०७

सप्तमो ऽध्यायः

एवम् एकाश्रम्यं चातुराश्रम्यं च सविकल्पं प्रसाध्य तत्संरक्षणार्थम् इदानीम् ।

राजधर्मान् प्रवक्ष्यामि यथा वृत्तो भवेन् नृपः ।
संभवश् च यथा तस्य सिद्धिश् च परमा यथा ॥ ७.१ ॥

भारुचिः ...{Loading}...

सिद्धिस् तु परमा राज्ञः स्वीकृतसर्वराजमण्डलस्यानन्तरं सकलमहीमण्डलाधिपत्ये सति निरतिशया धर्मार्थसुखत्रिवर्गाभ्युदयप्राप्तिर् अपरामात्यादिप्रकृतिसम्पत् ॥ ७.१ ॥

तत्र सिद्धिम् अवेक्ष्येदम् उच्यते ।

ब्राह्मं प्राप्तेन संस्कारं क्षत्रियेण यथाविधि ।
सर्वस्यास्य यथान्यायं कर्तव्यं परिरक्षणम् ॥ ७.२ ॥

भारुचिः ...{Loading}...

ब्रह्मणे ब्रह्मणो वा संस्कारो ब्राह्मम् उपनयनादिः स्नानान्तस्, तं प्राप्तेन क्षत्रियेण, नान्यवर्णेन । यथाविधि यथाशस्त्रम् । सर्वस्यास्येत्य् अनेनाभिनयेन वर्णाश्रमौ निर्दिशति । यथान्यायं यथोपदेशं कर्तव्यं परिरक्षणम् इति अन्यवृत्तिपरिसंख्येयं नियमो वा ।

एके तु दृष्टार्थत्वाद् उपदेशं वृत्त्यर्थं मन्यन्ते । तथा च सति पित्र्ये धने निध्यधिगमे ऽन्यथा प्राप्तौ न नियोगतः क्षत्रियो राज्यम् आतिष्ठेद् इति ।
तद् अयुक्तम्, “वेदाभ्यासो ब्राह्मणस्य क्षत्रियस्य तु रक्षणम्, वार्ताकर्मैव वैश्यस्य विशिष्टानि स्वकर्मसु” इत्य् उक्तत्वाद् विशिष्टत्वं चैषां दृष्टादृष्टसंबन्धेन युक्तम् । नियमाश्रयश् चादृष्टसंबन्धः । वृत्तिदाश् चानाथा दीनाश् च राज्ञा रक्ष्यन्ते, यतो न दृष्टार्थम् एव रक्षणम् ॥ ७.२ ॥

अराज्ञो ऽपि च क्षत्रियस्य ग्रामादिसंरक्षणे ऽप्य् एतदर्थवन्नियमशास्त्रस्तुत्यास्य भयो धारणम् अधुनोच्यते ।

अराजके हि लोके ऽस्मिन् सर्वतो विद्रुते भयात् ।
रक्षार्थम् अस्य सर्वस्य राजानम् असृजत् प्रभुः ॥ ७.३ ॥

भारुचिः ...{Loading}...

अराज्ञो ऽपि च क्षत्रियस्य ग्रामादिसंरक्षणे ऽप्य् एतदर्थवन्नियमशास्त्रस्तुत्यास्य भयो धारणम् अधुनोच्यते ।

हिरण्यगर्भः मात्स्यन्यायो मा भूत् । प्रजानाम् इति [रक्षाय] राजोत्पत्तिर् अनेन प्रदर्श्यते । पूर्वविधिस्तुतिर् इयम् ॥ ७.३ ॥

इन्द्रानिलयमार्काणाम् अग्नेश् च वरुणस्य च ।
चन्द्रवित्तेशयोश् चैव मात्रा निर्हृत्य शाश्वतीः॥ ७.४ ॥

भारुचिः ...{Loading}...

“बालो ऽपि नावमन्तव्यः” (म्ध् ७.८) इत्य् अस्य विधेर् वक्ष्यमाणस्येमे दश श्लोकाः शेषतया विज्ञेयाः । एवम् इन्रादीनां स्वविषये येन चेष्टाः करोति तेन तेषां मात्राभ्यो निर्मित इत्य् उच्यते ॥ ७.४ ॥

यस्माद् ēषां सुरेन्द्राणां मात्राभ्यो निर्मितो नृपः ।
तस्माद् अभिभवत्य् एष सर्वभूतानि तेजसा ॥ ७.५ ॥

भारुचिः ...{Loading}...

कार्येणैतद् अर्थं दर्शयति । यस्माद् आधिपत्यैश्वर्यात् सर्वभूतान्य् अभिभवति स्वेन तेजसा अत इन्द्रादिदेवतामात्राभ्यो निर्मित इति स्तूयते ॥ ७.५ ॥

यतश् च ।

तपत्य् आदित्यवच् चैव चक्षूंषि च मनांसि च ।
न चैनं भुवि शक्नोति कश्चिद् अप्य् अभिवीक्षितुम् ॥ ७.६ ॥

भारुचिः ...{Loading}...

महाराजलिङ्गेन चामरच्छत्रभृङ्गादिना युक्तो दीप्तिमत्त्वाच् चक्षूंष्य् आदित्यवत् तापयति, मनांसि दण्डपातनाद् । यस्माद् अतो न कश्चिद् एनं शक्नोत्य् अभिवीक्षितुम् अपि, किं पुनर् अपकर्तुम् । पूर्ववद् अयम् अपि स्तुत्यै ॥ ७.६ ॥

एवं च सति तासु तास्व् अवस्थासु कार्यार्थम् ।

सो ऽग्निर् भवति वायुश् च सो ऽर्कः सोमः स धर्मराट् ।
स कुबेरः स वरुणः स महेन्द्रः प्रभावतः ॥ ७.७ ॥

भारुचिः ...{Loading}...

एवं चेमे लोकपाला यैर् अयं राजा तथैव व्यपदिश्यते ॥ ७.७ ॥

यतश् चैतद् एवम् अतः ।

बालो ऽपि नावमन्तव्यो मनुष्य इति भूमिपः ।
महती देवता ह्य् एषा नररूपेण तिष्ठति ॥ ७.८ ॥

भारुचिः ...{Loading}...

शक्नोति ह्य् अयं बालो ऽप्य् अमात्यादिभिर् अकार्यकारिणो निवर्तयितुम् ॥ ७.८ ॥

किं चान्यत् ।

एकम् एव दहत्य् अग्निर् नरं दुरुपसर्पिणम् ।
कुलं दहति राजाग्निः सपशुद्रव्यसंचयम् ॥ ७.९ ॥

भारुचिः ...{Loading}...

यस्माद् अकार्यकारिणां तत्सहायानां तदपराधसंबन्धानां च कुलं दहति । अतो ऽप्य् असौ नावमन्तव्यः ॥ ७.९॥

यतश् च-

कार्यं स ऽवेक्ष्य शक्तिं च देशकालौ च तत्त्वतः ।
कुरुते धर्मसिद्ध्यर्थं विश्वरूपं पुनः पुनः ॥ ७.१० ॥

भारुचिः ...{Loading}...

अतश् चासौ वाल्लभ्यान् मैत्र्यात् स्वाजन्यद्वारेण वा नावमन्तव्यः ॥ ७.१० ॥

यतश् च तस्य सम्यग् उपचरितस्य-

[यस्य] प्रसादे पद्मा श्रीर् विजयश् च पराक्रमे ।
मृत्युश् च वसति क्रोधे सर्वतेजोमयो हि सः ॥ ७.११ ॥

भारुचिः ...{Loading}...

अतो न केवलम् असौ भयात् प्रत्यवायपरिहारार्थम् आराध्यः, अभ्युदयो ऽपि हि तस्मात् सम्यग् उपचरिताद् विशिष्टो भवति ॥ ७.११ ॥

अतश् चैवं च सति-

तं यस् तु द्वेष्टि संमोहात् स विनश्यत्य् असंशयम् ।

यथोक्तम् उपदेशम् अपरिगणय्य पौनह्पुन्यन । यतस् तं न द्विष्याद् अन्यार्थापराधम्, येन-

तस्य ह्य् आशु विनाशाय राजा प्रकुरुते मनः ॥ ७.१२ ॥

भारुचिः ...{Loading}...

अनयस् तु द्विष्यमाणः कदाचिद् धर्मापेक्षयाशक्त्या वा सहेत, राज्ञः पुनः सहमानस्य स्वतन्त्रविरोदो यतो ऽशक्तश् चासौ निग्रहणं कर्तुम् इति । अतः सदानुवर्तितव्यो निरुपधैस् सद्भिः ॥ ७.१२ ॥

तस्मात् धर्मं यम् इष्टेषु व्यवस्यति नराधिपः ।
अनिष्टं चाप्य् अनिष्टेषु तद्धर्मं न विचारयेत् ॥ ७.१३ ॥

भारुचिः ...{Loading}...

न हि राजा वर्णाश्रमधर्मप्रवृत्तौ हेतुः, शास्त्रलक्षणत्वाद् धर्माधर्मयोः । अव्यवस्था चैवं स्यात् । व्यवस्थाकारिणा च शास्त्रेण भवितव्यम् । तथा च बहुकृत्वस् तदुक्तिः, तद्विरोधश् चान्याय्यः । यतः प्रकरणाद् राजस्तुतिपरम् एतत् प्रत्यवगन्तव्यम् । लौकिकधर्मापेक्षया वेदं विज्ञेयं शास्त्रम् । समाप्ता राजोत्पत्तिः ॥ ७.१३ ॥

अधुना तत्सहकारी दण्डो व्याक्रियते-

तस्यार्थे सर्वभूतानां गोप्तारं धर्मम् आत्मजम् ।
ब्रह्मतेजोमयं दण्डम् असृजत् पूर्वम् ईश्वरः ॥ ७.१४ ॥

भारुचिः ...{Loading}...

इदम् आरभ्य द्वादशश्लोकाः दण्डोत्पत्त्यर्थाः । दण्डनामानं तेजोमयं सर्वभूतगोप्तारं धर्मम् आत्मजम् असृजत् पूर्वं राजोत्पत्तेः । एतद् उक्तं भवति “दण्डाद् ऋते राजसत्वं नाभिवर्तते तस्मान् नैव दण्डोत्सर्जनेन राजा प्रजा रक्षिष्यति” इति ॥ ७.१४ ॥

यतश् च-

तस्य सर्वाणि भूतानि स्थावराणि चराणि च ।
भयाद् भोगाय कल्पन्ते स्वधर्मान् न चलन्ति च ॥ ७.१५ ॥

भारुचिः ...{Loading}...

जातश् चासौ युक्तो राजसाहाय्ये यस्य भयात् स्थावराणि फलच्छायादिभिर् भोगाय कल्पन्ते, किं पुनर् अन्ये । यो हि स्थावरो वृक्षो न भोगाय कल्पते नियतं तस्य परिशोधनाद्य् आरभते, यतश् च न परिशुद्ध्यते हित्वासाव् अङ्गारीक्रियते, यश् च प्रतिकूलं वर्तते तस्य छेदनमूलोत्पाटनादिभिर् दण्डः प्रणीयते एव । यथा राजमार्गादिजातस्य बीरणस्तंबादेः॥ ७.१५ ॥

तं देशकालौ शक्तिं च विद्यां चावेक्ष्य तत्त्वतः ।
यथार्हतः संप्रणयेन् नरेष्व् अन्यायवृत्तिषु ॥ ७.१६ ॥

भारुचिः ...{Loading}...

ग्रामारण्यबाह्याभ्यन्तररथ्यादिर् देशः । दिवा नक्तं बालो युवा स्थविर इति कालःशक्तिः शरीरगतार्थगता च । विद्या त्रयी शाङ्गोपाङ्गा । एतदपेक्षया दण्डः प्रणेयः । अन्यथा प्रणीतो ऽनर्थम् उत्पादयति, अर्थं च न करोतीति दण्डस्तुत्यर्थो ऽयम् अनुवादः । दण्डपातनविधिं तूपरिष्टाद् वक्ष्यत्य् अपराधं प्रतिज्ञायेति ॥ ७.१६ ॥

स राजा पुरुषो दण्डः स नेता शासिता च सः ।
चतुर्णाम् आश्रमाणां च धर्मस्य प्रतिभूः स्मृतः ॥ ७.१७ ॥

भारुचिः ...{Loading}...

दण्ड एव राजा, तन्निमित्तत्वाद् राजत्वस्य । स एव पुरुषः, येन बलीयसो ऽपि पुरुषान् स्त्रीवन् न्यक्क्र्त्वा वशम् आनयति । स नेता यस्मात् तद्भयाद् एव कार्याणि सम्याङ् नीयन्ते । स एव शासिता येन तदपेक्षयैव वासना शासनीभवति । स एव पतिभूर् वर्णाश्रमव्यतिक्रमे प्रतिभूर् इव प्रतिभूः ॥ ७.१७ ॥

यतश् चैवम् अतः-

दण्डः शास्ति प्रजाः सर्वा दण्ड एवाभिरक्षति ।
दण्डः सुप्तेषु जागर्ति दण्डं धर्मं विदुर् बुधाः ॥ ७.१८ ॥

भारुचिः ...{Loading}...

न शास्त्रं राजा वा शास्ति । सत्य् अपि च शास्त्रे राजनि च दण्डभयाद् एव शासनम् अनुवर्तन्ते वर्णाश्रमिणः । एवं च स एवाभिरक्षति, अकार्यकारिभ्य इतरान् । सुप्तेष्व् अपि राजपुरुषेष्व् ऐहिकभयात् परलोकभयाद् वा न यथाकामं प्रवर्तते लोकः ॥ ७.१८ ॥

समीक्ष्य स धृतः सम्यक् सर्वा रञ्जयति प्रजाः ।
असमीक्ष्य प्रणीतस् तु विनाशयति सर्वतः ॥ ७.१९ ॥

भारुचिः ...{Loading}...

नैतावता मुच्यामहे, असम्यग्धृतः कार्यं न करोतीति । यथैव सम्यग्धृतो रञ्जयति प्रजाः, एवम् असम्यग्धृतः सर्वम् एव विनाशयति ॥ ७.१९ ॥

यदि न प्रणयेद् राजा दण्डं दण्ड्येष्व् अतन्द्रितः ।
शूले मत्यान् एवापक्ष्यन् दुर्बलान् बलवत्तराः ॥ ७.२० ॥

भारुचिः ...{Loading}...

न केवलं दण्डप्रणीतौ गुणावाप्तिः, अप्रणीतौ मत्स्यस्य न्यायः प्रवर्तते ॥ ७.२० ॥

अद्यात् काकः पुरोषाशं श्वावलिह्याद् धविस् तथा ।
स्वाम्यं च न स्यात् कस्मिंश्चित् प्रवर्तेताधरोत्तरम् ॥ ७.२१ ॥

भारुचिः ...{Loading}...

सर्वा धर्माण् (?) । काकश्वादयः ऋद्धिमद्भिः सर्वोत्तमैर् अपि देवैर् दण्डाद् ऋते न शक्यन्ते प्रतिवारयितुम् । किं पुनर् अन्यः । सुहृन्मित्रस्वजनवचनाद् इति ॥ ७.२१ ॥

एवं च सति-

सर्वो दण्डजितो लोको दुर्लभो हि शुचिर् नरः ।
दण्डस्य हि भयात् सर्वं जगद् भोगाय कल्पते ॥ ७.२२ ॥

भारुचिः ...{Loading}...

प्रायण सर्वो दण्डजित एव लोकः, येन दुर्लभः स्वभावशुद्धः, शासनानुवर्ती । तद् एतद् दण्डपातनं यद्य् अपि दुःखोत्पादनं तथापि प्रकल्प्यते शास्त्रेण, येनान्य उपायो धर्मस्थितेर् नास्तीति ॥ ७.२२ ॥

देवदानवगन्धर्वा रक्षांसि पतगोरगाः ।
ते ऽपि भोगाय कल्पन्ते दण्डेनैव निपीडिताः ॥ ७.२३ ॥

भारुचिः ...{Loading}...

एवम् ईश्वरा अपि सन्तो देवादयो ऽनुग्रहोपघाताभ्याम् । दण्डभयाद् एवानुग्राह्यान् अनुगृह्णन्ति, उपघात्यांश् चोपघ्नन्ति । यदि च दण्डान् न बिभुर् ऐश्वर्याद् यथाकामम् अभिप्रवर्तेरन्, न च प्रवर्तन्ते । अतो मन्यामहे देवादयो ऽपि दण्डभयाद् एव सत्य् अप्य् ऐश्वर्ये यथा कर्मानुग्रहोपघाताभ्यां वर्तन्ते न यथाकामम् इति अतिशयवचनेनैषा दण्डस्तुतिः ॥ ७.२३ ॥

तथा च-

दुष्येयुः सर्ववर्णाश् च भिद्येरन् सर्वसेतवः ।
सर्वलोकप्रकोपश् च भवेद् दण्डस्य विभ्रमात् ॥ ७.२४ ॥

भारुचिः ...{Loading}...

अधार्यमाणे न्यायन् दण्डे वर्णनिमित्ता धर्मा दुष्येयुः । ये च धर्मार्थकामसेतवः ते च भुद्येरन् । किं बहुना, कः शक्नोति भगवन्तं दण्डं धर्मनामानं व्यवस्थाकारिणं बहुगुणत्वात् स्तोतुम् ॥ ७.२४ ॥

यत्र श्यामो लोहिताक्षो दण्डश् चरति पापहा ।
प्रजास् तत्र न मुह्यन्ते मेता चेत् साधु पश्यति ॥ ७.२५ ॥

भारुचिः ...{Loading}...

एतद्रूपं मनुष्याणां प्रशस्तम् अभीष्टं चातस् तेनासता रूपकं कृत्वा स्तौति । अथ वा द्विरूपो दण्डः कुःखदो भयदश् चेति । यतस् तस्य द्वाभ्यां रूपाभ्यां स्तूयते भयहेतुत्वं श्यामतया दुःखहेतुत्वं च लोहिताक्षत्वेनेति, देवतारूपं वेदं शास्त्रप्रत्यक्षं यथाभूतम् अनेनानूद्यते । समाप्ता दण्डस्तुतिः ॥ ७.२५ ॥

तस्याहुः संप्रणेतारं राजानं सत्यवादिनम् ।
समीक्ष्य कारिणं प्राज्ञं धर्मकामार्थकोविदम् ॥ ७.२६ ॥

भारुचिः ...{Loading}...

