{पञ्चमो ऽध्यायः
श्रुत्वैतान् ऋषयो धर्मान् स्नातकस्य यथोदितान् ।
इदम् ऊचुर् माहात्मानम् अनलप्रभवं भृगुम् ॥ ५.१ ॥}
{एवं यथोक्तं विप्राणां स्वधर्मम् अनुतिष्ठताम् ।
कथं मृत्युः प्रभवति वेदशास्त्रविदां प्रभो ॥ ५.२ ॥}
{स तान् उवाच धर्मात्मा महर्षीन् मानवो भृगुः ।
श्रूयतां येन दोषेण मृत्युर् विप्राञ् जिघांसति ॥ ५.३ ॥}
{अनभ्यासेन वेदानाम् आचारस्य च वर्जनात् ।
आलस्याद् अन्नदोषाच् मृत्युर् विप्रान् जिघांसति ॥ ५.४ ॥}
{लशुनं गृञ्जनं चैव पलाण्डुं कवकानि च ।
अभक्ष्याणि द्विजातीनाम् अमेध्यप्रभवाणि च ॥ ५.५ ॥}
{लोहितान् वृक्षनिर्यासान् वृश्चनप्रभवांस् तथा ।
सेलुं गव्यं पीयूषं प्रयत्नेन विवर्जयेत् ॥ ५.६ ॥}
{वृथा कृसरसंयावं पायसापूपम् एव च ।
अनुपाकृतमांसानि देवान्नानि हवींषि च ॥ ५.७ ॥}
{अनिर्दशाया गोः क्षीरम् औष्ट्रम् ऐकशफं तथा ।
आविकं सन्धिनीक्षीरं विवत्सायाश् च घोः पयः ॥ ५.८ ॥}
{आरण्यानां च सर्वेषां मृगाणां माहिषं विना ।
स्त्रीक्षीरं चैव वर्ज्यानि सर्वशुक्तानि चैव हि ॥ ५.९ ॥}
{दधि भक्ष्यं च शुक्तेषु सर्वं च दधिसम्भवम् ।
यानि चैवाभिषूयन्ते पुष्पमूलफलैः शुभैः ॥ ५.१० ॥[२१६]}
{क्रव्यादः शकुनीन् सर्वान् तथा ग्रामनिवासिनः ।
अनिर्दिष्टांश् चैकशफांस् टिट्टिभांश् च विवर्जयेत् ॥ ५.११ ॥}
{कलविङ्कं प्लवं हंसं चक्राह्वं ग्रामकुक्कुटम् ।
सारसं रज्जुदालं च दात्यूहं शुकसारिके ॥ ५.१२ ॥}
{प्रतुदान् जालपादांश् च कोयष्टिनखविष्किरान् ।
निमज्जतश् च मत्स्यादान् सौनं वल्लूरम् एव च ॥ ५.१३ ॥}
{बकं चैव बलाकां च काकोलं खञ्जरीटकम् ।
मत्स्यादान् विड्वराहांश् च मत्स्यान् एव च सर्वशः ॥ ५.१४ ॥}
{यो यस्य मांसम् अश्नाति स तन्मांशद उच्यते ।
मत्स्यादः सर्वमांसादस् तस्मान् मत्स्यान् विवर्जयेत् ॥ ५.१५ ॥}
{पाठीनरोहिताव् आद्यौ नियुक्तौ हव्यकव्ययोः ।
राजीवाः सिंहतुण्डाश् च सशल्काश् चैव सर्वशः ॥ ५.१६ ॥}
{न भक्षयेद् एकचरान् अज्ञातांश् च मृगद्विजान् ।
भक्ष्येष्व् अपि समुद्दिष्टान् सर्वान् पञ्चनखांस् तथा ॥ ५.१७ ॥}
{[२१८]
श्वाविधं शल्यकं गोधां खड्गकूर्मशशांस् तथा ।
भक्ष्यान् पञ्चनखेष्व् आहुर् अनुष्ट्रांश् चैकतोदतः ॥ ५.१८ ॥}
{छत्राकं विड्वराहं च लशुनं ग्रामकुक्कुटम् ।
पलाण्डुं गृञ्जनं चैव मत्या जग्ध्वा पतेद् द्विजः ॥ ५.१९ ॥
अमत्यैतानि षड् जग्ध्वा कृच्छ्रं सान्तपनं चरेत् ।
यतिचान्द्रायणं वापि शेषेषूपवसेद् अहः ॥ ५.२० ॥}
{संवत्सरस्यैकम् अपि चरेत् कृच्छ्रं द्विजोत्तमः ।
अज्ञातजग्धशुद्ध्यर्थं ज्ञातस्य तु विशेषतः ॥ ५.२१ ॥}
