षष्ठो ऽध्यायः
वैतानिकाञ् च जुहुयाद् अग्निहोत्रं यथाविधि ।
दर्शम् अस्कन्दयन् पर्व पौर्णमासं च योगतः ॥ ६.९ ॥
भारुचिः ...{Loading}...
होमसाधनप्रदर्शनार्थम् अग्निहोत्रग्रहणम् ॥ ६.९ ॥
ऋक्षेष्ट्याग्रयणं चैव चातुर्मास्यानि चाहरेत् ।
तुरायणं च क्रमशोदाक्षस्यायनम् एव च ॥ ६.१० ॥
भारुचिः ...{Loading}...
वैतानिकम् इति श्लोके स्मार्तानाम् एव प्रवृत्तिर् दर्शपौर्णमासादिशब्दे स्तुत्यर्थम् उच्यते । श्रौतानां तु नित्यानां चरुपुरोडाशादीनां व्रीह्यादिनियतत्वाद् असामर्थ्यस्मृतिर् व्रीह्यादिनिर्वर्तने ॥ ६.१० ॥
वासन्तशारदैर् मेध्यैर् मुन्यन्नैः स्वयमाहृतैः ।
पुरोडाशांश् चरूंश् चैव विधिवन् निर्वपेत् पृथक् ॥ ६.११ ॥
भारुचिः ...{Loading}...
वैखानसोक्ता एवैते चरुपुरोडाशाः स्मार्ता वेदितव्याः ॥ ६.११॥
देवताभ्यस् तु तद् धुत्वा वन्यं मेध्यतरं हविः ।
शेषं समुपयुञ्जीत लवणं च स्वयंकृतम् ॥ ६.१२ ॥
भारुचिः ...{Loading}...
तच्छेषवृत्तितास्य नियम्यते ॥ ६.१२ ॥
स्थलजौदकशाकानि पुष्पमूलफलानि च ।
मेध्यवृक्षोद्भवान्य् अद्यात् स्नेहांश् च फलसंभवान् ॥ ६.१३ ॥
भारुचिः ...{Loading}...
आरण्यान्य् एवैतानि श्यामाकादीनि गृह्यन्ते ॥ ६.१३ ॥
वर्जयेन् मधुमांसानि भौमानि कवकानि च ।
भूस्त्रृणं शिग्रुकं चैव श्लेष्मातकफलानि च ॥ ६.१४ ॥
भारुचिः ...{Loading}...
> अयं प्रतिषेधो ऽनर्थक इति, यतः कवकग्रहणम् अनर्थकम् इति केचित्।
> अहं तु ब्रुवे, नानर्थक्यं शास्त्रे वेदितव्यं प्रसिद्धानाम् अवधानत्वाद् ऋषेः । यतो ऽनुवादो ऽयं प्रतिषिद्धानां भूस्तृषादीनां साहचर्यात् तत्समप्रत्यवायप्रज्ञापनार्थो, तत्भोजनं च प्रायश्चित्तसाम्यम् ।
> अपरस् तु शुतापसप्रतिषेधार्थम् इदम् आह ।
> तत् पुनर् विचार्यम् ।कवकानां पुनर्विधानेन तत्सहोपदिष्टानां लशुनादीनां विकत्थश् शक्यो वक्तुम्, समाचार । । । पुनर्ग्रहणवत् ।
भौमशब्दो गोजिह्विकाविषयो पृथगुक्तत्वात् । कवकशब्दस् तु प्रसिद्दार्थ एव । अपरे तु कवकविशेषणं भौमशब्दम् इच्छन्ति । तेषाम् अभोज्यत्वं प्राप्नोति । पूर्वस्मिन्न् अभक्ष्यप्रकरणे चाविशेषेण प्रतिषेधः सर्वच्छत्राकाण्म्। अथ तु तत्पदार्थविशिष्टप्रतिषेधात् एकजातिविषय एव । शिग्रुकशब्दश् च भूस्तृणसाहचर्यान् न सौभञ्जनकविषयः, किं तर्हि तत्स्वरूपतृणजातिविषयः ।
त्यजेद् आश्वयुजे मासि मुन्यन्नं पूर्वसंचितम् ।
जीर्णानि चैव वासांसि शाकमूलफलानि च ॥ ६.१५ ॥
भारुचिः ...{Loading}...
“षण्मासनिचयः” (म्ध् ६.१८) इति वैकल्पिकानि वक्ष्यति ॥ ६.१५ ॥
न फालकृष्टम् अश्नीयाद् उत्सृष्टं पूर्वसंचितम् ।
जीर्णानि चैव वासांसि शाकमूलफलानि च ॥ ६.१६ ॥
भारुचिः ...{Loading}...
अयं प्रतिषेधो फालकृष्टानां तथाफालकृष्टानाम् अपि ग्रामजातानाम् आरण्यानाम् ॥ ६.१६ ॥
अग्निपक्वाशनो वा स्यात् कालपक्वभुग् एव वा ।
अश्मकुट्टो भवेद् वापि दन्तोलूखलिको ऽपि वा ॥ ६.१७ ॥
भारुचिः ...{Loading}...
अग्निपक्वभुक् कालपक्वभुग् अश्मकुत्तभुग् इत्य् एते दन्तोलूखलिकाः ॥ ६.१७ ॥
सद्यः प्रक्षालको वा स्यान् माससंचयिको ऽपि वा ।
षण्मासनिचयो वा स्यात् समानिचय एव वा ॥ ६.१८ ॥
भारुचिः ...{Loading}...
। । । समानिचयस्यापवादः ॥ ६.१८ ॥
नक्तं वान्नं समश्नीयाद् दिवा वाहृत्य शक्ततः।
चतुर्थकालिको वा स्यात् स्याद् वाप्य् अष्टमकालिकः ॥ ६.१९ ॥
भारुचिः ...{Loading}...
