प्रथमो ऽध्यायः
स्वस्ति श्रीगणाधिपतये नमः । अविघ्नम् अस्तु । हरिः ॐ ।
प्रशासितारं परमं परेषाम् अनादिम् आदिं भुवनत्रयस्य ।
हिरण्यगर्भं प्रणिपत्य मूर्द्ध्ना स्मृतेर् अहं व्याकरणं करिष्ये ॥१॥
स्वायम्भुवानुशिष्टं च मनुं स्वायम्भुवं तथा ।
यस्य प्रसादाश् लोको (दाच् छ्लोको) ऽयं धर्मचक्षुर् अजायत ॥ २ ॥
त्च्छिष्तञ् च भृगुं येन व्याख्यातम् इदम् आदितः ।
अनुज्ञातेन मनुना सर्वप्रत्यक्षदर्शिना ॥ ३ ॥
तच्छिष्यशिष्यान् अन्यांश् च सर्वशास्त्रकृतश्रमान् ।
यैर् इयं वेदशास्त्रज्ञैर् व्याख्याता करुणात्मभिः ॥ ४ ॥
अविज्ञानाद् अविज्ञाय धर्मशास्त्रं महोदयम् ।
ऋन्धे(ऋज्वे?)तद् इति वा कृत्वा दुर्बोधम् इति वा पुनः ॥ ५ ॥
दृष्टिभेदेन वा भेदं(चेदं?) व्याख्यातं यैर् अपण्डितैः ।
सम्यग् अश्रुतशास्त्रार्थैर् अर्थवादविमोहितैः ॥ ६ ॥
प्रत्यादेशाय सर्वेषां तेषाम् उन्मार्गगामिनाम् ।
धर्मप्रीत्या च सततम् इदं वक्ष्यामि तत्त्वतः ॥ ७ ॥
रमणीयविचारं च विचित्रार्थं निराउलम् ।
सततं को न वि(निर्)ब्रूयात् पदवाक्यप्रमाणवत् ॥ ८ ॥
को ऽस्याभिसम्बन्धः? अयम् उच्यते ।
******ष्टानिष्टोपभोगप्रयोजनैः शरीरेन्द्रियविषयैः संयोगवियोगरूपो जन्ममरणप्रबन्धपर्यायः ******** निमित्तः नानाज्ञानाधिकारहेतुकः । यथा केचिद् आहुः — तौ च पुनर् धर्माधर्माव् अभिप्रेतानभिप्रेत ****हेतुत्वात् पुरुष्स्योपादानपरिवर्जनार्हौ नित्यं भवतः । यथा लोके स्रगादयो विषादयश् च *****निश्चयज्ञानं च वेदस्मृतिशास्त्रप्रमाणं यथा विषयं न प्रत्यक्षानुमानप्रमाणम् अन्यागमप्रमाणं वा । एवं च सति यथैव वेदात् पुरुषस्य श्रेयो ऽग्निहोत्रादि तदर्थानुष्ठानद्वारेणेत्य् अतो [२] वेदागमैर् यत्नः श्रेयोऽर्थिभिः क्रियते । एवं स्मृतितो ऽप्य् अष्टकादिकर्माचारानुष्टानात् तस्योत्कर्षो यतः तदधिष्टा[नम् आ]गमो ऽप्य् आदरणीयः । इदं धर्मशास्त्रम् अष्टकादिकर्माचारानुष्ठानप्रतिपत्तिकारणम् आरभ्यते ।
{मनुम् एकाग्रम् आसीनम् अभिगम्य महर्षयः ।
प्रतिपूज्य यथान्यायम् इदं वचनम् अब्रुवन् ॥ १.१ ॥}
{भवन् सर्ववर्णानां यथावद् अनुपूर्वशः ।
अन्तरप्रभवानां च धर्मान् मे वक्तुम् अर्हसि ॥ १.२ ॥}
{त्वम् एको ऽप्य् अस्य सर्वस्य विधानस्य स्वयम्भुवः ।
अचिन्त्यस्याप्रमेयस्य कार्यतत्त्वार्थवित् प्रभो ॥ १.३ ॥}
{स वै पृष्टस् तथा सम्यग् अमितौजा महात्मभिः ।
प्रत्युवाचार्च्य तान् सर्वान् महर्षीञ् छ्रूयताम् इति ॥ १.४ ॥}
{[६]
