०३

तृतीयो ऽध्यायः

द्विविधो ब्रह्मचारी पूर्वत्र प्रकृतः – उपकुर्वाणो नैष्ठिकश् च । तत्र नैष्ठिकस्य विहितकालं ब्रह्मचर्यं शास्त्रतो नामधेयाच् च । उपकुर्वाणस्याविहितकालो यस् तद्विधित्सयेदम् (?) आरभ्यते ।

{षट्त्रिंशदब्दिकं चर्यं गुरौ त्रैवेदिकं व्रतम् ।
तदर्धिकं पादिकं वा ग्रहणान्तिकम् एव वा ॥ ३.१ ॥}

{वेदान् अधीत्य वेदौ वा वेदं वापि यथाक्रमम् ।
अविप्लुतब्रह्मचर्यो गृहस्थाश्रमम् आवसेत् ॥ ३.२ ॥}

{तं प्रतीतं स्वधर्मेण ब्रह्मदायहरं पितुः ।
स्रग्विणं तल्प आसीनम् अर्हयेत् प्रथमं गवा ॥ ३.३ ॥}

{गुरुणानुमतः स्नात्वा समावृत्तो यथाविधि ।
उद्वहेत द्विजो भार्यां सवर्णां लक्षणान्विताम् ॥ ३.४ ॥}

{असपिण्डा च या मातुर् असगोत्रा च या पितुः ।
सा द्विजानां प्रशस्ता स्त्री दारकर्मण्य् अमैथिनी ॥ ३.५ ॥}

{मनान्त्य् अपि समृद्धानि गोऽजाविधनधान्यतः ।
स्त्रीसम्बन्धे दशैतानि कुलानि परिवर्जयेत् ॥ ३.६ ॥}

{हीनक्रियं निष्पुरुषं निश्छन्दो रोमशार्शसम् ।
क्षयामयाव्यपस्मारिश्वित्रिकुष्ठिकुलानि च ॥ ३.७ ॥}

{नोद्वहेत् कपिलां कन्यां नाधिकाङ्गीं न रोगिणीम् ।
नालोमिकां नातिलोमां न वाचालां न पिङ्गलाम् ॥ ३.८ ॥}

{नर्क्षवृक्षनदीनाम्नीं नान्त्यपर्वतनामिकाम् ।
न पक्ष्यहिप्रेष्यनाम्नीं न च भीषणनामिकाम् ॥ ३.९ ॥}

{अव्यङ्गाङ्गीं सौम्यनाम्नीं हंसवारणगामिनीम् ।
तनुलोमकेशदशनां मृद्वङ्गीम् उद्वहेत् स्त्रियम् ॥ ३.१० ॥}

{यस्यास् तु न भवेद् भ्राता न विज्ञायेत् वा पिता ।
नोपयच्छेत तां प्राज्ञः पुत्रिकाधर्मशङ्कया ॥ ३.११ ॥}

{सवर्णाग्रे द्विजातीनां प्रशस्ता दारकर्मणि ।
कामतस् तु प्रवृत्तानाम् इमाः स्युः क्रमशो ऽवराः ॥ ३.१२ ॥}

{शूद्रैव भार्या शूद्रस्य सा च स्वा च विशः स्मृते ।
ते च स्वा चैव राज्ञश् च ताश् च स्वा चाग्रजन्मनः ॥ ३.१३ ॥}

{न ब्राह्मणक्षत्रिययोर् आपद्य् अपि हि तिष्ठतोः ।
कस्मिंश् चिद् अपि वृत्तान्ते शूद्रा भार्योपदिश्यते ॥ ३.१४ ॥}

{हीनजातिस्त्रियं मोहाद् उद्वहन्तो द्विजातयः ।
कुलान्य् एव नयन्त्य् आशु ससन्तानानि शूद्रताम् ॥ ३.१५ ॥}

{शूद्रावेदी पतत्य् अत्रेर् उतथ्यतनयस्य च ।
शौनकस्य सुतोत्पत्त्या तदप्त्यतया भृगोः ॥ ३.१६ ॥}

{जनयित्वा सुतं तस्यां ब्राह्मण्याद् एव हीयते ॥ ३.१७ ॥}

{दैवपित्र्यातिथेयानि तत्प्रधानानि यस्य तु ।
नाश्नन्ति पितृदेवास् तन् न च स्वर्गं स गच्छति ॥ ३.१८ ॥}

{वृषलीफेनपीतस्य निःश्वासोपहतस्य च ।
तस्यां चैव प्रसूतस्य निष्कृतिर् न विधीयते ॥ ३.१९ ॥}

{[११२]
चतुर्णाम् अपि वर्णानां प्रेत्य चेह हिताहितान् ।
अष्टाव् इमान् समासेन स्त्रिविवाहान् निबोधत ॥ ३.२० ॥}

{ब्राह्मो दैवस् तथैवार्षः प्राजापत्यस् तथासुरः ।
गान्धर्वो राक्षसश् चैव पैशाचश् चाष्टमो ऽधमः ॥ ३.२१ ॥}

{ये यस्य धर्म्यो वर्णस्य गुणदोषौ च यस्य यौ ।
तद् वः सर्वं प्रवक्ष्यामि प्रसवे च गुणागुणान् ॥ ३.२२ ॥}

{षड् आनुपूर्व्या विप्रस्य क्षत्रस्य चतुरो ऽवरान् ।
विट्शूद्रयोस् तु तान् एव विद्याद् धर्म्यान् न राक्षसान् ॥ ३.२३ ॥}

{चतुरो ब्राह्मणस्याद्यान् प्रशस्तान् कवयो विदुः ।
राक्षसं क्षत्रियस्यैकम् आसुरं वैश्यशुद्रयोः ॥ ३.२४ ॥}

{पञ्चानां तु त्रयो धर्म्या द्वाव् अधर्म्यौ स्मृताव् इह ।
पैशाचश् चासुरश् चैव न कर्तय्वौ कदाचन ॥ ३.२५ ॥}

{[११३] पृथक् पृथग् वा मिश्रौ वा विवाहौ पूर्वचोदितौ ।
गान्धर्वो राक्षसश् चैव धर्म्यौ क्षत्रस्य तौ स्मृतौ ॥ ३.२६ ॥}

{आच्छाद्य चार्चयित्वा च श्रुतशीलवते स्वयम् ।
आहूय दानं कन्याया ब्राह्मो धर्मः प्रकीर्तितः ॥ ३.२७ ॥
यज्ञे तु वितते सम्यग् ऋत्विजे कर्म कुर्वते ।
अलङ्कृत्य सुतादानं दैवं धर्मं प्रचक्षते ॥ ३.२८ ॥}

{एकं गोमिथुनं द्वे वा वराद् आदाय धर्मतः ।
कन्याप्रदानं विधिवद् आर्षो धर्मः स उच्यते ॥ ३.२९ ।
सहोभौ चरतां धर्मम् इति वाचानुभाष्य च ।
कन्याप्रदानम् अभ्यर्च्य प्राजापत्यो विधिः स्मृतः ॥ ३.३० ॥
ज्ञातिभ्यो द्रविणं दत्वा कन्यायै चैव शक्तितः ।
कन्याप्रदानं स्वाच्छन्द्याद् आसुरो धर्म उच्यते ॥ ३.३१ ॥
इच्छयान्योन्यसंयोगः कन्यायाश् च वरस्य च ।
गान्धर्वः स तु विज्ञेयो मैथुन्यः कामसम्भवः ॥ ३.३२ ॥
हत्वा छित्त्वा च भित्त्वा च क्रोशन्तीं रुदतीं गृहात् ।
प्रसह्य कन्याहरणं राक्षसो विधिर् उच्यते ॥ ३.३३ ॥
सुप्तां मत्तां प्रमत्तां वा रहो यत्रोपगच्छति ।
स पापिष्ठो विवाहानां पैशाचः प्रथितो ऽधमः ॥ ३.३४ ॥[११४]}