[लेखोऽव्यक्तः।]
चान्द्रायणविधानैर् वा शुक्लकृष्णे च वर्तयेत् ।
पक्षान्तयोर् वाप्य् अश्नीयाद् यवागूं क्वथितां सकृत् ॥ ६.२० ॥
भारुचिः ...{Loading}...
[लेखोऽव्यक्तः।]
पुष्पमूलफलैर् वापि केवलैर् वर्तयेत् सदा ।
कालपक्वैः स्वयं शीर्णैर् वैखानसमते स्थितः ॥ ६.२१ ॥
भारुचिः ...{Loading}...
**The commentary and the mūla texts from 6.21–38 were illegible to Derrett. This is something that we may want to revisit by reading the original Malayalam manuscript. The readable commentary ends thus:
पुनर् ब्राह्मः एतस्माल् लिङ्गाद् अग्निपरित्यागात् । । । योत्सन्नशाखास्थम् अनुत्सन्नशाखास्थं वा चतुर्थम् आश्रमान्तरं प्रसादयितयं श्रुत्यविरोदेन्ह, यत् कारणं न ह्य् अकस्मात् सर्वकर्मसूत्रकर्तनो ऽस्ति ।
यो गत्त्वा दर्वभूतेभ्यः प्रव्रजत्य् अभयं गृहात् ।
तस्य तेजोमया लोकाः भवन्ति ब्रह्मवादिनः ॥ ६.३९ ॥
भारुचिः ...{Loading}...
> यो गत्त्वा दर्वभूतेभ्यः प्रव्रजत्य् अभयं गृहात् ।
> तस्य तेजोमया लोकाः
तेजस्विनो ब्रह्मलोकस्थानविशेषा अपुनरावर्तिनो ऽस्य नित्यप्रकाशलक्षणा वा परमात्मप्राप्तिलक्षणा वा
> भवन्ति ब्रह्मवादिनः ॥ ६.३९ ॥
परमात्मज्ञस्य न केवलं प्रव्रजितस्येति ॥ ६.३९ ॥
यस्माद् अण्व् अपि भूतानां द्विजान् नोत्पद्यते भयम् ।
तस्य देहाद् विमुक्तस्य भयं नास्ति कुतश्चन ॥ ६.४० ॥
अगानाद् अभिनिष्क्रान्तः पवित्रोपचितो मुनिः ।
समुपोढेषु कामेषु निरपेक्षः परिव्रजेत् ॥ ६.४१ ॥
भारुचिः ...{Loading}...
अनेन श्लोकत्रयेण सर्वभूताभयप्रदानं प्रव्रजितस्य विधीयते । एकारामता चानेन ॥ ६.४०–४१ ॥
एक एव चरेन् नित्यं सिद्ध्यर्थम् असहायवान् ।
सिद्धिम् एकस्य संपश्यन् न जहाति न हीयते ॥ ६.४२ ॥
भारुचिः ...{Loading}...
सिद्धे शास्त्राग्नित्यागे लौकिकाग्नित्यागार्थम् इदम् उच्यते ॥ ६.४२ ॥
अनग्निर् अनिकेतः स्याद् ग्रामम् अन्नार्थम् आश्रयेत् ।
उपेक्षको ऽसंचयिको मुनिर् भावसमाश्रितः ॥ ६.४३ ॥
भारुचिः ...{Loading}...
अनग्निः स्यात् । सो ऽयम् अग्नीन्धनतत्संपरिग्रहप्रतिषेधः । अनिकेतश् च स्यात् । ग्रामैकरात्रिकन्यायेन ग्रामम् अन्नार्थम् आश्रयेत् । अर्थाच् छेषं कालम् अरण्ये तिष्ठेत् । उपेक्षकः स्वशरीरादिषु । असंचयिकः अप्रतिषिद्धास्व् अपि कमण्डल्वादिमात्रासु । मुनिर् भावसमाश्रितः । चित्तसंयमोपदेशपरम् इदं ध्यानात्मानुष्ठानम् ॥ ६.४३ ॥
कपालं वृक्षमूलानि कुचेलम् असहायता ।
समता चैव सर्वस्मिन्न् एतन् मुक्तस्य लक्षणम् ॥ ६.४४ ॥
भारुचिः ...{Loading}...
समतादिगुणविधानार्थम् इदं भिक्षोः ॥ ६.४४ ॥
नाभिनन्देत मरणं नाभिनन्देत जीवितम् । कालम् एव प्रतीक्षेत निर्वेशं भृतको यथा ॥ ६.४५ ॥
दृष्टिपूतं न्यसेत् पादं वस्त्रपूतं जलं पिबेत् ।
मनःपूतां वदेद् वाचं सत्यपूतं समाचरेत् ॥ ६.४६ ॥
भारुचिः ...{Loading}...
प्रसिद्धार्थश्लोकः ॥ ६.४६ ॥
अतिवादांस् तितिक्षेत नावमन्येत कंचन । न चेमं देहम् आश्रित्य वैरं कूर्वीत केनचित् ॥ ६.४७ ॥
भारुचिः ...{Loading}...
> अतिवादांस् तितिक्षेत
क्षमोपदेशो ऽयम् ।
> नावमन्येत कंचन ।
इति परावमानं वारयति ।
> न चेमं देहम् आश्रित्य वैरं कूर्वीत केनचित् ॥ ६.४७ ॥
एवं च सति क्षमायोगा
क्रुध्यन्तं न प्रतिक्रुध्येद् आक्रुष्टः कुशलं वदेत् । सप्तद्वारावकीर्णां च न वाचम् अनृतां वदेत् ॥ ६.४८ ॥
भारुचिः ...{Loading}...