आसीद् इदं तमोभूतम् अप्रज्ञातम् अलक्षणम् ।
अप्रतर्क्यम् अविज्ञेयं प्रसुप्तम् इव सर्वतः ॥ १.५ ॥}
{ततः स्वयम्भूर् भगवान् अव्यक्तो व्यञ्जयन्न् इदम् ।
महाभूतादिवृत्तौजाः प्रादुर् आसीत् तमोनुदः ॥ १.६ ॥}
{यो ऽसाव् अतीन्द्रियग्राह्यः सूक्ष्मो ऽव्यक्तः सनातनः ।
सर्वभूतमयो ऽचिन्त्यः स एव स्वयम् उद्बभौ ॥ १.७ ॥}
{सो ऽभिध्याय शरीरात् स्वात् सिसृक्षुर् विविधाः प्रजाः ।
अप एव ससर्जादौ तासु वीर्यम् अवासृजत् ॥ १.८ ॥}
{तद् अण्डम् अभवद् धैमं सहस्रांशुसमप्रभम् ।
यस्मिन् जज्ञे स्वयं ब्रह्मा सर्वलोकपितामहः ॥ १.९ ॥}
{आपो नारा इति प्रोक्ता आपो वै नरसूनवः ।
ता यद् अस्यायनं पूर्वं तेन नारायणः स्मृतः ॥ १.१० ॥}
{यत् तत् कारणम् अव्यक्तं नित्यं सदसदात्मकम् ।
तद्विसृष्टः स पुरुषो लोके ब्रह्मेति कीर्त्यते ॥ १.११ ॥}
{तस्मिन्न् अण्डे स भगवान् उषित्वा परिवत्सरम् ।
स्वयम् एवात्मनो ध्यानात् तद् अण्डम् अकरोद् द्विधा ॥ १.१२ ॥}
{ताभ्यां स शकलाभ्यां तु दिवं भूमिं च निर्ममे ।
मध्ये व्योम दिशश् चाष्टौ अपां स्थानं च शास्वतम् ॥ १.१३ ॥}
{उद्बबर्हात्मनश् चैव मनः सदसदात्मकम् ।
मनसश् चाप्य् अहङ्कारम् अभिमन्तारम् ईश्वरम् ॥ १.१४ ॥}
{तेषां त्व् अवयवान् सूक्ष्मान् षण्णाम् अप्य् अमितौजसाम् ।
सन्निवेश्यात्ममात्रासु सर्वभूतानि निर्ममे ॥ १.१६ ॥}
{यन् मूर्त्यवयवाः सूक्षमास् तस्येमान्य् आश्रयन्ति षट् ।
तस्माच् छरीरम् इत्य् आहुस् तस्य मूर्तिं मनीषिणः ॥ १.१७ ॥}
{तत्राविशन्ति भूतानि महान्ति सह कर्मभिः ।
मनश् चावयवैः सूक्ष्मैः सर्वभूतकृद् अव्ययः ॥ १.१८ ॥}
{[११] तेषाम् इदं तु सप्तानां पुरुषाणां महौजसाम् ।
सूक्ष्माभ्यो मूर्तिमात्राभ्यः सम्भवन्त्य् अव्ययाद् व्ययम् ॥ १.१९॥}
{आद्याद्यस्य गुणं तेषाम् अवाप्नोति परः परः ।
यो यो यावितिथश् चैषां स स तावद्गुणः स्मृतः ॥ १.२० ॥}
{सर्वेषां तु स नामानि कर्माणि च पृथक् पृथक् ।
वेदशब्देभ्य एवादौ पृथक् संस्थाश् च निर्ममे ॥ १.२१ ॥}
{[१३] अग्निवायुरविभ्यस् तु त्रयं ब्रह्म सनातनम् ।
दुदोह यज्ञसिद्ध्यर्थम् ऋग्यजुःसामलक्षणम् ॥ १.२३ ॥}
{कालं कालविभक्तं(क्तीश्) च नक्षत्राणि ग्रहांस् तथा ।
सरितस् सागराञ् छैलान् समानि विषमाणि च ॥ १.२४ ॥}
{तपो वाचं रतिञ् चैव कामं च क्रोधम् एव च ।
सृष्टिं ससर्ज चैवेमां स्रष्टुम् इच्छन् इमाः प्रजाः ॥ १.२५ ॥}
{कर्मणां च विवेकाय (-कार्थं) धर्माधर्मौ व्यवेचयत् ।
