द्वादशो ‘ध्यायः
चातुर्वर्ण्यस्य कृत्स्नो ऽयम् उक्तो धर्मस् त्वयानघ ।
कर्मणां फलनिर्वृत्तिं शंस नस् तत्त्वतः पराम् ॥ १२.१ ॥
भारुचिः ...{Loading}...
ननु चातुर्वर्णस्य वचनाद् इहाश्रमधर्मव्युदास इति । न व्युदासः, जातेर् अविनाशाद् अनपायाच् चाश्रमधर्मा अपि वर्णधर्मा एव । तथा च कृत्वोक्तम्- “भगवान् सर्ववर्णानां यथावद् अनुपूर्वशः” इत्य् एवमादि । अस्य प्रतिवचनम् “वर्णधर्मान् निबोधत” इति । कृत्स्नवचनं चात्र प्रायश्चित्ताभिधानापेक्षम् । येनास्मिन् सत्य् अस्य धर्मशास्त्रस्य समस्तपुरुषार्थसाधकत्वं भवति । वाक्यत्रये चादृष्ट्पुरुषार्थसमाप्तिः । यथा- इदं कर्तव्यम्, इदम् अकर्तव्यम्, मोहाद् अकुसलकर्मनिमित्ते च कदाचित् प्रतिषेधशास्त्रव्यतिक्रमे सतीदं प्रायश्चित्तम् अनुष्टेयम् इति । अत्र दृष्टार्था पुरुषार्थसमाप्तिः, आयुर्वेदवत् । अतो युक्तम् इदम् आह प्रायश्चित्ताभिधानापेक्षं कृत्स्नग्रहणम्, न तु यत् पूर्वम् उक्तम् “एष वो ऽभिहितो धर्मो ब्राह्मणस्य चतुर्विधः” इत्य् एवमादि । “कर्मणां फलनिर्वृत्तिम्” इति चैतत् प्रायश्चित्ते ऽननुष्ठिते इयम् इति प्रकरणसामर्थ्यात् अकुशलधर्मापेक्षं प्रधानतो विज्ञेयम् । एवं च सतीदं महतो ऽनर्थलक्षणस्याधर्मविपाकस्य नरकादिस्थानेषु यातनाप्रदर्शनं प्रायश्चित्तानुष्ठानशेषतया कल्पिष्यते । लघूपायसाध्यत्वाद् धर्मक्षयस्य प्रायश्चित्तोपदेशः पुरुषार्थकारी संपद्यते । एवं च तदुपन्यासपर एवायं श्लोको वेदितव्यः ॥ १२.१ ॥
स तान् उवाच धर्मात्मा महर्षीन् मानवो भृगुः ।
अस्य सर्वस्य शृणुत कर्मयोगस्य निर्णयम् ॥ १२.२ ॥
भारुचिः ...{Loading}...
प्रतिज्ञाश्लोकः । कर्मशब्दश् च साधारणो ऽपि सन्न् अयम् अधर्मार्थप्रधानः प्रकरणाद् विज्ञेयः । तथा चोक्तं पुरस्ताद् इति ॥ १२.२ ॥
शुभाशुभफलं कर्म मनोवाग्देहसंभवम् ।
कर्मजा गतयो नॄणाम् उत्तमाधममध्यमाः ॥ १२.३ ॥
भारुचिः ...{Loading}...
मनोवाग्देहकारणं च संकल्पोक्तिक्रियारूपं कर्मद्विप्रकारं कुशलाकुशलतया भिन्नानां गतीनां निमित्तम् । एवं च सति शुभग्रहणाद् अत्र धर्मनिर्देशो ऽपि प्रायश्चित्तप्रकरणशेष एव प्रणाडिकया विज्ञेयः ॥ १२.३ ॥
तस्येह त्रिविधस्यापि त्र्यधिष्ठानस्य देहिनः ।
दशलक्षणयुक्तस्य मनो विद्यात् प्रवर्तकम् ॥ १२.४ ॥
भारुचिः ...{Loading}...
त्रिविधस्योत्तममध्यमजघन्यस्य, त्र्यधिष्ठानस्य कायवाङ्मनोनिमित्तस्य, मनः प्रवर्तकम् । येन नासंकल्पितं मनसा पुरुषः शक्नोति वक्तुं कर्तुं वा ॥ १२.४ ॥
परद्रव्येष्व् अभिध्यानं मनसानिष्टचिन्तनम् ।
वितथाभिनिवेशश् च त्रिविधं कर्म मानसम् ॥ १२.५ ॥
भारुचिः ...{Loading}...
परद्रव्यापहारबुद्धिः । अन्यस् त्व् आह- ममाप्य् एतत् स्याद् इत्य् एतत् परद्रव्याभिध्यानम् । तच् चैतत् परिपेलवन् । मनसानिष्टं नाम प्राणिनां जिघांसा । वितथाभिनिवेशो धर्माध्यस्तित्वादिषु । तथा च व्यासः-
अनभिध्या परस्वेषु सर्वसत्त्वेषु सौहृदम् ।
कर्मणां फलम् अस्तीति त्रिविधं कर्म संस्मरेत् ॥ इति ॥ १२.५ ॥
पारुष्यम् अनृतं चैव पैशुन्यं चापि सर्वसः ।
असंबन्धप्रलापश् च वाङ्मयं स्याच् चतुर्विधम् ॥ १२.६ ॥
भारुचिः ...{Loading}...
सत्यानृतविपरीतोद्देशादि तथाख्यः । एतद्विपरीतास् तु शुभाः प्रियं सत्यं हितं स्वाध्यायश् चेति ॥ १२.६ ॥
अदत्तानाम् उपादानं हिंसा चैवाविधानतः ।
परदारोपसेवा च शारीरं त्रिविधं स्मृतम् ॥ १२.७ ॥
भारुचिः ...{Loading}...
अयम् अधर्मः यो धर्माख्यतो (?) विपरीत्[ओ दत्ता]दानं परित्राणम् इन्द्रियसंयमश् चेति । इयं मनोगाग्देहसाधना दशविधा प्रवृत्तिः । कुशलाकुशलविभागेन तु विंशतिप्रकारः । तथा चोभयथा प्रदर्शितेति ॥ १२.७ ॥
मानसं मनसैवायम् उपभुङ्क्ते शुभाशुभम् ।
वाचा वाचा कृतं कर्म कायेनैव च कायिकम् ॥ १२.८ ॥
भारुचिः ...{Loading}...
परस्य मनस्तापजनको मानसम् एव कुःखं प्राप्नोति । एवं वागपचारे मौक्यगद्गदादिनिमित्तं दुःखम् । काये ऽपि चैषैव योजना । साधनानुरूप्येणैवम् अनिष्टफलप्रदर्शनं तन्निवृत्त्यर्थम् उत्तरार्थं वा ॥ १२.८ ॥
शरीरजैः कर्मदोषैर् याति स्थावरतां नरः ।
वाचिकैः पक्षिमृगतां मानसैर् अन्त्यजातिताम् ॥ १२.९ ॥
भारुचिः ...{Loading}...
शास्त्रन्यायविरोधे नेदं हेतुफलसंबन्धप्रदर्शनम्, किं तर्हि त्रिसाधनस्याधर्मस्यानन्तरश्लोकोक्तस्य गुरुलघुत्वप्रदर्शनम् । विसेषतो गुरोर् अधर्मस्य परिहारार्थण्ं ज्ञेयम् । प्रायस्चित्तशेषं वा प्रकरणात् । मृगग्रहणं च सर्वतिर्यग्जातिप्रदर्शनार्थम् ॥ १२.९ ॥
वाग्दण्डो ऽथ मनोदण्डः कायदण्डश् च ते त्रयः ।
यस्यैते नियता बुद्धौ त्रिदण्डीति स उच्यते ॥ १२.१० ॥
भारुचिः ...{Loading}...
त्र्यधिष्ठाना एव दण्डास् त्रयः ॥ १२.१० ॥
त्रिदण्डम् एतं निक्षिप्य सर्वभूतेषु मानवः ।
कामक्रोधौ च संयम्य ततः सिद्धिं निगच्छति ॥ १२.११ ॥
भारुचिः ...{Loading}...
त्रिदण्डम् एतं निक्षिप्य स्वात्मन्य् उपसंहृत्य सर्वभूतेष्व् अवस्थितम् उपघातहेतुत्वेन मानवः सिद्धिं निगच्छतीति विवक्षितम् इति । इदं त्रिदण्डोपसंहरस्य करणं दर्सयति । कामक्रोधसंयमपूर्वकस् त्रिदण्ड्ōपसंहारः क्र्तो भवति । तदुपसंहाराच् च ततो ऽनन्तरं सिद्धिं निगच्छतीत्य् अयम् अस्य फलनिर्देसः । मानवग्रहणाच् च पुरुषधर्मत्वं त्रिदण्डोपसंहारस्य दर्शयति । इदानीं कामक्रोधसंयमेन यस्य त्रिदण्डोपसंहारात् सिद्धिः, तं सर्वधर्माधिकारपुरुषं प्रदर्शयितुकाम इदम् आह ॥ १२.११ ॥
यो ऽस्यात्मनः कारयिता तं क्षेत्रज्ञं प्रचक्षते ।
यः करोति तु कर्माणि स भूतात्मोच्यते बुधैः ॥ १२.१२ ॥
भारुचिः ...{Loading}...
अस्य शरीरस्य क्रियायां प्रवर्तयिता क्षेत्रज्ञः । शरीरे चात्मशब्दो गौणः, आत्मार्थत्वात् । शिरह्पाण्यादिलक्षणस् तु भूतसंघातो ऽन्नरसमयः शरीराख्यः कर्ता भूतात्मा स उच्यते, भूतकार्यत्वात् ॥ १२.१२ ॥
जीवसंज्ञो ऽन्तरात्मान्यः सहजः सर्वदेहिनाम् ।
येन वेदयते सर्वं सुखं दुःखं च जन्मसु ॥ १२.१३ ॥
भारुचिः ...{Loading}...