{अद्भिर् एव द्विजाग्र्याणां कन्यादानं विशिष्यते ।
इतरेषां तु वर्णानाम् इतरेतरकाम्यया ॥ ३.३५ ॥}

{यो यस्यैषां विवाहानां मनुना कीर्तितो गुणः ।
सर्वं शृणुत तं विप्राः सम्यक् कीर्तयतो मम ॥ ३.३६ ॥}

{दश पूर्वान् परान् वंश्यान् आत्मानं चैकविंशकम् ।
ब्राह्मीपुत्रः सुकृतकृन् मोचयत्य् एनसः पितॄन् ॥ ३.३७ ॥}

{ब्राह्मादिषु विवाहेषु चतुर्ष्व् एवानुपूर्वशः ।
ब्रह्मवर्चस्विनः पुत्रा जायन्ते शिष्टसन्नताः ॥ ३.३९ ॥
रूपसत्त्वगुणोपेता धनवन्तो यशस्विनः ।
पर्याप्तभोगा धर्मिष्ठा जीवन्ति च शतं समाः ॥ ३.४० ॥}

{इतरेषु तु शिष्टेषु नृशंसानृतवादिनः ।
जायन्ते दुर्विवाहेषु ब्रह्मधर्मद्विषः सुताः ॥ ३.४१ ॥}

{अनिन्दितैः स्त्रीविवाहैर् अनिन्द्या भवति प्रजा ।
निन्दितैर् निन्दिता नृणां तस्मान् निन्द्यान् विवर्जयेत् ॥ ३.४२ ॥}

{वसनस्य दशा ग्राह्या शूद्रयोत्कृष्टवेदने ॥ ३.४४ ॥}

{[११६]
ऋतुकालाभिगामी स्यात् स्वदारनिरतः सदा ।
पर्ववर्जं व्रजेच् चैनां तद्व्रतो रतिकाम्यया ॥ ३.४५ ॥}

{ऋतुः स्वाभाविकः स्त्रीणां रात्रयः षोडश स्मृताः ।
पर्ववर्जं व्रजेच् चैनां तद्व्रतो रतिकाम्यया ॥ ३.४६ ॥}

{तासाम् आद्याश् चतस्रस् तु निन्दितैकादशी च या ।
त्रयोदशी च शेषास् तु प्रशस्ता दश रात्रयः ॥ ३.४७ ॥}

{युग्मासु पुत्रा जायन्ते स्त्रियो ऽयुग्मासु रात्रिषु ।
तस्माद् युग्मासु पुत्रार्थी संविशेद् आर्तवे स्त्रियम् ॥ ३.४८ ॥}

{पुमान् पुंसो ऽधिके शुक्रे स्त्री भवत्य् अधिके स्त्रियाः ।
समे ऽपुमान् पुंस्त्रियौ वा क्षीणे ऽल्पे च विपर्ययः ॥ ३.४९ ॥}

{निन्द्यास्व् अष्टासु चान्यासु स्त्रियो रात्रिषू वर्जयन् ।
ब्रह्मचार्य् एव भवति यत्र तत्राश्रमे वसन् ॥ ३.५० ॥}

{न कन्यायाः पिता विद्वान् गृह्णीयाच् छुल्कम् अन्व् अपि ।
गृह्णन् शुल्कं हि लोभेन स्यान् नरो ऽपत्यविक्रयी ॥ ३.५१ ॥}

{स्त्रीधनानि तु ये मोहाद् उपजीवन्ति बान्धवाः ।
नारी यानानि वस्त्रं वा ते पापा यान्त्य् अधोगतिम् ॥ ३.५२ ॥}

{आर्षे गोमिथुनम् शुल्कं केचिद् आहुर् मृषैव तत् ।
अल्पो वाप्य् एवं महान् वापि तावान् एव स विक्रयः ॥ ३.५३ ॥}

{यासां नाददते शुल्कं ज्ञातयो न स विक्रयः ।
अर्हणं तत् कुमारीणाम् आनृशंस्यं च केवलम् ॥ ३.५४ ॥}

{यत्र नार्यस् तु पूज्यन्ते रमन्ते तत्र देवताः ।
यत्रैतास् तु न पूज्यन्ते सर्वास् तत्राफलाः क्रियाः ॥ ३.५६ ॥}

{तानि कृत्याहतानीव विनश्यन्ति समन्ततः ॥ ३.५८ ॥}

{तस्माद् एताः सदा पूज्या भूषणाच्छादनाशनैः ।
भूतिकामैर् नरैर् नित्यं सत्कारेषूत्सवेषु च ॥ ३.५९ ॥}

{यस्मिन्न् एव कुले नित्यं कल्याणं तत्र वै ध्रुवम् ॥ ३.६० ॥}

{यदि हि स्त्री न रोचेत पुमांसं न प्रमोदयेत् ।
अप्रमोदात् पुनः पुंसः प्रजनं न प्रवर्तते ॥ ३.६१ ॥}

{[१२१]
स्त्रियां तु रोचमानायां सर्वं तद् रोचते कुलम् ।
तस्यां त्व् अरोचमानायां सर्वम् एव न रोचते ॥ ३.६२ ॥
कुविवाहैः क्रियालोपैर् वेदानध्ययनेन च ।
कुलान्य् आसु विनश्यन्ति ब्राह्मणातिक्रमेण च ॥ ३.६३ ॥
शिल्पेन व्यवहारेण शूद्रापत्यैश् च केवलैः ।
गोभिर् अश्वैश् च यानैश् च कृष्या राजोपसेवया ॥ ३.६४ ॥
अयाज्ययाजनैश् चैव नास्तिक्येन च कर्मणाम् ।
कुलाण्य् अकुलतां यान्ति यानि हीनाति मन्त्रतः ॥ ३.६५ ॥
मन्त्रतस् तु स्मृद्धानि कुलान्य् अल्पधनान्य् अपि ।
कुलसङ्ख्यां च गच्छन्ति कर्षन्ति च महद् यशः ॥ ३.६६ ॥}

{वैवाहिके ऽग्नौ कुर्वीत गृह्यं कर्म यथाविधि ।
पञ्चयज्ञविधानं च पक्तिं चान्वाहिकीं गृही ॥ ३.६७ ॥}

{पञ्चसूना गृहस्थस्य चुल्ली पेषण्य् उपस्करः ।
कण्डनी चोदकुम्भश् च बध्यते यास् तु वाहयन् ॥ ३.६८ ॥}

{[१२२]
तासां क्रमेण सर्वासां निष्कृत्यर्थं महर्षिभिः ।
पञ्च कॢप्ता महायज्ञा प्रत्यहं गृहमेधिनाम् ॥ ३.६९ ॥}

{अध्यापनं ब्रह्मयज्ञः पितृयज्ञस् तु तर्पणम् ।
होमो दैवो बलिर् भौतो नृयज्ञो ऽतिथिपूजनम् ॥ ३.७० ॥}

{पञ्चैतान् यो महायज्ञान् न हापयति शक्तितः ।
स गृहे ऽपि वसन् नित्यं सूदादोषैर् न लिप्यते ॥ ३.७१ ॥}

{देवतातिथिभृत्यानां पितॄणाम् आत्मनश् च यः ।
न निर्वपति पञ्चानाम् उच्छ्वसन् न स जीवति ॥ ३.७२ ॥}

{अहुतं च हुतं चैव तथा प्रहुतम् एव च ।
ब्राह्म्यं हुतं प्राशितं च पञ्चयज्ञान् प्रचक्षते ॥ ३.७३ ॥}

{जपो ऽहुतो हुतो होमः प्रहुतो भैतिको बलिः ।
ब्राह्म्यं हुतं द्विजाग्र्यार्चा प्राशितं पितृतर्पणम् ॥ ३.७४ ॥[१२३]}