{यज्ञार्थं ब्राह्मणैर् वध्याः प्रशस्ता मृगपक्षिणः ।
भृत्यानां चैव वृत्त्यर्थम् अगस्त्यो ह्य् आचरत् तथा (पुरा?) ॥ ५.२२ ॥}
{बभूवुर् हि पुरोडाशा भक्ष्याणां मृगपक्षिणाम् ।
पुराणेष्व् ऋषियज्ञेषु ब्रह्मक्षत्रसवेषु च ॥ ५.२३ ॥}
{यत् किञ्चित् स्नेहसंयुक्तं भक्ष्यं भोज्यम् अगर्हितम् ।
तत् पर्युषितम् अप्य् आद्यं हविःशेषं च यद् भवेत् ॥ ५.२४ ॥}
{चिरस्थितम् अपि त्व् आद्यम् अस्नेहाक्तं द्विजातिभिः ।
यवगोधूमजं सर्वं पयसश् चैव विक्रिया ॥ ५.२५ ॥}
{एतद् उक्तं द्विजातीनां भक्ष्याभ्हक्ष्यम् अशेषतः ।
मांसस्यातः प्रवक्ष्यामि विधिं भक्षणवर्जने ॥ ५.२६ ॥}
{प्रोक्षितं भक्षयेन् मांसं ब्राह्मणानां च काम्यया ।
यथाविधि नियुक्तश् च प्राणानाम् एव चात्यये ॥ ५.२७ ॥}
{प्राणस्यान्नम् इदं सर्वं प्रजापतिर् अकपयत् ।
जङ्गमं स्थावरं चैव सर्वं प्राणस्य भोजनम् ॥ ५.२८ ॥}
{चराणाम् अन्नम् अचरा दंश्ट्रिणाम् अप्य् अदंष्ट्रिणः ।
अहस्ताश् च सहस्तानां शूराणां चैव भीरवः ॥ ५.२९ ॥}
{नात्ता दुष्यत्य् अदन्न् आद्यान् प्राणिनो ऽहन्य् अहन्य् अपि ।
धात्रैव सृष्टा ह्य् आद्याश् च प्राणिनो ऽत्तार एव च ॥ ५.३० ॥}
{अतो ऽन्यथा प्रवृत्तिस् तु राक्षसो विधिर् उच्यते ॥ ५.३१ ॥}
{क्रीत्वा स्व्यं वाप्य् उत्पाद्य परोपकृतम् एव वा ।
देवान् पितॄंश् चार्चयित्वा खादन् मांसं न दुष्यति ॥ ५.३२ ॥}
{नाद्याद् अविधिना मांसं विधिज्ञो ऽनापदि द्विजः ।
जग्ध्वा ह्य् अविधिना मांसं प्रेतस् तैर् अद्यते ऽवशः ॥ ५.३३ ॥}
{न तादृशं भवत्य् एनो मृगहन्तुर् धनार्थिनः ।
यादृशं भवति प्रेत्य वृथामांसानि खादतः ॥ ५.३४ ॥}
{नियुक्तस् तु यथान्यायं यो मांसं नात्ति वै द्विजः ।
स प्रेत्य पशुतां याति सम्भवान् एकविंशतिम् ॥ ५.३५ ॥}
{असंस्कृतान् पशून् मन्त्रैर् नाद्याद् विप्रः कदाचन ।
मन्त्रैस् तु संस्कृतान् दद्याच् छाश्वतं धर्मम् आस्थितः ॥ ५.३६ ॥}
{कुर्याद् घृतपशुं सङ्गे कुर्यात् पिष्टपशुं तथा ।
न त्व् एव तु वृथा हन्तुं पशुम् इच्छेत् कथञ्चन ॥ ५.३७ ॥}
{यावन्ति पशुरोमाणि तावत् कृत्वो हि मारणम् ।
वृथा पशुघ्नः प्राप्नोति प्रेत्य जन्मनि जन्मनि ॥ ५.३८ ॥}
{यज्ञार्थं पशवः सृष्टाः स्वयम् एव स्वयम्भुवा ।
यज्ञश् च भूत्यै सर्वस्य तस्माद् यज्ञे वधो ऽवधः ॥ ५.३९ ॥}
{ओषध्यः पशवो वृक्षास् तिर्यञ्चः पक्षिणस् तथा ।
यज्ञार्थं निधनं प्राप्ताः प्राप्नुवन्त्य् उच्छ्रितीः पुनः ॥ ५.४० ॥}
{मधुपर्के च यज्ञे च पितृदैवतकर्मणि ।
अत्रैव पशवो हिंस्या नान्यत्रेत्य् अब्रवीन् मनुः ॥ ५.४१ ॥}
{एष्व् अर्थेषु पशून् हिंसन् वेदतत्त्वार्थविद् द्विजः ।