येनेति तृतीयया कारणोपदेशात् मन इदं विज्ञेयम् अन्तःकरणत्वात् । जीवशब्देनेति । आत्मग्रहणं चामोक्षप्राप्तेर् आ प्रलयाच् च तदवियोगो यस्मात् । एवं च तस्य कारणनिर्देशो येन वेदयते क्षेत्रज्ञः सुखदुःखम् इति । बुद्धिर् इत्य् अपरे । श्रोत्रादिप्राणादिसमूहो लिङ्गाख्य इत्य् अन्ये । अन्तःकरणपक्षे च क्षेत्रज्ञस्योपलब्धौ कारणम् इदं निर्दिश्यत इत्य् अविप्रतिपत्तिः ॥ १२.१३ ॥
ताव् उभौ भूतसंपृक्तौ महान् क्षेत्रज्ञ एव च ।
उच्चावचेषु भूतेषु स्थितं तं व्याप्य तिष्ठतः ॥ १२.१४ ॥
भारुचिः ...{Loading}...
महच्छब्देन तद् एवान्तःकरणं गृह्यते लिङ्गादिशब्दपर्यायः । क्षेत्रज्ञस् तु कामाधिकारपुरुषः सुखदुःखोपभोक्ता । उच्चावचेषु भूतेष्व् औत्तराधर्येण व्यवस्थितेष्व् इत्य् अर्थः । बहुलपर्यायो वायम् उच्चावचसब्दः । बहुष्व् इत्य् अर्थः, स्थितं तं परमात्मानं चेतनाचेतनव्यतिरिक्तम् उपरिष्टाद् वक्ष्यमाणम् । व्याप्य तिष्ठतः संश्रय इत्य् अर्थः । तथा च व्यासः-
[द्वाव् इमौ पुरुषौ लोके क्षरश् चाक्षर एव च ।
क्षरः सर्वाणि भूतानि कूटस्थो ऽक्षर उच्यते ॥
उत्तमः पुरुषस् त्व् अन्यः परमात्मेत्य् उदाहृतः ।
यो लोकत्रयम् आविश्य बिभर्त्य् अव्यय ईश्वरः ॥ इति ॥ १२.१४ ॥
असङ्ख्या मूर्तयस् तस्य निष्पतन्ति शरीरतः ।
उच्चावचानि भूतानि सततं चेष्टयन्ति याः] ॥ १२.१५ ॥
भारुचिः ...{Loading}...
उच्चावचानि भूतानि सततं [याः असङ्ख्या मूर्तीश् चेष्टयन्ति ताः] तस्य परमात्मनो निष्पतन्ति शरीरतः प्रधानाद् इत्य् उक्तम् । मूर्तयः कार्यकारणानि क्षेत्रज्ञस्य भोगसाधनानि । औपनिषदास् तु परमात्मानम् एव शरीरशब्देनाहुः ॥ १२.१५ ॥
पञ्चभ्य एव मात्राभ्यः प्रेत्य दुष्कृतीनाम् नृणाम् ।
शरीरं यातनार्थीयम् अन्यद् उत्पद्यते ध्रुवम् ॥ १२.१६ ॥
भारुचिः ...{Loading}...
पञ्चभ्यो भूतमात्राभ्यः स्थूलं यातनाक्षमं नरकादिष्व् अन्यच् छरीरम् उपपद्यते । कुतो ऽन्यत् । सूक्ष्माल् लिङ्गात् ॥ १२.१६ ॥
तेनानुभूय ता यामीः सरीरेण तु यातनाः ।
तास्व् एव भूतमात्रासु प्रलीयन्ते विभागशः ॥ १२.१७ ॥
सो ऽनुभूयासुखोदर्कान् दोषान् विषयसङ्गजान् ।
व्यपेतकल्मषो ऽभ्येति ताव् एवोभौ महौजसौ ॥ १२.१८ ॥
भारुचिः ...{Loading}...
महत् परमात्मानौ ॥ १२.१७–१८ ॥
तौ धर्मं पस्यतस् तस्य पापं चातन्द्रितौ सह ।
याभ्यां प्राप्नोति संपृक्तः प्रेत्येह च शुभाशुभम् ॥ १२.१९ ॥
भारुचिः ...{Loading}...
तौ च तत्कृतां धर्मगतिं दृष्ट्वा ॥ १२.१९ ॥
यद्य् आचरति धर्मं स प्रायशो ऽधर्मम् अल्पशः ।
तैर् एव चावृतो भूतैः स्वर्गे सुखम् उपाश्नुते ॥ १२.२० ॥
यदि तु प्रायशो ऽधर्मं सेवते धर्मम् अल्पशः ।
तैर् भूतैः स परित्यक्तो यामीः प्राप्नोति यातनाः ॥ १२.२१ ॥
भारुचिः ...{Loading}...
अधर्मभूयस्त्वात् ।
यामीस् ता यातनाः प्राप्य स जीवो वीतकल्मषः ।
तान्य् एव पञ्चभूतानि पुनर् अभ्येति भागशः ॥ १२.२२ ॥
भारुचिः ...{Loading}...
पुनर् अस्य कर्मजस्य शरीरस्य प्रतिपत्त्यर्थं ता एव पञ्चभूतमात्रा अब्येति । येन न ताभिर् विना पुरुषस्योपभोगः संभवति ॥ १२.२२ ॥
एतां दृष्ट्वास्य जीवस्य गतिं स्वेनैव चेतसा ।
धर्मतो ऽधर्मतश् चैव धर्मे दद्यात् सदा मनः ॥ १२.२३ ॥
भारुचिः ...{Loading}...
> एतां दृष्ट्वास्य जीवस्य गतिं स्वेनैव चेतसा ।
शास्त्रसंस्कृतेनेत्य् अर्थः ।
> धर्मतो ऽधर्मतश् चैव धर्मे दद्यात् सदा मनः ॥ १२.२३ ॥
एतच् च प्रकरणं प्रायश्चित्त[शेषतय्]आ विज्ञेयम् । अथ वा कृत्स्नशास्त्रशेषतयैव विज्ञेयम् । यस्माद् अत्रेष्टानिष्टफलप्रदर्शनम् अधर्मपरिहाराय धर्मस्वीकरणाय चार्थात् संभवति ॥ १२.२३ ॥
सत्त्वं रजस् तमश् चैव त्रीन् विद्याद् आत्मनो गुणान् ।
यैर् व्याप्येमान् स्थितो भावान् महान् सर्वान् अशेषतः ॥ १२.२४ ॥
भारुचिः ...{Loading}...
सत्त्वादीनाम् आत्मगुणत्वं वक्ष्यति । सत्त्वं ज्ञानं तमो ऽज्ञानम् इत्य् एवमादि । ज्ञानादयस् च पुरुषधर्मा यतः सत्त्वादीनाम् आत्मगुणत्वम् उच्यते, अधिकृतधर्माधर्मापेक्षया । अपरे त्व् आहुः — सत्त्वादीनाम् अनात्मगुणानाम् अपि तद् अर्थत्वाद् आत्मगुणम् इदम् उच्यते, प्रधानं चेहात्मशब्देनोच्यते ॥ १२.२४ ॥
यो यदैषां गुणो देहे साकल्येनातिरिच्यते ।
स तदा तद्गुणप्रायं तं करोति शरीरिणम् ॥ १२.२५ ॥
भारुचिः ...{Loading}...
पूर्वकर्मास्रयवशात् कस्यचित् कदाचिद् अत्रातिरेको भवति ॥ १२.२५ ॥
सत्त्वं ज्ञानं तमो ऽज्ञानं रागद्वेषौ रजः स्मृतम् ।
एतद् व्याप्तिमद् एतेषां सर्वभूताश्रितं वपुः ॥ १२.२६ ॥
भारुचिः ...{Loading}...
सत्त्वादीनाम् इदं लक्षणं सर्वप्राणिषु ॥ १२.२६ ॥
तत्र यत् प्रीतिसंयुक्तं किंचिद् आत्मनि लक्षयेत् ।
प्रशान्तम् इव शुद्धाभं सत्त्वं तद् उपधारयेत् ॥ १२.२७ ॥
भारुचिः ...{Loading}...
कर्मप्रवृत्त्येयं समासतः सत्त्ववृत्तिर् आत्मसंवेद्योच्यते ॥ १२.२७ ॥
यत् तु दुःखसमायुक्तम् अप्रीतिकरम् आत्मनः ।
तद् रजो ऽप्रतिघं विद्यात् सततं हारि देहिनाम् ॥ १२.२८ ॥
भारुचिः ...{Loading}...
अत्रापि पूर्ववद् अर्थसमायोजना ॥ १२.२८ ॥
यत् तु स्यान् मोहसंयुक्तम् अव्यक्तं विषयात्मकम् ।
अप्रतर्क्यम् अविज्ञेयं तमस् तद् उपधारयेत् ॥ १२.२९ ॥
भारुचिः ...{Loading}...
तमोवृत्तिर् अपि पूर्ववद् विज्ञेया ॥ १२.२९ ॥
त्रयाणाम् अपि चैतेषां गुणानां यः फलोदयः ।
अग्र्यो मध्यो जघन्यश् च तं प्रवक्ष्याम्य् अशेषतः ॥ १२.३० ॥
भारुचिः ...{Loading}...
प्रतिज्ञाश्लोकः ॥ १२.३० ॥
वेदाभ्यासस् तपो ज्ञानं शौचम् इन्द्रियनिग्रहः ।
धर्मक्रियात्मचिन्ता च सात्त्विकं गुणलक्षणम् ॥ १२.३१ ॥
आरम्भरुचिताधैर्यम् असत्कार्यपरिग्रहः ।
विषयोपसेवा चाजस्रं राजसम् गुणलक्षणम् ॥ १२ ३२ ॥
लोभः स्वप्नो ऽधृतिः क्रौर्यं नास्तिक्यं भिन्नवृत्तिता ।
याचिष्णुता प्रमादश् च तामसं गुणलक्षणम् ॥ १२.३३ ॥
भारुचिः ...{Loading}...