{दैवकर्मणि युक्तो हि बिभर्तीदं चराचरम् ॥ ३.७५ ॥}

{अग्नौ प्रास्ताहुतिः सम्यग् आदित्यम् उपतिष्ठते ।
आदित्याज् जायते वृष्टिर् वृष्टेर् अन्नं ततः प्रजाः ॥ ३.७६ ॥}

{यथा मातरम् आश्रित्य वर्तन्ते सर्वजन्तवः ।
वर्तन्ते गृहिणं तद्वद् आश्रित्येतर आश्रमाः ॥ ३.७७ ॥}

{यस्मात् त्रयो ऽप्य् आश्रमिणो ज्ञानेनान्नेन चान्वहम् ।
गृहस्थेनैव धार्यन्ते तस्माज् ज्येष्ठाश्रमो गृही ॥ ३.७८ ॥}

{स सन्धार्यः प्रयत्नेन स्वर्गम् अक्षयम् इच्छता ।
सुखं चेहेच्छतात्यन्तं यो ऽधार्यो दुर्बलेन्द्रियैः ॥ ३.७९ ॥}

{ऋषयः पितरो देवा भूतान्य् अतिथयस् तथा ।
आशासते कुटुम्बिभ्यस् तेभ्यः कार्यं विजानता ॥ ३.८० ॥[१२४]}

{स्वाध्यायेनार्चयेतर्षीन् होमैर् देवान् यथाविधि ।
पितॄञ् श्राद्दैश् च नॄन् अन्नैर् भूतानि बलिकर्मणा. ॥ ३.८१ ॥}

{कुर्याद् अहर् अहः श्राद्धम् अन्नाद्येनोदकेन वा ।
पयोमूलफलैर् वापि पितृभ्यः प्रीतिम् आवहन् ॥ ३.८२ ॥}

{एकम् अप्य् आशयेद् विप्रं पित्र्यर्थं पाञ्चयज्ञिके ।
न चैवात्राश्रयेत् किञ्चिद् वैश्वदेवं प्रति द्विजम् ॥ ३.८३ ॥}

{वैश्वदेवस्य सिद्धस्य गृह्ये ऽग्नौ विधिपूर्वकम् ।
आभ्यः कुर्याद् देवताभ्यो ब्राह्मणो होमम् अन्वहम् ॥ ३.८४ ॥}

{अग्नेः सोमस्य चैवादौ तयोश् चैव समस्तयोः ।
विश्वेषां चैव देवानां धन्वन्तरय एव च ॥ ३.८५ ॥
कुह्वै चैवानुमत्यै च प्रजापतय एव च ।
सह द्यावापृथिव्योश् च तथा स्विष्टकृते ऽन्ततः ॥ ३.८६ ॥
एवं सम्यग् घविर् हुत्वा सर्वदिक्षु प्रदक्षिणम् ।
इन्द्रान्तकाप्पतीन्दुभ्यः सानुगेभ्यो बलिं हरेत् ॥ ३.८७ ॥
मरुद्भ्य इति तु द्वारि क्षिपेद् अप्स्व् अद्भ्य इत्य् अपि ।
वनस्पतिभ्य इत्य् एवं मुसलोलूखले हरेत् ॥ ३.८८ ॥
उच्छीर्षके श्रियै कुर्याद् भद्रकाल्यै च पादतः ।
ब्रह्मवास्तोष्पतिभ्यां तु वास्तुमध्ये बलिं हरेत् ॥ ३.८९ ॥
विश्वेभ्यश् चैव देवेभ्यो बलिम् आकाश उत्क्षिपेत् ।
[१२५] दिवाचरेभ्यो भूतेभ्यो नक्तञ्चारिभ्य एव च ॥ ३.९० ॥
पृष्ठवास्तुनि कुर्वीत बलिं सर्वान्नभूतये ।
पितृभ्यो बलिशेषं तु सर्वं दक्षिणतो हरेत् ॥ ३.९१ ॥
शुनां च पतितानां च श्वपचां पापरोगिणाम् ।
वायसानां कृमीणां च शनकैर् निर्वपेद् भुवि ॥ ३.९२ ॥
एवं यः सर्वभूतानि ब्राह्मणो नित्यम् अर्चति ।
स गच्छति परं स्थानं तजोमूर्तिः पथर्जुना ॥ ३.९३ ॥}

{कृत्वैतद् बलिकर्मैवम् अतिथिं पूर्वम् आशयेत् ।
भिक्षां च भिक्षवे दद्याद् विधिवद् ब्रह्मचारिणे ॥ ३.९४ ॥
यत् पुण्यफलम् आप्नोति गां दत्वा विधिवद् गुरोः ।
तत् पुण्यफलम् आप्नोति भिक्षां दत्वा द्विजो गृही ॥ ३.९५ ॥}

{भिक्षाम् अप्य् उदपात्रं वा सत्कृत्य विधिपूर्वकम् ।
वेदतत्त्वार्थविदुषे ब्राह्मणायोपपादयेत् ॥ ३.९६ ॥
नश्यन्ति हव्यकव्यानि नराणाम् अविजानताम् ।
भस्मीभूतेषु विप्रेषु मोहाद् दत्तानि दातृभिः ॥ ३.९७ ॥
विद्यापतःसमृद्धेषु हुतं विप्रमुखाग्निषु ।
निस्तारयति दुर्गाच् च महतश् चैव किल्बिषात् ॥ ३.९८ ॥}

{सम्प्राप्ताय त्व् अतिथये प्रदद्याद् आसनोदके ।
अन्नं चैव यथाशक्ति सत्कृत्य विधिपूर्वकम् ॥ ३.९९ ॥
शिलान् अप्य् उञ्छतो नित्यं पञ्चागीन् अपि जुह्वतः ।
सर्वं सुकृतम् आदत्ते ब्राह्मणो ऽनर्चितो वसन् ॥ ३.१०० ॥
तृणानि भूमिर् उदकं वाक् चतुर्थी च सूनृता ।
एतान्य् अपि सतां गेहे नोच्छिद्यन्ते कदाचन ॥ ३.१०१ ॥
[१२६] एकरात्रं तु निवसन् अतिथिर् ब्राह्मणः स्मृतः ।
अनित्यं हि स्थितो यस्मात् तस्माद् अतिथिर् उच्यते ॥ ३.१०२ ॥}

{नैकग्रामीणम् अतिथिं विप्रं साङ्गतिकं तथा ।
उपस्थितं गृहे विद्याद् भार्या यत्राग्नयो ऽपि वा ॥ ३.१०३ ॥}

{उपासते गृहस्था ये परपाकम् अबुद्धयः ।
तेन ते प्रेत्य पशुतां व्रजन्त्य् अन्नादिदायिनाम् ॥ ३.१०४ ॥}

{अप्रणोद्यो ऽतिथिः सायं सूर्योढो गृहमेधिना ।
काले प्राप्तस् त्व् अकाले वा नास्यानश्नन् गृहे वसेत् ॥ ३.१०५ ॥}

{धन्यं यशस्यम् आयुष्यं स्वर्ग्यं चातिथिभोजनम् ॥ ३.१०६ ॥}

{आसनावसथौ शय्याम् अनुव्रज्याम् उपासनम् ।
उत्तमेषूत्तमं कुर्याद् धीने हीनं समे समम् ॥ ३.१०७ ॥}

{वैश्वदेवे तु निर्वृत्ते यद्य् अन्यो ऽतिथिर् आव्रजेत् ।
तस्याप्य् अन्नं यथाशक्ति प्रदद्यान् न बलिं हरेत् ॥ ३.१०८ ॥}

{न भोजनार्थं स्वे विप्रः कुलगोत्रे निवेदयेत् ।
भोजनार्थं हि ते शंसन् वान्ताशीत्य् उच्यते बुधैः ॥ ३.१०९ ॥}