तस्य दण्डस्य प्रणेता जात्या क्षत्रियो ऽभिषेकाद् आधिपत्यप्रभावगुणयुक्तः । सत्यवादि नानवस्थितं दण्डं प्रीत्या प्रापयति, द्वेषेण वा वर्धयति । समीक्ष्य कारी दण्डावधारेण देशाध्यपेक्षया प्राज्ञो देशादीनाम् उत्सर्गापवाददर्शने । धर्मकामार्थेषु च पण्डितः तेषाम् अवस्थाविशेषज्ञः समचित्तः । तम् एवंविधं दण्डस्य प्रेणेतारम् आहुः ॥ ७.२६ ॥

एवंविधश् च-

तं राजा प्रणयन् सम्यक् त्रिवर्गेणाभिवर्धते ।
कामात्मा विषमः क्षुद्रो दण्डेनैव निहन्यते ॥ ७.२७ ॥

भारुचिः ...{Loading}...

अदृष्टम् उत्सृज्य दृष्टेन चैनं प्रगुणीकरोति । येन सम्यक् प्रणीत एष त्रिवर्गेण प्रणेतारं वर्धयति । कामादिदिषैश् च दण्डेनैव निहन्यते ॥ ७.२७ ॥

यस्माद्-

दण्डो हि सुमहत्तेजो दुर्धरश् चाकृतात्मभिः ।
धर्माद् धि चलितं हन्ति नृपम् एव सबान्धवम् ॥ ७.२८ ॥

भारुचिः ...{Loading}...

येषां स्वाभाविको विद्योपनीतश् च विनयस् ते कृतात्मानः । तैर् अयम् शको धारयितुम् । व्परीतं तस्माच् चलितं दण्द एव सबान्धवं हन्ति ॥ ७.२८ ॥

ततो दुर्गं च राष्ट्रं च लोकं च सचराचरम् ।
अन्तरिक्षगतांश् चैव मुनीन् देवांश् च पीडयेत् ॥ ७.२९ ॥

भारुचिः ...{Loading}...

यदि नृपं सबान्धवं हत्वावतिष्ठेत दण्डः किं न लब्धं भवेत् । येन तु नैतावतावतिष्ठेत दण्डः किं न लब्धं भवेत् । येन तु नैतावतावतिष्ठते दुर्गादीन् अपि हन्ति । अन्तरिक्षगतान् द्युलोकगतांश् च देवादीन् अपि हन्ति । यस्माद् इतः प्रदानजीवना देवा मुनयश् चैतस्माद् असम्यक्प्रणयनाद् देशादिविप्लवे तदिज्याविच्छेदेन हता एव देवादयो भवन्ति, येभ्यो न प्रदीयते । तथा च पौराणिकाः-

> वर्णाश्रमेभ्यस् त्व् इज्या तु लोके ऽस्मिन् या प्रवर्तते ।
> सर्वासां देवयोनीनां स्थितिहेतुः स वै स्मृतः ॥ इति ।

सो ऽसहायेन् मूढेन लुब्धेनाकृतबुद्धिना ।
न शक्यो न्यायतो नेतुं सक्तेन विषयेषु च ॥ ७.३० ॥

भारुचिः ...{Loading}...

यस्माद् दण्डो दुष्प्रणीतो दृष्टम् अदृष्टं च हन्ति, अतो ऽसहायेन मूढेन लुब्धेनाकृतबुद्धिना विषयातिसेविनेति पञ्चभिर् एतैर् दोषैर् युक्तेन्आशक्यो नेतुम् । ॥ ७.३० ॥

एतद् विपरीतैश् च पञ्चभिर् गुणैर् युक्तेनासौ शक्यो नेतुम्, यतस् तत्प्रदर्शनायेदम् उच्यते-

शुचिना सत्यसंधेन यथाशास्त्रानुसारिणा ।
दण्डः प्रणयितुं शक्यस् सुसहायेन धीमता ॥ ७.३१ ॥

भारुचिः ...{Loading}...

शुचिना जितेन्द्रियेण, सत्यसंधेन प्रकरणाद् अलुब्धेन, यथाशस्त्रानुसारिणा अमूढेन, सुसहायेन नासहायेन मूर्खसहायेन वा, धीमता कृतशास्त्रप्रज्ञेन स्मृतिमता वा ॥ ७.३१ ॥

एवंविधश् च सन् राजा-

स्वराष्ट्रे न्यायवृत्तः स्याद् भृशदण्डश् च शत्रुषु ।
सुहृत्स्व् अजिह्मः स्निग्धेषु ब्राह्मणेषु क्षमान्वितः ॥ ७.३२ ॥

भारुचिः ...{Loading}...

परराष्ट्रे तीक्ष्णदण्डतोच्यते, शौर्यप्रज्ञापनार्थम् । समानाभ्युदयप्रत्यवायः सुहृद्, यस्य कार्यानपेक्षं सुहृत्त्वं स स्निग्धः । तस्मिन् न कुटिलवृत्तिर्, अन्यस्मिंस् तु कार्यापेक्षया कुटिलवृत्तिर् अपि स्यात् । ब्राह्मणेषु क्षमान्वितः नियच्छन्न् अपि दण्डेन ब्राह्मणान् अकार्यकारिणः क्षमापूर्वं नियच्छेन् न तु क्रोधेन सहसैव च ॥ ७.३२ ॥

एवंवृत्तस्य नृपतेः शिलोच्छेनापि (?) जीवतः ।
विस्तीर्यते यशो लोके तैलबिन्दुर् इवाम्भसि ॥ ७.३३ ॥

भारुचिः ...{Loading}...

एवंवृत्तस्य राज्ञो ऽन्तरेणापि कोशं केवलेनैव सम्यग्दण्डप्रणयनेन विस्तीर्यते राजयशः, येन शक्नोति परराष्ट्राण्य् अप्य् आत्मीकर्तुं परिपालयितुं च ॥ ७.३३ ॥

अतस् तु विपरीतस्य नृपतेर् अजितात्मनः ।
संक्षिप्यते यशो लोके घृतबिन्दुर् इवाम्भसि ॥ ७.३४ ॥

भारुचिः ...{Loading}...

अतो विपरीतस्य राष्ट्रम् अपि संकुचति निर्गुणत्वात्, कुतो ऽन्यद् भविष्यति । सैषा दण्डप्रणयनस्तुतिः समाप्ता ॥ ७.३४ ॥

कस्मात् पुनर् एतद् एवम् । यद्माद् एवंगुण एव-

स्वे स्वे धर्मे निविष्टानां सर्वेषाम् अनुपूर्वशः ।
वर्णानाम् आश्रमाणां च राजा सृष्टो ऽभिरक्षिता ॥ ७.३५ ॥

भारुचिः ...{Loading}...

उपन्यासार्थम् उत्तरविवक्षार्थं चेदम् उक्तम् अप् सद् उच्यते ॥ ७.३५ ॥

तेन यद् यत् सभृत्येन कर्तव्यं रक्षता प्रजाः ।
तत् तद् वो ऽहं प्रवक्ष्यामि यथावद् अनुपूर्वशः ॥ ७.३६ ॥

भारुचिः ...{Loading}...

श्रोतॄणाम् अवधानार्थः श्लोकः ॥ ७.३६ ॥

ब्राह्मणान् पर्युपासीत प्रातर् उत्थाय पार्थिवः ।
त्रैविद्यवृद्धान् विदुषस् तिष्ठेत् तेषां च शासने ॥ ७.३७ ॥

भारुचिः ...{Loading}...

त्रयो ऽवयवा अस्येति त्रयी । तस्यां ग्रन्थार्थयोर् वृद्धास् ते त्रैविद्यवृद्धाः, तान् । अथ वा त्रैविद्याध्यायिनस् त्रैविद्यवृद्धाश् च वयस्थप्रज्ञया च त्रैविद्यवृद्धा, ये आन्वीक्षिक्यां दण्डनीत्यां च स्वभिविनीतास् ते विद्वांसः तान् विदुषः प्रातर् उत्थायोपासीतानन्यचित्तः । यच् च ते ब्रूयुस् तच् चाविशङ्कितं कुर्यान् न हि ते किंचिद् अहितं राज्ञो वक्ष्यन्ति परमधार्मिकत्वात् ॥ ७.३७ ॥

वृद्धांश् च नित्यं सेवेत विप्रान् वेदविदः शुचीन् ।
वृद्धसेवी हि सततं रक्षोभिर् अपि पूज्यते ॥ ७.३८ ॥

भारुचिः ...{Loading}...

इमान् अपरान् विद्यावृद्धान् ब्राह्मणान् धर्मायैव केवलाय सेवेत । येन वृद्धसेवी न केवलं धर्मेण युज्यते, लोके ऽपि च विश्वसनीयतमो भवति । अतश् च रक्षोभिर् अपि पूज्यते इत्य् उच्यते ॥ ७.३८ ॥

तेभ्यो ऽधिगच्छेद् विनयं विनीतात्मापि नित्यशः ।
विनीतात्मा हि नृपतिर् न विनश्यति कर्हिचित् ॥ ७.३९ ॥

भारुचिः ...{Loading}...

विनयो हि द्विविधः- वाभाविकः आधेयश् च । शुश्रूषादिगुणयुक्तं च विद्या विनयति । अतो यद्य् अपि स्वभावतो विनीतात्मा भवेत्, तथाप्य् अभ्यासेन पाटवं जनयेत् । कस्मात् । पुनर् इयान् विनयाधाने यत्न आस्थीयते ॥ ७.३९ ॥

येन-

बहवो ऽविनयान् नष्टा राजानः सुपरिग्रहाः ।
वनस्थाश् चैव राज्यानि विनयात् प्रतिपेदिरे ॥ ७.४० ॥

भारुचिः ...{Loading}...

उभयतोपदेशो हि विनयाधानादरार्थः ॥ ७.४० ॥

तानिदानीं (?) दर्शयति-

वेनो विनष्टो ऽविनयान् नहुषश् चैव पर्थिवः ।
सुदाः पैजवनश् चैव सुमुखि निमिर् एव च ॥ ७.४१ ॥
पृथुस् तु विनयाद् राज्यं प्राप्तवान् मनुर् एव च ।
कुबेरश् च धनैश्वर्यं ब्राह्मण्यं चैव गाधिजः ॥ ७.४२ ॥

भारुचिः ...{Loading}...

त्रिभिः शॢओकैर् विनयस्य प्रत्यक्षफलतां वेनादिदृष्टान्तैर् दर्शयति विनयाधानप्ररोचनाय ॥ ७.४२ ॥

एवं च सत्य् आहितविनयो राजा-

त्रैविद्येभ्यस् त्रयीं विद्यां दण्डनीतिं च शास्वतीम् ।
आन्वीक्षिकीं चात्मविद्यां वार्तारंभांश् च लोकतः ॥ ७.४३ ॥

भारुचिः ...{Loading}...

अधिगच्छेद् इति वर्तते । त्रैविद्येभ्यो वेदाधिगमस्योक्तत्वाद् ब्रह्मचार्यवस्थायाम् एव तदर्थाधिगमार्थो ऽयं पुनर् आरम्भः सामर्थ्याद् वेदितव्यः । अनधिगताधिगमार्थो वा व्रतस्नातकपक्षे दण्डनीत्युपदिदिक्षया वा पुनर् अस्योपदेशो दृष्टान्तार्थवादार्थः । एवं दण्डनीतिविद्भ्यो दण्डनीतिम् अधिगच्छेत् । शाश्वतीम् इति स्तुतिपरम् एतत् । दन्डनीतेर् वेदवद् [आनन्त्यं नास्ति] । यद्य् अपि च दण्डनीत्याश्रयं सर्वं शक्यते लोकतो ग्रहीतुम्, दृष्टोपायसाध्यत्वात् तस्य, तथाप्य् अबुद्धा न प्रतिपद्येरन्, बुद्धाश् च दण्डपातने नियमेन वर्तेरन् । लोभान् परित्यज्यादृष्टम् अस्याङ्कनम् अस्य विवासनम् । इयांश् च पुनर् अयम् अस्य दण्ड इतीष्यते च नियमो, दृष्टप्रयोजनत्वान् नियमस्मृतेः । अतो राज्ञा दण्डनीतिर् अवश्यम् अध्येतव्या । आन्वीक्षिकीं चात्मविदां तद्विद्भ्यः । एवं च सत्य् अयं तयाहिततत्त्वविज्ञानो ऽभ्युदयोपनिपातापक्रमकालेषु हर्षविषादविकारोपशमप्रयोजनम् अध्यात्मप्रसंख्यानम् अवाप्य न राज्यतन्त्रं परिहापयिष्यति । प्रज्ञावाक्यक्रियावैशारद्यं चास्या जायते, आन्वीक्षिक्यधिगमे तच् चास्यागमिके विधौ सामन्तदूतसंवादादिषु सप्रयोजनं भवति । वार्तारंभांश् च कोशोपचयहेतून् लोकतो ऽधिगच्छेद् इति वर्तते ॥ ७.४३ ॥

आहितविद्याविनयश् चायं राजा प्रयत्नतः,

इन्द्रियाणां जये योगं समातिष्ठेद् दिवानिशम् ।
जितेन्द्रियस् तु शक्नोति वशे स्थापयितुं प्रजाः ॥ ७.४४ ॥

भारुचिः ...{Loading}...

श्रोत्रादीनां शब्दादिषु यथाशास्त्रं प्रवृत्तिर् इन्द्रियजयः । स च वर्णधर्मेषूक्तो [मुख्यो विनय इति पुनर् इहोपदिष्टः] ॥ ७.४४ ॥

कथं नामायं जितेन्द्रियः ।

दश कामसमुत्तानि तथाष्टौ क्रोधजानि च ।
व्यसनानि दुरन्तानि प्रयत्नेन विवर्जयेत् ॥ ७.४५ ॥

भारुचिः ...{Loading}...

कामक्रोधसमुत्थयोर् दुःखयोर् उपन्यासस् त्यागार्थः, कामक्रोधपरित्यागेन । तत्त्यागश् चेन्द्रियजयेनेत्य् उक्तम् । बलाबलम् अधुना व्यसनवर्गस्योच्यते, आदरार्थम् । कथं नामायं गुरुतरं व्यसनवर्गम् आदरेण जह्यात् ॥ ७.४५ ॥

कामजेषु प्रसक्तस् तु व्यसनेषु महीपतिः ।
वियुज्यते ऽर्थधर्माभ्यां क्रोधजेष्व् आत्मनैव तु ॥ ७.४६ ॥

भारुचिः ...{Loading}...

अनयोस् तु वर्गयोः कामजेषु प्रसक्तः पानद्यूतगीतनृत्तवादित्रादिषु अर्थधर्माभ्यां वियुज्यते, येनार्थधर्माभ्याम् अविरोदेन नैषा प्रवृत्तिः संभवति । क्रोधजेष तु पैशुनसाहसादौ वर्तमानो द्वेष्यभावम् उपगतो नियतम् उच्छिद्यते ॥ ७.४६ ॥

मृगयाक्षो दिवास्वप्नः परिवादः स्त्रियो मदः।
तौर्यत्रिको वृथाट्या च कामजो दशको गणः ॥ ७.४७ ॥

भारुचिः ...{Loading}...

कामज इत् कामाद् इच्छातो जातो विशिष्टकामार्थो वा । स च यः सुखोपभोगार्थो जायते । पूर्वानुभूतविषयानुचिन्तनसुखाद् वा कामपराणां जायते । येनातः कामज इत्य् उच्यते दशको गणः । कामजव्यसनवर्गस्वरूपनिर्देशो मृगयादिः । यानं मृगयादिवास्वप्नः कर्मानुष्ठानकाले कर्मस्व् अव्यापारः । परिवादस् त्व् अमात्यादीनां क्रियमाणः स्वतन्त्रविरोधी संपद्येत,सर्वो हि पृष्टमांसभक्षणे क्रियमाणे राजकार्यषु न सम्यग् वर्तते, प्रशिथिलमानतया । अपरिवाद्यानां च परिवादे प्रसिद्धो दर्मविरोधः । स्त्रियो मद इत्य् एतद् द्वयं प्रतीतम् । तौर्यत्रिको नृत्तगीतवादित्राणि । वृथाट्या अप्रयोजनम् अटनम् । धर्मार्थसुखरहितम् ईषत्प्रयोजनं वा । एवं च सति सर्वम् एतद् राज्ञो ऽर्थविरोधेन वर्तते । अतो ऽस्य कामजव्यसनवर्गस्य परिहर्तव्यतयोपदेशो युक्ततरः ॥ ७.४७ ॥

**पैशुनं साहसं द्रोह ईर्ष्यासूयार्थदूषणम् । **
वाग्दण्डजं च पारुष्यं क्रोधजो ऽपि गणो ऽष्टकः ॥ ७.४८ ॥

भारुचिः ...{Loading}...

पैशुनं हेडकत्वं तच् च क्रोधात् क्रियते । एवं साहसं च । तच् च साधोर् नीचे कर्मणि नियोगः, कर्मोपरोधो वा निष्कारणम् । द्रोह उपांशुवधः, तन्त्रोपरोधो वा जीवत एव । ईर्ष्या विषयसाधारणत्वव्यावृत्तीच्छा । असूया परतुणोपघातार्था वाक्प्रवृत्तिश् चेष्टा वा, जिह्विकाधरविक्षेपहस्ताभिनयैः । अर्थदूषणम् अदानम् अपहरणं वा । वाग्दण्डजपारुष्यं प्रसिद्धार्थम् । एवं क्रोधजो ऽपि गणो ऽष्टकः ॥ ७.४८ ॥

द्वयोर् अप्य् एतयोर् मूलं यं सर्वे कवयो विदुः ।
तं यत्नेन यजेल् लोभं तज्जौ ह्य् एतौ गणाव् उभौ ॥ ७.४९ ॥

भारुचिः ...{Loading}...

