०४

चतुर्थो ऽध्यायः

आश्रमाणां समुच्चयपक्षम् आश्रित्याश्रमिणः पुरुषस्य यदायुस्तच् (?) चतुर्धा विभज्येदम् आह ।

{चतुर्थाम् आयुषो भागम् उषित्वाद्यं गुरौ द्विजः ।
द्वितीयम् आयुषो भागं क्र्तदारो गृहे वसेत् ॥ ४.१ ॥}

{अद्रोहेणैव भूतानाम् अल्पद्रोहेण वा पुनः ।
या वृत्तिस् तां समास्थाय विप्रो जीवेद् अनापदि ॥ ४.२ ॥}

{यात्रामात्रप्रसिद्ध्यर्थं स्वैः कर्मभिर् अगर्हितैः ।
अक्लेशेन शरीरस्य कुर्वीत धनसञ्चयम् ॥ ४.३ ॥}

{ऋतामृताभ्यां जीवत् तु मृतेन प्रमृतेन वा ।
[१६१] सत्यामृताभ्याम् अपि वा न श्ववृत्त्या कथञ्चन ॥ ४.४ ॥}

{ऋतम् उञ्छशिलं ज्ञेयम् अमृतं स्याद् अयाचितम् ।
मृतं तु याचितं भैक्षं प्रमृतं कर्षणं स्मृतम् ॥ ४.५ ॥
सत्यानृतं तु वाणिज्यं तेन चैवापि जीव्यते ।
सेवा श्ववृत्तिर् व्याख्याता तस्मात् तां परिवर्जयेत् ॥ ४.६ ॥}

{कुसूलधान्यको वा स्यात् कुम्भीधान्यक एव वा ।
त्र्यहैहिको वापि भवेद् अश्वस्तनिक एव वा ॥ ४.७ ॥}

{षट्कर्मैको भवत्य् एषां त्रिभिर् अन्यः प्रवर्तते ।
द्वाध्याम् एकश् चतुर्थस् तु ब्रह्मसत्त्रेण जीवति ॥ ४.९ ॥}

{वर्तयंश् च शिलोञ्छाभ्याम् अग्निहोत्रपरायणः ।
इष्टीः पार्वायणान्तीयाः केवला निर्वपेत् सदा ॥ ४.१० ॥}

{न लोकवृत्तं वर्तेत वृत्तिहेतोः कथञ्चन ।
अजिह्माम् अशठां शुद्धां जीवद् ब्राह्मणजीविकाम् ॥ ४.११ ॥}

{सन्तोषं परम् आस्थाय सुखार्थी संयतो भवेत् ।
सन्तोषमूलं हि सुखं दुःखमूलं विपर्ययः ॥ ४.१२ ॥}

{अतो ऽन्यतमया वृत्त्या जीवंस् तु स्नातको द्विजः ।
स्वर्ग्यायुष्ययशस्यानि व्रतानीमानि धारयेत् ॥ ४.१३ ॥}

{[१६४]
वेदोदितं स्वकं कर्म नित्यं कुर्याद् अतन्द्रितः ।
तद् धि कुर्वन् यथाशक्ति प्राप्नोति परमां गतिम् ॥ ४.१४ ॥}

{अतिप्रसक्तिं चैतेषां मनसा सन्निवर्तयेत् ॥ ४.१६ ॥}

{यथा तथाध्यापयंस् तु सा ह्य् अस्य कृतकृत्यता ॥ ४.१७ ॥}

{वयसः कर्मणो ऽर्थस्य श्रुतस्याभिजनस्य च ।
वेषवाच्बुद्धिसारूप्यम् आचरन् विचरेद् इह ॥ ४.१८ ॥}

{बुद्धिवृद्धिकराण्य् आशु धन्यानि च हितानि च ।
नित्यं शास्त्राण्य् अवेक्षेत निगमांश् चैव वैदिकान् ॥ ४.१९ ॥}

{यथा यथा हि पुरुषः शास्त्रं समधिगच्छति ।
तथा तथा विजानाति विज्ञानं चास्य रोचते ॥ ४.२० ॥}

{ऋषियज्ञं देवयज्ञं भूतयज्ञं च सर्वदा ।
नृयज्ञं पितृयज्ञं च यथाशक्ति न हापयेत् ॥ ४.२१ ॥}

{एतान् एके महायज्ञान् यज्ञशास्त्रविदो जनाः ।
अनीहमानाः सततम् इन्द्रियेष्व् एव जुह्वति ॥ ४.२२ ॥[१६६]}

{वाच्य् एके जुह्वति प्राणं प्राणे वाचं च सर्वदा ।
वाचि प्राणे च पश्यन्तो यज्ञनिर्वृत्तिं अक्षयाम् ॥ ४.२३ ॥}

{अग्निहोत्रं च जुहुयाद् आद्यन्ते द्युनिशोः सदा ।
दर्शेन पक्षमासान्ते पौर्णमासेन चैव ह ॥ ४.२५ ॥
सस्यान्ते नवसस्येष्ट्या तथर्त्वन्ते द्विजो ऽध्वरैः ।
पशुना ह्य् अयनस्यान्ते समान्ते सौमिकैर् मखैः ॥ ४.२६ ॥}

{नानिष्ट्वा नवसस्येष्ट्या पशुना वाग्निमान् द्विजः ।
नवान्नम् अद्यान् मांसं वा दीर्घम् आयुर् जिजीविषुः ॥ ४.२७ ॥
नवेनानर्चिता ह्य् अस्य पशुहव्येन चाग्नयः ।
प्राणान् एवात्तुम् इच्छन्ति नवान्नामिषगर्धिनः ॥ ४.२८ ॥}

{आसनाशनशय्याभिर् अद्भिर् मूलफलेन वा ।
नास्य कश्चिद् वसेद् गेहे शक्तितो ऽनर्चितो ऽतिथिः ॥ ४.२९ ॥}

{पाषण्डिनो विकर्मथान् बैडालव्रतिकाञ् छटान् ।
हैतुकान् बकवृत्तींश् च वाङ्मात्रेणापि नार्चयेत् ॥ ३.३० ॥}

