११

एकादशो ‘ध्यायः

सान्तानिकं यक्ष्यमाणम् अध्वगं सार्ववेदसम् ।
गुर्वम्बापितृभृत्यार्थं स्वाध्यायार्थ्युपतापिनौ ॥ ११.१ ॥
दशैतान् स्नातकान् विद्याद् ब्राह्मणान् धर्मभिक्षुकान् ।
निःस्वेभ्यो देयम् एतेभ्यो दानं विद्याविशेषतः ॥ ११.२ ॥

भारुचिः ...{Loading}...

अत्र चोद्यते- यद् उक्तम् अनन्तरम् एव दशमाध्यायोपसंहारे “अतः परं प्रवक्ष्यामि प्रायश्चित्तविधिं शुभम्” इति, नन्व् एतदपेक्षया प्रायश्चित्तप्रकरणम् एवोपन्यसनीयम् “अकुर्वन् विहितं कर्म” इत्यादि । इतरथाप्य् अप्रकृतोपन्यासः प्रकृतार्थव्यवधानं चायुक्तम् आपद्यते । यतः स्नातकधर्मापद्धर्मप्रकरणयोर् एवैतत् सर्वम् उपदेष्टव्यम्, नात्रेति । अत्रोच्यते- साहचर्याद् एवैतयोर् यथोक्तप्रकरणद्वये ऽप्य् अवकाशम् अलभमानयोर् इह विलेषनिर्देशो युक्तः, मा भूद् एतयोः परस्परसंबद्धयोर् अन्यत्रप्रकरणे ऽन्यस्य निर्देशे ऽधिक्रियमाणे प्रकरणभेदाद् असामञ्जस्यम् इति । निर्दिष्टारम्भप्रयोजनस्येदम् अधिना विवरणं स्लोकद्वयस्य । एकविद्यमानद्रव्यश् च न याचेत, निःस्वेभ्यो देयम् एतेभ्य इति वचनात् । दानं चात्र चोद्यते, न तु याचना । निमित्तसंनियोगेनार्थगृहीतत्वाद् अशासितव्या हि सा । तच् च दर्शयति निःस्वेभ्यो फलस्याविशेष उपदेशतुल्यत्वाद् इति, उभयस्माद् इत्य् आह नियमाद् देयविशेषाच् च । यदि देयविशेषात् फलविशेषो न स्यात्, न कश्चिद् दानविशेषे प्रयतेत शास्त्रव्यपक्षया । अथ वा नियमस्य दानाश्रितस्य चोदितत्वात्, नियमाच् च, धर्म यथाशक्तिनियमसाधनत्यागेन च देयविशेषे ऽवश्यंभावि । एवं च न देयविशेषात् फलविशेषः प्रत्याख्यातुं शक्य उपदेशतुल्यत्वे [ऽपि] । तथा चोक्तम् ।

> पात्रस्य हि विशेषेण श्रद्दधानतयैव च ।
> अल्पं वा बहु वा प्रेत्य दानस्यावाप्यते फलम् ॥ इति ॥ ११.१–२ ॥

एतेभ्यो हि द्विजाग्रेभ्यो देयम् अन्नं सदक्षिणम् ।
इतरेभ्यो [बहिर्वे]दि नाकृतान्नं विधीयते ॥ ११.३ ॥

भारुचिः ...{Loading}...

नियमानुवादो ऽयं भोजनविशेषेण । इतरेभ्यो ऽतिथिभ्यो बहिर्वेदि कृतान्नम् एव देयं नियमतः । तद् इदं पूर्वोक्तम् अतिथ्यन्नदानम् अनूद्यते । दक्षिणास् त्व् एषां न विधिर् न प्रतिषेधः ॥ ११.३ ॥

सर्वरत्नानि राजा तु यथार्हं प्रतिपादयेत् ।
ब्राह्मणान् वेदविदुषो यज्ञार्थं चैव दक्षिणाम् ॥ ११.४ ॥

भारुचिः ...{Loading}...

राज्ञस् तु नियमो बहुधनत्वात् । एवं च राज्ञा सान्तानिकादिव्यतिरेकेणान्येभ्यः स्नातकेभ्यो नियमतो देयं स्थितिभोगार्थम् । यज्ञार्थं चेत्य् एतद् आरम्भसामर्थ्याद् गम्यते । नायियक्षमाणाय देयम् इति । अनेन संबन्धेनेदम् उच्यते ॥ ११.४ ॥

कृतदारो ऽपरान् दारान् भिक्षित्वा यो ऽधिगच्छति ।
रतिमात्रं फलं तस्य द्रव्यदातुस् तु सन्ततिः ॥ ११.५ ॥

भारुचिः ...{Loading}...

