द्वितीयो ऽध्यायः
एवं तावच् छास्त्रारम्भसामर्थ्यप्रदर्शनार्थस् त्रिचतुर्मात्रार्थवादः प्रकरणः प्रथमो ऽनुक्रान्तः, अध्ययनविज्ञानानुवचनक्रियाशेषशास्त्रस्य “आसीद् इदं तमोभूतम्” (म्ध् १.५) इत्य् अत आरभ्य । इदानीं तत्प्रतिज्ञा[ता]र्थानुक्रमणायेदम् आ[र]भ्यते —
{विद्वद्भिः सेवितः सद्भिर् नित्यम् अद्वेषरागिभिः ।
हृदयेनाभ्यनुज्ञातो यो धर्मस् तं निबोधत ॥ २.१ ॥}
{कामात्मता न प्रशस्ता न चैवेहास्त्य् अकामता ।
काम्यो हि वेदाधिगमः कर्मयोगश् च वैदिकः ॥ २.२ ॥}
{सङ्कल्पमूलः कामो वै यज्ञाः सङ्कल्पसम्भवाः ।
व्रतानि यमधर्माश् च सर्वे सङ्कल्पजाः स्मृताः ॥ २.३ ॥}
{अकामस्य क्रिया काचिद् दृश्यते नेह कस्यचित् ।
यद् यद् धि कुरुते किञ्चित् तत् तत् कामस्य चेष्टितम् ॥ २.४ ॥}
{तेषु सम्यग् वर्तमानो गच्छत्य् अमरलोकताम् ।
यथासङ्कल्पितांश् चेह सर्वान् कामान् समश्नुते ॥ २.५ ॥[३७]}
{वेदो ऽखिलो धर्ममूलं स्मृतिशीले च तद्विदाम् ।
आचारश् चैव साधूनाम् आत्मनस् तुष्टिर् एव च ॥ २.६ ॥}
{यः कश्चित् कस्यचिद् धर्मो मनुना परिकीर्तितः ।
स सर्वो ऽभिहितो वेदे सर्वज्ञानमयो हि सः ॥ २.७ ॥}
{सर्वं समवेक्ष्येदं निखिलं (?) ज्ञानचक्षुषा ।
श्रुतिप्रामाण्यतो विद्वान् स्वधर्म निविशेत वै ॥ २.८ ॥}
{श्रुतिस्मृत्युदितं धर्मम् अनुतिष्ठन् हि मानवः ।
इह कीर्तिम् अवाप्नोति प्रेत्य चानुत्तमां गतिम् ॥ २.९ ॥}
{श्रुतिस् तु वेदो विज्ञेयो धर्मशास्त्रं तु वै स्मृतिः ।
ते सर्वार्थेष्व् अमीमांस्ये ताभ्यां धर्मो हि निर्बबौ ॥ २.१० ॥}
{यो ऽवमन्येत ते तूभे (?) हेतुशाश्त्राश्रयाद् द्विजः ।
स साधुभिर् बहिष्कार्यो नास्तिको वेदनिन्दकः ॥ २.११ ॥[४२]}
{वेदः स्मृतिः सदाचारः स्वस्य च प्रियम् आत्मनः ।
एतच् चतुर्विधं प्राहुः साक्षाद् धर्मस्य लक्षणम् ॥ २.१२ ॥}
{अर्थकामेष्व् असक्तानां धर्मज्ञानं विधीयते ।
धर्मं जिज्ञासमानानां प्रमाणं परमं श्रुतिः ॥ २.१३ ॥}
{श्रुतिद्वैधं तु यत्र स्यात् तत्र धर्माव् उभौ स्मृतौ ।
उभाव् अपि तौ धर्मौ सम्यग् उक्तौ मनीषिभिः ॥ २.१४ ॥}
{उदिते ऽनुदिते चैवे समयाध्युषिते तथा ।
सर्वथा वर्तते यज्ञ इतीयं वैदिकी श्रुतिः ॥ २.१५ ॥}
{[४५] सरस्वतीदृषद्वत्योर् देवनद्योर् यद् अन्तरम् ।
तं देवनिर्मितं देशं ब्रह्मावर्तं प्रचक्षते ॥ २.१७ ॥}
{यस्मिन् देशे य आचारः पारम्पर्यक्रमागतः ।
वर्णानां सान्तरालानां स सदाचार उच्यते ॥ २.१८ ॥}
{कुरुक्षेत्रं च मत्याश् च पाञ्चालाः शूरसेनकाः ।
एष ब्रह्मर्षिदेशो वै ब्रह्मावर्ताद् अनन्तरः ॥ २.१९ ॥}
{एतद्देशप्रसूतस्य सकाशाद् अग्रजन्मनः ।
स्वं स्वं चरित्रं शिक्षन्ते (षेरन्) पृथिव्यां सर्वमानवः ॥ २.२० ॥}
{हिमवद्विन्ध्ययोर् मध्यं यत् प्राग् विनशनाद् अपि ।
प्रत्यग् एव प्रयागाच् च मध्यदेशः प्रकीर्तितः ॥ २.२१ ॥}
{आ समुद्रात् तु वै पूर्वाद् आ समुद्रात् तु पश्चिमात् ।
तयोर् एवान्तरं गिर्योर् (?) आर्यावर्तं प्रचक्षते (विदुर् बुधाः) ॥ २.२२ ॥}
{कृष्णसारस् तु चरति मृगो यत्र स्वभावतः ।
स ज्ञेयो यज्ञियो देशो म्लेच्छदेशस् त्व् अतः परः ॥ २.२३ ॥}
{एतान् द्विजातयो देशान् संश्रयेरन् प्रयत्नतः ।
[४६] शूद्रस् तु यस्मिन् कस्मिन् वा निवसेद् वृत्तिकर्शितः ॥ २.२४ ॥}
{एषा धर्मस्य यो योनिः समासेन प्रकीर्तिता ।
सम्भवश् चास्य सर्वस्य वर्णधर्मान् निबोधत ॥ २.२५ ॥}
{वैदिकैः कर्मभिः पुण्यैर् निषेकादिर् द्विजन्मनाम् ।
कार्यः शरीरसंस्कारः पावनः प्रेत्य चेह च ॥ २.२६ ॥}
{गार्भैर् होमैर् जातकर्मचौलमौञ्जीनिबन्धनैः ।
बैजिकं (?) गार्भिकं चैनो द्विजानाम् अपमृज्यते (?) ॥ २.२७ ॥}
{स्वाध्यायेन व्रतैर् होमैस् त्रैविद्येनेज्यया सुतैः ।
महायज्ञैश् च यज्ञैश् च ब्राह्मीयं क्रियते तनुः ॥ २.२८ ॥}
{प्राङ्नाभिवर्धनात् पुंसो जातकर्म विधीयते ।
