसमं स्मृतम् ॥ ११.५६ ॥

**निक्षेपस्येति **। निःक्षेपस्य ब्राह्मणसुवर्णाद् अन्यस्य सम्बन्धिनश् च सुवर्णस्यापहरणं तथा मनुष्याश्वरूप्यभूमिहीरकमणीनां हरणं सुवर्णस्तेयतुल्यम् ॥ ११.५६ ॥

रेतःसेकः स्वयोनीषु कुमारीष्व् अन्त्यजासु च ।

सख्युः पुत्रस्य च स्त्रीषु गुरुतल्पसमं विदुः ॥ ११.५७ ॥

रेतःसेकः स्वय्ōन्यास्व् इति । भगिनीकुमारीमित्रभार्यास्नुषासु चाण्डालादिस्त्रीषु च गमनं गुरुभार्यागमनसमानम् आहुः । एषां च भेदेन समीकरणं यद् येन समीकृतं तस्य तदीयप्रायश्चित्तार्थम् । यत् तु कौटसाक्ष्यं सुहृद्वधः ब्रह्महत्याप्रायश्चित्तातिदेशं वक्ष्यति तद् विकल्पार्थम् । यः पुनः गुरोर् अलीकनिर्बन्धस्य ब्रह्महत्यासमीकृतस्य गुरुतल्पप्रायश्चित्तनिर्देशः समीकृतानां न्यूनं प्रायश्चित्तं भवतीति ज्ञापनार्थं यथा च लोके ऽपि “राजसमः सचिवः” इत्य् उक्ते सचिवस्य न्यूनतैव प्रतीयते । अत्र चोपदिशिकेभ्य आदेशिकेभ्य आदेशिकानां न्यूनत्वम् अतिदेशविधानं तेभ्यो ऽपि समीकृतानाम् ॥ ११.५७ ॥

गोवधो ऽयाज्यसंयाज्यं पारदार्यात्मविक्रयाः ।

गुरुमातृपितृत्यागः स्वाध्यायाग्न्योः सुतस्य च ॥ ११.५८ ॥

परिवित्तितानुजे ऽनूढे परिवेदनम् एव च ।

तयोर् दानं च कन्यायास् तयोर् एव च याजनम् ॥ ११.५९ ॥

कन्याया दूषणं चैव वार्धुष्यं व्रतलोपनम् ।

तडागारामदाराणाम् अपत्यस्य च विक्रयः ॥ ११.६० ॥

व्रात्यता बान्धवत्यागो भृत्याध्यापनम् एव च ।

भृताच् चाध्ययनादानम् अपण्यानां च विक्रयः ॥ ११.६१ ॥

सर्वाकरेष्व् अधीकारो महायन्त्रप्रवर्तनम् ।

हिंसौषधीनां स्त्र्याजीवो ऽभिचारो मूलकर्म च ॥ ११.६२ ॥

इन्धनार्थम् अशुष्काणां द्रुमाणाम् अवपातनम् ।

आत्मार्थं च क्रियारम्भो निन्दितान्नादनं तथा ॥ ११.६३ ॥

अनाहिताग्निता स्तेयम् ऋणानाम् अनपक्रिया ।

असच्छास्त्राधिगमनं कौशीलव्यस्य च क्रिया ॥ ११.६४ ॥

धान्यकुप्यपशुस्तेयं मद्यपस्त्रीनिषेवणम् ।

स्त्रीशूद्रविट्क्षत्रवधो नास्तिक्यं चोपपातकम् ॥ ११.६५ ॥

गोवध इति । **परिवित्तितेति । कन्याया **इति । व्रात्यतेति । सर्वाकरेष्व् इति । इन्धनार्थम् इति । अनाहितागिनितेति । असच्छास्त्राधिगमनं कौशीलव्यसनक्रिया ॥ धान्यकुप्यपशुस्तेयं मद्यपस्त्रीनिषेवणम् इति । गोहननं जातिकर्मदुष्टानां याजनम् । परदारगमनम् आत्मविक्रयो मातृपितृगुरूणां च शुश्रूषाद्यकरणं स्वाध्यायत्यागो व्याख्याताग्नेश् च स्मार्तस्य त्यागः । श्रौतानाम् “अग्निहोत्र्य् अपविध्याग्नीन्” इत्य् उक्तत्वात् सुतस्य संस्कारभरणाद्युपकरणम् । कनीयसादौ विवाहे त्यागात् ज्येष्ठस्य यत् परिवित्तित्वं यथा दाराग्निहोत्रसंयोगम् इत्याद्य् उक्तं यत्र ज्येष्ठे ऽकृतविवाहे कनीयसो विवाहकरणं तथा विधाय कन्यादानं तयोर् एव च विवाहादि होमोपदेशनं कन्याया मैथुनवर्जं लिङ्गविदारणं रेतःसेको ऽधिकारो रेतःसेकाद्य् अयोनिषु कुमारीष्व् इत्य् उक्तम् । प्रतिषिद्धवृद्धिजीवनम् । ब्रह्मचारिणो मैथुनम् । तडागोद्यानदारापत्यविक्रयः । यथाकालम् उपनयनम् । यथोक्तम् “अत ऊर्ध्वं त्रयो ऽप्य् एते यथाकालम् असंस्कृताः” इति । बान्धवानां पितृव्यादीनाम् । अनुवृत्तिपणपूर्वकम् अध्यापनं पणपूर्वाध्यापकाध्ययनम् । अविक्रेय (विक्रयः) सुवर्णाद्युत्पत्तिस्थानेषु राजाज्ञाधिकारत्वम् अदृष्टप्रयोजनं विना महताम् उदकप्रवाहप्रतिबन्धहेतूनां सेतुबन्धनादीनां प्रवर्तनम् । ओषधीनाम् अशुष्कानां हिंसैव तच् च स प्रत्ययाभ्यासहिंसायां प्रायश्चित्तगौरवाकृष्टजानाम् ओषधीनाम् इत्यादि । पुनर् वक्ष्यमाणं सकृद् अबुद्धिपूर्वं हिंसायां प्रायश्चित्तलाघवोद्देशेन स्त्र्युपजीवनम् । श्येनादिनानभिचरणीयस्याभिचरणं मन्त्रौषधादिना वशीकरणम् । पाकादिदृष्टप्रयोजनार्थम् आर्द्रवृक्षच्छेदो न त्व् अशास्त्रिताग्न्यर्थं आत्मार्थं च क्रियारम्भ इत्याद्यं स केवलं भुङ्क्त इति प्रतिषेधात् पाकविषयक्रियामात्रविषयत्वेन प्रतिषेधकल्पनर्याङ्गैर् एवम् आपद्येत । निन्दितान्नस्य पलाण्डवादेः सकृद् अनिच्छयाशनं बुद्धिपूर्वाभ्यासे पुनर् गर्हितानद्ययोर् जग्धिर् इत्य् एतच् जातपुत्रादौ सत्य् अधिकारे नाहिताग्नित्वम् । स्तेयं ब्राह्मणसुवर्णाद् अन्यत् । ऋणानां चानपकरणं त्रिभिर् ऋणैर् इति यथोक्तं श्रुतिस्मृतिविरुद्धशिक्षणम् । नटगायनत्वादिकरणम् । धान्यसय् ताम्रलोहितादेश् च पशूनां च चौर्यं ब्राह्मणस्य पीतमद्यायाः स्त्रिय उपभोगः स्त्रीशूद्रवैश्यक्षत्रियहननम् अदृष्टार्थकर्माभावबुद्धिर् इत्य् एतत् प्रत्येकम् उपपातकं बान्धवत्याग इत्य् अनेनैव मात्रादीनां ग्रहणसिद्धे पृथग्वचनम् इत्य् आर्थम् एवं च पितृव्यादित्यागेनावश्यम् एतद् एव प्रायश्चित्तं भवत्य् अपि तु न्यूनम् आप्यते न स्तेयग्रहणेनैव धान्यादिस्तेयग्रहणसिद्धौ पृथग् अभिधानं व्याख्यातम् । इह यस्य सामान्यरूपतयोभयत्राभिधानं यथा हिंस्रौषधीनां इति तत्र प्रायश्चित्तद्वयम् अपि तु भवति विकल्पश् च सप्रत्ययाप्रत्ययाभ्यासापेक्ष्ये वर्णानां यो यस्यापि च विशेषरूपोतयोभयत्राभिधानम् । यथा खराश्वोष्ट्रमृगेभानां खरं हत्वैकहायनम् इति । तत्राप्य् अयम् एव न्यायो यत्र त्व् एकस्मिन् एकस्यैकत्र सामान्यतो ऽभिधानम् अपरत्र विशेषतो यथा याज्यसंयाज्यं व्रात्यानां याजनं कृत्वेति तद् विशेषव्यतिरिक्तविशेषान्तराणि सामान्यविशेषयोर् यस्य पुनर् भिन्नकर्तृकवाक्येष्व् एकनामाभिधानम् अपरत्र विशेषस् तत्र तत् सामान्यं तद्विशेषनिष्टम् एव व्याकरणीयम् । यथा ब्रह्महत्या सुत्रापानं स्तेयं ब्राह्मणसुवर्णादिहरणं महापातकम् इत्य् एवम् एकमूलकल्पनया लाघवं स्याद् अन्यथा सामान्यविशेषमूलद्रव्यकल्पनेन गौरवम् आपद्यते ॥ ११.५९–६५ ॥

ब्राह्मणस्य रुजःकृत्यं घ्रातिर् अघ्रेयमद्ययोः ।

जैह्म्यं च मैथुनं पुंसि जातिभ्रंशकरं स्मृतम् ॥ ११.६६ ॥

ब्राःमणस्येति । ब्राह्मणस्य पीडोत्पादनं पलाण्ड्वादेः मद्यस्य च घ्राणं कुटिलत्वं पुंसि च मुखादौ मौथुनम् इत्य् एवं प्रत्येकं जातिभ्रंशकरं स्मृतम् ॥ ११.६६ ॥

खराश्वोष्ट्रमृगेभानाम् अजाविकवधस् तथा ।

सङ्करीकरणं ज्ञेयं मीनाहिमहिषस्य च ॥ ११.६७ ॥

खराश्वोष्ट्रमृगेभानाम् इति । खरोश्वोष्ट्रमृगहस्तिच्छागैडकमत्स्यसर्पमहिषाणां प्रत्येकं वधः सङ्करीकरणं बोद्धव्यम् ॥ ११.६७ ॥

निन्दितेभ्यो धनादानं वाणिज्यं शूद्रसेवनम् ।

अपात्रीकरणं ज्ञेयम् असत्यस्य च भाषणम् ॥ ११.६८ ॥

निन्दितेभ्य इति । अप्रतिग्राह्येभ्यः प्रतिग्रहो वाणिज्यं शूद्रस्य परिचर्या अव्रताभिधानम् इत्य् एतत् प्रत्येकम् अपात्रीकरणं विज्ञेयम् ॥ ११.६८ ॥

कृमिकीटवयोहत्या मद्यानुगतभोजनम् ।

फलैधःकुसुमस्तेयम् अधैर्यं च मलावहम् ॥ ११.६९ ॥

कृमिकीटवयोहत्येति । कृमयः शूद्रजन्तवो भूमिशरणास् तेभ्य ईषद् उपचिताः सपक्षाः अपक्षाश् च कीटास् तेषां पक्षिणां च हननं मद्येन च सह यत् कुतस्चित् आवन्दसार्थतयागत्स्य भोजनं न तु मद्यसंस्पृष्टस्य अपः सुराभाजनस्था मद्यभाण्डस्थिता इत्य् असंस्पृष्टे प्पि मद्यभाण्डसंसर्गमात्रेण स्थूलप्रायश्चित्तदर्शनात् । फलकाष्ठपुष्पाणां वा चौर्यं स्वल्पे ऽप्य् अपचये ऽत्यन्तवक्तव्यम् इत्य् एतत् प्रत्येकं मलिनीकरणीयम् ॥ ११.६९ ॥

एतान्य् एनांसि सर्वाणि यथोक्तानि पृथक् पृथक् ।

यैर् यैर् व्रतैर् अपोह्यन्ते तानि सम्यङ् निबोधत ॥ ११.७० ॥

एतानीति । ब्रह्महत्यादीनि पापानि सर्वाणि यथोक्तानि यैर् यैः प्रायश्चित्तैर् निर्हीयन्ते तानि व्रतानि यथातथ्यं शृणुत ॥ ११.७० ॥

ब्रह्महा द्वादशस्माः कुटीं कृत्वा वने वसेत् ।

भैक्षाश्य् आत्मविशुद्ध्यर्थं कृत्वा शवशिरोध्वजम् ॥ ११.७१ ॥

ब्रह्महेति । यो ब्राह्मणं हतवान् स वने तृणपर्णादिमठिकां कृत्वा शवसम्बन्धि च शिरश् चिह्नं कृत्वा । सप्तागाराण्य् अपूर्वाणि नान्यसङ्कल्पितानि च । संविशेत् तानि शनकैर् विधूमे भुक्तवज्जने ॥ एककालं चरेद् भैक्ष्यं पिबेद् इति यमस्य विधिना भैक्ष्यम् उतात्मनः पापहिर्हरणार्थम् द्वादशवर्षाणि वसेत् ॥ ११.७१ ॥

लक्ष्यं शस्त्रभृतां वा स्याद् विदुषाम् इच्छयात्मनः ।

प्रास्येद् आत्मानम् अग्नौ वा समिद्धे त्रिर् अवाक्शिराः ॥ ११.७२ ॥

लक्ष्यम् इति । धनुः शराद्यायुधधारिणां युध्यमानानां प्रायश्चित्य् अयम् इत्य् एवं विजानतः स्वेच्छया लक्ष्यभूतो वा तिष्ठेद् यावन् मृतो मृतकल्पो वा स सङ्ग्रामे च हतो लक्ष्यभूतः शुद्धिम् आप्नुयात् । प्रहारार्तो जीवन्न् अपि विशुध्यतीति याज्ञवल्क्यदर्शनात् । अग्नौ वा प्रदीप्तो ऽधोमुखस् त्रीन् वारान् शरीरं प्रक्षिपेत् तथा प्रास्येद् यथा म्रियेतेत्य् आपस्तम्बस्मरणाद् एवं क्षिपेत् ॥ ११.७२ ॥

यजेत वाश्वमेधेन स्वर्जिता गोसवेन वा ।

अभिजिद्विश्वजिद्भ्यां वा त्रिवृताग्निष्टुतापि वा ॥ ११.७३ ॥

**यजेतेति । अश्वमेधाख्यं वा ऋतं कुर्याद् अत्र च सार्वभौमस्य राज्ञ आहितो ऽग्निर् अधिकारो न तु **प्रायश्चित्तार्थम् आधानं कार्यम् अभिजिद्विश्वजितौ प्रायश्चित्तद्वयं त्रिवृता त्रिवृत्स्तोमेनाग्निष्टुता त्रिवृद् इति न चोच्यन्ते स्तोमः स्तोत्रसमूहः ॥ ११.७३ ॥

जपन् वान्यतमं वेदं योजनानां शतं व्रजेत् ।

ब्रह्महत्यापनोदाय मितभुङ् नियतेन्द्रियः ॥ ११.७४ ॥

जपन्न् इति । वेदानां मध्याद् व्दाव् एकं वेदं जप्यं अल्पहारः संयतेन्द्रियः ब्रह्महत्यानिर्हरणाय योजनशतं गच्छेत् ॥ ११.७४ ॥

सर्वस्वं वेदविदुषे ब्राह्मणायोपपादयेत् ।

धनं हि जीवनायालं गृहं वासः परिच्छदम् ॥ ११.७५ ॥

सर्वस्वम् इति । सर्वस्वं वा वेदज्ञाय ब्राह्मणाय दद्याद् यस्माद् धनं जीवनाय समर्थं गृहे वा गृहोपयोगि । धनधान्यादियुक्तं यतः

गृहोपभोगिधनधान्यादियुक्तं यतः सर्वस्वं वा गृहं सपरिच्छदं दद्यात् । जीवनायालम् इति वचनाज् जीवनपर्याप्तं सर्वस्वं दद्यात् नातो ऽर्वाक् ॥ ११.७५ ॥

हविष्यभुग् वानुसरेत् प्रतिस्रोतः सरस्वतीम् ।

जपेद् वा नियताहारस् त्रिर् वै वेदस्य संहिताम् ॥ ११.७६ ॥

हविष्यभुग् इति । नीवारादिहविष्यान्नभोजी विख्यातप्रस्रवणाद् आरभ्य पश्चिमोदधेः स्रोतः स्रोतः प्रतिसरस्वतीम् आर्यः दिवा परिमितभुक् त्रीन् वारान् वेदसंहिताम् जपेद् एवम् एतानि त्रयोदशप्रायश्चित्तानि ।

जातिशक्तिगुणोपेक्षं सकृद् बुद्धिकृतं तथा ।

अनुबन्धादि विज्ञानं प्रायश्चित्तं विनिदिशेत् ।

इति देवलस्मरणात् कर्तुर् जातिशक्तिगुणानुबन्धाद्यपेक्षया हन्यमानगुणापेक्षया वा व्यवस्थितविषयाणि कल्पनीयानि न तु विकल्पानि गुरूणाम् आनर्थक्यप्रसङ्गात् । सर्वेषां सर्वत्रानधिकारा इह समानजातीय एकनिमित्तोपनिपातम् एकम् एव मन्त्रेण प्रायश्चित्तम् इच्छन्ति तद् असत्, “एनसि च लघूनि गुरूणि च” इति गौतमस्मरणात् । पूर्णे वानस्यनस् शूद्रहत्याव्रतं चरेद् इति वेददर्शनात् । विधेः प्राथमिकाद् अस्माद् द्वितीये द्विगुणं प्रोक्तं चतुर्थे नास्ति मन्त्रेण निष्कृतिः ॥ ११.७६ ॥

कृतवापनो निवसेद् ग्रामान्ते गोव्रजे ऽपि वा ।

आश्रमे वृक्षमूले वा गोब्राह्मणहिते रतः ॥ ११.७७ ॥

इदानीं समाप्ते द्वादशे वर्ष इत्य् उपसंहाराद् द्वादशवर्षसेमं गुणविधिम् आह कृतवापन इति । लूनकेशश्मश्रुरोमाङ्गो ब्राह्मण उपकारान् कुर्वन् ग्रामसमीपे गोष्ठपुण्यदेशे वृक्षमूलानाम् अन्यतमस्मिन् पूर्वोक्तवनकुटीं वैकल्पिको निवसेत् ॥ ११.७७ ॥

ब्राह्मणार्थे गवार्थे वा सम्यक् प्राणान् परित्यजेत् ।

मुच्यते ब्रह्महत्याया गोप्ता गोर् ब्राह्मणस्य च ॥ ११.७८ ॥

गवार्थ इति । प्रक्रान्ते द्वादशे वर्षे राजचौराग्न्युदकाद्याक्रान्तब्राह्मणपरित्राणार्थं गोर् वोद्धरणार्थं निर्विकल्पं प्राणान् परित्यजन् ब्रह्महत्याया मुच्यते । ब्राह्मणं वा ततः परित्राय मृतो ऽपि मुच्यते ॥ ११.७८ ॥

त्र्यवरं प्रतिरोद्धा वा सर्वस्वम् अवजित्य वा ।

विप्रस्य तन्निमित्ते वा प्राणालाभे ऽपि मुच्यते ॥ ११.७९ ॥

त्र्यवरम् इति । स्तेनादिभिर् ब्राह्मणसर्वस्वे ऽपह्रियमाणे तदुपजिगीषार्थे यद्य् अत्यन्तन्यूयस् तदा त्रीन् वारान् निरुद्धयुद्धे प्रवर्तवानेनाहृत सर्वो ऽपि मुच्यते । सर्वस्वं वा विजित्य अर्वाग् अपि त्रिः प्रवृत्ते मुच्यते । ब्राह्मणस्य वा प्राणपरित्यागात् प्रकारान्तरेणापि यदि तद्धेतुकः प्राणालाभो भवति तद् अपि मुच्यते ॥ ११.७९ ॥

एवं दृढव्रतो नित्यं ब्रह्मचारी समाहितः ।

समाप्ते द्वादशे वर्षे ब्रह्महत्यां व्यपोहति ॥ ११.८० ॥

एवम् इति । एवम् उक्तरीत्या सर्वदाविचलनियमो ऽस्त्रीसम्प्रयोगः संयतमनाः द्वादशवर्षे समाप्ते ब्रह्महत्यायाः पापम् अपनुदतीत्य् एवं च ब्राह्मणार्थे गवार्थ इत्यादि सर्वं प्रकान्तद्वादशवार्षिकस्य वेदितव्यम् ॥ ११.८० ॥

शिष्ट्वा वा भूमिदेवानां नरदेवसमागमे ।

स्वम् एनो ऽवभृथस्नातो हयमेधे विमुच्यते ॥ ११.८१ ॥

**शिष्ट्वेति **। अश्वमेधिब्राह्मणानाम् ऋत्विजां राजसमागमे सत्य् आत्मीयं ब्रह्महत्यापापं निवेद्यावभृथाख्यकर्माङ्गभूतवरे स्नातो ब्रह्महत्यापापाद् विमुच्यते । इतीदं वैकल्पिकप्रायश्चित्त्मधानाम्नानात् तस्य तत्रापि द्वादशवार्षिकशेषभूतं तदुपसंहारोत्तरकालम् अभिधानात् । किं तर्ह्य् अश्वमेधवर्जितसकलप्रायश्चित्तशेषतास्य न्याय्या । एवं चोपक्रान्तद्वादशवार्षिकादि प्रायश्चित्तस्यान्तरावभृथस्नानापनतौ तेनैव शुद्धिः ॥ ११.८१ ॥

धर्मस्य ब्राह्मणो मूलम् अग्रं राजन्य उच्यते ।

तस्मात् समागमे तेषाम् एनो विख्याप्य शुध्यति ॥ ११.८२ ॥

धर्मस्येति । यस्माद् धर्मस्य ब्राह्मणः कारणं तदुपदेशे सति तस्यानुष्ठानाद् राजा च तस्य प्रान्तं मन्वादिभिर् उच्यते । तस्मिन् सति यस्मात् तत्समाप्तेस् तस्मात् ब्राह्मणराज्ञां समागते ऽश्वमेधे पापं निवेद्यानभृथस्नातः शुध्यति ॥ ११.८२ ॥

ब्राह्मणः सम्भवेनैव देवानाम् अपि दैवतम् ।

प्रमाणं चैव लोकस्य ब्रह्मात्रैव हि कारणम् ॥ ११.८३ ॥

ब्राह्मण इति । ब्राह्मण उत्पत्त्यैव किम् उत् श्रुतादिभिर् देवानाम् अपि पूज्यः किम् उत मनुष्याणां लोकस्य च प्रत्यक्षवत् प्रमाणं यद् असाव् उपदिशति तद् अनुष्ठेयं यस्माद् ब्राह्मणस्य प्रामाण्ये वेद एव कारणं तस्य वेदार्थोपदेशत्वात् ॥ ११.८३ ॥

तेषां वेदविदो ब्रूयस् त्रयो ऽप्य् एनः सुनिष्कृतिम् ।

सा तेषां पावनाय स्यात् पवित्रं विदुषां हि वाक् ॥ ११.८४ ॥

यत एवम् अतः तेषाम् इति । सा तेषां पावनी यस्मात् पवित्रं विदुषां हि वाक् । ते ब्राह्मणाः वेदज्ञास् त्रयो ऽपि किम् उताधिकाः सा पापकारिणां संशुद्धये स्याद् यस्माद् विदुषां सम्बन्धिनी वाक् पावयित्र्य् अतश् च प्रकाशप्रायश्चित्तनिश्चयविदुषां पर्षद्गमनं प्रायश्चित्ताङ्गतयावश्यं कार्यम् । रहस्यप्रायश्चित्तं पुनर् एतन् नास्ति रहस्यत्वविनाशप्रसङ्गात् ॥ ११.८४ ॥

अतो ऽन्यतमम् आस्थाय विप्रः समाहितः ।

ब्रह्महत्याकृतं पापं व्यपोहत्य् आत्मवत्तया ॥ ११.८५ ॥

अत इति । अस्मात् प्रायश्चित्तं मरणाद् अन्यतमं प्रायश्चित्तं ब्राह्मणादिः संयतमनाः आश्रित्य प्रशस्तात्मतया ब्रह्महत्याकृतं पापम् अपनुदति ॥ ११.८५ ॥

हत्वा गर्भम् अविज्ञातम् एतद् एव व्रतं चरेत् ।

राजन्यवैश्यौ चेजानाव् आत्रेयीम् एव च स्त्रियम् ॥ ११.८६ ॥

हत्वेतिराजन्यवैश्यौ वेजानाव् आत्रेयीम् एव च त्रियम् । प्रकृतत्वाद् ब्राह्मणगर्भं स्त्रीनपुंसकत्वेनाविज्ञातं हत्वा क्षत्रियवैश्यौ वा यागप्रवृत्तौ हत्वा “आत्रेयीं रजस्वलां ऋतुमतीम् आत्रेयीम् आहुर् अत्र ह्य् एष्यद् अपत्यं भवति” इति वसिष्ठस्मरणात् [वध् २०.३५३६], “अत्रिगोत्रां वा नारीम्” इति विष्णुस्मरणात्, “सा चात्रेयीं च ब्राह्मणीम्” इति शङ्खस्मरणाद्, ब्राह्मणीं ताम् अपि चात्रेयीं हत्वा वधे उपपातकं यथोक्तं स्त्रीशूद्रविऋक्षत्रियवध इति । यद् अन्त्रश्लोके कृत्वा स्त्रीसुहृद्वध इति तत् ।

आहिताग्नेर् द्विजाग्रस्य हत्वा पत्नीम् अनिन्दिताम् ।

ब्रह्महत्याव्रतं कुर्याद् आत्रेयीघ्नस् तथैव च ॥

इत्य् अङ्गिरःस्मरणाद् आहिताग्निब्राह्मणपतिव्रताब्राह्मणीभार्याविषयम् ॥ ११.८६ ॥

उक्त्वा चैवानृतं साक्ष्ये प्रतिरभ्य गुरुं तथा ।

अपहृत्य च निःक्षेपं कृत्वा च स्त्रीसुहृद्वधम् ॥ ११.८७ ॥

**उक्त्वेति **। यत्र साक्ष्ये ऽर्थिप्रत्यर्थिनो वधार्हतोपैति तत्रासत्यम् उक्त्वा गुरोश् च मिथ्याशापम् उत्पाद्य निक्षेपं च ब्राह्मणसुवर्णम् अपि वापहृत्य स्त्रीवधं च यथा व्याख्यातं कृत्वा मित्रं च ब्राह्मणं निहत्य ब्रह्महत्याप्रायश्चित्तं कुर्यात् ॥ ११.८७ ॥

इयं विशुद्धिर् उदिता प्रमाप्याकामतो द्विजम् ।

कामतो ब्राह्मणवधे निष्कृतिर् न विधीयते ॥ ११.८८ ॥

इयम् इति । एषा निष्कृतिर् अबुद्धिपूर्वब्राह्मणवधे उक्ता । इच्छातो ब्राह्मणवधे प्रायश्चित्तेन संशुद्धिर् नोपदिश्यते । अन्ये त्व् इन्द्रो यतीन् इत्याद्युक्तं श्रुतिलिङ्गकामतो ऽपि ब्राह्मणवधे प्रायश्चित्तम् इच्छन्तीदं च ब्राह्मणवधवर्जनादरार्थं व्याचक्षते ॥ ११.८८ ॥

सुरां पीत्वा द्विजो मोहाद् अग्निवर्णां सुरां पिबेत् ।

तया स काये निर्दग्धे मुच्यते किलिबिषात् ततः ॥ ११.८९ ॥

सुराम् इति । द्विजातिगन्धातिशयव्यामूढतया चेच्छातः सुरां पैष्टीं मुख्यां पीत्वा अग्निस्पर्शां सुरां पिबेत् । तया सुरया दग्धे सति द्विजातिः तस्मात् पापाद् विमुच्यते ॥ ११.८९ ॥

गोमूत्रम् अगिन्वर्णं वा पिबेद् उदकम् एव वा ।

पयो घृतं वामरणाद् गोशकृद्रसम् एव वा ॥ ११.९० ॥

गोमूत्रम् इति । गोमूत्रोदकगोक्षीरघृतगोमयरसानां वान्यतमम् अग्निस्पर्शं मरणपर्यन्तं पिबेत् ॥ ११.९० ॥