धर्मप्रजासंपन्ने दारे द्वितीयदारस्यात्मीयेन द्रव्येण नेदम् अनुज्ञानम् । यस्मात् न हि द्वितीयस्य दारस्य धर्मप्रजासंपत्तौ सत्यां प्राप्तिर् अस्ति । तथा च स्मृत्यन्तरम्- “धर्मप्रजासंपन्ने दारे नान्यां कुर्वीत” इति । एवं च सति कृतदारकार्यस्य द्वितीयदाराधिगमप्रतिषेधो ऽयम् । भिक्षणपक्षम् आश्रित्य निन्दा । तत्र च यथा तदङ्गभावं गच्छतो द्रव्यदातुः सन्ततिः, एवम् आत्मीयद्रव्याधिगमे ऽपि कन्याया दातुः सन्ततिः फलम् इत्य् अतो प्य् एवं शक्यते निन्दा कल्पयितुम् । द्रव्यशब्दस्योभयत्र प्रवृत्तेः कन्यापि हि शक्यते द्रव्यशब्देनाभिधातुम् । यस्मात् कृतदारकार्यस्य द्वितीयदाराधिगमप्रतिषेधार्तो ऽयं श्लोकः । एतस्मिंस् त्व् अर्थे प्रकरणं नानुगृह्यते, यतः अयम् अन्यप्रकरणानुग्राही । श्लोकार्थ उच्यते- कृतदारकार्यस्य द्वितीयदाराधिगमार्थं भिक्षमाणाय न देयं नियमतः । अत्र चोक्तो निन्दार्थवाद इति । एवं च सति भिक्षमाणायापि न देयम् । तथा च सत्य् अयम् अपवादः पूर्वस्यासान्तानिकाय न देयम् इति । नित्यकर्मार्थायां याचनायां सान्तानिकादिश्लोके दाननियम उक्तो विज्ञेयः । काम्यकर्मार्थायां तु याचनायां दानस्य न विधिर् न प्रतिषेधः । तथा च दर्शयति ॥ ११.५ ॥

यस्य त्रैवार्षिकं भक्तं पर्याप्तं भृत्यवृत्तये ।
अधिकं वापि विद्येत न सोमं पातुम् अर्हति ॥ ११.६ ॥

भारुचिः ...{Loading}...

एवं च सति काम्यसोमापेक्षो ऽयं सामर्थ्याद् उपदेशो द्रष्टव्यः । नित्यस्य हि सोमस्य भृत्योपरोधेनापि करणम् इष्यते, नित्यत्वाद् एव । तथा च सत्य् अत्र तदैव दाननियमो युज्यते, यथोक्तो यक्ष्यमाणाय देयम् इति । इदं सोमग्रहणं सर्वकाम्यकर्मप्रदर्शनार्थम्, कारणस्य [स]मानत्वात् ॥ ११.६ ॥

अतः स्वल्पीयसि द्रव्ये यः सोमं पिबति द्विजः ।
सो ऽपीतसोमपूर्वो ऽपि न तस्याप्नोति तत्फलम् ॥ ११.७ ॥

भारुचिः ...{Loading}...

नियमशास्त्रव्यतिक्रमेण न केवलम् अस्य तत्कर्मनैष्फल्यम् प्रत्यवायश् चापरः । अपीतसोमपूर्वस्यायं व्यतिक्रमो निष्फलः प्रत्यवायाय च स्यात्, किं पुनर् इतरस्येति निन्दार्थवादः न चापीतसोमपूर्वो ऽपीत्य् अनेन स्तुत्यर्थेनातिसयवचनेन न नित्यस्य सोमपानस्याप्रवृत्तिः सक्या कल्पयितुम् । एवं च सत्य् एतस्माद् एव स्तुत्यतिशयाल् लिङ्गान् नित्यस्यानिवृत्तिर् गम्यते । तथा च नित्यार्थं नियमतो देयम् । इतरत्र त्व् अनियमः । इदानीं शक्तस्य दातुर् नियम उच्यते ॥ ११.७ ॥

शक्तः परजने दाता स्वजने दुःखजीविनि ।
मध्वापातो विषास्वादः स धर्मप्रतिरूपकः ॥ ११.८ ॥

भारुचिः ...{Loading}...

एवं च सत्य् एतद् अर्थाद् गम्यते स्वजनोपरोधेन परेभ्यो न देयम् । स्वजनं च पुत्रदारादिं वक्ष्यति । अन्यथा हि स्वजनातिक्रमेण यो ददाति दातुस् तस्यासौ मध्यापातः, मधुन इवापतः आपात आस्वादः संनिपात रमणीयो यशः; सुखं यशो ऽर्थिनां यद्य् अपि भवति, तथाप्य् असौ विषास्वाद इव ज्ञेयो ऽप्य् एव । कटुरसत्वेनात्र प्रत्यवायोत्पत्त्या । तथा च दर्सयति स धर्मप्रतिरूपको दातुर् अधर्म इत्य् अर्थः । कुतः । नियमातिक्रमात् । अस्य निन्दार्थवादो निवृत्त्यर्थः ॥ ११.८ ॥

भृत्यानां उपरोधेन यत् करोत्य् और्ध्वदेहिकम् ।
तद् भवत्य् असुखोदर्कं जीवतश् च मृतस्य च ॥ ११.९ ॥

भारुचिः ...{Loading}...