सत्त्वादीनां त्रिभिः श्लोकैः फलोदयो ऽयम् उच्यते ॥ १२.३१–३३ ॥
त्रयाणाम् अपि चैतेषांगुणानां त्रिषु तिष्ठताम् ।
इदं सामासिकं ज्ञेयं क्रमशो गुणलक्षणम् ॥ १२.३४ ॥
यत् कर्म कृत्वा कुर्वंश् च करिष्यंश् चैव लज्जति ।
तज् ज्ञेयं विदुषा सर्वं तामसं गुणलक्षणम् ॥ १२.३५ ॥
येनास्मिन् कर्मणा लोके ख्यातिम् इच्छति पुष्कलाम् ।
न च शोचत्य् असंपत्तौ तद् विज्ञेयं तु राजसम् ॥ १२.३६ ॥
यत् सर्वेणेच्छति ज्ञातुं यन् न लज्जति चाचरन् ।
येन तुष्यति चात्मास्य तत् सत्त्वगुणलक्षणम् ॥ १२.३७ ॥
भारुचिः ...{Loading}...
चतुर्भिः श्लोकैर् अर्थनिर्मलत्वायायं गुणलक्षणः पूर्व[श्लोकार्थः पुनर्] उच्यते । तल्लक्षणम् एवेदं चापरम् अनेन प्रकारेणान्यथोच्यते ॥ १२.३४–३७ ॥
तमसो लक्षणं कामो रजसस् त्व् अर्थ उच्यते ।
सत्त्वस्य लक्षणं धर्मः श्रैष्ठ्यम् एषाम् यथाक्रमम् ॥ १२.३८ ॥
भारुचिः ...{Loading}...
गुणाना[म् एव] ।
येन यांस् तु गुणेनैषां संसारान् प्रतिपद्यते ।
तान् समासेन वक्ष्यामि सर्वस्यास्य यथाक्रमम् ॥ १२.३९ ॥
भारुचिः ...{Loading}...
उपक्षेपो वक्ष्यमाणस्यायम् । सो ऽयम् उच्यते ॥ १२.३९ ॥
देवत्वं सात्त्विका यान्ति मनुष्यत्वं तु राजसाः ।
तिर्यक्त्वं तामसा नित्यम् इत्य् एषा त्रिविधा गतिः ॥ १२.४० ॥
भारुचिः ...{Loading}...
समासनिर्देशो गतेर् गुणनिमित्तायाः ॥ १२.४० ॥
त्रिविधा त्रिविधैषा तु विज्ञेया गौणिकी गतिः ।
अधमा मध्यमाग्र्या च कर्मविद्याविशेषतः ॥ १२.४१ ॥
भारुचिः ...{Loading}...
त्रिविधा सती पुनः कर्मविद्याभियोगात् त्रिधा भिद्यते । एतास्व् अपि नवसु वृत्तिषु कर्मविद्ययोगाद् एव वृत्तय आनन्त्येन कल्प्यन्ते ॥ १२.४१ ॥
स्थावरः कृमिकीताश् च मत्स्याः सर्पाः सरीसृपाः ।
पशवश् च मृगाश् चैव जघन्या तामसी गतिः ॥ १२.४२ ॥
हस्तिनश् च तुरङ्गाश् च शूद्रा म्लेच्छाश् च गर्हिताः ।
संहा व्याघ्रा वराहाश् च मध्य्मा तामसी गतिः ॥ १२.४३ ॥
चारणाश् च सुपर्णाश् च पुरुषाश् चैव दांभिकाः ।
रक्षांसि च पिशाचाश् च तामसीषूत्तमा गतिः ॥ १२.४४ ॥
झल्ला मल्ला नटाश् चैव पुरुषाश् च कुवृत्तयः ।
द्यूतपानप्रसक्ताश् च प्रथमा राजसी गतिः ॥ १२.४५ ॥
राजानः क्षत्रियाश् चैव राज्ञां चैव पुरोहिताः ।
वादयुद्धप्रधानाश् च मध्यमा राजसी गतिः ॥ १२.४६ ॥
गन्धर्वा गुह्यका यक्षा विबुधानुचराश् च ये ।
तथैवाप्सरसः सर्वा राजसीषूत्तमा गतिः ॥ १२.४७ ॥
तापसा यतयो विप्रा ये च वैमानिका गणाः ।
नक्षत्राणि च दैत्याश् च प्रथमा सात्त्विकी गतिः ॥ १२.४८ ॥
यज्वान ऋषयो देवा वेदा ज्योतींषि वत्सराः ।
पितरश् चैव साध्याश् च द्वितीया सात्त्विकी गतिः ॥ १२.४९ ॥
ब्रह्मा विश्वसृजो धर्मो महान् अव्यक्तम् एव च ।
उत्तमां सात्त्विकीम् एतां गतिम् आहुर् मनीषिणः ॥ १२.५० ॥
भारुचिः ...{Loading}...
एकैकस्य गुणस्य त्रिविधा गतिर् नवभिः श्लोकैः कीर्तितः ॥ १२.४२–५० ॥
एष सर्वः समुद्दिष्टस् त्रिप्रकारस्य कर्मणः ।
त्रिविधस् त्रिविधः कृत्स्नः संसारः सार्वभौतिकः ॥ १२.५१ ॥
भारुचिः ...{Loading}...
ये ऽप्य् अत्र न कीर्तितास् ते ऽप्य् उक्तसादृश्यास् त्रैविध्यान्तर्भूता एव वेदितव्याः, इत्य् उपसंहारश्लोको ऽयम् ॥ १२.५१ ॥
इन्द्रियाणां प्रसङ्गेन धर्मस्यासेवनेन च ।
पापास् संयान्ति संसारान् अविद्वांसो नराधमाः ॥ १२.५२ ॥
भारुचिः ...{Loading}...
इन्द्रियप्रसङ्गः प्रतिषिद्धसेवनं धर्मस्यासेवनं शिष्टाकरणम् । प्रतिषिद्धसेवनाच् छिष्टाकरणाच् चाकृतप्रायश्चित्ताः सन्तः पापाः संयान्ति संसारान् । कुतः पुनर् हेतोः, येनाविद्वांसस् ते, प्रायश्चित्तस्याकरणात् प्रतिव्यतिक्रमम् । अत एव च नराधमा इत्य् उक्तम् । तत्र प्रतिषिद्धसेविनां तावद् अकृतप्रायश्चित्तानां कर्मविपाकप्रदर्शनार्थम् इदम् आरभ्यते प्रकरणं प्रायश्चित्तानुष्ठानशेषतया ॥ १२.५२ ॥
यां यां योनिं तु जीवो ऽयं येन येनेह कर्मणा ।
क्रमशो याति लोके ऽस्मिंस् तत् तत् सर्वं निबोधत ॥ १२.५३ ॥
बहून् वर्षगणान् घोरान् नरकान् प्राप्य तत्क्षयात् ।
संसारान् प्रतिपद्यन्ते महापातकिनस् त्व् इमान् ॥ १२.५४ ॥
श्वसूकरखरोष्टानां गोऽजाविमृगपक्षिणाम् ।
चण्डालपुल्कसानां च ब्रह्महा योनिम् ऋच्छति ॥ १२.५५ ॥
कृमिकीटपतङ्गानां विण्भुजां चैव पक्षिणां ।
हिंस्राणां चैव सत्त्वानां सुरापो ब्राह्मणो ऽसकृत् ॥ १२.५६ ॥
लूताहिसरटानां च तिरश्चां चाम्बुचारिणाम् ।
हिंस्राणां च पिशाचानां स्तेनो विप्रः सहस्रशः १२.५७ ॥
तृणगुल्मलतानां च क्रव्यादां दंष्ट्रिणाम् अपि ।
क्रूरकर्मकृतां चैव शतशो गुरुतल्पगः ॥ १२.५८ ॥
हिंस्रा भवन्ति क्रव्यादाः कृमयो ऽभक्ष्यभ्क्षिणः ।
अन्त्यस्त्रीसेविनः प्रेताः स्तेनास् त्व् अन्योन्यघातिनः ॥ १२.५९ ॥
संयोगं पतितैर् गत्वा परस्यैव च योषितम् ।
अपहृत्य च विप्रस्वं भवन्ति ब्रह्मराक्षसाः ॥ १२.६० ॥
मणिमुक्ताप्रवालानि हृत्वा लोभेन मानवः ।
विविधानि च रत्नानि जायते हेमकर्तृषु ॥ १२.६१ ॥
धान्यं हृत्वा भवत्य् आखुः कांस्यं हंसो जलं प्लवः ।
मधु दंशः पयः काको रसं स्वा नकुलो घृतम् ॥ १२.६२ ॥
मांसं गृध्रो वपां मद्गुस् तैलं वै तैलपायिकः ।
चीरीवाकस् तु लवणं बलाका शकुनिर् दधि ॥ १२.६३ ॥
कौसेयं तित्तिरीर् हृत्वा क्षौमं हृत्वा तु दर्दुरः ।
कार्पासं तान्तवं क्रौञ्चो गोधा गां वाग्गुदो गुडम् (?) ॥ १२ ६४ ॥
छुच्छुन्दरिः शुभान् गन्धान् पत्रशाकं तु बर्हिणः ।
श्वावित् कृतान्नं विविधम् अकृतान्नं तु शल्यकः ॥ १२.६५ ॥
बको भवति हृत्वाग्निं गृहकारी ह्य् उपस्करम् ।
रक्तानि हृत्वा वासांसि जायते जीवजीवकः ॥ १२.६६ ॥
वृको मृगेभं व्याघ्रो ऽश्वं फलमूलं तु मर्कतः ।
स्त्रीम् ऋक्षः स्तोकको वारि यानान्य् उष्ट्रः पशून् अजः ॥ १२.६७ ॥
भारुचिः ...{Loading}...
स्तोकको वारि पेयं जलं प्लव इत्य् अत्र सेकर्थम् ॥ १२.५३–६७ ॥
यद् वा तद् वा परद्रव्यम् अपहृत्य बलान् नरः ।
अवश्यं याति तिर्यक्त्वं जग्ध्वा चैवाहुतं हविः ॥ १२.६८ ॥
स्त्रियो ऽप्य् एतेन कल्पेन चोरत्वं याः प्रकुर्वते ।
एतेषाम् एव जन्तूनां भार्यात्वम् उपयान्ति ताः ॥ १२.६९ ॥
स्वेभ्यः स्वेभ्यस् तु कर्मभ्यश् च्युता वर्णा ह्य् अनापति ।
पापान् संसृत्य संसारान् प्रेष्यतां यान्ति दस्युषु ॥ १२ ७० ॥
भारुचिः ...{Loading}...