कणान् वा भक्षयेद् अब्दं पिण्याकं वा सकृन् निशि ।

सुरापानापनुत्त्यर्थं वालवासा जटी ध्वजी ॥ ११.९१ ॥

कणान् इति । अथ वा गोलोमादिकृतवासा जटावान् सुराभाजनचिह्नस् तन्दुलमलं तिलमलं चैकवारं रात्रौ संवत्सरं सुरापानपापनिर्हरणार्थं भक्षयेद् इतीदम् अबुद्धिपूर्वमुख्यसुरापाने द्रष्टव्यं न पूर्ववैकल्पिकं लघुत्वात् ॥ ११.९१ ॥

सुरा वै मलम् अन्नानां पाप्मा च सलम् उच्यते ।

तस्माद् ब्राह्मणराजन्यौ वैश्यश् च न सुरां पिबेत् ॥ ११.९२ ॥

सुरेति । यस्मात् तण्डुलपिष्टाद् अपि सम्पाद्यत्वात् सुरान्नमलं मलशब्देन च पापम् उच्यते । ब्राह्मणक्षत्रियवैश्याः पैष्टीं सुरां न पिबेयुः इत्य् अनेनैव प्रतिषेधे सति एतदतिक्रमे सुरां पीत्वा इत्यादि प्रायश्चित्तं सुरा चान्नमलार्थवादः लोकप्रसिद्धश् च पैष्टम् एव मुख्या गौडीमाध्व्योस् तूपचारात् सुराशब्दः ॥ ११.९२ ॥

गौडी पैष्टी च मध्वी च विज्ञेया त्रिविधा सुरा ।

यथैवैका तथा सर्वा न पातव्या द्विजोत्तमैः ॥ ११.९३ ॥

**गौडीति **। गुडेन तत्कारणेनेक्षुरसेन कृता इत्य् एवं प्रकारा सुरा पैष्टी पूर्ववाक्यनिषिद्धा तद्वत् सर्वा अपि सुरा ब्राह्मणैर् न पातव्या । द्विजोत्तमग्रहणाद् उत्तरश्लोकेषु ब्राह्मणग्रहणात् गौडीमाध्व्योः सुराया सुरात्वोपचारः ॥ ११.९३ ॥

यक्षरक्षःपिशाचान्नं मद्यं मांसं सुरासवम् ।

तद् ब्राह्मणेन नात्तव्यं देवानाम् अश्नता हविः ॥ ११.९४ ॥

यक्षरक्षःपिशाचान्नम् इति । मद्यं सुराव्यतिरिक्तम् । मांसं यद् अभक्ष्यम् । सुरा त्रिविधान्यासवम् अरिष्टापवादि यक्षरक्षःपिशाचान्नम् एतत्सम्बन्धि अन्नम् अतस् तद् ब्राह्मणेन वेदोद्देशेन हविर् भक्षयता नाशयितव्यं देवानाम् अश्नता हविर् इति लिङ्गात् । पुंस एव ब्राह्मणस्य् मद्यप्रतिषेधो न स्त्रिय इत्य् अहुस् तद् असत् । सुरालशुनपलाण्डुगृञ्जनकानि अभ्क्ष्याणि स्युः ब्राह्मणी सुरापी भवति नैनां देवाः पतिलोकं नयन्तीहैव सा दुर्मतिः क्षीणपुणाप्सु जलोद्भवेति शुक्तिका वा ।

पतिलोकं न सा याति ब्राह्मणी या सुरां पिबेत् ।

इहैव सा शुनी गृध्री शूकरी चापि जायते ॥

इति शङ्खवशिष्ठयाज्ञवक्ल्यैः ब्राह्मण्या अपि निषेधस्मरणात् ॥ ११.९४ ॥

अमेध्ये वा पतेन् मत्तो वैदिकं वाप्य् उदाहरेत् ।

अकार्यम् अन्यत् कुर्याद् वा ब्राह्मणो मदमोहितः ॥ ११.९५ ॥

अमेध्य इति । ब्राह्मणः क्षीवः सन्न् अशुचौ वा निपतेद् वेदवाक्यं वोच्चारयेद् ब्रह्महत्याद्यकार्यं वा मदव्यामूढः कुर्याद् अतस् तेन मद्यं न पातव्यम् इत्य् अपरो ऽर्थवादः ॥ ११.९५ ॥

यस्य कायगतं ब्रह्म मद्येनाप्लाव्यते सकृत् ।

तस्य व्यपैति ब्राह्मण्यं शूद्रत्वं च स गच्छति ॥ ११.९६ ॥

यस्येतितस्य व्यपैति ब्राह्मण्यम् अवगच्छति शूद्रताम् । यस्य ब्राह्मणस्य शरीरे संस्काररूपेनावस्थितो वेदः सकृद् अपि मेद्येन पूर्यते तस्य ब्राह्मण्यं व्यपगच्छति शूद्रत्वं चासौ व्रजतीत्य् अपि पूर्वार्थ एव ॥ ११.९६ ॥

एषा विचित्राभिहिता सुरापानस्य निष्कृतिः ।

अत ऊर्ध्वं प्रवक्ष्यामि सुवर्णस्तेयनिष्कृतिम् ॥ ११.९७ ॥

एषेति । सुरापानजनितपापस्य नानाप्रकारा संशुद्धिर् उक्ता तस्मात् परं ब्राह्मणसुवर्णचौर्यस्य संशुद्धिं वक्ष्यामि ॥ ११.९७ ॥

सुवर्णस्तेयकृद् विप्रो राजानम् अभिगम्य तु ।

स्वकर्म ख्यापयन् ब्रूयान् मां भवान् अनुशास्त्व् इति ॥ ११.९८ ॥

सुवर्णस्तेयकृद् इति । “ब्राह्मणसुवर्णहारी तु” इति याज्ञवल्क्यस्मरणाद् ब्राह्मणसुवर्णहारी राजानं गत्वा सुवर्णापहारं कर्म प्रकाशीकुर्वन् निग्रहं कुर्व् इति ब्रूयात् ॥ ११.९८ ॥

गृहीत्वा मुसलं राजा सकृद् भन्यात् तु तं स्वयम् ।

वधेन शुध्यति स्तेनो ब्राह्मणस् तपवैव तु ॥ ११.९९ ॥

गृहीत्वेति । “स्कन्देनादाय मुशलम्” इत्याद्युक्तत्वात् तेनार्पितं मुशलाइ गृहीत्वा तं स्तेनं न जातु ब्राह्मणं हन्याद् इत्य् उक्त्वा तं ब्राह्मणवर्जितम् एकवारं राजातं हन्यात् स च स्तेनो वधेन तत्पापात् प्रमुच्यते । तपसा वक्ष्यमाणेन ब्राह्मणो विध्यतिक्रान्तनिषेधेन राज्ञा हन्यते तदा सो ऽपि शूध्यत्य् एव ॥ ११.९९ ॥

तपसापनुनुत्सुस् तु सुवर्णस्तेयजं मलम् ।

चीरवासा द्विजो ऽरण्ये चरेद् ब्रह्मणो व्रतम् ॥ ११.१०० ॥

**तपसापनुनुत्सुस् तु सुवर्णस्तेयजं मलम् । चीरवासा द्विजो ऽरण्ये चरेद् ब्रह्मणो व्रतम् **। तपसा सुवर्णस्तेयोत्पन्नं पापं द्विजो हर्तुम् इच्छन् वस्त्रखण्डछन्नो ऽरण्यग्रहणात् प्राथम्याच् च द्वादशवार्षिकं ब्रह्महणि यद् व्रतम् उक्तं तत् कुर्यात्

॥ ११.१०० ॥

एतैर् व्रतैर् अपोहेत पापं स्तेयकृतं द्विजः ।

गुरुस्त्रीगमनीयं तु व्रतैर् एभिर् अपानुदेत् ॥ ११.१०१ ॥

एतैर् इति । ब्राह्मनः सुवर्णस्तेयजनितं पापम् एभिर् व्रतैर् द्विजो निर्हरेत् । अथ तपसो ऽर्धयोर् उक्तत्वाद् एतैर् इति बहुवचनम् अनुमन्वाद्यपेक्षयानुक्तम् अपि कल्पम् इति ज्ञापनार्थम् । गुरुभार्यागमननिमित्तं पुनः पापम् एभिर् वक्ष्यमाणैः प्रायश्चित्तं निर्हरेत् । गुरुशब्दः आचार्याः पिता च ॥ ११.१०१ ॥

गुरुतल्प्य् अभिभाष्यैनस् तल्पे स्वप्याद् अयोमये ।

सूर्मीं ज्वलन्तीं वाश्लिष्येन् मृत्युना स विशुध्यति ॥ ११.१०२ ॥

गुरुतल्पीति । गुरुभार्यागमनपापम् अभिभाष्य जवलदायसे शयनं शयीत । “स्त्रीप्रकृतिं वा कार्ष्णायसीं कृताम्” इति संवर्तस्मरणाद् अयोमयीं ज्वलन्तीम् आलिङ्गेद् एवं मरणेनासौ शुध्यति ॥ ११.१०२ ॥

स्वयं वा शिश्नवृषणाव् उत्कृत्याधाय चाञ्जलौ ।

नैरृतीं दिशम् आतिष्ठेद् आ निपाताद् अजिह्मगः ॥ ११.१०३ ॥

स्वयम् इति । आत्मनैव वा लिङ्गवृषणम् उत्खायाञ्जलौ गृहीत्वा स्पष्टगतिः सन्न् आ शरीरपाताद् दक्षिणपश्चिमां दिशं गच्छेत् ॥ ११.१०३ ॥

खट्वाङ्गी चीरवासा वा श्मश्रुलो विजने वने ।

प्राजापत्यं चरेत् कृच्छ्रम् अब्दम् एकं समाहितः ॥ ११.१०४ ॥

खत्वाङ्गीति । खट्वैकदेशमृद्वस्त्रखण्डाच्छन्नो श्मश्रुलोमादितः संयतमना निर्जने वने एकं संवत्सरं प्राजापत्यं वक्ष्यमाणं कृच्छ्रं वा कुर्यात् ॥ ११.१०४ ॥

चान्द्रायणं वा त्रीन् मासान् अभ्यसेन् नियतेन्द्रियः ।

हविष्येण यवाग्वा वा गुरुतल्पापनुत्तये ॥ ११.१०५ ॥

**चान्द्रायणम् **इति । यद् वा गुरुदारागमनपापनिर्हरणार्थं संयतेन्द्रियो नीवारादिना पिष्टादिपयसा वा त्रीन् मासांश् चान्द्रायणान्य् आवर्तयेत् । अत्रापि ज्ञानाज्ञानमुख्यामुख्यगुरुसास्वसाध्विभार्यागमनाद्यप्क्षयैतानि प्रायश्चित्तानि कल्पनीयानि । अत्र गुरुदाराणां नापरदारत्वं सम्भवतीत्य् अतो न पृथक् द्वितीयपरदारप्रायश्चित्तं भवति । यत्र तु नान्तरीयकत्वात् प्रवेशो नास्ति तत्रानेकनिमित्तसमावेशाद् अनेकम् अपि प्रायश्चित्तं भवति । यस्य गुरुभार्यां सगोत्रां रजस्वलां च समागतानकल्पाम् असक्ताम् अमावास्यायां सदिवान् अपि जननम् असक्तं यावद् वात्तदस्यक्तरम् (?) उच्छिष्टो गच्छन् प्रतिनिमित्तं प्रायश्चित्ती भवति ॥ ११.१०५ ॥

एतैर् व्रतैर् अपोहेयुर् महापातकिनो मलम् ।

उपपातकिनस् त्व् एभिर् नानाविधैर् व्रतैः ॥ ११.१०६ ॥

एतैर् इति । एभिर् उक्तैर् व्रतैः ब्रह्महत्यादिमहापातककारिणः पापानि निर्हरेयुः । गोवधाद्युपपातककारिणः पुनर् वक्ष्यमाणप्रकारेणैभिर् अभिधास्यमानैर् अनेकरूपैर् निर्हरेयुः ॥ ११.१०६ ॥

उपपातकसंयुक्तो गोघ्नो मासं यवान् पिबेत् ।

कृतवापो वसेद् गोष्ठे चर्मणा तेन संवृतः ॥ ११.१०७ ॥

चतुर्थकालम् अश्नीयाद् अक्षारलवणं मितम् ।

गोमूत्रेणाचरेत् स्नानं द्वौ मासौ नियतेन्द्रियः ॥ ११.१०८ ॥

दिवानुगच्छेद् गास् तास् तु तिष्ठन्न् ऊर्ध्वं रजः पिबेत् ।

शुश्रूषित्वा नमस्कृत्य रात्रौ वीरासनो वसेत् ॥ ११.१०९ ॥

तिष्ठन्तीष्व् अनुतिष्ठेत् तु व्रजन्तीष्व् अप्य् अनुव्रजेत् ।

आसीनासु तथासीनो नियतो वीतमत्सरः ॥ ११.११० ॥

आतुराम् अभिशस्तां वा चौरव्याघ्रादिभिर् भयैः ।

पतितां पङ्कलग्नां वा सर्वप्राणैर् विमोचयेत् ॥ ११.१११ ॥

उष्णे वर्षति शीते वा मारुते वाति वा भृशम् ।

न कुर्वीतात्मनस् त्राणं गोर् अकृत्वा तु शक्तितः ॥ ११.११२ ॥

आत्मनो यदि वान्येषां गृहे क्षेत्रे ऽथ वा खले ।

भक्षयन्तीं न कथयेत् पिबन्तं चैव वत्सकम् ॥ ११.११३ ॥

अनेन विधिना यस् तु गोघ्नो गाम् अनुगच्छति ।

स गोहत्याकृतं पापं त्रिभिर् मासैर् व्यपोहति ॥ ११.११४ ॥

उपपातकसंयुक्त इति । चतुर्थकालम् इति । **दिवेति **। तिष्ठन्तीष्व् इति । आतुअराम् इति । उष्ण इति । आत्मन इति । अनेनेति

गोघाती उपपातकवान् स मासं यावत् सक्तुयवागुरूपेण यवान् पिबेत् । अन्यन् मासद्वयं गुडादिक्षारवर्जितलवणम् अन्नम् एकम् अहर् अहर् भुक्त्वा द्वितीये ऽह्नि सायं स्तोकम् अश्नीयात् । तेनैव च गोचर्मणाच्छादितो मुण्डितकेशादिगोमूत्रेण स्नानं कुर्वन् संयतेन्द्रियो मासत्रयम् अपि गोनिवासे वसेत् । यासां गवां गोष्ठे वसेत् तासां दिवा गोष्ठादूरादिगच्छन्तीनां पश्चाद् गच्छेद् तासां चानुगमनं कुर्वन् स्थितः सम्मूर्च्छनैर् ऊर्ध्वम् ऊर्ध्वम् उद्भूतं रज आस्वदयेत् ताभिर् एव सह पुनर् गोष्ठम् एत्य कण्डुयनादिना ताः परिचर्य प्रणम्य च ततो रात्राव् अनिषिद्धोपविष्ट आसीत । तथा व्याधुयेतां चौरव्याघ्रादिभिर् भयहेतुभिर् आक्रान्तां श्वभ्रादिपतितां कर्दमावसक्तां परया शक्त्या मोचयेत् । तथोष्णे आदित्ये तपति वर्षति मघे वाति वायौ शीतैर् अत्यर्थं वाति गोर् यथाशक्ति रक्षाम् कृत्वात्मनस् त्राणं कुर्यात् तथात्मनो ऽन्येषां वा गृहे क्षेत्रे खले च सस्यादि भक्षयन्तीं गां वत्सां च क्षीरं पिबन्तं न ब्रूयात् । अनेनोक्तविधानेन यो गोघ्नो गाम् अनुसरति स गोवधचरितं पापं त्रिभिर् मासैर् अपनुदेत् ॥ ११.१०७–११४ ॥

वृषभैकादशा गाश् च दद्यात् सुचरितव्रतः ।

अविद्यमाने सर्वस्वं वेदविद्भ्यो निवेदयेत् ॥ ११.११५ ॥

वृषभैकादशा इति । वृषभ एकादशो यासां गवां ताः चेच्छातो तत्प्रायश्चित्ते दद्यात् । अविद्यमान इयति धने सर्वस्वं वेदज्ञेभ्यो दद्यात् ॥ ११.११५ ॥

एतद् एव व्रतं कुर्युर् उपपातकिनो द्विजाः ।

अविकीर्णिवर्जं शुद्ध्यर्थं चान्द्रायणम् अथापि वा ॥ ११.११६ ॥

एतद् इति । अन्ये ऽप्य् उपपातकगणः पठितव्यतिक्रमकारिणो नरा वक्ष्यमाणवकीर्णिवर्जिताः पापनिर्हरणार्थं एतद् एव गोवधप्रायश्चित्तं कुर्युः ॥ ११.११६ ॥

अवकीर्णी तु काणेन गर्दभेन चतुष्पथे ।

पाकयज्ञविधानेन यजेत निरृतिं निशि ॥ ११.११७ ॥

हुत्वाग्नौ विधिवद् धोमान् अन्ततश् च समेत्य् ऋचा ।

वातेन्द्रगुरुवह्नीनां जुहुयात् सर्पिषाहुतीः ॥ ११.११८ ॥

अवकीर्णीति । हुत्वेति । अवकीर्णी वक्ष्यमाणः काणेन खरेण रात्रौ चतुष्पथे पार्वणतन्त्रेण निरृताख्यां देवतां यजेत् । यस्माच् च गर्दभाद् वपादि होमान् यथार्थं कृत्वा ततः सं मा सिञ्चन्त्व् इत्य् अनयर्चा मारुतेन्द्रबृहस्पतीत्य् अग्नीनाम् अत्र मन्त्र एषां स्रुवेणाज्येन जुहुयात् ॥ ११.११७–११८ ॥

कामतो रेतसः सेकं व्रतस्थस्य द्विजन्मनः ।

अतिक्रमं व्रतस्याहुर् धर्मज्ञा ब्रह्मवादिनः ॥ ११.११९ ॥

अप्रसिद्धत्वाद् अवकीर्णिलक्षणम् आह कामत इति । द्विजातेर् ब्रह्मचारिण इच्छातः शुक्रोत्सर्गं ब्रह्मचर्यस्य लोपकं धर्मविदो ब्रह्मस्वरूपनिरूपणपराः प्राहुः ॥ ११.११९ ॥

मारुतं पुरुहूतं च गुरुं पावकम् एव च ।

चतुरो व्रतिनो ऽभ्येति ब्राह्मं तेजो ऽवकीर्णिनः ॥ ११.१२० ॥

मारुतम् इति । ब्रह्मचारिणो यद् अध्ययनयमनियमानुष्ठानजनितं तेजस् तद् अवकीर्णिनः सतो मरुदिन्द्रबृहस्पत्यग्नीश् चतुर उपसङ्कर्मे ऽन्यतरेभ्यः आज्याहुतीर् जुहुयाद् इत्य् आज्याहुतिविधेर् अर्थवादः ॥ ११.१२० ॥

एतस्मिन्न् एनसि प्राप्ते वसित्वा गर्दभाजिनम् ।

सप्तागारांश् चरेद् भक्षं स्वकर्म परिकीर्तयन् ॥ ११.१२१ ॥

एतस्मिन्न् इति । सप्तागारं चरेद् भैक्ष्यं स्वकर्म परिकीर्तयन् । अवकीर्णाख्ये पाप उत्पन्ने पूर्वोक्तगर्दभयागादि कृत्वा तद्गर्दभसम्बन्धि चर्म प्रावृत्याकीर्ण्य् अस्मीत्य् एवं स्वकर्म ख्यापयन् सप्तगृहं भैक्ष्यं चरेत् ॥ ११.१२२ ॥

तेभ्यो लब्धेन भैक्षेण वर्तयन्न् एककालिकम् ।

उपस्पृशंस् तिषवणम् अब्देन स विशुध्यति ॥ ११.१२२ ॥

तेभ्य इति । तद्गृहलब्धेन भैक्ष्येण एककालम् आहारं कुर्वन् सायम्प्रातर्मध्यन्दिनेषु च स्नानम् आचरन् संवत्सरेण यो ऽवकीर्णी स शुध्यति ॥ ११.१२२ ॥

जातिभ्रंशकरं कर्म कृत्वान्यतमम् इच्छया ।

चरेत् सान्तपनं कृच्छ्रं प्राजापत्यम् अनिच्छया ॥ ११.१२३ ॥

जातिभ्रंशकरम् इति । ब्राह्मणस्य रुजः कृत्वेत्यादि जातिभ्रंशकराण्य् उक्तानि तेषु मध्याद् अन्यतमम् इच्छया कृत्वा वक्ष्यमाणं सान्तपनं कुर्यात् । अनिच्छातस् तु कृत्वा प्राजापत्यं वक्ष्यमाणम् ॥ ११.१२३ ॥

सङ्करापात्रकृत्यासु मासं शोधनम् ऐन्दवः ।

मलिनीकरणीयेषु तप्तः स्याद् यावकैस् त्र्यहम् ॥ ११.१२४ ॥

सङ्करापात्रकृत्यास्व् इति । खराश्वोष्ट्रेत्यादि निन्दितेभ्यो धनादानम् इत्यादिना च सङ्करीकरणापात्रीकरण्यान्य् उक्तानि तेषु मध्याद् अन्यतमम् इच्छातः कृत्वा अनिच्छया कृतं चान्द्रायणं शुद्ध्यर्थं कुर्यात् कृमिकीटवयोहत्येति मलिनीकरणीयान्य् उक्तानि तन्मध्याद् अन्यतमम् इच्छातः कृतं त्र्यहं यावकं पिबेत् । यावकं यवकृतं पेयाकृति तप्तं पिबेत्

॥ ११.१२४ ॥

तुरीयो ब्रह्महत्यायाः क्षत्रियस्य वधे स्मृतः ।

वैश्ये ऽष्टमांशो वृत्तस्थे शूद्रे ज्ञेयस् तु षोडशः ॥ ११.१२५ ॥

तुरीय इति । ब्रह्महत्यावधाद् द्वादशवार्षिकाच् च चतुर्थो भागः क्षत्रियवधे स्मृतः । वैश्ये च साध्वाचारे ऽष्टभागः । शूद्रे हते षोडशभागो बोद्धव्य इतीदं साध्वाचारक्षत्रियविट्शूद्रविषयं गुरुत्वात् स्त्रीशूद्रविट्क्षत्रवध इत्य् एतत् पुरुषपातकप्रायश्चित्तं ज्ञानाज्ञानभेदेन च चान्द्रायणवैकल्पिकम् असत्क्षत्रविट्शूद्रविषयं लघुत्वात् । एतच् च ब्रह्महत्याव्रतचतुर्थांशाद् अबुद्धिपूर्ववधे येनेदम् आह ॥ ११.१२५ ॥

अकामतस् तु राजन्यं विनिपात्य द्विजोत्तमः ।

वृषभैकसहस्रा गा दद्यात् सुचरितव्रतः ॥ ११.१२६ ॥

अकामत इति । अबुद्धिपूर्वं पुनः क्षत्रियं निहत्य वृषभ् एकः सहस्त्रे यासां गवाम् आत्मनः शुद्ध्यर्थं ब्राह्मणेभ्यो दद्यात् ॥ ११.१२७ ॥

त्र्यब्दं चरेद् वा नियतो जटी ब्रह्महणो व्रतम् ।

वसन् दूरतरे ग्रामाद् वृक्षमूलनिकेतनः ॥ ११.१२७ ॥

त्र्यब्दम् इति । ब्रह्महा द्वादशसमा इत्यादि वर्षत्रयं चरेद् इतीदम् अकामतस् त्व् इत्य् एतद् वैकल्पिकम् । गोसहस्राभावे दानेन वधनिर्णेकं सर्पादीनाम् अशक्नुवन्न् इति दर्शनाज् जटी दूरतरे ग्रामाद् वासं वृक्षमूलनिएतन इत्य् स्थिरो ग्रहणाद् अङ्गान्तरम् इत्य् अर्थं तुरीयो ब्रह्महत्याया इत्य् अत्र तु सर्वं द्वादशवार्षिकाङ्गाजतं भवति ॥ ११.१२७ ॥

एतद् एव चरेद् अब्दं प्रायश्चित्तं द्विजोत्तमः ।

प्रमाप्य वैश्यं वृत्तस्थं दद्याद् वैकशतं गवाम् ॥ ११.१२८ ॥

एतद् इति । ब्रह्महत्यायां यद् उक्तं व्रतं ब्रह्महा द्वादशसमा इत्य् एतद् एव कामाधिकाराद् अकामतः साध्वाचारं वैश्यं निहत्य ब्राह्मणादिसंवत्सरं चरेद् वित्तवान् पुनर् एकवृषभाधिकगवां शतं दद्यात् । पूर्वोत्तरश्लोकयोर् इति वृषभग्रहणात् ॥ ११.१२८ ॥

एतद् एव व्रतं कृत्स्नं षण्मासान् शूद्रहा चरेत् ।

वृषभैकादशा वापि दद्याद् विप्राय गाः सिताः ॥ ११.१२९ ॥

एतद् इति । एतद् एव व्रतं ब्रह्महा द्वादशसमा इति यद् उक्तं तद् व्रतं गवोपेतं चाकामाधिकाराद् अकामतः साध्वाचारं शूद्रं निहत्य कुर्यात् । वित्तवान् पुनः वृषभ एकादशो यासां गवां ताः शुक्ला गाः ब्राह्मणाय दद्यात् ॥ ११.१२९ ॥

मार्जारनकुलौ हत्वा चाषं मण्डूकम् एव च ।

श्वगोधोलूकाकांश् च शूद्रहत्याव्रतं चरेत् ॥ ११.१३० ॥

मार्जारनकुलाव् इति । बिडालनकुलचाषं मण्डूकश् च गोधोलूककाकानाम् एकैकं हत्वा शूद्रवधव्रतं स्त्रीशूद्रविट्क्षत्रवध इति उपपातकप्रायश्चित्तं गोवधव्रतं चान्द्रायणं चरेत् । शूद्रे ज्ञेयस् तु षोडश इत्याद्यतिदेशेन स्यात् न्याय्यत्वात् । यद्य् एवं किम् इति गोवधादि गणपाठ एवैतेन पठितः नैवं तत्र पाठे पयः पिबेत् त्रिरात्रं चेत्य् अत्र पुनर् एषां ग्रहणं कर्तव्यं स्यात् । यत् समुचितवधे एतत् प्रायश्चित्तम् उत्तरे पयः पानादिना लघुना सह विकल्पः स्यात् न्याय्यत्वाद् इत्य् आहुस् तद् असत्समुच्चयवाचिशब्दाश्रवणात् ज्ञानादिकृतभेदेन च व्यवस्थितविकल्पसम्भवाद् अतिगुरुणा लघीयसो ज्ञानादिभेदेन व्यवस्थितविकल्पो वान्याय्य इति । प्रास्येद् आत्मानम् अग्नौ वा गृहं वासपरिच्छदं ब्राह्मणाय दद्याद् इत्येवमादिषु न चास्य समुचितविषयत्वम् उत्तरस्य च प्रत्येकगोचरत्वे पयः पिबेत् त्रिरात्रं वेत्य् एवं वा शब्दः सङ्गच्छते । तस्मात् तत्स्थौल्यात् । प्रायश्चित्तस्यैच्छातो निवेश्यैनघ्नतः सन्तपसि समर्थस्यात्यन्ततपसि अत्यन्तम् अशक्तस्येति धार्मिकस्येदं प्रायश्चित्तम् । उत्तरं पुनः कथञ्चित् । प्रमादसञ्जातव्यतिक्रमस्यात्यन्तधार्मिकस्य तपसि अत्यन्तशक्तश् चेति न किञ्चिद् वैषम्यम्

॥ ११.१३० ॥

पयः पिबेत् त्रिरात्रं वा योजनं वाध्वनो व्रजेत् ।

उपस्पृशेत् स्रवन्त्यां वा सूक्तं वाब्दैवतं जपेत् ॥ ११.१३१ ॥

पय इति । एषां मार्जारादीनाम् अबुद्धिपूर्वे वधे त्रिरात्रं क्षीरं पिबेत् । तत्रान्तरत्वादिनासमर्थः प्रकृतं त्रिरात्रं योजनम् अध्वनो गच्छेत् तत्राप्य् अशक्तस् त्रिरात्रं नद्यां स्नायात् तत्राप्य् अपर्याप्तः त्रिरात्रम् आपोहिष्ठेत्य् एतत् सूक्तं जपेत् ॥ ११.१३१ ॥