मातापितरौ पुत्रदारं च भृत्याः । तथा चोक्तम् “गुरून् भृत्यांश् चोज्जिहीर्षन्” इति । एवं च स्मृत्यन्तरम्-

> वृद्धौ च मातापितरौ साध्वी भार्या सुतः शिशुः ।
> अप्य् अकार्यशतं कृत्वा भर्तव्या मनुर् अब्रवीत् ॥

अतस् तेषाम् उपरोधेन यद् अन्यत् करोत्य् और्ध्वदेहिकम् इष्टं पूर्तं वा युक्तम् अस्यासुखोदर्कत्वं प्रत्यवायोत्पत्त्या च तत्रेह चेति । अपरे तु पूर्वश्लोकपादम् एवं पठन्ति “मध्वास्वदो विषापात” इति, अर्थस् तु यथोक्त एव ॥ ११.९ ॥

यज्ञश् चेत् प्रतिबद्धः स्याद् एकेनाङ्गेन यज्वनः ।
ब्राह्मणस्य विसेषेण धार्मिके सति राजनि ॥ ११.१० ॥

भारुचिः ...{Loading}...

भिक्षमाणस्यापि तदर्थम् असामग्र्यां सत्यां यज्ञसाधनानां परादानं वक्ष्यति । एकाङ्गेनेति, येन केनचिद् अल्पेनापि यज्ञसाधनप्रतिपूरणेनेत्यर्थः । ब्राह्मणस्य विशेषेणेदम् इत्य् अर्थः । तन्निमित्ते । एवं च सति क्षत्रियवैश्ययोर् अपि यायजूकयोर् एकम् अनुज्ञायते परादानम्, ब्राह्मणस्य विशेषेणेति वचनात् । धर्मिके सति राजनि धर्मज्ञो यो हि एतद् वे[त्ति] । अनेन निमित्ते उपन्य[स्ते] स्तः शास्त्रे इहैतस्मिन् एवंगुणे सति राजन्य् एतद् उपदिस्यते परादानम् । कुतः पुनस् तद् इति, यतस् तद् आह ॥ ११.१० ॥

यो वैस्यः स्याद् बहुपशुर् हीनक्रतुर् असमपः ।
कुटुम्बात् तस्य तद् द्रव्यम् आहरेद् यज्ञसिद्धये ॥ ११.११ ॥

भारुचिः ...{Loading}...

हीनक्रतुश् च बहुपशुः स्यात् । हीनकर्मा । अहीनक्रतुर् अपि यद्य् असोमपो भवति, ततः कुटुम्बात् तस्य तद् द्रव्यम् आहरेत् । तद् असंभवे च ॥ ११.११ ॥

आहरेत् त्रीणि वा द्वे वा कामं शूद्रस्य वेश्मनः ।
न हि शूद्रस्य यज्ञेषु कश्चिद् अस्ति परिग्रहः ॥ ११.१२ ॥

भारुचिः ...{Loading}...

> आहरेत् त्रीणि वा द्वे वा कामं शूद्रस्य वेश्मनः ।

अङ्गप्रकरणात् त्रीणि वा द्वे वाङ्गानि संबध्यन्ते । अङ्गभूयस्त्वादानं च हीनजातित्वाद् अस्य । अस्यार्थवादो भवति ।

> न हि शूद्रस्य यज्ञेषु कश्चिद् अस्ति परिग्रहः ॥ ११.१२ ॥

एवं चाह व्यासः-

> यज्ञाय सृष्टानि धनानि धात्रा यष्टा सृष्टः पुरुषो रक्षिता च ।
> तस्मात् सर्वं यज्ञ एवोपयोज्यं धनं न कामाय एतत् प्रशस्तम् ॥

ननु शूद्रधनेन यागप्रतिषेधं वक्ष्यति, “न यज्ञार्थं धनंशूद्रात्” इत्य् एवमादिभिः । [भि]क्षित्वा तत्र प्रतिषेधः, इदं च परादानं पदार्थान्तरम् । यतो न विरोधः । अथ वा शूद्रधनैर् एव केवलैस् तत्र प्रतिषेधः, इह तु द्वित्रिमात्राङ्गवैकल्ये ऽसंभवद्वित्तस्य तत आदाय यागो युक्तः । वचनाद् वात्रैवं भविष्यति, निमित्ते भेदे सति । न वचनस्यातिभारो ऽस्त्य् उपदेशपरत्वाच् छस्त्रस्य । इदानीं ब्राह्मणक्षत्रियाभ्याम् इदम् आदानम् उच्यते, असंभवति शूद्रे ॥ ११.१२ ॥

यो ऽनाहिताग्निः शतगुर् अयज्वा च सहस्रगुः ।
तयोर् अपि कुटुम्बाभ्याम् आहरेद् अविचारयन् ॥ ११.१३ ॥

भारुचिः ...{Loading}...