“इन्द्रियाणां प्रसङ्गेन धर्मस्यासेवनेन च” इत्य् एतस्माच् छ्लोकात् प्रभृति प्रतिषिद्धसेविनाम् अकृतप्रायश्चित्तानाम् अनर्थलक्षणः कर्मफलविपाक उक्तः । इदानीं शिष्टस्याक्रियायां स्वकर्मच्युतानाम् अनर्थलक्षणः कर्मविपाकः प्रदर्शयितव्य इति । यत इदम् आरभ्यते ॥ १२.६८–७० ॥
वान्ताश्युल्कामुखः प्रेतो विप्रो धर्मात् स्वकाच् च्युतः ।
अमेध्यकुणपाशी च क्षत्रियः कूटपूतनः ॥ १२.७१ ॥
मैत्राक्षिज्योतिकः प्रेतो वैश्यो भवति पूयभुक् ।
चैलांशकश् च भवति शूद्रो धर्मात् स्वकाच् च्युतः ॥ १२.७२ ॥
भारुचिः ...{Loading}...
चैलांशको शिङ्गुरुकः । यत एतद् एवं अतश् “चरितव्यम् अतो नित्यं प्रायश्चित्तं विशुद्धये” इत्य् उक्तम्, मा भूद् अकृतप्रायश्चित्तस्येयान् कर्मफलविपाको बहुकालो ऽनिष्ट इति । “बहून् वर्षगणान् घोरान् नरकान् प्राप्य तत्क्षयात्” इति । चैतद् अनुवर्तते । निन्दितकर्माभ्यासफलम् इदानीं पुनः स्पृशति ॥ १२.७१–७२ ॥
यथा यथा निषेवन्ते विषयान् विषयात्मकाः ।
तथा तथा कुशलता तेषां तेषूपजायते ॥ १२.७३ ॥
ते ऽभ्यासात् कर्मणां तेषां पापानां अल्पबुद्धयः ।
संप्राप्नुवन्ति दुःखानि तासु तास्व् इह योनिषु ॥ १२.७४ ॥
भारुचिः ...{Loading}...
निन्दितकर्माभ्यासाद् अकृतप्रायश्चित्ता एतद् ईदृशम् अनिष्टं प्राप्नुवन्ति ॥ १२.७३–७४ ॥
तामिस्रादिषु चोग्रेषु नरकेषु विवर्तनम् ।
असिपत्रवनादीनि बन्धनच्छेदनानि च ॥ १२.७५ ॥
विविधाश् चैव संपीडाः काकोलूकैश् च भक्षणम् ।
करंभवालुकातापान् कुम्भीपाकांश् च दुःसहान् ॥ १२.७६ ॥
संभवांश् च वियोनीषु दुःखप्रायासु नित्यशः ।
शीतातपाभिघातांश् च विविधानि भयानि च ॥ १२.७७ ॥
असकृद्गर्भवासेषु वासं जन्म च दारुणम् ।
बन्धनानि च कष्टानि परप्रेष्यत्वम् एव च ॥ १२.७८ ॥
बन्धुप्रियवियोगांश् च संवासं चैव दुर्जनैः ।
द्रव्यार्जनविनाशं च मित्रामित्रस्य चार्जनम् ॥ १२.७९ ॥
जरां चैवाप्रतीकारां व्याधिभिश् चोपपीडनम् ।
क्लेशांश्च विविधांस् तांस् तान् मृत्युम् एव च दुर्जयम् ॥ १२.८० ॥
यादृशेन तु भावेन यद् यत् कर्म निषेवते ।
तादृशेन शरीरेण तत् तत् फलम् उपाश्नुते ॥ १२.८१ ॥
भारुचिः ...{Loading}...
सप्तभिः श्लोकैर् अनिष्टफलं दर्शयति । सात्त्विकेन राजसेन तामसेन वा भावेन यद् यत् कर्म निषेवते, सात्त्विकं राजसं तामसं वा तेन तेन शरीरेण तत् सदृशेनेत्य् अर्थः । सत्त्वबहुलेन रजो बहुलेन तमोबहुलेन वा तत् तत् फलम् उपाश्नुते, सात्त्विकं राजसं तामसं वाश्नुते । यतश् चैतद् एवं रजस् तमो बहुलात् कर्मणो ऽकुषलसंकल्पहेतोर् अनिष्टफलप्राप्तिः । अतस् तत्परिवर्जनेन कुशलसंकल्पकर्मणा भवितव्यम् ॥ १२.७५–८१ ॥
एष सर्वः समुद्दिष्टः कर्मणां वः फलोदयः ।
नैःश्रेयसकरं कर्म विप्रस्येदं निबोधत ॥ १२.८२ ॥
भारुचिः ...{Loading}...
> एष सर्वः समुद्दिष्टः कर्मणां वः फलोदयः ।
कुशलाकुशलसंकल्पमूलानां शास्त्रलक्षणानां तद्व्परीतानां चा[न]र्थलक्षणानाम् । अधुना ।
> नैःश्रेयसकरं कर्म विप्रस्येदं निबोधत ॥ १२.८२ ॥
प्रायश्चित्तप्रकरणसामर्थ्याद् वक्ष्यमाणो वेदाभ्यासादिको विधिः निःश्रेयसार्थो ऽपि सन्न् आत्मशुद्धये संपद्यत इति विज्ञेयम् । एवं हि प्रकरणम् अनुगृहीतं भवति । अथ वास्मिञ् छास्त्रे पूर्व आभ्युदयिको विधिर् उक्तः, अधुना तु नैःश्रेयसकरं कर्म विप्रस्येदं निबोधत ब्रह्मलोकप्राप्त्यर्थं मोक्षार्थं वा । एवं च सति यथा वेदस्यान्ति उपनिषदो रहस्यब्राह्मणोक्ता निःश्रेयसार्थम्, एवं अस्मिन्न् अपि धर्मशास्त्रान्ते निःश्रेयसार्था इमा उपनिषदो ऽभिविधीयन्ते ॥ १२.८२ ॥
वेदाभ्यासस् तपो ज्ञानम् इन्द्रियाणां च संयमः ।
अहिंसा गुरुसेवा च निःश्रेयसकरं परम् ॥ १२.८३ ॥
भारुचिः ...{Loading}...
केचित् त्व् अत्र पूर्वपादे दानं पठन्ति, अपरे ध्यानम् । तत्र वेदाभ्यासो नाम साङ्गोपाङ्ग[सो]सोपनिषत्कस्य वेदस्य नित्यकर्माविरोधेनाभ्यासो गृह्यते । तपःशब्देन च नित्यकर्माण्य् अभिधीयन्ते । चान्द्रायणादीनि च । ज्ञानं कर्माङ्गदेवतानिचिन्तन इन्द्रियसंयमो ऽहिंसा गुरुसेवा च यथोक्ताः ॥ १२.८३ ॥
सर्वेषाम् अपि चैतेषां शुभानाम् इह कर्मणाम् ।
किंचिच् छ्रेयस्करतरं कर्मोक्तं पुरुषं प्रति ॥ १२.८४ ॥
भारुचिः ...{Loading}...
ज्ञानस्तुत्यर्थो ऽयम् उपन्यासः ॥ १२.८४ ॥
सर्वेषाम् अपि चैतेषाम् आत्मज्ञानं परं स्मृतम् ।
तद् ध्य् अग्र्यं सर्वविद्यानां प्राप्यते ह्य् अमृतं ततः ॥ १२.८५ ॥
भारुचिः ...{Loading}...
आत्मज्ञानप्रशंसार्थः श्लोकः । अतो [ज्ञायते] पूर्वत्र ज्ञानपाठ एव, न ध्यानपाठः [नापि] दानपाठः । आत्मज्ञानं च क्षेत्रज्ञस्य देहेन्द्रियमनोबुद्ध्यादिभ्यो ऽन्यत्रादिज्ञानम् । तस्मिन् हि सत्य् अधिकारपुरुष उपलब्धक्षेत्रक्षेत्रज्ञतत्त्वो मध्यस्थो जितेन्द्रियो निर्हृतदोषो विषयैर् अनभिमन्यमानः श्रुतिनियतम् अधिकारं साकल्येनानुतिष्ठति । यस्मात् अतो युक्तम् अभिहितम्- प्राप्यते ह्य् अमृतं तत इति । समस्तस्य व्यस्तस्य वा परमात्मनो वेदान्तोपनिषदो विज्ञानम्, कर्माङ्गदेव्[व्त्]आज्ञानं वा । सर्वं चैतद् आत्मज्ञानग्रहणेन गृह्यते, तस्मात् सामर्थ्याद् अविरोधाच् च ॥ १२.८५ ॥
षण्णाम् एषां तु पूर्वेषां कर्मणां प्रेत्य चेह च ।
श्रेयस्करतरं ज्ञेयं सर्वदा कर्म वैदिकम् ॥ १२.८६ ॥
भारुचिः ...{Loading}...
पूर्वोपदिष्टानां वैदिकानां नित्यानां कर्मणां प्रशंसा । अत्र स्तुतौ कारणं वक्ति ॥ १२.८६ ॥
वैदिके कर्मयोगे तु सर्वाण्य् एतान्य् असेषतः ।
अन्तर्भवन्ति क्रमशस् तस्मिंस् तस्मिन् क्रियाविधौ ॥ १२.८७ ॥
भारुचिः ...{Loading}...
वेदाभ्यासस् तावत् कर्मविधाव् अङ्गीभवति शस्त्रस्तोत्रग्रहयाजनादौ । तपश् चोपसद्व्रतादि कर्माङ्गम् । ज्ञानम् उक्तं क्षेत्रज्ञविज्ञानादि । इन्द्रियसंयमः, “न मांसम् अश्नीयान् न मिथुनम् उपेयात्” इत्य् एवमादि । अहिंसा- “तस्माद् एतां रात्रिं प्राणभृतः प्राणं न विच्छिन्द्यात्” इत्य् एवमादि । गुरुसेवा ऋत्विगनुवृत्तिः । तच् चैतद् वैदिकं कर्म ॥ १२.८७ ॥
सुखाभ्युदयिकं चैव नैःश्रेयसिकम् एव च ।
प्रवृत्तं च निवृत्तं च द्विविधं कर्म वैदिकम् ॥ १२.८८ ॥
भारुचिः ...{Loading}...