{न ब्राह्मणस्य त्व् अतिथिर् गृहे राजन्य उच्यते ।
वैश्यशूद्रौ सखा चैव ज्ञातयो गुरुर् एव च ॥ ३.११० ॥[१२८]}

{यदि त्व् अतिथिधर्मेण क्षत्रियो गृहम् आव्रजेत् ।
भुक्तवत्सु ब्राह्मणेषु कामं तम् अपि भोजयेत् ॥ ३.१११ ॥}

{वैश्यशूद्राव् अपि प्राप्तौ कुटुम्बे ऽतिथिधर्मिणौ ।
भोजयेत् सह भृत्यैस् ताव् आनृशंस्यं प्रयोजयन् ॥ ३.११२ ॥}

{इतरान् अपि सख्यादीन् सम्प्रीत्या गृहम् आगतान् ।
प्रकृत्यान्नं यथाशक्ति भोजयेत् सह भार्यया ॥ ३.११३ ॥}

{सुहासिनीः कुमारीश् च रोगिणो गर्भिणीस् तथा ।
अतिथिभ्यो ऽन्वग् एवैनान् भोजयेद् अविचारयन् ॥ ३.११४ ॥}

{स भुञ्जानो न जानाति श्वगृध्रैर् जग्धिम् आत्मनः ॥ ३.११५ ॥}

{भुक्तवत्स्व् अथ विप्रेषु स्वेषु भृत्येषु चैव हि ।
भुञ्जीयातां ततः पश्चाद् अवशिष्टं तु दम्पती ॥ ३.११६ ॥}

{देवान् ऋषीन् मनुष्यांश् च पितॄन् गृह्याश् च देवताः ।
पूजयित्वा ततः पश्चाद् गृहस्थः शेषभुग् भवेत् ॥ ३.११७ ॥}

{अघं स केवलं भुङ्क्ते यः पचत्य् आत्मकारणात् ।
यज्ञशिष्टाशनं ह्य् एतत् सताम् अन्नं विधीयते ॥ ३.११८ ॥}

{राजर्त्विक्स्नातकगुरून् प्रियश्वशुरमातुलान् ।
अर्हयेन् मधुपर्केण परिसंवत्सरात् पुनः ॥ ३.११९ ॥}

{राजा च श्रोत्रियश् चैव यज्ञकर्मण्य् उपस्थिते ।
मधुपर्केण सम्पूज्यौ न त्व् अयज्ञ इति स्थितिः ॥ ३.१२० ॥}

{सायं त्व् अन्नस्य सिद्धस्य पत्न्य् अमन्त्रं बलिं हरेत् ।
वैश्व्देवं हि नामैतत् सायं प्रातर् विधीयते ॥ ३.१२१ ॥[१३१]}

{पितृयज्ञं तु निर्वर्त्य विप्रश् चन्द्रक्षये ऽग्निमान् ।
पिण्डान्वाहार्यकं श्राद्धं कुर्यान् मासानुमासिकम् ॥ ३.१२२ ॥}

{तत्र ये भोजनीयाः स्युर् ये च वर्ज्या द्विजोत्तमाः ।
यावन्तश् चैव यैश् चान्नैस् ताण् प्रवक्ष्याम्य् अशेषतः ॥ ३.१२४ ॥}

{द्वौ दैवे पितृकार्ये त्रीन् एकैकम् उभयत्र वा ।
भोजयेत् सुसमृद्धो ऽपि न प्रसज्येत (?) विस्तरे ॥ ३.१२५ ॥}

{सत्क्रियां देशकालौ च शौचं ब्राह्मणसम्पदम् ।
पञ्चैतान् विस्तरो हन्ति तस्मान् नेहेत विस्तरः ॥ ३.१२६ ॥}

{श्रोत्रियायैव देयानि हव्यकव्यानि दातृभिः ।
अर्हत्तमाय विप्राय तस्मै दत्तं महाफलम् ॥ ३.१२८ ॥}

{एकैकम् अपि विद्वांसं दैव पित्र्ये च भोजयेत् ।
पुष्कलं फलम् आप्नोति नामन्त्रज्ञान् बहून् अपि ॥ ३.१२९ ॥}

{दूराद् एव परीक्षेत ब्राह्मणं वेदपारगम् ।
तीर्थं तद् धव्यकव्यानां प्रदाने सो ऽतिथिः स्मृतः ॥ ३.१३० ॥}

{सहस्रं हि सहस्राणाम् अनृचां ये तु (यत्र) भुञ्जते ।
एकस् तान् मन्त्रवित् प्राज्ञः (प्रीतः) सर्वान् अर्हति धर्मतः ॥ ३.१३१ ॥}

{न हि हस्ताव् असृग्दिग्धौ रुधिरेणैव शुध्यतः ॥ ३.१३२ ॥}

{यावतो ग्रसते पिण्डान् हव्यकव्येष्व् अमन्त्रवित् ।
तावतो ग्रसते प्रेत्य दीप्तां (?) शूलर्ष्ट्ययोगुडान् ॥ ३.१३३ ॥}

{ज्ञाननिष्ठा द्विजाः केचित् तपोनिष्ठा तथापरे ।
तपःस्वाध्यायनिष्ठाश् च कर्मनिष्ठास् तथापरे ॥ ३.१३४ ॥}

{ज्ञाननिष्ठेषु कव्यानि प्रतिष्टाप्यानि यत्नतः ।
हव्यानि तु यथान्यायं सर्वेष्व् एव चतुर्ष्व् अपि ॥ ३.१३५ ॥
अश्रोत्रियो पिता यस्य पुत्रः स्याद् वेदपारगः ।
अश्रोत्रियो वा पुत्रः स्यात् पिता स्याद् वेदपारगः ॥ ३.१३६ ॥}

{ज्यायांसम् अनयोर् विद्याद् यस्य स्याच् छ्रोत्रियः पिता ।
मन्त्रसम्पूजनार्थं तु सत्कारम् इतरो ऽर्हति ॥ ३.१३७ ॥}

{न श्राद्धे भोजयन् मित्रं धनैः कार्यो ऽस्य सङ्ग्रहः ।
नारिं न मित्रं यं विद्यात् तं श्राद्धे भोजयेद् द्विजम् ॥ ३.१३८ ॥}

{यस्य मित्रप्रधानानि श्राद्धानि च हवींषि च ।
तस्य प्रेत्य फलं नास्ति श्राद्धेषु च हिविःषु च ॥ ३.१३९ ॥}

{यः सङ्गतानि कुरुते मोहाच् छ्राद्धेन मानवः ।
स स्वर्गाच् च्यवते लोकाच् छ्राद्धमित्रो द्विजाधमः ॥ ३.१४० ॥
सम्भोजनी साभिहिता पैशाची दक्षिणा द्विजैः ।
इहैवास्ते तु सा लोके गौर् अन्धेवैकवेश्मनि ॥ ३.१४१ ॥
यथेरिणे बीजमुप्त्वा न वप्ता लभते फलम् ।
तथानृचे हविर् दत्वा न दाता लभते फलम् ॥ ३.१४२ ॥}

{दातॄन् प्रतिग्रहीतॄंश् च कुरुते फलभागिनः ।
विदुषे दक्षिणा दत्वा विधिवत् प्रेत्य चेह च ॥ ३.१४३ ॥}

{द्विषता हि हविर् भुक्तं भवति प्रेत्य निष्फलम् ॥ ३.१४४ ॥}

{यत्नेन भोजयेच् छ्राद्धे बह्वृचं वेदपारगम् ।
शाखान्तगम् अथाध्वर्युं छन्दोगं वा समाप्तिकम् ॥ ३.१४५ ॥}

{[१३६]
एषाम् अन्यतमो यस्य भुञ्जीत श्राद्धम् अर्चितम् ।
पितॄणां तत्र तृप्तिः स्याच् छाश्वती साप्तपौरुषी ॥ ३.१४६ ॥}