स्त्र्यादिषु लुब्धः कामजं गणं सेवते । प्रतिहतस्य च तत्र क्रोध इति । स एवम् अयं लोभः कामक्रोधयोः व्यसनवर्गयोः मूलम् उच्यते । उपदेशप्रयोजनं तु तत्त्यागे व्यसनवर्गद्वयाभावः प्रदर्शितो यथा स्यात् कारणाभावात् । अथ वान्यायेन परद्रव्यादानं लोभात् क्रियते, मृगयायां च वर्तमानः स्वतन्त्रावसादाद् अवश्यम् अन्यायेन परद्रव्याण्य् आदत्ते । यश् च मृगयापरित्यागे वर्तते, अवश्यम् असौ स्वतन्त्रसिद्ध्यर्थं कोशोपचयहेत्वनुष्ठाने यतेत, तत्र च व्यापृतस्य मृगयायाम् अप्रवृत्तिः । एवं दिवास्वप्नादिषु अपि व्याख्येयम् । अक्षेषु तु प्रसिद्दैव लोभात् प्रवृत्तिः । एवं क्रोधजेष्व् अपि पैशुनादिषु वर्तमानो लुब्ध एवान्तं गच्छति । केवलेन तु क्रोधेन प्रवर्तमानः स्वल्पके वा विआशे ऽवतिष्ठते, उपशमं वा गच्छति । व्यसनवर्गद्वयासेविनः कार्यसामान्याद् वा लोभस्य द्वयोर् अप्य् एतयोर् व्यसनवर्गयोर् मूलं लोभ उच्यते । यथाश्रुतार्थासंभवाद् इतरत्र च सामर्थ्यात् सो ऽयम् अत्र निन्दातिशयः, परित्यागादरार्थो राज्यतन्त्रसिद्धय इति ॥ ७.४९ ॥

पानम् अक्षाः स्त्रियश् चैव मृगया च यथाक्रमम् ।
एतत् कष्टतरं विद्याच् चतुष्कं कामजे गणे ॥ ७.५० ॥

भारुचिः ...{Loading}...

दिवास्वप्नादिभ्यो ऽयं चतुष्को कष्टतर इति प्रसिद्धम् इतीदं व्याख्येयम् ॥ ७.५० ॥

दण्डस्य पातनं चैव वाक्पारुष्यार्थदूषणे ।
क्रोधजे ऽपि गणे विद्यात् कष्टम् एतत् त्रिकं सदा ॥ ७.५१ ॥

भारुचिः ...{Loading}...

अयम् अपि त्रिको गणः पैशुनादिभ्यः पापीयान् इति सुप्रतीतम् ॥ ७.५१ ॥

सप्तकस्यास्य वर्गस्य सर्वत्रैवानुषङ्गिणः ।
पूर्वं पूर्वं गुरुतरं विद्याद् व्यसनम् आत्मवान् ॥ ७.५२ ॥

भारुचिः ...{Loading}...

पानद्यूतयोः पानं गरीयः । तत्र हि संज्ञाप्रणाशः, अनुमत्तस्योन्मत्तत्वम् अप्रेतस्य प्रेतत्वं [कौपीनदर्शनं] श्रुतप्रञाप्रहाणं मित्रहानिः सद्भिर् वियोगः, असद्भिश् च प्रयोगः, गीतादिषु चार्थघ्नेषु प्रसङ्गः, रहस्यमन्त्रप्रकाशं मदवेगेनेति पानदोषाः । द्यूते तु जितम् एवाक्षविदुषा अनक्षज्ञस्यापि पाक्षिकः पराजयः । द्यूतस्त्रीव्यसनयोश् च द्यूतं गरीयः । येन तद् एव जितद्रव्यं तस्याप्य् [आमिषं] भवति, तथा तन्निमित्तो वैरानुबन्धः । जयः साधारणः केवलः पराजयो ऽनुभक्तनाशः । मूत्रपुरीषवेगधारणाच् च शरीरतन्त्रशैथिल्यं व्याधिनिदानम् आसेवनेन क्षुद्रादिभिश् च पीडातिशयेन । मातर्य् अपि च मृतायां दीव्यत्य् एव कितवः, कृच्छ्रेषु च पृच्छ्यमानः सुहृद्भिर् अपि कुप्यतीति द्यूतदोषाः । स्त्रीव्यसने त्व् अपत्योत्पत्तिः, प्रतिकर्मभोजनभूयिष्ट्गम् (?) अनुसवनं धर्मार्थपरिग्रहः । शक्या च स्त्री राजहिते नियोक्तुम् अपवाहयितुं वा । स्त्रीमृगयाव्यसनयोः स्त्रीव्यसनं गरीयः । अदर्शनं कार्याणाम्, स्त्रीव्यसनासङ्गेषु राजकार्येषु निर्वेदः । कालातिपातनम् । धर्मलोपः । पानदोषानुबन्धः । अर्थघेषु च नृत्तादिषु प्रसङ्ग इति । मृगायां तु व्यायामः पित्तश्लेषमेधःस्वेदादिनाशः । चले स्थिरे च काले लक्षपरिचयः । प्रहरणवैशारद्योपजननं ग्राम्यजनपरिचयश् चेति । एवं कामजस्य चतुष्कस्य स्ववर्गे पूर्वं पूर्वं पापीयः । ततस् तेषां पूर्वं पूर्वं यत्नतः परिहरेत् । क्रोधजस्य तु त्रिकस्य दण्डपातनवाक्पारुष्ययोर् दण्डपातनं गरीयः । दण्डपातने हि शरीरविनाशाद् अशक्यं प्रतिसन्धानम्, वाक्पारुष्ये त्व् अमर्षजः क्रोधाग्निः शक्यते दानमानाम्भोभिः शमयितुम् । वाक्पारुष्यार्थदूषणयोर् वाक्पारुष्यं गरीयः । तेजस्विनो हि परुषवचनस्य चित्तसंक्षोभे भेषजं नासादयन्ति । तथा च प्रवादः-

> स्थिरं स्वाधिम् इतं गाढं भित्त्वास्तिसंप्रवेशित
> निःशल्यम् अङ्गान् कृन्तन्ति न वाचो हृदयाद् अपि ॥
> संरोहति शरैर् विद्धं वनं परशुना हतम्
> वाचा दुरुक्तं बीभत्सं न रोहति परिक्षतम् ॥

भाग्यायत्तत्वाद् अर्थस्य च तेजस्विनो ऽर्थदूषणं न गणयन्ति । एवम् एवास्यापि क्रोधजस्य त्रिकस्य पूर्वं पूर्वं गरीय इति व्याख्यातम् ॥ ७.५२ ॥

व्यसनस्य च मृत्योश् च व्यसनं कष्टम् उच्यते ।
व्यसन्य् अधो हि व्रजति स्वर्यात्य् अव्यसनी मृतः ॥ ७.५३ ॥

भारुचिः ...{Loading}...

व्यसननिन्देयं सामान्यतस् तत्परिहारार्थम् । यद्य् अपि मृत्युव्यसने सर्वहरे, तथाप्य् अयम् अनयोर् विशेषः- मृत्युर् अस्मिन्न् एव लोके सर्वहरः, व्यसनं पुनर् उभयोर् अपि लोकयोर् इति । अथ वा यथाश्रुत एवास्य श्लोकस्यार्थो वचनीयः । एवं च ब्रुवता कामक्रोधजानां पुरुषधर्माणां व्यसनीभूतानां प्रतिषेध उक्तो भवति, न त्व् ईषद् आसेवनेन । येनाभ्यस्यामाना ह्य् एते व्यसनीभूता धर्मार्थप्राणहरा भवन्ति राज्यतन्त्रशैथिल्यन् । अपि चात्यन्तासेवनम् अप्य् उक्तम्, राज्ञ शक्यं चेति । यतो व्यसनाख्यानाम् एषां प्रतिषेधः । एवम् अव्यसनस्य राज्ञो गुणवत्सहायसंपदर्थम् अमात्यलक्षणम् इदम् अधुनोच्यते ॥ ७.५३ ॥

मौलाञ् छास्त्रविदः शूरांल् लब्धलक्षान् कुलोद्गतान् ।
सचिवान् सप्त वाष्टौ वा प्रकुर्वीत परीक्षितान् ॥ ७.५४ ॥

भारुचिः ...{Loading}...

यस्मात्,

अथ वा मौलांस् तावत् कुर्याद् अर्थसमाहर्तॄन् संनिधातॄन् अर्थव्यवहारिणः । शास्त्रविदः कुर्यात् प्रज्ञासचिवान् । शूरांस् तु दण्डातिशयव्यवहारिणः कुर्यात् । सर्वांश् चैतान् लब्धलक्षान् दृष्टशौचानुरागसामर्थ्यान् इत्य् अर्थः । कुलोद्गतान् इति चैतत् सर्वेषां पूर्वविशेषणम् । सचिवान् सप्त वाष्टौ वेति यथा संभवं राजकार्येषु प्रसमीक्ष्य कुर्यात् । सुपरीक्षितान् इति चैतत् सर्वामात्यविशेषणम् । कथम् । प्रणिधिभिः सर्वोपधाशुद्धान् इत्य् अर्थः। इयं परीक्षा राजविषयाद् अन्यत्र, न तु पूर्ववत् । इतरथा ह्य् एतद् एव शुद्धिभेदे हेतुः स्यात् । अमात्यानां व्युत्पत्ताव् अमात्या नानाकर्मप्रयोजना राज्ञा परिगृह्यन्ते ॥ ७.५४ ॥

भारुचिः ...{Loading}...

यस्मात्,

अपि यत् सुकरं कर्म तद् अप्य् एकेन दुष्करम् ।
विशेषतो ऽसहायेन किम् उ राज्यं महोदयम् ॥ ७.५५ ॥

भारुचिः ...{Loading}...

एवं च सति मन्त्रिणाम् अविधानाद् अन्यत्रैत एव यथासंभवं राज्ञो मन्त्रिणः स्युः । तथा च कृत्वोक्तम् एवेति ॥ ७.५५

तत्र ये तेषां मन्त्रिसचिवः,

तैः सार्धं चिन्तयेन् नित्यं सामान्यं संधिविग्रहम् ।
स्थानं समुदयं गुप्तिं लब्धप्रशमनानि च ॥ ७.५६ ॥

भारुचिः ...{Loading}...

तैः सह संधिव्ग्रहादौ षाड्गुण्ये सामान्यं गुणदोषबलाबलं विचारयेत् । स नातिरहस्यम् । यत् त्व् इदं कर्तव्यावधारणं परमरहस्यं तत् स्वचित्तेनैव व्यवस्येत् । एवम् अस्य राज्ञः परप्रणेयता न भवति । किं चान्यत् स्थानं तैस् सार्धं चिन्तयेद् इति वर्तते । तत् पुनश् चतुर्विधम्- दण्डकोशपुरराष्ट्राणि । तत्र दण्डो हस्त्यश्वरथपदातयः । तेषां प्रतिकर्मपोषणरक्षणादि चिन्त्यम् । तथा कोशस्य हेमरूप्यबाहुल्यम् आयव्ययरक्षणानि च चिन्त्यानि । तथा राष्ट्रस्य देशप्रयायस्य स्वाजीव आत्मसंधारणः परसंधारणो, आपदि स्वारक्ष्यः, पशव्यः शत्रुद्वेषि सीताप्रायो गुप्तगोचरः, पशुमान् अदेवमातृकः, आपदि च दण्डकरसह इत्य् एवमादि चिन्त्यम् । पुरस्य वक्ष्यति- तत् स्याद् आयुधसंपन्न इत्य् एवमादि ।

अथ वा स्थानं स्वदेशाद् अप्रच्यवनम् । एवं समुदयाश् चिन्त्याः । ते च कृषिर् व्रजो गुल्मस्थानं वणिक्पथः शुल्कदण्ड इत्य् एवमादयः । गुप्तिं स्वराष्ट्रगतां वक्ष्यति । लब्धप्रशमनानि देवताश्रमविद्व्यावतां धार्मिकाणां च शूराणां च दानमानत्यागायोगः । उचितानां चाभ्यनुज्ञानम् । सर्वबन्धनमोक्षः । अनुग्रहो दीनानाथव्याधितानाम् । उत्सवानां चापूर्वाणां प्रव[र्तनं, प्रवृत्तानाम् अनुवृत्तिः । यच् च कोश]दण्डोपघातकम् अधार्मिकं वा चारित्रं तद् अपनीय धर्मव्यवहारं स्थापयेत् । आह च- “चारित्रम् [अकृतं धर्म्यं कृतं चान्यैः प्रवर्तयेत्, प्रवर्तयेन् न चाधर्म्यं कृतं चान्यैर् निवर्तयेत्” इति । एवं] स्थानादीनि चिन्त्यानि ॥ ७.५६ ॥

तेषां स्वं स्वम् अभिप्रायम् उपलभ्य पृथक् पृथक् ।
स्मस्तानां च कार्येषु विदध्याद् धितम् आत्मनः ॥ ७.५७ ॥

भारुचिः ...{Loading}...

परतः प्रज्ञाम् उपादित्समानस् तान् मन्त्रि[ण एकैकशः पृच्छेत्] समस्तांश् च । यत्कारणं कश्चिद् धि पुरुषः परिषद्य् अप्रतिभानवान् भवति, रहसि च प्रगल्भः परिषदि च घट्टितप्रज्ञो भवति । यतस् तान् अपक्ष्योभयथा पृच्छेत् । ते यद् उक्तवन्तस् तद् व्यवस्येत्, तदन्यतमोपदिष्टं यावद् अप्रत्यनीकं निर्दोषं च ॥ ७.५७ ॥

सर्वेषां तु विशिष्टेन ब्राह्मणेन विपश्चिता ।
मन्त्रयेत परं मन्त्रं राजा षाङ्गुण्यसंयुतम् [?] ॥ ७.५८ ॥

भारुचिः ...{Loading}...

अधिकतरप्रज्ञो हि ब्राह्मणो धार्मिकत्वाच् च निर्दोषतया विश्वसनीयः ॥ ७.५८ ॥

एवं च सति,

नित्यं तस्मिन् समाश्वस्तः सर्वकार्याणि निक्षिपेत् ।
तेन सार्धं विनिश्चित्य ततः कर्म समाचरेत् ॥ ७.५९ ॥
अन्यान् अपि प्रकुर्वीत शुचीन् प्राज्ञान् अवस्थितान् ।
सम्यग् अर्थसमाहर्तॄन् अमात्यान् सुपरीक्षितान् ॥ ७.६० ॥

भारुचिः ...{Loading}...

मन्त्रिगुणयुक्तान् एतान् अपि कुर्यात् सर्वोपधाभिदृष्टतया च सुपरीक्षितान्अर्थसअमाहर्तॄन् संनिधातॄन् [सप्ताष्टौ] वा संख्यानियमापवादो ऽयं राजसहायानाम् उच्यते ॥ ७.६० ॥

निवर्तेतास्य यावद्भिर् इतिकर्तव्यता नृभिः ।
तावतो ऽतन्द्रितान् दक्षान् प्रकुर्वीत विचक्षणान् ॥ ७.६१ ॥

भारुचिः ...{Loading}...

कार्यपरिमाणेनाइषां राज्ञः सचिवानां संग्रहः स्यात् । यत्कारणं कार्यसमावेशाद् अन्येनोपयोगेन हि कश्चिद् विषादं गच्छेत्, समर्थो ऽपि च प्रमाद्यति ॥ ७.६१ ॥

तेषाम् अर्थे नियुञ्जीत शूरान् दक्षान् कुलोद्गतान् ।
शुचीन् आकरकर्मान्ते भीरून् अन्तर्निवेशने ॥ ७.६२ ॥

भारुचिः ...{Loading}...

तेषाम् अर्थे शुचयो ऽर्थस्यायव्यययोः स्थाप्याः । दृष्टकर्मतयाविषादिनः शूरा बलाध्यक्षा भीरवस् तु भोजनादौ नियोक्तव्याः । सर्वे चैते दक्षाः कर्याः, ते हि द्वन्द्वोपनिपातान् अपरिगणय्योत्थानशीलतया स्वामिनः कार्यकालं नातिपातयन्ति ॥ ७.६२ ॥

दूतं चैव प्रकुर्वीत सर्वशास्त्रविशारदम् ।
इङ्गिताकारचेष्टज्ञं शुचिं दक्षं कुलोद्गतम् ॥ ७.६३ ॥

भारुचिः ...{Loading}...

दूतो ऽमात्यगुणसंपदुपेतः कार्यः, सर्वशास्त्रविशारदोपदेशात् । इमाश् चेङ्गिताकारचेष्टा दूतेनावश्यं वेदितव्याः । परविषये राज्ञः । तत्र संधित्सत इमानीङ्गितानि दूतस्यादरेण सम्प्[अरिग्रहः, विश्वसनम्, मुहुः संपूजनम्, तद्वाक्यस्य चानसूयाभिनन्दनम् । एतान्य् एव विपर्यस्तानि विजिघृक्षतः । आकारः खलु शरीरगतः, म्लानमुखता वर्णविपर्ययः । तूष्णींभावो दीर्घोष्णनिश्वासादिः शरीरविकारो दैन्यं सूचयति । प्रसन्नमुखता वाक्यवैशारद्यं शरीरसंस्कार इत्य् एवमादि हर्षम् सूचयति । चेष्टासु कर्मस्व् अनभ्युत्थानं दैन्यम् आविष्करोति कार्यव्यापद्विषादानुगतम्, अभ्युत्थानं पुनर् हर्षं विपर्यये । शुचित्वम् अस्य दूतस्य स्त्रीगते ऽर्थगते [च] । स च विशेषेणोपदिश्यते । स्त्रीसंबन्धे मन्त्रभेदः परिभवश् चार्थग्रहणे कार्यहानिः । कुलोद्गतप्रयोजनम् उक्तम् ॥ ७.६३ ॥

कस्य पुनर् हेतोर् आदरेण दूतलक्षणम् इदं कथ्यते, यस्मात् ।

अनुरक्तः शुचिर् दक्षः स्मृतिमान् देशकालवित् ।
वपुष्मान् वीतभीर् वाग्मी दूतो राज्ञः प्रशस्यते ॥ ७.६४ ॥

भारुचिः ...{Loading}...

अनुरक्तो ऽहार्यो भवति । शुचिर् अर्थे स्त्रीषु चाभेद्यो भवति । दक्षो देशकालौ नातिक्रामति । स्मृतिमान् स्वामिसंदेशम् अपरिमुषितस्मृतिप्रसङ्गेन कथयति । देशकालवित् सर्वत्र कार्यसाधकः । वपुष्मान् अनाधृष्यो भवति, प्रियदर्शनत्वाच् च ग्राह्यवाक् । वीतभीः स्वामिसंदेशं परुषम् अप्य् अवितथम् आचष्टे । पौनः पुन्येन । वाग्मी संदेशस्योत्तरप्रतिवचनसमर्थो भवति । किमर्थम् अयं दूतलक्षणादरोपदेश एवं क्रियते ॥ ७.६४ ॥

अमात्ये दण्ड आयत्तो दण्डे वैनयिकी क्रिया ।
नृपतौ कोशराष्ट्रे तु दूते संधिविपर्ययौ ॥ ७.६५ ॥

भारुचिः ...{Loading}...