एतच् च कारणभेदान् कर्मणो द्वैविध्यं येन अतस् तत्कारणाद् इदम् उच्यते ।
इह वामुत्र वा काम्यं प्रवृत्तं कर्म कीर्त्यते ।
निष्कामं ज्ञानपूर्वं तु निवृत्तम् उपदिश्यते ॥ १२.८९ ॥
भारुचिः ...{Loading}...
> इह वामुत्र वा काम्यं प्रवृत्तं कर्म कीर्त्यते ।
ज्ञानपूर्वम् अपि संकल्पोपहतम्, किं पुनर् अज्ञानपूर्वम् ।
> निष्कामं ज्ञानपूर्वं तु निवृत्तम् उपदिश्यते ॥ १२.८९ ॥
अत्र च निवृत्ते कर्मणि ज्ञानोपदेशात् प्रवृत्ते कर्मण्य् अज्ञानसंकल्पो निमित्तत्वेनार्थाद् गम्यते । इदानीं कारणभिन्नयोः फलभेदं शास्ति सुतरां द्वैविध्यप्रदर्शकम् ॥ १२.८९ ॥
प्रवृत्तं कर्म संसेव्य देवानां एति सार्ष्टिताम् ।
निवृत्तं सेवमानस् तु भूतान्य् अत्येति पञ्च वै ॥ १२.९० ॥
भारुचिः ...{Loading}...
वायुशरीर आकाशशरीरो वा सूक्ष्मो भवति । तथा चोक्तम्- “तद् ब्रह्मपरम् अभ्येति वायुभूतः स्वसूर्तिमान्” ॥ अथ वा मोक्षम् अन्येनोपायेनेमं शास्ति पञ्चभूतात्ययशब्देन । इदानीं ध्यानस्य ज्ञानस्य वा स्तुत्य् अर्थम् इदम् आरभ्यते ।
सर्वभूतेषु चात्मानं सर्वभूतानि चात्मनि ।
समं पश्यन् आत्मयाजी स्वाराज्यम् अधिगच्छति ॥ १२.९१ ॥
भारुचिः ...{Loading}...
> सर्वभूतेषु चात्मानं सर्वभूतानि चात्मनि ।
> समं पश्यन्
समत्वेन परमात्मानं पश्यन्, आत्मवत् सर्वभूतानि पश्यन्न् इत्य् अर्थः ।
> आत्मयाजी
निवृत्तकर्मावस्थः परमसंयमवान् । अनेन प्रसंख्यानेन । तस्य फलम् आह- एवं युक्तः ।
> स्वाराज्यम् अधिगच्छति ॥ १२.९१ ॥
यथोक्तेन श्रुत्युक्तेनात्मयाजित्वेनापवर्गाय कल्पते । स्वतन्त्रः संसारे भवति न कर्मक्लेशवासगः । एतच् च प्रसंख्यानं रागद्वेषग्रहणार्थवियुक्तम् अपवर्गाय स्यात् । संयमस्तुत्यर्थो वायं श्लोकः । आत्मज्ञानम् तु पूर्वत्र संस्कृतम् एव । उभयार्थो वा संभवाद् उभयत्र ॥ १२.९१ ॥
यथोक्तान्य् अपि कर्माणि परिहाय द्विजोत्तमः ।
आत्मज्ञाने शमे च स्याद् वेदाभ्यासे च यत्नवान् ॥ १२.९२ ॥
भारुचिः ...{Loading}...
यथोक्तान्य् अपि कर्माणि परिहायेत्य् अयम् अर्थवादः, आत्मज्ञानशमवेदाभ्यासस्तुतये । न हि नित्यानां कर्मणां परित्यागो ऽस्त्य् आत्मेच्छया । शास्त्रतस् तु परित्यागः पाक्षिकः पुरुषमेधादिष्व् अनुत्यागेन । तदभावपक्ष अनधिकृतपुरुषविषयम् एतत् त्रयम् ॥ १२.९२ ॥
एतद् धि जन्मसामग्र्यं ब्राह्मणस्य विशेषतः ।
प्राप्यैतत् कृतकृत्यो हि द्विजो भवति नान्यथा ॥ १२.९३ ॥
भारुचिः ...{Loading}...
> एतद् धि जन्मसामग्र्यं ब्राह्मणस्य विशेषतः ।
विशेषत इति वचनान् न तथा क्षत्रियवैश्ययोः ।
> प्राप्यैतत् कृतकृत्यो हि द्विजो भवति नान्यथा ॥ १२.९३ ॥
वेदाभ्यासादीनां षण्णां कर्मणां वैदिकानाम् अधिकृतानां स्तुत्युपसंहारश्लोको ऽयम् ॥ १२.९३ ॥
पितृदेवमनुष्याणां वेदश् चक्षुः सनातनम् ।
अतर्क्यं चाप्रमेयं च वेदशास्त्रम् इति स्थितिः ॥ १२.९४ ॥
भारुचिः ...{Loading}...
पितृदेवमनुष्याणाम् अस्तित्वप्रसिद्दये कर्माङ्गत्वायाधिकारपुरुषस्य वेदश् चक्षुः । चक्षुर् इव, चक्षुः दर्शनार्थत्वात् । येन पितरो वेदविध्युपहृतम् एव भुञ्जते, तेन वेदस् तेषां चक्षुर् इत्य् उच्यते । अतर्क्यं चापौरुषेयत्वात् । अप्रमेयं च फलतो वेदशास्त्रम् । यस्मात् अतः ॥ १२.९४ ॥
या वेदबाह्याः स्मृतयो याश् च काश् च कुदृष्टयः ।
सर्वास् ता निष्फलाः प्रेत्य तमोनिष्ठा हि ताः स्मृताः ॥ १२.९५ ॥
भारुचिः ...{Loading}...
या वेदबाह्याः स्मृतय आगमा इत्य् अर्थः । पुरुषदृष्टिप्रभवाः । तदीयेषु शास्त्रेषु याश् च काश् च [कुदृष्टयः] सर्वास् ता निष्फलाः प्रेत्याधिकारविरोधेन तत्कर्मविधानात् । अधिकारमूलो धर्मो यतः, तदभावात् तमोनिष्ठा हि ताः स्मृताः । यतश् च ॥ १२.९५ ॥
उत्पद्यन्ते च्यवन्ते च यान्य् अतो ऽन्यानि कानिचित् ।
तान्य् अर्वाक् कालिकतया निष्फलान्य् अनृतानि च ॥ १२.९६ ॥
भारुचिः ...{Loading}...
अतो वेद एव स्वतन्त्रो ऽनुशासने ऽन्यनिरपेक्षो भूत्वा, भूयः प्रमाणशास्त्रानुविधानाच् च । तन्मूलं धर्मशास्त्रम्, न त्व् अन्यानि तद्विधानि । पुरुषकृतयः कर्तृसमाख्याताः । यतश् चैतद् एवम् अतः ॥ १२.९६ ॥
चातुर्वर्ण्यं तर्यो लोकाश् चत्वारश् चाश्रमाः पृथक् ।
भूतं भवत् भविष्यच् च सर्वं वेदात् प्रसिध्यति ॥ १२.९७ ॥
भारुचिः ...{Loading}...
चातुर्वर्ण्यं तावद् भूतम् अतिक्रान्तम् । कुतः । अस्माद् वर्तमानाच् चतुर्युगाद् । भवद् वर्तमानं चातुर्वर्ण्यम् इति प्रकृतम् । भविष्यच् च तद् एव । यद् अनागतं चतुर्युगे । अथ वा देवचतुर्युगापेक्षयायं कालत्रयनिर्देशः चातुर्वर्ण्यस्य । ब्रह्मणः कल्पापेक्षया वा । वेदाद् एव प्रसिध्यति, नान्यतः, प्रत्यक्षाद् अनुमानाद् वा, तस्य शास्त्रलक्षणत्वात् । तद् दर्शयति । यथा पशुत्वे समाने गोमहिषाश्वादीनां व्यक्तिसंस्थानविशेओपलब्धेर् एव जातिभेदानुमानम् । नैवं पुरुषत्वाविशेषे ब्राह्मणादीनाम् अपि जातिभेदानुमानम् अस्ति, येनानुमानतस् तेषाम् अपि जातिभेदः प्रतीयेत । एवं च सति शास्त्रलक्षणम् एव चातुर्वर्ण्यम् । “वसन्ते ब्राह्मणो ऽग्नीन् आदधीत” इत्य् एवमादि । तथा चोक्तम्- “सर्ववर्णेषु तुल्यासु” इत्य् एवमादि । वेदार्थानुवादित्वं चाश्रित्य स्मृतेर् इदम् उदाहरणम् । तथा च सति युक्तम् इदं यद् अवोचच् छास्त्रकारः सर्वं वेदात् प्रसिध्यतीति । अथ वा तदधिकारापेक्षम् इदं वचनं “चातुर्वर्ण्यं । । । वेदात् प्रसिध्यति” इति, एवं च त्रयो लोकाः तत्फलाः कर्मणां गतयः चत्वारश् चाश्रमाः पूर्ववद् व्याकरणीयम् । भूतं भवत् भविष्यच् चेतीदं नपुंसकलिङ्गं चातुर्वर्ण्यनपुंसकलिङ्गापेक्षम् । इतरत्र पुंलिङ्गत्वान् निदर्शनार्थम् इदं विज्ञेयम् ॥ १२.९७ ॥
शब्दः स्पर्सश् च रूपं च रसो गन्धश् च पञ्चमः ।
वेदाद् एव प्रसिध्यन्ति प्रसूतिगुणकर्मतः ॥ १२.९८ ॥
भारुचिः ...{Loading}...