आत्मानं च पशुं चैव गमयत्य् उत्तमां गतिम् ॥ ५.४२ ॥}
{गृहे गुराव् अरण्ये वा निवसन् आत्मवान् द्विजः ।
नावेदविहितां हिंसाम् आपद्य् अपि समाचरेत् ॥ ५.४३ ॥}
{यो ऽहिंसकानि भूतानि हिनस्त्य् आत्मसुखेच्छया ।
स जीवंश् च मृतश् चैव न क्वचित् सुखम् एधते ॥ ५.४५ ॥}
{यो बन्धनवधक्लेशान् प्राणिनां च चिकीर्षति ।
स सर्वस्य सुखप्रेप्सुः सुखम् अत्यन्तम् अश्नुते ॥ ५.४६ ॥[२२७]}
{यद् ध्यायति यत् कुरुते रतिं बध्नाति यत्र च ।
तद् अवाप्नोत्य् अयत्नेन यो हिनस्ति न किञ्चन ॥ ५.४७ ॥}
{समुत्पत्तिं च मांसस्य वधबन्धौ च देहिनाम् ।
प्रसमीक्ष्य निवर्तेत सर्वमांसस्य भक्षणात् ॥ ५.४९ ॥}
{न भक्षयति यो मांसं विधिं हित्वा पिशाचवत् ।
स लोके प्रियतां याति व्याधिभिश् च न पीड्यते ॥ ५.५० ॥}
{[२२८]
अनुमन्ता विशसिता निहन्ता क्रयविक्रयी ।
संस्कर्ता चोपहर्ता च खादकश् चेति घातकाः ॥ ५.५१ ॥}
{स्वमांसं परमांसेन यो वर्धयितुम् इच्छति ।
अनभ्यर्च्य पितॄन् देवान् न ततो ऽन्यो ऽस्त्य् अपुण्यकृत् ॥ ५.५२ ॥}
{वर्षे वर्षे ऽश्वमेधेन यो यजेत शतं समाः ।
मांसानि च न खादेद् यस् तयोः पुण्यफलं समम् ॥ ५.५३ ॥
फलमूलाशनैर् मेध्यैर् मुन्यन्नानां च भोजनैः ।
न तत् फलम् अवाप्नोति यन् मांसपरिवर्जनात् ॥ ५.५४ ॥}
{मां स भक्षयितामुत्र यस्य मांसम् इहाद्म्य् अहम् ।
एतन् मांसस्य मांसत्वं प्रवदन्ति मनीषिणः ॥ ५.५५ ॥[२२९]}
{न मांसभक्षणे दोषो न मदे न च मैथुने ।
प्रवृत्तिर् एषा भूतानां निवृत्तिस् तु महाफला ॥ ५.५६ ॥}
{प्रेतशुद्धिं प्रवक्ष्यामि द्रव्यशुद्धिं तथैव च ।
चतुर्णाम् अपि वर्णानां यथावद् अनुपूर्वशः ॥ ५.५७ ॥}
{दन्तजाते ऽनुजाते च कृतचौले च संस्थिते ।
अशुद्धा बान्धवाः सर्वे सूतके च तथोच्यते ॥ ५.५८ ॥}
{दशाहं शावम् आशौचं सपिण्डेषु विधीयते ।
अर्वाक् सञ्चयनाद् अस्थ्नां त्यहम् एकाहम् एव वा ॥ ५.५९ ॥[२३०]}
{सपिण्डता तु पुरुषे सप्तमे विनिवर्तते ।
समानोदकभावस् तु जन्मनाम्नोर् अवेदने ॥ ५.६० ॥}
{जनने ऽप्य् एवम् एव स्यान् निपुणं शुद्धिम् इच्छताम् ।
सर्वेषां शावम् आशौचं मातापित्रोस् तु सूतकम् ॥ ५.६१ ॥}
{सूतकं मातुर् एव स्याद् उपस्पृश्य पिता शुचिः ॥ ५.६२ ॥
निरस्य तु पुमान् शुक्रम् उपस्पृश्यैव शुध्यति ।
बैजिकाद् अभिसम्बन्धाद् अनुरुन्ध्याद् अघं त्र्यहम् ॥ ५.६३ ॥}
{रजन्याह्नैवम् एकेन त्रिरारैर् एव च त्रिभिः ।
शवस्पृशो विशुध्यन्ति त्र्यहाद् उदकदायिनः ॥ ५.६४ ॥}
{गुरोः प्रेतस्य शिष्यस् तु पितृमेधं समाचरन् ।
प्रेतहारैः समं तत्र दशरात्रेण शुध्यति ॥ ५.६५ ॥}
{रात्रिभिर् मासतुल्याभिर् गर्भस्रावे विशुध्यति ।