यथा बलाधिकृते हस्त्यश्वादिबलम् आ[यत्तम् । । । राजसमुद्यमेन राष्ट्रम् अ]भिप्रायेण वर्धते, तद् उपेक्षया च क्षीयते । एवं दूते संधिविग्रहाव् आयत्ताव् इत् भूतार्थसंबन्धेनैषा दूतस्तुतिः । यतश् चैतद् एव मतम् ॥ ७.६५ ॥

दूत एव [हि संधत्ते भिनत्त्य् एव च संहतान् ।
दूतस् तत् कुरुते] कर्म येन भिद्येत मानवाः ॥ ७.६६ ॥

भारुचिः ...{Loading}...

मन्त्रस्य हि भेदेन संवरणेन चेदम् उभयं करोतीत्य् उच्यत इति ॥ ७.६६ ॥

स विद्याद् अस्य कृत्येषु निगूढेङ्गितचेष्टितैः ।
[आकारम् इङ्गित्]तं चेष्टां भृत्येषु च राजशत्रुषु ॥ ७.६७ ॥
बुद्ध्वा च सर्वं तत्त्वेन परराजचिकीर्षितम् ।

साध्वसाधु वा सभृत्यवर्गस्य

तथा प्रयत्नम् आतिष्ठेद् यथात्मानं न पीडयेत् ॥ ७.६८ ॥

भारुचिः ...{Loading}...

स्वामिनो ऽपीडया संधिविग्रहादि प्रतिपत्तव्यं दूतेन । तथा राजधानीम् अनुज्ञातः प्रविशेत् । आटविकान्तपालैः सह संदध्यात् । युद्धोपरोधभूमिम् अवेक्षेत । दुर्गराष्ट्रप्रमाणं सारं चोपलेभेत । प्राणाबाधे ऽपि च शासनं यथोक्तं ब्रूयात् । पूजया नोत्सिक्तः स्यात् । वाक्यम् अनिष्टं सहेत । पानं वर्जयेत् । कृत्यप्क्षान् उपजपेत् । अनुरागापरागौ च यातव्यप्रकृतीनां विद्यात् । स्वबलपरिमाणं च नाचक्षीत, केनचिद् अज्ञानविक्षेपादिना व्याजेन । यच् चान्यद् अपि यातव्यारम्भसहकारि तत् सर्वं बन्धुरत्नापहरणं चारज्ञानादि चानुतिष्ठेत् ॥ ७.६८ ॥

जाङ्गलं सस्यसंपन्नम् आर्यप्रायम् अनाविलम् ।
रम्यम् आनतसामन्तं स्वाजीव्यं देशम् आवसेत् ॥ ७.६९ ॥

भारुचिः ...{Loading}...

जाङ्ल्गलं नानाविधधान्यमूलफलपुष्पतृणेन्धनहेतुम् । सस्यसंपन्नं दुर्भिक्षरहितम् । आर्यप्रायं ब्राह्मणभूयिष्ठं धर्मादिपरिपालननिमित्तम् । अनाविलं श्वापदसरीसृपतस्करदंशमशकादिभिर् अनाकुलम् । रम्यं सर्वर्तुकुसुमसमृद्धपादपोद्यानादिभिः । आनतसामन्तं प्रह्वीभूतविनतसामन्तम् । स्वाजीव्यं प्रसन्नसलिलजलाशयम् अतिविशंकटगृहप्रासादमालिनम् । एभिश् च जाङ्गलादिभिर् अन्यैश् च देशगुणैः संपन्नं देशम् आवसेत् ॥ ७.६९ ॥

धन्वदुर्गं महीदुर्गम् अब्दुर्गं वार्क्षम् एव वा ।
नृदुर्गं गिरिदुर्गं वा समाश्रित्यावसेत् पुरम् ॥ ७.७० ॥

भारुचिः ...{Loading}...

प्राकारेण वेष्टितं विष्कम्भद्विगुणोत्सेधेनैष्टिकेन शैलेन वा द्वादशहस्त्[आद् ऊर्ध्वम् उ]च्छ्रितेन तालमूलेन कपिशीर्षचिताग्रेण । । । दृढवप्रेण परिष्कृतं महीदुर्गम् । अगाधेनानास्रावणीयेन चोदकेन परिवेष्टितम् अब्दुर्गम् । समन्ततो ऽर्धयोजनमात्रं घनमहावृक्षचितं वार्क्षदुर्गम् । चतुरङ्गबलाधिष्ठितं प्रवरायुधीयपुरुषप्रायं नृदुर्गम् । गिरिपृष्टं दुरारोहम् एकमार्गानुगतम् [अन्तर्]नदीप्रस्रवणोदमं गिरिदुर्गम् ॥ ७.७० ॥

सर्वेण तु प्रयत्नेन गिरिदुर्गं समाश्रयेत् ।
एषां हि बाहुगुण्येन गिरिदुर्गं विशिष्यते ॥ ७.७१ ॥

भारुचिः ...{Loading}...

एषां दुर्गाणाम् अनाधृष्यतमत्वाद् गिरिदुर्गं श्रेष्ठम् ॥ ७.७१ ॥

त्रीण्याद्यान्य् आश्रितास् त्व् एषां मृगगर्ताश्रयाप्चराः ।
त्रीण्य् उत्तराणि क्रमशः प्लवङ्गमनरामराः ॥ ७.७२ ॥
यथा दुर्गाश्रितान् एतान् नोपहिंसन्ति शत्रवः ।
तथारयो न हिंसन्ति नृपं दुर्गसमाश्रयम् ॥ ७.७३ ॥

भारुचिः ...{Loading}...

दृष्टानत्श्लोकाव् आदरप्रतिपत्त्यर्थौ ॥ ७.७२–७३ ॥

एकः शतं योधयति प्राकारस्थो धनुर्धरः ।
शतं दशसहस्राणि तस्माद् दुर्गं विधीयते ॥ ७.७४ ॥

भारुचिः ...{Loading}...

प्रत्यक्षफलत्वं महीदुर्गस्य दर्शयति । एवं च तस्मिन् तस्मिन् दुर्गे गुणो वेदितव्यः ॥ ७.७४ ॥

तत् स्याद् आयुधसंपन्नं धनधान्येन वाहनैः ।
ब्राःमणैः शिल्पिभिर् यन्त्रैर् यवसेनोदकेन च ॥ ७.७५ ॥

भारुचिः ...{Loading}...

दुर्गोपरोधकालप्रयोजनवतां प्रदर्शनार्थः श्लोकः । एवं च सत्य् अन्यद् अपि यत् कालप्रयोजनं वधशल्यविषवैद्यमौहूर्तिकादि तद् अपि ग्राह्यम् ॥ ७.७५ ॥

तस्य मध्ये सुपर्याप्तं कारयेद् गृहम् आत्मनः ।
गुप्तं सर्वर्तुकं शुभ्रं जलवृक्षसमन्वितम् ॥ ७.७६ ॥

भारुचिः ...{Loading}...

आत्मतन्त्रानुरूपम् असंबाधं यथर्तुस्थानं सुरुङ्गादियुक्तं च गृहं कारयेत् ॥ ७.७६ ॥

तद् अध्यास्योद्वहेद् भार्यां सवर्णां लक्षणान्विताम् ।
कुले महति संभूतां हृद्यां रूपगुणान्विताम् ॥ ७.७७ ॥

भारुचिः ...{Loading}...

राज्यतन्त्रसहायार्थं महतः कुलाद् इत्य् एतत्संबन्धेन सवर्णादीनाम् उक्तानाम् अनुवादः ॥ ७.७७ ॥

पुरोहितं च कुर्वीत वृणुयाद् एव चर्त्विजः ।
ते ऽस्य गृह्याणि कर्माणि कुर्युर् वैतानिकानि च ॥ ७.७८ ॥

भारुचिः ...{Loading}...

अमात्यगुणैर् ब्राह्मणगुणैश् च युक्तः पुरो[हितः स्]यात् । ऋत्विजस् तु ब्राह्मणगुणयुक्ता एव ॥ ७.७८ ॥

यजेत राजा क्रतुभिर् विविधैर् आप्तदक्षिणैः ।
धर्मार्थं चैव विप्रेभ्यो दद्याद् भोगान् धनानि च ॥ ७.७९ ॥

भारुचिः ...{Loading}...

इमे अधिके यागदाने राज्ञो विधीयेते । नित्यवद् एवानयोर् अप्य् अकरणे प्रत्यवाय एव ॥ ७.७९ ॥

सांवत्सरिकम् आप्तैश् च राष्ट्राद् आहारयेद् बलिम् ।
स्याच् चाम्नायपरो लोके वर्तेत पितृवन् नृषु ॥ ७.८० ॥

भारुचिः ...{Loading}...

यथोक्तेभ्य आयस्थानेभ्य आम्नायप्रामाण्येन षष्ठाष्टमभागग्रहणादिना बलिम् आहारयेत् । [करदेष्व् अन्येषु च पितृवत्] स्यात् ।

अध्यक्षान् विविधान् कुर्यात् तत्र तत्र विपश्चितः ।
ते ऽस्य सर्वाण्य् अवेक्षेरन् नॄणां कार्याणि कुर्वताम् ॥ ७.८१ ॥

भारुचिः ...{Loading}...

सुवर्णकोष्ठागारप्ण्यकुप्यायुधतुलाशुल्कनौहस्त्यश्वरथपदात्य्अध्यक्षादीन् विविधान् विपश्चितः स्थापयेत् । सर्व एते अमात्यगुणसंपद्युक्ता विज्ञेयाः ॥ ७.८१ ॥

आवृत्तानां गुरुकुलाद् विप्राणां पूजको भवेत् ।
नृपाणाम् अक्षयो ह्य् एष निधिर् ब्राह्मो विधीयते ॥ ७.८२ ॥

भारुचिः ...{Loading}...

इदम् अपि स्नातकेभ्यो नियमदानं राज्ञो विधीयते । एतेभ्यो ऽपि ह्य् अददतः प्रत्यवायः । तथा चोक्तम् “अदित्संस् त्यागम् अर्हति” (म्ध् १०.११३) इति ॥ ७.८२ ॥

न तं स्तेना न चामित्रा हरन्ति न च नश्यति ।
तस्माद् राज्ञा निधातव्यो ब्राह्मणेष्व् अक्षयो निधिः ॥ ७.८३ ॥

भारुचिः ...{Loading}...

यथा स्तेना आटविका अमित्रा नृपद्रव्यापहारिणः न तथा ब्राह्मणादिभ्यो हिरण्यादिदानेन निधेः कुतश्चिद् विनाश इत्य् अर्थवादो ऽयं नियतदानस्तुत्यर्थः ॥ ७.८४ ॥

अयं चान्यः ।

न स्कन्दते न व्यथते न च नश्य्ति कर्हिचित् ।
वरिष्ठम् अग्निहोत्रेभ्यो ब्राह्मणस्य मुखे हुतम् ॥ ७.८४ ॥

भारुचिः ...{Loading}...

यथा स्कन्ना आहुतिर् दोषाय पात्रभेदाच् च व्यथिता, अविज्ञातदेवता च यथा यथानश्यति । तथा च ब्राह्मणम् “अर्धा ह वा एषाहुतिर् या देवताम् अविज्ञाय हुता” । एवं च सति या आहुतेर् दोषत्रयेण निन्दा सा प्रकृतब्राह्मणदानस्तुत्यर्था । तथा चोक्तम् “वरिष्ठम् अग्निहोत्रेभ्यः” इति । अग्निहोत्रेभ्यो ऽग्निहोत्रादिभ्य इत्य् अर्थः । सर्वं नित्यकर्मोपसंग्रहार्थम् एतद् एवं विज्ञेयम् । मुखग्रहणाच् चान्नदानम् इति केचिद् आहुः । तद् अयुक्तम् । “पाण्यास्यो हि द्विजः स्मृतः” (म्ध् ४.११७) इति वचनात्, सर्वप्रतिग्रहविषयम् एतद् विज्ञेयम् ॥ ७.८४ ॥

इदं चान्यत् ।

समम् अब्राःमणे दानं द्विगुणं ब्राह्मणब्रुवे ।
सहस्रगुणम् आचार्ये त्व् अनन्तं वेदपारगे ॥ ७.८५ ॥

भारुचिः ...{Loading}...

इतश् चैतेभ्यो देयम् । गुणवत्स्नातकब्राह्मणनियमदानस्तुतिप्रकरणाद् अब्राह्मणादिग्रहणम् इदं विद्वद्दानप्रशंसार्थं वेदितव्यम् । कथं कृत्वा । अब्राह्मणब्राह्मणब्रुवोर् नोपपद्यते । उक्तं च-

> वेदविद्याव्रतस्नाताञ् श्रोत्रियान् गृहम् आगतान् ।
> पूजयेद् धव्यकव्याभ्यां विपरीतांस् तु वर्जयेत् ॥ इति । (म्ध् ८.६३)

न चायं फलविधिः, फलविधौ हि काम्यदानस्य स्याद् । एवं च यथोक्तार्थसामर्थ्यान् नायं फलविधिः कल्पोपदेशार्थः श्लोकः । अन्यथा हि प्रकरणम् उपरुध्येतेति । अथ वा यथोक्ते दीनानातनिमित्ते अब्राह्मणादिदाने पात्रविशेषात् फलविशेषप्रदर्शनार्थः स्याद् अयं राज्ञां विशेषधर्मः । यत्कारणं न ह्य् अकस्मात् प्रशंसा स्याद् इति ॥ ७.८५ ॥

तथा चोत्तरश्लोकः।

पात्रस्य हि विशेषेण श्रद्दधानतयैव च ।
अल्पं वा बहु वा प्रेत्य दानस्यावाप्यते फलम् ॥ ७.८६ ॥

भारुचिः ...{Loading}...

एवं च सति यथा पात्रविशेषात् फलविशेषः, एवं दाने समानेभ्यो ऽपि ब्राह्मणेभ्य इति पात्रविशेषापवादो ऽयं विज्ञेयः । पूर्वश्लोकार्थस्य तु द्वितीयस्येदम् अधुना विवरणं क्रियते । न च देयद्रव्यस्य फलेन जातितः साम्यम्, न च परिमाणतो युज्यते, शाश्त्रविरोधान् न्यायविरोधाच् च । कथं तर्हि इदं समं व्याकरणीयम् । लोकप्रसिद्ध्या नोत्कृष्टं न च निकृष्टम् । यत् तत्समं तथा च लोकप्रसिद्धमेवावधिं कृत्वा द्वैगुण्यादयो वक्तव्याः । अन्ये तु मन्यन्ते न देयद्रव्यस्य समं फलं घटते । तस्माद् दातृगतं साम्यं प्रत्येतव्यम् । अब्राह्मणाय दत्वा भिक्षाद्य् अपि मानुषशरीरेणैव तद्दानोपफलोपभोगं प्राप्नोति, नोत्कृष्टपात्रदानात् । तद् एतद् विचारणीयम् । अब्राह्मणौ च क्षत्रियवैश्यौ । तथा च गौतमीये भिक्षादानप्रकरण एतद् उक्तम् । ब्राह्मणवर्णाद् अनन्तरौ च तौ । प्रयोगश् च “अब्राह्मणाद् विद्योपयोगः” (ग्ध् ७.१) इति । न च शूद्राद् अब्राह्मणाद् विद्योपयोगः । अर्थलोभाच् छास्त्रप्रतिषेधाच् च । ब्राह्मणजाते । । । नितेनेति । क्षत्रियवैश्ययोस् तु ब्रह्मचआरिणोर् इष्यत एव भैक्षादिप्रतिग्रहोपदेशसामर्थ्याद् एवं चाब्राह्मणशब्देन ताव् अपि युक्त[तरं विज्ञेयौ] ॥ ७.८६ ॥

समोत्तमाधमै राजा त्व् आहूतः पालयन् प्रजाः ।
न निवर्तेत संग्रामात् क्षत्रधर्मम् अनुस्मरन् ॥ ७.८७ ॥

भारुचिः ...{Loading}...

आहूतस्य [येन] केनापि संग्रामाद् अनिवृत्तिः स्यात्, यत्कारणम् एष हि राज्ञां विशिष्टो धर्मः ॥ ७.८७ ॥

यत्

संग्रामेष्व् अनिवर्तित्वं प्रजानां चैव पालनम् ।
शुश्रूषा ब्राह्मणानां च राज्ञां श्रेयस्करं परम् ॥ ७.८८ ॥

भारुचिः ...{Loading}...

यथा प्रजापालनब्राह्मणशुश्रूषणे राज्ञां विशिष्टो धर्म, एवं संग्रामेष्व् अनिवर्तित्वम् इत्य् अनिवृत्तिस्तुतिः ॥ ७.८८ ॥

तथा चाह ।

आहवेषु मिथो ऽन्योन्यं जिघांसन्तो महीक्षितः ।
युध्यमानाः परं शक्त्या स्वर्गं यान्त्य् अपराङ्मुखाः ॥ ७.८९ ॥

भारुचिः ...{Loading}...

अतश् च संग्रामाद् अनिवर्तित्वं राज्ञां विशेषधर्मः । तस्य च युध्यतो नियमः शिष्यते च ॥ ७.८९ ॥

न कूटैर् आयुधैर् हन्याद् युध्यमानो रणे रिपून् ।
न कर्णिभिर् नापि दग्धैर् नाग्निज्वलिततेजनैः ॥ ७.९० ॥
न च हन्यात् स्थलारूढं न क्लीबं न कृताञ्जलिम् ।
न मुक्तकेशं नासीनं न तवास्मीति वादिनम् ॥ ७.९१ ॥
न सुप्तं न विसन्नाहं न नग्नं न निरायुधम् ।
नायुध्यमानं पश्यन्तं न परेण समागतम् ॥ ७.९२ ॥
नायुधव्यसनप्राप्तं नार्तं नातिपरीक्षितम् ।
न भीतं न परावृत्तं सतां धर्मम् अनुस्मरन् ॥ ७.९३ ॥

भारुचिः ...{Loading}...

संग्रामनियमविधिर् अयम्, तेषां हतिप्रत्यवायार्थम् ॥ ७.९०–९३ ॥

यस् तु भीतः परावृत्तः संग्रामे हन्यते परैः ।
भर्तुर् यद् दुष्कृतं किंचित् तत् सर्वं प्रतिपद्यते ॥ ७.९४ ॥
यच् चास्य सुकृतं किंचिद् अमुत्रार्थम् उपार्जितम् ।
भर्ता तत् सर्वम् आदत्ते परावृत्तहतस्य तु ॥ ७.९५ ॥

भारुचिः ...{Loading}...