वाचस् सप्तद्वाराणि धर्मो ऽर्थः कामो धर्मार्थाव् अर्थकामौ धर्मकामौ धर्मार्थकामा इति । तत्र मोक्षाश्रिताम् एव वाचं वदेन्, न सप्तद्वाराश्रिताम् अनृतां त्रिवर्गाश्रयाम् ।
अपरे तु सप्त शिरसि प्राणाः, तदाश्रितां इत्य् आहुः ।
सप्तविभक्त्याश्रिताम् इत्य् अपरे ॥ ६.४८ ॥
अध्यात्मरतिर् आसीनो निरपेक्षो निरामिषः ।
आत्मनैव सहायेन सुखार्थी विचरेद् इह ॥ ६.४९ ॥
न चोत्पातनिमित्ताभ्यां न नक्षत्राङ्गविद्यया ।
नानुशासनवादाभ्यां भिक्षां लिप्सेत कर्हिचित् ॥ ६.५० ॥
न तापसैर् ब्राह्मणैर् वा वयोभिर् अपि वा श्वभिः ।
आकीर्णं भिक्षुकैर् वान्यैर् अगारम् उपसंविशेत् ॥ ६.५१ ॥
कॢप्तकेशनखश्मश्रुः पात्री दण्डी कुसुम्भवान् ।
विचरेन् नियतो नित्यं सर्वभूतान्य् अपीडयन् ॥ ६.५२ ॥
अतैजसानि पात्राणि तस्य स्युर् निर्व्रणानि च ।
तेषाम् अद्भिः स्मृतं शौचं चमसानाम् इवाध्वरे ॥ ६.५३ ॥
अलाबुं दारुपात्रं च मृन्मयं वैदलं तथा ।
चत्वारि यतिपात्राणि मनुः स्वायम्भुवो ऽब्रवीत् ॥ ६.५४ ॥
एककालं चरेद् भैक्षे न प्रसज्जेत विस्तरे ।
भैक्षे प्रसक्तो हि यतिर् विषयेष्व् अपि सज्जति ॥ ६.५५ ॥
भारुचिः ...{Loading}...
सायं भोजनस्य प्रतिषेधः, गार्हस्थ्ये द्विभोजनस्य प्राप्तस्य ॥ ६.५५ ॥
विधूमे सन्नमुसले व्यङ्गारे भुक्तवज्जने ।
वृत्ते शरावसंपाते भिक्षां नित्यं यतिश् चरेत् ॥ ६.५६ ॥
अलाभे न विषादी स्याल् लाभश् चाइनं न हर्षयेत् ।
प्राणयात्रिकमात्रः स्यान् मात्रासङ्गाद् विनिर्गतः ॥ ६.५७ ॥
भारुचिः ...{Loading}...
अर्थप्राप्त । । । म् अस्मिन्न् अपि ॥ ६.५७ ॥
अभिपूजितलाभांस् तु जुगुप्सेतैव सर्वशः ।
अभिपूजितलाभैस् तु यतिर् मुक्तो ऽपि बध्यते ॥ ६.५८ ॥
अल्पान्नाभ्यवहारेण रहःस्थानासनेन च ।
ह्रियमाणानि विषयैर् इन्द्रियाणि निवर्तयेत् ॥ ६.५९ ॥
भारुचिः ...{Loading}...
इन्द्रियजयोपायद्वयोपदेशो ऽयम् । कस्य पुनर् हेतोरे यौ॥।
इन्द्रियाणां निरोधेन रागद्वेषक्षयेण च ।
अहिंसया च भूतानाम् अमृतत्वाय कल्पते ॥ ६.६० ॥
भारुचिः ...{Loading}...
संसारस्वभावावलोकनेन च नित्यम् इन्द्रियजयम् आतिष्ठेत् । तच् च पुनर् इदम् ॥ ६.६० ॥
अवेक्षेत गतिर् नॄणां कर्मदोषसमुद्भवाः ।
निरये चैव पतनं यातनाश् च यमक्षये ॥ ६.६१ ॥
विप्रयोगं प्रियैश् चैव संप्रयोगं तथाप्रियैः ।
जरया चाभिभवनं व्याधिभिश् चैव पीडनम् ॥ ६.६२ ॥
देहाद् उत्क्रमणं चास्मात् पुनर् गर्भे च संभवम् ।
योनिकोटिसहस्रेषु सृतीश् चास्यान्तरात्मनः ॥ ६.६३ ॥
अधर्मप्रभवं चैव दुःखयोगं शरीरिणाम् ।
धर्मार्थप्रभवं चैव सुखसंयोगम् अक्षयम् ॥ ६.६४ ॥
सूक्ष्मतां चान्ववेक्षेत योगेन परमात्मनः ।
देहेषु चैवोपपत्तिम् उत्तमेष्व् अधमेषु च ॥ ६.६५ ॥
दूषितो ऽपि चरेद् धर्मं यत्र तत्राश्रमे रतः।
समः सर्वेषु भूतेषु न लिङ्गं धर्मकारणम् ॥ ६.६६ ॥
भारुचिः ...{Loading}...
प्रसंख्यानद्यानात्मानुष्ठानस्तुतिर् इयं समत्वदर्शनस्य, न तु लिङ्गप्रतिषेधो, विहितत्वात् ।
फलं कतकवृक्षस्य यद्य् अप्य् अम्बुप्रसादकम् ।
न नामग्रहणाद् एव तस्य वारि प्रसीदति ॥ ६.६७ ॥
भारुचिः ...{Loading}...
क्रियातः फलम्, न विज्ञानमात्राद् इत्य् अनुष्ठानस्तुतिर् इयम् ॥ ६.६७ ॥
संरक्षणार्थं जन्तूनां रात्राव् अहनि वा सदा ।
शरीरस्यात्यये चैव समीक्ष्य वसुधां चरेत् ॥ ६.६८ ॥
भारुचिः ...{Loading}...