ये हि शब्दादयः स्वर्गादिषु शरीरलक्षणविषयलक्षणाश् चोत्कृष्टाभिप्रेतभोगहेतवः ते वेदाद् एव प्रसिध्यन्ति, नान्यदर्शनात् बुद्धादिवचनात् । किं साक्षात् । न, किं तर्हि प्रसूतिगुणकर्मतः, प्रसूत्यर्थं गुणकर्म । प्रसूतिगुणकर्मतः प्रसूत्यर्थं प्रकृतानां शब्दादीनाम् । गुणकर्म च पुरुषोपकारकम् । तथा च लोकप्रसिद्धिः- “को गुणो मम तवोपकृतवतः” कः उपकार इत्य् अर्थः, गुणार्थम् अभिप्रेतपुरुषार्थार्थम् । कर्म धर्माख्यम् । येन धर्म एव पुरुषोपकराय, नाधर्मः तद्विशेषार्थम् इदं गुणकर्मग्रहणम् । एवं च सति न साक्षाद् वेदः शब्दादिहेतुः, किं तर्ह्य् अग्निहोत्रादिकर्मानुष्ठानद्वारेण धर्माख्यं गुणकर्मशब्दादिप्रसूत्यर्थम् । एवं च न साक्षाद् वेदः शब्दादीनां प्रसूतिनिमित्तम्, किं तर्हि धर्मप्रणादिकया । सैषा वेदस्तुतिर् अपरेण प्रकारेण सामर्थ्याद् विज्ञेया । अथ वा शब्दादयो वेदाद् एव प्रसिध्यन्ति, येन प्रसूतिर् उत्पत्तिर् गुणकर्मणो धर्मस्य । वेदाद् धर्मः । धर्माद् अपि शब्दादयः स्वर्गादिषु । अत इदम् उच्यते- धर्माद् एव प्रसिध्यन्तीति । अथ वायम् अस्य श्लोकपादस्य चतुर्थस्य तृतीयः पाठः- वेदाद् एव प्रसिध्यन्ति प्रसूतेर् गुणकर्मणः । कुतः । वेदात् । अर्थस् त्व् अनन्तरोपदिष्ट एव ॥ १२.९८ ॥
बिभर्ति सर्वभूतानि वेदशास्त्रं सनातनम् ।
तस्माद् एतत् परं मन्ये यज् जन्तोर् अस्य साधनम् ॥ १२.९९ ॥
भारुचिः ...{Loading}...
तथा च ब्राह्मणम्- “हविर् अग्नौ हूयते । सो ऽग्निर् आदित्यं गमयति । तत् सूर्यो रश्मिभिर् वर्षति । तेनान्नं भवति । अन्नाद् भूतानाम् उत्पत्तिः” स्थित्श् चेति विज्ञायते । इहापि चोक्तम्- “अग्नौ प्रास्ताहुतिः सम्यग् आदित्यम् उपतिष्ठते” (म्ध् ३.६६) इत्य् एवमादि । तद्माद् एतत् परं मन्ये पुरुषार्थकारि यत् येन कारणेन जन्तोर् अस्य धर्मानुशासनम् । एतस्मात् कारणात् ॥ १२.९९ ॥
सेनापत्यं च राज्यं च दण्डनेतृत्वम् एव च ।
सर्वलोकाधिपत्यं च वेदशास्त्रविद् अर्हति ॥ १२.१०० ॥
भारुचिः ...{Loading}...
यथा कथंचिद् वेदं प्रकरणात् स्तौति । अत्र कारणं वक्ति ॥ १२.१०० ॥
यथा जातबलो वह्निर् दहत्य् आर्द्रान् अपि द्रुमान् ।
तथा दहति वेदज्ञः कर्मजं दोषम् आत्मनः ॥ १२.१०१ ॥
भारुचिः ...{Loading}...
एतस्मात् कारणात्,
वेदशास्त्रार्थतत्त्वज्ञो यत्र तत्राश्रमे वसन् ।
इहैव लोके तिष्ठन् स ब्रह्मभूयाय कल्पते ॥ १२.१०२ ॥
अज्ञेभ्यो ग्रन्थिनः श्रेष्ठा ग्रन्थिभ्यो धारिणो वराः ।
धारिभ्यो ज्ञानिनः श्रेष्ठा ज्ञानिभ्यो व्यवसायिनः ॥ १२.१०३ ॥
भारुचिः ...{Loading}...
ग्रन्थधारिणो धारिणः । पूर्वपदलोपो ऽत्र विज्ञेयः । यथा सत्यभामा भामा देवदत्तो दत्त इति । धारिभ्यो ज्ञानिनः- प्रयत्न[वि]शेषाद् अधिकतरफलभाजः । ज्ञानिभ्यो ऽध्यवसायिनः कर्मणाम् अनुष्ठातारः । यस्मात् ॥ १२.१०२–१०३ ॥
तपो विद्या च विप्रस्य निःश्रेयसकरं परम् ।
समुच्चयप्रयोजनम् आचष्टे ।
तपसा कल्मषं हन्ति विद्ययामृतम् अश्नुते ॥ १२.१०४ ॥
भारुचिः ...{Loading}...
तपसा कल्मषं हन्ति । तपःशब्देन नित्यानि कर्माणि श्रौतस्मार्थान्य् उच्यन्त इत्य् उक्तं पुरस्तात् । तेषां नित्यानां कर्मणाम् अनुष्ठानेन कल्मषं हन्ति । तथा चोक्तं प्रायश्चित्तप्रकरणे “वेदाभ्यासो ऽन्वहं शक्त्या महायज्ञक्रिया क्षमा, शोधयन्त्य् आशु पापानि महापातकजान्य् अपि” इति । विद्यया परमात्मादिविज्ञानेनेत्य् उक्तं पुरस्तात् प्रकरणात् । अमृतम् अश्नुते । स एव ज्ञानकर्मणोर् अविरोधात् समुच्चयः पूर्वोपदिष्ट उपसंह्रियते । अमृतम् अश्नुते मोक्षम् ब्रह्मत्वं वा प्रापोनोतीत्य् अर्थः ॥ १२.१०४ ॥
प्रत्यक्षं चानुमानं च शास्त्रं च विविधागमम् ।
त्रयं सुविदितं कार्यं धर्मशुद्धिम् अभीप्सता ॥ १२.१०५ ॥
भारुचिः ...{Loading}...
अनुमानागमाभ्यां धर्मशुद्धि [न] (?) प्रत्यक्षाद्, यतः तस्योपदेशो ऽनुमानशुद्ध्यर्थः । तत्पूर्वकत्वाद् अनुमानस्यागमशेषत्वम् । अपि च प्रत्यक्षस्य क्वचिद् इष्यत एव । यतः एतस्यां कल्पनायाम् उभयशेषत्वाद् युक्तः प्रत्यक्षनिर्देशः । अनुमानस्याप्य् आगमार्थः । एवं च सति प्रत्यक्षानुमानतत्त्वं तर्कः । शास्त्रं तु विविधागमम् । बहुशाखो वेदः । “एकविंशतिधा बाह्वृच्यम् एकशतम् अध्वर्युशाखाः सहस्रवर्त्मा सामवेदः” । अथ वा शास्त्रं विविधागमम्, बहुशाखं धर्मशास्त्रम् । अविरोधाद् उभयं वा श्रुतिस्मृत्याख्यम् । अधुनानुमानतत्त्वं विज्ञानप्रयोजनम् आचष्टे ॥ १२.१०५ ॥
आर्षं धर्मोपदेशं च वेदशास्त्राविरोधिना ।
यस् तर्केणानुसंधत्ते स धर्मं वेद नेतरः ॥ १२.१०६ ॥
भारुचिः ...{Loading}...
> श्रोत्रियस्येव ते राजन् मन्दकस्याल्पमेधसः ।
> अनुवाकहता बुद्धिर् नैषा सूक्ष्मार्थदर्शिनी ॥ इति ।
एवं च स्तीदम् एव न्यायानुमाननाम्नः परमार्थतस् तर्कस्य लक्षणया वेदशास्त्राविरोदित्वम् । अतो ऽन्यस् तद्विरोधिन्यायानुमानं तर्काभासः । तथा चोक्तं न्यायाभासोदाहरणम्- “अचिन्त्यस्याप्रमेयस्य” इत्य् अत्र । न चात्रोपमानादिप्रमाणपर्युदासः । अन्तर्भावाद् यथा संभवं तर्कागमयोर् एव । आर्षशब्देन मन्त्रा गृह्यन्ते । तथा च शौनकस्य ग्रन्थ आर्षान् मन्त्रान् दर्शयति- “इदं वासिष्ठम् इदं वैश्वामित्रम् आर्षम्” इति । धर्मोपदेशस् तु ब्राह्मणम् । अन्यत् समानम् । अथ वा पाठान्तरेणार्थो ऽभिधीयते- “आर्षं धर्मोपदेशं तु स्मृतिशास्त्रं स्मृत्यविरोधिना, यस् तर्केणानुसंधत्ते धर्मं वेद नेतरः” इति । अयम् अर्थः स्म्र्तिप्रकरणाद् युक्ततरः । वेदाविरोधिनेत्य् एतद् वेदग्रहणम् अस्मिन् पक्षे मन्त्रब्राह्मणलिङ्गापेक्षत्वात् । ततः स्वातन्त्र्यपक्षे ऽपि च स्मृतेर् युज्यते । किं पुनर् मन्त्रब्राह्मणलिङ्गप्रभवपक्ष उत्सन्नशाखार्थानुस्मरणे च । तद् एवं त्रिष्व् अपि श्लोकार्थेषु न्यायस्तुतिर् इयम्, तत्संपरिग्रहार्थत्वात् । न्यायसंपरिग्रहश् चागमशास्त्रव्याख्यानसहयो (?) यथा स्याद् धर्मविशुद्ध्यर्थः । तथा च श्रुतिर् विज्ञायते । “देवा अस्माल् लोकाद् अमुं लोकम् आयन् तान् दृष्ट्वाब्रुवन् कथम् अनार्षा भविष्याम [एभ्यः कर्]म ऋषिं प्रायच्छन् । तस्माद् यद् ब्राह्मणो अनूचानस् तर्कयत्य् आर्षं एतद् भवति” इति स्रुतेर् युक्तो वेदस्मृतिशास्त्राविरोधिनस् तर्कस्य संपरिग्रहः । तदर्थनिर्मलत्वाय, इदानीं न्यायोपदेशप्रयोजनम् उत्तरप्रकरणाद् दर्शयिष्यन्न् इदम् आह ॥ १२। १०६ ॥
आर्षम् अकृतकत्वात् । धर्मोपदेशः स्मृतिः । तथा चेदम् उच्यते धर्मशास्त्रम् । एतद् द्वयं वेदशास्त्राविरोधिना, वेदग्रहणाच् च स्मृतिग्रहणम् अपि सामर्थ्याद् अनुक्तम् अप्य् अत्र विज्ञेयम् । तदपेक्षितत्वाच् छ्रुतेः । अनभिधानं तु छन्दोभङ्गभयात् । एवं च सति वेदस्मृतिशास्त्राविरोधिनेत्य् एतद् उपपन्नम् । प्राधान्याद् वा वेदग्रहणं निदर्शनार्थं स्मृतेर् अपि । स च तर्को द्विप्रकारो, यतः तं विशिनष्टि वेदशास्त्राविरोधिना । यस् तर्केणानुसंधत्ते सन्दिघ(?)व्याहतपुनरुक्ताशङ्कायाम्, स धर्मं वेद न केवलतार्किकः । तथा चेतिहासः- “कच्चिन् न लोकायतिकान् ब्राह्मणांस् तात सेवसे, अनर्थकुशला ह्य् एते मूर्खाः पण्डितमानिनः” इति । केवलागमो वा । तथा च व्यासश्लोको भीमसेनवचनानुवादी-
नैःश्रेयसम् इदं कर्म यथोदितम् अशेषतः ।
मानवस्यास्य शास्त्रस्य रहस्यम् उपदिश्यते ॥ १२.१०७ ॥
भारुचिः ...{Loading}...