रजस्य् उपरते साध्वी स्नानेन स्त्री रजस्वला ॥ ५.६६ ॥}
{नृणाम् अकृतचौलानां विशुद्धिर् नैशिकी स्मृता ।
न्र्वृत्तचौलकानां (?) तु त्रिरात्राच् छुद्धिर् इष्यते ॥ ५.६७ ॥}
{[२३२]
ऊनद्विवार्षिकं प्रेतं निदध्युर् बान्धवा बहिः ।
अलङ्कृत्य शुचौ भूमाव् अस्थिसञ्चयनाद् ऋते ॥ ५.६८ ॥}
{नास्य कार्यो ऽग्निसंस्कारो न च कार्योदकक्रिया ।
अरण्ये काष्ठवत् त्यक्त्वा क्षपयेत् त्र्यहम् एव तु ॥ ५.६९ ॥}
{नात्रिवर्षस्य कर्तव्या बान्धवैर् उदकक्रिया ।
जातदन्तस्य वा कुर्युर् नाम्नि वापि कृते सति ॥ ५.७० ॥}
{सब्रह्मचारिण्य् एकाहम् अतीते क्षपणं स्मृतम् ।
जन्मन्य् एकोदकानां तु त्रिरात्राच् छुद्धिर् इष्यते ॥ ५.७१ ॥}
{स्त्रीणाम् असंस्कृतानां तु त्र्यहाच् छुद्द्यन्ति बान्धवाः ।
यथोक्तेनैव कल्पेन शुध्यन्ति तु सनाभयः ॥ ५.७२ ॥}
{[२३३]
अक्षारलवणान्नाः स्युर् न निमज्जेयुश् च ते त्र्यहम् ।
मांसाशनं च नाश्नीयुः शयीरंश् च पृथक् क्षितौ ॥ ५.७३ ॥}
{सन्निधाव् एष वै कल्पः शावाशौचस्य कीर्तितः ।
असन्निधाव् अयं ज्ञेयो विधिः सम्बन्धिबान्धवैः ॥ ५.७४ ॥}
{विगतं तु विदेशस्थं शृणुयाद् यो ह्य् अनिदशम् ।
यच्छेषं दशरात्रस्य तावद् एवाशुचिर् भवेत् ॥ ५.७५ ॥}
{संवत्सरे व्यतीते तु स्पृष्ट्वैवापि विशुध्यति ॥ ५.७६ ॥}
{निर्दशं ज्ञातिमरणं श्रुत्वा पुत्रस्य जन्म च ।
सवासा जलम् आप्लुत्य सद्य एव विशुध्यति ॥ ५.७७ ॥}
{बाले देशान्तरस्थे च पृथक्पिण्डे च संस्थिते ।
सवासा जलम् आप्लुत्य सद्य एव विशुध्यति ॥ ५.७८ ॥ }
{अन्तर्दशाहे स्यातां चेत् पुनर् मरणजन्मनी ।
[२३४] तावत् स्याद् अशुचिर् विप्रो यावत् तत् स्याद् अनिर्दशम् ॥ ५.७९ ॥}
{त्रिरात्रम् आहुर् आशौचम् आचार्ये संस्थिते सति ।
तस्य पुत्रे च पत्य्नां च दिवारात्रम् इति स्थितिः ॥ ५.८० ॥}
{श्रोत्रिय तूपसम्पन्ने त्रिरात्रम् अशुचिर् भवेत् ।
मातुले पक्षिणीं रात्रिं शिष्यर्त्विग्बान्धवेषु च ॥ ५.८१ ॥}
{प्रेते राजनि सज्योतिर् यस्य स्याद् विषये स्थितः ।
अश्रोत्रिये त्व् अहः कृत्स्नम् अनूचाने तथा गुरौ ॥ ५.८२ ॥}
{शुध्येद् विप्रो दशाहेन द्वादशाहेन भूमिपः ।
वैश्यः पञ्चदशाहेन शूद्रो मासेन शुध्यति ॥ ५.८३ ॥}
{न वर्धयेद् अघाहानि प्रत्यूहेन् नाग्निषु क्रियाः ।
न च तत् कर्म कुर्वाणः सनाभ्यो ऽप्य् अशुचिर् भवेत् ॥ ५.८४ ॥}
{दिवाकीर्तिम् उदक्यां च पतितां सूतिकां तथा ।
शवं तत्स्पृष्टिनं चैव स्पृष्ट्वा स्नानेन शुध्यति ॥ ५.८५ ॥}
{आचम्य प्रयतो नित्यं जपेद् अशुचिदर्शने ।
सौरान् मन्त्रान् यथोत्साहं पावमानीश् च शक्तितः ॥ ५.८६ ॥}