द्वन्द्वैर् अयोजयच् चेमाः सुखदुःकादिभिः प्रजाः ॥ १.२६ ॥}
{अण्व्यो मात्रा विनाशिन्यो दशार्धानां तु याः स्मृताः ।
ताभिः सार्धम् इदं सर्वं सम्भवत्य् अनुपूर्वशः ॥ १.२७ ॥}
{यस् (य्ं) तु कर्मणि यस्मिन् स न्ययुङ्क्त प्रथमं प्रभुः ।
स तद् एव स्वयं भेजे सृज्यमानः पुनः पुनः ॥ १.२८ ॥}
{हिंसाहिंस्रे मृदुक्रूरे धर्माधर्माव् ऋतानृते ।
यद् यस्य सो ऽदधात् सर्गे तत् तत् स्या(स्वा)शयम् आविशत् ॥ १.२९ ॥}
{यथर्तुलिङ्गान्य् ऋतवः स्वयम् एवर्तुपर्यये ।
स्वानि स्वान्य् अभिपद्यन्ते तथा कर्माणि देहिनाम्(नः) ॥ १.३० ॥}
{लोकानां तु विवृद्ध्यर्थं मुखबाहूरुपादतः ।
ब्राह्मणं क्षत्रियं वैश्यं शूद्रं च निरवर्तयत् ॥ १.३१ ॥}
{द्विधा कृत्वात्मनो देहम् अर्धेन पुरुषो ऽभवत् ।
अर्धेन नारी तस्यां च विराजम् असृजत् प्रभुः ॥ १.३२ ॥}
{[१५] तपस् तप्त्वासृजद् यं तु स स्वयं पुरुषो विराट् ।
तं मा(ं) वित्तास्य सर्वस्य स्रष्टारं द्विजसत्तमाः ॥ १.३३ ॥}
{अहं प्रजाः सिसृक्षुस् तु तपस् तप्त्वा सुदुश्चरम् ।
पतीन् प्रजानाम् असृजं महर्षीन् आदितो दश ॥ १.३४ ॥}
{मरीचिम् अत्र्यङ्गिरसौ पुलस्त्यं पुलहं क्रतुम् ।
प्राचेतसं वसिष्ठं च नारदं भृगुम् एव च ॥ १.३५ ॥}
{एते मनूंस् तु सप्तान्यान् ससृजुर् भूरितेजसः ।
देवान् देवनिकायांश् च महर्षींश् चामितौजसः ॥ १.३६ ॥}
{यक्षो(क्ष)रक्षःपिशाचांश् च गन्धर्वाप्सरसो ऽसुरान् ।
नागान् सर्पान् सुपर्णांश् च पितॄणां च पृथग्गणान् ॥ १.३७ ॥}
{विद्युतो ऽशनिमेघांश् च रोहितेन्द्रधनूंषि च ।
उल्कानिर्घातकेतूंश् च ज्योतींष्य् उच्चावचानि च ॥ १.३८ ॥}
{किन्नरान् वानरान् मत्स्यान् विविधांश् च विहङ्गमान् ।
पशून् मृगान् मनुष्यांश् च व्यालांश् चोभयतोदतः ॥ १.३९ ॥
[१६]
कृमिकीटपतङ्गांश् च यूकामक्षिकमत्कुणान् ।
सर्वं च दंशमशकं स्थावरं च पृथग्विधम् ॥ १.४० ॥}
{एवम् एतैर् इदं सर्वं मन्नियोगान् महात्मभिः ।
यथाकर्म तपोयोगात् सृष्टं स्थावरजङ्गमम् ॥ १.४१ ॥}
{येषां तु यादृशं कर्म भूतानाम् इह कीर्तितम् ।
तत् तथा वो ऽभिधास्यामि क्रमयोगं च जन्मनि ॥ १.४२ ॥
पशवश् च मृगाश् चैव व्यालाश् चोभयतोदतः ।
रक्षांसि च पिशाचांश् च मानुषांश् च जरायुजाः ॥ १.४३ ॥
अण्डजाः पक्षिणः सर्पाः नक्रा मत्याश् च कच्छपाः ।
यानि चैवं प्रकाराणि स्थावराणि चराणि च ॥ १.४४ ॥
स्वेदजं दंशमशकं यूकामक्षिकमत्कुणान् ।
ऊष्मणश् चोपजायन्ते यच् चान्यत् किञ्चिद् ईदृशः (शम्?) ॥ १.४५ ॥