{वेदविद्याव्रतस्नातान् श्रोत्रियान् गृहमेधिनः (गृहम् आगतान्) ।
[१६९] पूजयेद् धव्यकव्याभ्यां विपरीतांस् तु वर्जयेत् ॥ ४.३१ ॥}

{शक्तितो ऽपचमानेभ्यो दातव्यं गृहमेधिना ।
संविभागश् च भूतेभ्यः कर्तव्यो ऽनुपरोधतः ॥ ४.३२ ॥}

{राजतो धनम् अन्विच्छेत् संसीदन् स्नातकः क्षुधा ।
याज्यान्तेवासिनोर् वापि न त्व् अन्यत इति स्थितिः ॥ ४.३३ ॥}

{न सीदेत् स्नातको विप्रः क्षुधा शक्तः कथञ्चन ।
न जीर्णमलवद्वासा भवेच् च विभवे सति ॥ ४.३४ ॥[१७१]}

{कॢप्तकेशनखश्मश्रुर् दान्तः शुक्लाम्बरधरः शुचिः ।
स्वाध्याये चैव युक्तः स्यान् नित्यम् आत्महितेषु च ॥ ४.३५ ॥}

{वैणवीं धारयेद् यष्टिं सोदकं च कमण्डलुम् ।
यज्ञोपवीतं वेदं च शुभं रौक्मे च कुण्डले ॥ ४.३६ ॥}

{नेक्षेतोद्यन्तम् आदित्यं नास्तं यान्तं कदाचन ।
नोपरक्तं न वारिस्थं न मध्यं नभसो गतम् ॥ ४.३७ ॥
न लङ्घयेद् वत्सतन्त्रीं न प्रधावेच् च वर्षति ।
न चोदके निरीक्षेत स्वं रूपम् इति धारणा ॥ ४.३८ ॥
मृदं गां दैतं विप्रं घृतं मधु चतुष्पथम् ।
प्रदक्षिणानि कुर्वीत प्रज्ञातं च वनस्पतिम् ॥ ४.३९ ॥}

{नोपगच्छेत् प्रमत्तो ऽपि स्त्रियम् आर्तवदर्शने ।
समाने शयने चैव न शयीत तथा सह ॥ ४.४० ॥
रजसाभिप्लुतां नारीं द्विजस्याभ्युपगच्छतः ।
प्रजा तेजो यशश् चक्षुर् आयुश् चैव प्रहीयते ॥ ४.४१ ॥
तां विवर्जयतस् तस्य रजसा समभिप्लुताम्
प्रज्ञा तेजो यशश् चक्षुर् आयुश् चैव प्रवर्धते ॥ ४.४२ ॥}

{नाश्नीयाड् भार्यया सार्धं नैनां वीक्षेत वाश्नतीम् ।
क्षुवतीं जृम्भमाणां वा न चासीनां यथासुखम् ॥ ४.४३ ॥}

{न शूद्राय मतिं दद्यान् नोच्छिष्टं न हविष्कृतम् ।
न चास्योपदिशेद् धर्मं न चास्य व्रतम् आदिशेत् ॥ ४.८० ॥}

{यो ह्य् अस्य धर्मम् आचष्टे यश् चोपदिशति व्रतम् ।
सो ऽसंवृतं नाम तमः सह तेनैव गच्छति ॥ ४.८१ ॥[१८०]}

{न संहताभ्यां पाणिभ्यां कण्डूयेतात्मनः शिरः ।
न स्पृशेच् चैतद् उच्छिष्टो न च स्नायाद् विना ततः ॥ ४.८२ ॥}

{केशग्रहान् प्रहारांश् च शिरस्य् एतान् विवर्जयेत् ।
शिरःस्नातश् च तैलेन नाङ्गं किञ्चिद् अपि स्पृशेत् ॥ ४.८३ ॥
न राज्ञः प्रतिगृह्णीयाद् अराजन्यप्रसूतिनः ।
सूनाचक्रध्वजवतां वेशेनैव च जीवताम् ॥ ४.८४ ॥}

{दशसूनासमं चक्रं दशचक्रसमो ध्वजः ।
दशध्वजसमो वेशो दश वेशसमो नृपः ॥ ४.८५ ॥
दशसूनासहस्राणि यो वाहयति सौनिकः ।
तेन तुल्यः स्मृतो राजा घोरस् तस्य प्रतिग्रहः ॥ ४.८६ ॥}

{यो राज्ञः प्रतिगृह्णाति लुब्धस्योच्छास्त्रवर्तिनः ।
[१८१] स. पर्यायेण यातीमान् नरकान् एकविंशतिम् ॥ ४.८७ ॥
तामिस्रम् अन्धतामिस्रं महारौरवरौरवौ ।
नरकं कालसूत्रं च महानरकम् एव च ॥ ४.८८ ॥
सञ्जीवनं महावीचिं तपनं सम्प्रतापनम् ।
संहातं च सकाकोलं कुद्दालं पूतिमृत्तिकम् ॥ ४.८९ ॥
लोहशङ्कुम् ऋजीषं च पन्थानं शाल्मलीं नदीम् ।
असिपत्रवनं चैव लोहदारकम् एव च ॥ ४.९० ॥
एतद् विदित्वा विद्वांसो ब्राह्मणा ब्रह्मवादिनः ।
न राज्ञः प्रतिगृह्णन्ति प्रेत्य श्रेयो ऽभिकाङ्क्षिणः ॥ ४.९१ ॥}

{ब्राह्मे मुहूर्ते बुध्येत धर्मार्थौ चानुचिन्तयेत् ।
कायक्लेशांश् च तन्मूलान् वेदतत्त्वार्थम् एव च ॥ ४.९२ ॥}

{उत्थायावश्यकं कृत्वा कृतशौचः समाहितः ।
पूर्वां सन्ध्यां जपंस् तिष्ठेत् स्वकाले चापरां चिरम् ॥ ४.९३ ॥[१८२]}

{ऋषयो दीर्घसन्ध्यत्वाद् दीर्घम् आयुर् अवाप्नुयुः ।
प्रज्ञां यशश् च कीर्तिं च ब्रह्मवर्चसम् एव च ॥ ४.९४ ॥}

