०६

{षष्ठो ऽध्यायः
एवं गृहाश्रमे स्थित्वा विधिवत् स्नातको द्विजः ।
वने वसेत् तु नियतो यथावद् विजितेन्द्रियः ॥ ६.१ ॥}

{गृहस्थस् तु यदा पश्येद् यद् वलीपलितम् आत्मनः ।
अपत्यस्यैव चापत्यं तदारण्यं समाश्रयेत् ॥ ६.२ ॥}

{सन्त्यज्य ग्राम्यम् आहारं सर्वं चैव परिच्छदम् ।
पुत्रे भार्यां विनिक्षिप्य वनं गच्छेत् सहैव वा ॥ ६.३ ॥}

{अग्निहोत्रं समादाय गृह्यं चाग्निपरिच्छदम् ।
ग्रामाद् अरण्यं निःसृत्य निवसन् नियतेन्द्रियः ॥ ६.४ ॥}

{मुन्यन्नैर् विविधैर् मेध्यैः शाकमूलफलेन वा ।
एतान् एव महायज्ञान् निर्वपेद् विधिपूर्वकम् ॥ ६.५ ॥}

{वसीत चर्म चीरं वा स्नायात् सायं प्रगे तथा ।
जटाश् च बिभृयात् नित्यं श्मश्रुलोमनखानि च ॥ ६.६ ॥}

{यद् भक्ष्यं स्यात् ततो दद्याद् बलिं भिक्षां च शक्तितः ।
अम्मूलफलभिक्षाभिर् अर्चयेद् आश्रमागतान् ॥ ६.७ ॥
स्वाधाये नित्ययुक्तः स्याद् दान्तो मैत्रः समाहितः ।
दाता नित्यम् अनादाता सर्वभूतानुकम्पकः ॥ ६.८ ॥}