राज्ञो ऽन्यस्यापि दण्डपुरुषस्य परावृत्तस्य् निन्दा श्लोकद्वयेनोक्ता, युक्ता च तन्निन्दा । यदर्थम् असौ ह्रियते तद् अकुर्वन् प्रत्यवेत्य् एव ॥ ७.९४–९५ ॥

रथाश्वं हस्तिनं छत्रं धनधान्यं पशून् स्त्रियः ।
सर्वद्रव्याणि कुप्यं च यो यं जयति तस्य तत् ॥ ७.९६ ॥

भारुचिः ...{Loading}...

स्वामित्वाद् राजग्रहणनिवृत्त्यर्थो नियमः ॥ ७.९६ ॥

राज्ञस् तु दद्याद् उद्धारम् इत्य् एषा वैदिकी श्रुतिः ।
राज्ञा च सर्वयोधेभ्यो दातव्यम् अपृथग्जितम् ॥ ७.९७ ॥

भारुचिः ...{Loading}...

उद्धारोपरिष्ठद्रव्यं सर्वयोधेभ्यो राज्ञा आदेयम् । वैदिकी श्रुतिर् “महेन्द्रम् उद्धारम् उदहरत् वृत्रं हत्वा” इत्यादि । अपृथग्जितं समूहजितं यत्, ततः सर्वयोधेभ्यो युद्धव्यायामक्लेशानुरूपं देयम् ॥ ७.९७ ॥

एषो ऽनुपस्कृतः प्रोक्तो यौधधर्मः सनातनः ।
अस्माद् धर्मान् न च्यवेत क्षत्रियो घ्नन् रणे रिपून् ॥ ७.९८ ॥

भारुचिः ...{Loading}...

अनुपस्कृतः अकृतः स्वभावसिद्धगुण इत्य् अर्थः । विगुणम् उपस्क्रियते गुणाधानार्थम् । उपसंहारार्थश्लोकः ॥ ७.९८ ॥

अलब्धं चैव लिप्सेत लब्धं रक्षेच् च यत्नतः ।
रक्षितं वर्धयेच् चैनं वृद्धं पात्रेषु निक्षिपेत् ॥ ७.९९ ॥

भारुचिः ...{Loading}...

[लिप्सेता]लिप्समानः संतुष्टः सन् राजा सपत्नैर् महद्भिर् दायादैर् वर्धमानैर् उच्छिद्येताल्पतन्त्रत्वाद्, अर्जितं चारक्षन् केवलेनार्जितक्लेशेन फलरहितेन संक्षिप्यते, रक्षितं च सम्यग् अवर्धयन् क्षीयते । तदुपयुञ्जानो ऽन्यस्याभावात् तदार्जितं रक्षितं वर्धितं च यन् महता यत्नत्रयेण तदप्रयच्छन् पात्रेभ्यः परलोकाद् धीयते । निष्का[मतयास्यैव यत्न]त्रयसाध्यं क्लेशत्रयम् आपद्यते ॥ ७.९९ ॥

एतच् चतुर्विधं विद्यात् पुरुषार्थप्रयोजनम् ।
अस्य नित्यम् अनुष्ठानं सम्यक् कुर्याद् अतन्द्रितः ॥ ७.१००॥
अलब्धम् इच्छेद् दण्डेन लब्धं रक्षेद् अविक्षया ।
रक्षितं वर्धयेद् वृद्ध्या वृद्धं पात्रेषु निक्षिपेत् ॥ ७.१०१ ॥

भारुचिः ...{Loading}...

अत्र वृद्ध्यर्थम् उपायो वृद्धिशब्देनोच्यते, प्रकरणसामर्थ्यात् । **[चतुर्विध]निर्देशः ** दानेन पात्रेषु निक्षिपेत् । [चतुर्विध]निर्देशः पुरुषार्थसिद्धये राज्ञः ॥ ७.१००–०१ ॥

यत एतद् एवम्, अतः ।

नित्यम् उद्यतदण्डः स्यान् नित्यं विवृतपौरुषः ।
नित्यं संवृतसंचारो नित्यं छिद्रानुसार्य् अरेः ॥ ७.१०२ ॥

भारुचिः ...{Loading}...

हस्त्यादिबलं योग्यादिभिर् नित्यम् अभिविनयेत्, शस्त्रावरणे च संस्कुर्यात् । सततम् एवम् अस्योद्यत्दण्डता राजमण्डले प्रकाशीभवति । संधिपालाटवीस्थानादिषु चाप्तपुरुषोपगृहीतैः संनद्धैः कवचिभिः सततं जागरितव्यम् । एवम् अस्य विवृतपौरुषताविर्भवति । कृत्यपक्षस्य च रक्षणोपग्रहाभ्यां [संवृतसंचारो] बवत् । परकृत्यदूषणेन चरिछिद्रानुसारी स्यात् ॥ ७.१०२ ॥

नित्यम् उद्यतदण्डस्य कृत्स्नम् उद्विजते जगत् ।
तस्मात् सर्वाणि भूतानि दण्डेनैव प्रसाधयेत् ॥ ७.१०३ ॥

भारुचिः ...{Loading}...

उद्यतदण्डस्यायत्नेनैव शत्रूप[नतिर् भवति] ॥ ७.१०३ ॥

अमाययैव वर्तेत न कथंचन मायया ।
बुद्ध्येतारिप्रयुक्तां तु मायां नित्यं सुसंवृतः ॥ ७.१०४ ॥

भारुचिः ...{Loading}...

क्रुद्धलुब्धभीतमानिनाम् अन्यराजप्रकृतीनाम् उपजापं पूर्वं न कुर्यात् । आत्मीय्[अविषये परविषये च प्रवृत्त]धर्मस्य धार्मिकत्वात् सर्वं प्रत्य् अनुरागः सुलभः । तत्र विप्रलब्धस् तुल्यकारिणः शिल्पे चोपकारे च विमानितो वल्लभावरुद्धः प्रवासितबन्धुः म्[इथ्याचारवारि]तः सकुल्यैर् अन्तर्हितः सर्वस्वम् आहारित इत्य् एवमादिः क्रुद्धवर्गः । पापकर्मा तुल्यदोषदण्दोद्विग्नो ऽनन्तरभूमिर् दण्डोपनतः सर्वाधिकरणस्थः सहसोपचितार्थ इत्य् एवमादिर् भ्नास्य छिद्रं ईतवर्गः । [परिक्षीनः] कदर्यो व्यसनीत्य् एवमादिर् लुब्धवर्गः । आत्मसंभावितः शत्रुपूजामर्षितो नीचैर् उपहतस् तीक्ष्णः साहसिको भोगेनासन्तुष्ट इत्य् एवमादिर् मानिवर्गः । एतान् परस्यात्मनश् च बुद्ध्वा संरक्षेद् उपजपेच् च ॥ ७.१०४ ॥

नास्य छिद्रं परो विद्याद् विद्याच् छिद्रं परस्य तु ।
गूहेत् कूर्म इवाङ्गानि रक्षेद् विवरम् आत्मनः ॥ ७.१०५ ॥

भारुचिः ...{Loading}...

अभियोगातिशयेन स्वछिद्रगूहनं परछिद्रदर्शनं च शक्यते कर्तुम् । तच् च स्वविषये गूढपुरुषाणां कापटिकादीनां संचारेण विजानीयात् परविषये चेति ॥ ७.१०५ ॥

बकवच् चिन्तयेद् अर्थान् शशवच् च विनिष्पतेत् ।
वृकवच् चावलुम्पेत सिंहवच् च पराक्रमेत् ॥ ७.१०६ ॥

भारुचिः ...{Loading}...

यथा अप्दुर्गाश्रयं मत्स्यबलं स्वभावतस् तद्ग्रहणार्थं बकः पर्युपासनया तद्ग्रहणोपायं ध्यानयोगाद् आसादयति, एवम् अर्थचिन्ताभियोगातिशयेन सुदुष्प्रापा अप्य् अर्था आसाद्यन्त इति मत्वा न निर्वेदं गच्छेत् । यथा शशो ऽल्पकायत्वाच् छक्नोति विनिष्पतितुम् अरिगङ्घाद् अपि, तथैको ऽप्य् असहायः सर्वतः समुत्थितसामन्तप्रकोपो ऽशक्तो ऽवस्थातुम्, दुर्गपरिसंग्रहं कृत्वा तस्मान् निष्पतेत् गुणवतिसंश्रयार्थी । यथा च वृकः पशुग्रहणाभियोगात् पालप्रमादम् आसाद्यावलुंपते, एवं स्वारक्षापर इत् कृत्वा तद्ग्रहणाभ्हियोगो न मोक्तव्यो, भविष्यति स कालः, यत्रायं वृकवद् अललुम्पिष्यते । यथा च सिंहो महाकायान् अपि हत्यादीन् पराक्रम्योत्साहशक्त्यायोगाद् धन्ति, एवं महद् अरिबलम् इति कृत्वा न भेत्तव्यम् । महद् अप्य् अल्पप्राणम् अल्पेन महाप्राणेन हन्यत इति ॥ ७.१०६ ॥

एवं विजयमानस्य ये ऽस्य स्युः परिपन्थिनः ।
तान् आनयेद् वशं सर्वान् सामादिभिर् उपक्रमैः ॥ ७.१०७ ॥

भारुचिः ...{Loading}...

एवं विजये स्थितस्य राज्ञो ये प्रतापेन नोपनमेरन् तान् पश्चात् सामादिभिर् वशीकुर्यात् ॥ ७.१०७ ॥

यदि ते तु न तिष्ठेयुर् उपायैः प्रथमैश् त्रिभिः ।
दण्डेन तु प्रसह्यैतांश् छनकैर् वशम् आनयेत् ॥ ७.१०८ ॥

भारुचिः ...{Loading}...

सामाध्युपायत्रयपरिक्षये दण्डस्य प्रयोगनियमः ॥ ७.१०८ ॥

सामादीनाम् उपायानां चतुर्णाम् अपि पण्डिताः ।
सामदण्डौ प्रशंसन्ति नित्यं राष्ट्राभिवृद्धये ॥ ७.१०९ ॥

भारुचिः ...{Loading}...

सामप्रयोगे क्षयव्ययायासा न भवन्ति, दण्डे तु सर्वसिद्धिर् एव तत्प्रतापाद्, अतस् ताव् अत्र प्रशस्तौ ॥ ७.११० ॥

अस्य दृष्टान्तः ।

यथा हन्ति च निर्दाता कक्षं धान्यं च रक्षति ।
तथा रक्षेन् नृपो राष्ट्रं हन्याच् च परिपन्थिनः ॥ ७.११० ॥
मोहाद् राजा च राष्ट्रं यः कर्शयत्य् अनपक्षया ।
सो ऽचिराद् भ्रश्यते राष्ट्राज् जीविताच् च सबान्धवः ॥ ७.१११ ॥।
शरीरकर्शनात् प्राणाः क्षीयन्ते प्राणिनां यथा ।
तथा राज्ञाम् अपि प्राणाः क्षीयन्ते राष्ट्रकर्शनात् ॥ ७ ११२ ॥

राष्ट्रं हि तस्य शरीरम् इति । यतश् चैतद् एवम् अतस् तद्दोषपर्युदासाय ॥ ७.११०१२ ॥

राष्ट्रस्य संग्रहे नित्यं विधानम् इदम् आचरेत् ।
सुसंगृहीतराष्ट्रो हि पार्थिवः सुखम् एधते ॥ ७.११३ ॥
द्वयोस् त्रयाणां पञ्चानां मध्ये गुल्मम् अधिष्ठितम् ।
तथा ग्रामशतानां च कुर्याद् राष्ट्रस्य गुप्तये ॥ ७.११४ ॥

भारुचिः ...{Loading}...

राजभाव्यसंग्रहार्थं रक्षार्थं च ॥ ७.११३–१४ ॥

ग्रामस्याधिपतिं कुर्याद् दशग्रामपतिं तथा ।
विंशतीशं शतेशं च सहस्रपतिम् एव च ॥ ७.११५ ॥
ग्रामे दोषान् स्मुत्पन्नान् ग्रामिकः शनकैः स्वयम् ।
शंसेद् ग्रामदशेशाय दशेशो विंशतीशिने ॥ ७.११६ ॥
विंशतीशस् तु तत्सर्वं शतेशाय निवेदयेत् ।
शंसेद् ग्रामशतेशस् तु सहस्रपतये स्वयम् ॥ ७.११७ ॥

भारुचिः ...{Loading}...

आसन्नकार्यज्ञापनार्थं ग्रामादिष्व् अधिपतिक्रियास् त्रिभिः श्लोकैः ॥ ७.११५–१७ ॥

यानि राज्ञः प्रदेयानि [प्रत्यहं ग्रामवासिभिः ।
अन्नपानेद्न्धनादी]नि ग्रामिकस् तान्य् अवाप्नुयात् ॥ ७.११८ ॥
दशी कुलं तु भुञ्जीत विंशी पञ्चकुलानि तु ।
ग्रामं ग्रामशताध्यक्षः सहस्राधिपतिः पुरम् ॥ ७.११९ ॥

भारुचिः ...{Loading}...

अधिपतीनाम् इयं वृत्तिकल्पना श्लोक[द्वयेन] ॥ ७.११८–१९ ॥

तेषां ग्राम्यानि कार्याणि पृथक्कार्याणि चैव ह ।
राज्ञो ऽन्यः सचिवः स्निग्धस् तानि पश्येद् अतन्द्रितः ॥ ७.१२० ॥

भारुचिः ...{Loading}...

अधिपतीनां कर्ता कृतितस् तत्कृताकृतम् अनुपश्येत् ॥ ७.१२० ॥

नगरे नगरे [चैकं कुर्यात् सर्वर्थचिन्तकम् ।
उच्चैः स्थानं] घोररूपं नक्षत्राणाम् इव ग्रहम् ॥ ७.१२१ ॥

भारुचिः ...{Loading}...

हस्त्यश्वादि[बल]संपन्नं प्रतिनगरं नागरिकं स्थापयेत् ॥ ७.१२१ ॥

स तान् अनुपरिक्रामेत् सर्वान् एव सदा स्वयम् ।
तेषां वृत्तं परिणयेत् [सम्यग् राष्ट्रेषु तच्चरैः] ॥ ७.१२२ ॥

भारुचिः ...{Loading}...

अयम् अधिपतीन् सदा परिक्रामेत् परिरक्षणाय, तेषां च वृत्तं राज[चरैः] कापटिकादिभ्या आगमयेत् ॥ ७.१२२ ॥

यत्कारणम् ।

राज्ञो हि रक्षाधिकृताः परस्वादायिनः शठाः ।
भृत्या भवन्ति प्रायेण तेभ्यो रक्षेद् इमाः प्रजाः ॥ ७.१२३ ॥

भारुचिः ...{Loading}...

शुचयो ऽप्य् अधिकृता भक्षयन्ति वित्तानीत्य् अर्थत्वान् मनुष्याणाम् । अतो न शुच्यनुमानोपेक्षणीयास् त इति ॥ ७.१२३ ॥

ये कार्यकेभ्यो ऽर्थम् एव गृह्णीयुः पापचेतसः ।
तेषां सर्वस्वम् आदाय राजा कुर्यात् प्रवासनम् ॥ ७.१२४ ॥

भारुचिः ...{Loading}...

ज्ञातव्यतिक्रमाणां राजाधिकृतानां सर्वस्वादानप्रवासने कारेयेत्, जनपदरक्षार्थीत्य् अर्थः ॥ ७.१२४ ॥

राजकर्मसु युक्तानां स्त्रीणां प्रेष्यजनस्य च ।
प्रत्यहं कल्पयेद् वृत्तिं स्थानकर्मानुरूपतः ॥ ७.१२५ ॥

भारुचिः ...{Loading}...

वस्त्रसंस्काराद्युपलेपनभोजनादिलक्षणेत्य् अर्थः॥ ७.१२५ ॥

पणो देयो ऽवकृष्टस्य षड् उत्कृष्टस्य भक्तकम् ।
षण्मासिकस् तथाच्छादो धान्यं द्रोणश् च मासिकः ॥ ७.१२६ ॥

भारुचिः ...{Loading}...

भक्तपर्कॢप्तिः श्लोकद्वयेन । पणद्रोणयोः परिमाणं वक्ष्यति ॥ ७.१२६ ॥

क्रयविक्रयम् अध्वानं भक्ताञ् च सपरिव्ययम् ।
योगक्षेमं च संप्रेक्ष्य वणिजो दापयेत् करान् ॥ ७.१२७ ॥

भारुचिः ...{Loading}...

तस्येदं सामान्येन लक्षणम् ॥ ७.१२७ ॥

यथा फलेन युज्येत राजा कर्ता च कर्मणाम् ।
तथावेक्ष्य नृपो राष्ट्रे कल्पयेत् सततं करान् ॥ ७.१२८ ॥

भारुचिः ...{Loading}...

अस्य दृष्टान्तः ।

यथाल्पाल्पम् अदन्त्य् आद्यं वत्सवार्योकषट्पदाः ।
तथाल्पो ऽल्पो गृहीतव्यो राष्ट्राद् राज्ञाब्दिकः करः ॥ ७.१२९ ॥

भारुचिः ...{Loading}...

करादानविधिस्तुत्यर्थो दृष्टान्तश्लोकः ॥ ७.१२९ ॥

पञ्चाशद्भाग आदेयो राज्ञा पशुहिरण्ययोः ।
धान्यानाम् अष्टमो भागः षष्ठो द्वादश एव वा॥ ७.१३० ॥

भारुचिः ...{Loading}...

मूल्याधिकयोः पशुहिरण्ययोः पञ्चाशद्भागो ग्राह्यः । धान्यानां भागविशेषः सुकरापक्षया कल्प्यः ॥ ७.१३० ॥

आददीताथ षड्भागं द्रुमाणां मधुसर्पिषाम् ।
गन्धौषधिरसानां च पुष्पमूलफलस्य च ॥ ७.१३१ ॥
पत्रशाकतृणानां च चर्मणां वैणवस्य च ।
मृण्मयानां च भाण्डानां सर्वस्याश्ममयस्य च ॥ ७.१३२ ॥

भारुचिः ...{Loading}...

यथोक्तानां द्रुमादीनां लाभात् षड्भागादानम् ॥ ७.१३१–३२ ॥

म्रियमाणो ऽप्य् आददीत न राजा श्रोत्रियात् करम् ।
न च क्षुधास्य संसीदेच् छ्रोत्रियो विषये वसन् ॥ ७.१३३ ॥

भारुचिः ...{Loading}...