मन्त्रवत् प्राशनं चास्य हिरण्यमधुसर्पिषाम् ॥ २.२९ ॥}
{नामधेयं दशम्यां तु द्वादश्यां वास्य कारयेत् ।
पुण्ये (ऽहनि) तिथौ मुहूर्ते वा नक्षत्रे वा गुणान्विते ॥ २.३० ॥[४९]}
{मङ्गल्यं ब्राह्मणस्य स्यात् क्षत्रियस्य बलान्वितम् ।
वैश्यस्य धन(पुष्टि)संयुक्तं शूद्रस्य तु जुगुप्सितम् ॥ २.३१ ॥}
{स्त्रीणां सुखोद्यम् अक्रूरं विस्पष्टार्थं मनोहरम् ।
मङ्गल्यं दीर्घवर्णान्तम् आशीर्वादाभिधानवत् ॥ २.३३ ॥}
{मासे चतुर्थे कर्तव्यं शिशोर् निष्क्रमणम् गृहात् ।
षष्ठे ऽन्नप्राशनं मासि यद् वेष्टं मङ्गलं कुले ॥ २.३४ ॥}
{चूडाकर्म द्विजातीनां सर्वेषाम् एव धर्मतः ।
प्रथमे ऽब्दे तृतीये वा कर्तव्यं श्रुतिचोदनात् ॥ २.३५ ॥}
{[५२] गर्भाष्टमे ऽब्दे कुर्वीत ब्राह्मणस्योपनायनम् ।
गर्भाद् एकादशे राज्ञो गर्भात् तु द्वादशे विशः ॥ २.३६ ॥}
{ब्रह्मवर्चसकामस्य काम्यं विप्रस्य पञ्चमे ।
राज्ञो बलार्थिनः षष्ठे वैश्यस्येहार्थिनो ऽष्टमे ॥ २.३७ ॥}
{आ षोडशाद् ब्राह्मणस्य सावित्री नातिवर्तते ।
आ द्वाविंशात् क्षत्रबन्धोर् आ चतुर्विंशतेर् विशः ॥ २.३८ ॥}
{अत ऊर्ध्वं त्रयो ऽप्य् एते यथाकालम् असंस्कृताः ।
सावित्रीपतिता व्रात्या भवन्त्य् आर्यविगर्हिताः ॥ २.३९ ॥}
{नैतैर् अपूतैर् विधिवद् आपद्य् अपि हि कर्हिचित् ।
ब्राह्मान् यौनांश् च सम्बन्धेनाचरेद् ब्राह्मणैः सह ॥ २.४० ॥}
{कार्ष्णरौरवबास्तानि चर्माणि ब्रह्मचारिणः ।
वसीरन्न् आनुपूर्व्येण शाणक्षौमाविकानि च ॥ २.४१ ॥[४४]}
{मौञ्जी त्रिवृत् समा श्लक्ष्णा कार्या विप्रस्य मेखला ।
क्षत्रियस्य तु मौर्वी ज्या वैश्यस्य शणतान्तवी ॥ २.४२ ॥}
{मुञ्जाभावे तु कर्तव्या कुशाश्मन्तकबल्वजैः ।
त्रिवृता ग्रन्थिनैकेन त्रिभिः पञ्चभिर् एव वा ॥ २.४३ ॥}
{कार्पास्म् उपवीतं स्याद् विप्रस्योर्ध्ववृतं त्रिवृत् ।
शणसूत्रमयं राज्ञो वैश्यस्याविकसौत्रिकम् ॥ २.४४ ॥}
{ब्राह्मणो बैल्वपालाशौ क्षत्रियो वाटखादिरौ ।
पैलवौदुम्बरौ वैश्यो दण्डान् अर्हन्ति धर्मतः ॥ २.४५ ॥}
{केशान्तिको ब्राह्मणस्य् दण्डः कार्यः प्रमाणतः ।
ललाटसम्मितो राज्ञः स्यात् तु नासान्तिको विशः ॥ २.४६ ॥}
{ऋजवस् ते तु सर्वे स्युर् अव्रणाः सौम्यदर्शनाः ।
अनुद्वेगकरा नॄणां सत्वचो ऽनग्निदूषिताः ॥ २.४७ ॥}
{प्रतिगृह्येप्सितं दण्डम् उपथाय च भास्करम् ।
प्रदक्षिणं परीत्याग्निं चरेद् भैक्षं यथाविधि ॥ २.४८ ॥}
{भवत्पूर्वं चरेद् भैक्षम् उपनीतो द्विजोत्तमः ।
भवन्मध्यं तु राजन्यो वैश्यस् तु भवदुत्तरम् ॥ २.४९ ॥}
{[५६] मातरं वा स्वसारं वा मातुर् वा भगिनीं निजाम् ।
भिक्षेत भिक्षां प्रथमं या चैनं नावमानयेत् ॥ २.५० ॥}
{समाहृत्य तु तद् भक्षं यावदर्थम् अमायया ।
निवेद्य गुरवे ऽश्नीयाद् आचम्य प्राङ्मुखः शुचिः ॥ २.५१ ॥}
{आयुष्यं प्राङ्मुखो भुङ्क्ते यशस्यं दक्षिनामुखः ।
श्रियं प्रत्यङ्मुखो भुङ्क्ते ऋतं भुङ्क्ते उदङ्मुखः ॥ २.५२ ॥}
{उपस्पृश्य द्विजो नित्यम् अन्नम् अद्यात् समाहितः ।
भुक्त्वा चोपस्पृशेत् सम्यग् अद्भिः खानि च संस्पृशेत् ॥ २.५३ ॥}
{[५७] पूजयेद् अशनं नित्यम् अद्याच् चैतद् अकुत्सयन् ।
दृष्ट्वा हृष्येत् प्रसीदेच् च प्रतिनन्देच् च सर्वदा (शः) ॥ २.५४ ॥}
{पूजितं ह्य् अशनं नित्यं बलम् ऊर्जं च यच्छति ।
अपूजितं तु तद् भुक्तम् उभयं नाशयेद् इदम् ॥ २.५५ ॥}
{नोच्छिष्टं कस्यचित् दद्यान् नाद्याद् एतत् तथान्तरा ।
न चैवात्यशनं कुर्यान् न चोच्छिष्टः क्वचिद् व्रजेत् ॥ २.५६ ॥}
{अनारोग्यम् अनायुष्यम् अस्वर्ग्यं चातिभोजनम् ।
अपुण्यं लोकविद्विष्टं तस्मात् तत् परिवर्जयेत् ॥ २.५७ ॥}
{ब्राह्मेण विप्रस् तीर्थेन नित्यकालम् उपस्पृशेत् ।
कायत्रैदशिकाभ्यां वा न पित्र्येण कदाचन ॥ २.५८ ॥}
{अङ्गुष्ठमूलस्य तले ब्राह्मं तीर्थं प्रचक्षते ।