{श्रावण्यां प्रौष्ठपद्यां वाप्य् उपाकृत्य यथाविधि ।
युक्तश् छन्दांस्य् अधीयीत मासं विप्रो ऽर्धपञ्चमान् ॥ ४.९५ ॥}

{पुष्ये तु छन्दसां कुर्याद् बहिर् उत्सर्जनं द्विजः ।
माघशुक्लस्य वा प्राप्ते पूराह्णे प्रथमे ऽहनि ॥ ४.९६ ॥}

{यथाशास्त्रं तु कृत्वैवम् उत्सर्गं छन्दसां बहिः ।
विरमेत् पक्षिणीं रात्रिं तद् एवैकम् अहर्निशम् ॥ ४.९७ ॥}

{अत ऊर्ध्वं तु छन्दांसि शुक्लेषु नियतः पठेत् ।
वेदाङ्गानि च सर्वाणि कृष्णपक्षे तु सम्पठेत् ॥ ४.९८ ॥}

{नाविस्पष्टम् अधीयीत न शूद्रजनसन्निधौ ।
न निशान्ते परिश्रान्तो ब्रह्माधीत्य पुनः स्वपेत् ॥ ४.९९ ॥}

{यथोदितेन विधिना नित्यं छन्दस्कृतं पठेत् ।
ब्रह्मछन्दस्कृतं चैव् द्विजो युक्तो ह्य् नापदि ॥ ४.१०० ॥[१८३]}

{इमान् नित्यम् अनाध्यायान् अधीयानो विवर्जयेत् ।
अध्यापनं च कुर्वाणः शिष्याणां विधिपूर्वकम् ॥ ४.१०१ ॥}

{कर्णश्रवे ऽनिले रात्रौ दिवा पांसुसमूहने ।
एतौ वर्षास्व् अनध्यायाव् अध्यायज्ञाः प्रचक्षते ॥ ४.१०२ ॥}

{विद्युत्स्तनितवर्षेषु महोल्कानां च सम्प्लवे ।
आकालिकम् अनध्यायम् एतेषु मनुर् अब्रवीत् ॥ ४.१०३ ॥}

{एतांस् त्व् अभ्युदितान् विद्याद् यदा प्रादुष्कृताग्निषु ।
तदा विद्याद् अनध्यायम् अनृतौ चाह दर्शने (चाभ्र-) ॥ ४.१०४ ॥}

{निर्घाते भूमिचलने ज्योतिषां चोपसर्जने ।
एतान् आकालिकान् द्विद्याद् अनाध्यायान् ऋताव् अपि ॥ ४.१०५ ॥}

{प्रादुष्कृतेष्व् अग्निषु तु विद्य्त्स्तनितनिःस्वने ।
सज्योतिः स्याद् अनाध्यायः शेषं रात्रौ यथा दिवा ॥ ४.१०६ ॥}

{नित्यानध्याय एव स्याद् ग्रामेषु नगरेषु च ।
धर्मनैपुण्यकामानां पूतिगन्धे च सर्वशः ॥ ४.१०७ ॥
अन्तःशवगते ग्रामे वृषलस्य च सन्निधौ ।
अनध्यायो रुद्यमाने समवाये जनस्य च ॥ ४.१०८ ॥
उदके मध्यरात्रे च विण्मूत्रस्य विसर्जने ।
उच्छिष्टः श्राद्धभुक् चैव मनसापि न चिन्तयेत् ॥ ४.१०९ ॥}

{प्रतिगृह्य द्विजो विद्वान् एकोद्दिष्टस्य केतनम् ।
त्र्यहं च कीर्तयेद् ब्रह्म राज्ञो राहोश् च सूतके ॥ ४.११० ॥}

{यावद् एकानुदिष्टस्य स्नेहो लेपश् च तिष्ठति ।
विप्रस्य विदुषो देहे तावत् ब्रह्म न कीर्तयेत् ॥ ४.१११ ॥}

{शयानः पौढपादश् च कृत्वा चैवावस्क्थिकाम् ।
नाधीयीतामिषं जग्ध्वा सूत्कान्नाद्यम् एव च ॥ ४.११२ ॥}

{नीहारे बाणशब्दे च सन्ध्ययोर् एव चोभयोः ।
अमावास्याचतुर्दश्योः पौर्णमास्यष्टकासु च ॥ ४.११३ ॥[१८५]}

{अमावास्या गुरुं हन्ति शिष्यं हन्ति चतुर्दशी ।
ब्रह्माष्ट्कपौर्णमास्यौ (?) तस्मात् ताः परिवर्जयेत् ॥ ४.११४ ॥}

{पांसुवर्षे दिशां दाहे गोमायुविरुते तथा ।
श्वखरोष्ट्रे रुवति च पङ्क्तौ च न पठेद् द्विजः ॥ ४.११५ ॥
नाधीयीत श्मशानान्ते ग्रामान्ते गोव्रजे तथा ।
वसित्वा मैथुनं वासः श्राद्धिकं प्रतिगृह्य च ॥ ४.११६ ॥
प्राणि वा यदि वाप्राणि यत् किञ्चिच् छ्राद्दिकं भवेत् ।
तद् आलभ्याप्य् अनध्यायः पाण्यास्यो हि द्विजः स्मृतः ॥ ४.११७ ॥
चोरैर् उपप्लुते ग्रामे सम्भ्रमे चाग्निकारिते ।
आकालिकम् अनध्यायं विद्यात् सर्वाद्भुतेषु च ॥ ४.११८ ॥}

{उपाकर्मणि सोत्सर्गे त्रिरात्रं क्षेपणं स्मृतम् ।
अष्टकासु त्व् अहोरात्रम् ऋत्वन्तासु च रात्रिषु ॥ ४.११९ ॥}

{नाधीयीताश्वम् आरूढो न वृक्षं न च हस्तिनम् ।
न नावं न खरं नोष्ट्रं नेरिणस्थो न यानगः ॥ ४.१२० ॥}

{[१८६] न विवादे न कलहे न सेनायां न सङ्गरे ।
न भुक्तमात्रे नाजीर्णे न समित्वा न शुक्तके ॥ ४.१२१ ॥}