{अनुकल्पस् त्व् अयं ज्ञेयः सदा सद्भिर् अनुष्ठितः ॥ ३.१४७ ॥}

{मातामहं मातुलं च स्वस्रीयं श्वशुरं गुरुम् ।
दौहित्रं विट्पतिं बन्धुम् ऋत्विग् याज्यौ च भोजयेत् ॥ ३.१४८ ॥}

{न ब्राह्मणं परीक्षेत दैव कर्मणि धर्मवित् ।
पित्र्ये कर्मणि तु प्राप्ते परीक्षेत प्रयत्नतः (?) ॥ ३.१४९ ॥}

{ये स्तेनपतितक्लीबा ये च नास्तिकवृत्तयः ।
तान् हव्यकव्ययोर् विप्रान् अनर्हान् मनुर् अब्रवीत् ॥ ३.१५० ॥}

{जटिलं चानधीयानं दुर्बलं कितवं तथा ।
याजयन्ति च ये पुगांस् तांश् च श्राद्धे नो भोजयेत् ॥ ३.१५१ ॥}

{[१३८]
चिकित्सका देवलका मांसविक्रयिणस् तथा ।
विपणेन च जीवन्तो वर्ज्याः स्युर् हव्यकव्ययोः ॥ ३.१५२ ॥}

{प्रेष्यो ग्रामस्य राज्ञश् च कुनखी श्यावदन्तकः ।
प्रतिरोद्धा गुरोश् चैव त्यक्ताग्निर् वार्धुषिस् तथा ॥ ३.१५३ ॥}

{यक्ष्मी च पशुपालश् च परिवेत्ता निराकृतिः ।
ब्रह्मद्विट् परिवित्तिश् च गणाभ्यन्तर एव च ॥ ३.१५४ ॥}

{कुशीलवो ऽवकीर्णी च वृषलीपतिर् एव च ।
पौनर्भवश् च काणश् च यस्य चोपपतिर् गृहे ॥ ३.१५५ ॥}

{भृतकाध्यापको यश् च भृतकाध्यापितस् तथा ।
शूद्रशिष्यो गुरुश् चैव वाग्दुष्टः कुण्डगोलकौ ॥ ३.१५६ ॥}

{अकारणे परित्यक्ता मातापित्रोर् गुरोस् तथा ।
ब्राह्मैर् यौनैश् च सम्बन्धैः संयोगं पतितैर् सह ॥ ३.१५७ ॥}

{अगारदाही गरदः कुण्डाशी सोमविक्रयी ।
समुद्रयायी बन्दी च तैलकः कूटकारकः ॥ ३.१५८ ॥}

{पित्रा विवदमानश् च कितवो मद्यपस् तथा ।
पापरोग्य् अभिशस्तश् च दाम्भिको रसविक्रयी ॥ ३.१५९ ॥}

{धनुः शराणाम् कर्ता च यश् चाग्रेदिधिषूपतिः ।
मित्रध्रुग् द्यूतवृत्तिश् च पुत्राचार्यस् तथैव च ॥ ३.१६० ॥}

{भ्रामरी गण्डमाली च श्वित्र्य् अथो पिशुनस् तथा ।
उन्मत्तो ऽन्धश् च वर्ज्याः स्युर् वेदनिन्दक एव च ॥ ३.१६१ ॥}

{हस्तिगोऽश्वोष्ट्रदमको नक्षत्रैर् यश् च जीवति ।
पक्षिणां पोषकश् चैव युद्धाचार्यस् तथैव च ॥ ३.१६२ ॥}

{स्रोतसां भेदकश् चैव तेषां चावरणे स्थितः ।
गृहसंवेशको दूतो वृक्षारोपक एव च ॥ ३.१६३ ॥}

{श्वकृईडी श्येनजीवी च कन्यादूषक एव च ।
हिंस्रो वृअलपुत्रश् च गणानां चैव याजकः ॥ ३.१६४ ॥}

{आचारहीनः क्लीबश् च नित्यं याचनकस् तथा ।
कृषिजीवी श्लीपदी च सद्भिर् निन्दित एव च ॥ ३.१६५ ॥}

{औरभ्रिको माहिषिकः परपूर्वापति तथा ।
प्रेतनिर्यासकश् चैव वर्जनीयाः प्रयत्नतः ॥ ३.१६६ ॥}

{एतान् विगर्हिताचारान् अपाङ्क्तेयान् द्विजाधमान् ।
द्विजातिप्रवरो विद्वान् उभयत्र विवर्जयेत् ॥ ३.१६७ ॥}

{ब्राह्मणो ह्य् अनधीयानस् तृणाग्निर् इव शाम्यति ।
तस्मै हव्यं न दातव्यं न हि भस्मनि हूयते ॥ ३.१६८ ॥}

{अपाङ्क्त्यदाने यो दातुर् भवत्य् ऊर्ध्वं फलोदयः ।
दैवे कर्मणि पित्र्ये वा तं प्रवक्ष्याम्य् अशेषतः ॥ ३.१६९ ॥}

{अव्रतैर् यद् द्विजैर् भुक्तं परिवेत्त्रादिभिस् तथा ।
अपाङ्क्तेयैर् यद् अन्यैश् च तद् वै रक्षांसि भुञ्जते ॥ ३.१७० ॥}

{दाराग्निहोत्रसंयोगं कुरुते यो ऽग्रजे स्थिते ।
परिवेत्ता स विज्ञेयः परिवित्तिस् तु पूर्वजः ॥ ३.१७१ ॥}

{परिवित्तिः परिवेत्ता यया च परिविद्यते ।
सर्वे ते नरकं यान्ति दातृयाजकपञ्चमाः ॥ ३.१७२ ॥}

{भ्रातुर् मृतस्य भार्यायां यो ऽनुरज्येत कामतः ।
धर्मेणापि नियुक्तायां स ज्ञेयो दिधिषूपतिः ॥ ३.१७३ ॥[१४३]}

{परदारेषु यायेते द्वौ सुतौ कुण्डगोलकौ ।
पत्यौ जीवति कुण्डः स्यान् मृते भतरि गोलकः ॥ ३.१७४ ॥}

{तौ तु जातौ परक्षेत्रे प्राणिनौ प्रेत्य चेह च ।
दत्तानि हव्यकव्यानि नाशयन्ति प्रदायिनाम् ॥ ३.१७५ ॥}

{अपाङ्क्त्यो यावतः पङ्क्त्यान् भुञ्जानान् अनुपश्यति ।
तावतां न फलं तत्र दाता प्राप्नोति बालिशः ॥ ३.१७६ ॥
वीक्ष्यान्धो नवतेः काणः षष्टेः श्वित्री शतस्य तु ।
पापरोगी सहस्रस्य दातुर् नाशयते फलम् ॥ ३.१७७ ॥}

{यावतः संस्पृशेद् अङ्गैर् ब्राह्मणं शूद्रयाजकः ।
तावतान् न भवेद् दातुः फलं दानस्य पौर्त्तिकम् ॥ ३.१७८ ॥}

{वेदविच् चापि विप्रो ऽस्य लोभात् कृत्वा प्रतिग्रहम् ।
विनाशं व्रजति क्षिप्रम् आमपात्रम् इवाम्भसि ॥ ३.१७९ ॥}

{सोमविक्रयिणो विष्टा भिषजे पूयशोणितम् ।
अप्रतिष्ठं वार्धुषिके नष्टं देवलके भवेत् ॥ ३.१८० ॥[१४४]}

{यत् तु वाणिजके दत्तं नेह नामुत्र तद् भवेत् ।
भस्मनीव हुतं हव्यं तथा पौनर्भवे द्विजे ॥ ३.१८१ ॥
इतरेषु त्व् अपङ्क्त्येषु यथोद्दिष्टेष्व् असाधुषु ।
मेदोऽसृङ्मांसमज्जास्थि वदन्त्य् अन्नं मनीषिणः ॥ ३.१८२ ॥}