कायम् अङ्गुलिमूले ऽग्रे दैवं पित्र्यं तयोर् अधः ॥ २.५९ ॥}
{त्रिर् आचमेद् अपां (अपः) पूर्वं त्रिर् (द्विः) उन्मृज्यात् ततो मुखम् ।
खानि चैव स्पृशेद् अद्भिर् आत्मानं शिर एव च ॥ २.६० ॥}
{अनुष्णाभिर् अफेनाभिर् अद्भिस् तीर्थेन धर्मवित् ।
शौचेप्सुः सर्वदाचामेद् एकान्ते प्रागुदङ्मुखः ॥ २.६१ ॥}
{हृद्गाभिः शुध्यते विप्रः कण्ठगाभिस् तु भूमिपः ।
वैश्यो ऽद्भिः प्राशिताभिस् तु शूद्रः स्पृष्टाभिर् अन्ततः ॥ २.६२ ॥}
{उद्धृते दक्षिणे पाणाव् उपवीत्य् उच्यते द्विजः ।
सव्ये तु प्राचीनावीती निवीती कण्ठसज्जने ॥ २.६३ ॥}
{मेखलाम् अजिनं दण्डम् उपवीतं कमण्डलुम् ।
अप्सु प्रास्य विनष्टानि गृह्णीतान्यानि मन्त्रवत् ॥ २.६४ ॥}
{केशान्तः षोडशे वर्षे ब्राह्मणस्य विधीयते ।
राजन्यबन्धोर् द्वाविंशे वैश्यस्य द्व्यधिके ततः ॥ २.६५ ॥}
{अमन्त्रिका तु कार्येयं स्त्रीणाम् आवृद् अशेषतः ।
संस्कारार्थं शरीरस्य यथाकालं यथाक्रमम् ॥ २.६६ ॥}
{वैवाहिको विधिः स्त्रीणाम् औपनायनिकः स्मृतः ।
पतिसेवा गुरौ वासो गृहार्थो ऽग्निपरिक्रिया ॥ २.६७ ॥}
{एष प्रोक्तो दिव्जातीनाम् औपनायनिको विधिः ।
उत्पत्तिव्यञ्जकः पुण्यः कर्मयोगं निबोधत ॥ २.६८ ॥ }
{उपनीय गुरुः शिष्यं शिक्षयेच् छौचम् आदितः ।
आचारम् (?) अग्निकार्यं च सन्ध्योपासनम् एव च ॥ २.६९ ॥}
{अध्येष्यमाणस् त्व् आचान्तो यथाशास्त्रम् उदङ्मुखः ।
ब्रह्माञ्जलिकृतो ऽध्याप्यो लघुवासा जितेन्द्रियः ॥ २.७० ॥}
{ब्रह्मारम्भे ऽवसाने च पादौ ग्राह्यौ गुरोः सदा ।
संहत्य हस्ताव् अध्येयं स हि ब्रह्माञ्जलिः स्मृतः ॥ २.७१ ॥}
{व्यत्यस्तपाणिना कार्यम् उपसङ्ग्रहणं सदा ।
सव्येन सव्यः स्प्रष्टव्यो दक्षिणेन च दक्षिणः ॥ २.७२ ॥[६२]}
{ब्रह्मणः प्रणवं कुर्याद् आदाव् अन्ते च सर्वदा ।
स्रवत्य् अनोङ्कृतं पूर्वं परस्ताच् च विशीर्यति ॥ २.७४ ॥}
{प्राक्कूलान् पर्युपासीनः पवित्रैश् चैव पावितः ।
प्राणायामैस् त्रिभिः पूतस् तत ओङ्कारम् अर्हति ॥ २.७५ ॥}
{अकारं चाप्य् उकारं च मकारं च प्रजापतिः ।
वेदत्रयान् निरदुहद् भूर् भुवः स्वर् इतीति च ॥ २.७६ ॥}
{त्रिभ्य एव तु वेदेभ्यः पादं पादम् अदूदुहत् ।
[६३] तद् इत्य् ऋचो ऽस्याः सावित्र्याः परमेष्ठी प्रजापतिः ॥ २.७७ ॥}
{एतद् अक्षरम् एतां च जपन् व्याहृतिपूर्विकाम् ।
सन्ध्ययोर् वेदविद् विप्रो वेदपुण्येन युज्यते ॥ २.७८ ॥}
{सहस्रकृत्वस् त्व् अभ्यस्य बहिर् एतत् त्रिकं द्विजः ।
महतो ऽप्य् एनसो मासात् त्वचेवाहिर् विमुच्यते ॥ २.७९ ॥}
{एतयार्चा विसंयुक्तः काले च क्रियया स्वया ।
विप्रक्षत्रियविड्योनिर् गर्हणाम् याति साधुषु ॥ २.८० ॥}
{ओङ्कारपूर्विकास् तिस्रो महाव्याहृतयो ऽव्ययाः ।
त्रिपादा चैव सावित्री विज्ञेया ब्रह्मणो मुखम् ॥ २.८१ ॥}
{६४]
यो ऽधीते ऽहन्य् अहन्य् एतां त्रीणि वर्षाण्य् अतन्द्रितः ।
स ब्रह्म परम् अभ्येति वायुभूतः खमूर्तिमान् ॥ २.८२ ॥}
{एकाक्षरं परं ब्रह्म प्राणायामः परं तपः ।
सावित्र्यास् तु परं नास्ति मौनात् सत्यं विशिष्यते ॥ २.८३ ॥}
{क्षरन्ति सर्वा वैदिक्यो जुहोतिजयतिक्रियाः ।
अक्षरं त्व् अक्षरं ज्ञेयं ब्रह्म चैव प्रजापतिः ॥ २.८४ ॥}
{विधियज्ञाज् जपयज्ञो विशिष्टो दशभिर् गुणैः ।
उपांशुः स्याच् छतगुणः सहस्रो मानसः स्मृतः ॥ २.८५ ॥}
{ये पाकयज्ञाश् चत्वारो विधियज्ञसमन्विताः ।
सर्वे ते जपयज्ञस्य कलां नार्हन्ति षोडशीम् ॥ २.८६ ॥}
{जप्येनैव तु संसिद्ध्येत् ब्राह्मणो नात्र संशयः ।
कुर्याद् अन्यन् न वा कुर्यान् मैत्रो ब्राह्मण उच्यते ॥ २.८७ ॥}
{इन्द्रियाणां विचरतां विषयेष्व् अपहारिषु ।
संयमे यत्नम् आतिष्ठेद् विद्वान् यन्तेव वाजिनाम् ॥ २.८८ ॥}
{एकादशेन्द्रियाण्य् आहुर् यानि पूर्वे मनिषिणः ।
तानि सम्यक् प्रवक्ष्यामि यथावद् अनुपूर्वशः ॥ २.८९ ॥}