{अतिथिं चानुज्ञाप्य मारुते वाति वा भृशम् ।
रुधिरे च श्रुते गात्राच् छस्त्रेण च परिक्षते ॥ ४.१२२ ॥
सामध्वनाउ चर्ग्यजुषी नाधीयीत कदाचन ।
वेदस्याधीत्य चाप्य् अन्तम् आरण्यकम् अधीत्य च ॥ ४.१२३ ॥}

{ऋग्वेदो देवदैवत्यो यजुर्वेदस् तु मानुषः ।
सामवेदः स्मृतः पित्र्यस् तस्मात् तस्याशुचिर् ध्वनिः ॥ ४.१२४ ॥}

{एतद् विदित्वा विद्वांसस् त्रयीनिष्कर्षम् अन्वहम् ।
क्रमशः पूर्वम् अभ्यस्य पश्चाद् वेदम् अधीयते ॥ ४.१२५ ॥}

{पशुमण्डूकमार्जाराश्वसर्पनकुलेषु च ।
अन्तरागमने विद्याद् अनध्यायम् अहर्निशम् ॥ ४.१२६ ॥}

{द्वाव् एव वर्जयेन् नित्यम् अनध्यायौ प्रयत्नतः ।
स्वाध्यायभूमिं चाशुद्धाम् आत्मनश् चाशुचिं द्विजः ॥ ४.१२७ ॥}

{अमावास्याम् अष्टमीं च पौर्णमासीं चतुर्दशीम् (?) ।
ब्रह्मचारी भवेन् नित्यम् अप्य् ऋतौ स्नातको द्विजः ॥ ४.१२८ ॥}

{न स्नानम् आचरेद् भुक्त्वा नातुरो न महानिशि ।
न वासोभिः सहाजस्रं नाविज्ञाते जलाशये ॥ ४.१२९ ॥}

{[१८८]
देवतानां गुरो राज्ञः स्नातकाचार्ययोस् तथा ।
नाक्रामेत् कामतश् छायां बभ्रुणो दीक्षितस्य च ॥ ४.१३० ॥}

{मध्यन्दिने ऽर्धरात्रे च श्राद्धं भुक्त्वा च सामिषम् ।
सन्ध्ययोर् उभयोश् चैव न सेवेत चतुष्पथम् ॥ ४.१३१ ॥
उद्वर्तनम् अपस्नानं विण्मूत्रे रक्तम् एव च ।
श्लेश्मनिष्ठूतवान्तानि नाधितिष्ठेत् तु कामतः ॥ ४.१३२ ॥
वैरिणं नोपसेवेत सहायं चैव वैरिणः ।
अधार्मिकं तस्करं च परस्यैव च योषितम् ॥ ४.१३३ ॥
न हीदृशम् अनायुष्यं लोके किञ्चन दृश्यते ।
यादृशं पुरुषस्येह परदारोपसेवनम् ॥ ४.१३४ ॥}

{क्षत्रियं चैव सर्पं च ब्राह्मणं च बहुश्रुतम् ।
नावमन्येत वै भूष्णुः कृशान् अपि कदाचन ॥ ४.१३५ ॥}

{तस्माद् एतत् त्रयं नित्यं नावमन्येत् बुद्धिमान् ॥ ४.१३६ ॥}

{[१८९]
नात्मानम् अवमन्येत पूर्वाभिर् असमृद्धिभिः ।
आ मृत्योः श्रियम् अन्विच्छन् नैनां मन्येत दुर्लभाम् ॥ ४.१३७ ॥}

{सत्यं ब्रूयात् प्रियं ब्रूयान् न ब्रूयात् सत्यम् अप्रियम् ।
प्रियं च नानृतं ब्रूयाद् एष धर्मः सनातनः ॥ ४.१३८ ॥}

{भ्रद्रं भद्रम् इति ब्रूयात् भद्रम् इत्य् एव वा वदेत् ।
गृहवैरं विवादं च न कुर्यात् केनचित् सह ॥ ४.१३९ ॥}

{नातिकल्यं नातिसायं नातिमध्यन्दिने स्थिते ।
नाज्ञातेन समं गच्छेन् नैको न वृषलैः सह ॥ ४.१४० ॥
हीनाङ्गान् अतिरिक्ताङ्गान् विद्याहीनान् वयोऽतिगान् ।
रूपद्रविणहीनांश् च जातिहीनांश् च नाक्षिपेत् ॥ ४.१४१ ॥
न स्पृशेत् पाणिनोच्छिष्टो विप्रो गोब्राह्मणानलान् ।
न चापि पश्येद् अशुचिः स्वस्थो ज्योतिर्गणान् दिविन् ॥ ४.१४२ ॥
[१९०] स्पृष्ट्वाइतान् अशुचिर् नित्यम् अद्भिः प्राणान् उपस्पृशेत् ।
गात्राणि चैव सर्वाणि नाभिं पाणितलेन तु ॥ ४.१४३ ॥}

{अनातुरः स्वानि खानि न स्पृशेद् अनिमित्ततः ।
रोमाणि च रहस्यानि सर्वाण्य् एव विवर्जयेत् ॥ ४.१४४ ॥}

{मङ्गलाचारयुक्तः स्यात् प्रयतात्मा जितेन्द्रियः ।
जपेच् च जुहुयाच् चैव नित्यम् अग्निम् अतन्द्रितः ॥ ४.१४५ ॥}

{मङ्गलाचारयुक्तानां नित्यां च नियतात्मनाम् ।
जपतां जुह्वतां चैव विनिपातो न विद्यते ॥ ४.१४६ ॥}

{वेदम् एव जपेन् (?) नित्यं यथाकालम् अतन्द्रितः ।
तं ह्य् अस्याहुः परं धर्मम् उपधर्मो ऽन्य उच्यते ॥ ४.१४७ ॥}