अभ्रिं कार्ष्णायसीं दद्यात् सर्पं हत्वा द्विजोत्तमः ।

पलालभारकं षण्ढे सैसकं चैकमाषकम् ॥ ११.१३२ ॥

अभ्रिम् इति । पलालभारकं षण्ढे सीसकं चैव माषकम् ॥ ११.१३२ ॥

घृतकुम्भं वराहे तु तिलद्रोणं तु तित्तिरौ ।

शुके द्विहायनं वत्सं क्रौञ्चं हत्वा त्रिहायनम् ॥ ११.१३३ ॥

घृतकुम्भम् इति । शूकरे हते घृतपूर्णं घटं दद्यात् तित्तिराख्ये पक्षिणि हते तिलानां पलशतद्वयं दद्याच् छुके हते द्विवर्षं वत्सम् । क्रौञ्चाख्यं पक्षिणं हत्वा त्रिवर्षं वत्सं दद्यात् ॥ ११.१३३ ॥

हत्वा हंसं बलाकां च बकं बर्हिणम् एव च ।

वानरं श्येनभासौ च स्पर्शयेद् ब्राह्मणाय् अगाम् ॥ ११.१३४ ॥

हत्वेति । हंसबलाकबकमयूरवानरपाजिकभासाख्यपक्षिणाम् अन्यतमं हत्वा ब्राह्मणाय गां दद्यात् । स्पर्शनं दानम् । अत्रापि गोर् महत्वात् समस्तवध एतत् प्रायश्चित्तम् इत्य् आहुः, तद् असत् क्रौञ्चहनने त्रिहायनवत्सदर्शनात् ॥ ११.१३४ ॥

वासो दद्याद् धयं हत्वा पञ्च नीलान् वृषान् गजम् ।

अजमेषाव् अनड्वाहं खरं हत्वैकहायनम् ॥ ११.१३५ ॥

वास इति । अश्वं हत्वा वस्त्रं दद्यात् । हस्तिनं हत्वा पञ्च नीलान् वृषान् दद्यात् । छागाविकं हत्वा वृषभं दद्यात् । खरं हत्वैकवर्षं वत्सं दद्यात् ॥ ११.१३५ ॥

क्रव्यादांस् तु मृगान् हत्वा धेनुं दद्यात् पयस्विनीम् ।

अक्रव्यादान् वत्सतरीम् उष्ट्रं हत्वा तु कृष्णलम् ॥ ११.१३६ ॥

क्रव्यादान् इति । आममांसभक्ष्यान् मृगान् व्याघ्रादीन् हत्वा प्रत्यग्रप्रसूतां प्रचुरक्षीरां गां दद्यात् । अमांसभक्षान् मृगान् सारङ्गादीन् हत्वोत्तीर्णवत्सभावां गां दद्यात् । उष्ट्रं हत्वा सुवर्णरक्तिकां दद्यात् ॥ ११.१३६ ॥

जीनकार्मुकबस्तावीन् पृथग् दद्याद् विशुद्धये ।

चतुर्णाम् अपि वर्णानां नारीर् हत्वानवस्थिताः ॥ ११.१३७ ॥

जीनकार्मुकबस्तावीन् इति । ब्राह्मणादिचातुर्वर्ण्यजातीयाः स्त्रियो नैकोत्कृष्टापकृष्टपुरुषगमनेन पतन्तीभूताः कथञ्चिद् अनिच्छातो हत्वा चर्मपूटधनुच्छागमेषान् यथाक्रमं शुद्ध्यर्थं दद्यात् ॥ ११.१३७ ॥

दानेन वधनिर्णेकं सर्पादीनाम् अशक्नुवन् ।

एकैकशश् चरेत् कृच्छ्रं द्विजः पापापनुत्तये ॥ ११.१३८ ॥

दानेनेति । पुटाद्यब्बावाद् दानेन सर्पादिवधपापनिर्हरणं कर्तुम् असमर्थो ब्राह्मणादिप्रत्येकवधे कृच्छ्राणां मध्ये प्रथमं प्राजापत्यं कृच्छ्रं पापनिर्हरणार्थं सर्पादयश् च अभ्रिकार्ष्णायसीं दद्याद् इत्य् अतः प्रभृति निर्दिष्टा गृह्यन्ते

॥ ११.१३८ ॥

अस्थिमतां तु सत्त्वानां सहस्रस्य प्रमापणे ।

पूर्णे चानस्य् अनस्थ्नां तु शूद्रहत्याव्रतं चरेत् ॥ ११.१३९ ॥

अस्थ्यन्वितानाम् इति । अनस्थिसाहचर्याद् अस्थिमतां प्राणिनां क्षुद्रजन्तूनां कृकलासादीनां सहस्रस्य वधे शूद्रवधव्रतम् औपदेशिकं कुर्यात् । अस्थिरहितानां प्राणीनां क्षुद्रजन्तूनां मत्कुणादीनां च शकटपूरणपरिमाणानां वधाद् एतद् एव व्रतं कुर्यात्

॥ ११.१३९ ॥

किञ्चिद् एव तु विप्राय दद्याद् अस्थिमतां वधे ।

अनस्थ्नां चैव हिंसायां प्राणायामेन शुध्यति ॥ ११.१४० ॥

किञ्चिद् इति । अस्थिमतां क्षुद्रजन्तूनां कृकलासादीनां प्रत्येकं वधे किञ्चिद् एवास्थिमतां वधे पणो देय इति सुमन्तुस्मरणात् पणं ब्राह्मणस्य दद्यात् । अनस्थ्नां तु प्रत्येकं वधे प्राणायामेन ।

स्व्याहृतिं सप्रणवां गायत्रीं शिरसा सह ।

त्रिः पठेद् आयतप्राणः प्राणायामः स उच्यते ॥

इति वसिष्ठोक्तलक्षणेन शुध्यति ॥ ११.१४० ॥

फलदानां तु वृक्षाणां छेदने जप्यम् ऋक्शतम् ।

गुल्मवल्लीलतानां च पुष्पितानां च वीरुधाम् ॥ ११.१४१ ॥

फलदानम् इति । फलदानां वृक्षाणाम् आम्रादीनां वीरुधां बहुपर्णानां सञ्जातपुष्पाणां छेदने पापप्रमोचने लिङ्गानाम् ऋचाम् शतं जपनीयम् ॥ ११.१४१ ॥

अन्नाद्यजानां सत्त्वानां रसजानां च सर्वशः ।

फलपुष्पोद्भवानां च घृतप्राशो विशोधनम् ॥ ११.१४२ ॥

अन्नाद्यजानाम् इति । सक्त्वादिजातानां प्राणिनां गुडाद्युत्पन्नानां च सर्वेषाम् उदुम्बरमधुकादिफलपुष्पोद्भवानां च वधे घृतप्राशनं शोधनं प्रायश्चित्तानां शरीरसन्तापनार्थत्वात् । घृतप्राशक्षीरपानादि चोदनायमन्नान्तरनिवृत्तिः । शरीरशुद्ध्यर्थे पुनर् घृतप्राशनेन तु गम्येच्छाया प्रेतम् इत्यादौ न भोजनान्तरं निवर्तेत ॥ ११.१४२ ॥

कृष्टजानाम् ओषधीनां जातानां च स्वयं वने ।

वृथालम्भे ऽनुगच्छेद् गां दिनम् एकं पयोव्रतः ॥ ११.१४३ ॥

कृष्टजानाम् इति । कर्षणपूर्वं जातानाम् औषधीनां षष्टिकादीनां वने च स्वयम् उत्पन्नानां नीवारादीनां निष्प्रयोजने छेदे क्षीराहारः सन्न् एकम् अहो गोर् अनुगमनं कुर्यात् ॥ ११.१४३ ॥

एतैर् व्रतैर् अपोह्यं स्याद् एनो हिंसासमुद्भवम् ।

ज्ञानाज्ञानकृतं कृत्स्नं शृणुतानाद्यभक्षणे ॥ ११.१४४ ॥

एतैर् इति । एभिः प्रायश्चित्तैर् हिंसाजनितं पापम् अपनोद्यं स्याद् इदानीं च भक्षणे बुद्धिपूर्वाबुद्धिपूर्वभक्षणजनितम् अशेषपापं यथापोह्यते तथा शृणुत ॥ ११.१४४ ॥

अज्ञानाद् वारुणीं पीत्वा संस्कारेणैव शुध्यति ।

मतिपूर्वम् अनिदेश्यं प्राणान्तिकम् इति स्थितिः ॥ ११.१४५ ॥

अज्ञानाद् इति । महापातककरणतारतम्यात् ततो नेदं मुख्यसुराविषयम् अपि तु गौडीमाध्वीविषयं तेनाबुद्धिपूर्वां गौडीं माध्वीं वा पीत्वा वपनं मेखलादण्ड इत्य् उपनयनाङ्गनिषेधाद् उपनयनेनामत्यापाने पयोघृतम् उदकं वायुः प्रत्यहं तप्तानि स कृच्छ्रस् ततो ऽस्य संस्कार इति गौतमस्मरणात् तप्तकृच्छ्रसहितेन शुध्यति । बुद्धिपूर्वम् अपि च गौडीमाध्व्योः सकृत् पाने प्राणान्तिकं न निर्दिष्टव्यम् इति शास्त्रमर्यादा । सुरां पीत्वेत्य् एतस्य सर्वप्रकारसुराविषयत्वाशङ्कायाम् इति पूर्वम् अनिर्देश्यम् इत्य् एतद् उक्तम् ॥ ११.१४५ ॥

अपः सुराभाजनस्था मद्यभाण्डस्थितास् तथा ।

पञ्चरात्रं पिबेत् पीत्वा शङ्खपुष्पीशृतं पयः ॥ ११.१४६ ॥

अप इति । सुराभाण्डे मद्यभाण्डे स्थिता अपः सुरामद्यरसगन्धवर्जिता शङ्खपुष्पौषधिप्रक्षेपणपक्वं क्षीरं हविषोर् एव शृतशब्दस्य सुत्वा (?) क्षीरं नोदकं पञ्चरात्रं पिबेत् । सुरामद्ययोः साक्षात् पाने प्रायश्चित्तभेददर्शनाद् इहापि ज्ञानाज्ञानभेदेन विषयसमीकरणं परिहरणीयम् ॥ ११.१४६ ॥

स्पृष्ट्वा दत्वा च मदिरां विधिवत् प्रतिगृह्य च ।

शूद्रोच्छिष्टाश् च पीत्वापः कुशवारि पिबेत् त्र्यहम् ॥ ११.१४७ ॥

स्पृष्ट्वेति । सुरां स्पृष्ट्वा दत्वा च स्वस्तिवाचनादिपूर्वकं च प्रतिगृह्य शूद्रोच्छिष्टाः सर्वाश् चापः पीत्वा प्रतिगृह्येत्य् उपादानाद् ब्राह्मणो दर्भक्वथितम् उदकं त्र्यहं पिबेत् ॥ ११.१४७ ॥

ब्राह्मणस् तु सुरापस्य गन्धम् आघ्राय सोमपः ।

प्राणान् अप्सु त्रिर् आयम्य घृतं प्राश्य विशुध्यति ॥ ११.१४८ ॥

ब्राह्मण इति । ब्राह्मणः पुनः कृतसोमयागः सुरापस्य सम्बन्धिनं मुखनिःश्वासं सुगन्धं घ्रात्वा उदकमध्ये प्राणायामत्रयं कृत्वा घृतप्राशनं च कृत्वा विशुध्यति

॥ ११.१४८ ॥

अज्ञानात् प्राश्य विण्मूत्रं सुरासंस्पृष्टम् एव च ।

पुनः संस्कारम् अर्हन्ति त्रयो वर्णा द्विजातयः ॥ ११.१४९ ॥

अज्ञानाद् इति । विड्वराहादीनां वक्ष्यमाणत्वात् अबुद्धिपूर्वं मनुष्यसम्बन्धिमूत्रं पुरीषं वा जग्ध्वा सुरासंस्पृष्टं वातिरसास्वादे भुक्त्वा द्विजातयस् त्रयो वर्णाः पुनरुपनयनं मूत्रपुरीषकुणपरेतसां प्राशने चैवम् इति गौतमस्मरणात् तप्तकृच्छ्रसंहितम् अर्हन्ति । भक्षणे ऽपि च ब्राह्मणम् अत्याचरेत् कृच्छ्ररेतोविण्मूत्रम् एव च इत्य् उक्तं तद् अप्य् एव गौतमीयसंस्काररहितं द्रष्टव्यं वचनाच् चात्र ज्ञानाज्ञानभक्षणे त्व् अतुल्यम् एव प्रायश्चित्तम् ॥ ११.१४९ ॥

वपनं मेखला दण्डो भैक्ष्यचर्या व्रतानि च ।

निवर्तन्ते द्विजातीनां पुनःसंस्कारकर्मणि ॥ ११.१५० ॥

वपनम् इति । शिरोमुण्डनमेखलादण्डभैक्ष्यचरणानि व्रतानि चाग्निकार्यं मधुमांसवर्जनादीनि प्रायश्चित्तार्थम् उपनयने द्विजातीनां न भवन्ति ॥ ११.१५० ॥

अभोज्यानां तु भुक्त्वान्नं स्त्रीशूद्रोच्छिष्टम् एव च ।

जग्ध्वा मांसम् अभक्ष्यं च सप्तरात्रं यवान् पिबेत् ॥ ११.१५१ ॥

अभोज्यानाम् इति । अभोज्यानाम् अश्रोत्रियहुते यज्ञ इत्याद्युक्तानाम् अन्नं भुक्त्वा शूद्रायाः शूद्रग्रहणेनैवोपसङ्ग्रहनाद् द्विजातिस्त्रीणाम् अप्य् उच्छिष्टं च भुक्त्वा मांसं चाभक्ष्यं यत्र क्रव्यादशूकरोष्ट्राणाम् इत्यादि यद् वैकल्पिकं प्रायश्चित्तं नोक्तं तद् भुत्वा सप्तरात्रं सक्तुयवागूरूपेण यवान् पिबेत् ॥ ११.१५१ ॥

शुक्तानि च कषायांश् च पीत्वा मेध्यान्य् अपि द्विजः ।

तावद् भवत्य् अप्रयतो यावत् तन् न व्रजत्य् अधः ॥ ११.१५२ ॥

शुक्तानीति । यानि प्राप्तस्वरसानि कामपरिवासनद्रव्यान्तरेण संसर्गकालपरिवासाभ्यां चाम्ली भवन्ति तानि शुक्तानि कषायाहरीतक्यादयस् तान्य् अप्रतिषिद्धान्य् अपि द्विजातिः पीत्वा तावद् अशुचिर् भवति यावत् तद्भुक्तादि जीर्णं न भवति ॥ ११.१५२ ॥

विड्वराहखरोष्ट्राणां गोमायोः कपिकाकयोः ।

प्राश्य मूत्रपुरीषाणि द्विजश् चान्द्रायणं चरेत् ॥ ११.१५३ ॥

**विड्वराहखरोष्ट्राणाम् **इति । ग्रामशूकरखरोष्ट्रसृगालवानरकाकानां मूत्रपुरीषाणि द्विजातिर् भुक्त्वा चान्द्रायणं कुर्यात् ॥ ११.१५३ ॥

शुष्काणि भुक्त्वा मांसानि भौमानि कवकानि च ।

अज्ञातं चैव सूनास्थम् एतद् एव व्रतं चरेत् ॥ ११.१५४ ॥

शुष्काणीति । वाय्वादित्यादिसंशोषितानि मांसानि वल्लूरादीनि भुक्त्वा भूम्युद्भवानि च कवकानि जग्ध्वा आघातस्थानं च मांसम् अबुद्धिपूर्वं भुक्त्वा चान्द्रायणं कुर्यात् ॥ ११.१५४ ॥

क्रव्यादसूकरोष्ट्राणां कुक्कुटानां च भक्षणे ।

नरकाकखराणां च तप्तकृच्छ्रं विशोधनम् ॥ ११.१५५ ॥

क्रव्यादसूकरोष्ट्राणाम् इति । आममांसभक्षिणां गृध्रादीनां ग्रामसूकरोष्ट्रग्राम्यकुक्कुटमनुष्यकाकखराणां मांसभक्षणे तप्तकृच्छ्रं वक्ष्यमाणं विशोधनम् ॥ ११.१५५ ॥

मासिकान्नं तु यो ऽश्नीयाद् असमावर्तको द्विजः ।

स त्रीण्य् अहान्य् उपवसेद् एकाहं चोदके वसेत् ॥ ११.१५६ ॥

मासिकार्थम् इति । कामम् अभ्यर्थितो ऽश्नीयाद् इत्य् अमावास्याश्राद्धभोजनाभ्यनुज्ञानोन्मासिकार्थम् एकोद्दिष्टं सपिण्डीकरणाद् अर्वाग् यो ब्राह्मणो ब्रह्मचारी भुञ्जीत । स त्रिरात्रम् उपवसेत् त्र्यहाद् अनन्तरस्मिंश् चाग्न्युदकमध्ये वसेत् ॥ ११.१५६ ॥

व्रतचारी तु यो ऽश्नीयान् मधु मांसं कथञ्चन ।

स कृत्वा प्राकृतं कृच्छ्रं व्रतशेषं समापयेत् ॥ ११.१५७ ॥

**व्रतचारीति **। यो ब्रह्मचारी माक्षिकमांसं वानिच्छात आपदि वाश्नीयात् स प्राजापत्यं कृच्छ्रं कृत्वा ततो ब्रह्मचर्य् अक्रान्तस्य व्रतस्य यद् अशिष्टं तत् समापयेत् ॥ ११.१५७ ॥

बिडालकाकाखूच्छिष्टं जग्ध्वा श्वनकुलस्य च ।

केशकीटावपन्नं च पिबेद् ब्रह्मसुवर्चलाम् ॥ ११.१५८ ॥

**बिडालकाकाखूच्छिष्टम् **इति । बिडालकाकमूषकश्वनकुलानाम् उच्छिष्टं केशकीटसंसर्गदुष्टं चाकृतम् उत्प्रक्षेपशुद्धिम् अन्नं भुक्त्वा ब्रह्मसुवर्चलां प्रक्वाथ्य तद्रसम् अवशेषाद् एकाहं पिबेत् ॥ ११.१५८ ॥

अभोज्यम् अन्नं नात्तव्यम् आत्मनः शुद्धिम् इच्छता ।

अज्ञानभुक्तं तूत्तर्यं शोध्यं वाप्य् आशु शोधनैः ॥ ११.१५९ ॥

अभोज्यम् इति । आत्मनः शुद्धिकामेन प्रतिषिद्धम् अन्नं हठान् न भक्षणीयं प्रमादभुक्ते पुनर् वमितव्यं तदसम्भवे प्रायश्चित्तैः क्षिप्रं शोधनीयम् । यत् तु वमनप्रक्षेपे ऽपि लघुप्रायश्चित्तं भवति ॥ ११.१५९ ॥

एषो ऽनाद्यादनस्योक्तो व्रतानां विविधो विधिः ।

स्तेयदोषापहर्तॄणां व्रतानां श्रूयतां विधिः ॥ ११.१६० ॥

एष इति । अभक्ष्यभक्षणे यानि प्रायश्चित्तानि तेषाम् एतन् नानाप्रकारं विधानम् उक्तम् । अधुना चौर्यपापापहारिणां प्रायश्चित्तानां विधानं श्रूयताम् ॥ ११.१६० ॥

धान्यान्नधनचौर्याणि कृत्वा कामाद् द्विजोत्तमः ।

स्वजातीयगृहाद् एव कृच्छ्राब्देन विशुध्यति ॥ ११.१६१ ॥

धान्यान्नधनचौर्याणीति । ब्राह्मणो ब्राह्मणगृहाद् धान्यरूपाणि भक्ताद्यन्नरूपादि धनचौर्याणि इच्छातः कृत्वा न त्व् आत्मीयभ्रान्त्या नीत्वा संवत्सरं प्राजापत्यकृच्छ्राचरणेन शुध्यति । इति कालदेशपरिणामद्रव्यस्थानगुणदौर्गत्यापेक्षया इदं प्रायश्चित्तमहत्वात् कल्पनीयम् एवम् उत्तरत्रापि गृहादौ बोद्धव्यम् ॥ ११.१६१ ॥

मनुष्याणां तु हरणे स्त्रीणां क्षेत्रगृहस्य च ।

कूपवापीजलानां च शुद्धिश् चान्द्रयणं स्मृतम् ॥ ११.१६२ ॥

मनुष्याणाम् इति ।

द्रव्याणाम् अल्पसाराणां स्तेयं कृत्वान्यवेश्मनि ।

चरेत् सान्तपनं कृच्छ्रं तन् निर्यात्य् आत्मशुद्धये ॥ ११.१६३ ॥

द्रव्याणाम् इति । द्रव्याणाम् अल्पार्घाणाम् अल्पप्रयोजनानाम् अनुक्तप्रायश्चित्तविशेषाणां त्रपुसीसादीनां परगृहाच् चौर्यं कृत्वा तद् अप्य् अकृतं द्रव्यं द्वामिने दत्वा सान्तापनं कृच्छ्रं वक्ष्यमाणात्मशुद्ध्यर्थं कुर्यान् निर्यात्येति शेषः ॥ ११.१६३ ॥

भक्ष्यभोज्यापहरणे यानशय्यासनस्य च ।

पुष्पमूलफलानां च पञ्चगव्यं विशोधनम् ॥ ११.१६४ ॥

भक्ष्यभोज्यापहरण इति । भक्ष्यस्य मोदकादेर् यानस्य गन्त्र्यादेः शय्यायाः खट्वादेः आसनस्य च पीठादेः पुष्पाणां मूलानां चापहरणे गोमूत्रं गोमयं क्षीरं दधि सर्पिर् इत्य् एतत् पञ्चगव्यं विशोधनम् ॥ ११.१६४ ॥

तृणकाष्ठद्रुमाणां च शुष्कान्नस्य गुडस्य च ।

चेलचर्मामिषाणां च त्रिरात्रं स्याद् अभोजनम् ॥ ११.१६५ ॥

तृणकाष्ठद्रुमाणाम् इति । तृणकाष्ठवृक्षगुडवस्त्रचर्ममांसानां शुष्कान्नस्य च तण्डुलादेर् अपहरणं त्रिरात्रम् उपवासः स्यात् ॥ ११.१६५ ॥

मणिमुक्ताप्रवालानां ताम्रस्य रजतस्य च ।

अयःकांस्योपलानां च द्वादशाहं कणान्नता ॥ ११.१६६ ॥

मणिमुक्ताप्रवालानाम् इति । मणिमुक्ताविद्रुमताम्ररूप्यायःकांस्यपाषानां चापहरणाद् द्वादशाहं तण्डुलफलभक्षणं कार्यम् । सर्वत्रात्र सकृदभ्यासदेशकालद्रव्यस्वामिदौर्गत्याद्यपेक्षयोत्कृष्टद्रव्यापहारविषयम् असमीकरणं परिहरणीयम् ॥ ११.१६६ ॥

कार्पासकीटजीर्णानां द्विशफैककुरस्य च ।

पक्षिगन्धौषधीनां च रज्ज्वाश् चैव त्र्यहं पयः ॥ ११.१६७ ॥

कार्पासकीटजीर्णानाम् इति । कार्पासपट्टोर्णानां द्विशफस्याश्वादेः पक्षिणां च शुकादीनां गन्धप्रधानानां चागरुप्रभृतीनाम् औषधानां गुडूच्यादीनां रज्ज्वाश् च मुञ्जादिकृताया अपहरणे त्र्यहं क्षीराहारः स्यात् ॥ ११.१६७ ॥

एतैर् व्रतैर् अपोहेत पापं स्तेयकृतं द्विजः ।

अगम्यागमनीयं तु व्रतैर् एभिर् अपानुदेत् ॥ ११.१६८ ॥

एतैर् इति । एतैर् उक्तैः प्रायश्चित्तैः चौर्यजनितं पापं द्विजातिर् अपनुदेत् । अगम्यागमननिमित्तं पुनर् एभिर् वक्ष्यमाणैः प्रायश्चित्तैर् निर्हरेत् ॥ ११.१६८ ॥

गुरुतल्पव्रतं कुर्याद् रेतः सिक्त्वा स्वयोनिषु ।

सख्युः पुत्रस्य च स्त्रीषु कुमारीष्व् अन्त्यजासु च ॥ ११.१६९ ॥

गुरुतल्पव्रतम् इति । भगिनीषु सोदर्यासु च मित्रभार्यासु स्नुषाकुमारीषु चाण्डालाद्यन्त्यजासु चोपगमनं कृत्वा गुरुदारगमनप्रायश्चित्तं कुर्यात् । अभ्यासाद्यपेक्षया तत्र तत्र गुरुतल्पप्रायश्चित्तं विज्ञेयम् । रेतःसेकः स्वयोनिष्व् इति अनेनास्य पौनरुक्त्यं तत्र वोक्तपरिहारार्थम् ॥ ११.१६९ ॥

पैतृष्वसेयीं भगिनीं स्वस्त्रीयां मातुर् एव च ।

मतुश् च भ्रातुर् आप्तस्य गत्वा चान्द्रायणं चरेत् ॥ ११.१७० ॥

पितृष्वस्रेयीम् इति । पितृष्वसृमातृश्वसृदुहितरं मातुः स्वभ्रातुः सोदरस्य दुहितरं गत्वा चान्द्रायणं चरेत् ॥ ११.१७० ॥

एतास् तिस्रस् तु भार्यार्थे नोपयच्छेत् तु बुद्धिमान् ।

ज्ञात्वेनान् उपेयास् ताः पतति ह्य् उपयन्न् अधः ॥ ११.१७१ ॥

एता इति । तिस्र एताः पितृष्वस्राद्याः भार्यार्थं प्राज्ञैः नोद्वहनीयाः । ज्ञातित्वाद् एता नोढव्याः यस्माद् एता उपगच्छन् नरकं व्रजति । असपिण्डा तु या मातुर् इत्य् अनेनैव निषेधसिद्धौ दाक्षिणात्याचारदर्शनेन दार्ढ्यार्थं पुनर्वचनम् ॥ ११.१७१ ॥

अमानुषीषु पुरुष उदक्यायाम् अयोनिषु ।

रेतः सिक्त्वा जले चैव कृच्छ्रं सान्तपनं चरेत् ॥ ११.१७२ ॥

अमानुषीष्व् अनङ्गष्व् इति । अमानुषीषु वडवाद्यासु न गवि गौतमीये गवि च तल्पसम इत्य् अतिगुरुप्रायश्चित्तदर्शनाद् अनङ्गे वाविद्यमानस्त्रीपुल्लिङ्गे नपुंसके रजस्वलायां च योनितश् चान्यत्र स्थितायां जले च रेतःसेकं कृत्वा सान्तपनं कृच्छ्रं कुर्यात् ॥ ११.१७२ ॥

मैथुनं तु समासेव्य पुंसि योषिति वा द्विजः ।

गोयाने ऽप्सु दिवा चैव सवासाः स्नानम् आचरेत् ॥ ११.१७३ ॥

मैथुनम् इति । पुंस्य् ऊरुमध्यकक्षादेर् मैथुनं कृत्वा स्त्रियां गोयुक्ते याने वा गन्त्र्यादाव् अप्सु याने वा नावादौ दिवा च कृत्वा सचैलस्नानं कुर्यात् ॥ ११.१७३ ॥

चण्डालान्त्यस्त्रियो गत्वा भुक्त्वा च प्रतिगृह्य च ।

पतत्य् अज्ञानतो विप्रो ज्ञानात् साम्यं तु गच्छति ॥ ११.१७४ ॥

चाण्डालस्येति । चाण्डालम्लेच्छस्त्रियं गत्वा अज्ञानतो भुक्त्वा च तेभ्यश् च प्रतिग्रहं ज्ञानतः कृत्वा अभ्यासे सति पतति । अतश् च पतितप्रायश्चित्तम् अस्य भवतीत्य् एतत् पुनर् एतदभ्यासतः कृत्वा तत्तुल्यतां याति । अतश् चास्य प्रायश्चित्ताभावः ॥ ११.१७४ ॥

विप्रदुष्टां स्त्रियं भर्ता निरुन्ध्याद् एकवेश्मनि ।

यत् पुंसः परदारेषु तच् चैनां चारयेद् व्रतम् ॥ ११.१७५ ॥

विप्रदुष्टाम् इति । विप्रदुष्टां स्त्रियं निरुन्ध्य प्रायश्चित्तान्तं यावत् स्थापयेत् । यच् च पुंसः समानजातीयपरदारगमने उपपातकप्रायश्चित्तं तद् एवैनां कारयेत् ॥ ११.१७५ ॥