निगदव्याख्यातः श्लोकः ॥ ११.१३ ॥

आदाननित्याच् चादातुर् आहरेद् अप्रयच्छतः ।
तथा यशो ऽस्य प्रथते धर्मश् चैव विवर्धते ॥ ११.१४ ॥

भारुचिः ...{Loading}...

अयं चादाननित्यो ब्राह्मण उच्यते । आदाय यो न कल्पयति धनम् इष्टपूर्ताङ्गतया । तस्माद् अप्रयच्छत इदम् आदानम् उच्यते । न त्व् आदाननित्यस्यापि सतो यज्ञशीलस्य । एवं च सति पूर्वश्लोकः क्षत्रियविषय एव द्रष्टव्यः । अपरे त्व् आदाननित्यं वार्धिषुकं मन्यन्ते । शास्त्रप्रतिषिद्धवृद्धिगृहीतारम् (?) अया[ग]शीलम् । एतस्यां च कल्पनायां जातिर् अविवक्षिता । तथा च मन्त्रः “इं ते कृण्वन्ति कीकटेषु गावः” इत्येवमादिः ॥ ११.१४ ॥

तथैव सप्तमे भक्ते भक्तानि षडनश्नता ।
अश्वस्तननिधानाय हर्तव्यं हीनकर्मणः ॥ ११.१५ ॥

भारुचिः ...{Loading}...

आत्मकुटुम्बक्षुदवसादेनापि निमित्तेन पूर्ववत् परादानं शिष्यते । ब्राह्मणस्य विशेषेणेत्य् एतद् अनुवर्तते । अश्वस्तननिधानायेति वचनात्, आहोरात्रिकम् आदेय परिमाणम् अनुजानाति नाधिकम् । हीनकर्मण इति च क्रमार्थम् इदं वचनम् । तथा च स्मृत्यन्तरम्-

> हीनाद् आदेयम् आदौ स्यात् तद् अलाभे सामाद् अपि ।
> असंभवे त्व् आददीत विशिष्टाद् अपि धार्मिकात् ॥

एवं च सति पूर्वस्याप्य् अयम् एव क्रमो विज्ञेयः । तथा च गौतमः- “द्रव्यादानं विहाहसिद्ध्यर्थं धर्मतन्त्रसंयोगे च शूद्राद्, अन्यत्रापि शूद्रात्” इति ॥ ११.१५ ॥

खलात् क्षेत्राद् अगाराद् वा यतो वाप्य् उपलभ्यते ।
आख्यातव्यं तु तत् तस्मै पृच्छते यदि पृच्छति ॥ ११.१६ ॥

भारुचिः ...{Loading}...

> खलात् क्षेत्राद् अगाराद् वा यतो वाप्य् उपलभ्यते ।

एवं च खलादिग्रहणाद् धान्यम् इदं विज्ञेयं भोजनार्थीयं तथा च सप्तमे भक्त इत्य् उक्तम् ।

> आख्यातव्यं तु तत् तस्मै पृच्छते यदि पृच्छति ॥ ११.१६ ॥

धनस्वामिन पृच्छते सुप्तम् उत्थाप्य जाग्रित्वा यदि पृच्छति । अथ वाख्यातव्यं तत् तस्मै पृच्छते धनस्वामिने यदि जाग्रद्धनापहर्तारं पृच्छति, न बलाद् उत्थाप्याख्यातव्यम् । अथ वा यदि पृच्छति राजा धनस्वामिना राजपुरुषैर् वा राजसमीपम् आनीतम् । तथा च गौतमः- “आचक्षीत राज्ञा पृष्टः” इति धनापहरणप्रयोजनम् । अयं च परादान[नियमो भक्तच्छेदे यज्ञ]प्रतिरोधे ऽपि समानत्वात् कारणस्य विज्ञेयः ॥ ११.१६ ॥

ब्राह्मणस्वं न हर्तव्यं क्षत्रियेण कदाचन ।
दस्युनिष्क्रिययोस् तु स्वम् अजीवन् हर्तुम् अर्हति ॥ ११.१७ ॥

भारुचिः ...{Loading}...