अप्रत्ययाद् धर्मोत्पत्तिर् एव यत्नवतो ऽपि, यस्माद् समीक्ष्य वसुधां चरेद् इति । तस्य च प्रायश्चित्तम् अप्रकरणे ऽप्य् आदरार्थम् ॥ ६.६८ ॥
अह्ना रात्र्या च याञ् जन्तून् हिनस्त्य् अज्ञानतो यतिः ।
तेषां स्नात्वा विशुद्ध्यर्थं प्राणायामान् षड् आचरेत् ॥ ६.६९ ॥
प्राणायामा ब्राह्मणस्य त्रयो ऽपि विधिवत् कृताः ।
व्याहृतिप्रणवैर् युक्ता विज्ञेयं परमं तपः ॥ ६.७० ॥
दह्यन्ते ध्मायमानानां धातूनां हि यथा मलाः ।
तथेन्द्रियाणां दह्यन्ते दोषाः प्राणस्य निग्रहात् ॥ ६.७१ ॥
भारुचिः ...{Loading}...
एवं च सति ।
प्राणायामैर् दहेद् दोषान् धारणाभिश् च किल्बिषम् ।
प्रत्याहारेण संसर्गान् ध्यानेनानीश्वरान् गुणान् ॥ ६.७२ ॥
भारुचिः ...{Loading}...
प्राणायामैर् दहेद् दोषान् रागादीन् सविषयान् तत्कारणं वा ऽकुशलकर्मराशि । तथा च प्राणायामान् शुद्धिहेतून् वक्ष्यति प्रायश्चित्तप्रकरणे । तथा च प्राणायामान् शुद्धिहेतून् वक्ष्यति प्रायश्चित्तप्रकरणे । प्राणायामस्य दोषाणां च विनाश्यविनाशकसंबन्धः । शास्त्रलक्षणत्वाच् छ्रद्दधानीयः, विधिपक्षम् आश्रित्य । यतो नायं प्राणायामस्तुत्यर्थो ऽर्थवादः । स्तुत्यर्थत्वे ऽपि च सति न ह्य् अकस्मात् स्तुतिः प्राणायामानामुपपद्यते इति स्तुत्या विधिर् अनुमातव्यः । धारणाः पुनर् अवधारयत्य् आत्मानम् उपसृष्टो यतिर् योगसमाध्यवस्थायां कामक्रोधमोहलोभस्नेहादिभिः प्रवर्त्यमानम् अकुशलेषु, तभिश् च परमार्थदर्शनप्रसंख्यानभावनाख्याभिः कामादिप्रतिपक्षभूताभिर् धारणाभिः किल्बिषम् अनुत्पत्त्या दहेत् । एवं च प्राणायामैः संचितविरोधः धारणाभिर् स्नागतानुत्पत्तिर् अकुशलस्येत्य् उक्तं भवति । अपरे त्व् आहुर् विशिष्टानि शरीरात्मप्रदेशानि मनसः प्रज्ञाप्रयत्नकृतान्य् आत्मनो यथाबलं धारणाह् ।
> अन्ये धारणा मैत्र्याद्याः संचक्षते ।
> मैत्रीकृपामुदोपेक्षाः सर्वप्राणिष्व् अवस्थिताः ।
> ब्रह्मलोकं नयन्त्य् आशु ध्यातारं धारणास् त्व् इह ॥
प्रत्याहारेण मनस इन्द्रियाणां च संसर्गान् विषयसंपर्काख्याञ् छब्दाद्युपलब्धिहेतून् । तेषु ह्य् एवम् उपहेतुषु अन्तःकरणप्रत्याहारेण मनसः समाधानयोगः प्रत्यनीकः । प्रतिलब्धसमाधानस्य प्रतिबन्धकरणत्वाच् छब्दाद्युपलब्धिकण्टकानि ध्यानादीन्य् आहुर् आचार्याः । परमात्मकर्मकेण च प्रणवध्यानेनानीश्वरान् गुणान् योगर्द्धिप्रत्यनीकभूतानैश्वर्यादीन् प्रतिलब्धसमाधानस्य दहमानस्य योगिनः सर्वोपसर्गस्थानम् अतिक्रान्तस्य परमार्थदर्शनप्रसंख्यानभावनाभिर् इति ॥ ६.७२ ॥
किं चान्यत् ।
उच्चावचेषु भूतेषु दुर्ज्ञानाम् अकृतात्मभिः ।
ज्ञानयोगेन संपश्येद् गतिम् अस्यान्तरात्मनः ॥ ६.७३ ॥
भारुचिः ...{Loading}...
उच्चावचेषु गतिषूत्कृष्टापकृष्टेषु वा भूतानाम् उत्पत्तिस्थानेषु गतिसंभवम् अस्यान्तरात्मनः कर्माधिकारपुरुषस्य ज्ञानयोगेन, ज्ञानं शस्त्रं ज्ञायते ऽनेनेति कृत्वा, तदध्ययनविज्ञानसंबन्धेनाभ्यासयोगेन वा । तस्य दुर्ज्ञानाम् अकृतात्मभिर् अनधीताश्रुतशास्त्रैः । एवं हि प्रसंख्यानवान् नित्यम् अध्यात्मरतिर् उत्कृष्यते ॥ ६.७३ ॥
कस्य पुनर् हेतोर् एतद् एवम्, यस्माद् आह ।
सम्यग्दर्शनसंपन्नः कर्मभिर् न निबध्यते ।
दर्शनेन विहीनस् तु संसारं प्रतिपद्यते ॥ ६.७४ ॥
भारुचिः ...{Loading}...