सा चेत् पुनः प्रदुष्येत् तु सदृशेनोपमन्त्रिता ।

कृच्छ्रं चान्द्रायणं चैव तद् अस्याः पावनं स्मृतम् ॥ ११.१७६ ॥

सेति । सा स्त्री सजातीयगमनेन सकृत्प्रदुष्टा कृतप्रायश्चित्ता यदि पुनस् तेनैव सजातिना अभ्यर्थिता सती तद्गमनं कुर्यात् तदा प्राजापत्यं कृच्छ्रं चान्द्रायणं च तस्याः शुद्ध्यर्थं द्वयम् अपि स्यात् ॥ ११.१७६ ॥

यत् करोत्य् एकरात्रेण वृषलीसेवनाद् द्विजः ।

तद् भक्ष्यभुग् जपन् नित्यं त्रिभिर् वर्षैर् व्यपोहति ॥ ११.१७७ ॥

यद् इति । “शूद्रां शयनम् आरोप्य ब्राह्मणो यात्य् अधोगतिम्” । “शूद्रावेदी पतत्य् अत्रेर्” इति निन्दातिषयश्रवणाद् अक्रमोढाशूद्रासेवनेन । यद् एकरात्रेण पापम् अर्जयति तद् भैक्षाशी नित्यं जपं कुर्वन् त्रिभिर् वर्षैर् अपनुदति । यत् तु चाण्डाल्य् अत्र वृषलीति व्याचक्षते तद् असत् अप्रसिद्धेस् तथा चापस्तम्बो “अनार्याशयने बिभ्रत्” इत्य् उपक्रम्य, “यद् एकरात्रेण करोति पापं कृष्णवर्णं ब्राह्मणः सेवमानश् चतुर्थकाल उदकाभ्यधायैस् त्रिभिर् वर्षैः तद् अपहन्ति पापम्” इत्य् आह ॥ ११.१७७ ॥

एषा पापकृआम् उता चतुर्णाम् अपि निष्कृतिः ।

पतितैः सम्प्रयुक्तानाम् इमाः शृणुत निष्कृतीः ॥ ११.१७८ ॥

एषेति । हिंसा अभक्ष्यभक्षणस्तेयागम्यागमनकारिणां चतुर्णाम् अपि महापातकिनाम् इतरेषां चैषा संशुद्धिर् उक्ता । इदानीं पतितसंयोगिनां चेमा वक्ष्यमाणाः संशुद्धिः शृणुत ॥ ११.१७८ ॥

संवत्सरेण पतति पतितेन सहाचरन् ।

याजनाध्यापनाद् यौनान् न तु यानासनाशनात् ॥ ११.१७९ ॥

संवत्सरेणेति । महापातककारिणं याजयेद् यस् तेन वा याजितस् तम् अध्यापयंस् तेन वाध्यापितस् तस्मै कन्यां ददंस् तस्माद् दत्ताम् उद्वहन् संवत्सरेण पतति । द्विजातिकर्मभ्यो हानिः पतनम् इति गौतमस्मरणात्, अदृष्टार्थकामाधिकाराद् धीयते । सहगमनभोजनावस्थानानि पुनः पतितेन सह कुर्वन् संवत्सरेण पतति अपि तु तत ऊर्ध्वं तेषां लघुत्वात् ॥ ११.१७९ ॥

यो येन पतितेनैषां संसर्गं याति मानवः ।

स तस्यैव व्रतं कुर्यात् तत् संसर्गविशुद्धये ॥ ११.१८० ॥

इति । एषां ब्रह्महाप्रभृतीनां चतुर्णां पतितानाम् अध्यापनादि पतितेन सह पूर्ववाक्योक्तं संसर्गं यो मनुष्यः करोति स तस्य प्रायश्चित्तम् उक्तं ब्रह्महा द्वादशसमा इत्यादि तद् एतत् सम्पर्कपापजनितं कुर्यात् ॥ ११.१८१ ॥

पतितस्योदकं कार्यं सपिण्डैर् बान्धवैर् बहिः ।

निन्दिते ऽहनि सायाह्ने ज्ञात्यृत्विग्गुरुसन्निधौ ॥ ११.१८१ ॥

पतितस्योदकम् इति । महापातकिनो जीवतः स एव प्रेतस्यैवोदकक्रियां वक्ष्यमाणनीत्या सपिण्डैः समानोदकैः समेत्य ज्ञात्यृत्विग्गुरुसन्निधाने रिक्तायां नवम्यादौ तिथौ दिनान्ते कर्तव्या ॥ ११.१८१ ॥

दासी घटम् अपां पूर्णं पर्यस्येत् प्रेतवत् पदा ।

अहोरात्रम् उपासीरन्न् अशौचं बान्धवैः सह ॥ ११.१८२ ॥

दासीति । सपिण्डसमानोदकप्रयुक्ता दास्¥ उदकपूर्णं घटम् अमुम् अनुदकं करोमीति नामग्राहम् इति गौतमस्मरणाद् एवम् उक्त्वा प्रेतस्येव दक्षिणमुखं पादेन प्रक्षिपेत् तदनु च ते सपिण्डाः समानोदकैः सह शौचम् आश्रयेयुः ॥ ११.१८२ ॥

निवर्तेरंश् च तस्मात् तु सम्भाषणसहासने ।

दायाद्यस्य प्रदानं च यात्रा चैव हि लौकिकी ॥ ११.१८३ ॥

निवर्तेरन्न् इति । दायाद्यस्य प्रदानं च यात्राम् एव च लौकिकीम् । तेन च पतितेन सह सम्भाषणसहावस्थाने न कर्तव्ये न च तस्मै रिथदेयं नाप्य् उत्सवादौ निमन्त्रणादि तस्य लोकव्यवहारः कार्यः ॥ ११.१८३ ॥

ज्येष्ठता च निवर्तेत ज्येष्ठावाप्यं च तद् वसु ।

ज्येष्ठांशं प्राप्नुयाच् चास्य यवीयान् गुणतो ऽधिकः ॥ ११.१८४ ॥

ज्येष्ठतेति । ज्येष्ठकार्यं प्रत्युत्थानादि तस्य न कार्यं ज्येष्ठलभ्यं चोद्धारधनं नास्य देयम् । एतच् च पूर्वसिद्धम् एव यवीयसः प्राप्त्यर्थम् अनूद्यते । तस्य च ज्येष्ठसम्बन्धिनम् उद्धारांशं तदनुजो गणाधिको लभते ॥ ११.१८४ ॥

प्रायश्चित्ते तु चरिते पूर्णकुम्भम् अपां नवम् ।

तेनैव सार्धं प्रास्येयुः स्नात्वा पुण्ये जलाशये ॥ ११.१८५ ॥

प्रायश्चित्त इति । कृते पुनः पतितेन प्रायश्चित्ते उदकपूर्णं नवं तेनैव प्रायश्चित्तेन सह पवित्रे जलाधारे स्नात्वा तेन सपिण्डसमानोदकाः प्रक्षिपेयुः । इह नवग्रहणाद् दासीघटम् इत्य् अत्रोपयुक्तघटग्रहणं गम्यते ॥ ११.१८५ ॥

स त्व् अप्सु तं घटं प्रास्य प्रविश्य भवनं स्वकम् ।

सर्वाणि ज्ञातिकार्याणि यथापूर्वं समाचरेत् ॥ ११.१८६ ॥

इति । स कृतप्रायश्चित्तः तं पूर्वोक्तं घटम् उदकमध्ये क्षिप्त्वा ततः स्वगृहं प्रविश्य पूर्ववत् सर्वाणि बन्धुकार्याणि कुर्यात् ॥ ११.१८६ ॥

एतम् एव विधिं कुर्याद् योषित्सु पततास्व् अपि ।

वस्त्रान्नपानं देयं तु वसेयुश् च गृहान्तिके ॥ ११.१८७ ॥

एतद् एव व्रतम् इति । यद् एव पुंसः पातित्यनिमित्तं तद् एव स्त्रीणां विशेषं याज्ञवल्क्यः प्राह- “नीचाभिगमनं गर्भपातनं भर्तृहिंसनम् । विशेषपतनीयानि स्त्रीणाम् एतान्य् अपि ध्रुवम्” इत्य् एवं स्त्रीषु पतितासु पतितस्योदकं कार्यम् इत्यादि यद् उक्तं किं तु कुर्यात् किं तु ग्रासाच्छादनान्नपानादीनि गृहसमीपे च शीर्णगृहकादि निवासार्थम् आसां देयम् ॥ ११.१८७ ॥

एनस्विभिर् अनिर्णिक्तैर् नार्थं किञ्चित् समाचरेत् ।

कृतनिर्णेजनांश् चैतान् न जुगुप्सेत कर्हिचित् ॥ ११.१८८ ॥

एनस्विभिर् इति । पापकारिभिर् अकृतप्रायश्चित्तैः सह दानप्रतिग्रहादिकम् अनर्थकं च नानुतिष्ठेत् । कृतप्रायश्चित्तानां चैषां न कदाचिद् अपि किञ्चित् सम्भावयेत् अस्यायं चार्थवादः

॥ ११.१८८ ॥

बालघ्नांश् च कृतघ्नांश् च विशुद्धान् अपि धर्मतः ।

शरणागतहन्तॄंश् च स्त्रीहन्तॄंश् च न संवसेत् ॥ ११.१८९ ॥

बालघ्नान् इति । बालं यो हतवान् यश् च कृतम् उपकाराचरणेन नाशितवान् यश् च त्राणार्थिनम् आगतं हतवान् स्त्रियं च यो हतवान् तान् प्रायश्चित्ततपसोत्पन्नशुद्धिकान् अपि सहवासं परिहरेत् ॥ ११.१८९ ॥

येषां द्विजानां सावित्री नानुच्येत यथाविधि ।

तांश् चारयित्वा त्रीन् कृच्छ्रान् यथाविध्य् उपनाययेत् ॥ ११.१९० ॥

येषाम् इति । येषां ब्राह्मणादीनाम् अनुकल्पिककाले ऽप्य् उपनयनं यथाशास्त्रं न कृतं तान् प्राजापत्यकृच्छ्रत्रयं कारयित्वा यथाशास्त्रम् उपनाययेत् ॥ ११.१९० ॥

प्रायश्चित्तं चिकीर्षन्ति विकर्मस्थास् तु ये द्विजाः ।

ब्राह्मणा च परित्यक्तास् तेषाम् अप्य् एतद् आदिशेत् ॥ ११.१९१ ॥

प्रायश्चित्तम् इति । प्रतिषिद्धकर्मजीविनो ये द्विजाः प्रायश्चित्तं कर्तुम् इच्छन्ति ये वानधीतवेदास् तेषाम् अपि एतत् कृच्छ्रत्रयम् उपदिशेत् ॥ ११.१९१ ॥

यद् गर्हितेनार्जयन्ति कर्मणा ब्राह्मणा धनम् ।

तस्योत्सर्गेण शुध्यन्ति जप्येन तपसैव च ॥ ११.१९२ ॥

यद् इति । यद् गर्हितेन तपसा कर्मणासत्प्रतिग्रहादिना ब्राह्मणा धनम् अर्जयन्ति तस्य धनस्य परित्यागेन जपतपोभ्यां च वक्ष्यमाणाभ्यां शुध्यन्ति ॥ ११.१९२ ॥

जपित्वा त्रीणि सावित्र्याः सहस्राणि समाहितः ।

मासं गोष्ठे पयः पीत्वा मुच्यते ऽसत्प्रतिग्रहात् ॥ ११.१९३ ॥

**जपित्वेति **। त्रीणि सावित्रीसहस्राणि यत्नवान् जपित्वा सासं च क्षीराहारो गोष्ठनिवास आसीनः सन् असत्प्रतिग्रहजनितं पापम् अपहरति ॥ ११.१९३ ॥

उपवासकृतं तं तु गोव्रजात् पुनर् आगतम् ।

प्रणतं प्रतिपृच्छेयुः साम्यं सौम्येच्छसीति किम् ॥ ११.१९४ ॥

उपवासकृतम् इति । केवलं क्षीराहारेणाशनान्तरनिवृत्त्या तम् अपवितशरीअं गोष्ठात् प्रत्यागतं प्रह्वीभूतं हे साधो किं अस्माभिः सह सामान्यम् इच्छति पुनर् असत्प्रतिग्रहेअ न त्वं प्रवर्तस इत्य् एवं धर्मं ब्राह्मणाः परिपृच्छेयुः ॥ ११.१९४ ॥

सत्यम् उक्त्वा तु विप्रेषु विकिरेद् यवसं गवाम् ।

गोभिः प्रवर्तिते तीर्थे कुर्युस् तस्य परिग्रहम् ॥ ११.१९५ ॥

सत्यम् इति । सत्यं पुनर् असत्प्रतिग्रहं न करिष्ये इत्य् एवं ब्राह्मणान् उक्त्वा गवां घासं प्रक्षिपेत् । ततस् तस्मिन् यवसभक्षणप्रदेशे गोभिः पवित्रीकृतत्वात् तीर्थ एवावतारितो ब्राह्मणा अस्य संव्यवहारार्थम् अङ्गीकारं कुर्युः ॥ ११.१९५ ॥

व्रात्यानां याजनं कृत्वा परेषाम् अन्त्यकर्म च ।

अभिचारम् अहीनं च त्रिभिः कृच्छ्रैर् व्यपोहति ॥ ११.१९६ ॥

व्रात्यानाम् इति । व्रात्यानां भ्रष्टोपनयनानाम् अत ऊर्ध्वं त्रयो ऽप्य् एते इत्याद्युक्तानां व्रात्यस्तोमादियजनं कृत्वा पितृगुर्वादिव्यतिरिक्तानां वान्त्येष्टिं कृत्वा वाक्शस्त्रंवै ब्राह्मणस्योक्तत्वात् अनभिचारणीयस्य श्येनादिकर्मभिः चरेत् समं जातमरणहीनं च ऋतुविशेषं द्विरात्रादि कृत्वा त्रिभिः कृच्छ्रैर् विशुध्यति ॥ ११.१९६ ॥

शरणागतं परित्यज्य वेदं विप्लाव्य च द्विजः ।

संवत्सरं यवाहारस् तत् पापम् अपसेधति ॥ ११.१९७ ॥

शरणागतम् इति । शरणातम् अपापं परित्राणार्थिनम् आगतं प्रायश्चित्तार्थं वा सम्प्राप्तं शक्तः सन्न् अपरित्यज्यानध्याप्यं च वेदम् अध्याप्य धनार्थं वा परीक्षास्थाने पर्यङ्कयोगपूर्वकं वेदैकदेशम् उक्त्वा तज्जनितं पापं संवत्सरं यवभक्षो भूत्वा द्विजो ऽपनुदति ॥ ११.१९७ ॥

श्वसृगालखरैर् दष्ट्तो ग्राम्यैः क्रव्याद्भिर् एव च ।

नराश्वोष्ट्रवराहैश् च प्राणायामेन शुध्यति ॥ ११.१९८ ॥

श्वशृगालखरैर् इति । श्वशृगालखरमनुष्याश्वोष्ट्रशूकरैर् ग्राम्यैश् चाममांसादैर् मार्जारादिभिर् दष्टः प्राणायामेन शूध्यति ॥ ११.१९८ ॥

षष्ठान्नकालता मासं संहिताजप एव वा ।

होमाश् च शाकला नित्यम् अपाङ्क्त्यानां विशोधनम् ॥ ११.१९९ ॥

षष्ठान्नकालतेति । होमाश् च शालका इति अपाङ्क्त्या ये स्तेनपतितक्लिबा इत्यादिनोक्तास् तेषां ये नाम्नातप्रतिपदप्रायश्चित्तास् तेषां मासं त्र्यहम् अभुक्ते तृतीये ऽह्नि सायं भोजनं वेदसंहिताजपो देवकृतस्यैनसो ऽवयजनम् असीत्यादिभिर् यजुर्भिर् अष्टौ काष्ठशकलहोमाः प्रत्यहम् इत्य् एवम् एतत् समुचितं विशोधनम् ॥ ११.१९९ ॥

उष्ट्रयानं समारुह्य खरयानं तु आमतः ।

स्नात्वा तु विप्रो दिग्वासाः प्राणायामेन शुध्यति ॥ ११.२०० ॥

उष्ट्रयानम् इति ॥ ११.२०० ॥

विनाद्भिर् अप्सु वाप्य् आर्तः शारीरं सन्निवेष्य च ।

सचैलो बहिर् आप्लुत्य गाम् आलभ्य विशुध्यति ॥ ११.२०१ ॥

विनाद्भिर् अप्सु वाप्य् आर्तः शारीरं सन्निवेष्य त्व् इति । असन्निहित उदके जलमध्ये वावेगार्तो मूत्रपुरीषे वा कृत्वा सवासा बहिर् ग्रामान् नद्यादौ स्नात्वा गां च स्पृष्ट्वा विशुध्यति

॥ ११.२०१ ॥

वेदोदितानां नित्यानां कर्मणां समतिक्रमे ।

स्नातकव्रतलोपे च प्रायश्चित्तम् अभोजनम् ॥ ११.२०२ ॥

वेदोदितानाम् इति । वेदविहितानां नित्यानां कर्मणाम् अग्निहोत्राणाम् अनाम्नातश्रौतविषयप्रायश्चित्तानां परिलोपे स्नातकव्रतानां च वैणवीं धारयेद् यष्टिम् इत्याद्युक्तानाम् अकरणे उपवासः प्रायश्चित्तम् ॥ ११.२०२ ॥

हुङ्कारं ब्राह्मणस्योक्त्वा त्वङ्कारं च गरीयसः ।

स्नात्वानश्नन्न् अहःशेषम् अभिवाद्य प्रसादयेत् ॥ ११.२०३ ॥

हुङ्कारम् इति । हुम् इत्य् एवं सरोषं ब्राह्मणस्योक्त्वा त्वम् इत्य् एवं च वित्ताद्यधिकस्योक्त्वैव एतत् एतत्करणकालावशिष्टम् अहर् अभुञ्जानः स्नानं कृत्वा तं पादोपसङ्ग्रहणेन अपगतकोपं कुर्यात् ॥ ११.२०३ ॥

ताडयित्वा तृणेनापि कण्ठे वाबध्य वाससा ।

विवादे वा विनिर्जित्य प्रणिपत्य प्रसादयेत् ॥ ११.२०४ ॥

ताडयित्वेतिविवादेनापीति । प्राकृतं ब्राह्मणं गरीयांसं च कोपात् तृणेनाप्य् आहत्य कण्ठे च वस्त्रेणाबध्य कलहे च जित्वा प्रणिपातेनापगतक्रोधं कुर्यात् ॥ ११.२०४ ॥

अवगूर्य त्व् अब्दशतं सहस्रम् अभिहत्य च ।

जिघांसया ब्राह्मणस्य नरकं प्रतिपद्यते ॥ ११.२०५ ॥

अवगूर्येति । ब्राह्मणस्य हननेच्छया दण्डाद्य् उद्यम्य वर्षशतं नरकं प्राप्नोति । दण्डादिना पुनः प्रहृत्य वर्षसहस्रं प्राप्नोति ॥ ११.२०६ ॥

शोणितं यावतः पांसून् सङ्गृह्णाति महीतले ।

तावन्त्य् अब्दसहस्राणि तत्कर्ता नरके व्रजेत् ॥ ११.२०६ ॥

शोणितं यावतः पांसून् सङ्गृह्णाति द्विजन्मन इति** **। ब्राह्मणस्य प्रहृते सति तत्सम्बन्धिरुधिरं यत् सङ्ख्याकान् भूमौ रजःकणान् पिण्डीकरोति तत्सङ्ख्याकानि वर्षसहस्राणि तच्छोणितोत्पादयिता नरकम् आस्ते ॥ ११.२०६ ॥

अवगूर्य चरेत् कृच्छ्रम् अतिऋच्छ्रं निपातने ।

कृच्छ्रातिकृच्छ्रौ कुर्वीत विप्रस्योत्पाद्य शोणितम् ॥ ११.२०७ ॥

अवगूर्येति । ब्राह्मणस्य दण्डाद्य् उद्यम्य प्राजापत्यं कृच्छ्रं कुर्यात् । दण्डादिप्रहारं दत्वातिकृच्छ्रं वक्ष्यमाणं चरेत् । रुधिरम् उत्पाद्य कृच्छ्रातिकृच्छ्रौ कुर्यात् ॥ ११.२०७ ॥

अनुक्तनिष्कृतीनां तु पापानाम् अपनुत्तये ।

शक्तिं चाचेक्ष्य पापं च प्रायश्चित्तं प्रकल्पयेत् ॥ ११.२०८ ॥

अनुक्तनिष्कृतीनाम् इति । अनुक्तप्रायश्चित्तानां पापानां प्रतिलोमवधादिकृतानां निर्हरणार्थं कर्तुः शरीरधनादिसामर्थ्यम् अपेक्ष्य पापं च ज्ञानाज्ञानसकृदसकृदावृत्त्यनुबन्धाद्-इरूपेणावेक्ष्य वक्ष्यमाणप्रायश्चित्तं प्रकल्पयेत् ॥ ११.२०८ ॥

यैर् अभ्युपायैर् एनांसि मानवो व्यपकर्षति ।

तान् वो ऽभ्युपायान् वक्ष्यामि देवर्षिपितृसेवितान् ॥ ११.२०९ ॥

यैर् इति । यैः साधनैर् मनुष्यः पापान्य् अपनुदति तानि साधनानि देवर्षिपितृभिः पापापनुत्त्यर्थं सेवितानि युष्माकं वक्ष्यामि ॥ ११.२०९ ॥

त्र्यहं प्रातस् त्र्यहं सायं त्र्यहम् अद्याद् अयाचितम् ।

त्र्यहं परं च नाश्नीयात् प्राजापत्यं चरन् द्विजः ॥ ११.२१० ॥

त्र्यहम् इति । प्राजापत्याख्यं कृच्छ्रं द्विजातिः कुर्वन् त्र्यहम् आद्यं दिनादाव् अश्नीयाद् अपरं त्र्यहं दिनान्ते भुञ्जीत । अन्यं त्र्यहम् अप्रार्थितम् उपनतम् अद्यात् परं त्र्यहान् न किञ्चिद् भक्षयेत् । अत्र “हविष्यात् प्रातर् असौ [आशान्]” इति [ग्ध् २६.२] गौतमस्मरणाद् धविष्यम् अदितव्यम् । ग्राससङ्ख्या च ।

सायं च द्वादशग्रासाः प्रातः पञ्चदश स्मृताः ।

षट्त्रिंशतिर् अयाच्याः स्युः परं निरशनं स्मृतम् ॥

इति पाराशरोक्त्या विज्ञेयम् ॥ ११.२१० ॥

गोमूत्रं गोमयं क्षीरं दधि सर्पिः कुशोदकम् ।

एकरात्रोपवासश् च कृच्छ्रं सान्तपनं स्मृतम् ॥ ११.२११ ॥

गोमूत्रम् इति । गोमूत्रं गोमयं क्षीरं गोदधि गोघृतदर्भक्वथितोदकानां प्रत्यहम् एकं चोपवासं कुर्यात् । इत्य् एवं सप्ताहम् एकस्मिन्न् अहन्य् एतानि सर्वाणि पिबेद् एकं चोपवासं कुर्यात् । इत्य् एवं त्र्यहं याज्ञवल्क्य उभयदर्शनाद् इत्य् एषः सान्तपनाख्यः कृच्छ्रं स्मृतः ॥ ११.२११ ॥

एकैकं ग्रासम् अश्नीयात् त्र्यहाणि त्रीणि पूर्ववत् ।

त्र्यहं चोपवसेद् अन्त्यम् अतिकृच्छ्रं चरन् द्विजः ॥ ११.२१२ ॥

एकैकम् इति । त्र्यहं चोपवसेद् इति । अतिकृच्छाख्यकृच्छ्रं द्विजातिः कुर्वन् प्रातःसायम् अयाचितरूपेणैकैकं ग्रासं त्रीणि त्र्यहान्य् अश्नीयात् । अन्यच् च त्र्यहं न किञ्चिद् भुञ्जीत

॥ ११.२१२ ॥

तप्तकृच्छ्रं चरन् विप्रो जलक्षीरघृतानिलान् ।

प्रतित्र्यहं पिबेद् उष्णान् सकृन् स्नायी समाहितः ॥ ११.२१३ ॥

तप्तकृच्छम् इति । तप्तकृच्छ्राख्यकृच्छ्रं ब्राह्मणादि कुर्वन् त्र्यहम् उदकं क्षीरघृतवायून् उष्णान् अपां पिबेत् ।

त्रिपलं तु ह्य् अपः पीत्वा त्रिपलं तु पयः पिबेत् ।

सर्पिषः पलम् एकं तु त्रिरात्रं चोष्णमारुतम् ॥

इति पराशरोक्तपरिमाणानाम् एकवारं स्नानं कुर्वन् संयमवान् पिबेत् । उष्णमारुतं उष्णोदकं वा ॥ ११.२१३ ॥

यतात्मनो ऽप्रमत्तस्य द्वादशाहम् अभोजनम् ।

पराको नाम कृच्छ्रो ऽयं सर्वपापापनोदनः ॥ ११.२१४ ॥

यतात्मान इति । विगतान्नाभिलाषस्य संयतेन्द्रियस्य यत् द्वादशाहम् अभोजनं तत् पराकाख्यः कृच्छ्रः पापापेक्षया सकृद् आवृत्तितारतम्येन प्रकाशाप्रकाशगुरुलघुसकलपापानाम् अपनोदकः ॥ ११.२१४ ॥

एकैकं ह्रासयेत् पिण्डं कृष्णे शुक्ले च वर्धयेत् ।

उपस्पृशंस् त्रिषवणम् एतच् चान्द्रायणं स्मृतम् ॥ ११.२१५ ॥

एकैकम् इति । सायम्प्रातर् मध्याह्नेषु स्नानं कुर्यात् । पौर्णमास्यां पञ्चदशग्रासान् “ग्रासप्रमाणं वास्याविकारेण” [ग्ध् २७.१०) इति गौतमोक्तप्रमाणान् अश्नीयात् । ततः कृष्णपक्षे प्रतिपत्प्रभृति एकैकग्रासापचयं कुर्यात् । यावच् च चतुर्दश्याम् एकग्रासम् अश्नीयात्, अमावास्यायां चोपोष्य ततः प्रतिपत्प्रभृति शुक्लपक्ष एकैकं ग्रासं वृद्धिं नयेद् यावत् पौर्णमास्यां पञ्चदशेत्य् एतत् पिपीलिकामध्यं चान्द्रायणं चरेत् ॥ ११.२१५ ॥

एतम् एव विधिं कृत्स्नम् आचरेद् यवमध्यमे ।

शुक्लपक्षादिनियतश् चरंश् चान्द्रायणं व्रतम् ॥ ११.२१६ ॥

एतम् एव विधिं कृत्स्नम् आचरन्न् इति । एवम् एव पिण्डानां ग्रासवृद्धिं त्रिषवणस्नानात्मकं विधानं यवमध्यमाख्यचान्द्रायणे शुक्लपक्षं आदितः कृत्वा कृतनियमः एतद् यवमध्याख्यं चान्द्रायणव्रतम् अनुतिष्ठन् कुर्यात् । प्रतिपद्य् एकं ग्रासं द्वितीयायां द्वौ यावत् पौर्णमास्यां पञ्चदशाश्नीयात् ततः प्रतिपत्प्रभृति एकैकग्रासापचयं कुर्यात् यावच्चतुर्दश्याम् एकः पश्चाद् अमावास्यायाम् उपवास इति ॥

११.२१६ ॥

अष्टाव् अष्टौ समश्नीयात् पिण्डान् मधन्दिने स्थिते ।

नियतात्मा हविष्याशी यतिचान्द्रायणं चरन् ॥ ११.२१७ ॥

**अष्टाव् **इति । नियतात्मा हव्ष्यास्येति । यतिचान्द्रायणाख्यं चान्द्रायणं कुर्वन् विगतान्नगन्धो हविष्यस्य ओदनादेर् अष्टाव् अष्टौ ग्रासान् मध्याह्नकाले समश्नीयात् ॥ ११.२१७ ॥

चतुरः प्रातर् अश्नीयात् पिण्डान् विप्रः समाहितः ।

चतुरो ऽस्तमिते सूर्ये शुशुचान्द्रायणं स्मृतम् ॥ ११.२१८ ॥

चतुर इति । शुशुचान्द्रायणाख्यं चान्द्रायणं ब्राह्मणादि कुर्वंश् चतुरो ग्रासान् दिनादौ चतुरश् चादित्ये ऽस्तङ्गते संयमितात्मा समश्नीयात् ॥ ११.२१८ ॥