> ब्राह्मणस्वं न हर्तव्यं क्षत्रियेण कदाचन ।

कदाचिद् अपि यथोक्तायाम् अप्य् अवस्थायाम् । एवं च दण्डापूपिकया वैश्यशूद्रयोर् अपि प्रतिषेधो [विज्ञेयः] । ब्राह्मणस्य ब्रह्मस्वापहरणे ऽप्रतिषेधः; तथा चोक्तम् “आदाननित्याच् चादातुः” (म्ध् ११.१४) इति ॥

> **दस्युनिष्क्रिययोस् तु **

ब्राह्मणयोर् एव सतोः,

> स्वम् अजीवन् हर्तुम् अर्हति ॥ ११.१७ ॥

कारणात् पूर्वप्रतिषेधविषये प्रतिप्रसवो ऽयं विज्ञेयः । एवं च ब्राह्मणस्य श्रेयसो ऽपि ब्राह्मणाद् एतद् अनुज्ञातं भवति ॥ ११.१७ ॥

यो ऽसाधुभ्यो ऽर्थम् आदाय साधुभ्यः संप्रयच्छति ।
स कृत्वा प्लवम् आत्मानं संतारयति ताव् उभौ ॥ ११.१८ ॥

भारुचिः ...{Loading}...

धनस्वाम्यपहर्तारौ । गृहीतम् एव धनापहर्तारं यज्ञप्रतिरोधेन निमित्तेनानिगृह्णतः पूजयतश् च राज्ञ इदम् उच्यते परानुगृहीतृत्वात् । एतच् चासाधुभ्यो यज्ञार्थम् आदीयमानं साधुनोपेक्षया राज्ञैव दत्तं भवति । यत इदम् उच्यते । यो ऽसाधुभ्यो ऽर्थम् आदाय साधुभ्यः संप्रयच्छति, येन ॥ ११.१८ ॥

यद् धनं यज्ञशीलानां देवस्वं तद् विदुर् भुधाः ।
अयज्वनां तु यद् वित्तम् आसुरस्वं तद् उच्यते ॥ ११.१९ ॥

भारुचिः ...{Loading}...

यस्मात् तस्माद् युक्ता तत्र राज्ञ उपेक्षा, एतां शास्त्रपरिभाषाम् अन्ववेक्ष्य । एवं च सति ॥ ११.१९ ॥

न तस्मिन् धारयेद् दण्डं धार्मिकः पृथिवीपतिः ।
क्षत्रियस्य हि बालिश्याद् ब्राह्मणः सीदति क्षुधा ॥ ११.२० ॥

भारुचिः ...{Loading}...

क्षुल् लिङ्गं चैतद् उभयत्रापि समानप्रकरणत्वाद् विज्ञेयम् ॥ ११.२० ॥

तस्य भृत्यजनं ज्ञात्वा स्वकुटुम्बान् महीपतिः ।
श्रुतशीले च विज्ञाय वृत्तिं धर्म्यां प्रकल्पयेत् ॥ ११.२१ ॥

भारुचिः ...{Loading}...

क्षुदवसन्नात्मकभृत्यस्याइतद् उच्यते विशेषेण ॥ ११.२१ ॥

कल्पयित्वास्य वृत्तिं च रक्षेद् एनं समन्ततः ।
राजा हि धर्मषड्भागं तस्माद् आप्नोति रक्षितात् ॥ ११.२२ ॥

भारुचिः ...{Loading}...

> कल्पयित्वास्य वृत्तिं च रक्षेद् एनं समन्ततः ।

शौर्यादिशंसनमात्राद् अपि, किं पुनस् तस्करेभ्यः, यस्मात् ।

> राजा हि धर्मषड्भागं तस्माद् आप्नोति रक्षितात् ॥ ११.२२ ॥

धर्मषड्भागग्रहणं रक्षार्थवादो विज्ञेयः ॥ ११.२२ ॥

न यज्ञार्थं धनं शूद्राद् विप्रो भिक्षेत धर्मवित् ।
यजमानो हि भिक्षित्वा चण्डालः प्रेत्य जायते ॥ ११.२३ ॥

भारुचिः ...{Loading}...

> न यज्ञार्थं धनं शूद्राद् विप्रो भिक्षेत धर्मवित् ।

निःस्वो ऽपि विप्रः सन् । द्वित्रिमात्राङ्गवैकल्यं तु प्रशस्तम् । न त्व् अद्रविणो द्विमात्राङ्गादानं कुर्याच् छूद्राद् इति । अथ वा भिक्षणम् अत्र प्रतिषिद्धं शूद्रात्, नायाचिलाभः (?) । एवं च भिक्षणाद् अयाचितः श्रेयान् इति विज्ञायते । तथा चोक्तम् “अयाचितोपपन्नानां द्रव्याणां यः प्रतिग्रहः, स विशिष्टः शिलोञ्छाभ्यां तं विद्याद् अप्रतिग्रहम्” इति । अविद्यमानधनस् तु सर्वम् एव यज्ञारथं शूद्रात् ।