{वेदाभ्यासेन सततं शौचेन तपसैव च ।
अद्रोहेणैव भूतानां जातिं स्मरति पौर्विकीम् ॥ ४.१४८ ॥
पौर्विकीं संस्मरन् जातिं ब्रह्म चाभ्यस्यति द्विजः ।
ब्रह्माभ्यासेन चाजस्रम् अनन्तं सुखम् अश्नुते ॥ ४.१४९॥}

{सावित्राञ् छान्तिहोमांश् च कुर्यात् पर्वसु नित्यशः ।
पितॄंश् चैवाष्टकास्व् अर्चेन् नित्यम् अन्वष्टकासु च ॥ ४.१५० ॥[१९१]}

{दूराद् आवसथं मूत्रं दूरात् पादावनेजनम् ।
उच्छिष्टान्ननिषेकं च दूराद् एव समाचरेत् ॥ ४.१५१ ॥}

{मैत्रं प्रसाधनं स्नानं दन्तधावनम् अञ्जनम् ।
पूर्वाह्ण् एव कुर्वीत देवतानां च पूजनम् ॥ ४.१५२ ॥}

{देवतान्य् अभिगच्छेत धार्मिकांश् च द्विजोत्तमान् ।
ईश्वरं चैव रक्षार्थं गुरून् एव च पर्वसु ॥ ४.१५३ ॥
अभिवादयेत वृद्धांश् च दद्याच् चैवासनं स्वकम् ।
कृताञ्जलिर् उपासीत गच्छतः पृष्ठतो ऽन्वियात् ॥ ४.१५४ ॥}

{श्रुतिस्मृत्युदितं धर्मं निबन्धं स्वेषु कर्मसु ।
धर्ममूलं निषेवेत सदाचारम् अतन्द्रितः ॥ ४.१५५ ॥}

{आचाराल् लभते ह्य् आयुर् आचाराद् ईप्सिताः प्रजाः ।
आचाराद् धनम् अक्षय्यम् आचारो हन्त्य् अलक्षणम् ॥ ४.१५६ ॥
दुराचारो ह्य् पुरुषो लोके भवति निन्दितः ।
दुःखभागी हि स्ततं व्याधितो ऽल्पायुर् एव च ॥ ४.१५७ ॥
सर्वलक्षणहीनो ऽपि यः सदाचारवान् नरः ।
श्रद्दधानो ऽनसूयश् च शतवर्षाणि जीवति ॥ ४.१५८ ॥}

{यद् यद् आत्मवशं तु स्यात् तत् तत् सेवेत यत्नतः ॥ ४.१५९ ॥}

{सर्वं परवशं दुःखं सर्वम् आत्मवशं सुखम् ।
एतद् विद्यात् समासेन लक्षणं सुखदुःखयोः ॥ ४.१६० ॥}

{यत् कर्म कुर्वतो ऽस्य स्यात् परितोषो ऽन्तरात्मनः ।
तत् प्रयत्नेन कुर्वीत विपरीतं तु वर्जयेत् ॥ ४.१६१ ॥}

{आचार्यं च प्रवक्तारं पितरं मातरं तथा ।
न हिंस्याद् ब्राह्मणान् गांश् च सर्वांश् चैव तपस्विनः ॥ ४.१६२ ॥}

{नास्तिक्यं वेदनिन्दां च देवतानां च कुत्सनम् ।
द्वेषं स्तम्भं च मानं च क्रोधं बैक्ष्यं च वर्जयेत् ॥ ४.१६३॥}

{परस्य दण्डं नोद्यच्छेत् क्रुद्धो नैनं निपातयेत् ।
अन्यत्र पुत्राच् छिष्याद् वा शिष्ट्यर्थं ताडयेच् च तौ ॥ ४.१६४ ॥
ब्राह्मणायावगुर्यैव द्विजातिर् वधकाङ्क्षया ।
शतं वर्षाणि तामिस्रे नरके परिवर्तते ॥ ४.१६५ ॥
[१९३] ताडयित्वा तृणेनापि संरम्भात् मतिपूर्वकम् ।
एकविंशतिम् आजातिं पापयोनिष् जायत् ॥ ४.१६६ ॥
अयुध्यमानस्योत्पाद्य ब्राह्मणस्यासृग् अङ्गतः ।
दुःखं सुमहद् आप्नोति प्रेत्याप्राज्ञतया नरः ॥ ४.१६७ ॥
यावतः शोणितं पांसून् सङ्गृह्णाति महीतलात् ।
तावतो ऽब्दान् अमुत्रान्यैः शोणितोत्पादको ऽद्यते ॥ ४.१६८ ॥}

{न कदाचिद् द्विजो विप्रांस् तस्माद् अवगुरेद् अपि ।
न ताडयेत् तृणेनापि न गात्रात् स्रावयेद् असृक् ॥ ४.१६९ ॥}

{अधार्मिको नरो यो हि यस्य चाप्य् अनृतं धनम् ।
हिंसारतिश् च यो नित्यं नेहासौ सुखम् एधते ॥ ४.१७० ॥}

{अधार्मिकाणां पापानाम् आशु पश्यन् विपर्ययम् ॥ ४.१७१ ॥}

{यदि नात्मनि पुत्रेषु न चेत् पुत्रेषु नप्तृषु ।
न त्व् एव तु कृतो ऽधर्मः कर्तुर् भवति निष्फलः ॥ ४.१७३ ॥}

{सत्यधर्मार्यवृत्तेषु शौचे चैवारमेत् सदा ।
शिष्यांश् च शिष्याद् धर्मेण वाग्बाहूदरसंयुतः ॥ ४.१७५ ॥}

{परित्यजेद् अर्थकामौ यौ स्यातां धर्मवर्जितौ ।
धर्मं चाप्य् असुखोदर्कं लोकसङ्क्रुष्टम् एव च ॥ ४.१७६ ॥}

{न पाणिपादचपलो न नेत्रचपलो ऽनृजुः ।
न स्याद् वाक्चपलश् चैव न परद्रोहकर्मधीः ॥ ४.१७७ ॥}

{येनास्य पितरो याता येन याताः पितामहाः ।
तेन यायात् सतां मार्गं तेन गच्छन् न रिष्यति ॥ ४.१७८ ॥}