यथा कथञ्चित् पिण्डानां तिस्रो ऽशीतीः समाहितः ।

मासेनाश्नन् हविष्यस्य चन्द्रस्यैति सलोकताम् ॥ ११.२१९ ॥

यथा कथञ्चिद् इति । निवारादि हविष्यान्नसम्बन्धिनां हविष्याणां ग्रासानां च द्वे शते चत्वारिंशदधिके कदाचिद् एकं कदाचिद् पञ्च कदाचित् षोडश कदाचिद् उपवास इत्य् एवमादि अनियमने यथा कथञ्चित् मासेन संयमवान् अश्नंश् चन्द्रलोकं प्राप्नोति । अतश् चाभ्युदयार्थम् अप्य् एतत् कार्यम् ॥ ११.२१९ ॥

एतद् रुद्रास् तथादित्या वसवश् चाचरन् व्रतम् ।

सर्वाकुशलमोक्षाय मरुतश् च महर्षिभिः ॥ ११.२२० ॥

एतद् इति । रुद्रादित्यवसुमरुदृषय एतच् चान्द्रायणाख्यं व्रतं प्रकाशाप्रकाशगुरुलघुसकलपापापनोदाय पापापेक्षया सकृदावृत्तितारतम्येन कृतवन्तः

॥ ११.२२० ॥

महाव्याहृतिभिर् होमः कर्तव्यः स्वयम् अन्वहम् ।

अहिंसा सत्यम् अक्रोधम् आर्जवं च समाचरेत् ॥ ११.२२१ ॥

महाव्याहृतिभिर् इति । महाव्याहृतिभिर् भूर् भुवः स्वर् इत्य् एताभिः “आज्ये हविर् अनादेश” इति सूत्रकारवचनात् आज्येन स्वयं प्रत्यहं होमं कुर्यात् । अहिंसा सत्यम् अक्रोधाकौटिल्यानि पुरुषार्थयोक्तान्य् अपि व्रताङ्गतयानुतिष्ठेत् ॥ ११.२२१ ॥

त्रिर् अह्नस् त्रिर् निशायां च सवासा जलम् आविशेत् ।

स्त्रीशूद्रपतितांश् चैव नाभिभाषेत कर्हिचित् ॥ ११.२२२ ॥

त्रिर् अह्नस् त्रिर् निशायाम् इति । अह्नो रात्रेश् चारम्भमध्यावसानेषु स्नानार्थं सचैलो नद्यादौ प्रविशेद् एतच् च पिपीलिकामध्यचान्द्रायणवर्जं तत्रोपस्पृशंस् त्रिषवणम् इत्य् उक्तत्वात् स्त्रीशूद्रपतितैश् च सहसं भाषणं न कदाचिद् यावद् व्रतं कुर्यात् ॥ ११.२२२ ॥

स्थानासनाभ्यां विहरेद् अशक्तो ऽधः शयीत वा ।

ब्रह्मचारी व्रती च स्याद् गुरुदेवद्विजार्चकः ॥ ११.२२३ ॥

स्थानासनाभ्याम् इति । “तिष्ठेद् अहनि रात्रौ आसीनः” इति गौतमस्मरणाद् द्विआस्थितो रात्राव् आसीनो वर्तेतासामर्थ्याद् वा स्थण्डिलशायी स्यात् । स्त्रीसम्प्रयोगरहितो व्रती च मौञ्जीदण्डकमण्डलुर् अग्निकार्यं चेति शङ्खदर्शनान् मेखलादियुक्तो गुरुदेवब्राह्मणानां पूजकः स्यात् ॥ ११.२२३ ॥

सावित्रीं च जपेन् नित्यं पवित्राणि च शक्तितः ।

सर्वेष्व् एव व्रतेष्व् एवं प्रायश्चित्तार्थम् आदृतः ॥ ११.२२४ ॥

सावित्रीम् इति । सावित्रीं च सर्वदा रात्राव् अपि जपेत् पवित्राणि यथाशक्ति जपेत् । एवं कृच्छ्रादिष्व् अपि सर्वेषु यत्नवान् प्रायश्चित्तार्थं महाव्याहृतिभिर् होमादि सर्वं कुर्यात् । तप्तकृच्छ्रेषु षट्सवनं स्नानम् अतिदेशकं न प्रवर्तते सकृत् स्नायीत्यौएपदेशिकविरोधात् ॥ ११.२२४ ॥

एतैर् द्विजातयः शोध्या व्रतैर् आविष्कृतैनसः ।

अनाविष्कृतपापांस् तु मन्त्रैर् होमैश् च शोधयेत् ॥ ११.२२५ ॥

एतैर् इति । एभिर् उक्तैर् पापैः प्रायश्चित्तैर् लोकविदितपापा द्विजातयो वक्ष्यमाणपर्षदा शोधनीयाः । अप्रकाशवधं पुना रहस्यत्वविनाशपरिहाराच् छिष्यत्वादिव्यपदेशेनायतान् वक्ष्यमाणैर् जपहोमैः पर्षच्छोधयेत् ॥ ११.२२५ ॥

ख्यापनेनानुतापेन तपसाध्ययनेन च ।

पापकृन् मुच्यते पापात् तथा दानेन चापदि ॥ ११.२२६ ॥

ख्यापनेनेति । द्वित्रादिविदित एवं कर्मास्मीत्य् एवम् अन्येषाम् अपि अविदितपापानां पापप्रकाशनेन प्रकाशाप्रकाशाङ्गभूतेन न तु रहस्याङ्गभूतेन रहस्यत्वहानिप्रसङ्गाद् हि कष्टं किं मयेदं कृतम् इत्य् एवं। पश्चात्तापेन च प्रकाशाङ्गभूतेनैव तपसा चोक्तरूपेण कृच्छ्रादिना जपेन च प्रकाशाङ्गप्रधानभूतेनैव प्रायश्चित्तसामर्थ्येन च प्रक्रान्ततपाः दानेन पापकारी पापान् मुच्यते ॥ ११.२२६ ॥

यथा यथा नरो ऽधर्मं स्वयं कृत्वानुभाषते ।

तथा तथा त्वचेवाहिस् तेनाधर्मेण मुच्यते ॥ ११.२२७ ॥

यथा यथेति । मनुष्यः पापं कृत्वा तेन पापेन स्वयम् एव यथा यथा ख्यापयति मयेदं दुष्टं कर्म कृतम् इति निन्दति तथा तथा तं शरीरस्थं क्षेत्रज्ञं पुण्यपापयोः तदाश्रयत्वात् तेन पापेन जीर्णचर्मेव सर्पस् तस्मात् पापात् प्रमुच्यते इति ख्यापनार्थवादः

॥ ११.२२७ ॥

यथा यथा मनस् तस्य दुष्कृतं कर्म गर्हति ।

तथा तथा शरीरं तत् तेनाधर्मेण मुच्यते ॥ ११.२२८ ॥

यथा यथेतितथा तथा शरीरात् तत् तेनाधर्मेण मुच्यते ॥ ११.२२८ ॥

कृत्वा पापं हि सन्तप्य तस्मात् पापात् प्रमुच्यते ।

नैवं कुर्यां पुनर् इति निवृत्त्या पूयते तु सः ॥ ११.२२९ ॥

पापं कृत्वेति । पापकारिणो यदि पश्चात्ताप उत्पद्यते तदा तस्मात् पापात् प्रमुच्यते इत्य् उक्तम् । स च पापकारी भूयः पापं न कुर्याम् इत्य् एवं पुनः पापकारिणो निवृत्तिसङ्कल्पेन शुद्ध्यतीति निवृत्ते प्रकाशाप्रकाशप्रायश्चित्ताङ्गभूतविधानार्थम् एतत् ॥ ११.२२९ ॥

एवं सञ्चिन्त्य मनसा प्रेत्य कर्मफलोदयम् ।

मनोवाङ्मूर्त्तिभिर् नित्यं शुभं कर्म समाचरेत् ॥ ११.२३० ॥

**एवम् **इति । एवं शुभाशुभानां कर्मणां परलोक इष्टफलोत्पत्तिं मनसा विचार्य मनोवाक्कायैः शुभम् एव कर्म कुर्यात् । इष्टफल्त्वान् नाशुभम् अकृतप्रायश्चित्तानाम् अदृष्टोत्पादनत्वात् प्रायश्चित्तकरणस्यापि च दुःखरूपत्वात् ॥ ११.२३० ॥

अज्ञानाद् यदि वा ज्ञानात् कृत्वा कर्म विगर्हितम् ।

तस्माद् विमुक्तम् अन्विच्छन् द्वितीयं न समाचरेत् ॥ ११.२३१ ॥

अज्ञानाद् इति । प्रमादाद् इच्छातो वा निन्दितं कर्म कृत्वा तत्पापान् मोक्षम् अन्विच्छन् परं दुष्कृतं न कुर्यात् । इति निवृत्त्यर्थवादः ॥ ११.२३१ ॥

यस्मिन् कर्मण्य् अस्य कृते मनसः स्याद् अलाघवम् ।

तस्मिंस् तावत् तपः कुर्याद् यावत् तुष्टिकरं भवेत् ॥ ११.२३२ ॥

यस्मिन् कर्मण्य् असुकृत इति । यस्मिन् दुष्कृतकर्मणि कृते ऽपि शास्त्रितप्रायश्चित्ते मनो विचिक्त्स्यात् तस्मिंस् तावत् प्रायश्चित्तं तद् एव पुनः कुर्याद् अन्यद् वा सुरूपं यावन् मनः प्रसादपरं स्यात् ॥ ११.२३२ ॥

तपोमूलम् इदं सर्वं दैवमानुषकं सुखम् ।

तपोमध्यं बुधैः प्रोक्तं तपोऽन्तं वेददर्शिभिः ॥ ११.२३३ ॥

तपोमूलम् इति । यद् एतत् सर्वदेवानां मनुष्याणां सुखं तदादौ मध्ये ऽन्ते च तपः कारणम् इति तपोमाहात्म्यकथनं प्रायश्चित्ततपःस्तुत्यर्थम् ॥ ११.२३३ ॥

ब्राह्मणस्य तपो ज्ञानं तपः क्षत्रस्य रषणम् ।

वैश्यस्य तु तपो वार्ता तपः शूद्रस्य सेवनम् ॥ ११.२३४ ॥

ब्राह्मणस्येति । ब्राह्मणस्य वेदार्थावबोधस् तपः । क्षत्रियस्य धर्मतः प्रजारक्षणं तपः । वैश्यस्य कृषिवाणिज्यपाशुपाल्यं तपः । शूद्रस्य ब्राह्मणपरिचर्या तप इत्य् उतानाम् अन्येषां पुनर् इहाभिधानं प्रायश्चित्ताङ्गत्वार्थम् ॥ ११.२३४ ॥

ऋषयः संयतात्मानः फलमूलानिलाशनाः ।

तपसैव प्रपश्यन्ति त्रैलोक्यं सचराचरम् ॥ ११.२३५ ॥

ऋषय इति । ऋषयः वाङ्मनःकायोपेताः फलमूलवायुभक्षास् तपसैव जङ्गमस्थावरसहितं पृथ्व्यन्तरिक्षद्युर्लोकात्मकं लोकत्रयम् अशेषम् एकदेशस्थाः सन्तः प्रकर्षेण पश्यन्तीति तपोमाहात्म्यकथनम् । प्रायश्चित्ततपः स्तुत्यर्थम् एवम् उत्तरश्लोकाव् अपि ज्ञेयौ ॥ ११.२३५ ॥

औषधान्य् अगदा विद्या दैवी च विविधा स्थितिः ।

तपसैव प्रसिध्यन्ति तपस् तेषां हि साधनम् ॥ ११.२३६ ॥

औषधानीति । औषधानि व्याध्युपशमनान्य् अगदानि विषापहारद्रव्याणि विद्या तपसा ब्रह्मविजिज्ञासा चेति श्रुतेर् आत्मज्ञानरूपाणि देवसम्बन्धिनी च नानारूपा स्वर्गादावस्थितिर् इत्य् एतानि तपसैव प्राप्यन्ते । तस्मात् तपस् तेषां प्राप्तिनिमित्तम् ॥ ११.२३६ ॥

यद् दुस्तरं यद् दुरापं यद् दुर्गं यच् च दुष्करम् ।

सर्वं तत् तपसा साध्यं तपो हि दुरतिक्रमम् ॥ ११.२३७ ॥

यद् इति । यद् दुःखेनोत्तिर्यते ग्रहदौस्थ्यापदादि यच् च दुःखेन प्राप्यते तेनैव शरीरेण ब्राह्मणादि यच् च दुःखेन गम्यते मेरुपृष्ठादि यच् च दुःखेन क्रियते समुद्रपानादि एतत् सर्वं तपसा साधयितुं शक्यं यस्माद् अतिदुष्करकार्यकरणे तपो ऽप्रतिहतशक्तिः

॥ ११.२३७ ॥

महापातकिनश् चैव शेषाश् चाकार्यकारिणः ।

तपसैव सुतप्तेन मुच्यन्ते किल्बिषात् ततः ॥ ११.२३८ ॥

महापातकिन इति । ब्रह्महत्यादिकारिणो ऽन्ये चोपपातकादिकर्तारस् तपसैवोक्तरूपेण सुष्ठुकृतेन तस्मात् पापात् प्रमुच्यन्ते । इत्युक्तस्यापि प्रायश्चित्ततपःस्तुत्यर्थं वचनम्

॥ ११.२३८ ॥

कीटाश् चाहिपतङ्गाश् च पशवश् च वयांसि च ।

स्थावराणि च भूतानि दिवं यान्ति तपोबलात् ॥ ११.२३९ ॥

कीटा इति । कीटसर्पशलभपशुपक्षिणः स्थावराणि च वृक्षगुल्मादीनि भूतानि तपोमाहात्म्येन स्वर्गं गच्छन्ति यथेतिहासेषु कीटोपाख्यानादौ दर्शितम् । तपोमाहात्म्यकथनेन प्रायश्चित्ततपःस्तुतिर् एवम् उत्तरश्लोका विज्ञेयाः ॥ ११.२३९ ॥

यत् किञ्चिद् एनः कुर्वन्ति मनोवाक्कर्मभिर् जनाः ।

तत् सर्वं निर्दहन्त्य् आशु तपसैव तपोधनाः ॥ ११.२४० ॥

यत् किञ्चिद् इति । मानसवाचिककायिकं यत् किञ्चित् पापं पुरुषाणां भवति ये प्रायश्चित्तं विना तेषां निवर्तन्ते तच् चेदम् अनवरततपःप्रवृत्तानां कथञ्चिद् उत्पद्यन्ते तथा विनैव प्रायश्चित्तं कृतेनैव नित्यप्रवृत्तेन तपसा तेषां तत् सर्वं क्षिप्रं नश्यति ॥ ११.२४० ॥

तपसैव विशुद्धस्य ब्राह्मणस्य दिवौकसः ।

इज्याश् च प्रतिगृह्णन्ति कामान् संवर्धयन्ति च ॥ ११.२४१ ॥

तपसेति । प्रायश्चित्ततपसा क्षीणकल्मषस्यैव ब्राह्मणस्य पुरोडाशादियागान् देवाः प्रतिगृह्णन्ति अभिलषितांश् चार्थान् पुष्णन्ति ॥ ११.२४१ ॥

प्रजापतिर् इदं शास्त्रं तपसैवासृजत् प्रभुः ।

तथैव वेदान् ऋषयस् तपसा प्रतिपेदिरे ॥ ११.२४२ ॥

प्रजापतिर् इति । हिरण्यगर्भः सकलजनोत्पत्तिस्थितिप्रभुर् अपि तपश्चरणपूर्वकम् एवैनं ग्रन्थम् अकरोत् । तथा ऋषयो वसिष्ठादयः तपसैव मन्त्रदमसम्पन्नाः ॥ ११.२४२ ॥

यद् एतत् तपसो देवा महाभाग्यं प्रचक्षते ।

सर्वस्यास्य प्रपश्यन्तस् तपसः पुण्यम् उद्भवम् ॥ ११.२४३ ॥

इत्य् एवं तपसो देवा इति । सर्वस्यास्य जगतो यत् शुभं जन्म तत् तपसः सकाशाद् इत्य् एवं देवाः पश्यन्तः एतत् तपसो मुलम् इदं सर्वम् इत्यादि तपोमाहात्म्यं प्रवदन्तीति समस्ता तपःस्तुतिः ॥ ११.२४३ ॥

वेदाभ्यासो ऽन्वहं शक्त्या महायज्ञक्रियाक्षमा ।

नाशयन्त्य् आशु पापानि महापातकजान्य् अपि ॥ ११.२४४ ॥

वेदाभ्यास इति । यथाशक्ति प्रत्यहं वेदाध्ययनं पञ्चमहायज्ञानुष्ठानम् अपराधमर्षणम् इत्य् एतानि पातकोत्पन्नानि अपि पापानि क्षिप्रं नाशयन्ति किम् उतान्यानीति । नित्यकर्मानुष्ठानस्यासंवेदितप्रतनुपापापक्षपणहेतुत्वज्ञापनार्थम् इदम् ॥ ११.२४४ ॥

यथैधस् तेजसा वह्निः प्राप्तं निर्दहति क्षणात् ।

तथा ज्ञानाग्निना पापं सर्वं दहति वेदवित् ॥ ११.२४५ ॥

यथैधांस् तेजसा वह्निः प्राप्तान् इति । यथाग्निः काष्ठानि प्राप्य क्षणेनैव तेजसा निःशेषेण दहति तथा ज्ञानाग्निना पापं सर्वं दहति वेदार्थज्ञः आत्मज्ञानस्य पापापक्षपणहेतुत्वज्ञापनार्थम् एतत् ॥ ११.२४५ ॥

इत्य् एतद् एनसाम् उक्तं प्रायश्चित्तं यथाविधि ।

अत ऊर्ध्वं रहस्यानां प्रायश्चित्तं निबोधत ॥ ११.२४६ ॥

इदानीं रहस्यप्रायश्चित्तान्य् आह **इतीति **॥ ११.२४६ ॥

सव्याहृतिप्रणवकाः प्राणायामास् तु षोडश ।

अपि भ्रूणहणं मासात् पुनन्त्य् अहर् अहः कृताः ॥ ११.२४७ ॥

सव्याहृतिका इति । भूर् भुवः स्वर् महर् जनस् तपः सत्यम् इत्य् एतत् समस्तव्याहृत्योङ्कारसहिताः षोडशप्राणायामाः ।

सव्याहृतीं सप्रणवां गायत्रीं शिरसा सह ।

त्रिः पठेद् आयतप्राणः प्राणायामः स उच्यते ॥

इति वसिष्ठलक्षिताः कुम्भपूरकरेचकविधानेन प्रत्यहं मासं कृता ब्रह्महत्यापापम् अप्य् अपिशब्दात् तत्सर्वातिदेशिकम् अप्य् अपनुदन्ति । तत्र बाह्याभ्यन्तरवाय्वोः प्रकोष्ठप्रवेशनिष्क्रमणनिरोधः कुम्भको बाह्येन वायुना कोष्ठपरिपूरणं पूरकः कोष्ठस्य वायोर् अनवरतोत्सर्गो रेचक इति द्विजातीनाम् एव पुंसां रहस्यप्रायश्चित्ताधिकारो न तु शूद्रस्त्रीजपहोमप्र्धान्यात् । रहस्यप्रायश्चित्तानाम्

अविदित्वा ऋषिच्छन्दो दैवतं योगम् एव वा ।

यो ऽध्यापयेज् जपेद् वापि पापीयान् जायते तु सः ॥

इति व्यासस्मरणात् प्रायश्चित्तविनियुतम् अर्थं देवतादि सत्त्वतत्त्वावबोधमात्रे वा अधिआरो न त्व् अन्यत्र विद्वत्तोपयुज्यते श्रौतकर्मपरिदर्शनादियोगे प्रयोगाधिकृतो कर्मान्तरगतविज्ञानोपयोगो ऽस्ति ॥ ११.२४७ ॥

कौत्सं जप्त्वाप इत्य् एतद् वासिष्ठं च प्रतीत्य् ऋचम् ।

माहित्रं शुद्ध्वत्यश् च सुरापो ऽपि विशुध्यति ॥ ११.२४८ ॥

कौत्सं जप्ताप इतीतिमाहेन्द्रम् इति । कुत्सेन ऋषिणा दृष्टम् अपनः शोशुचद् अधम् इत्य् एतत् सुक्तं वरिष्ठदृष्टं च प्रतिस्तोमेभिर् इत्य् एतस्य तृचं मर्हा इन्द्रो य ओजसेत्य् एतच् च सूक्तम् एतो न्व् इन्द्रं स्तवाम् एत्य् एताश् च शुद्धवत्य ऋचः प्रकृतं मासम् अहर् अहः षोडशकृत्वो जपित्वा सुरापो ऽप्य् अपिशब्दात् तत्साम्यादि देशिकाधिकृतो ऽपि विशुध्यति ॥ ११.२४८ ॥

सकृज् जप्त्वास्य वामीयं शिवसङ्कल्पम् एव च ।

अपहृत्य सुवर्णं तु क्षणाद् भवति निर्मलः ॥ ११.२४९ ॥

सकृद् इति । ब्राह्मणः सुवर्णम् अपहृत्यास्य वामस्येत्य् एतत् सूक्तं प्रकृतम् अहर् अहर् एकवारं जपित्वा शिवसङ्कल्पं च यज् जाग्रतो दूरम् उदैति दैवम् इत्य् एतत् जपित्वा क्षिप्रम् एव विपापो भवति ॥ ११.२४९ ॥

हविष्यान्तीयम् अभ्यस्य न तमं ह इतीति च ।

जपित्वा पौरुषं सूक्तं मुच्यते गुरुतल्पगः ॥ ११.२५० ॥

हविष्यान्तीयम् इति । हविष्यान्तम् अजरं न तमं हो न दुरितम् इति च इति मे मनः सहस्रशीर्षा पुरुष इत्य् एतानि सूक्तानि प्रकृतं मासं प्रत्यहम् अभ्यासेन जपित्वा गुरुदारगस् तत्पापम् अपहरति ॥ ११.२५० ॥

एनसां स्थूलसूक्ष्माणां चिकीर्षन्न् अपनोदनम् ।

अवेत्य् ऋचं जपेद् अब्दं यत् किञ्चेदम् इतीति वा ॥ ११.२५१ ॥

एनसाम् इति । स्थूलानां पापानां महापातकानां निर्हरणं कर्तुम् इच्छन् अव ते हेऌओ वरुण नमिभिर् इत्य् एताम् ऋचं यत् किञ्चेदं वरुणदेव्यै जन इत्य् एतां च संवत्सरं जपेत्

॥ ११.१५१ ॥

प्रतिगृह्याप्रतिग्राह्यं भुत्वा चान्नं विगर्हितम् ।

जपंस् तरत् स मन्दीयं पूयते मानवस् त्र्यहात् ॥ ११.२५२ ॥

प्रतिगृह्येति । निषिद्धप्रतिग्रहं सुरादि भुक्त्वा तरत् स मन्दी जपित्वा द्विजातिर् दिवसत्रयेण पवित्री भवति ॥ ११.२५२ ॥

सोमारौद्रं तु बह्वेनाः समाम् अभ्यस्य शुध्यति ।

स्रवन्त्याम् आचरन् स्नानम् अर्यम्णाम् इति च तृचम् ॥ ११.२५३ ॥

सोमारौद्रम् इति । अनेन पापकृत् सोमा रुद्रा धारयेथाम् असुर्यम् इत्य् एतत् सूक्तम् अर्यवणं वरुणं मित्रं चेत्य् एतां च ऋचं मासम् अहर् अहर् अभ्यस्य नद्यां स्नानं कुर्वन् शुध्यति

॥ ११.२५३ ॥

अब्दार्थम् इन्द्रम् इत्य् एतद् एनस्वी सप्तकं जपेत् ।

अप्रशस्तं तु कृत्वाप्सु मासम् आसीत भैक्षभुक् ॥ ११.२५४ ॥

अब्दार्थम् इति । अवशेषितत्वात् सर्वपापानाम् अन्यतमकारी इन्द्रं मित्रम् इत्य् एतत् सप्तकं षण्मासान् जपेत् मैथुनं चोदकमध्ये कृत्वा मासं भैक्षाशी स्यात् ॥ ११.२५५ ॥

मन्त्रैः शाकलहोमीयैर् अब्दं हुत्वा घृतं द्विजः ।

सुगुर्व् अप्य् अपहन्त्य् एनो जप्त्वा वा नम इत्य् ऋचम् ॥ ११.२५५ ॥

मन्त्रैर् इति । देवकृतस्यैनसो ऽवयजनम् असीत्यादिभिः काष्ठशकलहोमविनियुक्तैर् मन्त्रैः संवत्सरं घृतहोमं कृत्वा नम इद् उग्रम् इत्य् एतां ऋचं संवत्सरं जपित्वा महापातकम् अप्य् अपनुदति ॥ ११.२५५ ॥

महापातकसंयुक्तो ऽनुगच्छेद् गाः समाहितः ।

अभ्यस्याब्दं पावमानीर् भैक्षाहारो विशुध्यति ॥ ११.२५६ ॥

महापातकसंयुक्त इति । महापातकवान् संवत्सरं भैक्ष्यभुक् पावमानीः स्वादिष्ठयेत्याद्या ऋचो ऽभ्यस्य गवाम् अनुगमनं च गोवधव्रतोतप्ररियया संयातः कुर्वन् विशुध्यति ॥ ११.२५६ ॥

अरण्ये वा त्रिर् अभ्यस्य प्रयतो वेदसंहिताम् ।

मुच्यते पातकैः सर्वैः पराकैः शोधितस् त्रिभिः ॥ ११.२५७ ॥

अरण्य इति । यद् वा पराकत्रयेणापनीतपापः सन् अटव्यां त्रीन् वारान् वेदसंहितां संयमवान् आवर्त्य सर्वाणि पातकानि महापातकोपपातकादीन्य् अपि हन्ति ॥ ११.२५७ ॥

त्र्यहं तूपवसेद् युक्तस् त्रिर् अह्नो ऽभ्युपयन्न् अपः ।

मुच्यते पातकैः सर्वैस् त्रिर् जपित्वाघमर्षणम् ॥ ११.२५८ ॥

त्र्यहम् इति । त्रिषवणं स्नानं कुर्वन् प्रतिस्नानं जलमध्ये त्रीन् वारान् ऋतं च सत्यं चाभीद्धाद् इत्य् एतत् सूक्तम् जपन् समाहितस् त्र्यहम् उपवसेद् एवं कुर्वन् सर्वैर् महापातकादिभिः पापैर् मुच्यते ॥ ११.२५८ ॥

यथाश्वमेधः क्रतुराट् सर्वपापापनोदनः ।

तथाघमर्षणं सूक्तं सर्वपापापनोदनः ॥ ११.२५९ ॥

यथेति । यथाश्वमेधो यज्ञश्रेष्ठः सर्वपापविनाशकृद् एवम् अघमर्षणम् अपि सूक्तं सकलं कल्मषनाशनम् इति पूर्वार्थवादः ॥ ११.२५९ ॥

हत्वा लोकान् अपीमांस् त्रीन् अश्न्न्न् अपि यतस् ततः ।

ऋग्वेदं धारयन् विप्रो नैनः प्राप्नोति किञ्चन् ॥ ११.२६० ॥

**हत्वेति **। लोकत्रयान्तर्वर्ति सकलभूतजातम् अपि हत्वा चाण्डालादेर् अपि सकाशाद् अश्नन् ऋग्वेदम् अभ्यस्य न किञ्चिद् अपि पापं प्राप्नोति । इत्य् ऋग्वेदाभ्यासस्तुतिर् उत्तरार्थम् ॥ ११.२६० ॥

ऋक्संहितां त्रिर् अभ्यस्य यजुषां वा समाहितः ।

साम्नां वा सरहस्यानां सर्वपापैः प्रमुच्यते ॥ ११.२६१ ॥

ऋक्संहिताम् इति । ऋग्वेदसंहितां यजुर्वेदसंहितां वा साम्नां वा सारण्यकाधीतसामसंहितानां सामसामार्चिकं त्रीन् वारान् संयमवान् आवर्त्य सर्वपापान्य् अपहन्ति ॥ ११.२६१ ॥