अस्य निन्दार्थवादः ॥ ७.१३३ ॥

यस्य राज्ञस् तु विषये (?) श्रोत्रियः सीदति क्षुधा।
तस्यापि तत् क्षुधा राष्ट्रम् अचिराद् एव सीदति ॥ ७.१३४ ॥
श्रुतवृत्ते विदित्वास्य वृत्तिं धर्म्यां प्रकल्पयेत् ।
संरक्षेत् सर्वतश् चैनं पिता पुत्रम् इवौरसम् ॥ ७.१३५ ॥
संरक्ष्यमाणो राज्ञा यं कुरुते धर्मम् अन्वहम् ।
तेनायुर् वर्धते राज्ञो द्रविणं राष्ट्रम् एव च ॥ ७.१३६ ॥

भारुचिः ...{Loading}...

श्रोत्रियस्याधिकक्षेमप्रयोजनार्थास् त्रयः श्लोकाः ॥ ७.१३४–३६ ॥

यत्किंचिद् अपि वर्षस्य दापयेत् करसंज्ञितम् ।
व्यवहारेण जीवन्तं राष्ट्रे राजा पृथग्जनम् ॥ ७.१३७ ॥

भारुचिः ...{Loading}...

ब्राह्मणाद् अन्यः पृथग्जनः । स्वल्पेनापि व्यवहारेण जीवन् दापयितव्यः करः ॥ ७.१३७ ॥

कारुकाञ् छिल्पिनश् चैव शूद्रांश् चात्मोपजीविनः ।
एकैकं कारयेत् कर्म मासे मासे महीपतिः ॥ ७.१३८ ॥

भारुचिः ...{Loading}...

ये शिल्पमात्रोपजीविनस् तान् मासानुमासिकम् एकैकम् अहः कर्म कारयेत्, आत्मोपजीविनश् च ॥ ७.१३८ ॥

नोच्छिन्द्याद् आत्मनो मूलं परेषां चातितृष्णया ।
उच्छिन्दन् ह्य् आत्मनो मूलम् आत्मानं तांश् च पीडयेत् ॥ ७.१३९ ॥

भारुचिः ...{Loading}...

तद् एव प्रतिषेधाद् आत्मनः परेषां च तन्त्रं नोच्छिन्द्यात् ॥ ७.१३९ ॥

तीक्षाअश् चैव मृदुश् चैव स्यात् कार्यं वीक्ष्य महीपतिः ।
तीक्ष्णश् चैव मृदुश् चैव राजा भवति संमतः ॥ ७.१४० ॥

भारुचिः ...{Loading}...

संसत एतद्राजवृत्तं नित्यम् अभ्यससीयं ॥ ७.१४० ॥

अमात्यमुख्यं धर्मज्ञं प्राज्ञं दान्तं कुलोद्गतम् ।
स्थापयेद् आसने तस्मिन् खिन्नः कार्येक्षणे नृपः ॥ ७.१४१ ॥

भारुचिः ...{Loading}...

कार्यदर्शने खिन्नः सर्वोत्कृष्टम् अमात्यं दर्शनस्थाने स्थापयेत् ॥ ७.१४१ ॥

एवं सर्वं विधायेदम् इतिकर्तव्यम् आत्मनः ।
उक्तश् चैवाप्रमत्तश् च परिरक्षेद् इमाः प्रजाः ॥ ७.१४२ ॥
विक्रोशन्त्यो यस्य राष्ट्राद् ध्रियन्ते दस्युभिः प्रजाः ।
संपश्यतः सभृत्यस्य मृतः स न स जीवति ॥ ७.१४३ ॥
क्षत्रियस्य परो धर्मः प्रजानाम् एव पालनम् ।
निर्दिष्टफलभोक्ता हि राजा धर्मेण युज्यते ॥ ७.१४४ ॥

भारुचिः ...{Loading}...

युक्तश् चैवाप्रमत्तश् चा[स्खलितबुद्धिर्] यस्य । प्रजारक्षणविध्यर्थवादार्थास् त्रयः श्लोकाः ॥ ७.१४२–४४ ॥

उत्थाय पश्चिमे यामे कृतशौचः समाहितः ।
हुत्वाग्नीन् ब्राह्मणान् अर्च्य प्रविशेत् तु सभां शुभाम् ॥ ७.१४५ ॥
तत्र स्थितः प्रजाः सर्वाः प्रतिनन्द्य वि[सर्जयेत् ।
विसृज्य च प्रजाः सर्वा मन्त्रयेत् सह मन्त्रिभिः ॥ ७.१४६ ॥

भारुचिः ...{Loading}...

मन्त्रि]भिः सह । नित्यवृत्तं राज्ञः श्लोकद्वयेनोच्यते ॥ ७.१४५–४६ ॥

गिरिपृष्टं समारुह्य प्रासादं वा रहोगतः ।
अरण्ये निःशलाके वा मन्त्रयेद् [अविभावितः॥ ७.१४७ ॥

भारुचिः ...{Loading}...

मन्त्र]पञ्चाङ्गं मन्त्र्येत् । तद् यथा कर्मणाम् आरम्भोपायः पुरुषद्रव्यसम्पद् देशकालविभागः विनिपातप्रतीकारः कार्यसिद्धिर् इति । तान् एकैकशः पृच्छेत् समस्तांश् च । हेतुभिः सर्वेषां मतिप्रविवेकं विद्यात् । अवाप्तार्थः कालं नातिपातयेन्, न च दीर्घमन्त्रः स्यात् । न च तेषां पक्षीयैर् मन्त्रं मन्त्रयेत् येषाम् अपकुर्यात् । गुप्तमन्त्रश् च स्यात् ॥ ७.१४७ ॥

येन ।

यस्य मन्त्रं न जानन्ति समागम्य पृथग्जनाः ।
स कृत्स्नां पृथिवीं भुङ्क्ते कोशहीनो ऽपि पार्थिवः ॥ ७.१४८ ॥

भारुचिः ...{Loading}...

एवं च सति संरक्षणार्थम् ।

जडान्धमूकबधिरांस् तैर्यग्योनान् वयोतिगान् ।
स्त्रीम्लेच्छव्याधितव्यङ्गान् मन्त्रे तु प्रतिषेधयेत् ॥ ७.१४९ ॥

भारुचिः ...{Loading}...

यस्मात् ।

भिन्दन्त्य् अवमता मन्त्रं तैर्यग्योनास् तथैव च ।
स्त्रियश् चैव विशेषेण तस्मात् तत्रादृतो भवेत् ॥ ७.१५० ॥
मध्यंदिने ऽर्धरात्रे वा विश्रान्तो विगतक्लमः ।
चिन्तयेद् धर्मकामार्थान् सार्धं तैर् एक एव वा ॥ ७.१५१ ॥

भारुचिः ...{Loading}...

धर्मार्थकामानां वृद्धिं चिन्तयेत् । परस्परविरोधिनां राज्ञाम् अन्यतमविवृद्धौ तेषाम् उच्छित्तिर् जायते ॥ ७.१५०–५१ ॥

परस्परविरुद्धानां तेषां च समुपार्जनम् ।
कन्यानां सम्प्रदानं च कुमाराणां च रक्षणम् ॥ ७.१५२ ॥

भारुचिः ...{Loading}...

मन्त्रिणां धर्मार्थकामानां वा, परस्परविरोधे तेषां बलाबलव्यपेक्षा । कन्यानां संप्रदानं स्वकार्यसिद्धिवशेन चिन्त्यम् । कुमाराणां रक्षणम्, तव वयम् इत्य् एवं वादिभिः सत्त्रिभिः दर्मम् अर्थं च ग्राहयितव्यम् । नवं हि द्रव्यं येन येनार्थजातेनोपदिह्यते तद् तद् एवाचूषति । एवम् अयं नवबुद्धिर् यद् यद् उच्यते तत् तत् प्रतिपद्यते । व्यसनेभ्यश् चैनम् उपायतो निवर्तयेयुर् इति नित्यानुशासनाच् च कालेन गुणसंपन्नं यौवराज्ये स्थापयेत्, निर्गुणान् अन्यान् प्रत्यन्तेष्य् निक्षिपेत्- इत्य् एवमादिनाभियोगातिशयेन राज्ञा पुत्ररक्षणं प्रत्यहं चिन्त्यम् ॥ ७.१५२ ॥

दूतसंप्रेषणं चैव कार्यशेषं तथैव च ।
अन्तःपुरप्रचारं च प्रणिधीनां च चेष्टितम् ॥ ७.१५३ ॥

भारुचिः ...{Loading}...

येन सह सन्धानं विग्रहो वा चिकीर्ष्यते तत्र दूतसंप्रेषणं चिन्त्यम् । आरब्धकार्यशेषत्वं च चिन्तयेत्, आस्थापनाय । कक्ष्यान्तरेष्व् अन्तर्वंशिकसैन्याधिष्ठितो ऽन्तःपुरं प्रविशेत् । तत्र स्थविरस्त्रीपरिशुद्धां देवीं पश्येन् नापरिशुद्धाम् । देव्या गृहनिलीनो हि भ्राता भद्रसेनम् जघान, मातुः शयनान्तर्गतश् च पुत्रः कारूषम्, विषदिग्धेन नूपुरेण वैरन्त्यं [देवी] जघान, मेखलामणिना सौविरम्, वेण्यां निगूढेन शस्त्रेण विदूरथम् । तस्माद् एतान्य् आस्पदस्थानानि यत्नतः परीक्षेत । मुण्डजटिलकुहकपर्तिसंसर्गं बाह्याभिश् च दासीभिर् अन्तःपुरदासीनां प्रतिषेधयेत् । प्रणिधीनां च कापटिकादीनां चारपरम्पराभिश् चेष्टितं चिन्तयेत् ॥ ७.१५३ ॥

कृत्स्नं चाष्टविधं कर्म पञ्चवरं च तत्त्वतः ।
अनुरागापरागौ च प्रचारं मण्डलस्य च ॥ ७.१५४ ॥

भारुचिः ...{Loading}...

अकृतारम्भम् आरब्धस्यानुष्ठानम् अनुष्ठितविशेषणं कर्मफलसंग्रहः, तथा सामभेददानदण्डाह्, एतद् अष्टविधं कर्म । अथ वा कृषिर् वणिक्पथ उदके सेतुबन्धनं [दुर्गकरणं] कृतस्य वा तत्संस्कारो हस्तिबन्धनं खनिखननं शून्यवेशनं दारुवनछेदनं चेति ।_ अपरे_ त्व् आहुः ।

> आदाने च विसर्गे च तथा प्रैषनिषेधयोः ।
> पञ्चमे चार्थवचने व्यवहारस्य चेक्षणे ॥
> दण्डशुद्ध्योः सदा युक्तस् तेनाष्टगतिको नृपः ।
> अष्टकर्मा दिवं याति राजा शक्राभिपूजितः ॥

इत्य् औशनसौ श्लोकौ । तद्विवरणम्- आदानं बलिना । भृत्येभ्यो धनविसर्गःप्रैषो दूष्टत्यागः । अर्थाधिकृतानाम् अतिप्रवृत्तिनिरोधो निषेधः । असंप्रवृत्तेर् अर्थवचनम् । वर्णाश्रमिणां स्वकर्मसंश्रये व्यवहारेक्षणम् । परस्पराभियोगे दण्डनिपातनं पराजितानाम् । शुद्धिर् आत्मने (?), प्रमादस्खलिते तु [प्रा]यश्चित्तम् इत्य् एतद् अष्टवि[धं कर्म । प]ञ्चवर्गः । कापटिकोदास्थितगृहपतिकवैदेहकतापसव्यञ्जनाः । परमर्मज्ञः प्रगल्भश् छात्रः कापटिकः । तम् अर्थमानाभ्याम् उपसंगृह्य मन्त्री ब्रूयाद् “राजानं मां च प्रमाणं कृत्वा यत्र यद् अकुशलं पश्य्[असि तत् तदानीम् एवाश्राव्य्]अं त्वया” इति । प्रव्रज्यायाः प्रत्यवसित उदास्थितः, स च प्रज्ञाशौचयुक्तः । सर्वान्नप्रदानसमर्थाया[ं भूमौ] प्रभूतहिरण्यान्तेवासिनः कर्म कारयेत् । कृषिकर्मफलाच् च सर्वप्रव्रजितानां ग्रासाच्छादना]वस्थान् प्रतिविदध्यात् । तेषां ये वृत्तिकामास् तान् उपजपेत्, एवम् “एतेनैव वृत्तेन राजार्थश् चरितव्यो, भक्तवेतनकाले चोपस्थातव्यम्” इति । सर्वप्रव्र[इताश् च स्वं स्वं व]र्गम् उपजपेयुः । कर्षको वृत्तिक्षीनः प्रज्ञाशौचयुक्तो गृहपतिव्यञ्जनः स कृषिकर्म कुर्यात् । यथोक्तायां भूमाव् इति । वाणिजको वृत्तिक्षीणः प्रज्ञाशौचयुक्तो वैदेहकव्यञ्जनः । स वणिक्कर्म कुर्यात् प्रदिष्टायां भूमाव् इति समानं पूर्वेण । मुण्डो जटिलो वा वृत्तिकामस् तापसव्यञ्जनः । [स] नगराभ्याशे प्रभूतजटिलमुण्डान्तेवासी शाकं यवसमुष्टिं वा मासद्विमासान्तरितः प्रकाशम् अश्नीयात्, धर्मव्याजेन, गूढं च यथेष्टम् आहारम् । तापसव्यञ्जनान्तेवासिनश् चैनं सिद्धयोगैर् अर्चयेयुः, शिष्याश् चास्योपदिशेयुः लाभम् अग्निदाहं चोरभयं दुष्टवधबन्धनं विदेशप्रवृत्तिम्, “इदम् अद्य श्वो वा भविष्यतीदं वा राजा करिष्यति” इति । तद् अस्य गूढाः सत्त्रिणस् तत्प्रयुक्ताः सम्पादयेयुः । ये चास्य राज्ञो ऽवश्यं भर्तव्यास् ते लक्षणविद्याम् अङ्गविद्यां जम्भकविद्यां मायागतम् आश्रमधर्मं निमित्तज्ञानं चाधीयमानाः सत्त्रिणः स्युः । तत्र राजैतान् पञ्चसंस्था[न्] एतैर् मन्त्रिभिः सह स्वविषये परविषये चावस्थापयेत् । मन्त्रिपुरोहितसेनापतियुवराजदौवारिकान्तर्वंशिकादिषु श्रद्धेयदेशवेषशिल्पभाषाविदो जनपदापदेशेन सत्त्रिणः संचारयेत् । तथा कुब्जवामनकिरातमूकजडबधिरान्धछद्मनो नटनर्तकगायनादयश् च स्त्रियश् चाभ्यन्तरचारं विद्युः ।

> वने वनचराः कार्याः श्रमणाटविकादयः ।
> परप्रवृत्तिज्ञानार्थाः शीघ्राश् चारपरंपराः ॥
> परस्य चैते बोद्धव्यास् तादृशैर् एव तादृशाः ।
> चारसंचारिणः संस्था गूढाश् चागूढसंज्ञिताः ॥

एवं पञ्चवर्गं परिकल्प्य परस्यात्मनश् चास्माद् एवं च वर्गान् मन्त्रिपुरोहितादीनाम् अन्रागापरागौ विद्यात् । तथा राज**मण्डलप्रचारः, **को माण्डलिकः संधिविग्रहादौ कस्मिन् प्रचारे वर्तत इति ॥ ७.१५४ ॥

मध्यमस्य प्रचारं च विजिगीषोश् च चेष्टितम् ।
उदासीनस्य चारं च शत्रोश् चैव प्रयत्नतः ॥ ७.१५५ ॥

भारुचिः ...{Loading}...

एतस्मिन् राजमण्डल इमाश् चतस्रो जाजप्रकृतयो मुख्या भवन्ति, विजिगीषुर् अरिर् मध्य उदासीन इति । तत्रैतेषाम् एव यो राजप्रकृतिसंपन्नो ऽहम् एवेमां पृथिवीं जेष्य इत्य् अभ्युक्षितः स विजिगीषुर् उत्साहशक्तियोगात् । शत्रुस् त्रिविधः, सहजः [प्राकृतः कृत्रिमो भूम्यनन्तर इति । मध्यमः, अनयोर् अरिविजिगीष्वोर् असंहतयोर् निग्रहसमर्थः । उदासीनो ऽरिविजिगीषुमध्यमानाम् असंहतानाम् ॥ ७.१५५ ॥

एताः प्रकृतयो मूलं मण्डलस्य समासतः ।
अष्टौ चान्याः समाख्याता द्वादशैव तु ताः स्मृताः ॥ ७.१५६ ॥

भारुचिः ...{Loading}...

एताः प्रकृतयो मण्डलस्य व्याख्याताः । अष्टौ चान्या आसां प्रकृतीनाम् एकैकस्याः प्रकृतेर् मित्रं मित्रमित्रं चेति द्वे द्वे प्रकृती उच्येते । एका अष्टौ चान्याः प्रसंख्याताः । एवम् उभयतो ऽपि द्वादश भवन्ति ॥ ७.१५६ ॥

अमात्यपुरराष्ट्रार्थदण्डाख्याः पञ्च चापराः ।
प्रत्येकं कथिता ह्य् एताः संक्षेपेण द्विसप्ततिः ॥ ७.१५७ ॥

भारुचिः ...{Loading}...

इमा अमात्यपुरराष्ट्रकोशदण्डाख्याः पञ्चापराः प्रत्येकं द्वादशस्ववस्थिताः । एवं च द्वादशराजप्रकृतयः षष्टिर् अमात्यादिप्रकृतयः इति संक्षेपेण द्विसप्ततिः ॥ ७.१५७ ॥

अनन्तरम् अरिं विद्याद् अरिसेविनम् एव च ।
अरेर् अनन्तरं मित्रम् उदासीनं तयोः परम् ॥ ७.१५८ ॥

भारुचिः ...{Loading}...

विजिगीषोर् भूम्य्अनन्तरम् अरिं विद्यात् । तथारिमित्रं मित्रमित्रं च । एवम् अपरभूम्यन्तरो विजिगीषोर् मित्रं भवति । उदासीनस् तयोः परः । अरिमित्रलक्षणं सहजकृत्रिमयोर् अपि द्रष्टव्यम् ॥ ७.१५८ ॥

तान् सर्वान् अभिसंदध्यात् सामादिभिर् उपक्रमैः ।
व्यस्तैश् चैव समस्तैश् च पौरुषेण नयेन च ॥ ७.१५९ ॥

भारुचिः ...{Loading}...