{श्रोत्रं त्वक् चक्षुषी जिह्वा नासिका चैव पञ्चमी ।
पायूपस्थं हस्तपादं वाक् चैव दशमी स्मृता ॥ २.९० ॥[६७]}
{बुद्धीन्द्रियाणि पञ्चैषां श्रोत्रादीन्य् अनुपूर्वशः ।
कर्मेन्द्रियाणि पण्चैषां पाय्वादीनि प्रचक्षते ॥ २.९१ ॥}
{एकादशं मनो ज्ञेयं स्वगुणेनोभयात्मकम् ।
यस्मिन् जिते जिताव् एतौ भवतः पञ्चकौ गणौ ॥ २.९२ ॥}
{इन्द्रियाणां तु प्रसङ्गेन दोषम् ऋच्छत्य् असंशयम् ।
सन्नियम्य तु तान्य् एव ततः सिद्धिं नियच्छति ॥ २.९३ ॥}
{न जातु कामः कामानाम् उपभोगेन शाम्यति ।
हविषा कृष्णवर्त्मेव भूय एव हि वर्धते (?) ॥ २.९४ ॥}
{यश् चैतान् प्राप्नुयात् सर्वान् यश् चैनान् केवलांस् त्यजेत् ।
प्रापणात् सर्वकामानां परित्यागो विशिष्यते ॥ २.९५ ॥}
{न तथैताणि शक्यन्ते सन्नियन्तुम् असेवया ।
विषयेषु प्रदुष्टानि यथा ज्ञानेन नित्यशः ॥ २.९६ ॥}
{वेदास् त्यागश् च यज्ञाश् च नियमाश् च तपांसि च ।
न विप्रदुष्टभावस्य सिद्धिं गच्छन्ति कर्हिचित् ॥ २.९७ ॥}
{श्रुत्वा स्पृष्ट्वा च दृष्ट्वा च भुक्त्वा घ्रात्वा च यो नरः ।
न हृष्यति ग्लायति वा स विज्ञेयो जितेन्द्रियः ॥ २.९८ ॥}
{इन्द्रियाणां हि [तु] सर्वेषां यद्य् एकं क्षरतीन्द्रियम् ।
तेनास्य क्षरति प्रज्ञा दृतेः पादाद् इवोदकम् ॥ २.९९ ॥}
{वशे कृत्वेन्द्रियग्रामं संयम्य च मनस् तथा ।
सर्वान् संसाधयेद् अर्थान् अक्षिण्वन् योगतस् तनुम् ॥ २.१०० ॥}
{पूर्वां सन्ध्यां जपंस् तिष्ठेत् सावित्रीम् आर्कदर्शनात् ।
पश्चिमां तु समासीनः सम्यग् ऋक्षविभावनात् ॥ २.१०१ ॥}
{[ पूर्वां सन्ध्यां जपंस् तिष्ठेत् नैशम् एनो व्यपोहति ।
पश्चिमां तु समासीनां मलं हन्ति दिवाकृतम् ॥ २.१०२ ॥ ]
न तु तिष्ठति तु यः पूर्वाम् नोपास्ते यश् च पश्चिमाम् ।
स शूद्रवद् बहिष्कार्यः सर्वस्माद् द्विजकर्मणः ॥ २.१०३ ॥}
{अपां समीपे नियतो नैत्यकं विधिम् आस्थितः ।
सावित्रीम् अप्य् अधीयीत गत्वारण्यं समाहितः ॥ २.१०४ ॥}
{[७०]
वेदोपकरणे चैव स्वाध्याये चैव नैत्यके ।
नानुरोधो ऽस्त्य् अनध्याये होममन्त्रेषु चैव हि ॥ २.१०५ ॥}
{अग्नीन्धनं भैक्षचर्याम् अधःशय्यां गुरोर् हितम् ।
आ समावर्तनात् कुर्यात् कृतोपनयनो द्विजः ॥ २.१०८ ॥}
{आचार्यपुत्रः शुश्रूषुर् ज्ञानदो धार्मिकः शुचिः ।
शक्तो ऽर्थदो ऽर्थी स्वः साधुर् अध्याप्या दश धर्मतः ॥ २.१०९ ॥}
{नापृष्टः कस्यचिद् ब्रूयान् न चान्यायेन पृच्छतः ।
जानन्न् अपि हि मेधावी जडवल् लोकम् आचरेत् ॥ २.११० ॥}
{धर्मार्थौ यत्र न स्यायां शुश्रूषा वापि तद्विधा ।
न तत्र विद्या वप्तव्या शुभं बीजम् इवोषरे ॥ २.११२ ॥}
{विद्ययैव समं कामं मर्तव्यं ब्रह्मवादिना ।
आपद्य् अपि हि कष्टायां न त्व् एनाम् इरिणे वपेत् ॥ २.१३३ ॥}
{विद्या ब्राह्मणम् एत्याह शेवधिष्टे ऽस्मि रक्ष माम् ।
असूयकाय मां मा दास् तथा स्याम् वीर्यवत्तमा ॥ २.११४ ॥}
{[७२] यम् एव तु शुचिं विद्यात् नियतं ब्रह्मचारिणम् ।
तस्मै मां ब्रूहि विप्राय निधिपायाप्रमादिने ॥ २.११५ ॥}
{ब्रह्म यस् त्व अननुज्ञातम् अधीयानाद् अवाप्नुयात् ।
स ब्रह्मस्तेयसंयुक्तो नरकं प्रतिपद्यते ॥ २.११६ ॥}
{लौकिकं वैदिकं वापि तथाध्यात्मिकम् एव वा ।
आददीत यतो ज्ञानं तं पूर्वम् अभिवादयेत् ॥ २.११७ ॥}
{सावित्रीमात्रसारो ऽपि वरो विप्रः सुयन्त्रितः (?) ।
नायन्त्रितस् त्रिवेदो ऽपि सर्वाशी सर्वविक्रयी ॥ २.११८ ॥}
{शय्यासने ऽध्याचरिते श्रेयसा न समाविशेत् (समाररेत्?) ।
शय्यासनस्थश् चैवैनं प्रत्युत्थायाभिवादयेत् ॥ २.११९ ॥}
{ऊर्ध्वं प्राणा ह्य् उत्क्रामन्ति यूनः स्थविर आयति ।
प्रत्युत्थानाभिवादाभ्यां पुनस् तान् प्रतिपद्यते ॥ २.१२० ॥}
{अभिवादनशीलस्य नित्यं वृद्धोपसेविनः ।
चत्वारि सम्यग् (?) वर्धन्ते आयुः प्रज्ञा यशो बलम् ॥ २.१२१ ॥}
{अभिवादात् परं विप्रो ज्यायांसम् अभिवादयन्(?) ।