यथा महाह्रदं प्राप्य क्षिप्तं लोष्टं विनश्यति ।

तथा दुश्चरितं सर्वं वेदे त्रिवृति मज्जति ॥ ११.२६२ ॥

**यथेति **। यथा बृहत्सरसि मृल्लोष्टं निपत्यैव विनाशम् एत्य् एवं सर्वं दुष्कृतम् ऋग्यजुःसामात्मकत्वेन त्र्यवयवैर् वेदे ऽन्तं नीयत इति पूर्वार्थवादः ॥ ११.२६२ ॥

ऋचो यजूंषि चाद्यानि सामानि विविधानि च ।

एष ज्ञेयस् त्रिवृद्वेदो यो वेदैनं स वेदवित् ॥ ११.२६३ ॥

त्रिवृत्त्वं वेदस्य निरूपयितुम् आह **ऋचो यजूंषि चाद्यानीति **। ऋचो यजूंषि चामुख्यानि संहितागतानि न तु ब्राह्मणम् अप्य् अधीतानि सामानि चार्चिकास्तोमिकादिभेदेनानेकप्रकाराणीत्य् एष त्रिवृद्वेदो बोद्धव्यो यश् चैनं वेदम् एवं त्रिवृतं वेद स वेदविन् नान्यः ॥ ११.२६३ ॥

आद्यं यत् त्र्यक्षरं ब्रह्म त्रयी यस्मिन् प्रतिष्ठिता ।

स गुह्यो ऽन्यस् त्रिवृद्वेदो यस् तं वेद स वेदवित् ॥ ११.२६४ ॥

अपरं त्रिवृत्त्वं वेदस्य दर्शयितुम् आह आद्यम् इति । अकारोकारमकाराक्षरत्रयसमाहाररूपेणोङ्काराख्यं ब्रह्म परब्रह्मवाचकत्वात् यस्मिन्न् ओङ्कारे ऋग्यजुःसामात्मिकात्रय्याश्रिता यथा शङ्कुना सर्वाणि पर्णानि संवर्णान्य् एवम् ओङ्कारे सर्वा वाचः संवर्णा इति श्रुतेः । स रहस्यरूपो परस् त्रिवृद्वेदो यश् चैनं वेद य एनं त्रिवृतं वेत्ति स वेदवित् ॥ ११.२६४ ॥

इति श्रीभट्टमाधवात्मजगोविन्दराजविरचितायां

**मन्वाशयानुसारिण्यां मनुटीकायां चतुर्णां जातीनाम् **

आचाराधाररूपिण्यां एकादशो ऽध्यायः ॥

अथ द्वादशो ऽध्यायः

चातुर्वर्ण्यस्य कृत्स्नो ऽयम् उक्तो धर्मस् त्वया ऽनघ ।

कर्मणां फलनिर्वृत्तिं शंस नस् तत्त्वतः पराम् ॥ १२.१ ॥

चातुर्वर्ण्यस्येति । हे अपाप ब्राह्मणादिवर्णचतुष्टयस्य सान्तरप्रभवस्यैषो ऽखिलो धर्मस् त्वयाभिहितः । अधुना कर्मणां शुभाशुभानां फलप्राप्तिं जन्मान्तरसम्भवानां परमार्थेनास्माकं ब्रूहीति ऋषिं महर्षयो भृगुम् आहुः ॥ १२.१ ॥

स तान् उवाच धर्मात्मा महर्षीन् मानवो भृगुः ।

अस्य सर्वस्य शृणुत कर्मयोगस्य निर्णयम् ॥ १२.२ ॥

इति । स मन्वपत्यं धर्मप्रधानो भृगुः अस्य सर्वस्य कर्मबन्धस्य फलनिश्चयं श्णुतेति तान् महर्षीन् आह ॥ १२.२ ॥

शुभाशुभफलं कर्म मनोवाग्देहसम्भवम् ।

कर्मजा गतयो नॄणाम् उत्तमाधममध्यमाः ॥ १२.३ ॥

शुभाशुभफलम् इति । मनोवाक्कायनिमित्तं सङ्कल्पाभिधानक्रियात्मकं यत् कर्म विहितप्रतिषिद्धरूपं सुखदुःखफलं तत् कर्महेतुकाश् च देवमनुष्यतिर्यगादिभावेनोत्कृष्टमध्यमापकृष्टाः मनुष्याणां जन्मान्तरप्राप्तयो भवन्ति ॥ १२.३ ॥

तस्येह त्रिधस्यापि त्र्यधिष्ठानस्य देहिनः ।

दशलक्षणयुक्तस्य मनो विद्यात् प्रवर्तकम् ॥ १२.४ ॥

**तस्येति । **तस्य शरीरसम्बन्धिनः कर्मणः उत्कृष्टमध्यमजघन्यरूपतया त्रिःप्रकारस्यापि मनोवाक्कायाश्रितस्य वक्ष्यमाणेन दशलक्षणेनैतस्य करणे मनः प्रवर्तयितृ जानीयान् न हि मनसा अकल्पितं किञ्चित् कर्तुं वक्तुंवा शक्यते ॥ १२.४ ॥

परद्रव्येष्व् अभिध्यानं मनसानिष्टचिन्तनम् ।

वितथाभिनिवेशश् च त्रिविधं कर्म मानसम् ॥ १२.५ ॥

एवं दशलक्षणत्वं कर्मणा दर्शयितुम् आह **परद्रव्येष्व् **इति । केन प्रकारेण परधनान्य् अपहरेयम् इत्य् एवं मनसा चान्यस्य विनाशाकाङ्क्षा नास्ति शास्त्रितं कर्मफलम् इत्य् एवं दुर्ग्रहश् चेत्य् एवं त्रिप्रकारम् अशुभफलं मानसं कर्म । एतद्विपरीतं परधनास्पृहा दया शाश्त्रितकर्मफलास्तित्वबुद्धिर् इत्य् एतच् छुभफलं शुभाशुभकर्मेत्य् उभयस्य प्रस्तुतत्वात् ॥ १२.५ ॥

पारुष्यम् अनृतं चैव पैशुन्यं चापि सर्वशः ।

असम्बद्धप्रलापश् च वाङ्मयं स्याच् चतुर्विधम् ॥ १२.६ ॥

पारुष्यम् इति । अप्रियाभिधानम् असत्यभाषणं सर्वत्र वक्त्रत्वं बाह्यस्यासत्यस्यापि निष्प्रयोजनम् अभिधानम् इत्य् एवं चतुःप्रकारम् अशुभफलं वाचिकं कर्म स्यात् तद्विपरीतं प्रियं सत्यं हितं शास्त्राभ्यास इत्य् एतत् शुभफलम् ॥ १२.६ ॥

अदत्तानाम् उपादानं हिंसा चैवाविधानतः ।

परदारोपसेवा च शारीरं त्रिविधं स्मृतम् ॥ १२.७ ॥

अदत्तानाम् इति । परस्वहरणम् अशास्त्रितहिंसा परदारगमनम् इत्य् एवं त्रिःप्रकारम् अशुभफलं शारीरम् । तद्विपरीतं दानं परित्राणम् इन्द्रियसंयमश् चेत्य् एतच् छुभफलम् ॥ १२.७ ॥

मानसं मनसैवायम् उपभुङ्क्ते शुभाशुभम् ।

वाचा वाचा कृतं कर्म कायेनैव च कायिकम् ॥ १२.८ ॥

मानसम् इति । मनसा यच् छुभम् अशुभं वा कर्म कृतं तत् फलं कर्मान्तरवशेन रात्र्यां जातो जातस् तस्या मनोद्वारेण सुखं दुःखरूपं क्षिप्रम् उपभुङ्क्ते । एवं वाचिकं शुभाशुभफलं च शरीरद्वारेणैव मृदुव्याधित्वादिनानुभवति ॥ १२.८ ॥

शरीरजैः कर्मदोषैर् याति स्थावरतां नरः ।

वाचिकैः पक्षिमृगतां मानसैर् अन्त्यजातिताम् ॥ १२.९ ॥

शरीरजैर् इति । श्वशूकरखरोष्ट्राणाम् इत्यादिना शारीरवाचिकमानसानां कर्मणां यो ऽभ्यन्तरप्राप्तिफलत्वम् अपि वक्ष्यत इदं स यदि प्रायशो धर्मं सेवते । धर्मम् अल्पशः दुरितबाहुल्याभिप्रायेण व्याख्येयम् । बाहुल्येन शारीरकर्मपापैः कृतैः स्थावरत्वं मनुष्यः प्राप्नोति । बाहुल्येन वाक्कृतैः पक्षित्वं मृगत्वम् । बाहुल्येन मनःकृतैश् चाण्डालादित्वं प्राप्नोति ॥ १२.९ ॥

वाग्दण्डो ऽथ मनोदण्डः कायदण्डस् तथैव च ।

यस्यैते निहिता वृद्धौ त्रिदण्डीति स उच्यते ॥ १२.१० ॥

वाग्दण्ड इति । यस्य वाङ्मनःकायिकानाम् अशुभानां सङ्कल्पव्यापारपरिहारेण बुद्धाव् अवस्थितं स त्रिदण्डी उच्यते, न तु दण्डत्रयसाधारणमात्रेणैव ॥ १२.१० ॥

त्रिदण्डम् एतन् निक्षिप्य सर्वभूतेषु मानवः ।

कामक्रोधौ सुसंयम्य ततः सिद्धिं निगच्छति ॥ १२.११ ॥

त्रिदण्डम् इति ।

वाग्दण्डो हन्ति विज्ञानं मनोदण्डं परां गतिम् ।

कर्मदण्डस् तु लोकांस् त्रीन् हन्याद् अपरिरक्षतः ॥

वाग्दण्डे मौनम् आतिष्ठेत् कर्मदण्डे त्व् अनश्नताम् ।

मानसस्य तु दण्डस्य प्राणायामो विधीयते ॥

त्रिदण्डं धारयेद् योगी शारीरं न तु वैणवम् ।

वाचिकं कायिअं चैव मानसं च यथाविधि ॥

इत्य् एषां वागादीनाम् अशुभानां सर्वभूतविषयं मनः संयमनं कृत्वा कामक्रोधौ चेत् तद्दमनार्थं मनुष्यो ऽपि नियम्य शुभफलावाप्तिं जातः न तु शरीरम् एव कर्माणि कुर्वन् न पश्यामः । तच् च नश्वरम् अतः को ऽसौ सिद्धिं प्राप्नोतीत्य् आह ॥ १२.११ ॥

यो ऽस्यात्मनः कारयित्वा तं क्षेत्रज्ञं प्रचक्षते ।

यः करोति तु कर्माणि स भूतात्मोच्यते बुधैः ॥ १२.१२ ॥

इति । यस्य लोकप्रसिद्धात्मनः शरीराख्यस्य यः कर्मप्रवर्तयिता तं क्षेत्रज्ञं विद्वांसः कथयन्ति यः पुनर् एष व्यापारं करोति । शरीराख्यं स पृथिव्यादिभूतमयत्वात् भूतात्मेति विद्वद्भिर् उच्यते ॥ १२.१२ ॥

जीवसञ्ज्ञो ऽन्तरात्मान्यः सहजः सर्वदेहिनाम् ।

येन वेदयते सर्वं सुखं दुःखं च जन्मसु ॥ १२.१३ ॥

जीवसञ्ज्ञ इति । शरीरक्षेत्रज्ञव्यतिरिक्तो ऽन्तःशरीरे ऽन्य आत्मार्थत्वाद् आत्मा जीवाख्यः सर्वक्षेत्रज्ञानां सहज आ मोक्षप्राप्तेस् ते च तेषाम् अधियोगत्वेन कारणभूतेन क्षेत्रज्ञः प्रतिजन्म सुखं दुःखं चानुभवत्य् एतच् चात्र मनो जीवशब्देन निर्दिष्टम् । येनेति करणविभक्तिनिर्देशाद् उत्तरश्लोके च ताव् उभौ मनान् क्षेत्रज्ञ एव चेति महच्छब्देन प्रत्यक्कर्मणा ।

बुद्धिर् मनोऽर्थविज्ञानं विकारः प्रथमस् तथा ।

पर्यायवाचकाः शब्दा महतः परिकीर्तिताः ॥

इति महात्मनः पर्यायत्वात् ॥ १२.१३ ॥

ताव् उभौ भूतसम्पृक्तौ महान् क्षेत्रज्ञ एव च ।

उच्चावचेषु भूतेषु स्थितं तं व्याप्य तिष्ठतः ॥ १२.१४ ॥

ताव् इति । तौ द्वौ मनःक्षेत्रज्ञौ पृथिव्यापस्तेजोवाय्वाकाशाख्यभूतसंयुक्तौ परमात्मानं वक्ष्यमाणम् उत्कृष्टावकृष्टेषु व्यवस्थितं व्याप्य तिष्ठतः परमात्मा वा सर्वस्य व्याप्यत्वात् तं व्याप्य तिष्ठत इत्य् उच्यते । तथा च व्यासः ।

द्वाव् इमौ पुरुषौ लोके क्षरश् चाक्षर एव च ।

क्षरः सर्वाणि भूतानि कूटस्थो ऽक्षर उच्यते ॥

उत्तमः पुरुषस् त्व् अन्यः परमात्मेत्य् उदाहृतः ।

यो लोकत्रयम् आविश्य बिभर्त्य् अव्यय ईश्वरः ॥

अक्षरः क्षेत्रज्ञः कूटस्थः त्वं च तस्या मोक्षप्राप्तेः कर्तृभोक्तृत्वानिवृत्त्या ॥ १२.१४ ॥

असङ्ख्या मूर्तयस् तस्य निष्पतन्ति शरीरतः ।

उच्चावचानि भूतानि सततं चेष्टयन्ति याः ॥ १२.१५ ॥

असङ्ख्या इति । तस्य परमात्मनः शरीरात् वेदान्तोक्तप्रकारेणाविद्यावशाद् वातेरिताद् उदधेर् ऊर्मय इवानन्ताः क्षेत्रज्ञात् प्रादुर्भवन्ति । ये क्षेत्रज्ञाद् उत्कृष्टापकृष्टानि शरीराणि सर्वदा कर्मसु प्रवर्तयन्ति ॥ १२.१५ ॥

पञ्चभ्य एव भूतेभ्यः प्रेत्य दुष्कृतिनां नृणाम् ।

शरीरं यातनार्थीय्म् अन्यद् उत्पद्यते ध्रुवम् ॥ १२.१६ ॥

पञ्चभ्य इति । शरीरं यातनार्थीयम् अन्यद् उत्पद्यते दृढम् । दुष्कृतिकारिणां मनुष्याणां पञ्चभ्य एव पृथिव्यादिभूतभागेभ्यः मात्राख्येभ्यो ऽन्यज् जरायुजादिशरीरव्यतिरिक्तं शरीरं पीडाप्रयोजनोत्पन्नं दृढं परलोक उच्यते ॥ १२.१६ ॥

तेनानुभूय ता यामीः शरीरेणेह यातनाः ।

तास्व् एव भूतमात्रासु प्रलीयन्ते विभागशः ॥ १२.१७ ॥

तेनेति । तेन शरीरेण ता यमसम्बन्धिन्यो यातना दुष्कृतिवतानुभूता न भवन्ति । तच् छरीरारम्भकाणि पृथिव्यादीनि भूतानि तेष्व् एव भूतभागेषु तन्मात्राख्येषु यथा स्वं प्रलीयन्ते ॥ १२.१७ ॥

सो ऽनुभूयासुखोदर्कान् दोषान् विषयसङ्गजान् ।

व्यपेतकल्मषो ऽभ्येति ताव् एवोभौ महौजसौ ॥ १२.१८ ॥

इति । स क्षेत्रज्ञो ऽसुखोदयानि प्रतिशब्दस्पर्शरूपरसगन्धाख्यविषयोपभोगजानि यमलोके दुःखान्य् अनुभूयानन्तरम् अपहतपाप्मा ताव् एव महत्परमात्मानौ महावीर्यौ द्वाव् आश्रयति ॥ १२.१८ ॥

तौ धर्मं पश्यन्तस् तस्य पापं चातन्द्रितौ सह ।

याभ्यां प्राप्नोति सम्पृक्तः प्रेत्येह च सुखासुकम् ॥ १२.१९ ॥

ताव् इति । तौ महत्परमात्मानाव् एव त्रस्तौ तस्य क्षेत्रज्ञस्य धर्माधर्मौ सह विचारतो याभ्यां युक्तो क्षेत्रज्ञः परलोकेहलोकयोः सुखदुःखं प्राप्नोति ॥ १२.१९ ॥

यथाचरति धर्मं स प्रायशो ऽधर्मम् अल्पशः ।

तैर् एव चावृतो भूतैः स्वर्गे सुखम् उपाश्नुते ॥ १२.२० ॥

यथाचरतीति । स क्षेत्रज्ञो यदि बाहुल्येन धर्मम् अनुतिष्ठति स्वल्पम् अधर्मं तदा तैर् एव पृथिव्यादिभूतैः उक्तः पाञ्चभौतिकशरीरः स्वर्गे सुखम् अनुभवति ॥ १२.२० ॥

यदि तु प्रायशो ऽधर्मं सेवते धर्मम् अल्पशः ।

तैर् भूतैः स परित्यक्तो यामीः प्राप्नोति यातनाः ॥ १२.२१ ॥

यदीति । यदि पुनर् असौ क्षेत्रज्ञो बाहुल्येनाधर्मम् अनुतिष्ठति स्वल्पं धर्मं तदा तैर् ऐहिकशरीरारम्भकैर् भूतैः परित्यक्तः पञ्चभ्य एव मात्राभ्य इत्याद्युक्तनीत्या कठिनशरीरो याम्या यातनाः प्राप्नोति । एतेनैतद् उक्तं भवति । अधर्मबाहुल्येन याम्या यातना अनुभवति । अधर्मबाहुल्येन पुनर् धर्मफलं परलोके ऽनुभूयाधर्मफलम् इहलोके एवोपभुङ्क्त इति ॥ १२.२१ ॥

यामीस् ता यातनाः प्राप्य स जीवो वीतकल्मषः ।

तान्य् एव पञ्चभूतानि पुनर् अप्य् एति भागशः ॥ १२.२२ ॥

यामीर् इति । स क्षेत्रज्ञः ता याम्या यातनास् तेन क्रूरशरीरेणानुभूय ततो ऽपहतपाप्मनान्ये ये जरायुजादिशरीरारम्भकान् पृथिव्यादिभूतभागान् पुनर् अप्य् एत्य् ऐहिकं शरीरं गृह्णातीत्य् अर्थः ॥ १२.२२ ॥

एता दृष्ट्वास्य जीवस्य गतीः स्वेनैव चेतसा ।

धर्मतो ऽधर्मतश् चैव धर्मे दध्यात् सदा मनः ॥ १२.२३ ॥

एता इति । अस्य क्षेत्रज्ञस्यैता धर्महेतुकाः स्वर्गादाव् इष्टानिष्टशरीरप्राप्तीः स्वबुद्ध्या ज्ञात्वा धर्मानुष्ठाने जानीयाद् यैर् युक्तो महात्मा इमान् सर्वान् स्थावरजङ्गमरूपान् पदार्थान् निःशेषेण व्याप्य स्थितः सर्वगत्वात् ॥ १२.२३ ॥

सत्त्वं रजस् तमश् चैव त्रीन् विद्याद् आत्मनो गुणान् ।

यैर् व्याप्येमान् स्थितो भावान् महान् सर्वान् अशेषतः ॥ १२.२४ ॥

सत्त्वम् इति । सत्त्वरजस्तमांसि त्रीणि वक्ष्यमाणलक्षणान्य् आत्मधर्मान् जानीयाद् यैर् उक्तो महात्मा इमान् सर्वान् स्थावरजङ्गमरूपान् पदार्थान् निःशेषेण व्याप्य स्थितः सर्वगतत्वात्

॥ १२.२४ ॥

यो य्दैषां गुणो देहे साकल्येनातिरिच्यते ।

स तदा तद्गुणप्रायं तं करोति शरीरिणम् ॥ १२.२५ ॥

इति । एषां सत्त्वादीनां मध्याद् यो गुणः पूर्वकर्मवशेन यस्मिन् काले ऽतिशयेन शरीरे अधिको भवति स गुणस् तस्मिन् काले तं क्षेत्रज्ञं तं वशवर्तिनं करोति । ततश् च तत्सार्धम् एवाधर्म प्रवर्तते ॥ १२.२५ ॥

सत्त्वं ज्ञानं तमो ऽज्ञानं रागद्वेषौ रजः स्मृतम् ।

एतद् व्याप्तिमद् एतेषां सर्वभूताश्रितं वपुः ॥ १२.२६ ॥

इदानीं सत्त्वादीनां लक्षणम् आह सत्त्वम् इति । यथावद् वस्तुस्वभावो ज्ञानं तत् सत्त्वम् । एतद् विपरीतम् अज्ञानं तत् तमः विषयाभिलाषमान स सर्वे रज इमे (?) स सर्वप्राण्यवच्छिन्न एषां सत्त्वादीनां व्यभिचारी स्वभावः ॥ १२.२६ ॥

तत्र यत् प्रीतिसंयुक्तं किञ्चिद् आत्मनि लक्षयेत् ।

प्रशान्तम् इव शुद्धाभं सत्त्वं तद् उपधारयेत् ॥ १२.२७ ॥

अन्यान्य् अप्य् एवंलक्षणान्य् आह तत्रेति । तस्मिन्न् आत्मनि विनैव प्रीतिहेतुना यत् संवेदनं प्रीतियुक्तं अस्तमितक्लेशम् अप्रकाशरूपम् अनुभवेत् तत् सत्त्वं जानीयत् ॥ १२.२७ ॥

यत् तु दुःखसमायुक्तम् अप्रीतिकरम् आत्मनः ।

तद् रजो ऽप्रतिपं विद्यात् सततं हर्तृ देहिनाम् ॥ १२.२८ ॥

यद् इति । यत् पुनः संवेदनं दुःखात् विद्वन्मन एव सत्त्ववच् छुद्धये आत्मप्रीतेर् अजनकं सर्वदा च शरीरिणं विषयस्पृहोत्पादकं तद् दुर्निवारत्वाद् रजोनविद्यमानप्रतिपक्षे रजो जानीयात् ॥ १२.२८ ॥

यत् तु स्यान् मोहसंयुक्तम् अव्यक्तं विषयात्मकम् ।

अप्रतर्क्यम् अविज्ञेयं तमस् तद् उपधारयेत् ॥ १२.२९ ॥

यद् इति । यत् पुनः सदसद्विवेकशून्यम् अस्पष्टविषयाकारासत्स्वभावम् अतर्कणीयस्वरूपम् अन्तःकरणाभ्यां विज्ञातुम् अशक्यं तत् तमो जानीयाद् एवं च स्वरूपावधारणप्रयोजनं सत्त्ववृत्त्यवस्थितौ यत्नवान् स्याद् इति ॥ १२.२९ ॥

त्रयाणाम् अपि चैतेषां गुणानां यः फलोदयः ।

अग्र्यो मध्यो जघन्यश् च तं प्रवक्ष्याम्य् अशेषतः ॥ १२.३० ॥

त्रयाणाम् इति । एषां सत्त्वादीनां त्रयाणाम् अपि यथाक्रमम् उत्कृष्टमध्यमनिकृष्टकार्योत्पत्तिस् तां निःशेषेण वक्ष्यामि ॥ १२.३० ॥

वेदाभ्यासस् तपो ज्ञानं शौचम् इन्द्रियनिग्रहः ।

धर्मक्रियात्मचिन्ता च सात्त्विकं गुणलक्षणम् ॥ १२.३१ ॥

वेदाभ्यास इति । वेदाभ्यासकृच्छ्राद्याचरणं शास्त्रावबोधो मृद्वारिशौचम् इन्द्रियसंयमो दानादिधर्मानुष्ठानं चात्मध्यानम् इत्य् एतत् सत्त्वाख्यगुणसम्बन्धिकार्यम् ॥ १२.३१ ॥

आरम्भरुचिताधर्यम् असत्कार्यपरिग्रहः ।

विषयोपसेवा चाजस्रं राजसं गुणलक्षणम् ॥ १२.३२ ॥

आरम्भरुचितेति । फलार्थं कर्मारम्भायासकृत्ता स्वल्पे ऽप्य् अनर्थे वैक्लव्यं शास्त्रविरुद्धकर्माचरणम् अनवरतं शब्दादिविषयोपभोग इत्य् एतत् रजोऽभिधानगुणसम्बन्धिकार्यम् ॥ १२.३२ ॥

लोभः स्वप्नो ऽघृतिः क्रौर्यं नास्तिक्यं भिन्नवृत्तिता ।

याचिष्णुता प्रमादश् च तामसं गुणलक्षणम् ॥ १२.३३ ॥

लोभ इति । अर्थपरत्वं निद्रालुता कातर्यं नैर्घृण्यं धर्माद्यभावबुद्धिर् आचारलोपो याचनशीलत्वं धर्मादिष्व् अनवधानम् इत्य् एतत् तमोऽभिधानगुणकार्यम् ॥ १२.३३ ॥

त्रयाणाम् अपि चैतेषां गुणानां त्रिषु तिष्ठताम् ।

इदं सामासिकं ज्ञेयं क्रमशो गुणलक्षणम् ॥ १२.३४ ॥

त्रयाणाम् इति । एषां सत्त्वादीनां त्रयाणाम् अपि गुणानां त्रिषु कालेषु भूतभव्यभविष्यद्वर्तमानेषु वर्तमानानाम् इदं वक्ष्यमाणसापेक्षिकं क्रमेण गुणलक्षणं विज्ञेयम् ॥ १२.३४ ॥

यत् कर्म कृत्वा कुर्वंश् च करिष्यंश् चैव लज्जति ।

तज् ज्ञेयं विदुषा सर्वं तामसं गुणलक्षणम् ॥ १२.३५ ॥

यत् कर्म कृत्वा कुर्वंश् च करिष्यंश् चैव लज्जत इति । यत् कर्मातीतवर्तमानानागतकालानाम् अन्यतमम् अस्मिन् काले द्वयोर् वा कालयोः सर्वेषु कालेषु कर्तुर् लज्जां जनयति तत् सर्वं शास्त्रविदा तमःकार्यत्वात् तमोऽभिधानगुणलक्षणं बोद्धव्यम् ॥ १२.३५ ॥

येनास्मिन् कर्मणा लोके ख्यातिम् इच्छन्ति पुष्कलाम् ।

न च शोचत्य् असम्पत्तौ तद् विज्ञेयं तु राजसम् ॥ १२.३६ ॥

येनेति । इह लोके महतीं कीर्तिं प्राप्नुयाम् इत्य् एवम् अर्थम् एव यत् कर्म करोति न च परलोकार्थं न च तत्कर्मसम्पत्तौ दुःखी भवति तद् रजःकार्यं विज्ञेयम् ॥ १२.३६ ॥

यत् सर्वेणेच्छति ज्ञातुं यन् न लज्जति चाचरन् ।

येन तुष्यति चात्मास्य तत् सत्त्वगुणलक्षणम् ॥ १२.३७ ॥

यद् इति । यत् सर्वात्मना ज्ञानविषया इच्छा भवति यच् च कर्म कुर्वन् कालत्रये ऽपि न लज्जति येन कर्मणाचर्यमाणेनास्य तुष्टिर् जायते तत् सत्त्वाख्यस्य गुणस्य लक्षणम् ॥ १२.३७ ॥

तमसो लक्षणं कामो रजसस् त्व् अर्थ उच्यते ।

सत्त्वस्य लक्षणं धर्मः श्रैष्ठ्यम् एषां यथोत्तरम् ॥ १२.३८ ॥

तमस इति । सत्त्वस्य लक्षणं धर्मः श्रैष्ठ्यम् एषां यथाक्रमम् । कामप्रधानता तमसो लक्षणं धर्मनिष्ठता सत्त्वलक्षणम् एषां च कामादीनां परस्परश्रेष्ठत्वम् । कामाद् अर्थः श्रेयान् अर्थमूलत्वात् कामस्य तयोर् अल्पो ऽपि धर्मः प्रधानं सत्त्वात् तन्मूलात्

॥ १२.३८ ॥

येन यांस् तु गुणेनैषां संसारान् प्रतिपद्यते ।

तान् समासेन वक्ष्यामि सर्वस्यास्य यथाक्रमम् ॥ १२.३९ ॥

येनेति । एषां सत्त्वादीनां गुणानां मध्याद् येन गुणेन सेव्यमानेन या गतीः पुरुषः प्राप्नोति ताः सर्वस्य जगतो गतीः सङ्क्षेपतः क्रमेण वक्ष्यामि ॥ १२.३९ ॥