उद्भिज्जाः स्थावराः सर्वे बीजकाण्डप्ररोहिणः ।
ओषध्यः फलपाकान्ता बहुपुष्पफलोपगाः ॥ १.४६ ॥}
{अपुष्पाः फलवन्तो ये ते वनस्पतयः स्मृताः ।
पुष्पिणः फलिनश् चैव वृक्षास् तूभयतः स्मृताः ॥ १.४७ ॥[१७]}
{गुच्छगुल्मं तु विविधं तथैव तृणजातयः ।
बीजकाण्डरुहाण्य् एव प्रताना वल्ल्य एव च ॥ १.४८ ॥}
{तमसा बहुरूपेण वेष्टिताः कर्महेतुना ।
अन्तःसज्ञा भवन्त्य् एते सुखदुःखसमन्विताः ॥ १.४९ ॥}
{एतदन्तास् तु गतयो ब्रह्माद्याः समुदाहृताः ।
घोरे ऽस्मिन् भूतसंसारे नित्यं सन्ततयायिनि ॥ १.५० ॥}
{एवं सर्वं स सृष्ट्वेदं मां चाचिन्त्यपराक्रमः ।
आत्मन्य् अन्तर्दधे भूयः कालं कालेन पीडयन् ॥ १.५१ ॥}
{यदा स देवो जागर्ति तदेदं चेष्टते जगत् ।
यदा स्वपिति शान्तात्मा तदा सर्वं निमीलति ॥ १.५२ ॥}
{तस्मिन् स्वपिति तु स्वस्थे कर्मात्मानः शरीरिणः ।
स्वकर्मभ्यो निवर्तन्ते मनश् च म्लानिम् ऋच्छति ॥ १.५३ ॥}
{युगपत् तु प्रलीयन्ते यदा तस्मिन् महात्मनि ।
तदायं सर्वभूतात्मा सुखं स्वपिति निर्वृतः ॥ १.५४ ॥}
{तमो ऽयं तु समाश्रित्य चिरं तिष्ठन्ति सेन्द्रियः ।
न यः स्वं कुरुते कर्म तदोत्क्रामति मूर्तितः ॥ १.५५ ॥
यदाणुमात्रिको भूत्वा बीजं स्थास्नु चरिष्णु च ।
समाविशति संसृष्टस् तदा मूर्तिं विमुञ्चति ॥ १.५६ ॥
एवं स जाग्रत्स्वप्नाभ्याम् इदं सर्वं चराचरम् ।
सञ्जीवयति चाजस्रं प्रमापयति चाव्ययः ॥ १.५७ ॥}
{इदं शास्त्रं तु कृत्वासौ माम् एव स्वयम् आदितः ।
विधिवद् ग्राहयामास मरीच्यादींस् त्व् अहं मुनीन् ॥ १.५८ ॥}
{तान् अब्रवीद् ऋषीन् सर्वान् प्रीतात्मा श्रूयताम् इति ॥ १.६० ॥}
{[१९] स्वायम्भुवास्यास्य मनोः षड्वंश्या मनवो ऽपरे ।
सृष्टवन्तः प्रजाः स्वाः स्वाः महात्मानो महौजसः ॥ १.६१ ॥}
{स्वारोचिषश् चोत्तमश् च तापसो रैवतस् तथा ।
चाक्षुषश् च महातेजा विवस्वत्सुत एव च (?) ॥ १.६२ ॥}
{स्वायम्भुवाद्याः (ख्यः) सप्तैते मनवो भूरितेजसः ।
स्वे स्वे ऽन्तरे सर्वम् इदम् उत्पाद्यापुश् चराचरम् ॥ १.६३ ॥}
{तस्य सो ऽहर्निशस्यान्ते प्रसुप्तः प्रतिबुध्यते ।
प्रतिबुद्धश् च सृजति मनुः सदसदात्मकम् ॥ १.७४ ॥}
{आकाशं जायते तस्मात् तस्य शब्दं गुणं विदुः ॥ १.७५ ।
आकाशात् तु विकुर्वाणात् सर्वगन्धवहः शुचिः ।
बलवान् जायते वायुः स वै स्पर्शगुणो मतः ॥ १.७६ ॥
वयोर् अपि विकुर्वाणाद् विरोचिष्णु तमोनुदम् ।
ज्योतिर् उत्पद्यते भास्वत् तद् रूपगुणम् उच्यते ॥ १.७७ ॥
ज्य्तोतिषश् च विकुर्वाणाद् आपो रसगुणात्मिकाः [-गुणाः स्मृताः] ।