सामादिभिश् चतुर्भिः समस्तैर् व्यस्तैर् वा पौरुषेण नयेन वा केवलेन दण्डेन वा । केवलेन दण्डेनेति समासिकः षाड्गुण्यक्रम उच्यते ॥ ७.१५९ ॥

संधिं च विग्रहं चैव यानम् आसनम् एव च ।
द्वैधीभावं संश्रयं च षड्गुणांश् चिन्तयेत् सदा ॥ ७.१६० ॥

भारुचिः ...{Loading}...

अत्र हिरण्यादिनिबन्धन उभयानुग्र्हार्थः संधिः । तद्विपरीत विग्रहः । एकत्राभ्युच्चयो यानम् । उपेक्षणम् आसनम् । संधिविग्रहो[पादानं द्वैधीभावः । परा]र्पणं संश्रयः । एतान् षड्गुणांश् चिन्तयेत् सदा । एतेषां षण्णां यस्मिन् गुणे व्यवस्थितो मन्येताहं शक्ष्यामि दुर्गं कारयितुं हस्तिनो बन्धयितुं खनिं खानयितुं वणिक्[पथं प्रयोजयितुं शून्यनिवेशनं] कारयितुं कृषिं प्रयोजयितुं दारुवनं छेदयितुम् अदेवमातृकाणि च क्षेत्राणि बन्धयितुम् इत्य् एवमादीनि, परस्य च व्याहन्तुं वृद्धिविघातार्थम्, तद्गुणम् उपेयात् ॥ ७.१६० ॥

एवं च सति ।

आसनं चैव यानं च संधाय च विगृह्य च ।
कार्यं वीक्ष्य प्रयुञ्जीत द्वैधं संश्रयम् एव च ॥ ७.१६१ ॥

भारुचिः ...{Loading}...

संधायासनं विगृह्यासनं संधाय यानं विगृह्य यानं वा कार्यं वीक्ष्य प्रयुञ्जीत । तथा द्वैधं संश्रयम् एव च । परम् अतिसंधातुकामयोर् अरिविजिगीष्वोर् उपहन्तुम् अशक्तयोः संधायासनं विगृह्य वा । तत्र यदा पश्येत् “स्वबलेनोत्सहे परं कर्शयितुम्, उत्साहयुक्ताश् च मे प्रकृतयः संहता विवृद्धाश् च स्वकर्मण्यव्याहताश् चरिष्यन्ति, परस्य वा प्रकृतयो लुब्धाः क्षीणाश् (?) च, यत उपजापेन शक्यास् त आत्मीकर्तुअम्” इत्य् एवमादि, तदा विगृह्यासीत । विगृह्यासनहेत्वभावे संधायासीत । परस्माद् अभ्युच्चितः सर्वसंदोहवर्जं स्वराष्ट्रे कृतप्रतिविधानो विगृह्य यायात्, व्यसने वा परस्य प्र[कृ]तिक्षये क्प्र्कृतिकोपे वा, आक्रन्दासारबलाद् वा। विगृह्य यानहेत्वभावे तु पार्ष्णिग्राहं संधाय यायात्, संभूय वा यात्राफलांशकृतसंइत्क इत्य् एवमादि । समर्थो वा त्व् अरिं पार्ष्णिग्राहं च युगपद् विगृह्य यावत्, असमर्थो वा बलवता समाक्रान्तो दुर्गापाश्रयाद् द्वैधीभूतस् तिष्ठेत्, मध्यमम् उदासीनं वाश्रयेत्, यत्र वा पूर्वपुरुषोचिता गतिः, आसन्नसंबन्धो वा मित्राणि वा भूयांसि यत्र शक्तिमन्तो भवेयुस् तं संश्रयेत ॥ ७.१६१ ॥

संधिं तु द्विविधं विद्याद् राजा विग्रहम् एव च ।
उभे यानासने चैव द्वैधं संश्रयम् एव च ॥ ७.१६२ ॥

भारुचिः ...{Loading}...

षड् अप्य् एते गुणाः समासतो द्विधा भिद्यन्ते । यतो ऽयम् उत्तरविवक्षार्थ उपन्यासः ॥ ७.१६२ ॥

समानयानकर्मा च विपरीतस् तथैव च ।
तदा त्व् आयतिसंयुक्तः संधिर् ज्ञेयो द्विलक्षणः ॥ ७.१६३ ॥

भारुचिः ...{Loading}...

संभूय यानं यस्य स समानयानकर्मा संधिः । त्वम् इतो याहि अहम् इति यास्यामीत्य् असमानयानकर्मा विपरीतः संधिः । तथा कोशादिलाभेनैकस्य तदात्वयुक्तः इतरस्य्आयतियुक्तः । एवं चायं द्विलक्षणः संपद्यते संधिः ॥ ७.१६३ ॥

स्वयंकृतश् च कायार्थम् अकाले काल एव वा ।
मित्रेण चैवापकृते द्विविधो विग्रहः स्म्र्तः ॥ ७.१६४ ॥

भारुचिः ...{Loading}...

यदायम् उत्सहते स्वशक्त्या परं जेतुं तदा स्वयंक्र्तो विग्रहःअकाले ऽप्य् उच्चयापेक्षया । यस्य परस्यामित्रस् तद्विजिगीषोर् मित्रम् । तेन यदा परस्यापक्रियते तद्विजिगिषोर् मित्रेणापकृते व्यसनिनि परे विपरीतो विग्रहः । सत्सु विग्रहकारणेषु तत्र यद्य् आसनं यदि यानं सर्वदा द्विविधो विग्रहः ॥ ७.१६४ ॥

एकाकिनश् चात्ययिके कार्ये प्राप्ते यदृच्छया ।
संहतस्य च मित्रेण द्विविधं यानम् उच्यते ॥ ७.१६५ ॥

भारुचिः ...{Loading}...

परस्य व्यसने यदृच्छया, प्राप्ते आत्ययिके च कार्ये, एकाकिन एव यानं यद्य् असाव् एकाकी शक्नोति तं जेतुम् । संहतस्य मित्रेण । । । एवं द्विविधं यानम् ॥ ७.१६५ ॥

क्षीणस्य चैव क्रमशो दैवात् पूर्वकृतेन वा ।
मित्रस्य चानुरोधेन द्विविधं स्मृतम् आसनम् ॥ ७.१६६ ॥

भारुचिः ...{Loading}...

साधुकारी चैव क्षयं गच्छति दैवाद्, अपरः पूर्वक्ष्तेन प्रमादेन तस्योभयथापि क्षीणस्यात्मसंवरणक्रियासनम्; यश् च परस्य शत्रुः स विजिगीषोर् मित्रं तस्मिन् क्षीणे तदनुरोधात् समर्थो ऽप्य् आसीत । एवं द्विविधम् आसनम् । “मोहात् पूर्वकृतेन वा” इत्य् अपरो हेतुपाठः ॥ ७.१६६ ॥

बलस्य स्वामिनश् चैव स्थितिः कार्यस्य सिद्धये ।
द्विविधं कीर्त्यते द्वैधंषाड्गुण्यगुणवेदिभिः ॥ ७.१६७ ॥

भारुचिः ...{Loading}...

बलवताभिभूतो दुर्गापाश्रयो द्विविधा बलं कृत्वा स्वकार्यसिद्धिं कुर्यात् । समर्थो वा परानुग्रहे निरण्यादिफलापेक्षया बलस्य केनचिद् अंशेन ऽन्यं राजानम् अनुगृह्णीयात् ॥ ७.१६७ ॥

अर्थसंपादनार्थं च पच्यमानस्य शत्रुभिः ।
साधुष्व् अव्यपदेशश् (?) च द्विविधः संश्रयः स्मृतः ॥ ७.१६८ ॥

भारुचिः ...{Loading}...

महता परेण पीड्यमानस्य संश्रयः तत्संश्रितश् चैनं सर्वयत्नैस् तथात्मकार्यं संपादयेत् । साधुष्व् अव्यपदेशार्थं पापिनापि । संश्रयकारणेनापदा संश्रयेत् । तत्संश्रितो हि समानानाम् अभिभवनीयस् तदा भवति ॥ ७.१६८ ॥

यदाधिगच्छेद् आयत्याम् आधिक्यं ध्रुवम् आत्मनः ।
तदात्वे चाल्पि[कां पीडां तदा संधिं] समाश्रयेत् ॥ ७.१६९ ॥

भारुचिः ...{Loading}...

आयत्यपेक्षय्आल्पिकां पीडां कृत्वात्मनः संधिं समाश्रयेत् ॥ ७.१६९ ॥

यदा प्रहृष्टा मन्येत सर्वास् तु प्रक्र्तीर् भृशम् ।
अभ्युच्चितं तदात्मानं तदा मन्येत् विग्रहम् ॥ ७.१७० ॥

भारुचिः ...{Loading}...

वि[ग्रहार्थं दण्डादिसंपदाभ्युच्चि]तः स संतुष्टोपगृहीतप्रकृतिः संधिविग्रहं कुर्यात् ॥ ७.१७० ॥

यदा मन्येत भावेन हृष्टं पुष्टं स्वकं बलम् ।
परस्य विपरीतं च तदा यायाद् रिपुं प्रति ॥ ७.१७१ ॥

भारुचिः ...{Loading}...

प्रहृष्टपुष्टैः स्वकेवलकारणतः परस्य च विपरीते [सति] विगृह्य संधाय वा यायात् ॥ ७.१७१ ॥

यदा तु स्यात् परिक्षीणो वाहनेन बलेन च ।
तदासीत प्रयत्नेन शनकैः सात्वयन्न् अरिम् ॥ ७.१७२ ॥

भारुचिः ...{Loading}...

परिक्षीणे हिरण्यादीनां संधायात्मनो ऽभ्युच्चयं कुर्वन्न् आसीत, सान्त्वयन्न् अरिं सामोपप्रदानाभ्याम् ॥ ७.१७२ ॥

मन्येतारिं यदा राजा सर्वथा बलवत्तरम् ।
तदा द्विधा बलं कृत्वा साधयेत् कार्यम् आत्मनः ॥ ७.१७३ ॥

भारुचिः ...{Loading}...

बलवताभिभूतो ऽशक्ये संधाने दुर्गापाश्रयो द्विधा कृत्वासीत ॥ ७.१७३ ॥

यदा परबलानां तु गमनीयतमो भवेत् ।
तदा तु संश्रयेत् क्षिप्रं धार्मिकं बलिनं न्र्पम् ॥ ७.१७४ ॥

भारुचिः ...{Loading}...

द्वैधीभावम् अप्य् आश्रितो यद्य् आत्मधारणम् अशक्यं मन्यते ततः प्रागभिभवात् क्षिप्रम् एव बलिनं धार्मिकं च संश्रयेत् । तदभावे ऽन्यम् अपि गुणवन्तम् ॥ ७.१७४ ॥

निग्रहं प्रकृतीनां च कुर्याद् यो ऽरिबलस्य च ।
उपसेवेत तन् नित्यं सर्वयत्नैर् गुरुं यथा ॥ ७.१७५ ॥

भारुचिः ...{Loading}...

यासां प्रकृतीनां दोषेण गमनीयतमो जातस् तासां यो निग्रहे समर्थस् तद्अरिबलस्य च, तदा तं सर्वयत्नैर् गुरुं यथा निरुपरोधेन चेतसा परं सद्भावम् आश्रितः सेवेत ॥ ७.१७५ ॥

यदि तत्रापि संपश्येद् दोषं संश्रयकारितम् ।
सुयुद्धम् एव तत्रापि निर्वितर्कः समाचरेत् ॥ ७.१७६ ॥

भारुचिः ...{Loading}...

बन्धुवत्संश्रयो हि महादोषो राज्ञाम् इत्य् एवं च यदि संश्रयगतिना सादयेत्, ततः सुयुद्धम् एव तत्रापि निर्वितर्कः समाचरेत् । दृश्यते ह्य् अल्पबलेनापि महाबलं जीयमानम् । अपि च युध्यतः पराजयो ऽपि स्वर्गप्राप्त्या विशिष्यते । दृष्टसंश्रयस् तु नामुत्र राध्यते ॥ ७.१७६ ॥

किं बहुना ।

सर्वोपायैस् तथा कुर्यान् नीतिज्ञः पृथ्वीपतिः ।
यथास्याभ्यधिका न स्युर् मित्रोदासीनशत्रवः ॥ ७.१७७ ॥

भारुचिः ...{Loading}...

धनादिषु गन्धेन मित्रम् अपि शत्रुतां श्रयते, तथोदासीनशत्रौ तु का कथा । अत उक्तैर् उपायैस् तत्प्रवर्तनेने स्वान् प्रति भान्तम् आत्मानं मित्रादिभ्यो ऽधिकं कुर्यात्, न मित्रमुदासीनो वेत्य् आस्था कर्तव्या ॥ ७.१७७ ॥

आयतिं सर्वकार्याणां तदात्वं च विचारयेत् ।
अतीतानां च सर्वेषां गुणदोषौ च तत्त्वतः ॥ ७.१७८ ।

अनेकमुखत्वात् कार्याणां क्षणिकत्वाच् च तस्यां तस्याम् अवस्थायां तत्तत्कार्यम् आपद्यत इति सामान्यतः सर्वकार्यावधारणं दर्शयति ॥ ७.१७८ ॥

तस्मात् पुनर् एतद् एवम्, यस्मात् ।

आयत्यां गुणदोषज्ञस् तदात्व क्षिप्रनिश्चयः ।
अतीतकार्यशेषज्ञः शत्रुभिर् नाभिभूयते ॥ ७.१७९ ॥

भारुचिः ...{Loading}...

आयत्यां तावद् गुणदोषौ सर्वकार्येषु विज्ञेयौ; शेषावधृतिर् अनुष्ठानं च तस्य राजतन्त्रानुग्रहाय दोषपरिहारेणेति एवं च तत्शत्रुनिबर्हणं कवचम् इव सर्वकार्यानुगतं नित्यं विजिगीषुणा चिन्त्यम् ॥ ७.१७९ ॥

यथैनं नातिसंदध्युर् मित्रोदासीनशत्रवः ।
तथा सर्वं संविदध्याद् एष सामासिको नयः ॥ ७.१८० ॥

भारुचिः ...{Loading}...

उपसंहारार्थः श्लोकः ॥ ७.१८० ॥

यदा तु यानम् आतिष्ठेद् अरिराष्ट्रं प्रति प्रभुः ।
तदानेन विधानेन यायाद् अरिपुरं शनैः ॥ ७.१८१ ॥

भारुचिः ...{Loading}...

यात्रोपन्यासश् चित्तप्रणिधानार्थः ॥ ७.१८१ ॥

मार्गशीर्षे शुभे मासे यायाद् यात्रां महीपतिः ।
फाल्गुनं वापि चैत्रं वा मासौ प्रति यथाबलम् ॥ ७.१८२ ॥

भारुचिः ...{Loading}...

अत्र हि गच्छन् परस्य शारदं वासन्तं च सस्यम् उपहन्ति गच्छतश् च मार्गाः प्रचुरयवसोदका भवन्ति । तस्मात् शारदसस्यप्रायं जनपदं दीर्घकालं च यात्रां मार्गशीर्षे यायात् । फाल्गुनचैत्रमासयोर् वासन्तसस्यप्रायं दीर्घकालं च यात्राम् । तथा चतुरङ्गबलो मार्गशीर्षे यायात् । अश्वबलप्रायस् तु फाल्गुनचैत्रयोः ॥ ७.१८२ ॥

अन्येष्व् अपि तु कालेषु यदा पश्येद् ध्रुवं जयम् ।
तदा यायाद् विगृह्याइव व्यसने चोत्थिते रिपोः ॥ ७.१८३ ॥

भारुचिः ...{Loading}...

हस्तिबलप्रायो वर्षास्व् अश्वबलप्रायं रिपुं गच्छेत् । एतस्मिन् हि स्वबलकाले गच्छतो राज्ञो ऽवश्यंभावी जयः । व्यसनं च रिपोर् यदा तदा कदाचिद् यायात् । शक्तो [यायाद् अ]नाक्रन्दं च ॥ ७.१८३ ॥

कृत्वा विधानं मूले तु यात्रिकं च यथाविधि ।
उपगृह्यास्पदं चैव चारं सम्यग् विधाय च ॥ ७.१८४ ॥

भारुचिः ...{Loading}...

प्रकृत्युपसंग्रहो ऽर्थमानाभ्यां लुब्धक्रुद्धाभिरक्षणं विशेषतः पार्ष्णिग्राहसंधानं जनप[दस्थापनं मूले विधानम्] । यात्रिकं च हस्त्यश्वादि । ये च परविषये दूष्यास् ते यातुर् आस्पदा भवन्ति, तांश् चात्मीकृत्य चारणं च परविषयप्रवृत्तिविज्ञानाय सम्यग् विधाय यथा चैतद् एवम् ॥ ७.१८४ ॥

संशोध्य [त्रिविधं] मार्गं षड्विधं च स्वकं बलम् ।
सांपरायिककल्पेन यायाद् अरिपुरं शनैः ॥ ७.१८५ ॥

भारुचिः ...{Loading}...

जाङ्गलातपाटविक**त्रिविधं मार्गं **पन्थानं यवसेन्धनोद[को]पादानवीरुध्[अविच्छेद्]आदिभिः संशोध्य, बलं च षड्विधं हस्त्यश्वरथपदातिविष्टिकरकोशाख्यं संशोध्य किम् अग्रहृतम् इत्य् एवमादिना संपरायिककल्पेन युयुत्सुकल्पेन यायात् ॥ ७.१८५ ॥

शत्रुसेविनि मित्रे च गूढे युक्ततरो भवेत् ।
गतप्रत्य्गते चैव स हि कष्टतरो रिपुः ॥ ७.१८६ ॥

भारुचिः ...{Loading}...

मित्रदुःखगतप्रत्यागतयोर् युक्ततरो भूत्वा सुतरां न विश्वसेत् ॥ ७.१८६ ॥

दण्डव्यूहेन तन्मार्गं यायात् तु शकटेन वा ।
वराहगरुडाह्यां वा सूच्या वा मकरेण वा॥ ७.१८७ ॥

भारुचिः ...{Loading}...