> यजमानो हि भिक्षित्वा चण्डालः प्रेत्य जायते ॥ ११.२३ ॥

अयं निन्दार्थवादः प्रतिषिद्धार्थानुष्ठाननिवृत्त्यर्थः । कथं नामायं निन्दितं न समाचरेद् इति । अथ वा नित्यकर्मातिपत्तौ यः सर्वतः प्रतिग्रह उक्तः तस्यायं श्रौतस्मार्तयज्ञार्थप्रतिषेधः । एतस्याम् अवस्थायां कामं प्रतिषिद्धाभ्युपगमः स्यात् । न शूद्राद् भिक्षणम् । भृत्यभरणार्थम् तु शूद्राद् अपि भिक्षणं न प्रतिषिध्यते । काम्ययज्ञार्थं पुनर् असत्प्रतिग्रह एव नास्ति । कृतस् तस्य प्रतिषेधः । एवं च सति यः काम्ययज्ञार्थंशूद्राद् भिक्षेत तेनोभयम् अतिक्रान्तं भवति, असत्प्रतिग्रहनियमो भिक्षणनियमश् च । अथ वा शूद्रात् परादानस्तुतिर् इयम् “न यज्ञार्थंधनंशूद्राद् विप्रो भिक्षेत धर्मवैत्” इति । कथम् । परादानम् अपि युक्तं शूद्रात्, न तु भिक्षणम् इत्य् एवम् ॥ ११.२३ ॥

यज्ञार्थम् अर्थं भिक्षित्वा यो न सर्वं प्रयच्छति ।
स याति भासतां विप्रः काकतां वा शतं समाः ॥ ११.२४ ॥

भारुचिः ...{Loading}...

शूद्राद् अन्येभ्यो द्विजातिभ्यो नित्यार्थं भिक्षितस्य काम्यार्थं वा नियमतः सर्वस्योपयोगार्थम् इदम् आरब्धं वाक्यम् । अधुना विहितधर्मस्तुत्यर्थम् इदम् आरभ्यते ॥ ११.२४ ॥

देवस्वं ब्राह्मणस्वं च लोभेनोपहिनस्ति यः ।
स पापात्मा परे लोके गृध्रोच्छिष्टेन जीवति ॥ ११.२५ ॥

भारुचिः ...{Loading}...

देवतार्थं यत् प्रकल्प्य स्थाप्यते तद् देवस्वम् । प्रकरणसामर्थ्याद् यज्ञार्थं भिक्षितम् । नान्यत् । ब्राह्मणस्वम् अप्य् एवम् एव विज्ञेयम्, यद् ब्राह्मणभोजनाथं प्रतिगृहीतं श्राद्धादिषु । समानवादार्थं च देवस्वेनास्य ग्रहणम् । एवं च सति यद् इदं (?) लोके प्रसिद्धं देवस्वं तन् नेहाभिधीयते, प्रकरणविरोधात् । देवतानां च ममता नास्त्य् अनधिकारात् । शास्त्रदृष्टं च यद् देवस्वं तत्संप्रदानकाल एवोद्देशसामर्थ्याद् देवस्वम् इति शक्यते वक्तुम् । क्षणिकश् चासौ देवतोपभोगकालः, निवृत्ते च तस्मिन् देवतोपभोगे देवस्वं तद् इत्य् अशक्यं व्यपदेष्टुम् । एवं च सति यज्ञार्थं भिक्षितं सर्वं यज्ञ एवोपयोज्यम् । न किंचिद् आत्मोपभोगाय स्थापनीयम् । यस् तु मोहान् न सर्वम् उपयुङ्क्ते, तस्य नियमव्यतिक्रमे ऽयं निन्दार्थवादः । दृष्टान्तार्थं वा प्रसिद्धस्य ब्राह्मण[स्व]स्य ग्रहणम् ॥ ११.२५ ॥

इष्टिं वैश्वानरीम् नित्यं निर्वपेद् अब्दपर्यये ।
कॢप्तानां पशुसोमानां निष्कृत्यर्थम् असंभवे ॥ ११.२६ ॥

भारुचिः ...{Loading}...