सम्यग्दर्शनं नाम परमात्मदर्शनम् । संसार्यात्मनो ऽसंसार्यात्मनो वा देहेन्द्रियमनोबुद्ध्यादिव्यतिरिक्तस्य संसार्यात्मनो ऽधिकारीपुरुषस्य वा प्रधानपुरुषयोर् वा नानात्वकस्य कर्माङ्गदेवताया वा संसारस्वभावस्य च वा “अवेक्षेत गतीर् नॄणाम्” (म्ध् ६.६१) इत्य् एवमाद्य् उक्तं प्रसंख्यानविज्ञानं वा शरीरगतं शुक्लशोणिताद्युत्पन्नम् इति विषयगतं च संयग्दर्शनशब्देनोच्यते । तथा च वक्ष्यत्य् “अस्थिस्थूणम्” (म्ध् ६.७६) इत्य् एवमादि । सर्वं चैतद् यथाविषयं संयग्दर्शनशब्देनोच्यते । सामर्थ्याद् एवं ज्ञानकर्मसमुच्चयम् उपदेक्ष्यत्य् अनन्तरश्लोक एवम् । अतश् चैतद् एवम् अतः, दर्शनेन विहीनस् तु केवलकर्मकृत् संसारम् आवृत्तिम् प्रतिपद्यते पितृलोकद्वारेण । सैषा ज्ञानकर्मसमुच्च्यस्तुतिर् विज्ञानमात्रस्तुतिर् वा ॥ ६.७४ ॥
तथा च दर्शयति ।
अहिंसयेन्द्रियासङ्गैर् वैदिकैश् चैव कर्मभिः ।
तपसश् चरणैश् चोग्रैः साधयन्तीह तत्पदम् ॥ ६.७५ ॥
भारुचिः ...{Loading}...
अहिंसयेति सामान्यम् अपीदं प्रव्रजितस्य विशेषसाधनम् । तद् धर्मानाम् अपि विशेषाणां निदर्शनार्थम् । एवम् इन्द्रियसङ्गैः ब्रह्मचारिणः, वैदिकैश् चाग्निहोत्रादिकर्मभिः गृहस्थस्य, तपसश् चरणैर् इति तापसस्य । तदैवं सर्वाश्रमेष्व् अयं ज्ञानकर्मसमुच्चयो ब्रह्मत्वप्राप्तिहेतुर् विज्ञेयः, समुच्चयविकल्पपक्षयोर् आश्रमाणाम्, न तु बाधापक्षे । प्रकरणाद् वायं प्रव्रजितस्य विज्ञानकर्मस्मुच्चयः । एवं च सति वैदिकैश् चैव कर्मभिर् इत्य् अत्र वेदान्तचोदिता परमात्मोपासना गृह्यते, नाग्निहोत्रादीनि कर्माणि । तपसश् चरणैर् इत्य् अत्रापि तद् धर्मा एवानूद्यन्ते । तथा चोपनिषत्स्व् एवाह- “तस्माद् एवंविच् छान्तो दान्त उपरतस् तितिक्षुः समाहितो भूत्वात्मन्य् एवात्मानं पश्यति” इति । न वानप्रस्थधर्माः ॥ ६.७५ ॥
एवं च सत्य् अयम् अनेन सम्यग्विज्ञानसमानभावनाकरमेण प्रसन्नतत्त्वज्ञानो वैराग्यप्रकर्षात् प्रसंख्यायेमं कायम् एव,
अस्थिस्थूणं स्नायुबद्धं मांसशोणितलेपनम् ।
चर्मावनद्धं दुर्गन्धिं पूर्णं मूत्रपुरीषयोः ॥ ६.७६ ॥
जराशोकसमाविष्टं रोगायतम् आतुरम् ।
रजस्वलम् अनित्यं च भूतावासम् इमं त्यजेत् ॥ ६.७७ ॥
भारुचिः ...{Loading}...
तस्य च त्यागस्योपायभेदाद् द्वित्वं दृष्टान्तद्वयेन प्रदर्शयति ।
नदीकूलं यथा वृक्षो वृक्षं वा शकुनिर् यथा ।
तथा त्यजन्न् इमं देहं दुःखग्राहाद् विमुच्यते ॥ ६.७८ ॥
भारुचिः ...{Loading}...
यस् तावद् घटमानकस् तस्य कर्मक्षयात् अपराधिनो देहत्यागः, यथा वृक्षस्याबुद्धिपूर्वः पातः । यः पुनर् अभ्याससामर्थ्यात् प्राणमनोनिग्रहस् तस्य निस्तीर्णोपधस्य पश्यप्रकृतेर् धर्मविशेषोपष्कृतात्मनो महायोगयुक्तदीकस्य बुद्धिपूर्वो देहत्यागः शकुनिवद् जिज्ञेयः सांख्ययोगयोर् आशयो देहपातद्वयोपदेशो दृष्टान्तद्वयेन प्रदर्श्यते ॥ ६.७८ ॥
इदानीं क्षमासाधनस्तुत्यर्थं मध्यस्थ्यप्रदर्शनार्थं वा प्रसंख्यानम् इदम् अत्रोच्यते ।
प्रियेषु स्वेषु सुकृतम् अप्रियेषु च दुष्कृतम् ।
विसृज्य ध्यानयोगेन ब्रह्माभ्येति सनातनम् ॥ ६.७९ ॥
भारुचिः ...{Loading}...
प्रियेषु स्वेषु धर्मविरुद्धेष्व् आत्मीयेषु स्वादुभैक्षलाभादिषु च निपतत्सु कारणत्वेनात्मीयम् एव सुकृतं विसृज्य, ध्यानयोगेन परमार्थदर्शनेन विनियुज्य, तम् कारणतया स्वधर्मं व्युदस्य च तत्संपादयितारं पुरुषम्, एवम् अप्रियेषु दुष्कृतं विसृज्य ध्यानयोगेन परं ब्रह्माभ्येति।
क्षमयानया विगतरागद्वेषतया च मध्यस्थो भूत्वा, एवं च अयम्,
यदा भावेन भवति सर्वभावेषु निःस्पृहः ।
तदा सुखम् अवाप्नोति प्रेत्य चेह च शाश्वतम् ॥ ६.८० ॥
भारुचिः ...{Loading}...
इह शमसुखं प्रेत्य च ब्रह्मलोकप्राप्तिसुखम् । शाश्वतम् इतीयं स्तुतिः भूतार्थानुवादो वा ॥ ६.८० ॥
अधुना सर्वसङ्गत्यागोपयोपदेशस्य प्रयोजनम् इदम् आचष्टे ।
अनेन विधिना सर्वांस् त्यक्त्वा सङ्गाञ् छनैः शनैः ।
सर्वद्वन्द्वैर् विप्रमुइतो ब्रह्मण्य् एवावतिष्ठते ॥ ६.८१ ॥
भारुचिः ...{Loading}...