असौ नामाहम् अस्मीति स्वं नाम परिकीर्तयेत् ॥ २.१२२ ॥}
{नामधेयस्य ये केचिद् अभिवादं न जानते ।
तान् प्राज्ञो ऽहम् इति ब्रूयात् स्त्रियः सर्वास् तथैव च ॥ २.१२३ ॥}
{भोःशब्दं कीर्तयेद् अन्ते स्वस्य नाम्नो ऽभिवादने ।
नाम्नां स्वरूपभावो हि भोभाव ऋषिभिः स्मृतः ॥ २.१२४ ॥}
{आयुष्मान् भव सौम्येति विप्रो वाच्यो ऽभिवादने ।
अकारश् चास्य नाम्नो ऽन्ते कार्यः पूर्वाक्षरः प्लुतः ॥ २.१२५ ॥}
{यो न वेत्त्य् अभिवादस्य विप्रः प्रत्यभिवादनम् ।
नाभिवाद्यः स विदुषा यथा शूद्रस् तथैव सः ॥ २.१२६ ॥}
{ब्राह्मणं कुशलं पृच्छेत् क्षत्रबन्धुम् अनामयम् ।
वैश्यं क्षेमं समागम्य शूद्रम् आरोग्यम् एव च ॥ २.१२७ ॥}
{अवाच्यो दीक्षितो नाम्ना यवीयान् अपि यो भवेत् ।
भोभवत्पूर्वकं त्व् एनम् अभिभाषेत धर्मवित् ॥ २.१२८ ॥}
{परपत्नी तु या स्त्री स्याद् असम्बन्धा च योनितः ।
तां ब्रूयाद् भवतीत्य् एवं सुभगे भगिनीति वा ॥ २.१२९ ॥}
{मातुलांश् च पितृव्यांश् च श्वसुरान् ऋत्विजो गुरून् ।
असाव् अहम् इति ब्रूयात् प्रत्युत्थाय यवीयसः ॥ २.१३० ॥}
{मातृष्वसा मातुलानी श्वश्रूर् अथ् पितृश्वसा ।
सम्पूज्या गुरुपत्नीवत् समास् ता गुरुभार्यया ॥ २.१३१ ॥}
{भ्रातुर् भार्योपसङ्ग्राह्या सवर्णाहन्य् अहन्य् अपि ।
विप्रोष्य तूपसङ्ग्राह्या ज्ञातिसम्बन्धियोषितः ॥ २.१३२ ॥}
{पितुर् भगिन्यां मातुश् च ज्यायस्यां च स्वसर्य् अपि ।
मातृवद् वृत्तिम् आतिष्ठेन् माता ताभ्यो गरीयसी ॥ २.१३३ ॥}
{दशाब्दाख्यं पौरसख्यं पञ्चाब्दाख्यं कलाभृताम् ।
त्र्यब्दपूर्वं श्रोत्रियाणां स्वल्पेनापि स्वयोनिषु ॥ २.१३४ ॥}
{ब्राह्मणं दशवर्षं तु शतवर्षं तु भूमिपम् ।
पितापुत्रौ विजानीयाद् ब्राह्मणस् तु तयोः पिता ॥ २.१३५ ॥}
{वित्तं बन्धु वयः कर्म विद्या भवति पञ्चमी ।
एतानि मानस्थानानि गरीयो यद् यद् उत्तरम् ॥ २.१३६ ॥}
{पञ्चानां त्रिषु वर्णेषु भूयांसि गुणवन्ति च ।
८३] यत्र स्युः सो ऽत्र मानार्हः शूद्रो ऽपि दशमीं गतः ॥ २.१३७ ॥}
{चक्रिणो दशमीस्थस्य रोगिणो भारिणः स्त्रियाः ।
स्नातकस्य च राज्ञश् च पन्था देयो वरस्य च ॥ २.१३८ ॥}
{तेषां तु समवेतानां मान्यौ स्नातकपार्थिवौ ।
[८४] राजस्नातकयोश् चैव स्नातको नृपमानभाक् ॥ २.१३९ ॥}
{उपनीय तु यः शिष्यं वेदम् अध्यापयेद् द्विजः ।
सकल्पं सरहस्यं च तम् आचार्यं प्रचक्षते ॥ २.१४० ॥}
{निषेकादीनि कर्माणि यः करोति यथाविधि ।
सम्भावयति चान्नेन स विप्रो गुरुर् उच्यते ॥ २.१४२ ॥}
{आग्न्याधेयं पाकयज्ञान् अग्निष्टोमादिमान् मखान् ।
यः करोति वृतो यस्य स तस्य ऋत्विग् इहोच्यते ॥ २.१४३ ॥}
{य आवृणोत्य् अवितथं ब्रह्मणा श्रवणाव् उभौ ।
स माता स पिता ज्ञेयस् तं न द्रुह्येत् कदाचन ॥ २.१४४ ॥}
{उपाध्यायाद् दशाचार्य आचार्याणां शतं पिता ।
पितुर् दशशतं माता गौरवेणातिरिच्यते ॥ २.१४५ ॥}
{[८६]
उत्पादकब्रह्मदात्रोर् गरीयान् ब्रह्मदः पिता ।
ब्रह्मजन्म हि विप्रस्य प्रेत्य चेह च शाश्वतम् ॥ २.१४६ ॥}
{कामान् माता पिता चैनं यद् उत्पादयतो मिथः ।
सम्भूतिं तस्य तां विद्याद् यद् योनाव् अभिजायते ॥ २.१४७ ॥}
{आचार्यस् त्व् अस्य यां जातिं विधिवद् वेदपारगः ।
उत्पादयति सावित्र्या सा सत्या साजरामरा ॥ २.१४८ ॥}
{अल्पं वा बहु वा यस्य श्रुतस्योपकरोति यः ।
तम् अपीह तुरुं विद्याच् छ्रुतोपक्रियया तया ॥ २.१४९ ॥}
{ब्राह्मस्य जन्मनः कर्ता स्वधर्मस्य च शासिता ।
बालो ऽपि विप्रो वृद्धस्य पिता भवति धर्मतः (?) ॥ २.१५० ॥}
{अध्यापयामास पितॄञ् छिशुर् आङ्गीरसः कविः।
पुत्रका इति होवाच ज्ञानेन परिगृह्य तान् ॥ २.१५१ ॥
ते तम् अर्थम् अपृच्छन्त देवान् आगतमन्यवः ।
देवाश् चैतान् समेत्योचुर् न्याय्यं वः शिशुर् उक्तवान् ॥ २.१५२ ॥}
{अज्ञो भवति वै बालः पिता भवति मन्त्रदः ।