यदि त्व् असामर्थ्यात् पशुसोमानां शास्त्रचोदितानाम् अनुष्ठाने न शक्नुयात्, तत इमाम् इष्टिं वैश्वानरीं कुर्याण् निष्कृत्यर्थम् । नित्यानां कर्मणाम् अनुष्ठानाशक्तौ । एवं च सति (?) नित्यकर्मातिपत्ताव् अविरोधात् श्रौतस्य प्रायश्चित्तस्य प्रतिनिधेर् वैश्वानर्याश् च समुच्चयः । ननु चैकार्थत्वाद् विकल्पः प्राप्नोति । न ह्य् एकार्थता साक्षाद् उपलभ्यते, किं तर्ह्य् एकं श्रौतम् अन्यत् स्मार्तम् । एवं च प्रमाणभिन्नयोर् अविकल्पः । एकप्रमाणत्वे सति तद्विकल्पो न्यायः स्यात् । अपरे तु विकल्पम् एव मन्यन्ते । तथा च ब्रह्महत्याप्रायश्चित्तयोः श्रौतस्मार्तयोर् विकल्पं वक्ष्यति । एतत् त्व् आपत्कल्पे नित्यकर्मातिपत्ताव् अस्य स्यात् । तथा च सति ॥ ११.२६ ॥

आपत्कल्पेन यो धर्मं कुरुते ऽनापदि द्विजः ।
स नाप्नोति फलं तस्य परत्रेति विचारितम् ॥ ११.२७ ॥

भारुचिः ...{Loading}...

एवं च सति न विद्यमानधनो वैश्वानरीं कुर्यात् पशुसोमवैकल्पिकीम्, प्रायश्चित्तप्रतिनिधिं वेति । येन ॥ ११.२७ ॥

विश्वैश् च देवैः साध्यैश् च ब्राह्मणैश् च महर्षिभिः ।
आपत्सु मरणाद् भीतैर् विधिः प्रतिनिधिः कृतः ॥ ११.२८ ॥

भारुचिः ...{Loading}...

तथा च सति-

प्रभुः प्रथमकल्पस्य यो ऽनुकल्पेन वर्तते ।
न सांपरायिकं तस्य दुर्मतेर् विद्यते फलम् ॥ ११.२९ ॥

भारुचिः ...{Loading}...

तस्मात् परेण यत्नेन नित्यकर्मार्थम् उद्यच्छतस् तद् अशक्ताव् एतद् भवेत् । न सति सामर्थ्य इति । यश् च धर्मतन्त्रसङ्गे सति परापहरणादिषु प्रवर्तमानः केनचिद् राजपुरुषेण कथंचिद् बाध्येत, ततो बाध्यमानो ऽप्य् असौ ॥ ११.२९ ॥

न ब्राह्मणो ऽवेदयेत किंचिद् राजनि धर्मवित् ।
स्ववीर्येणैव ताञ् छिष्यान् मानवान् अपकारिणः ॥ ११.३० ॥

भारुचिः ...{Loading}...

> न ब्राह्मणो ऽवेदयेत किंचिद् राजनि धर्मवित् ।

किं तर्हि,

> स्ववीर्येणैव ताञ् छिष्यान् मानवान् अपकारिणः ॥ ११.३० ॥

येन,

स्ववीर्याद् राजवीर्याच् च स्ववीर्यं बलवत्तरम् ।
तस्मात् स्वेनैव वीर्येण निगृह्णीयाद् अरीन् द्विजः ॥ ११.३१ ॥

भारुचिः ...{Loading}...

केन पुनर् उपायेन । यतस् तद् आह ॥ ११.३१ ॥

श्रुतीर् अथर्वाङ्गिरसीः कुर्याद् इत्य् अविचारितम् ।
वाक्शस्त्रं वै ब्राह्मणस्य तेन हन्याद् अरीन् द्विजः ॥ ११.३२ ॥

भारुचिः ...{Loading}...

अभिचारानुज्ञानार्थम् इदम् आरभ्यते । कथम् । यो हि धर्माचरणाभिमिखस्य प्रतिबन्धे वर्तते स शत्रुः सुकृतपरिबन्धितया भवति । स प्राप्तापराधो राजनिवेदनानर्हश् चेत्, अतस् तदर्थो ऽभिचारो ऽनुज्ञायते । एवं च सति सक्रोधमात्रेणाभिचारो न कर्तव्यः । यच् च स्मृत्यन्तरे ऽभिचारस्याशुचिकरत्वम् उक्तम्, “अभिचाराभिशापाव् अशुचिकरौ” इति तत् क्रोधमात्रेणाभिचरतो दर्शितं भवति, अनधिकृतत्वात् । एवं च सत्र्य् अयम् अप्य् अनधिचरणीयाभिचारे प्रायश्चित्तं वक्ष्यति, “[अभि]चारं च त्रिभिः कृच्छ्रैर् व्यपोहति” इति । अपरे त्व् अहीनकर्मार्त्विज्यापेक्षम् इदं प्रायश्चित्तं वर्णयन्ति । एवम् अनयोः स्मृत्योर् विरोधः । ब्राह्मणस् तावद् एवम् अधीतवेदः स्रुतशास्त्रकर्मा च तदनुष्ठानप्रतिघातापदं निस्तरेत् । अथेतरे वर्णाः कथम् इति । य्द् इदम् उच्यते ॥ ११.३२ ॥

क्षत्रियो बाहुवीर्येण तरेद् आपदम् आत्मनः ।
धनेन वैश्यशूद्रौ तु जपहोमैर् द्विजोत्तमः ॥ ११.३३ ॥

भारुचिः ...{Loading}...