{नारं स्पृष्ट्वास्थि सस्नेहं स्नात्वा विप्रो विशुध्यति ।
आचम्यैव तु निःस्नेहं गाम् आलभ्यार्कम् ईक्ष्य वा ॥ ५.८७ ॥}
{आदिष्टी नोदकं कुर्याद् आ व्रतस्य समापनात् ।
समाप्तेर् (?) उदकं कुर्यात् त्रिरात्रेणैव शुध्यति ॥ ५.८८ ॥}
{वृथा सङ्करजातानां प्रव्रज्यासु च तिष्ठताम् ।
आत्मनस् त्यागिनां चैव निवर्तेतोदकक्रिया ॥ ५.८९ ॥}
{पाषण्डम् आश्रितानां च चरन्तीनां च कामतः ।
गर्भभर्तृद्रुहां चैव सुरापीनां च योषिताम् ॥ ५.९० ॥}
{आचार्यं स्वम् उपाध्यायं पितरं मातरं गुरुम् ।
निर्हृत्य तु व्रती प्रेतं न व्रतेन वियुज्यते ॥ ५.९१ ॥}
{दक्षिणेन मृतं शूद्रं पुरद्वारेण निर्हरेत् ।
पश्चिमोत्तरपूर्वैस् तु यथायोगं द्विजन्मनाम् ॥ ५.९२ ॥}
{न राज्ञाम् अघदोषो ऽस्ति व्रतिनां सत्रिणां तथा ।
ऐन्द्रस्थानम् उपासीना ब्रह्मभूता हि ते सदा ॥ ५.९३ ॥}
{राज्ञो महात्मिके स्थाने सद्यःशौचं विधीयते ।
प्रजानां परिरक्षार्थम् आसनं चात्र कारणम् ॥ ५.९४ ॥}
{डिम्बाहवहतानां च विद्युता पार्थिवेन च ।
गोब्राह्मणस्य चैवार्थे यस्य चेच्छति भूमिपः ॥ ५.९५ ॥}
{सोमाग्न्यर्कानिलेन्द्राणां चित्ताप्पत्योर् यमस्य च ।
अष्टानां लोकपालानां वपुर् धारयते नृपः ॥ ५.९६ ॥}
{लोकेशाधिष्ठितो राजा नास्याशौचं विधीयते ।
शौचाशौचं हि मर्त्यानां लोकेशप्रभवाप्ययम् ॥ ५.९७ ॥}
{उद्यतैर् आहवे शस्त्रैः क्षत्रधर्महतस्य च ।
सद्यः सन्तिष्ठते यज्ञो नास्याशौचं विधीयते ॥ ५.९८ ॥}
{विप्रः शुध्यत्य् अपः स्पृष्ट्वा क्षत्रियो वाहनायुधम् ।
[५.९९] वैश्यः प्रतोदं यष्टिं वा यष्टिं शूद्रः कृतक्रियः ॥ ५.९९ ॥}
{एतद् वो ऽभिहितं शौचं सपिण्डेषु द्विजोत्तमाः ।
असपिण्डेषु सर्वेषु प्रेतशुद्धिं निबोधत ॥ ५.१०० ॥}
{असपिण्डं द्विजं प्रेतं विप्रो निर्हृत्य बन्धुवत् ।
विशुध्यति त्रिरात्रेण मातुर् आप्तांश् च बान्धवान् ॥ ५.१०१ ॥}
{यद्य् अन्नम् अत्ति तेषां तु दशाहेनैव शुध्यति ।
अनदन्न् अन्नम् अह्नैव न चेत् तस्मिन् गृहे वसेत् ॥ ५.१०२ ॥}
{अनुगम्येच्छया प्रेतं ज्ञातिम् अज्ञातिम् एव वा ।
स्नात्वा सचेलं स्पृष्ट्वाग्निं घृतं प्राश्य विशुध्यति ॥ ५.१०३ ॥}
{न विप्रं स्वेषु तिष्ठत्सु मृतं शूद्रेण नाययेत् ।
अस्वर्ग्याज्याहितिः सा स्याच् छूद्रसंस्पर्शदूषिता ॥ ५.१०४ ॥}
{ज्ञानं तपो ऽग्निर् आहारो मृन् मनो वार्य् उपार्जनम् (?) ।
वायुः कर्मार्ककालौ च शुद्धेः कर्तॄणि देहिनाम् ॥ ५.१०५ ॥}
{सर्वेषाम् एव शौचानाम् अर्थशौचं परं स्मृतम् ।
यो ऽर्थे शुचिर् हि स शुचिर् न मृद्वारिशुचिः शुचिः ॥ ५.१०६ ॥}
{क्षान्त्या शुद्ध्यन्ति विद्वांसो दानेनाकार्यकारिणः ।