अज्ञं हि बालम् इत्य् आहुः पितेत्य् एव तु मन्त्रदम् ॥ २.१५३ ॥[८७]}
{न हायनैर् न पलितैर् न वित्तेन् न बन्धुभिः ।
ऋषयश् चक्रिरे धर्मं यो ऽनूचानः स नो महान् ॥ २.१५४ ॥}
{विप्राणां ज्ञानतो ज्यैष्ठ्यं क्षत्रियाणां तु वीर्यतः ।
वैश्यानां धान्यधनतः शूद्राणाम् एव जन्मतः ॥ २.१५५ ॥}
{न तेन स्थविरो भवति येनास्य पलितं शिरः ।
यो वै युवाप्य् अधीयानस् तं देवाः स्थविरं विदुः ॥ २.१५६ ॥}
{यथा काष्ठमयो हस्ती यथा चर्ममयो मृगः ।
यश् च विप्रो ऽनधीयानः त्रयस् ते नाम बिभ्रति ॥ २.१५७ ॥}
{यथा षण्ढो ऽफ्लः स्त्रीषु यथा गौर् गवि चाफला ।
यथा चाज्ञे ऽफलं दानं यथा (तथा?) विप्रो ऽनृचो ऽफलः ॥ २.१५८ ॥}
{[८८] वाक् चैव मधुरा श्लक्ष्णा प्रयोज्या धर्मम् इच्छता ॥ २.१५९ ॥}
{यस्य वाङ्मनसी शुद्धे सम्यग्गुप्ते च सर्वदा ।
स वै सर्वम् आप्नोति वेदान्ताधिगतं फलम् ॥ २.१६० ॥}
{नारुन्तुदः स्याद् आर्तो ऽपि न परद्रोहकर्मधीः ।
ययास्योद्विजते वाचा नालोक्यां ताम् उदीरयेत् ॥ २.१६१ ॥ }
{सम्मानाद् ब्राह्मणो नित्यम् उद्विजेत् विषाद् इव ।
अमृतस्येव चाकाङ्क्षेद् अवमानस्य सर्वतः ॥ २.१६२ ॥}
{सुखं ह्य् अवमतः शेते सुखं च प्रतिबुध्यते ।
सुखं चरति लोके ऽस्मिन्न् अवमन्ता विनश्यति ॥ २.१६३ ॥}
{अनेन क्रमयोगेन संस्कृतात्मा द्विजः शनैः ।
गुरौ वसन् सञ्चिनुयाद् ब्रह्माधिगमिकं तपः ॥ २.१६४ ॥}
{तपोविशेषैर् विविधैर् व्रतैश् च विधिचोदितैः ।
वेदः कृत्स्नो ऽधिगन्तव्यः सरहस्यो द्विजन्मना ॥ २.१६५ ॥}
{वेदम् एव सदाभ्यस्येत् तपस् तप्स्यन् द्विजोत्तमः ।
वेदाभ्यासो हि विप्रस्य तपः परम् इहोच्यते ॥ २.१६६ ॥}
{आ हैव स नखाग्रेभ्यः परमं तप्यते तपः ।
यः स्रग्व्य् अपि द्विजो ऽधीते स्वाध्यायं शक्तितो ऽन्वहम् ॥ २.१६७ ॥}
{यो ऽनधीत्य द्विजो वेदम् अन्यत्र कुरुते श्रमम् ।
स जीवन्न् एव शूद्रत्वम् आशु गच्छति सान्वयः ॥ २.१६८ ॥}
{मातुर् अग्रे ऽधिजननं द्वितीयं मौञ्जिबन्धने ।
तृतीयं यज्ञदीक्षायां द्विजस्य विधिचोदितः (श्रुतिचोदनात्) ॥ २.१६९ ॥}
{तत्र यद् ब्रह्मजन्मास्य मौज्ञिबन्धनविह्नितम् ।
तत्रास्य माता सावित्री पिता त्व् आचार्य उच्यते ॥ २.१७० ॥}
{न ह्य् अस्मिन् युज्यते कर्म किञ्चिद् आ मौञ्जिबन्धनात् ॥ २.१७१ ॥}
{शूद्रेण हि समस् तावद् यावद् वेदे न जायते ॥ २.१७२ ॥}
{कृतोपनयनस्यास्य व्रतादेशनम् इष्यते ।
ब्रह्मणो ग्रहणं चैव क्रमेण विधिपूर्वकम् ॥ २.१७३ ॥}
{यद् यस्य विहितं चर्म यत् सूत्रं या च मेखला ।
यो दण्डो यच् च वसनं तत् तत्द् अस्य व्रतेष्व् अपि ॥ २.१७४ ॥}
{सेवेतेमांस् तु नियमान् ब्रह्मचारी गुरौ वसन् ।
सन्नियम्येन्द्रियग्रामं तपोवृद्ध्यर्थं आत्मनः ॥ २.१७५ ॥}
{नित्यं स्नात्वा शुचिः कुर्याद् देवर्षिपितृतर्पणम् ।
देवताभ्यर्चनं चैव समिदाधानम् एव च ॥ २.१७६ ॥}
{वर्जयेन् मधु मांसं च गन्धं माल्यं रसान् स्त्रियः ।
शुक्तानि चैव सर्वाणि प्राणिनां चैव हिंसनम् ॥ २.१७७ ॥}
{अभ्यङ्गम् अञ्जनं चाक्ष्नोर् उपानच्छत्रधारणम् ।
कामं क्रोधं च लोभं च नर्तनं गीतवादनम् ॥ २.१७८ ॥}
{द्यूतं च जनवादं च परिवादं तथानृतम् ।
स्त्रीणां च प्रेक्षणालम्भम् उपघातं परस्य च ॥ २.१७९ ॥}
{कामाद् धि स्कन्दयन् रेतो हिनस्ति व्रतम् आत्मनः ॥ २.१८० ॥[९३]}
{स्वप्ने सिक्त्वा ब्रह्मचारी द्विजः शुक्रम् अकामतः ।
स्नात्वार्कम् अर्चयित्वा त्रिः पुनर् माम् इत्य् ऋचं जपेत् ॥ २.१८१ ॥}
{उदकुम्भं सुमनसो गोशकृन् मृत्तिका कुशान् ।
आहरेद् यावद् अर्थानि भक्षं चाहर् अहश् चरेत् ॥ २.१८२ ॥}
{वेदयज्ञैर् अहीनानां प्रशस्तानां स्वकर्मसु ।
ब्रह्मचार्य् आहरेद् भैक्षं गृहेभ्यः प्रयतो ऽन्वहम् ॥ २.१८३ ॥}
{गुरोः कुल न भिक्षेत न ज्ञातिकुलबन्धुषु ।
अलाभे त्व् अन्यगेहानां पूर्वं पूर्वं विवर्जयेत् ॥ २.१८४ ॥}
{सर्वं वापि चरेद् ग्रामं पूर्वोक्तानाम् असम्भवे ।