{अपाङ्क्त्योपहता पङ्क्तिः पाव्यते यैर् द्विजोत्तमैः ।
तान् निबोधत कार्त्स्न्येन द्विजाग्र्यान् पङ्क्तिपावनान् ॥ ३.१८३ ॥}

{अग्र्याः सर्वेषु वेदेषु सर्वप्रवचनेषु च ।
श्रोत्रियान्वयजाश् चैव विज्ञेयाः पङ्क्तिपावनाः ॥ ३.१८४ ॥}

{त्रिणाचिकेतः पञ्चाग्निस् त्रिसुपर्णः षडङ्गवित् ।
ब्रह्मदेयानुसन्तानो ज्येष्ठसामिक एव च ॥ ३.१८५ ॥}

{वेदार्थवित् प्रवक्ता च ब्रह्मचारी सहस्रदः ।
शतायुश् चैव विज्ञेया ब्राह्मणाः पङ्क्तिपावनाः ॥ ३.१८६ ॥}

{पूर्वेद्युर् अपरेद्युर् वा श्राद्धकर्मण्य् उपस्थिते ।
निमन्त्रयीत त्र्यवरान् सम्यग् विप्रान् यथोदितान् ॥ ३.१८७ ॥}

{[१४६]
निमन्त्रितो द्विजः पित्र्ये नियतात्मा भवेत् सदा ।
न च छन्दांस्य् अधीयीत यस्य श्राद्धं च तद् भवेत् ॥ ३.१८८ ॥}

{निमन्त्रितान् हि पितर उपतिष्ठन्ति तान् द्विजान् ।
वायुभूतानुगच्छन्ति तथासीनान् उपासते ॥ ३.१८९ ॥}

{निमन्त्रितो यथान्यायं हव्ये कव्ये द्विजोत्तमः ।
कथञ्चिद् अप्य् अतिक्रामन् पापः सूकरतां व्रजेत् ॥ ३.१९० ॥}

{आमन्त्रितस् तु यः श्राद्धे वृषल्या सह मोदते ।
दातुर् यद् दुष्कृतं किञ्चित् तत् सर्वं प्रतिपद्यते ॥ ३.१९१ ॥}

{अक्रोधनाः शौचपराः सततं ब्रह्मचारिणः ।
न्यस्तशस्त्रा महाभागाः पितरः पूर्वदेवताः ॥ ३.१९२ ॥}

{यस्माद् उत्पत्तिर् एतेषां सर्वेषाम् अप्य् अशेषतः ।
ये च यैर् उपचर्याः स्युर् नियमैस् तान् निबोधत ॥ ३.१९३ ॥
मनोर् हैरण्यगर्भस्य ये मरीच्यादयः सुताः ।
तेषाम् ऋषीणां सर्वेषां पुत्राः पितृगणाः स्मृताः ॥ ३.१९४ ॥
विराट्सुताः सोमसदः साध्यानां पितरः स्मृताः ।
अग्निष्वात्ताश् च देवानां मारीचा लोकविश्रुताः ॥ ३.१९५ ॥
दैत्यदानवयक्षाणां गन्धर्मोरगरक्षसाम् ।
सुपर्णकिन्नराणां च स्मृता बर्हिषदो ऽत्रिजाः ॥ ३.१९६ ॥
[१४७] सोमपा नाम विप्राणां क्षत्रियाणां हविर्भुजः ।
वैश्यानाम् आज्यपा नाम शूद्राणां तु सुकालिनः ॥ ३.१९७ ॥}

{सोमपास् तु कवेः पुत्रा हविष्मन्तो ऽङ्गिरसः स्मृताः ।
पुलस्त्यस्याज्यपाः पुत्रा वसिष्ठस्य सुकालिनः ॥ ३.१९८ ॥
अग्निदग्धानग्निदग्धान् कव्यबर्हिषदो ऽपहान् ।
अग्निष्वात्तांश् च सौम्यांश् च विप्राणाम् एव निर्दिशेत् ॥ ३.१९९ ॥
य एते तु गणा मुख्याः पितॄणां परिकीर्तिताः ।
तेषाम् अपीह विज्ञेयं पुत्रपौत्रम् अनन्तकम् ॥ ३.२०० ॥
ऋषिभ्यः पितरो जाताः पितृभ्यो देवदानवाः ।
देवेभ्यश् च जगत् सर्वं चरं स्थाण्व् अनुपूर्वशः ॥ ३.२०१ ॥}

{राजतैर् भाजनैर् एषाम् अपि वा राजतान्वितैः ।
वार्य् अपि श्रद्धया दत्तम् अक्षयायोपकल्पते ॥ ३.२०२ ॥}

{दैवकार्याद् द्विजातीनां पितृकार्यं विशिष्यते ।
दैवं हि पितृकार्यस्य पूर्वम् आप्यायनं स्मृतम् ॥ ३.२०३ ॥[१४८]}

{तेषाम् आरक्षभूतं तु पूर्वं दैवं नियोजयेत् ।
रक्षांसि हि विलुम्पन्ति श्राद्धम् आरक्षवर्जितम् ॥ ३.२०४ ॥}

{दैवाद्यन्तं तद् ईहेत पित्र्याद्यन्तं न तद् भवेत् ।
पित्राध्यन्तं त्व् ईहमानः क्षिप्रं नश्यति सान्वयः ॥ ३.२०५ ॥}

{शुचिं देशं विविक्तं च गोमयेनोपलेपयेत् ।
दक्षिनाप्रवणां चैव प्रयत्नेनोपपादयेत् ॥ ३.२०६ ॥}

{अवकाशेषु चोक्षेषु जलतीरेषु चैव हि ।
विविक्तेषु च तुष्यन्ति दत्तेन पितरः सदा ॥ ३.२०७ ॥}

{आसनेषूपकॢप्तेषु बर्हिष्मत्सु पृथक् पृथक् ।
उपसृष्टोदकान् सम्यग् द्विजांस् तान् उपवेशयेत् ॥ ३.२०८ ॥}

{उपवेश्य तु तान् सर्वान् आसनेष्व् अजुगुप्सितान् ।
गन्धमाल्यैः सुरभिभिर् अर्चयेद् देवपूर्वकम् ॥ ३.२०९ ॥
तेषाम् उदकम् आनीय सपवित्रांस् तिलान् अपि ।
अग्नौ कुर्याद् अनुज्ञातो ब्राह्मणो ब्राह्मणैः सदा ॥ ३.२१० ॥
अग्नेः सोमयमाभ्यां च कृत्वाप्यायनम् आदितः ।
हविर्दानेन विधिवत् पश्चात् सन्तर्पयेत् पितॄन् ॥ ३.२११ ॥
अग्न्याभावे तु विप्रस्य पाणाव् एवोपपादयेत् ।
यो ह्य् अग्निः स द्विजो विप्रैः मन्त्रदर्शिभिर् उच्यते ॥ ३.२१२ ॥
[१४९] अक्रोधनान् सुप्रसादान् वदन्त्य् एतान् पुरातनान् ।
लोकस्याप्यायने युक्ताञ् श्राद्धे देवान् द्विजोत्तमान् ॥ ३.२१३ ॥}

{अपसव्यं तु कृत्वाग्नौ सर्वम् आवृत्परिक्रमम् ।
अपसव्येन हस्तेन निर्वपेद् उदकं भुवि ॥ ३.२१४ ॥
त्रींस् तु तस्माद् धविःशेषान् पिण्डान् कृत्वा समाहितः ।
औदकेनैव विधिना निर्वपेद् दक्षिनामुखः ॥ ३.२१५ ॥
न्युप्य पिण्डांस् ततस् तांस् तु प्रयतो विधिपूर्वकम् ।
तेषु दर्भेषु तं हस्तं निमृज्याल् लेपभागिनाम् ॥ ३.२१६ ॥}