पुरस्तान् नायकः पश्चात् सेनापतिः स्वामी च मध्ये पार्श्वयोर् हस्तिनः ततो ऽश्वा इत्य् एष साम्ग्रामिको यानविधिः दीर्घः समविन्यासो दण्डव्यूहः सर्वतो भये कार्यः । सूचीमुखः पश्चाद् विस्तृतः शकटव्यूहः पृष्टततो भये योजयितव्यः । श्लक्ष्णमुखपश्चार्धो बृहन्मध्यो वराहव्यूहः पार्श्वतो भये प्रशस्यते । एतेन गरुडव्यूह व्याख्यातः । लघुसमुत्थानसैनिकं सूचीव्यूहः दीर्घः प्रवीरपुरुषमुखः, अग्रतो भये च सादिष्ठः । मकरव्यूहो मुखजघनयोः पृथुर् उभयतो भये प्रशस्यते ॥ ७.१८७ ॥

यतश् च भवम् आसङ्केत् ततो विस्तारेयेद् बलम् ।
पद्मेन चैव व्यूहेन निविशेत सदा स्वयम् ॥ ७.१८८ ॥

भारुचिः ...{Loading}...

सर्वथा प्रदर्शनम् एतत्- यतो भयं प्रपश्येत् तु ततो विस्तारेयेद् बलम् । सर्वत उदितेन पद्मव्यूहेन सदा निविशेत ॥ ७.१८८ ॥

सेनापतिबलाध्यक्षौ सर्वदिक्षु निवेशयेत् ।
यतश् च भयम् आशङ्केत् प्राचीनां कल्पयेद् दिशम् ॥ ७.१८९ ॥

भारुचिः ...{Loading}...

सेनापतिबलाध्यक्षपुरुषाश् च सर्वत्र निविशेरन् । अनेकप्रकारास् त्व् अपरे कल्पिताः परान् जेष्यन्तीत्य् अतः पुरुषान् इति युज्यन्ते । गिरिं वनं वा पृष्ठतः कृत्वा भयसिशश् चाग्रतः तत्र युध्येयुः निविशेरन् वा ॥ ७.१८९ ॥

गुल्ंआंश् च स्थापयेद् आप्तान् कृतसंज्ञान् समन्ततः ।
स्थाने युद्धे च कुशलान् अभीरून् अविकारिणः ॥ ७.१९० ॥

भारुचिः ...{Loading}...

विशेषतो गुलेष्व् एवंगुणाह् स्थाप्याः । ततो हि भयम् उत्पन्नं महते ऽनर्थाय भवति स्वबलेन ॥ ७.१९० ॥

संहतान् योधयेद् अल्पान् कामं विस्तारयेद् बहून् ।
सूच्या वज्रेण चैवैतान् व्यूहेन व्यूह्य योधयेत् ॥ ७.१९१ ॥

भारुचिः ...{Loading}...

अल्पाः संहताः परस्परापेक्षया युध्यन्तो न बिभ्यति । वज्रव्यूहस् त्रिधाव्यवस्थितः । सूचीव्यूहो व्याख्यातः । सर्वे तु व्यूहा यथासामर्थ्यं कल्पयितव्याः ॥ ७.१९१ ॥

स्यन्दनाश्वैः समे युद्ध्येद् अनूपे नौद्विपैस् तथा ।
वृक्षगुल्मावृते चापैर् असिचर्मायुधैर् बलैः ॥ ७.१९२ ॥

भारुचिः ...{Loading}...

सामर्थ्यदर्शनार्थो ऽयम् उपदेशः ॥ ७.१९२ ॥

कौरुक्षेत्रांश् च मत्स्यांश् च पाञ्चालाञ् शूरसेनजान् ।
दीर्घांल् लघूंश् चैव नरान् अग्रानीकेषु योधयेत् ॥ ७.१९३ ॥

भारुचिः ...{Loading}...

एते हि पृथुवक्षस आजानुबाहवो द्विस्पृशो महावर्ष्माणश् च सेनामुखेष्व् ईषन्मनोघातं परेषां कुर्वन्ति ॥ ७.१९३ ॥

प्रहर्षयेद् बलं व्यूहं तांश् च सम्यक् प्रीक्षयेत् ।
चेष्टांश् चैव विजानीयाद् अरीन् योधयताम् अपि ॥ ७.१९४ ॥

भारुचिः ...{Loading}...

जये धर्मार्थो ऽवरजये विसर्जन इत्य् एवमादिना यथाभूतशास्त्रार्थप्रदर्शनेन प्रहर्षयेत् । युद्ध्यतां चेष्टाः प्रत्यक्षीकुर्यात् । चलचित्ता हि पुरुषा उपकुर्वाणस्याप्य् अपकुर्वन्ति ॥ ७.१९४ ॥

उपरुध्यारिम् आसीत राष्ट्रं चास्योपपीडयेत् ।
दूषयेच् चास्य सततं यवसान्नोदकेन्धनम् ॥ ७.१९५ ॥
भिन्द्याच् चैव तटाकानि प्राकारपरिखास् तथा ।
समवस्कन्दयेच् चैनं रात्रौ वित्रासयेत् च ॥ ७.१९६ ॥
उपजप्यान् उपजपेद् भुद्ध्येतैव च तत्कृतम् ।
युक्त च दैवे युध्येत जयप्रेप्सुर् अपेतभीः ॥ ७.१९७ ॥

भारुचिः ...{Loading}...

दुर्गाश्रितस्याप्रतियुध्यत उपरोधविधिस् त्रिभिः शोकैः ॥ ७.१९५–९७ ॥

साम्ना दानेन भेदेन समस्तैर् उत वा पृथक् ।
विजेतुं प्रयतेतारीन् न युद्ध्येत कदाचन ॥ ७.१९८ ॥

भारुचिः ...{Loading}...

तत्र साम द्विविधं वाक्प्रयोगश् चेष्टाप्रयोगश् चेति । वाक्प्रयोगो गुणवचनं हितवचनम् उपकारानुदर्शनवचनम् आत्मोपनिधानम् इत्य् एवमादि; चेष्टाप्रयोगः स्थिताञ्जलिदानं हस्तग्रहणमुखोपप्रदर्शनं स्वदारदर्शनं [मि]थः संकथनम् इत्य् एवमादि । दानं नानाविधैर् द्रव्यैः प्रीत्युत्पादन[प्रतिपादनम्] । भेद एकस्योपसंग्रहो ऽन्यस्य निरसनं भीषणं च । एतैस् त्रिभिर् उपायैः प्रयतेत जेतुम् ॥ ७.१९८ ॥

अनित्यो [विजयो यस्माद् दृश्यते युध्यमानयोः ।
पराजयश्] च संग्रामे तस्माद् युद्धं विवर्जयेत् ॥ ७.१९९ ॥

भारुचिः ...{Loading}...

जयपराजययोर् अनित्यत्वात् प्रयत्नतो युद्धं परिहरणीयम् । तस्माद् असंदिग्धः तनुर् अप्य् अर्थसंदिग्धान् महतो ऽपि श्रेयान् ॥ ७.१९९ ॥

त्रया[णाम् अप्य् उपाया]नां पूर्वोक्तानाम् असंभवे ।
तथा युध्येत संयत्तो विजयेत रिपून् यथ ॥ ७.२०० ॥

भारुचिः ...{Loading}...

विजिगीषोः सामादीनां परिक्षये साधकत्वम् । तथा संदिग्धे विजये कामं युध्येत, यस्माज् जये ऽर्थः पराजये स्वर्ग इति । युद्धम् एव तत्र ज्यायः । यदार्थसंदिग्धः पराजयस् तदा निष्पतनं साधीयः- निर्गतो हि पुनः कार्यम् आसादयति ॥ ७.२०० ॥

जित्वा संपूजयेद् देवान् ब्राह्मणांश् चैव धार्मिकान् ।
प्रदद्यात् परिहारांश् च ख्यापयेद् अभयानि च ॥ ७.२०१ ॥
सर्वेषां तु विदित्वैषां समासेन चिकीर्षितम् ।
स्थापयेत् तत्र तद्वंश्यं कुर्याच् च समयक्रियाम् ॥ ७.२०२ ॥
प्रमाणान् च कुर्वीत तेषां धर्मान् यथोचितान् ।
रत्नैश् च पूजयेद् एतान् प्रधानपुरुषैः सह ॥ ७.२०३ ॥

भारुचिः ...{Loading}...

लब्द्यप्रशमनार्थास् तरयः श्लोकाः ॥ ७.२०१–०३ ॥

अदानम् अप्रियकरं दानं च प्रियकारकम् ।
अभीप्सितानाम् अर्थानां कालयुक्तं प्रशस्यते ॥ ७.२०४ ॥

भारुचिः ...{Loading}...

दानम् अदानं वा कालयुक्तं सुखयति । यथाकालं राज्ञा तद् अनुष्ठितं सर्वलोकसुखावहं भवति ॥ ७.२०४ ॥

सर्वं कर्मेदम् आयत्तं विधाने दैवमानुषे ।
तयोर् दैवम् अचिन्त्यं तु मानुषे विद्यते क्रिया ॥ ७.२०५ ॥

भारुचिः ...{Loading}...

यत् तावन् मानुषं फलं तत्पुरुषकर्म्आयत्तम् एव कृष्यादयः । अपि च प्राप्यते दैवात् पुत्रजन्मादिफलम् । तद् अपि दृष्टद्वारम् एव । अतो दृष्टम् एवोपायम् आश्रित्य सर्वकार्ये प्रयतितव्यम् । न दैवपरमो भूत्वासीत निरीह इति ॥ ७.२०५ ॥

सह वापि व्रजेद् युक्तः संधिं कृत्वा प्रयत्नतः ।
मित्रं हिरण्यं भूमिं वा संपश्यंस् त्रिविधं फलम् ॥ ७.२०६ ॥

भारुचिः ...{Loading}...

मित्रीकरणं त्व् इदं यातव्यस्य यात्राफलम्, जित्वा च तम् एव स्थापयेत् । सहकृतम् अभिरक्षन् मित्रीभूतो मित्रकार्यं काले करिष्यतीति भूमिहिरण्याभ्यां वा संधाय प्रतिनिवर्तेत ॥ ७.२०६ ॥

पार्ष्णिग्राहं च संप्रेक्ष्य तथाक्रन्दं च मण्डले ।
मित्राद् अथाप्य् अमित्राद् वा यात्राफलम् अवाप्नुयात् ॥ ७.२०७ ॥

भारुचिः ...{Loading}...

पार्ष्णिग्राहाक्रन्दानुबन्धम् अविक्ष्य हिरण्यादि यत्राफलं संगृह्णीयात् ॥ ७.२०७ ॥

हिरण्यभूमिं संप्राप्य पार्थिवो न तथैधते ।
यथा मित्रं ध्रुवं लब्ध्वा कृशम् अप्य् आयतिक्षमम् ॥ ७.२०८ ॥
धर्मज्ञं च कृतज्ञं च हृष्टप्रकृतिम् एव यत् ।
अनुरक्तं स्थिरारम्भं लघुमित्रं प्रशस्यते ॥ ७.२०९ ॥

भारुचिः ...{Loading}...

भूमिहिरण्याभ्यां मित्रं ज्याय इति शोकद्वयेन तत्स्तुतिर् मित्रोपसंग्रहार्था ॥ ७.२०८–०९ ॥

प्राज्ञं कुलीनं शूरं च दक्षं दातारम् एव च ।
कृतज्ञं धृतिमन्तं च कष्टम् आहुर् अरिं बुधाः ॥ ७.२१० ॥

भारुचिः ...{Loading}...

उपदेशप्रयोजनम्- ईदृशम् अरिं सर्वयत्नैर् विजिगीषुः संदध्यात् । येन सत्य् एवंगुण उच्छेतुं शक्यते, कर्शयितुं पीडयितुं वा । अत एवंविधं शत्रुं प्रयत्नतो मित्रीकुर्यात् ॥ ७.२१० ॥

आर्यता पुरुषज्ञानं शौर्यं करुणवेदिता ।
स्थौललक्ष्यं च सततम् उदासीनगुणोदयः ॥ ७.२११ ॥

भारुचिः ...{Loading}...

उदयशब्दः समुदायवाची फलर्थस् तु न युज्यते, सामर्थ्यात् । अस्योपदेशप्रयोजनम्- एभिर् गुणैर् युक्तम् उदासीनं संश्रित्य कामं यथोक्तलक्षणेनाप्य् अरिणा विरुध्येत यात्राफलार्थम् । येनैवंगुण उदासीनः संश्रयकार्यं कर्तुं समर्थो भवति । अनेवंगुणस् तूदासीनो ऽप्य् अमित्रीभवति शत्रूपजापाद् अदृढप्रज्ञया तस्य ॥ ७.२११ ॥

क्षेम्यां सस्यप्रदां नित्यं पशुवृद्धिकरीम् अपि ।
परित्यजेन् नृपो भूमिम् आत्मार्थम् अविचारयन् ॥ ७.२१२ ॥

भारुचिः ...{Loading}...

यदा तु विजिगीषुर् यद् ईदृशपराभियोगाद् आपद्यात् उदासीनसंश्रयेणारेस् तदा क्षेम्यां सस्यप्रदाम् अपि नित्यं पशुवृद्धिकरीम् अपि परित्यजेन् नृपो भूमिम् इत्तंभूताम् अपि सतीम्, येन राजधर्मेष्व् एवं स्मर्यते ॥ ७.२१२ ॥

आपदर्थं धनं रक्ष्यं दारा रक्ष्या धनैर् अपि ।
आत्मा तु सततं रक्ष्यो दारैर् अपि धनैर् अपि ॥ ७.२१३ ॥

भारुचिः ...{Loading}...

सर्वपरित्यागेनाप्य् आत्मा सततं रक्ष्य इति । येन शक्यो ऽप्य् अयं धर्मविरुद्धम् अपि दारपरित्यागं कृत्वा भूयो राजत्वम् आपन्नो महद्धर्मानुष्ठानं कर्तुम् । अस्य दारोद्वाहेनर्ते तु राज्ञो नान्यस्य दारपरित्यागेनात्मसंरक्षणं कर्तुं युक्तम् । परित्यज्य हि दारान् किम् अन्यद् असौ करिष्यति सत्कर्म येनात्मानं पापयिष्यति लोकसंक्रोशं वा विधास्यति । तथा चोक्तम् “लोकसंक्रुष्टम् एव च” इति । आहितविज्ञानेन विन[ष्टधनेनापि धर्म् ऽस्तीत्य् उ]पासनादिभिर् अनेन, न राजधर्मोपदेशमात्रेण ॥ ७.२१३ ॥

सह सर्वाः समुत्पन्नाः प्रसमीक्श्यापदो [?] भृशम् ।
संयुक्तांश् च वियुक्तांश् च सर्वोपायान् सृजेद् बुधः ॥ ७.२१४ ॥

भारुचिः ...{Loading}...

[सर्वाः समुत्पन्नाह् समीक्ष्य्]आपदो भृशम्, संयुक्तांश् च समस्तान् त्रीन् वा द्वौ वा वियुक्तांश् च प्रत्येकं सर्वोपायान् समादीन् सृजेद् विसृजेद् बुधः । न सहसा विषण्ण आसीतेत्य् अर्थः । स्वप्रकृतिभया[न्य् उप]क्षेपतस् तद् उपसंहरति ॥ ७.२१४ ॥

उपेतारम् उपेयं च सर्वोपायांश् च कृत्स्नशः ।
एतत् त्रयं समाश्रित्य प्रयतेतार्थसिद्धये ॥ ७.२१५ ॥

भारुचिः ...{Loading}...

आनन्त्याद् अवस्थानाम् इदं समासेन सर्वोपायप्रदर्शनम् आ[त्मरक्षार्थ्]अम् ॥ ७.२१५ ॥

एवं सर्वम् इदं राजा सह संमन्त्र्य मन्त्रिभिः ।
व्यायम्याप्लुत्य मध्याह्ने भोक्तुम् अन्तःपुरं व्रजेत् ॥ ७.२१६ ॥

भारुचिः ...{Loading}...

उपसंहारार्थः श्लोकः ॥ ७.२१६ ॥

तत्रात्मभूतैः कालज्ञैर् अहार्यैः परिचार[कैः।
सुपरीक्षित्]अम् अन्नाद्यम् अद्यान् मन्त्रैर् विषापहैः ॥ ७.२१७ ॥
विषघ्नैर् उदकैश् चास्य सर्वद्रव्याणि योजयेत् ।
विषघ्नानि च रत्नानि नियतो धारयेत् सदा ॥ ७.२१८ ॥
परीक्षिताह् स्त्रिय[श् चैनं व्यञ्जनोदक]धूपनैः ।
वेषाभरणसंयुक्ताः स्पृशेयुः सुसमाहिताः ॥ ७.२१९ ॥
एवं प्रयत्नं कुर्वीत यानशय्याशनासनैः ।
स्नाने प्रसाधने चैव स चालंकारिके[चु च ॥ ७.२२० ॥
भुक्तवान् विहरेच् चैवं स्त्रीभिर् अन्तःपुरे सह ।
विहृत्य च यथाकालं पुनः कार्याणि चिन्तयेत् ॥ ७.२२१ ॥
अलंकृतश् च संपश्येद् आयुधीयं पुनर् जनम् ।
वाहनानि च सर्वाणि शस्त्राण्य् आभरणानि च ॥ ७ २२२ ॥
संध्यां चोपास्य शृणुयाद् अन्तर्वेश्मनि शस्त्रभृत् ।
रहस्याख्यायिनां चैव प्रणिधीनां च चेष्टितम् ॥ ७ २२३ ॥
गत्वा कक्ष्यान्तरं त्व् अन्यत् समनुज्ञाप्य तं जनम् ।
प्रविशेद् भोजनार्थं च स्त्रीवृतो ऽन्तःपुरं पुनः ॥ ७.२२४ ॥
तत्र भुक्त्वा पुनः किंचित् तूर्यघोषैः प्रहर्षितः ।
संविशेच् च यथाकालम् उत्तिष्ठेच् च गतक्लमः ॥ ७.२२५ ॥
एतद् वृत्तं समातिष्ठेद् अरोगः पृथिवीपतिः ।
अस्वस्थः सर्वम् एतत् तु भृत्येषु विनिवेशयेत् ॥ ७.२२६ ॥

भारुचिः ...{Loading}...

व्यायम्याप्लुत्येत्य् अत आरभ्य वैहारिकात्मसंरक्षणार्था एकादशस्लोकाः प्रसिद्धा इति कृत्वा न व्याख्यायन्ते । एवं प्रतिविहितराज्यतन्त्रः कृतात्मरक्षश् च राजा व्यवहारान् संपश्येत् प्रजानां कार्यसिद्धये ॥ ७.२१७–२६ ॥

इति ऋजुविमलस्य कृतौ मनुशास्त्रविवरणे

सप्तमो ऽध्यायः ॥