नियम्य प्रय्तो वाचम् अभिशस्तांस् तु वर्जयेत् ॥ २.१८५ ॥}
{दूराद् आहृत्य समिधः सन्निदध्याद् विहायसि ।
सायं प्रातश् च जुहुयात् ताभिर् अग्निम् अतन्द्रितः ॥ २.१८६ ॥[९४]}
{अकृत्वा भैक्षचरणम् असमिध्य च पावकम् ।
अनातुरः सप्तरात्रम् अवकीर्णिव्रतं चरेत् ॥ २.१८७ ॥}
{भैक्षेण वर्तयन् नित्यं नैकान्नादी भवेद् व्रती ।
भैक्षेण व्रतिनो वृत्तिर् उपवाससमा स्मृता ॥ २.१८८ ॥}
{व्रतवद् देवदैवत्ये पित्र्ये कर्मण्य् अथर्षिवत् ।
कामम् अभ्यर्थिनो ऽश्नीयाद् व्रतम् अस्य नो लुप्यते ॥ २.१८९ ॥}
{ब्राह्मणस्यैव कर्मैतत् उपदिष्टं मनीषिभिः ।
राजन्यवैश्ययोस् त्व् एवं नैतत् कर्म विधीयते ॥ २.१९० ॥}
{चोदितो गुरुणा नित्यम् अप्रचोदित एव वा ।
कुर्याद् अध्ययने योगम् आचार्यस्य हितेषु च ॥ २.१९१ ॥}
{शरीरं चैव वाचं च बुद्धीन्द्रियमनांसि च ॥
नियम्य प्राञ्जलिस् तिष्ठेद् वीक्षमाणो गुरोर् मुखम् ॥ २.१९२ ॥[९६]}
{नित्यम् उद्धृतपाणिः स्यात् साध्वाचारः सुसंयतः ।
आस्यताम् इति चोक्तः सन्न् आसीताभिमुखं गुरोः ॥ २.१९३ ॥}
{हीनान्नवस्त्रवेषः स्यात् सर्वदा गुरुसन्निधौ ।
उत्तिष्ठेत् प्रथमं चास्य चरमं चैव संविशेत् ॥ २.१९४ ॥}
{प्रतिश्रवणसम्भाषे शयानो न समाचरेत् ।
नासीनो न च भुञ्जानो न तिष्ठन् न पराङ्मुखः ॥ २.१९५ ॥}
{आसीनस्य स्थितः कुर्याद् अभिगच्छंस् तु तिष्ठतः ।
प्रत्युद्गम्य त्व् आव्रजतः पश्चाद् धावंस् तु धावतः ॥ २.१९६ ॥
पराङ्मुखस्याभिमुखो दूरस्थस्यैत्य चान्तिकम् ।
प्रणम्य तु शयानस्य विदेशे[निदेशे] चैव तिष्ठतः ॥ २.१९७ ॥
नीचं शय्यासनं चास्य नित्यं स्याद् गुरुसन्निधौ ।
गुरोस् तु चक्षुर्विषये न यथेष्ठासनो भवेत् ॥ २.१९८ ॥
नोदाहरेद् अस्य नाम परोक्षम् अपि केवलम् ।
न चैवास्यानुकुर्वीत गतिभाषितचेष्टितम् ॥ २.१९९ ॥}
{गुरोर् यत्र परीवादो निन्दा वापि प्रवर्तते ।
कर्णौ तत्र पिधातव्यौ गन्तव्यं वा ततो ऽन्यतः ॥ २.२०० ॥}
{परिवादात् खरो भवति श्वा वै भवति निन्दकः ।
परिभोक्ता कृमिर् भवति कीटो भवति मत्सरी ॥ २.२०१ ॥}
{[९८]
गोऽश्वोष्ट्रयानप्रासादप्रस्तरेषु कटेषु च ।
आसीत गुरुणा सार्धं शिलाफलकनौषु च ॥ २.२०४ ॥}
{न चानिसृष्टो गुरुणा स्वान् गुरून् अभिवादयेत् ॥ २.२०५ ॥}
{विद्यागुरुष्व् एवम् एव नित्या वृत्तिः स्वयोनिषु ।
प्रतिषेधत्सु चाधर्माद् धितं चोपदिशत्स्व् अपि ॥ २.२०६ ॥}
{श्रेयःसु गुरुवद् वृत्तिं नित्यम् एव समाचरेत् ।
गुरुपुत्रे तथाचार्ये गुरोश् चैव स्वबन्धुषु ॥ २.२०७ ॥}
{बालः समानजन्मा वा शिष्यो वा यज्ञकर्मणि ।
अध्यापयन् गुरुसुतो गुरुवन् मानम् अर्हति ॥ २.२०८ ॥}
{उत्सादनं च गात्राणां स्नापनोच्छिष्टभोजने ।
न कुर्याद् गुरुपुत्रस्य पादयोश् चावनेजनम् ॥ २.२०९ ॥}
{गुरुवत् प्रतिपूज्याः स्युः सवर्णा गुरुयोषितः ।
असवर्णास् तु सम्पूज्याः प्रत्युत्थानाभिवादनैः ॥ २.२१० ॥}
{अभ्यञ्जनं स्नापनं च गात्रोत्सादनम् एव च ।
गुरुपत्न्या न कार्याणि केशानां च प्रसाधनम् ॥ २.२११ ॥}
{गुरुपत्नी तु युवतिर् नाभिवाद्येह पादयोः ।
पूर्णविंशतिवर्षेण गुणदोषौ विजानता ॥ २.२१२ ॥}
{[१००] स्वभाव एष नारीणां नराणाम् इह दूषणम् ।
अतो ऽर्थान् न प्रमाद्यन्ति प्रमदासु विपश्चितः ॥ २.२१३ ॥}
{अविद्वांसम् अलं लोके विद्वांसम् अपि वा पुनः ।
प्रमदा ह्य् उत्पथं नेतुं कामक्रोधवशानुगम् ॥ २.२१४ ॥}
{मात्रा स्वस्रा दुहित्रा वा न विविक्तासनो भवेत् ।
बलवान् इन्द्रियग्रामो विद्वांसम् अपि कएषति ॥ २.२१५ ॥}
{कामं तु गुरुपत्नीनां युवतीनां युवा भुवि ।
विधिवद् वन्दनं कुर्याद् असाव् अहम् इति ब्रुवन् ॥ २.२१६ ॥
विप्रोष्य पादग्रहणम् अन्वहं चाभिवादनम् ।
गुरुदारेषु कुर्वीत सतां धर्मम् अनुस्मरन् ॥ २.२१७ ॥}
{यथा खनन् खनित्रेण नरो वार्य् अधिगच्छति ।