अद्भ्यो गन्धगुणा भूमिर् इत्य् एषा सृष्टिर् आदितः ॥ १.७८ ॥}
{तत् प्राग् द्वादशसाहस्रम् उदितं दैविकं युगम् ।
[२१] तद् एकसप्ततिगुणं मन्वन्तरम् इहोच्यते ॥ १.७९ ॥}
{मन्वन्तराण्य् असङ्ख्यानि सर्गः संहार एव च ।
क्रीडन्न् इवैतत् कुरुते परमेष्ठी पुनः पुनः ॥ १.८० ॥}
{चतुष्पात् सकलो धर्मः सत्यं चैव कृते युगे ।
नाधर्मेणागमः कश्चिन् मनुष्यान् उपवर्तते ॥ १.८१ ॥}
{इतरेष्व् आगमाद् धर्मः पादशस् त्व् अवरोपितः ।
[२२] चौरिकानृतमायाभिर् धर्मश् चापैति पादशः ॥ १.८२ ॥}
{अरोगाः सर्वसिइद्धार्थाश् चतुर्वर्षशतं युगाः (शतायुषः) ।
कृते त्रेतादिषु त्व् एषां वयो ह्रसति (?) पादशः ॥ १.८३ ॥}
{वेदोक्तम् आयुर् मर्त्यानाम् आशिषश् चैव कर्मणाम् ।
फलन्त्य् अनुयुगं लोके प्रभवाश् च शरीरिणाम् ॥ १.८४ ॥}
{अन्ये कृतयुगे धर्माश् त्रेतायां द्वापरे परे ।
[२३] अन्ये कलियुगे नॄणां युगह्रासानुरूपतः ॥ १.८५ ॥}
{तपः परं कृतयुगे त्रेतायां ज्ञानम् उच्यते ।
द्वापरे ज्ञानम् एवाहुर् दानम् एव कलौ युगे ॥ १.८६ ॥}
{सर्वस्यास्य तु सर्गस्य गुप्त्यर्थं स महाद्युतिः ।
मुखबाहूरुपज्जानां पृथक् कर्माण्य् अकल्पयत् ॥ १.८७ ॥}
{अध्यापनम् अध्ययनं यजनं याजनं तथा ।
दानं प्रतिग्रहं चैव ब्राह्मणानाम् अकल्पयत् ॥ १.८८ ॥
प्रजानां रक्षणं दानम् इज्याध्ययनम् एव च ।
विषयेष्व् अप्रसक्तिं च क्षत्रियस्य समादधत् (दिशत्?) ॥ १.८९ ॥
पशूनां रक्षणं दानम् इज्याध्ययनम् एव च ।
वणिक्पथं कुसीदं च वैश्यस्य कृषिम् एव च ॥ १.९० ॥
एकम् एव तु शूद्रस्य प्रभुः कर्म समादिशत् ।
एतेषाम् एव वर्णानां शुश्रूषाम् अनसूयया ॥ १.९१ ॥}
{ऊर्ध्वं नाभेर् मेध्यतरः पुरुषः परिकीर्तितः ।
तस्मान् मेध्यतमं चास्य मुखम् उक्तं स्वयम्भ्य्वा ॥ १.९२ ॥}
{उत्तमाङ्गोद्भवाद् ज्यैष्ठ्यात् ब्रह्मणश् चैव धारणात् ।
सर्वस्यैवास्य सर्गस्य धर्मतो ब्राह्मणः प्रभुः ॥ १.९३ ॥}
{तं हि स्वयम्भूः स्वाद् आस्यात् तपस् तप्त्वादितो ऽसृजत् ।
हव्यकव्याबिवाह्याय सर्वस्यास्य च गुप्तये ॥ १.९४ ॥}
{यस्यास्येन सदाश्नन्ति हव्यानि त्रिदिवौकसः ।
[२८] कव्यानि चैव पितरः किं भूतम् अधिकं ततः ॥ १.९५ ॥}
{भूतानां प्राणिनः श्रेष्ठाः प्राणिनां बुद्धिजीविनः ।
बुद्धिमत्सु नराः श्रेष्ठाः नरेषु ब्राह्मणाः स्मृताः ॥ १.९६ ॥
ब्राह्मणेषु च विद्वांसो विद्वत्सु कृतबुद्धयः ।
कृतबुद्धिषु कर्तारः कर्तृषु ब्रह्मवेदिनः ॥ १.९७ ॥}