देवत्वं सात्त्विका यान्ति मनुष्यत्वं च राजसाः ।

तिर्यक्त्वं तामसा नित्यम् इत्य् एषा त्रिविधा गतिः ॥ १२.४० ॥

**देवत्वम् **इति । ये सत्त्ववृत्त्यवस्थितास् ते देवत्वं प्राप्नुवन्ति । ये पुना रजोवृत्तिस्थास् ते मनुष्यत्वं ये तमोवृत्तिस्थास् ते नित्यं तिर्यक्त्वम् इति ॥ १२.४० ॥

त्रिविधा त्रिविधैषा तु विज्ञेया गौणिकी गतिः ।

अधमा मध्यमाग्र्या च कर्मविद्या विशेषतः ॥ १२.४१ ॥

**त्रिविधेति । **येयं सत्त्वादिगुणनिमित्ता त्रिविधा गतिः उक्ता सा देशकालादिभेदेन संसारहेतुभूतकर्मभेदात् कर्मकर्माङ्गभूतदेवतादिविशेषाच् चोत्तममध्यमभेदेन पुनस् त्रिविधा बोद्धव्या ॥ १२.४१ ॥

स्थावराः कृमिकीटाश् च मत्स्याः सर्पाः सकच्छपाः ।

पशवश् च मृगाश् चैव जघन्या तामसी गतिः ॥ १२.४२ ॥

स्थावरा इति । स्थावरा वृक्षादयः कृमयः सूक्ष्मा भूशरणाः प्राणिनस् तेभ्य एव स्थूलाः कीटास् तथा मत्स्यसर्पकूर्मपशुमृगा इत्य् एषां तमोनिमित्ता निकृष्टा गतिः ॥ १२.४२ ॥

हस्तिनश् च तुरङ्गाश् च शूद्रा म्लेच्छाश् च गर्हिताः ।

सिंहा व्याघ्रा वराहाश् च मध्यमा तामसी गतिः ॥ १२.४३ ॥

हस्तिन इति । हस्त्यश्वशूद्रम्लेच्छसिंहव्याघ्रशूकर इत्य् एता तमोनिमित्ता मध्यमा गतिः गर्हिता इति म्लेच्छानां स्वरूपानुवादः ॥ १२.४३ ॥

चारणाश् च सुपर्णाश् च पुरुषाश् चैव दाम्भिकाः ।

रक्षांसि च पिशाचाश् च तामसीषूत्तमा गतिः ॥ १२.४४ ॥

चारणा इति । चारणा नटादयः सुपर्णो गरुत्माख्यः पक्षिविशेषो व्याजधर्मकारिणश् च पुरुषा रक्षःप्रिशाचा इत्य् एषा तामसेषु मुनुष्येषूत्कृष्टा गतिः ॥ १२.४४ ॥

झल्ला मल्ला नटाश् चैव पुरुषाः शस्त्रवृत्तयः ।

द्यूतपानप्रसक्ताश् च जघन्या राजसी गतिः ॥ १२.४५ ॥

झल्ला मल्ला नटाश् चैव पुरुषाः कुवृत्तय इति । झल्ला मल्लाश् च राजन्याद् व्रात्याद् इति झल्लमल्लनटा उक्ताः शास्त्रबाह्या अतो ऽविनेयाश् च पुरुषा द्यौतमद्यशौण्डाश् चेत्य् अन्ते रजोनिमित्ता निकृष्टा गतिः ॥ १२.४५ ॥

राजानः क्षत्रियाश् चैव राज्ञां चैव पुरोहिताः ।

वादयुद्धप्रधानाश् च मध्यमा राजसी गतिः ॥ १२.४६ ॥

राजान इति । राजानो ऽभिषिक्ताश् च क्षत्रियाश् चानभिषिक्ता राजपुरोहिताः शास्त्रार्थकलहप्रियाः प्रिययुद्धश् चेत्य् एषा राजनिमित्ता राजसी गतिर् मध्यमा ॥ १२.४६ ॥

गन्धर्वा गुह्यका यक्षा विबुधानुचराश् च ये ।

तथैवाप्सरसः सर्वा राजसीषूत्तमा गतिः ॥ १२.४७ ॥

**गन्धर्वा **इति । गन्धर्वा गुह्यका यक्षा जातिविशेषा ये देवानुयायिनो विद्याधरादयो ऽप्सरसश् च देवगणिका उदकोद्भवा अन्याश् चेत्य् एषां राजसेषु मनुष्येषूत्कृष्टा गतिः ॥ १२.४७ ॥

तापसा यतयो विप्रा ये च वैमानिका गणाः ।

नक्षत्राणि च दैत्याश् च प्रथमा सात्त्विकी गतिः ॥ १२.४८ ॥

**तापसा **इति । वानप्रस्था भिक्षवो ब्राह्मणाः पुष्पकादिविमानचारिणो ये देवविशेषाः नक्षत्राणि दैत्याख्या जातिविशेषाश् चेत्य् एषा सत्त्वनिमित्ता निकृष्टा गतिः तापस्यादिकर्माश्रयत्वात् सापि सत्त्वादिगुणनिमित्तकम् एव इति चेत् तत् तापसा इत्य् अनेन दर्शयति । न तु तापसजातियतिजातिर् वा विद्यते – सन्ति वैतिहासिकदृष्ट्या मेर्वादिवासिनो जातिविशेषा यतिप्रभृतयः । श्रूयते च “इन्द्रो यतीन् सालावृकेभ्यः प्रायच्छत्” इति ॥ १२.४८ ॥

यज्वान ऋषयो देवा वेदा ज्योतींषि वत्सराः ।

पितरश् चैव साध्याश् च द्वितीया सात्त्विकी गतिः ॥ १२.४९ ॥

यज्वान इति । यागशीला र्षयो देवा वेदाभिमानिनश् च देवताविग्रहवत्यो यथेतिहासेषु ब्रह्मसभायां वर्ण्यन्ते ते ज्योतींषि ध्रुवादीनि संवत्सरा इतिहासदृष्ट्या विग्रहवन्तः । सोमपादयः पितरः साध्याश् च देवविशेषा इत्य् एषा सत्त्वनिमित्ता मध्यमा गतिः ॥ १२.४९ ॥

ब्रह्मा विश्वसृजो धर्मो महान् अव्यक्तम् एव च ।

उत्तमां सात्त्विकीम् एतां गतिम् आहुर् मनीषिणः ॥ १२.४९ ॥

ब्रह्मा विश्वसृजो धर्मो महान् अव्यक्तम् एव चेति । हिरण्यगर्भो मरीच्यादयः प्रजापतयो धर्मो विग्रहवान् महदाख्यप्रसिद्धतत्त्वविशेषाधिष्ठात्री देवता विग्रहवत्य् अव्यक्तस्य प्रधानस्य सम्बन्धिनीत्य् एतां सत्त्वनिमित्ताम् उत्कृष्टां गतिं विद्वांस आहुः

॥ १२.४९ ॥

एष सर्वः समुद्दिष्टस् त्रिःप्रकारस्य कर्मणः ।

त्रिविधस् त्रिविधः कृत्स्नः संसारः सार्वभौतिकः ॥ १२.५० ॥

एष इति । एष वाङ्मनःकायाख्यसाधनत्रयभेदेन त्रिविधस्य कर्मणः सत्त्वरजस्तमोगुणभेदेन त्रिरूपः सर्वप्राणिगतः समग्रो गतिविशेषः कार्त्स्न्येन उक्तः सार्वभौतिक इत्य् उपादानात् अनुक्ता अप्य् अत्र गतयः प्रदर्शनार्थत्वेन सङ्गृहीता बोद्धव्याः

॥ १२.५० ॥

इन्द्रियाणां प्रसङ्गेन धर्मस्यासेवनेन च ।

पापान् संयान्ति संसारान् अविद्वांसो नराधमाः ॥ १२.५२ ॥

इन्द्रियाणाम् इति । इन्द्रियाणां विषयप्रसङ्गेन निषिद्धाचरणेन कुत्सिताः संसृतीमूढा अकृतप्रायश्चित्ता मनुष्यापसदः प्राप्नुवन्ति ॥ १२.५२ ॥

यां यां योनिं तु जीवो ऽयं येन येनेह कर्मणा ।

क्रमशो याति लोके ऽस्मिंस् तत् तत् सर्वं निबोधत ॥ १२.५३ ॥

इति । क्षेत्रज्ञो येन येनेह कर्मणा कृतेन यां यां योनिम् अस्मिंल् लोके प्राप्नोति तत् कर्मफलं सर्वक्रमेण शृणुतेति निषिद्धाचरणफलाभिधानोपन्यासार्थः श्लोकः ॥ १२.५३ ॥

बहून् वर्षगणान् घोरान् नरकान् प्राप्य तत्क्षयात् ।

संशारान् प्रतिपद्यन्ते महापातकिनस् त्व् इमान् ॥ १२.५४ ॥

बहून् इति । ब्रह्महत्यादिमहापातककारिणो बहून् वर्षसमूहान् भीषणान् नरकान् प्राप्य दुष्कृतक्षयाद् ईषद्दुष्कृतशेषेणेमा वक्ष्यमाणा योनीः प्राप्नुवन्ति ॥ १२.५४ ॥

श्वसूकरखरोष्ट्राणां गोऽजाविमृगमक्षिणाम् ।

चण्डालपुक्कसानां च ब्रह्महा योनिम् ऋच्छति ॥ १२.५५ ॥

श्वशूकरखरोष्ट्राणाम् इति । श्वशूकरखरोष्ट्रगोच्छागैडकमृगपक्षिनां चाण्डालानां शूद्रेण ब्राह्मणीजातानां सम्बन्धिनीं जातिं ब्रह्महा प्राप्नोति ॥ १२.५५ ॥

कृमिकीटपतङ्गानां विड्भुजां चैव पक्षिणाम् ।

हिंस्राणां चैव सत्त्वानां सुरापो ब्राह्मणो व्रजेत् ॥ १२.५६ ॥

कृमिकीटपतङ्गानाम् इति । कृमिकीटशलभानां पुरीषबक्षिणां च पक्षिणां हिंसनशीलानां च व्याघ्रादीनां प्राणिनां च सम्बन्धिनीं योनिं सुरापो ब्राह्मणो याति ॥ १२.५६ ॥

लूताहिसरटानां च तिरश्चां चाम्बुचारिणाम् ।

हिंस्राणां च पिशाचानां स्तेनो विप्रः सहस्रशः ॥ १२.५७ ॥

लूताहिसरटानाम् इति । वृश्चिकसर्पकृकलासानां जलचारिणां चेति तिरश्चां मकरादीनां हिंसनशीलानां च पिशाचानां सम्बन्धिनीं ब्राह्मणसुवर्णापहारी ब्राह्मणः प्राप्नोति

॥ १२.५७ ॥

तृणगुल्मलतानां च क्रयादां दंष्ट्रिणाम् अपि ।

क्रूरकर्मकृतां चैव शतशो गुरुतल्पगः ॥ १२.५८ ॥

तृणगुल्मलतानाम् इति । तृणानां दूर्वादीनां गुल्मानाम् अप्रकाण्डानां कुप्यकादीनाम् आममांसभक्षिणां गृध्रादीनां दंष्ट्रिणां सिंहादीनां क्रूरकर्मकारिणां शबरादीनां सम्बन्धिनीं जातिं शतं वारान् गुरुदाराभिगामी प्राप्नोति ॥ १२.५८ ॥

हिंस्रा भवन्ति क्रव्यादाः कृमयो ऽमेध्यभक्षिणः ।

परस्परादिनः स्तेनाः प्रेतान्त्यस्त्रीनिषेविणः ॥ १२.५९ ॥

हिंस्रा इति । ये प्राणिवधशीलास् ते आममांसभक्षा गृध्रादयो भवन्ति । अभक्ष्यभक्षिणो ये ते कृमयो जायन्ते । ये महापातकव्यतिरिक्ताः चौरास् ते परस्परभक्ष्या मत्स्यादय उत्पद्यन्ते । ये चण्डालादिस्त्रीगामिनस् ते प्रेताख्याः प्राणिविशेषा भवन्ति ॥ १२.५९ ॥

संयोगं पतितैर् गत्वा परस्यैव च योषितम् ।

अपहृत्य च विप्रस्वं भवति ब्रह्मराक्षसः ॥ १२.६० ॥

संयोगम् इति । यावता कालेन पतितो भवति तावन्तं कालं ब्रह्मादिभिश् चतुर्भिः सह संसर्गं कृत्वा परस्त्रियं च गत्वा ब्राह्मणस्वं च सुवर्णाद् अन्यद् अपहृत्यैकेन ब्रह्मराक्षसाख्यो भूतविशेषो जायते ॥ १२.६० ॥

मणिमुक्ताप्रवालानि हृत्वा लोभेन मानवः ।

विविधानि च रत्नानि जायते हेमकर्तृषु ॥ १२.६१ ॥

मणिमुक्ताप्रवालानीति । मणीन् पद्मरागादीन् मुक्ताविद्रुमानि च विविधानि रत्नानि वैदूर्यहीरकादीनि लोभेनात्मीयभ्रमादिना सुवर्णकारयोनौ जायते । इत्य् एतच् च हेमकाराख्यं पक्षिणम् आहुः ॥ १२.६१ ॥

धान्यं हृत्वा भवत्य् आखुः कांस्यं हंसो जलं प्लवः ।

मधु दंशः पयः काओ रसं श्वा नकुलो घृतम् ॥ १२.६२ ॥

धान्यम् इति । धान्यम् अपहृत्य मूषको भवति । कांस्यं हृत्वा हंसो जलं सेकाद्यर्थे हृत्वा प्लवशकटबिलाख्यः पक्षी यत् तु स्वे काकोवारीति तत्पानार्थं स्तोककस्यापि परातिशयदर्शनान् माक्षिकं हृत्वा दंशाख्यः कीटो जायते । क्षीरं हृत्वा काको भवति । रसम् इक्ष्वामलकादिसम्बन्धिनं हृत्वा श्वान उत्पद्यते । गुडलवणादीनां पृथग् उपादानात् घृतं हृत्वा नकुलो भवति ॥ १२.६२ ॥

मांसं गृध्रो वपां मद्गुस् तैलं तैलपकः खगः ।

चीरीवाकस् तु लवणं बलाका शकुनिर् दधि ॥ १२.६३ ॥

मांसम् इति । मांसं हृत्वा गृध्राख्यः पक्षी भवति । मेदो हृत्वा मङ्गाख्यः पक्षी भवति । तैलं हृत्वा तैलपकाख्यः पक्ष्य् उत्पद्यते । लवणं हृत्वा चीरीवाकाख्यः उच्चैःस्वरः कीटो भवति । दधि हृत्वा बलाकाख्यः पक्षी जायते ॥ १२.६३ ॥

कौशेयं तित्तिरिर् हृत्वा क्षौमं ह्र्त्वा तु दर्दुरः ।

कार्पासतान्तवं क्रौञ्चो गोधा गां वाग्गुदो गुडम् ॥ १२.६४ ॥

कौशेयम् इति । कौश्कीटविवृतं परं हृत्वा तित्तिर्याख्यः पक्षी जायते । क्षुमावृत्तं चासौ हृत्वा मण्डूको जायते । कार्पासं तन्तुमयं पट्टं हृत्वा क्रौञ्चाख्यः पक्ष्य् उत्पद्यते । गां हृत्वा गोधाख्यः प्राणी भवति । गुडं हृत्वा वाग्दोमन्थाख्यः पक्षी भवति ॥ १२.६४ ॥

छुच्छुन्दरीः शुभान् गन्धान् पत्रशाकं तु बर्हिणः ।

श्वावित् कृतान्नं विविधम् कृतान्नं तु शल्यकः ॥ १२.६५ ॥

छुच्छुन्दरिर् इति । सुरभिद्रव्याणि कर्पूरादीनि हृत्वा छुच्छुन्दरी राजदुहिताख्या मूषिका भवति । पत्रात्मकं शाकं सर्षपादि हृत्वा मयूरो जायते ॥ १२.६५ ॥

बको भवति हृत्वाग्निं गृहकारी ह्य् उपस्करम् ।

रक्तानि हृत्वा वासांसि जायते जीवजीवकः ॥ १२.६६ ॥

बक इति । अग्निं हृत्वा बकाख्यः पक्षी जायते । गृहोपयोगिघटमुशलादि हृत्वा गृहकारी च रूढमक्षिकाख्यः कीटो भवति । कुसुभादिरक्तानि वासांसि हृत्वा जीवजीवकाख्यः पक्षी भवति

॥ १२.६६ ॥

वृको मृगेभं व्याघ्रो ऽश्वं फलमूलं तु मर्कटः ।

स्त्रीम् ऋक्षः स्तोकको वारि यानान्य् उष्ट्रः पशून् अजः ॥ १२.६७ ॥

वृक इति । मृगहस्तिनं वा हृत्वा वृकाख्यो प्राणि भवति । अश्वं हृत्वा व्याघ्रो भवति । फलमूले हृत्वा मर्कटो जायते । स्त्रियं हृत्वा ऋक्षो वानरविशेषो भवति । पानार्थम् उदकं ह्र्त्वा स्तोककश् चातको ऽत्यन्तं पिपासुः पक्षी उत्पद्यते । यानानि गन्त्र्यादीनि हृत्वा उष्ट्रो भवति । पशून् हृत्वा छागो जायते ॥ १२.६७ ॥

यद् वा तद् वा परद्रव्यम् अपहृत्य बलान् नरः ।

अवश्यं याति तिर्यक्त्वं जग्ध्वा चैवाहुतिं हविः ॥ १२.६८ ॥

यद् इति । यः किञ्चिद् असारम् अपि परधनम् इच्छातो मनुष्यो ऽपहृत्य दत्तावदानादिकं च पुरोडाशाद्य् अशित्वा निश्चित्तं तिर्यक्त्वं प्राप्नोति ॥ १२.६८ ॥

स्त्रियो ऽप्य् एतेन कल्पेन हृत्वा दोषम् अवाप्नुयुः ।

एतेषाम् एव जन्तूनां भार्यात्वम् उपयान्ति ताः ॥ १२.६९ ॥

स्त्रिय इति । स्त्रियो ऽप्य् अनेन कल्पेन रूपेणेच्छातः परस्वंहृत्वा पापं प्राप्नुवन्ति । तेन च पापेनोक्तजन्तुस्त्रीत्वं ताः प्रपद्यन्ते ॥ १२.६९ ॥

स्वेभ्यः स्वेभ्यस् तु कर्मभ्यश् च्युता वर्णा ह्य् अनापदि ।

पापान् संसृत्य संसारान् प्रेष्यतां यान्ति दस्युषु ॥ १२.७० ॥

एवं निषिद्धाचरणफलाण्य् अभिधायाधुना विहिताकरणविपाकम् आह स्वेभ्यः स्वेभ्य इति । ब्राह्मणादय आपदं विना अध्ययनादिकर्मत्यागिनो वक्ष्यमाणाः कुत्सिता योनीः प्राप्य ततो जन्मान्तरे शत्रुषु दासत्वं प्राप्नुवन्ति ॥ १२.७० ॥

वान्ताश्य् उल्कामुखः प्रेतो विप्रो धर्मात् स्वकाच् च्युतः ।

अमेध्यकुणपाशी च क्षत्रियः कूटपूत्नः ॥ १२.७१ ॥

वान्ताशीति । ब्राह्मणः भ्रष्टस्वकर्माग्निपिशाचो नाम भूतविशेषो ज्वालामुखः छर्दिभुग् भवति । क्षत्रियः पुनः भ्रष्टकर्मा पूतनाख्यः पिशाचविशेषो गन्धघोणपुरीषसर्वभुक् जायते ॥ १२.७१ ॥

मैत्राक्षिज्योतिकः प्रेतो वैश्यो भवति पूयभुक् ।

चैलाशकश् च भवति शूद्रो धर्मात् स्वकाच् च्युतः ॥ १२.७२ ॥

चैलाश इति । वैश्यो भ्रष्टकर्मा मैत्राख्यो ज्योतिकनामाश्रयार्थम् अपि छिद्रन्यस्तदृष्टिपिशाचविशेषपूयभुक् जन्मान्तरे भवति । शूद्रः पुनः स्वकर्माद् भ्रष्टः चैलाशकाख्यः कीटश् चेला उत्पद्यन्ते तद्भक्षश् च भवति ॥ १२.७२ ॥

यथा यथा निषेवन्ते विषयान् विषयात्मकाः ।

तथा तथा कुशलता तेषां तेषूपजायते ॥ १२.७३ ॥

यथा यथेति । शब्दादिविषयोपभोगवर्धका यथा विषयोपभोगाभ्यासं कुर्वन्ति तथा तथा विषयेष्व् एव तेषां प्रावीण्यम् एकरसीभावो जायते ॥ १२.७३ ॥

ते ऽभ्यासात् कर्मणां तेषां पापानाम् अल्पबुद्धयः ।

सम्प्राप्नुवन्ति दुःखानि तासु तास्व् इह योनिषु ॥ १२.७४ ॥

ततश् च कर्मणाम् इति । ते ऽल्पप्राज्ञा यावद् यावन् निषिद्धविषयोपभोगाभ्यासं कुर्वन्ति तावत् तावद् अभ्यासतारतम्यापेक्षया तासु तासु तिर्यगादिजातिषु दुःखम् अनुभवति ॥ १२.७४ ॥

तामिस्रादिषु चोग्रेषु नरकेषु विवर्तनम् ।

असिपत्रवनादीनि बन्धच्छेदनानि च ॥ १२.७५ ॥

तामिस्रादिष्व् इति । तामिस्रादिषु चतुर्थाध्यायोक्तेषु घोरेषु परिलुण्ठनं प्राप्नुवन्ति । असिपत्रवनादींश् च चतुर्थाध्यायोक्तांश् च बन्धनच्छेदेनात्मकान् नरकान् प्राœनुवन्ति इति पूर्ववाक्यादिहोत्तरत्र चानुषज्जते ॥ १२.७५ ॥

विविधाश् चैव सम्पीडाः काकोलूकश् च भक्षणम् ।

करम्भवालुकातापान् कुम्भीपाकांश् च दारुणान् ॥ १२.७६ ॥

विविधा इति । नानाप्रकाराः क्रकपाटनादिकाः पीडाः काकोलूकैश् च भक्षणं तप्तककरम्भसिकताभितापान् स्थालीषु वनानि दुःखेन सोढुं शक्यानि प्राप्नुवन्ति ॥ १२.७६ ॥

सम्भवांश् च वियोनीषु दुःखप्रायासु नित्यशः ।

शीतातपाभिघातांश् च विविधानि भयानि च ॥ १२.७७ ॥

**सम्भवान् **इति । तिर्यगादिषु जातिषु नित्यं दुःखबहुलासु जन्मानि प्राप्नुवन्ति । तेषु शीतातपोपपीडनानि नानाप्रकाराणि भयानि प्राप्नुवन्ति ॥ १२.७७ ॥

असकृद् गर्भवासेषु वासं जन्म च दारुणम् ।

बन्धनानि च कष्टानि परप्रेष्यत्वम् एव च ॥ १२.७८ ॥

असकृद् इति । बन्धनानि च कष्टानि पारप्रेष्यत्वम् एव च । बहुशो गर्भस्थाने समुत्पत्तिं चातिदुःखावहाम् उतपन्नस्य च गलसं फलादिविषमाणि बन्धनान्य् अन्यदासत्वं चोपगच्छन्ति ॥ १२.७८ ॥

बन्धुप्रियवियोगांश् च संवासं चैव दुर्जनैः ।

द्रव्यार्जनं च नाशं च मित्रामित्रस्य चार्जनम् ॥ १२.७९ ॥

बब्धुप्रियवियोगा इति । बान्धवैः सुहृद्भिः सह वियोगं दुर्जनैश् च सह एकत्रावस्थानं धनार्जनक्लेशं धनविनाशं मित्रार्जनक्लेशं शत्रुप्रादुर्भावं प्राप्नुवन्ति ॥ १२.७९ ॥

जरां चैवाप्रतीकारां व्याधिभिश् चोपपीडनम् ।

क्लेशांश् च विविधांस् तांस् तान् मृत्युम् एव च दुर्जनम् ॥ १२.८० ॥

जराम् इति । जरां चाप्रतिबन्धां व्याधिभिश् च पीडनम् अनेकप्रकारांश् च क्षुत्पिपासादिना तांश् तान् उपतापान् मृत्युं चानपासनीयम् आसादयन्ति ॥ १२.८० ॥

यादृशेन तु भावेन यद् यत् कर्म निषेवते ।

तादृशेन शरीरेण तत् तत् फलम् उपाश्नुते ॥ १२.८१ ॥

यादृशेनैव भावेनेति । यथाविधेन सात्त्विकेन राजसेन तामसेन वा चेतसा यत् कर्म स्नानयागाद्य् अनुतिष्ठन्ति तथाविधेन शरीरेण सत्त्वबहुलेन रजोबहुलेन तमोबहुलेन वा तत् तत् स्नानादिफलम् उपभुङ्क्ते ॥ १२.८१ ॥

एष सर्वः समुद्दिष्टः कर्मणां वः फलोदयः ।

नैःश्रेयसकरं कर्म विप्रस्येदं निबोधत ॥ १२.८२ ॥

एष इति । नैःश्रेयसं कर्मविधिं विप्रस्येमं निबोधत । एषा शुभाशुभानां कर्मणाम् अखिला उत्पत्तिर् युष्माकम् उक्ता । इदानीं ब्राह्मणस्य स्वर्गमोक्षाद्यर्थं कर्मानुष्ठानम् इदं वक्ष्यमाणं शृणुत ॥ १२.८२ ॥

वेदाभ्यासस् तपो ज्ञानम् इन्दिर्याणां च संयमः ।

अहिंसा गुरुसेवा च निःश्रेयसकरं परम् ॥ १२.८३ ॥

वेदाभ्यास इति । वेदस्य ग्रन्थार्थतो ऽभ्यसनं कृच्छ्रादितपः आत्मज्ञानम् इन्द्रियजयो हिंशावर्जनं गुरुचर्येत्य् एतत् प्रकृष्टम् अर्थवर्गसाधनम् ॥ १२.८३ ॥

सर्वेषाम् अपि चैतेषां शुभानाम् इह कर्मणाम् ।

किञ्चिच् छ्रेयस्करतरं कर्मोक्तं पुरुषं प्रति ॥ १२.८४ ॥

सर्वेषाम् इति । एषां वेदाभ्यासकर्मादीनाम् अध्यात्मिकं कर्मातिशयेन श्रेयसः साधनं पुरुषस्य स्याद् इति वितर्केण ऋषीणां जिज्ञासाम् उत्पाद्योत्तरेण निश्चय इति ॥ १२.८४ ॥

सर्वेषाम् अपि चैतेषाम् आत्मज्ञानं परं स्मृतम् ।

तद् ध्य् अग्र्यं सर्वविद्यानां प्राप्यते ह्य् अमृतं ततः ॥ १२.८५ ॥

सर्वेषाम् इति । तेषां वेदाभ्यासादीनां सर्वेषाम् अपि मध्याद् उपनिषदुक्तोपासनाभिः परमात्मस्वरूपावधारणं प्रकृष्टं स्मृतम् यस्मात् सर्वविद्यानां तत्प्रधानं यतो मोक्षस् तस्मात् प्राप्यते ॥ १२.८५ ॥

षण्णाम् एषां तु पूर्वेषां कर्मणां प्रेत्य चेह च ।

श्रेयस्करतरं ज्ञेयं सर्वदा कर्म वैदिकम् ॥ १२.८६ ॥

षण्णाम् एव तु सर्वेषां इति । एषां पूर्वोक्तानां वेदाभ्यासादीनां षण्णां कर्मणां मध्यात् स्मार्तकर्मापेक्षया वैदिकं कर्म सर्वम् इहलोकयोर् अतिशयेन स्वर्गादिसाधनं विज्ञेयम् । आत्मज्ञानस्यामृतफल्त्वाद् विधानाद् वैदिकत्वाच् च तदपेक्षम् अन्यस्य वैदिकस्येदं श्रेष्ठम् उच्यते अपि तु स्मार्तकर्मापेक्षम् ॥ १२.८६ ॥