प्रच्छन्नपापा जप्येन तपसा वेदवित्तमाः ॥ ५.१०७ ॥}
{मृत्तोयैः शुध्यते शोध्यं नदी वेगेन शुध्यति ।
रजसा स्त्री मनोदुष्टा सन्न्यासेन द्विजोत्तमाः ॥ ५.१०८ ॥}
{अद्भिर् गात्राणि सुध्यन्ति मनः सत्येन शुध्यति ।
विद्यातपोभ्यां भूतात्मा बुद्धिर् ज्ञानेन शुध्यति ॥ ५.१०९ ॥}
{एष शौचस्य वः प्रोक्तः शरीरस्य विनिर्णयः ।
नानाविधानां द्रव्याणां शुद्धेः शृणुत निर्णयम् ॥ ५.११० ॥}
{तैजसानां मणीनां च सर्वस्याश्ममयस्य च ।
[२४०] भस्मनाद्भिर् मृदा चैव शुद्धिर् उक्ता मनीषिभिः ॥ ५.१११ ॥}
{निर्लेपं काञ्चनं भाण्डम् अभिषिच्य विशुध्यति (?) ।
अब्जम् अश्ममयं चैव राजतं चानुपस्कृतम् ॥ ५.११२ ॥}
{अग्नेश् चापां च संयोगाद् धैमं रौप्यं च सम्बभौ (?) ।
तस्मात् तयोः स्वयोन्यैव निर्णेको गुणवत्तरः ॥ ५.११३ ॥}
{ताम्रायस्कांस्यरूप्याणां त्रपुणः सीसकस्य च ।
शौचं यथार्हं कर्तव्यं क्षाराम्लोदकवारिभिः ॥ ५.११४ ॥}
{द्रवाणां चैव सर्वेषां शुद्धिर् उत्पवनेन च ।
प्रोक्षणं संहतानां च दारवाणां च तक्षणम् ॥ ५.११५ ॥}
{मार्जनं यज्ञपात्राणां पाणिना यज्ञकर्मणि ।
चमसानां ग्रहानां च शुद्धिः प्रक्षालनेन तु ॥ ५.११६ ॥}
{चरूणां स्रुक्स्रुवाणां च शुद्धिर् उष्णेन वारिणा ।
स्फ्यशूर्पशकटानां च मुसलोलूखलस्य च ॥ ५.११७ ॥}
{अद्भिस् तु प्रोक्षणं शौचं बहूनां धान्यवाससाम् ।
प्रक्षालनेन त्व् अल्पानाम् अद्भिः शौचं विधीयते ॥ ५.११८ ॥}
{चैलवच् चर्मणां शुद्धिर् वैदलानां तथैव च ।
शाकमूलफलानां च धान्यवच् छुद्धिर् इष्यते ॥ ५.११९ ॥}
{कौशेयाविकयोर् ऊषैः कुतपानाम् अरिष्टकैः ।
श्रीफलैर् अंशुपट्टानां क्षौमाणां गौरसर्षपैः ॥ ५.१२० ॥}
{क्षौमवच् छङ्खशृङ्गाणाम् अस्थिदन्तमयस्य च ।
शुद्धिर् विजानता कार्या गोमूत्रेणोदकेन च ॥ ५.१२१ ॥}
{[मद्यैर् मूत्रैः पुरीषैर् वा ष्ठीवनैः पूयशोणितैः ।
संस्पृष्टं नैव शुध्येत पुनःपाकेन मृन्मयम् ॥ ५.१२३]
सम्मार्जनेनोपाञ्जनेन सेकेनोल्लेखनेन च ।
गवां च परिवासेन भूमिः शुध्यति पञ्चभिः ॥ ५.१२४ ॥}
{पक्षिजग्धं गवाघ्रातम् अवधूतम् अवक्षुतम् ।
दूषितं केशकीटैश् च मृत्प्रक्षेपेण शुध्यति ॥ ५.१२५ ॥}
{यावन् नापैत्य् अमेध्याक्ताद् गन्धो लेपश् च तत्कृतः ।
तावन् मृद्वारि वादेयं सर्वासु द्रव्यशुद्धिषु ॥ ५.१२६ ॥}
{त्रीणि वेदाः पवित्राणि ब्राह्मणानाम् अकल्पयन् ।
अदृष्टम् अद्भिर् निर्णिक्तं यच् च वाचा प्रशस्यते ॥ ५.१२७ ॥}
{आपः शुद्धा भूमिगता वैतृष्ण्यं यासु गोर् भवेत् ।
अव्याप्ताश् चेद् अमेध्येन गन्धवर्णरसान्विताः ॥ ५.१२८ ॥}