{ऋत्विक्पुरोहिताचार्यैर् मातुलातिथिसंश्रयैः ।
बालवृद्धातुरैर् वैद्यैर् ज्ञातिसम्बन्धिबान्दवैः ॥ ४.१७९ ॥
मातापितृभ्यां जामीभिर् भ्रात्रा पुत्रेण भार्यया ।
दुहित्रा दासवर्गेण विवादं न समाचरेत् ॥ ४.१८० ॥
एतैर् विवादान् सन्त्यज्य सर्पापैः प्रमुच्यते ।
एतान् जित्वा च जयति सर्वलोकान् इमान् गृही ॥ ४.१८१ ॥}

{आचार्यो ब्रह्मलोकेशः प्राजापत्ये पिता प्रभुः ।
अतिथिस् त्व् इन्द्रलोकेशो देवलोकस्य चर्त्विजः ॥ ४.१८२ ॥
जामयो ऽप्सरसाम् लोके वैश्वदेवस्य बान्धवाः ।
सम्बन्धिनो ऽपां लोकस्य पृथिव्यां मातृमातुलौ ॥ ४.१८३ ॥
आकाशेशास् तु विज्ञेया बालवृद्धकृशातुराः ।
भ्राता ज्येष्ठः समः पित्रा भार्या पुत्रः स्वका तनुः ॥ ४.१८४॥
[१९६] छाया स्वा दासवर्गस् तु दुहिता कृपणं परम् ।
तस्माद् एतैर् अधिक्षिप्तः सहेतासञ्ज्वरः सदा ॥ ४.१८५ ॥}

{प्रतिग्रहसमर्थो ऽपि प्रसङ्गं तत्र वर्जयेत् ।
प्रतिग्रहेण ह्य् अस्य ाशु ब्रह्मतेजः प्रशाम्यति ॥ ४.१८६ ॥}

{न द्रव्याणाम् अविज्ञाय विधिं धर्म्यं परिग्रहे ।
प्राज्ञः प्रतिग्रहं कुर्याद् अवसीदन्न् अपि क्षुधा ॥ ४.१८७ ॥}

{हिरण्यं भूमिम् अश्वं गाम् अन्नं वासस् तिलान् घृतम् ।
प्रतिगृह्णन्न् अविद्वांस् तु भस्मीभवति दारुवत् ॥ ४.१८८ ॥}

{हिरण्यम् आयुर् अन्नं च भूर् गौश् चाप्य् ओषतस् तनम् ।
अश्वश् चक्षुस् त्वचं वासो घृतं तेजस् तिलाः प्रजाः ॥ ४.१८९ ॥}

{अतपास् त्व् अनधीयानः प्रतिग्रहरुचिर् द्विजः ।
अम्भस्य् अश्मप्लवेनेव सह तेनैव मज्जति ॥ ४.१९० ॥}

{तस्माद् अविद्वान् बिभियाद् यस्मात् तस्मात् प्रतिग्रहात् ।
स्वल्पकेनाप्य् अविद्वान् हि पङ्के गौर् इव सीदति ॥ ४.१९१ ॥}

{न वार्य् अपि प्रयच्छेत बैडालव्रतिके द्विजे ।
न बकव्रतिके पापे नावेदविदि धर्मवित् ॥ ४.१९२ ॥}

{त्रिष्व् अप्य् एतेषु दत्तं हि विधिनाप्य् अर्जितं धनम् ।
दातुर् भवत्य् अनर्थाय परत्रादातुर् एव च ॥ ४.१९३ ॥}

{[१९८] यथा प्लवेनौपलेन निमज्जत्य् उदके तरन् ।
तथा निमज्जतो ऽधस्ताद् अज्ञौ दातृप्रतीच्छकौ ॥ ४.१९४ ॥}

{धर्मध्वजी सदा लुब्धश् छाद्मिको लोकडम्भिकः (?) ।
बैडालव्रतिको ज्ञेयो हिंस्रः सर्वातिसन्धकः॥ ४.१९५ ॥}

{अधोदृष्टिर् नैष्कृतिकः स्वार्थसाधनतत्परः ।
शठो मिथ्याविनीतश् च बकव्रतचरो द्विजः ॥ ४.१९६ ॥}

{ये बकव्रतिनो विप्रा ये च मार्जारलिङ्गिनः ।
ते पतन्त्य् अन्धतामिस्रे तेन पापेन कर्मणा ॥ ४.१९७ ॥}

{न धर्मस्यापदेशेन पापं कृत्वा व्रतं चरेत् ।
व्रतेन पापं प्रच्छाद्य कुर्वन् स्त्रीशूद्रदम्भनम् ॥ ४.१९८ ॥}

{प्रेत्येह चेदृशा विप्रा गर्ह्यन्ते ब्रह्मवादिभिः ।
छद्मनाचरितं यच् च व्रतं रक्षांसि गच्छति ॥ ४.१९९ ॥}

{अलिङ्गी लिङ्गिवेषेण यो वृत्तिम् उपजीवति ।
[१९९] स लिङ्गिनां हरत्य् एनस् तिर्यग्योनौ प्रजायते ॥ ४.२०० ॥}

{परकीयनिपानेषु स्नायान् नैव कदाचन ।
निपानकर्तुः स्नात्वा हि दुष्कृतांशेन लिप्यते ॥ ४.२०१ ॥}

{यानशय्यासनान्य् अस्य कूपोद्यानगृहाणि च ।
अदत्तान्य् उपयुञ्जानस् तृतीयं हरते हि सः ॥ ४.२०२ ॥}

{नदीषु देवखातेषु तटाकेषु सरःसु च ।
स्नानं समाचरेन् नित्यं गर्तप्रस्रवणेषु च ॥ ४.२०३ ॥}

{यमान् सेवेत सततं न नित्यं निय्मान् बुधः ।
यमान् पतत्य् अकुर्वाणो नियमान् केवलान् यजेत् (भजन्?) ॥ ४.२०४ ॥}

{नाश्रोत्रियतते यज्ञे ग्रामयाजिकृते तथा ।
स्त्रिया क्लीबेन च हुते भुञ्जीत ब्राह्मणः क्वचित् ॥ ४.२०५ ॥}