श्रोतॄन् उत्तरप्रकरणार्थश्रवणायाभिमुखीकरोत्य् आदरेण ॥ १२.१०७ ॥
अनाम्नातेषु धर्मेषु कथं स्याद् इति चेद् भवेत् ।
यं शिष्टा ब्राह्मणा ब्रूयुः स धर्मः स्याद् अशङ्कितः ॥ १२.१०८ ॥
भारुचिः ...{Loading}...
अनाम्नातेष्व् अनुपदिष्टेषु प्रायश्चित्तलक्षणेषु धर्मेष्व् अन्येषु च सामर्थ्याद् अनाम्नातं चोभयथा स्मरणं सग्रन्थकम् अग्रन्थकं च । अथ वादर्शनम् एवोभयथा स्मरणस्यानाम्नातत्वम् । अनाम्नातेष्व् अज्ञातेषु धर्मेषु किं कर्तव्यम् इति संदेहे सतीदम् आह यं शिष्टा ब्रूयुः स धर्मः स्याद् अशङ्कितः । येनाम्नातत्वम् अनाम्नातत्वं वा प्रति न कश्चिद् द्वेषो ऽस्ति तेषाम् । एवं च कृत्वोक्तम् “आचारश् चैव साधूनाम्” इति । शिष्टब्राह्मणलक्षणम् अधुना वक्ति ॥ १२.१०८ ॥
धर्मेणाधिगतो यैस् तु वेदः सपरिबृंहणः ।
ते शिष्टा ब्राह्मणा ज्ञेयाः श्रुतिप्रत्यक्षहेतवः ॥ १२.१०९ ॥
भारुचिः ...{Loading}...
सपरिबृंहणः साङ्ग इत्य् अर्थः । अथ वा मीमाम्सान्यायविस्तरधर्मशास्त्रपुराणैर् अङ्गैश् च सह वेदः सपरिबृंहण उच्यते । एवं च व्याख्यायमाने प्रकरणान् व्यायसंपरिग्रहः कृतो भवति, विद्याबहुत्वस्य च मीमांसादिग्रहणेन । तदभावे ॥ १२.१०९ ॥
दशापरा वा परिषद् यं धर्मं परिकल्पयेत् ।
त्र्यवरा वापि वृत्तस्था तं धर्मं न विचारयेत् ॥ १२.११० ॥
भारुचिः ...{Loading}...
तं दर्शयति ।
त्रैविद्यो हेतुकस् तर्की नैरुक्तो धर्मपाठकः ।
त्रयश् चाश्रमिणः पूर्वे परिषत् स्याद् दशावरा ॥ १२.१११ ॥
भारुचिः ...{Loading}...
त्रैविद्यग्रहणेन वेदत्रयाधेतारो गृह्यन्ते । हेतुकश् चात्रैविद्यो ऽप्य् आगमन्यायाविरोधिनस् तर्कशास्त्राध्येता । तर्की चाहैतुको ऽपि यः प्रतिभानवान् ऊहते ऽपोहते च । यथान्यायं चाभिनिविशते अश्रुततर्कशास्त्रो ऽपि स्वभावतः । नैरुक्तः केवलो ऽपि । धर्मपाठकश् चानित्थंभूतो ऽपि । त्रयश् चाश्रमिणः पूर्वे प्रव्रजिताद् अन्ये गृहस्थादयः । अपरे तु तापसान् (?) पूर्वांस् त्रीन् आहुः, गौतमपाठम् आश्रित्य- “ब्रह्मचारी गृहस्थो भिक्षुर् वैखानसः” इति, तापसस्य ग्रामप्रवेशप्रतिषेधाच् च । दश धर्मसंशये अद्विष्टारक्ताश् च शास्त्रज्ञाः सन्तः प्रमाणीभवन्ति, तथा चोक्तं सामान्यं सर्वस्मृतिलक्षणं “विद्वद्भिः सेवितः सद्भिः” इत्य् एवमादि । अथ वाइतान्य् एव समासतस् त्रित्वेन ब्रवीति ॥ १२.१११ ॥
ऋग्वेदविद् यजुर्विच् च सामवेदविद् एव च ।
त्र्यवरा परिषज् ज्ञेया धर्मसंशयनिर्णये ॥ १२.११२ ॥
भारुचिः ...{Loading}...
चतुर्दशविद्यास्थानपारगा एवैते पूर्वोक्ताः शिष्टलक्षणप्राप्तास् त्रित्वेनोच्यन्ते । अथ वा तल्लक्षणयुक्तः ॥ १२.११२ ॥
एको ऽपि वेदविद् धर्मं यं व्यवस्येद् द्विजोत्तमः ।
स विज्ञेयः परो धर्मो नाज्ञानाम् उदितो ऽयुतैः ॥ १२.११३ ॥
भारुचिः ...{Loading}...
अज्ञानां निन्दार्थवादो निवृत्त्यर्थः ॥ १२.११३ ॥
अव्रतानाम् अमन्त्राणां जातिमात्रोपजीविनाम् ।
सहस्रशः समेतानां परिषत्त्वं न विद्यते ॥ १२.११४ ॥
यं वदन्ति तमोभूता मूर्खा धर्मम् अतद्विदः ।
तत् पापं शतधा भूत्वा तद् वक्तॄन् अनुगच्छति ॥ १२.११५ ॥
एतद् वो ऽभिहितं सर्वं निःश्रेयसकरं परम् ।
अस्माद् अप्रच्युतो विप्रः प्राप्नोति परमां गतिम् ॥ १२.११६ ॥
भारुचिः ...{Loading}...
तेषाम् इदानीं धर्मोपदेशनिवृत्त्यर्थं दोषम् आह ॥ १२.११४ ॥
उपसंहारश्लोको निःश्रेयसार्थानां कर्मणां वेदाभ्यासादीनाम् । तथा च तदुपघातार्थम् उक्तम् । “नैःश्रेयसं कर्मविधिं विप्रस्येदं निबोधत” (म्ध् १२.८२) इति केचित् । वयं तु पुनः कृत्स्नधर्मोपसंहारार्थम् एवेमम् आचक्ष्महे । येन नात ऊर्ध्वं केवलधर्म् (?) वक्ष्यन्ते । तथा चानन्तरश्लोकः ॥ १२.११५–११६ ॥
एवं स भगवान् देवो लोकानां हितकाम्यया ।
धर्मस्य परमं गुह्यं ममेदं सर्वम् उक्तवान् ॥ १२.११७ ॥
भारुचिः ...{Loading}...
भृगुर् भगवान् श्रोतॄन् स्वशिष्यान् एवम् आह- तथा चायम् एव धर्मशास्त्रप्रवचने प्रथमे ऽध्याये ऽधिकृत्य स्मर्यते-
सर्वम् आत्मनि संपश्येत् सच् चासच् च समाहितः ।
सर्वं ह्य् आत्मनि संपश्यन् नाधर्मे कुरुते मनः ॥ १२.११८ ॥
भारुचिः ...{Loading}...
> एतद् वो ऽयं भृगुः शास्त्रं श्रावयिष्यत्य् अशेषतः ।
> एतद् धि मत्तो ऽधिजगे सर्वम् एषो ऽखिलं मुनिः ॥ इति । *म्ध् १.५९)
यद्य् अयम् उपसंहारो धर्माणाम् उत्तरास् तर्हि किमर्थाः श्लोकाः । परमात्मोपासनार्थाः । तथा चोत्तरत्राध्यात्मम् एव वक्ष्यते, न तु धर्माः केचन वक्ष्यन्ते । उक्तत्वात् तेषाम् । एवं च सति पूर्वश्लोक उक्तानां सर्वधर्माणाम् उपसंहारार्थः, न तु शात्रस्य । शास्त्रं तु परमात्मविषयम् उपासनापदर्थं साद्यात्मम् उत्तरत्रोपसंहरिष्यति-
> इत्य् एतन् मानवं शास्त्रं भृगुप्रोक्तं पठन् द्विजः ।
> भवत्य् आचारवान् नित्यं यथेष्टां चाप्नुयाद् गतिम् ॥ इति । (म्ध् १२.१२६)
न केवलम् एतद् एव धर्मगुह्यं यद् उक्तं धर्मोपसंहारे- एवं स भगवान् देवो लोकानां हितकाम्यया इत्य् एवमादि, किं तर्हीदं चापरं परमात्मविषयं तत्प्रसंख्यानम् अध्यात्मोपासनारूपं धर्मगुह्यम् उच्यते ॥ १२.११७ ॥
केचिद् आहुः क्षेत्रज्ञात्मविषयं तत्प्रसंख्यानम् अध्यात्मोपासनारूपं धर्मगुह्यम् । न, विरुद्धत्वात् । वक्ष्यति हि- “प्रशासितारं सर्वेषाम्” इत्य् एवमादि । यत इदं परमात्मविषयम् एव्आत्मग्रहणं विज्ञेयम् । तथा च प्रदर्शयिष्यामः । श्लोकम् इदानीं विवृणु[म]ः । सर्वं यद् वक्ष्यति । सच् चासच् चेति तद् व्यक्ताव्यक्तं सविकारं प्रधानम् उच्यते । आत्मनीति सर्ववेदशाखोपनिषदस् तत्त्वे परमात्मनीत्य् अर्थः । अध्यस्तं व्यवस्थितं तदधीनवृत्तिभेदपक्षे, तदात्मकतया वाभेदपक्ष इति केचित् । संपश्येद् इत्य् उपासीतेत्य् अर्थः । कथम् एवं यथोवचाम । तथा च पश्यतिर् उपासनार्थो विज्ञेयः । तस्य विशेषणं समाहितः आस्तिक्येन श्रद्धया यमनियमैर् वा समाहितात्मा पश्येत् । अस्य फलार्थवादः फलविधिर् वायम्- सर्वं ह्य् आत्मनि संपश्यन् नाधर्मे कुरुते मनः, परमात्मत्वेन सर्वम् इदं पश्यन् । यतश् च ॥ १२.११८ ॥
आत्मैव देवताः सर्वाः सर्वम् आत्मन्य् अवस्थितम् ।
आत्मा हि जनयत्य् एषां कर्मयोगं शरीरिणाम् ॥ १२.११९ ॥
भारुचिः ...{Loading}...