{आचम्योदक्परावृत्य त्रिर् आयम्य शनैर् असून् ।
षड् अप्य् ऋतून् नमस्कुर्यात् पितॄन् एव च मन्त्रवित् ॥ ३.२१७ ॥}

{उदक्छेषं च निनयेत् शनैः पिण्डान्तिकं पुनः ।
अवजिघ्रेच् च तान् पिण्डान् यथान्युप्तान् समाहितः ॥ ३.२१८ ॥
पिण्डेभ्यस् त्व् अल्पिकां मात्रां समादायानुपूर्वशः ।
तान् एव विप्रान् आसीनान् विधिवत् पूर्वम् आशयेत् ॥ ३.२१९ ॥}

{विप्रवद् वापि तं श्राद्धं स्वकं पितरम् आश्रयेत् (?) ॥ ३.२२० ॥}

{पिता यस्य तु वृत्तः स्याज् जीवेच् चापि पितामहः ।
पितुः स नाम सङ्कीर्त्य कीरत्येत् प्रपितामहम् ॥ ३.२२१ ॥}

{कामं वा समनुज्ञातः स्वयम् एव समाचरेत् ॥ ३.२२२ ॥}

{तेषां दत्वा तु हस्तेषु सपवित्रं तिलोदकम् ।
तत्पिण्डाग्रं प्रयच्छेतु स्वधैषाम् अस्त्व् इति ब्रुवन् ॥ ३.२२३ ॥
पाणिभ्यां तूपसङ्गृह्य स्वयम् अन्नस्य वर्धितम् ।
[१५१] विप्रान्तिके पितॄन् ध्यायन् शनकैर् उपनिक्षिपेत् ॥ ३.२२४ ॥
उभयोर् हस्तयोर् मुक्तं यद् अन्नम् उपनीयते ।
तद् विप्रलुम्पन्त्य् असुराः सहसा दुष्टचेतसः ॥ ३.२२५ ॥
गुणांश् च सूपशाकाद्यान् पयो दधि घृतं मधु ।
विन्यसेत् प्रयतः पूर्वं स्वयम् एव समाहितः ॥ ३.२२६ ॥
भक्ष्यं भोज्यं च विविधं मूलानि च फलानि च ।
हृद्यानि चैव मांसानि पानानि सुरभीणि च ॥ ३.२२७ ॥
उपनीय समं वैतच् छनकैः सुसमाहितः ।
परिवेषयेत् प्रयतो गुणान् सर्वाणि वेदयन् ॥ ३.२२८ ॥
नास्रम् आपातयेज् जातु न कुप्यान् नानृतं वदेत् ।
न पादेन स्पृशेद् अन्नं न वैतद् अवधूनयेत् ॥ ३.२२९ ॥
आस्रङ् गमयति प्रेतान् कोपो ऽरीन् अनृतं सुनः ।
पादस्पर्शस् तु रक्षांसि दुष्कृतीन् अवधूननम् ॥ ३.२३० ॥
यद् यद् रोचेत विप्रेभ्यस् तत् तद् दद्याद् अमत्सरः ।
ब्रह्मोद्याश् च कथाः कुर्यात् पितॄणाम् एतद् ईप्सितम् ॥ ३.२३१ ॥
स्वाध्यायं श्रावयेत् पित्र्ये धर्मशास्त्राणि चैव हि ।
आक्यानानीतिहासांश् च पुराणानि खिलानि च ॥ ३.२३२ ॥
हर्षयेद् ब्राह्मणांस् तुष्टो भोजयेच् च शनैः शनैः ।
अन्नाद्येनासकृच् चैनान् गुणैश् च परिचोदयेत् ॥ ३.२३३ ॥
व्रतस्थम् अपि दौहित्रं श्राद्धे यत्नेन भोजयेत् ।
कुतपं चासनं दद्यात् तिलैश् च विकिरेन् महीम् ॥ ३.२३४ ॥}

{त्रीणि श्राद्धे पवित्राणि दौहित्रः कुतपस् तिलाः ।
त्रीणि चात्र प्रशंसन्ति शौचम् अक्रोधम् अत्वराम् ॥ ३.२३५ ॥}

{अत्युष्णं सर्वम् अन्नं स्याद् भुञ्जीरंस् ते च वाग्यताः ।
न च द्विजातयो ब्रूयुर् दात्रा पृष्टा (?) हविर्गुणान् ॥ ३.२३६ ॥}

{यावद् उष्मा भवत्य् अन्नं यावद् अश्नन्ति वाग्यताः ।
पितरस् तावद् अश्नन्ति यावन् नोक्ता हविर्गुणाः ॥ ३.२३७ ॥}

{यद् वेष्टितशिरा भुङ्क्ते यद् भुङ्क्ते दक्षिणामुखः ।
सोपानत्कश् च यद् भुङ्क्ते तद् वै रक्षांसि भुञ्जते ॥ ३.२३८ ॥}

{चण्डालश् च वराहश् च कुक्कुटः श्वा तथैव च ।
रजस्वला च षण्डश् च नेक्षेरन्न् अश्नतो द्विजान् ॥ ३.२३९ ॥}

{होमे प्रदाने भोज्ये च यद् एभिर् अभिवीक्ष्यते ।
दैवे कर्मणि पित्र्ये च तद् गच्छत्य् अयथातथम् ॥ ३.२४० ॥}

{घ्राणेन सूकरो हन्ति पक्षवातेन कुक्कुटः ।
श्वा तु दृष्टिनिपातेन स्पर्शेनावरवर्णजः ॥ ३.२४१॥[१५३]}

{खञ्जो वा यदि वा काणो दातुः प्रेष्यो ऽपि वा भवेत् ।
हीनातिरिक्तगात्रो वा तम् अप्य् अपनयेत् ततः ॥ ३.२४२ ॥}

{ब्राह्मणं भिक्षुकं वापि भोजनार्थम् उपस्थितम् ।
ब्राह्मणैर् अप्य् अनुज्ञातः शक्तितः प्रतिपूजयेत् ॥ ३.२४३ ॥}

{सार्ववर्णिकम् अन्नाद्यं सन्नीयाप्लाव्य वारिणा ।
समुत्सृजेद् भुक्तवताम् अग्रतो विकिरन् भुवि ॥ ३.२४४ ॥
संस्कृतप्रमीतानां त्यागिनां कुलयोषिताम् ।
उच्छिष्टं भागधेयं स्याद् दर्भेषु विकिरञ् च यः ॥ ३.२४५ ॥
उच्छेषणम् भूमिगतम् अजिह्मस्याशठस्य च ।
दासवर्गस्य तत् पित्र्ये भागधेयं प्रचक्षते ॥ ३.२४६ ॥}

{आ सपिण्डक्रियाकर्म द्विजातेः संस्थितस्य तु ।
अत्रैवं भोजयेच् छ्राद्धं पिण्डम् एकं च निर्वपेत् ॥ ३.२४७ ॥}

{सहपिण्डक्रियायां तु कृतायाम् अस्य धर्मतः ।
अनयैवावृता कार्यं पिण्डनिर्वपणं सुतैः ॥ ३.२४८ ॥}

{श्राद्धं भुक्त्वा य उच्छिष्टं वृषलाय प्रयच्छति ।
स मूढो नरकं याति कालसूत्रम् अवाक्शिराः ॥ ३.२४९ ॥}

{श्राद्धभिग् वृषलीतल्पं तद् अहर् यो ऽधिगच्छति ।
तस्याः पुरीषे तं मासं पितरस् तस्य शेरते ॥ ३.२५० ॥}