{अश्रीकम् एतत् साधूनां यत्र जुह्वत्य् अमी हविः ।
प्रतीपम् एतद् देवानां तस्मात् तत् परिवर्जयेत् ॥ ४.२०६ ॥}

{मत्तक्रुद्धातुराणां च न भुञ्जीत कदाचन ।
केशकीटावसन्नं च पादस्पृष्टं च कामतः ॥ ४.२०७ ॥}

{भ्रूणघ्नावेक्षितं चैव संस्पृष्टञ्चाप्य् उदक्यया ।
पतत्रिणावलीढं च शुना संस्पृष्टम् एव च ॥ ४.२०८ ॥}

{गवा चान्नम् उपघ्रातं घुष्टान्नं च विशेषतः ।
गणान्नं गणिकान्नं च विदुषा च जुगुप्सितम् ॥ ४.२०९ ॥}

{स्तेनगायनयोश् चैव तक्ष्णो वार्धुषिकस्य च ।
दीक्षितस्य कदर्यस्य बद्धस्य निगडस्य च ॥ ४.२१० ॥[२०२]}

{[अभिशस्तस्य षण्ढस्य पुंश्चल्या दाम्भिकस्य च ।
शुक्तं पर्युषितं चैव शूद्रस्योच्छिष्टम् एव च] ॥ ४.२११ ॥}

{चिकित्सकस्य मृगयोः क्रूरस्योच्छिष्टभोजिनः ।
उग्रान्नं सूतिकान्नं च पर्याचान्तम् अनिर्दशम् ॥ ४.२१२ ॥}

{अनर्चितं वृथामांसम् अवीरायाश् च योषितः ।
द्विषदन्नं नगर्यन्नं (?) पतितान्नम् अवक्षुतम् ॥ ४.२१३ ॥}

{[२०३]
पिशुनानृतिनोश् चान्नं क्रतुविक्रयकस्य च ।
शैलूषतुन्नवायान्नं कृतघ्नस्यान्नम् एव च ॥ ४.२१४ ॥}

{कर्मारस्य निषादस्य रङ्गावतारकस्य च ।
सुवर्णकर्तुर् वेणस्य शास्त्रविक्रयिणस् तथा ॥ ४.२१४ ॥}

{श्ववतां शौण्दिकानां च चैलनिर्णेजकस्य च ।
रजकस्य नृशंसस्य यस्य चोपपतिर् गृहे ॥ ४.२१६ ॥}

{मृष्यन्ति ये चोपपतिं स्त्रीजितानां च सर्वशः ।
अनिर्दशं च प्रेतान्नम् अतुष्टिकरम् एव च ॥ ४.२१७ ॥}

{राजान्नं तेज आदत्ते शूद्रान्नं ब्रह्मवर्चसम् ।
आयुः सुवर्णकारान्नं यशश् चर्मावकर्तिनः ॥ ४.२१८ ॥
कारुकान्नं प्रजा हन्ति बलं निर्णेजकस्य च ।
गणान्नं गणिकान्नं च लोकेभ्यः परिकृन्तति ॥ ४.२१९ ॥
पूयं चिकित्सकस्यान्नं पुंश्चल्याश् चान्नम् इन्द्रियम् ।
विष्ठा वार्धुषिकस्यान्नं शस्त्रविक्रयिणो मलम् ॥ ४.२२० ॥
य एभ्यो ऽन्ये त्व् अभोज्यान्नः क्रमशः परिकीर्तिताः ।
तेषां त्वगस्थिरोमाणि वदन्त्य् अन्नं मनीषिणः ॥ ४.२२१ ॥}

{नाद्याच् छूद्रस्य पक्वान्नं विद्वान् अश्राद्दिनो द्विजः ।
आमम् एवाददीतास्माद् अवृत्ताव् एकरात्रिकम् ॥ ४.२२३ ॥}

{[२०५]
श्रोत्रियस्य कदर्यस्य वदान्यस्य च वार्धुषेः ।
मीमांसितोभयं देवाः समम् अन्नम् अकल्पयन् ॥ ४.२२४ ॥
तान् प्रजापतिर् आहैवं मा कृध्वं विषमं समम् ।
श्रद्धापूतं वदान्यस्य हतम् अश्रद्धयेतरम् ॥ ४.२२५ ॥}

{श्रद्धयेष्टं च पूर्तं च नित्यं कुर्यात् प्रयत्नतः ।
श्रद्धाकृते ह्य् अक्षये ते भवतः स्वागतैर् धनैः ॥ ४.२२६ ॥}

{दानधर्मं निषेवेत नित्यम् ऐष्टिकपौर्तिकम् ।
परितुष्टेन भावेन पात्रम् आसाद्य शक्तितः ॥ ४.२२७ ॥}

{यत् किञ्चिद् अपि दातव्यं याचितेनानसूयता ।
उत्पत्स्यते हि तत् पात्रं यत् तारयति सर्वतः ॥ ४.२२८ ॥}

{वारिदस् तृप्तिम् आप्नोति सुखम् अक्xअयम् अन्नदः ।
तिलप्रदः प्रजाम् इष्टां दीपदश् चक्षुर् उत्तमम् ॥ ४.२२९ ॥
भूमिदो भूमिं आप्नोति दीर्घम् आयुर् हिरण्यदः ।
वृहदो ऽग्र्याणि वेश्मानि रूपदो रूपम् उत्तअमम् ॥ ४.२३० ॥
वासदश् चन्द्रसालोक्यम् अश्विसालोक्यम् आस्वदः ।
अनडुद्दः श्रियं पुष्टां गोदो ब्रध्नस्य विष्टपम् ॥ ४.२३१ ॥
यानशय्याप्रदो भार्याम् ऐश्वर्यम् अभयप्रदः ।
[२०६] धान्यदः शास्वतं सौख्यं ब्रह्मदो ब्रह्मसार्ष्टिताम् ॥ ४.२३२ ॥
सर्वेषाम् एव दानानां ब्रह्मदानं विशिष्यते ।
वार्यन्नगोमहीवासस्तिलकाञ्चनसर्पिषाम् ॥ ४.२३३ ॥}