{ब्राह्मणो जायमानो हि पृथिव्याम् अधिजायते ।
ईश्वरः सर्वभूतानां धर्मकोशस्य गुप्तये ॥ १.९९ ॥}
{सर्वं स्वं ब्राह्मणस्येदं यत् किञ्चिज् जगतीगतम् ।
श्रैष्ठ्येनाभिजनेनेदं ब्राह्मणः सर्वम् अर्हति ॥ १.१०० ॥}
{स्वम् एव ब्राह्मणो भुङ्क्ते स्वं वस्ते स्वं ददाति च ।
आनृशंस्याद् ब्राह्मणस्य भुञ्जते हीतरे जनाः ॥ १.१०१ ॥}
{तस्य कर्मविवेकार्थं शेषाणां चानुपूर्वशः ।
स्वायम्भुवो मनुर् धीमान् इदं शास्त्रम् अकल्पयत् ॥ १.१०२ ॥}
{विदुषा ब्राह्मणेणेदम् अध्येतव्यं प्रयत्नतः ।
शिष्येभ्यश् च प्रवक्तव्यं सम्यङ् नान्येन केनचित् ॥ १.१०३ ॥}
{मनोवाग्देहजैर् नित्यं कर्मदोषैर् न लिप्यते ॥ १.१०४ ॥}
{पुनाति पङ्क्तिं वंश्यांश् च सप्त सप्त परावरान् ।
पृथिवीम् अपि चैवेमां कृत्स्नम् एको ऽपि सो ऽर्हति ॥ १.१०५ ॥}
{इदं स्वस्त्ययनं श्रेष्ठम् इदं बुद्धिविवर्धनम् ।
[३१] इदं यशस्यं सततम् इदं निःश्रेयसं परम् ॥ १.१०६ ॥}
{अस्मिन् धर्मो ऽखिलेनोक्तो गुणदोषौ च कर्मणाम् ।
चतुर्णाम् अपि वर्णानाम् आचारश् चैव शाश्वतः ॥ १.१०७ ॥}
{तस्माद् अस्मिन् त्रये(सदा) युक्तो नित्यं स्याद् आत्मवान् द्विजः ॥ १.१०८ ॥}
{आचारेण तु संयुक्तः सम्पूर्णफलभागतः (भाग् भवेत् ॥ १.१०९ ॥[३२]}
{एवम् आचारतो दृष्ट्वा धर्मस्य मुनयो गतिम् ।
सर्वस्य जतगो (तपसो) मूलम् आचारं जगृहुः परम् ॥ १.११० ॥}
{जगतश् च समुत्पत्तिम् संस्कारविधिम् एव च ।
व्रतचर्योपचारं च स्नानस्य च परं विधिम् ॥ १.१११ ॥
दाराधिगमनं चैव विवाहानां च लक्षणम् ।
महायज्ञविधानं च श्राद्धकल्पं च शाश्वतम् ॥ १.११२ ॥
वृत्तीनां लक्षणं चैव स्नातकस्य व्रतानि च ।
भक्ष्याभक्ष्यं च शौचं च द्रव्याणां शुद्धिम् एव च ॥ १.११३ ॥
स्त्रीधर्मयोगं तापस्यं मोक्षं सन्न्यासम् एव च ।
राज्ञश् च धर्मम् अखिलं कार्याणां च विनिर्णयम् ॥ १.११४ ॥
साक्षिप्रश्नविधानं च धर्मं स्त्रीपुंसयोर् अपि ।
विभागधर्मं द्यूतं च कण्टकानां च शोधनम् ॥ १.११५ ॥
वैश्यशूद्रोपचारं च सङ्कीर्त्णानां च सम्भवम् ।
आपद्धर्मं च वर्णानां प्रायश्चित्तविधिं तथा ॥ १.११६ ॥
संसारगमनं चैव त्रिविधं कर्मसम्भवम् ।
निःश्रेयसं कर्मणां च गुणदोषपरीक्षणम् ॥ १.११७ ॥
जातिधर्मान् कुलधर्मान् देशधर्मान् शाश्वतान् ।
पाषण्डगणधर्मांश् च शास्त्रे ऽस्मिन् उक्तवान् मनुः ॥ १.११८ ॥}
{यथेदम् उक्तवाण् छास्त्रं पुरा पृष्टो मनुर् मया ।
तथेदं यूयम् अप्य् अद्य मत्सकाशान् निबोधत ॥ १.११९ ॥}