वैदिके कर्मयोगे तु सर्वाण्य् एतान्य् अशेषतः ।

अन्तर्भवन्ति क्रमशस् तस्मिंस् तस्मिन् क्रियाविधौ ॥ १२.८७ ॥

वैदिक इति । ज्योतिष्टोमादिवेदोक्तकर्मानुष्ठाने क्रमेनान्तर्भवति । तथा च श्रौतस्मार्तादौ वेदाभ्यासो ऽन्तर्भवति । तपश् च दीक्षोपसत्पयोव्रतादौ ज्ञानं चात्मज्ञानस्य समुच्चयेन वैदिककर्मणोपसर्गफलत्वाद् इन्दिर्यसंयमश् च न मांसम् अश्नीयान् न मैथुनम् उपेयाद् इति । कर्माङ्गत्वेनोक्तत्वाद् अहिंसा च तस्माद् एतां रात्रिं प्राणभृतः प्राणान् न छिन्द्याद् इति भागत्वेनाभिधानात् गुरुशुष्रूषा च यथाकर्मानुष्ठानकारणभूनं वेदम् अधिगच्छतीत्य् एवं सर्वाणि वैदिकयोगेन भवन्ति ॥ १२.८७ ॥

सुखाभ्युदयिकं चैव नैःश्रेयसिकम् एव च ।

प्रवृत्तं च निवृत्तं च द्विविधं कर्म वैदिकम् ॥ १२.८८ ॥

सुखाभ्युदयिकम् इति । सुखं कर्म ग्रामादेवाप्तेः यतो ऽभ्युदिते तत्सुखाभ्युदयिकं संसारप्रवृत्तिहेतुत्वाख्यम् । वैदिकं कर्म तथा निःश्रेयसो मोक्षस् तदर्थं कर्म नैःश्रेयसिकं संसारहेतुत्वान् निर्वृत्ताख्यम् इत्य् एवं कर्म वैदिकं द्विप्रकारं वेदितव्यम् ॥ १२.८८ ॥

इह चामुत्र वा काम्यं प्रवृत्तं कर्म कीर्त्यते ।

निष्कामं ज्ञानपूर्वं तु निवृत्तम् उपदिश्यते ॥ १२.८९ ॥

एतद् एव व्यक्तयितुम् आह **इह चेति **। स्वर्गाद्यैहिकामुत्रफलता कामत्या यत् क्रियते तत् काम्यम् । निष्कामतया ज्ञानपूर्वकं तु तत् संसारनिवृत्तिहेतुत्वान् निवृत्तम् उच्यते ॥ १२.८९ ॥

प्रवृत्तं कर्म संसेव्यं देवानां एति साम्यताम् ।

निवृत्तं सेवमानस् तु भूतान्य् अत्येति पञ्च वै ॥ १२.९० ॥

प्रवृत्तं कर्म संसेवन् देवानां एति सार्ष्ट्यताम् इति । प्रवृत्तकर्माभ्यासेन देवानां समानगतित्वं प्राप्नोति । निवृत्तकरमाभ्यासेन पुनः शरीरारम्भकाणि भूतानि अतिक्रामति मोक्षं प्राप्नोतीत्य् अर्थः ॥ १२.९० ॥

सर्वभूतेषु चात्मानं सर्वभूतानि चात्मनि ।

समं पश्यन्न् आत्मयाजी स्वाराज्यम् अधिगच्छति ॥ १२.९१ ॥

सर्वभूतेष्व् इति । तेष् तेष्व् अवश्यकर्तव्ययागेषु यद्य् अग्न्यादिदेवतान्तरम् इव ज्योतिर् आत्मैव तेन रूपेण तिष्ठत इत्य् एवं मन्वान आत्मयाजी सर्वेषु स्थावरजङ्गमात्मकेषु भूतेषु अहम् एव व्यवस्थित इत्य् एवं सर्वभूतेष्व् आत्मानं मन्यमानः सर्वाणि भूतानि मय्य् अवस्थितानि इत्य् एवं मन्वान इत्य् एतत् सर्वतुल्यत्वेन पशून् स्वातन्त्र्यं प्राप्नोति । न शरीरादिसम्बन्धि तस्य पारतन्त्र्यं भवत्य् अपि तु तथा जानन्न् आत्मज्ञाने सति मुच्यते ॥ १२.९१ ॥

यथोक्तान्य् अपि कर्माणि परिहाय द्विजोत्तमः ।

आत्मज्ञाने शमे च स्याद् वेदाभ्यासे च यत्नवान् ॥ १२.९२ ॥

यथोकान्य् अपीति । शास्त्रनोदितान्य् अपि अग्निहोत्रादीनि परित्य्जय यावद् वै पुरुषो भासते इत्यादिना चतुर्थाध्यायदर्शितश्रुतिप्रकारेण तान्य् अनुथिष्ठन्न् आत्मज्ञानेन्द्रियजयवेदाभ्यासेषु ब्राह्मणो यत्नं कुर्यात् ॥ १२.९२ ॥

एतद् धि जन्मसाफल्यं ब्राह्मण्स्य विशेषतः ।

प्राप्यैतत् कृतकृत्यो हि द्विजो भवति नान्यथा ॥ १२.९३ ॥

एतद् इति । एतद् वेदाभ्यासादिद्विजातीनां जन्मनः सफलत्वोत्पाद्कत्वात् जन्मनः शाफल्यं विशेषेण ब्राह्मणस्य यस्माद् एतत् सम्पाद्य द्विजातिः कृतकरणीयो भवति न तु कर्मान्तरकरणेन ॥ १२.९३ ॥

पितृदेवमनुष्याणां वेदश् चक्षुः सनातनम् ।

अशक्यं चाप्रमेयं च वेदशास्त्रम् इति स्थितिः ॥ १२.९४ ॥

पितृदेवमनुष्याणाम् इति । पितॄणां देवतानां च वयं हव्यकव्यप्रदातृत्वस्य वेदागम्यत्वाद् अशक्यं च कर्तुं वेदशास्त्रं तदर्थस्यातीन्द्रियत्वात् प्रमातुं चाशक्यं कृत्स्नशास्त्रसमूहस्याध्येतुम् अश्क्यत्वाद् इति व्यवस्था ॥ १२.९४ ॥

या वेदबाह्याः श्रुतयो याश् च काश् च कुदृष्टयः ।

सर्वास् ता निष्फलाः प्रेत्य तमोनिष्ठा हि ताः स्मृताः ॥ १२.९५ ॥

या वेदबाह्या इति । यानि वेदविरोधानि इत्य् आगमाभासरूपाणि शास्त्राणि यानि च कानिचिद् विनैव शास्रेणापवर्गादिहेत्वाभासरूपाणि दर्शनानि सर्वाणि तानि परलोके निष्फलानि यस्मान् नरकफलानि तानि मन्वादिभिः स्मृतानि ॥ १२.९५ ॥

उत्पद्यन्ते विनश्यन्ति यान्य् अतो ऽन्यानि कानिचित् ।

तान्य् अर्वाक्कालिकतया निष्फलान्य् अनृतानि च ॥ १२.९६ ॥

**उत्पद्यन्त **इति । वेदव्यतिरिक्तानि यानि कानिचिच् छास्त्राणि पुरुष्ōद्गमत्वाद् उत्पद्यन्ते अत एवाशु विनश्यन्ति तानीदानीन्तनत्वान् निष्फलान्य् असत्यरूपाणि च स्मृतीनां वेदमूलत्वान् नैतच् चोद्यावतारः ॥ १२.९६ ॥

चातुर्वर्ण्यं त्रयो लोकाश् चत्वारश् चाश्रमाः पृथक् ।

भूतं भवत् भविष्यं च सर्वं वेदात् प्रसिध्यति ॥ १२.९७ ॥

चातुर्वर्ण्यम् इति । यथा गामहिष्यादीनाम् इतरेतरभेद इन्द्रियगोचरो तच् चातुर्वर्ण्यं वेदाद् एव प्रसिध्यति तथा वेदोक्ताग्निहोत्रकर्मफलोपभोगार्थत्वात् पृथिव्यालोकायेति वेदावेदैः प्रसिध्यन्त्य् एवम् आश्रमा अपि चत्वारो ब्रह्मचार्यादयः परस्परविलक्षणवैदिकगोचरत्वाद् वेदाद् एव प्रसिध्यन्ति । किं च पुनः अग्नौ प्रास्ताहुतिन्यायेन यत् किञ्चिद् अतीतं वर्तमानं भविष्यद् वा तत् सर्वं वेदाद् एव प्रमाणं सिध्यति ॥ १२.९७ ॥

शब्दः स्पर्शश् च रूपं च रसो गन्धश् च पञ्चमः ।

वेदाद् एव प्रसूयन्ते प्रसूतिर् गुणकर्मतः ॥ १२.९८ ॥

शब्द इति । वेदाद् एव प्रसिध्यन्ति प्रभूतगुणकर्मतः । ये स्वर्गादिविप्रता उपभोग्यत्वेनाभिमताः शब्दादयो विषयास् ते ऽभिमतविषयोपभोगोत्पत्त्यर्थं यद् उपकारकं कर्माग्निहोत्रादिकं तदनुष्ठानद्वारेण वेदाद् एव प्रसिध्यन्ति ॥

बिभर्ति सर्वभूतानि वेदशास्त्रं सनातनम् ।

**तस्माद् एतत् परं मन्ये यज् जन्तोर् अस्य साधनम् ॥ १२.९९ ॥ **

बिभर्तीति । नित्यं वेदशास्त्रं सर्वभूतानि धारयति । यथा च हविर् अग्नौ हूयते । सो ऽग्निर् आदित्यं तर्पयति । तत् सूर्यो रश्मिभिर् वर्षति । ततो ऽन्नं सम्भवति । ततो ऽर्थं वै भूतानाम् उत्पत्तिः स्थितश् चेह विज्ञायते इति ब्राह्मणम् । तस्माच् छास्त्रं एतच् छास्त्रं वेदस्य प्रकृष्टं वेद्मि प्रकृष्टं यस्माद् अस्याधिकारपुरुषस्येतत् [-ऐतत्?] पुरुषार्थसाधनम् ॥ १२.९९ ॥

सैनापत्यं राज्यं च दण्डनेतृत्वम् एव च ।

सर्वलोकाधिपत्यं च वेदशास्त्रविद् अर्हति ॥ १२.१०० ॥

सैनापत्यम् इति । सेनाधिपतित्वं राज्यं दण्डनायकत्वं सार्वभौमैश्वर्यानि इत्य् एवम् अखिलं दृष्टपुरुषार्थं वेदशास्त्रज्ञ एवार्हतीति वेदप्रशंसा ॥ १२.१०० ॥

यथा जातबलो वह्निर् दहत्य् आर्द्रान् अपि द्रुमान् ।

तथा दहति वेदज्ञः कर्मजं दोषम् आत्मनः ॥ १२.१०१ ॥

**यथेति **। यथातिप्रवृद्धो ऽग्निः आर्द्रान् अपि वृक्षान् दहति एवं वेदज्ञानसामर्थ्यात् शिष्टाकरणनिषिद्धसेवनजं पापम् आत्मनो नाशयतीत्य् एवं च न केवलं वेददृष्टप्राप्तिहेतुर् यावद् अनिष्टनिवृत्तिर् अपि ॥ १२.१०१ ॥

वेदशास्त्रार्थतत्त्वज्ञो यत्र तत्राश्रमे वसन् ।

इहैव लोके तिष्ठन् स ब्रह्मभूयाय कल्पते ॥ १२.१०२ ॥

वेदशास्त्रार्थतत्त्वज्ञ इति । यः पारमार्थिकवेदार्थज्ञो विषयदोषाद्यबोधे सति रागादिप्रणोदात् यस्मिम्श् तस्मिन् ब्रह्मचर्याद्याश्रमे व्यवस्थितो ऽस्मिन्न् एव लोके तिष्ठन्न् अनेनैव शरीरेण ब्रह्मत्वाय सम्पद्यते ॥ १२.१०२ ॥

अज्ञेभ्यो ग्रन्थिनः श्रेष्ठा ग्रन्थिभ्यो धारिणो वराः ।

धारिभ्यो ज्ञानिनः श्रेष्ठा ज्ञानिभ्यो व्यवसायिनः ॥ १२.१०३ ॥

अज्ञेभ्य इति । उभयोः प्रशस्यत्वे सत्य् अन्यतरस्य प्रवर्षविषया या श्रेष्ठशब्दप्रयोगाद् ईषदध्ययनाः अत्र अज्ञा भण्यन्ते । न त्व् अत्यन्तमूर्खास् तेभ्यो ग्रन्थाध्यायिनः श्रेष्ठास् तेभ्यस् तदभ्यासनिरस्ताः प्रकृष्टास् तेभ्यो ऽपि तदर्थज्ञास् तेभ्यो ऽप्य् अनुष्ठातारो वराः

॥ १२.१०३ ॥

तपो विद्या च विप्रस्य निःश्रेयसकरं परम् ।

तपसा किल्बिषं हन्ति विद्ययामृतम् अश्नुते ॥ १२.१०४ ॥

तप इति । कृच्छ्रादितप आत्मज्ञानं च ब्राह्मणस्य प्रकृष्टं श्रेयःसाधनं यतस् तपसा पापम् आहन्त्य् आत्मज्ञानेन मोक्षं प्राप्नोति ॥ १२.१०४ ॥

प्रत्यक्षं चानुमानं च शास्त्रं च विविधागमम् ।

त्रयं सुविदितं कार्यं धर्मशुद्धिम् अभीप्सता ॥ १२.१०५ ॥

प्रत्यक्षम् इति । धर्मस्य तत्त्वावबोधम् इच्छता प्रत्यक्षानुमानेन शास्त्रं च वेदस्मृतिरूपम् अनेकमन्त्रभेदभिन्नं सुविज्ञातं कर्तव्यं प्रत्यक्षानुमानस्वरूपावबोधे हि कर्मसाधनभूतद्रव्यगुणजातिसत्त्वविज्ञानतमं युज्यते ॥ १२.१०५ ॥

आर्षं धर्मोपदेशं च वेदशास्त्राविरोधिना ।

यस् तर्केणानुसन्धत्ते स धर्मं वेद नेतरः ॥ १२.१०६ ॥

आर्षम् इति । ऋषिभिर् दृष्ट आर्षो वेदो धर्मोपदेशस्मृतिस् तौ सन्दिग्धव्याख्या पुनरुक्ताशङ्कायां वेदस्मृत्यविरोधेन न्यायेन तयोर् विचारयति स धर्मं जानाति न तु तर्कानभिज्ञः ॥ १२.१०६ ॥

नैःश्रेयसम् इदं कर्म यथोदितम् अशेषतः ।

मानवस्यास्य शास्त्रस्य रहस्यम् उपदेक्ष्यते ॥ १२.१०७ ॥

नैःश्र्यसम् इति । तद् अपवर्गाद्यर्थं कर्मनिःशेषेण यथावद् उक्तम् अत ऊर्ध्वम् अस्य मानवस्य शास्त्रैकदेश आत्मज्ञानोपदेशपरत्वेनोपनिषद्रूपो ऽभिधास्यते ॥ १२.१०७ ॥

अनाम्नातेषु धर्मेषु कथं स्याद् इति चेद् भवेत् ।

यं शिष्टा ब्राह्मणा ब्रूयुः स धर्मः स्याद् अशङ्कितः ॥ १२.१०८ ॥

एवं रहस्याभिधानं प्रतिज्ञाय सकलकर्मानभिधानेन प्रतिज्ञाहान्याशङ्काम् आह अनाम्नातेष्व् इति । सग्रन्थकाग्रन्थकत्वेनोभयरूपत्वात् स्मरणस्यानुपदिष्टेषु धर्मेषु उपदिष्टेष्व् अपि चानुक्तेतिकर्तव्यता तेषु किं ते कर्तव्याः उत नेति कथं वा कर्तव्या इति यदि संशयः स्यात् तदा यं वक्ष्यमाणाः शिष्टाः ब्राह्मणा ब्रूयुः स निश्चितो धर्मः स्यात्

॥ १२.१०८ ॥

धर्मेणाधिगतो यैस् तु वेदः सपरिबृंहणः ।

ते शिष्टा ब्राह्मणा ज्ञेयाः श्रुतिप्रत्यक्षहेतवः ॥ १२.१०९ ॥

धर्मेनाधिगत इति । ब्रह्मचर्योक्तेतिकर्तव्यतया यैर् अङ्गमीमांसाधर्मशास्त्रपुराणाद्युपबृंहकस्हितो वेदो ऽधीतस् ते ब्राह्मणाः वेदगोचरपदार्थोपदेशकारणभूताः शिष्टा विज्ञेयाः ॥ १२.१०९ ॥

दशावराः वा परिषद् यं धर्मं परिकल्पयेत् ।

त्र्यवरा वापि वृत्तस्था तं धर्मं न विचालयेत् ॥ १२.११० ॥

दशावरेति । यद्य् उत्पन्नयूनास् तदा दश वक्ष्यमाणविद्वांसो यस्यां परिषदि तदभावे त्रयो वा यस्यां साध्वाचारं धर्मं निश्चिनुयात् तद्धर्मत्वेन प्रतिपाद्यम् ॥ १२.११० ॥

त्रैविद्यो हेतुकस् तर्की नैरुतो धर्मपाठकः ।

त्र्यश् चाश्रमिणः पूर्वे परिषत् स्याद् दशावरा ॥ १२.१११ ॥

त्रैविद्य इति । वेदत्रयशाखात्रयाध्येतारः श्रुतिस्मृत्यविरुद्धन्यायशास्त्रविद् ऊहापोहार्थबुद्ध्युपेतो निरुतज्ञो मानवादिधर्माध्येता ब्रह्मचारिगृहस्थवानप्रस्था इत्य् एषा दशावरा परिषत् स्यात् ॥ १२.१११ ॥

ऋग्वेदविद् यजुर्विच् च सामवेदविद् एव च ।

त्र्यवरा परिषद् ज्ञेया धर्मसंशयनिर्णये ॥ १२.११२ ॥

ऋग्वेदविद् इति । ऋग्यजुःसामवेदानां ये ऽर्थज्ञास् तु यस्माद् धर्मसन्देहव्युदासार्थं त्यवरा परिषद् बोद्धव्या ॥ १२.११२ ॥

एको ऽपि वेदविद् धर्मं यं व्यवस्येद् द्विज्ōत्तमः ।

स विज्ञेयः परो धर्मो नाज्ञानाम् उदितो ऽयुतैः ॥ १२.११३ ॥

तदसम्भवे ऽपि एक इति । एको ऽपि वेदार्थज्ञो यं धर्मं निश्चिनुयात् स प्रकृष्टो बोद्धव्यो न वेदानभिज्ञानाम् अयुतैर् अप्य् उक्तः । अयुतं दशसहस्राणि ॥ १२.११३ ॥

अव्रतानाम् अमन्त्राणां जातिमात्रोपजीविनाम् ।

सहस्रशः समेतानां परिषत्त्वं न विद्यते ॥ १२.११४ ॥

अव्रतानाम् इति । सावित्रादिब्रह्मचारिव्रतरहितानां वेदाध्ययनशून्यानां ब्राह्मणजातिमात्रोपजीविनां सहस्राणाम् एकीभूतानां परिषत्त्वं नास्ति धर्मनिर्णयासामर्थ्यात् ॥ १२.११४ ॥

यं वदन्ति तमोभूता मूर्खा धर्मम् अतद्विदः ।

तत् पापं शतधा भूत्वा तद्वक्तॄन् अनुगच्छति ॥ १२.११५ ॥

यम् इति । ये मूढा विवेकाभावात् तमोरूपा धर्मानभिज्ञाः सन्तः पापकारिणो यत् प्रायश्चित्तम् उपदिशन्ति तत् प्रायश्चित्तनिमित्तभूतं पापं शतगुणं भूत्वा तेषां प्रायश्चित्तदातॄणां भवति ॥ १२.११५ ॥

एतद् वो ऽभिहितं सर्वं निःश्रेयसकरं परम् ।

अस्माद् अप्रच्युतो विप्रः प्राप्नोति परमां गतिम् ॥ १२.११६ ॥

**एतद् **इति । एतत् प्रकृष्टं श्रेयसो धर्मं सर्वं युष्माकम् उक्तम् । एतद् अनुतिष्ठन् ब्राह्मणादिः स्वर्गापवर्गादि प्राप्नोतीति कृत्स्नं धर्मोपसंहारम् एतत् ॥ १२.११६ ॥

एवं स भगवान् देवो लोकानां हितकाम्यया ।

धर्मस्य परं गुह्यं ममेदं सर्वम् उक्तवान् ॥ १२.११७ ॥

एवम् इति । स भगवान् अणिमादिगुणयोगाद् देवो मनुर् अनेनैवोक्तेन प्रकारेणेदं सर्वं धर्मस्य परमार्थं लोकहितेच्छया ममोतवान् इति भृगुर् महर्षीन् आह ॥ १२.११७ ॥

सर्वम् आत्मनि सम्पश्येत् सच् चासच् च समाहितः ।

सर्वं ह्य् आत्मनि सम्पश्यन् नाधर्मे कुरुते मतिम् ॥ १२.११८ ॥

इदानीं यत् तद् उक्तं मानवस्य शास्त्रस्य रहस्यम् उपदेक्ष्यत इति तत् कथयन्न् आह सर्वम् इति । यत् मूर्तं पृथिव्यादि यच् चामूर्तम् आकाशादि तत् सर्वम् आमन्य् एकीभूतम् इत्य् एवम् एकाग्रो भूत्वा पश्येद् यस्माद् अहम् एवेदं सर्वम् इत्य् एवं भावयन् रागद्वेषाभावाद् अधर्मे मनो न कुरुते ॥ १२.११८ ॥

आत्मैव देवताः सर्वाः सर्वम् आत्मन्य् अवस्थितम् ।

आत्मा हि जनयत्य् एषां कर्मयोगं शरीरिणाम् ॥ १२.११९ ॥

आत्मेति । इन्द्राद्याः सर्वदेवताः परमात्मैव नात्मव्यतिरेकेण नान्या देवताः सन्ति । तथा चेन्द्रं मित्रं वरुणम् अग्निम् आहुर् तथोदिव्यः स सुपर्णो गरुत्मान् । एकं सद् विप्रा बहुधा वदन्त्य् अग्निं यमं मातरिश्वानम् आहुः इत्य् एव श्रूयते । सर्वं च जगत् परमात्माश्रितं यस्माद् एषां क्षेत्रज्ञानां जगत्कारणभूतेन शास्त्रेणाशास्त्रितेन कर्मणाम् आत्मैव सम्बन्धं जनयति । तथा च भगवान् व्यासः ।

अज्ञो जन्तुर् अनीशो ऽयम् आत्मनः सुखदुःखयोः ।

ईश्वरः प्रेरितो गच्छेत् स्वर्गं वाश्वभ्रम् एव च ॥

इत्य् आह ॥ १२.११९ ॥

खं सन्निवेशयेत् खेषु चेष्टनस्पर्शने ऽनिलम् ।

पक्तिदृष्ट्योः परं तजः स्नेहे ऽपो गां च मूर्तिषु ॥ १२.१२० ॥

मनसीन्दुं दिशः श्रोत्रे क्रान्ते विष्णुं बले हरम् ।

वाच्य् अग्निं मित्रम् उत्सर्गे प्रजने च प्रजापतिम् ॥ १२.१२१ ॥

अधुना सर्वम् आत्मनि सम्पश्चेद् इति यद् उक्तं तत्र विशेषम् आह खम् इति । मनसीति । ब्राह्मम् आकाशं शरीरगताकाशेनैव सहैकत्वेन भावयेद् एवं चेष्टास्पर्शकारणभूतेन दैहिकेन वायुना सह बाह्यस्य वायोर् ऐक्यं कोष्ठ्यं चाक्षुषतेजसा सह प्रकृष्टस्य तेजसो ऽग्न्यादित्यारब्धस्यैक्यं शारीराभिर् अद्भिः सहापाम् ऐक्यं शारीरैश् च कठिनैर् भागैः पार्थिवैः सह बाभ्यायाः पृथिव्याम् अप्य् ऐक्येन मनसा सह चन्द्रं श्रोत्रेण सह विष्णोर् वीर्येण सह भगवदीश्वरस्य वागिन्द्रियेण अग्नेर् अपानेन्द्रियेण सह हिरण्यगर्भस्यैक्यं भावयेत् । एवम् अध्यात्मिकभूतादिभिः सहाभौतिकाधिदैविकानाम् ऐक्यं भावयेत्

॥ १२.१२०–१२१ ॥

प्रशासितारं सर्वेषाम् अणीयांसम् अणोर् अपि ।

रुक्माभं स्वप्नधीगम्यं विद्यात् तं पुरुषं परम् ॥ १२.१२२ ॥

प्रशासितारम् इति । ब्रह्मादिस्तम्भपर्यन्तानां व्यवस्थाकारिणं तथा चैतस्यैवाक्षरस्य विप्रशासने गार्गीगार्ग्यादिब्राह्मणं परमाणोर् अपि सकाशात् सूक्ष्मतरम् अस्या मूर्तत्वात् सुवर्णवच् छुद्धरूपम् विसृतोर् मित्वाप्यो ऽशनायापिपासैस् तोकमोहजरामृत्युम् अभ्येत्य् आदिब्राह्मणम् । सुषुप्तावस्थायां विज्ञानोपमेयस्वरूपं परमात्मानं विजानीयाद् दिदृक्षुः सुषुप्तावस्थायां प्रत्यस्तमितसुखदुःखविशेषं क्षेत्रज्ञस्य रूपम् एवंविधं सर्वदा परमात्मन इति स्वप्नसन्दर्शनरहितावस्था सुषुप्तम् ॥ १२.१२२ ॥

एतम् एके वदन्त्य् अग्निं मनुम् अन्ये प्रजापतिम् ।

इन्द्रम् एके परे प्राणम् अपरे ब्रह्म शाश्वतम् ॥ १२.१२३ ॥

एतम् इति । एनं च परमात्मानम् अग्नित्वेन याज्ञिका उपासते । तथा च तम् एतम् अग्निर् इत्य् अध्वर्यव उपासत इति ब्राह्मणश् च यः पुनः सवत एव आत्मनो ऽप्य् उच्चरन्तीति श्रैष्ठ्यत्वं श्रुतेर् मन्वाख्याप्रतिरूपतयोपासतेत्यादिश्रुतेः प्राणम् आत्मानम् एतम् उपासते ऽन्ये पुनर् विनश्वरपरमात्मरूपतयोपासते एवं सर्वात्मकत्वात् परमात्मनः केचित् केनचिद् रूपेनैनम् उपासते । तथा च तस्माद् एनम् एवं विद्मः यैर् एव तैर् उपासन्त इति ब्राह्मणम्

॥ १२.१२३ ॥

एष सर्वाणि भूतानि पञ्चभिर् व्याप्य मूर्तिभिः ।

जन्मवृद्धिक्षयैर् नित्यं संसारयति चक्रवत् ॥ १२.१२४ ॥

एष इति । एष परमात्मा सर्वान् प्राणिनः पञ्चभिः पृथिव्यादिभूतैः शरीरारम्भकैः परिगृह्य् प्राग्जन्मार्जितकर्मापेक्षयोत्पत्तिस्थितिनाशेन सकृद् आवर्तमानैः रथादिचक्रवद् आ मोक्षान् नित्यं योजयति ॥ १२.१२४ ॥

एवं यः सर्वभूतेषु पश्यत्य् आत्मानम् आत्मना ।

स सर्वसमताम् एत्य ब्रह्माभ्येति परं पदम् ॥ १२.१२५ ॥

एवम् इति । एवं सर्वभूतेषु चात्मानम् इत्यादिनोक्तेन प्रकारेण यः सर्वभूतेष्व् अवस्थितम् आत्मानम् आत्मना मन्यते स रागद्वेषहानिं प्राप्य परं स्थानं ब्रह्म प्राप्नोति मुच्यत इत्य् अर्थः ॥ १२.१२५ ॥

इत्य् एतन् मानवं शास्त्रं भृगुप्रोक्तं पठन् द्विजः ।

भवत्य् आचारवान् नित्यं यथेष्टां प्राप्नुयाद् गतिम् ॥ १२.१२६ ॥

इतीति । इति समाप्तार्थम् एतन् मनुकृतं शास्त्रं भृगुणा प्रकर्षेणोक्तं द्विजातिः पठन् शास्त्रं विद्वान् विहितानुष्टायी प्रतिषिद्धं वर्जयंश् च भवत्य् अत एवामुत्र भगवन् महेश्वरादिसायोज्यादिकाम् अभिमतां प्राप्नुयाद् इति ॥ १२.१२६ ॥

इति श्रीभट्टमाधवात्मजश्रीगोविन्दराजविरचितायां मनुटीकायां

श्रीमन्वाशयानुसारिण्यां गुणत्रयविकर्मजातिनरकवेद-

प्रशंसास्वरूपनिर्णयो द्वादशो ऽध्यायः समाप्तः ॥