{नित्यं शुद्धः कारुहस्तः पण्ये यच् च प्रसारितम् ।
ब्रह्मचारिगतं भैक्षं नित्यं मेध्यम् इति स्थितिः ॥ ५.१२९ ॥}
{नित्यम् आस्यं शुचि स्त्रीणां शकुनिः फलपातने ।
प्रस्रवे चा शुचिर् वत्सः श्वा मृगग्रहणे शुचिः ॥ ५.१३० ॥}
{श्वभिर् हतस्य यन् मांसं शुचि तन् मनुर् अब्रवीत् ।
क्रव्याद्भिश् च हतस्यान्यैश् चण्डालाद्यैश् च दस्युभिः ॥ ५.१३१ ॥}
{ऊर्ध्वं नाभेर् यानि खानि तानि मेध्यानि सर्वशः ।
यान्य् अधस्ताद् अमेध्यानि देशाच् चैव मलाश् च्युताः ॥ ५.१३२ ॥}
{मक्षिका विप्रुषश् छाया गौर् अश्वः सूर्यरश्मयः ।
रजो भूर् वायुर् अग्निश् च स्पर्शे मेध्यआनि निर्दिशेत् ॥ ५.१३३ ॥}
{विण्मूत्रोत्सर्गशुद्ध्यर्थं मृद्वार्य् आदेयम् अर्थवत् ।
दैहिकानां मलानां च शुद्धिषु द्वादशस्व् अपि ॥ ५.१३४ ॥}
{वसा शुक्रम् असृङ् मज्जा मूत्रविड्घ्राणकर्णविट् ।
श्लेश्माश्रुदूषिका स्वेदो द्वादशैते नृणां मलाः ॥ ५.१३५ ॥}
{एका लिङ्गे गुदे तिस्रः तथैकत्र करे दश (?) ।
उभयोः सप्त दातव्या मृदः शुद्धिम् अभीपसता (?) ॥ ५.१३६ ॥
एतच्छौचं गृहस्थानां द्विगुणं ब्रह्मचारिणाम् ।
[२४५] त्रिगुणं स्याद् वनस्थानां यतीनां तु चतुर्गुणम् ॥ ५.१३७ ॥}
{कृत्वा मूत्रं पुरीषं वा खान्य् आचान्त उपस्पृशेत् ।
वेदम् अध्य्ष्यमानश् च अन्नम् अश्नंश् च सर्वदा ॥ ५.१३८ ॥
त्रिर् आचामेद् अपः पूर्वं द्विर् उन्मृज्यात् ततो मुखम् ।
शारीरं शौचम् अन्विच्छन् स्त्री शूद्रस् तु सकृत् सकृत् ॥ ५.१३९ ॥}
{शूद्राणां मासिकं कार्यं वपनं न्यायवर्तिनाम् ।
वैश्यवच् छौचकल्पश् च द्विजोच्छिष्टं च भोजनम् ॥ ५.१४० ॥}
{नोच्छिष्टं कुर्वते मुख्या विप्रुषो ऽङ्गे पतन्ति याः ।
न श्मश्रूणि गतान्य् आस्यं न दन्तान्तरधिष्ठितम् ॥ ५.१४१ ॥}
{स्पृशन्ति बिन्दवः पादौ य आचामयतः परान् ।
भौमिकैस् ते समा ज्ञेया न तैर् अप्रयतो भवेत् ॥ ५.१४२ ॥[२४६]}
{उच्छिष्टेन तु संस्पृष्टो द्रव्यहस्तः कथञ्चन ।
अनिधायैव तद् द्रव्यम् आचान्तः शुचिताम् इयात् ॥ ५.१४३ ॥}
{वान्तो विरिक्तः स्नात्वा तु घृतप्राशनम् आचरेत् ।
आचामेद् एव भुक्त्वान्नं स्नानं मैथुनिनः स्मृतम् ॥ ५.१४४ ॥}
{सुप्त्वा क्षुत्वा च भुक्त्वा च निष्ठीव्योक्त्वानृतानि च ।
पीत्वापो ऽध्य्ष्यमाणश् च आचामेत् प्रयतो ऽपि सन् ॥ ५.१४५ ॥}
{एष शौचविधिः कृत्स्नो द्रवशुद्धिस् तथैव च ।
उक्तो वः सर्ववर्णानां स्त्रीणां धर्मान् निबोधत ॥ ५.१४६ ॥
बालया वा युवत्या वा वृद्धया वापि योषिता ।
न स्वातन्त्र्येण कर्तव्यं किञ्चित् कार्यं गृहेष्व् अपि ॥ ५.१४७ ॥}
{बाल्ये पितुर् वशे तिष्ठेत् पाणिग्राहस्य यौवने ।