{पृष्ट्वा स्वदितम् इत्य् एवं तृप्तान् आचामयेत् ततः ।
आचान्तांश् चानुजानीयाद् अभितो रम्यताम् इति ॥ ३.२५१ ॥
स्वधास्त्व् इत्य् एव तं ब्रूयुर् ब्राह्मणास् तदनन्तरम् ।
स्वधाकारः परा ह्य् आशीः सर्वेषु पितृकर्मसु ॥ ३.२५२ ॥
ततो भुक्तवतां तेषाम् अन्नशेषं निवेदयेत् ।
यथा ब्रूयुस् तथा कुर्याद् अनुज्ञातस् तैर् द्विजैः ॥ ३.२५३ ॥}

{पित्र्ये स्वदितम् इत्य् एवं वाच्यं गोष्ठेषु तु सुशृतम् ।
सम्पन्नम् इत्य् अभ्युदये दैवे रुचितम् इत्य् अपि ॥ ३.२५४ ॥}

{अपराह्णस् तथा दर्भा वास्तुसम्पादनं तिलाः ।
सृष्टिर् मृष्टिर् द्विजाश् चाग्र्याः श्राद्धकर्मसु सम्पदः ॥ ३.२५५ ॥}

{दर्भाः पवित्रं पूर्वाह्णो हविष्याणि च सर्वशः ।
पवित्रं यच् च पूर्वोक्तं विज्ञेया हव्यसम्पदः ॥ ३.२५६ ॥[१५५]}

{मुन्यन्नानि पयः सोमो मांसं यच् चानुपस्कृतम् ।
अक्षारलवणं चैव प्रकृत्या हविर् उच्यते ॥ ३.२५७ ॥}

{विसृज्य ब्राह्मणांस् तांस् तु नियतो वाग्यतः शुचिः ।
दक्षिणां दिशम् आकाङ्क्षन् याचेतेमान् वरान् पितॄन् ॥ ३.२५८ ॥
दातारो नो ऽभिवर्धन्तां वेदाः सन्ततिर् एव च ।
श्रद्धा च नो मा व्यगमद् बहुदेयं च नो ऽस्त्व् इति ॥ ३.२५९ ॥
एवं निर्वपणं कृत्वा पिण्डांस् तांस् तदनन्तरम् ।
गां विप्रम् अजम् अग्नींश् च प्राशयेद् अप्सु वा क्षिपेत् ॥ ३.२६० ॥}

{वयोभिः खादयन्त्य् एतान् प्रक्षिपन्त्य् अनले ऽप्सु वा ॥ ३.२६१ ॥}

{पतिव्रता धर्मपत्नी पितृपूजनतत्परा ।
मध्यमं तु ततः पिण्डम् अद्यात् सम्यक् सुतार्थिनी ॥ ३.२६२ ॥
आयुष्मन्तं सुतं विन्देद् यशोमेधासमन्वितम् ।
धनवन्तं प्रजावन्तं धार्मिकं सात्त्विकं तथा ॥ ३.२६३ ॥}

{प्रक्षाल्य हस्तौ वाचम्य ज्ञातिप्रायं प्रकल्पयेत् ।
[१५६] ज्ञातिभ्यः सत्कृतं दत्वा बान्धावान् अपि पूजयेत् ॥ ३.२६४ ॥}

{उच्छेषणं च तत् तिष्ठेद् यावद् विप्रा विसर्जिताः ।
ततो गृहबलिं कुर्याद् इति धर्मो व्यवस्थितः ॥ ३.२६५ ॥
हविर् यच् चिरकालाय यच् चानन्त्याय कल्पते ।
पितृभ्यो विधिवद् दत्तं तत् प्रवक्ष्याम्य् अशेषतः ॥ ३.२६६ ॥}

{तिलव्रीहियवैर् माषैर् अद्भिर् मूलफलेन वा ।
दत्तेन मासं तृप्यन्ति (?) विधिवत् पितरो नृणाम् ॥ ३.२६७ ॥}

{द्वौ मात्स्येन तु मांसेन त्रीन् मासान् हारिणेन तु ।
अरुभ्रेणाथ चतुरः शाकुनेनाथ पञ्च वै ॥ ३.२६८ ॥
षण्मासांश् छागमांसेन पार्षतेन च सप्त वै ।
अष्टाव् एणस्य मांसेन रौरवेण नवैव तु ॥ ३.२६९ ॥
दशमासांस् तु तृप्यन्ति वराहमहिषामिषैः ।
शशकूर्मयोस् तु मांसेन मासान् एकादशैव तु ॥ ३.२७० ॥
संवत्सरं तु गव्येन पयसा पायसेन वा ।
वार्ध्रीणसस्य मांसेन तृप्तिर् द्वादशवार्षिकी ॥ ३.२७१ ॥
कालशाकं महाशङ्खं (?) खङ्गलोहाम् इषं मधु ।
आनन्त्यायैव कल्पन्ते मुन्यन्नानि च सर्वशः ॥ ३.२७२ ॥
यत् किञ्चिन् मधुना मिश्रं प्रदद्यात् तत् त्रयोदशीम् ।
तद् अप्य् अक्षयम् एव स्याद् वर्षासु च मघासु च ॥ ३.२७३ ॥
अपि नः स कुले जायाद् यो नो दद्यात् त्रयोदशीम् ।
पायसं मधुसर्पिर्भ्यां प्राक्च्छाये कुञ्जरस्य तु ॥ ३.२७४ ॥}

{यद् यद् ददाति विधिवत् सम्यक् श्रद्धासमन्वितः ।
तत् तत् पितॄणां भवति परत्रानन्तम् अक्षयम् ॥ ३.२७५ ॥}

{कृष्णपक्षे दशम्यादौ वर्जयित्वा चतुर्दशीम् ।
श्राद्धे प्रशस्तास् तिथयो यथैता न तथेतराः ॥ ३.२७६ ॥}

{युक्षु कुर्वन् दिनर्क्षेषु सर्वान् कामान् समश्नुते ।
अयुक्षु तु पितॄन् अर्चन् प्रजां प्राप्नोति पुष्कलाम् ॥ ३.२७७ ॥}

{[१५८]
यथाचैवापरह् पक्षः पूर्वपक्षाद् विशिष्यते ।
तथा श्राद्धस्य पूर्वाह्नाद् अपराह्णो विशिष्यते ॥ ३.२७८ ॥
प्राचीनावीतिना सम्यग् अपसव्यम् अतन्द्रिणा ।
पित्र्यम् आ निधनात् कार्यं विधिवद् दर्भपाणिना ॥ ३.२७९ ॥}

{रात्रौ श्राद्धं न कुर्वीत राक्षसी कीर्तिता हि सा ।
सन्ध्ययोर् उभयोश् चैव सूर्ये चैवाचिरोदिते (?) ॥ ३.२८० ॥}

{अनेन विधिना नित्यं त्रिर् अब्दस्येह निर्वपेत् ।
हेमन्तग्रीष्मवर्षासु पाञ्चयज्ञिकम् अन्वहम् ॥ ३.२८१ ॥}

{न पैतृयज्ञिको होमो (?) लौकिके ऽग्नौ विधीयते ।
न दर्शेन विना श्राद्धम् आहिताग्नेर् द्विजन्मनः ॥ ३.२८२ ॥}

{यद् एव तर्पयत्य् अद्भिः पितॄन् स्नात्वा द्विजोत्तमः ।
तेनैव सर्वम् आप्नोति पितृयज्ञक्रियाफलम् ॥ ३.२८३ ॥}

{वसून् वदन्ति तु पितॄन् रुद्रान् एव पितामहान् ।
प्रपितामहांस् तथादित्याञ् छ्रुतिर् एषा पुरातनी ॥ ३.२८४ ॥[१५९]}

{विघसाशी भवेन् नित्यं नित्यं वामृतभोजनः ।
विघसो भुक्तशेषं (?) तु यज्ञशेषं तथामृतम् ॥ ३.२८५ ॥}

{एतद् वो ऽभिहितं सर्वं विधानं पाञ्चयज्ञिकम् ।
द्विजातिमुख्यवृत्तीनां विधानं श्रूयताम् इदम् ॥ ३.२८६ ॥}