{येन येन तु भावेन यद् यद् दानं प्रयच्छति ।
तत् तत् तेनैव भावेन प्राप्नोति प्रतिपूजितः ॥ ४.२३४ ॥}

{यो ऽर्चितं प्रतिगृह्णाति ददात्य् अर्चितम् एव च ।
ताव् उभौ गच्छतः स्वर्गं नरकं तु विपर्यये ॥ ४.२३५ ॥}

{न विस्मयेत तपसा वदेद् इष्ट्वा च नानृतम् ।
[२०७] नार्तो ऽप्य् अपवदेद् विप्रान् न दत्वा परिकीर्तयेत् ॥ ४.२३६ ॥}

{यज्ञो ऽनृतेन क्षरति तपः क्षरति विस्मयात् ।
आयुर् विप्रापवादेन दानं तु परिकीर्तनात् ॥ ४.२३७ ॥}

{धर्मं शनैः सञ्चिनुयाद् वल्मीकम् इव वर्म्रिकाः (?) ।
परलोकसहायार्थं सर्वलोकान् अपीडयन् ॥ ४.२३८ ॥}

{नामुत्र हि सहायार्थं पिता माता च तिष्ठतः ।
न पुत्रदारं न ज्ञातिर् धर्मस् तिष्ठति केवलः ॥ ४.२३९ ॥}

{मृतं शरीरम् उत्सृज्य काष्ठलोष्टसमं क्षितौ ।
विमुखा बान्धवा यान्ति धर्मस् तम् अनुगच्छति ॥ ४.२४० ॥
तस्माद् धर्मं सहायार्थं नित्यं सञ्चिनुयाच् छनैः ।
धर्मेण हि सहायेन तमस् तरति दुस्तरम् ॥ ४.२४१ ॥}

{एकः प्रजायते जन्तुर् एक एव प्रमीयते ।
एको ऽनुभुङ्क्ते सुकृतम् एकश् चाप्नोति दुष्कृतम् ॥ ४.२४२ ॥}

{धर्मप्रधानं पुरुषं तपसा हतकिल्बिषम् ।
परलोकं नयत्य् आशु भास्वन्तं खशरीरिणम् ॥ ४.२४३ ॥}

{उत्तमैर् उत्तमैर् नित्यं सम्बन्धान् आचरेत् सह ।
निनीषुः कुलम् उत्कर्षम् अधमान् अधमांस् त्यजेत् ॥ ४.२४४ ॥}

{उत्तमान् उत्तमांश् चैव गच्छेद् हीनांश् च वर्जयेत् ।
ब्राह्मणः श्रेष्ठताम् एति प्रत्यवाये तु शूद्रताम् ॥ ४.२४५ ॥}

{दृढकारी मृदुर् दान्तः क्रूराचारैर् असंवसन् ।
अहिंस्रो दमदानाभ्यां जयेत् स्वर्गं तथा द्विजः ॥ ४.२४६ ॥}

{[२०९]
एधोकं मूलफलम् अन्नम् अभ्युद्यतं च यत् ।
सर्वतः प्रतिगृह्णीयान् मध्व् अथाभयदक्षिणाम् ॥ ४.२४७ ॥}

{आहृटाभ्युदितां भिक्षां पुरस्ताद् अप्रचोदिताम् ।
ग्राह्यां प्रजापतिर् मेने अपि दुष्कृतकर्मणः ॥ ४.२४८ ॥}

{नाश्नन्ति पितरस् तस्य दश वर्षाणि पञ्च च ।
न च हव्यं वहत्य् अग्निर् यस् ताम् अभ्यवमन्यते ॥ ४.२४९ ॥}

{शय्यां गृहान् कुशान् गन्धान् अपः पुष्पं मणीन् दधि ।
धाना मत्स्यान् पयो मांसं शाकं चैव न निर्णुदेत् ॥ ४.२५० ॥}

{गुरून् भृत्यांश् चोज्जिहीर्षन्न् अर्चिष्यन् देवतातिथीन् ।
सर्वतः प्रतिगृह्णीयान् न तु तृप्येत् स्वयं ततः ॥ ४.२५१ ॥}

{गुरुषु त्व् अभ्यतीतेषु विना वा तैर् गृहे वसन् ।
आत्मनो वृत्तिम् अन्विच्छन् गृह्णीयात् साधुतः सदा ॥ ४.२५२ ॥[२११]}

{आर्धिकः कुलमित्रं च गोपालो दासनापितौ ।
एते शूद्रेषु भोज्यान्ना याश् चात्मानं निवेदयेत् ॥ ४.२५३ ॥}

{यादृशो ऽस्य भवेद् आत्मा यादृशं च चिकीर्षितम् ।
यथा चोपचरेद् एनं तथात्मानं निवेदयेत् ॥ ४.२५४ ॥}

{यो ऽन्यथा सन्तम् अत्मानम् द्न्यथा सत्सु भाषते ।
स पापकृत्तमो लोके स्तेन आत्मापहारकः ॥ ४.२५५ ॥}

{वाच्य् अर्था नियताः सर्वे वङ्मूला वाग्विनिःसृताः ।
तांस् तु यः स्तेनयेद् वाचं स सर्वस्तेयकृत् नरः ॥ ४.२५६ ॥}

{[२१२]
महर्षिपितृदेवानां गत्वानृण्यं यथाविधि ।
पुत्रे सर्वं समासज्य वसेन् माध्यस्थ्यम् आस्रितः ॥ ४.२५७ ॥}

{एकाकी चिन्तयेन् नित्यं विविक्ते हितम् आत्मनः ।
एकाकी चिन्तयन् नित्यं परं श्रेयो ऽधिगच्छति ॥ ४.२५८ ॥}

{एषोदिता गृहस्थस्य वृत्तिर् विप्रस्य शास्वती ।
स्नातकव्रतकल्पश् च सत्त्वशुद्धिकरः परः ॥ ४.२५९ ॥}

{अनेन विर्प् वृत्तेन वर्तयन् वेदशास्त्रवित् ।
व्यपेतकलुषो नित्यं ब्रह्मलोके महीयते ॥। ४.२६० ॥}