पुत्राणां भर्तरि प्रेते न भजेत् स्त्री स्वतन्त्रताम् ॥ ५.१४८ ॥[१४७]}
{पित्रा भर्त्रा सुतैर् वापि नेच्छेद् विरहम् आत्मनः ।
एषां हि व्रहेण स्त्री गर्ह्ये कुर्याद् उभे कुले ॥ ५.१४९ ॥}
{सदा प्रहृष्टया भाव्यं गृहकार्ये च दक्षया ।
सुसंस्कृतोपस्करया व्यये चामुक्तहस्तया ॥ ५.१५० ॥}
{यस्मै दद्यात् पिता त्व् एनां भ्राता वानुमते पितुः ।
तं शुश्रूषेत जीवन्तं संस्थितं च न लङ्घयेत् ॥ ५.१५१ ॥}
{मङ्गलार्थं स्वस्त्ययनं यज्ञश् चासां प्रजापतेः ।
प्रयुज्यते विवाहेषु प्रदानं स्वाम्यकारणम् ॥ ५.१५२ ॥}
{अनृताव् ऋतुकाले च मन्त्रसंस्कारकृत् पतिः ।
सुखस्य नित्यं दातेह परलोके च योषितः ॥ ५.१५३ ॥
विशीलः कामवृत्तो वा गुणैर् वा परिवर्जितः ।
उपचर्यः स्त्रिया साध्व्या सततं देववत् पतिः ॥ ५.१५४ ॥
नास्ति स्त्रीणां पृथग् यज्ञो न व्रतं न ह्य् (नाप्य्?) उपोषणम् ।
पतिं शुश्रूषते यत् तु (येन) तेन स्वर्गे महीयते ॥ ५.१५५ ॥}
{पाणिग्राहस्य साध्वी स्त्री जीवतो वा मृतस्य वा ।
पतिलोकम् अभीप्सन्ती नाचरेत् किञ्चिद् अप्रियम् ॥ ५.१५६ ॥
[२४८] कामं तु क्षपेयेद् देहं पुष्पमूलफलैः शुभैः ।
न च (तु) नामापि गृह्णीयात् पत्यौ प्रेते परस्य तु ॥ ५.१५७ ॥}
{आसीता मरणात् क्षान्ता नियता ब्रह्मचारिणी ।
यो धर्म एकपत्नीनां काङ्क्षन्ती तम् अनुत्तमम् ॥ ५.१५८ ॥}
{अनेकानि सहस्राणि कुमारब्रह्मचारिणाम् ।
दिवं गतानि विप्राणाम् अकृत्वा कुलसन्ततिम् ॥ ५.१५९ ॥
मृते भर्तरि साध्वी स्त्री ब्रह्मचर्ये व्यवस्थिता ।
स्वर्गं गच्छत्य् अपुत्रापि यथा ते ब्रह्मचारिणः ॥ ५.१६० ॥}
{अपत्यलोभाद् या तु स्त्री भर्तारम् अतिवर्तते ।
सेह निन्दाम् अवाप्नोति परलोकाच् च हीयते ॥ ५.१६१ ॥}
{नान्योत्पन्नप्रजास्तीति (सीह?) नाप्य् अन्यस्य परिग्रहे ।
द्वितीयश् च न साध्वीनां क्वचिद् भर्तोपदिश्यते ॥ ५.१६२ ॥}
{निन्द्यैव लोके भवति परपूर्वेति चोच्यते ॥ ५.१६३ ॥}
{सृगालयोनिं प्राप्नोति पापरोगैश् च पीड्यते ॥ ५.१६४ ॥[२४९]}
{पतिं या नातिचरति मनोवाग्देहसंयता ।
सा भर्तृलोकान् आप्नोति सद्भिः साध्वीति चोच्यते ॥ ५.१६५ ॥
अनेन नारी वृत्तेन मनोगाग्देहसंयता ।
इहाग्र्यां कीर्तिम् आप्नोति पतिलोकं परत्र च ॥ ५.१६६ ॥}
{एवंवृत्तां सवर्णां स्त्रीं द्विजातिः पूर्वमारिणीम् ।
दाहयेद् अग्निहोत्रेण यज्ञपात्रैश् च धर्मवित् ॥ ५.१६७ ॥}
{भार्यायै पूर्वमारिण्यै दत्वाग्नीन् अन्त्यकर्मणि ।
पुनर् दारक्रियां कुर्यात् पुनर् आधानम् एव च ॥ ५.१६८ ॥}
{अनेन विधिना नित्यं प्ञ्चयज्ञान् न हापयेत् ।
द्वितीयम् आयुषो भागं गृहेषु ब्राह्मणो वसन् ॥ ५.१६९ ॥}