उभाव् अपि चेमौ श्लोकौ “प्रियेषु स्वेषु सुकृतम्” (म्ध् ६.७९) इत्य् एतस्य श्लोकस्य शेषयोर् वचनीयौ ॥ ६.८१ ॥
तथा च सत्य् एतद् अत्र यत् परमार्थदर्शनं रागद्वेषप्रहाणायोक्तं “विसृज्य ध्यानयोगेन” इति तत्स्तुतिम् अधिकृत्य सर्वविज्ञानस्तुत्यर्थं वेदम् आरभ्यते ।
ध्यानिकं सर्वम् एवैतद् यद् एतद् अभिशब्दितम् । न ह्य् अनध्यात्मवित् कश्चित् क्रियाफलम् उपाश्नुते ॥ ६.८२ ॥
भारुचिः ...{Loading}...
> ध्यानिकं सर्वम् एवैतद् यद् एतद् अभिशब्दितम् ।
प्रकरणात् प्रव्रज्याख्यं कर्म सर्वाश्रमकर वा, कार्यसामान्यात् । द्यानशब्देन च यावत् किंचिद् अत्र प्रव्रज्याप्रकरणे शास्त्रे वा परमार्थदर्शनम् उक्तं तत् सर्वम् अभिधीयते । तस्मिन् ध्याने परमार्थदर्शने यत् कर्म तद् ध्यानिकम् । एवं च सति परमार्थदर्शनस्तितुर् इयम्, ज्ञानकर्मसमुच्चयस्तुतिर् वा । तथा चोक्तम्- “सम्यग्दर्शनसंपन्नः कर्मभिर् न निबध्यते” (म्ध् ६.७४) इति । अस्य वा हेतुर् अयं विज्ञेयः । कस्मात् पुनर् एतद् एवं भवति, यस्मात्,
> न ह्य् अनध्यात्मवित् कश्चित् क्रियाफलम् उपाश्नुते ॥ ६.८२ ॥
आत्मनि तद् इत्य् अध्यात्मं बुद्ध्यादि तद् वेत्तीत्य् अध्यात्मविच् च । पुनर् यथाविषयं व्याकरणीयम् । अस्य निदर्शनार्थम् इदं रहस्यब्राह्मणं भवति “यो वा एतद् अक्षरं गार्ग्य् अविदित्वा ऽस्मिंल् लोके जुहोति यजते तपस् तप्यते बहूनि वर्षसहस्राण्य् अन्तवद् एवास्य तद् भवति” इति श्रुतेः । तथा च समुच्चये प्रशस्यते- “तद् य इत्तम् एतद् विदुर् ये चेमे ऽरण्ये श्रद्धा तप इत्य् उपासते, ते ऽर्चिषम् अभिसंभवन्ति” इत्य् एवमादिः । अधुना षडङ्गवेदाध्ययनोपदेशात् पूर्वत्र ब्रह्मचारिप्रकरणे नियमार्थं प्रव्रजितस्येदम् आरभ्यते, विशेषार्थं वा ॥ ६.८२ ॥
अध्यात्मनिष्ठत्वोपदेशे वा सति तन्निवृत्त्याशङ्कयानुवृत्त्यर्थम् इदम् उच्यते ।
[अधियज्ञं ब्रह्म जपेद्] अधिदैविकम् एव च ।
आध्यात्मिकं च सततं वेदान्ताभिहितं च यत् ॥ ६.८३ ॥
भारुचिः ...{Loading}...
यज्ञे तद् इत्य् अधियज्ञं कर्मोपदेशः । ब्रह्म विध्यर्थवादनामधेयाख्यम् । आधिदैविकं मन्त्राः । आध्यात्मिकं च ब्रह्ममन्त्रैकदेशः । प्रकरणात् पुरुषसूक्तादि सुक्रिया वा । वेदान्ताभिहितम् उपनिषदः । सामर्थ्यात् सोयं मन्त्रब्राह्मणाख्यो वेदः, श्लोकसमाप्त्यर्थम् एवं चतुर्धोक्तः । तथा च सति यथैव प्रव्रजितस्याध्यात्मानुष्ठानम् उत्कर्षाय, एवं वेदाभ्यासो ऽपीत्य् एतद् अपि सामर्थ्याद् अवगम्यते । तथा च स्मृतिः-
> शब्दब्रह्मणि निष्णातः
तस्याध्ययनविज्ञानतदर्थानुष्ठानेन,
> परं ब्रह्माधिगच्छति ॥
अपरस् त्व् आह- समर्थस्येदम् अध्यात्मानुष्ठाने श्रौतस्य वा तत्रारतेर् वा ।
अस्येदानीं सर्वविधेर् वा यथायोगं स्तुत्यर्थम् इदम् आरभ्यते ।
इदं शरणम् अज्ञानाम् इदम् एव विजानताम् ।
इदम् अन्विच्छतां स्वर्गम् इदम् आनन्त्यम् इच्छताम् ॥ ६.८४ ॥
भारुचिः ...{Loading}...
अस्येदानीं सर्वविधेर् वा यथायोगं स्तुत्यर्थम् इदम् आरभ्यते ।
आनन्तर्याद् ब्रह्मणो जपकर्मेदम् उच्यते यथा सांख्येन । अथ वा परिव्रज्याप्रशंसेयम्, तदुपसंहारदर्शनात् चातुराश्रमिधर्मक्रमेण शास्त्रस्यानुपसंहारात् तस्य । तथा च शास्त्रोपसंहारशास्त्रस्तुतिर् वक्ष्यते ॥ ६.८४ ॥
अनेन क्रमयोगेन परिव्रजति यो द्विजः ।
स विधूयेह पाप्मानं परं ब्रह्माधिगच्छति ॥ ६.८५ ॥
भारुचिः ...{Loading}...