तथा गुरुगतां विद्यां शुश्रूषुर् अधिगच्छति ॥ २.२१८ ॥}
{नैनं ग्रामे ऽभिनिम्लोचत् सूर्यो नाभ्युदियात् क्वचित् ॥ २.२१९ ॥}
{तं चेद् अभ्युदियात् सूर्यः शयनं कामचारतः ।
निम्लोचेद् वाप्य् अविज्ञानाज् जपन्न् उपवसेद् दिनम् ॥ २.२२० ॥}
{सुर्येण ह्य् अभिनिम्लुक्तः शयानो ऽभ्युदितश् च यः ।
प्रायश्चित्तम् अकुर्वाणो युक्तः स्यान् मनतैनसा ॥ २.२२१ ॥}
{आचम्य प्रयतो नित्यम् उभे सन्ध्ये समाहितः ।
शुचौ देशे जपञ् जप्यम् उपासीत यथाविधि ॥ २.२२२ ॥}
{यदि स्त्री यद्य् अवरजः श्रेयः किञ्चित् समाचरेत् ।
तत् सर्वम् आचरेद् युक्तो यत्र वास्य रमेन् मनः ॥ २.२२३ ॥}
{धर्मार्थाव् उच्यते श्रेयः कामार्थौ धर्म एव च ।
अर्थ एवेह वा श्रेयस् त्रिवर्ग इति तु स्थितिः ॥ २.२२४ ॥}
{आचारयश् च पिता चैव माता भ्राता च पूर्वजः ।
नार्तेनाप्य् अवमन्तव्या ब्राह्मणेन विशेषतः ॥ २.२२५ ॥}
{आचार्यो ब्रह्मणो मूर्तिः पिता मूर्तिः प्रजापतेः ।
माता पृथ्व्या मूर्तिस् तु भ्राता स्वो मूर्तिर् आत्मनः ॥ २.२२६ ॥
यं मातापितरौ क्लेशं सहेते सम्भवे नृणाम् ।
न तस्य निष्कृतिः शक्या कर्तुं वर्षशतैर् अपि ॥ २.२२७ ॥}
{तेष्व् एव त्रिषु तुष्टेषु तपः सर्वं समाप्यते ॥ २.२२८ ॥}
{[१०३] तेषां त्रयाणां शुश्रूषा परमं तप उच्यते ।
न तैर् अनभ्यनुज्ञातो धर्मम् अन्यं समाचरेत् ॥ २.२२९ ॥}
{त एव हि त्रयो लोकास् त एव त्रय आश्रमाः ।
त एव हि त्रयो वेदास् त एवोक्तास् त्रयो ऽग्नयः ॥ २.२३० ॥}
{त्रिष्व् अप्रमाद्यन्न् एतेषु त्रीन् लोकान् विजयेद् गृही ।
दीप्यमानः स्ववपुषा देववद् दिवि मोदते ॥ २.२३२ ॥}
{इमं लोकं मातृभक्त्या पितृभक्त्या तु मध्यमम् ।
गुरुशुश्रूषया त्व् एवं ब्रह्मलोकं समश्नुते ॥ २.२३३ ॥}
{सर्वे तस्यादृता धर्मा यस्यैते त्रय आदृताः ।
अनादृतास् तु यस्यैते सर्वास् तस्याफलाः क्रियाः ॥ २.२३४ ॥}
{यावत् त्रयस् ते जीवेयुस् तावन् नान्यं समाचरेत् ।
तेष्व् एव नित्यं शुश्रूषां कुर्यात् प्रियहिते रतः ॥ २.२३५ ॥}
{तेषाम् अनुपरोधेन पारत्र्यं यद् यद् आचरेत् ।
तत् तन् निवेदयेत् तेभ्यो मनोवचनकर्मभिः ॥ २.२३६ ॥}
{त्रिष्व् एतेष्व् इतिक्र्त्यं हि पुरुषस्य समाप्यते ।
एष धर्मः परः साक्षाद् उपधर्मो ऽन्य उच्यते ॥ २.२३७ ॥[७७]}
{श्रद्दधानः शुभां विद्याम् आददीतावराद् अपि ।
अन्त्याद् अपि परं धर्मं स्त्रीरत्नं दुष्कुलाद् अपि ॥ २.२३८ ॥}
{विषाद् अप्य् अमृतं ग्राह्यं बालाद् अपि सुभाषितम् ।
अमित्राद् अप्य् सद्वृत्तम् अमेध्याद् अपि काञ्चनम् ॥ २.२३९ ॥}
{स्त्रियो रत्नान्य् अथो विद्या धर्मः शौचं सुभाषितम् ।
विविधानि च शिल्पानि समादेयानि सर्वतः ॥ २.२४० ॥}
{[७८]
अब्राह्मणाद् अध्ययनम् आपत्काले विधीयते ।
अनुव्रज्या च शुश्रूषा यावद् अध्ययनं गुरोः ॥ २.२४१ ॥}
{[बच्क् तो १०३]
नाब्राह्मणे गुरौ शिष्यो वासम् आत्यन्तिकं वसेत् ।
ब्राह्मणे वाननूचाने काङ्क्षन् गतिम् अनुत्तमम् ॥ २.२४२ ॥}
{यदि त्व् आत्यन्तिकं वासं रोचयेत गुरोः कुले ।
उक्तः परिचरेद् एनम् आ शरीरविमोक्षणात् ॥ २.२४३ ॥}
{आ समाप्तेः शरीरस्य यस् तु शुश्रूषते गुरुम् ।
स गच्छत्य् अञ्जसा विप्रो ब्रह्मणः सद्म शाश्वतम् ॥ २.२४४ ॥}
{न पूर्वं गुरवे किञ्चिद् उपकुर्वीत धर्मवित् ।
स्नास्यंस् तु गुरुणाज्ञप्तः शक्त्या गुर्वर्थम् आहरेत् ॥ २.२४५ ॥}
{क्षेत्रं हिरण्यं गाम् अश्वं छत्रोपहम् अन्ततः ।
धान्यं वासांसि शाकं वा गुरवे प्रीतिम् आहरेत् ॥ २.२४६ ॥[१०४]}
{आचार्ये तु खलु प्रेते गुरुपुत्रे गुणान्विते ।
गुरुदारे सपिण्डे वा गुरुवद् वृत्तिम् आचरेत् ॥ २.२४७ ॥
एतेष्व् अविद्यमानेषु स्थानासनविहारवान् ।
प्रयुञ्जानो ऽग्निशुश्रूषां साधयेद् देहम् आत्मनः ॥ २.२४८ ॥}
{एवं चरति यो विप्रो ब्रह्मचर्यम् अविप्लुतः ।
स गच्छत्य् उत्तमस्थानं च चेहाजायते पुनः ॥ २.२४९ ॥}