येन कारणेन परमात्मैव देवता वस्वाद्याः सर्वा इत्य् अध्यात्माधिभूताधिदेवताधियज्ञव्यवस्थिता इत्य् अर्थः, अतश् च सर्वम् आत्मन्य् अवस्थितं पश्येद् इति वर्तते । अनेन चात्मन्य् अवस्थानशब्देन भेदपक्ष एव विज्ञायते, नाभेदप्कषः । तथा च सति यद् अत्राभेदवचनं तद् आगमोपपत्तिविरोधाद् अर्थवादीक्रियते । एवं च सति परमात्मैव तस्यां तस्यां कर्माङ्गदेवतायाम् अवस्थितः संप्रदानकारकत्वेन कर्मत्वेन चोपादनादिक्रियाणां जनयति कर्मयोगम् । कस्य । एषां शरीरिणां शास्त्रधम्[एष्व्]आधिकृतानाम् अर्थलक्षणेषु चेतरेषु । एवम् अधिकृतविधेर् अयम् अर्थवादो विज्ञायते । आध्यात्मकम् अधुनोपासनायोगं परमात्मविषयं बाह्योपसंहारेण दर्शयति ॥ १२.११९ ॥
खं संनिवेशयेत् खेषु चेष्टनस्पर्शने ऽनिलम् ।
पक्तिदृष्ट्योः परं तेजः स्नेहे ऽपो गां च मूर्तिषु ॥ १२.१२० ॥
भारुचिः ...{Loading}...
खं संनिवेशयेत् खेषु, खं बाह्यम् अधिदैवाधिभूताख्यं संनिवेशयेद्, उपासनया खेष्व् आध्यात्मिकेषु देवतैक्यप्रदर्शनेन । एवं चेष्टनस्पर्शन आध्यात्मिके बाह्यानिलं संनिवेशयेद् इति विज्ञेयम् । एवं पक्तिदृष्ट्योः शारिरयोः परं तेजः, कस्य परम्, वायोर् निर्देशतः, संनिवेशयेद् इति सर्वत्रानुवर्तते । स्नेहे आध्यात्मिके ऽपः, संनिवेश्यमानानाम् अपां कर्मत्वाद् अयं द्वितीयानिर्देशो ऽप इति । गां च मूर्तिषु, एवं सर्वत्र ॥ १२.१२० ॥
मनसीन्दुं दिशः श्रोत्रे क्रान्ते विष्णुं बले हरम् ।
वाच्य् अग्निं मित्रम् उत्सर्गे प्रजने च प्रजापतिम् ॥ १२.१२१ ॥
भारुचिः ...{Loading}...
एवं सर्वत्राध्यात्मादिषु व्यवस्थितेषु भिन्नासु देवतास्व् अभिन्नम् ॥ १२.१२१ ॥
प्रशासितारं सर्वेषाम् अणीयांसम् अणोर् अपि ।
रुक्माभं स्वप्नधीगम्यं विद्यात् तु पुरुषं परम् ॥ १२.१२२ ॥
भारुचिः ...{Loading}...
न संसार्यात्मानं क्षेत्रज्ञम् । तथा च सर्ववेदशास्त्रोपनिषदो योगशास्त्राणि च । व्यासो ऽपि चैवम् आह-
> उत्तमः पुरुषस् त्व् अन्यः परमात्मेत्य् उदाहृतः ।
> यो लोकत्रयम् आविश्य बिभर्त्य् अव्यय ईश्वरः ॥ इति ।
प्रशासितारं सर्वास्व् अवस्थास्व् अधिकृतानां सर्वेषां ब्रह्मादीनाम् अपि । तथा ब्राह्मणम्, “एतस्य वा अक्षरस्य प्रशासने, गार्गि " इत्य् एवमाद्य् उदाहरणीयम् । अणीयांसम् अणोर् अपीति सौक्ष्म्यातिशयप्रदर्शनम् एतत् परमात्मन इतरेभ्यः संसार्यात्मभ्यः । रुक्माभम् इत्य् अनेन शुद्धतास्योच्यते । तथा च रहस्यब्राह्मणम् वाजसनेयिनाम् उपनिषदि- “यो [ऽश्नायापिप्]आसे शोकं मोहं जरां मृत्युम् अत्येति; एतं वै तम् आत्मानं विदित्वा” इत्य् एवमादि । स्वप्नधीगम्यम् इति तद्रूपप्रतिपदनपरम् इदम् । यथा हि सुप्तावस्थायां प्रत्यस्तमितकर्मक्लेशसुखदुःखविशेषं शान्तं संसार्यात्मतत्त्वस्य रूपम्, एवम् इदं परमात्मनस् तत्त्वं मनसा स्वप्नधिया शक्यते सदैवंरूपम् अधिगन्तुम् । यत इदम् उच्यते, “स्वप्नधीगम्यं विद्यात् तु पुरुषं परम्” इतरपुरुषापेक्षयेदम् अस्य परत्वम् उच्यते । तथा चोक्तम् अस्यासकृद् अध्यासोदाहरणम्, कर्माङ्गदेवताभेदाधिकारव्यवस्थितं च परमात्मानं सन्तम् ॥ १२.१२२ ॥
एतम् एके वदन्त्य् अग्निं मनुम् अन्ये प्रजापतिम् ।
इन्द्रम् एके परे प्राणम् अपरे ब्रह्म शाश्वतम् ॥ १२.१२३ ॥
भारुचिः ...{Loading}...
एवम् इदं सर्वदेवताधिकारेषु व्यवस्थितं ब्रह्म अग्न्यादिदेवतोपासको ऽपि प्राप्नोतीति । तथा चाग्निरहस्य ब्राह्मणं वाजसनेयिकं “तम् एतम् अग्निर् इत्य् अध्वर्यव उपासते” इत्य् एवमादि एतत् काण्डिकान्ते च स्फुटम् एव दर्शयत्य् एतम् अर्थम्, “तं यथा यथोपासते तद् एव भवति तद् वैनान् भूत्वावति । तस्माद् एतम् एवम्वि[त्] सर्वैर् एवैतैर् उपासीत” इत्य् एवमादि । यतश् च ॥ १२.१२३ ॥
एष सर्वाणि भूतानि पञ्चभिर् व्याप्य मूर्तिभिः ।
जन्मवृद्धिक्षयैर् नित्यं संसारयति चक्रवत् ॥ १२.१२४ ॥
भारुचिः ...{Loading}...
> एष सर्वाणि भूतानि पञ्चभिर् व्याप्य मूर्तिभिः ।
महाभूताख्याभिः स्वकर्मक्लेशापक्षया
> जन्मवृद्धिक्षयैर् नित्यं
प्राणिनः
> संसारयति चक्रवत् ॥ १२.१२४ ॥
तदुपभोगाय वा । अश्वप्रशासिता सर्वेषाम् इत्य् अवगम्यते । यथोक्तस्योपासनायोगस्योपसंहारम् अधुना प्रदर्शयन्न् इदं तत्फलम् आचष्टे ॥ १२.१२४ ॥
एवं यः सर्वभूतेषु पश्यत्य् आत्मानं आत्मना ।
स सर्वसमताम् एत्य ब्रह्माभ्येति परं पदम् ॥ १२.१२५ ॥
भारुचिः ...{Loading}...
> एवं यः सर्वभूतेषु
व्यवस्थितं
> पश्यत्य् आत्मानं
परं यथोक्तम्
> आत्मना ।
स्वात्मना दृष्ट्वा च यथोपदेशं यावज् जीवम् उपासते,
> स सर्वसमताम् एत्य ब्रह्माभ्येति परं पदम् ॥ १२.१२५ ॥
फलविधि एष आगमोपपत्तिभ्यां विज्ञेयः । न फलार्थवादः । एवम् इदं परमात्मयोगप्रसंख्यानोपासनाफलम् उपसंहृत्य शास्त्रम् अधुनोपसंहरति ॥ १२.१२५ ॥
इत्य् एतन् मानवं शात्रं भृगुप्रोक्तं पठन् द्विजः ।
भवत्य् आचारवान् नित्यं यथेष्टां चाप्नुयाद् गतिम् ॥ १२.१२६ ॥
भारुचिः ...{Loading}...
शास्त्रेण हि प्रबोध्यमानो ऽवश्यम् आचारवा[न् भवत्य् अविनेयो ऽपि कालान्त]रेण, किं पुनर् विनेयः, येन हेतौ सत्य् अवश्यंभावि तत्फलं लोके दृष्टम् । तदनुष्ठानाच् चेष्टकामसं[प्राप्तिः] ॥ १२.१२६ ॥
[इति भारुचिकृतं मनुशास्त्रविवरणं समाप्तम् ]