अयं श्लोकः परव्रज्याधिकारस्तुत्यर्थः, आश्रमसमुच्चयस्तुत्यर्थो वा ॥ ६.८५ ॥
एष धर्मो ऽनुशिष्टो वो यतीनां नियतात्मनाम् ।
वेदसंन्यासिकानांतु कर्मयोगं निबोधत ॥ ६.८६ ॥
भारुचिः ...{Loading}...
पूर्वोत्तरयोः प्रकरणयोर् उपसंहारार्थोपन्यासार्थः श्लोकः । वेदस्य संन्यासो वेदसंन्यासः । तत्र भवो वेदसंन्यासिकम् । न हि वेदस्य संन्यासो ऽस्ति शास्त्रविरोधात्, यतः सामर्थ्याद् अयम् अस्यार्थ उच्यते । वेदस्य हि ग्रन्थार्थाभ्यासनिमित्तः, तदर्थानुष्ठानाय च प्रतिग्रहादीनां वृत्तिकर्मणां संन्यासो यस्य स वेदसंन्यासिको गृहस्त एव कृतकरणीयो ऽभिधीयते सामर्थ्यात् । तथा च तं वक्ष्यत्य् अनन्तरम् एव । कृतसंपत्तिविधानो वा आसन्नमृत्यूपदर्शकेनारिष्टदर्शनेन । तथा च वाजसनेयकं रहस्यब्राह्मणम् इदमर्थं भवति । “अथातः संप्रत्तिः । यदा प्रैष्यन् मन्यते ऽथ पुत्रम् आह” इत्य् एवमादि । स हि कृतकरणीयः तथावसन्नशरीरो वा जरसा कृतसंपत्तिविधानो पुत्रोपहृतवृत्तिर् अस्याम् अवस्थायां निरुत्सुकः परमसंयमवान् परमात्मध्यानैकालम्बनः सुखम् आसीत । न तु नित्यानाम् अग्निहोत्रादीनां संन्यासो ऽस्ति, नित्यत्वाद् एव, शास्त्रविरोधाच् च, न च वेदस्येत्य् उक्तम् । यतो ऽयम् एव शास्त्रार्थ इति, विकल्पार्थश् चायम् अस्येहोपदेशः पारिव्राज्येनाक्रमे ऽपि कथम् । यस् तावत् समर्थो गृहात् प्रव्रज्यायां तस्य यथाशास्त्रं संभवति, असमर्थस्य पुनर् उत्सृष्टाग्नेः शास्त्राद् अर्थाद् वेयम् अवस्थोच्यते । प्रव्रज्या वैकल्पिकी । एवं च कृत्वा प्रव्रज्यानन्तरं (?) तदुपदेशो युज्यत इति ॥ ६.८६ ॥
उक्त आश्रमाणां समुच्चयस्, तेषां पुनर् अधुना बाधाविकल्पौ वक्तव्याव् इति । यतस् तत्प्रसिद्धय इदम् आरभ्यते ।
ब्रह्मचारी गृहस्थश् च वानप्रस्थो ऽथ भिक्षुकः ।
एते गृहस्थप्रभवाश् चत्वारः पृथग् आश्रमाः ॥ ६.८७ ॥
भारुचिः ...{Loading}...
एवं च न पाषण्डोत्पन्नाः सन्तः स्वकर्मणा संबध्यन्ते । सर्वाश्रमाणां च गार्हस्थ्यस्य श्रैष्ठ्यम् । बाधापक्षम् आश्रित्य यद् वक्ष्यति तत्स्तुत्यर्थम् इदं वेदितव्यम् । विकल्पार्थं पुनर् इदम् एषाम् ॥ ६.८७ ॥
सर्वे ऽपि क्रमशस् त्व् एते यथाशास्त्रं निषेविताः ।
यथोक्तकारिणं विप्रं नयन्ति परमां गतिम् ॥ ६.८८ ॥
भारुचिः ...{Loading}...
अपिशब्दात् सर्वे ऽपि त्रयो ऽपि द्वाव् अपि एको ऽपीत्य् अयम् एव विकल्पः प्रदर्शनीयः, समुच्चयवत् तेषाम् । तथा च स्मृत्यन्तरम्- “तस्याश्रमविकल्पम् एके” (ग्ध् ३.१) इति । सर्वसमुच्चयवच् च द्वित्रिसमुच्चयो ऽप्य् अपिशब्दसामर्थ्याद् उपदिष्टो मन्तव्यः ॥ ६.८८ ॥
बाधापक्षस् तु ।
सर्वेषाम् अपि त्व् एतेषां वेदश्रुतिविधानतः ।
गृहस्थ उच्यते श्रेष्ठः स त्रीन् एतान् बिभर्ति हि ॥ ६.८९ ॥
भारुचिः ...{Loading}...
वेदश्रुत्या गार्हस्थ्(य्)अस्याधानात् प्रभृत्य् आश्मशानकरणात् सर्वम् अभिधीयते, न स्मृत्या । अतः “प्रत्यक्षविधानाद् गार्हस्थ्यस्य” (ग्ध् ३.३६) तदनुष्ठानपुरुषो ऽपि श्रेष्ठ उच्यते यतश् च स त्रीन् एतान् बिभर्त्य् अन्नादिभिः । अतश् च गृहस्थाश्रमस्य वेदश्रुतिविधानतः श्रैष्ठ्यवचनात् तद्विरोधेनाश्रमान्तरप्रतिपत्तिर् अर्थाद् गम्यते । एवं च सत्य् आश्रमाणां न समो विकल्पः, किं तर्ःइ विषमः ॥ ६.८९ ॥
अस्मिन् बाधापक्षे स्मार्तत्वाद् आश्रमाणाम् अस्य स्तुतुः ।
यथा नदी नदाः सर्वे सागरे यान्ति संस्थितम् ।
तथैवाश्रमिणः सर्वे गृहस्थे यान्ति संस्थितम् ॥ ६.९० ॥
भारुचिः ...{Loading}...
यथा च गौतमः- “ऐकाश्रम्यं त्व् आचार्याः” इत्य् एवमादि । त्रयो ऽपि चैते, आश्रमाणां विकल्पाद् अस्मिन् पक्षे वेदस्मृतिशास्त्राविरोधेन यथाधिकारं व्याख्येयाः । एकान्तग्रहणस् त्व् आचार्यः शास्त्रविरोधाद् विज्ञेयः ॥ ६.९० ॥
चतुर्भिर् अपि तूपेतैर् नित्यम् आश्रमिभिर् द्विजैः ।
दशलक्षणको धर्मः सेवितव्यः प्रयत्नतः ॥ ६.९१ ॥
भारुचिः ...{Loading}...
तत्र तत्र शास्त्रे विक्षेपेणोक्तानां वृत्त्यादीनां समाहृत्येहोपदेशः पुनर् असंमोहार्थः, अथ वा साधारणत्वप्रदर्शनार्थः, विशेषणार्थो वा ॥ ६.९१ ॥
धृतिः क्षमा दमो ऽस्तेयं शौचम् इन्द्रियसंयमः ।
धीर् विद्या सत्यम् अक्रोधो दशकं धर्मलक्षणम् ॥ ६.९२ ॥
भारुचिः ...{Loading}...
धृतिर् नाम यथाशास्त्रम् अवस्थानम् आत्मगुनाद् यतो भवति सा धृतिः । क्षमा चित्तसंक्षोभहेतुष्व् अप्रतिक्रियापराधमर्षनेन । दमस् तु द्वन्द्वाभिमुख्यम्, शास्त्रविहिताभ्यासं दमं मन्यन्ते च । परद्रव्येष्व् आत्मसंयमो ऽस्तेयम् । आहारादिशुद्धिः शौचम् । इन्द्रियसंयमो नाम इन्द्रियविषयेष्व् अविरुद्धेष्व् अप्रसङ्गं यथाविषयम् । विज्ञानं शस्त्रात् संशयादिप्रतिपक्षरहितं धीः । विद्या वेदाभ्यासः । सत्यम् प्रसिद्धम् । अक्रोधः सत्स्व् अपि संक्षोभहेतुषु चित्तस्याविकारः । पूर्वत्रोत्पन्नस्य क्रोधस्य कार्यानारंभः क्षमेत्य् उक्तः, इह त्व् अनुत्पत्तिर् एव क्रोधस्येति विशेषः । सर्वं चैतच् छास्त्रविहितम् अपि सत् सुखावभोधनार्थं पुनः संक्षिप्योक्तम् ॥ ६.९२ ॥
परिचिन्त्यमानश् च सर्वो ऽयं यमनियमाधीनेति तत्फलविवक्षयेदम् आह ।
दश लक्षणानि दर्मस्य ये विप्राः समधीयते ।
अधीत्य चानुवर्तन्ते ते यान्ति परमां गतिम् ॥ ६.९३ ॥
भारुचिः ...{Loading}...
संन्यासक्रमार्थम् अधुनेदम् उच्यते ।
दशलक्षणकं धर्मम् अनुतिष्ठन् समाहितः ।
वदान्तान् विधिवच् छ्रुत्वा संन्यसेद् अनृणो द्विजः ॥ ६.९४ ॥
भारुचिः ...{Loading}...
प्रकरणाच् च वेदन्यासिकस्योच्यते । अन्ये तु प्रव्रजिष्यतो ऽप्य् आहुः । एवं च सति परित्यक्तसर्वबाह्यव्यापारः ॥ ६.९४ ॥
संन्यस्य सर्वकर्माणि कर्मदोषान् अपानुदन् ।
नियतो वेदम् अभ्यस्य पुत्रैश्वर्ये सुखं वसेत् ॥ ६.९५ ॥
भारुचिः ...{Loading}...
संन्यासप्रयोजम् इदानीं तदनुष्ठानप्ररोचनार्थम् आह ।
एवं संन्यास्य कर्माणि स्वकार्यपरमो ऽस्पृहः ।
संयासेनापहत्यैनः प्राप्नोति परमां गतिम् ॥ ६.९६ ॥
भारुचिः ...{Loading}...
फलार्थवादो ऽयम्, फलविधिर् वा ॥ ६.९६ ॥
एष वो ऽभिहितो धर्मो ब्राह्मणस्य चतुर्विधः ।
पुण्यो ऽक्षयफलः प्रेत्य राज्ञां धर्मं निबोधत ॥ ६.९७ ॥
भारुचिः ...{Loading}...
आगमः सत्य् अपि द्विजातित्वे । तथा च वाजसनेयकं रहस्यब्राह्मणम् इदमर्थं भवति- “ब्राह्मणाः प्रव्रजन्ति” एवमाद्य् उक्तो वर्णाश्रमधर्मः । तद्व्यतिक्रमनिमित्तस् त्व् इदानीं प्रायश्चित्तलक्षणो वक्तव्यो ऽपि स नोच्यते, तत्संरक्षणहेतोः पार्तिवधर्मस्यानभिधानात् । एवं च सति यः श्रद्दधानतया यथाशस्त्रं गुरुम् उपस्थास्यते तस्य व्यतिकर्माभावात् प्रायश्चित्तानधिकार एव, इतरस्य तु राजदण्डभयात् । यः पुनर् अनयोः राजाचार्ययोः शासनातिगो भविष्यति तं प्रत्य् उपदेशः प्रायश्चित्तस्य युज्यते । यतो ऽर्थक्रमाद् एवैतस्मात् प्रायश्चित्तानि प्रोत्सार्य राजधर्मा एव तावच् छिष्यन्त इति ॥ ६.९७ ॥
ऋजुविमलस्य कृतौ मनुशास्त्रविवरणे षष्ठो ऽध्यायः ।