द्विजोत्तमग्रहणं चात्र दृष्टान्तर्थं विज्ञेयम्, उक्तत्वाद् अस्येति । एवं च ब्राह्मण[प्र]करण एव स्थित्वेदम् उच्यते ॥ ११.३३ ॥

विधाता शासिता वक्ता मैत्रो ब्राह्मण उच्यते ।
तस्मै नाकुशलं कुर्यान् न शुष्कां गिरम् ईरयेत् ॥ ११.३४ ॥

भारुचिः ...{Loading}...

राज्ञो ऽयम् उपदेशः । एवं धर्माचरणाभिमुखो ब्राह्मणस् तत्प्रत्यनीकोपघाते वर्तमानो राज्ञा क्वचिद् अपि न किंचिद् वक्तव्य इति । ब्राह्मणापकर्तृपुरुषाणां वायम् उपदेशः । न राजबलम् आस्रित्य बाधितव्यः । समर्थो ह्य् असौ पश्यतः क्रोशतश् च राज्ञो ऽभिचारेण शत्रून् निहन्तुम् इति । अतस् तस्मै नाकुशलं कुर्यान् न शुष्कां गिरम् ईरयेद् इति ॥ ११.३४ ॥

नैव कन्या न युवतिर् नाल्पविद्यो न बालिशः ।
होता स्याद् अग्निहोत्रस्य नार्तो नासंस्कृतस् तथा ॥ ११.३५ ॥

भारुचिः ...{Loading}...

कन्यादीनाम् अप्राप्तानां प्रतिषेधो ऽयम्, अग्निहोत्रादीनां सर्वकर्मणाम् अनुष्ठातृस्तुत्यर्थः । तत् पुनर् विचारणीयं युक्तायुक्ततया । एवं च सतीदम् आह ॥ ११.३५ ॥

नरकं हि पतन्त्य् एते जुह्वन्तः स च यस्य तत् ।
तस्माद् वैतानकुशलो होता स्याद् वेदपारगः ॥ ११.३६ ॥

भारुचिः ...{Loading}...

अतश् च विज्ञायते ऽग्निहोत्रग्रहणं सर्वकर्मनिदर्शनार्थम् । तस्माद् एवंगुणास् सर्वर्त्विज इष्यन्ते, न केवलम् अग्निहोत्रस्य हावकः । अपरे प्रतिनिधिविषयम् एतं प्रतिषेधम् आहुः । यथा “नान्तरीक्षे न दिव्य् अग्निश् चेतव्यः” इत्य् अयम् अप्राप्तप्रतिषेधो रुक्मसंबन्धस्तुत्यर्थः । एवम् अयम् अपीति । अपर आह- गृह्यम् एतद् अग्निहोत्रं हृह्यते । तत्र च स्त्र्यादीनाम् अपि प्राप्तिः, “कामं गृह्ये ऽग्नौ पत्नी जुहुयात् सायं प्रातर् होमौ” इति वचनात् । एवं च सत्य् ऊढापि सती यावत् कन्या तावन् न जुहुयाद् औपासनम् अग्निस् ऊढा च संवत्सरं त्रिरात्रं वा कन्या भवति । यत एवं प्राप्तायाः प्रतिषेधः । एवं युवत्यादीनाम् अपि प्राप्तानां प्रतिषेधः । तच् चैतद् औपरिष्टेन श्लोकार्धेन विरुध्यते, तस्माद् वैतानकुशलो होता स्याद् वेदपारगः इत्य् अनेन । अग्निहोत्रसंबन्धेनाग्न्याधेयदक्षिणाधर्म उच्यते ॥ ११.३६ ॥

प्राजापत्यम् अदत्वाश्वम् अग्न्याधेयस्य दक्षिणाम् ।
अनाहिताग्निर् भवति ब्राह्मणो विभवे सति ॥ ११.३७ ॥

भारुचिः ...{Loading}...

ब्राह्मणग्रहणाच् च क्षत्रियवैश्ययोः प्राजापत्याश्वदाने न नियमः । ब्राह्मणस्याप्य् अश्वदानं विभवापेक्षत्वाद् अनित्यं दर्सयति । समुच्चयन्यायत्वाच् च दक्षिणानाम् अश्वः समुच्चीयते । अग्न्याधेयदक्षिणादानसंबन्धेन चेदम् अन्यद् उच्यते । समग्रदक्षिणा यज्ञाः स्युः । एवं च सति दक्षिणावैगुण्ये दोषम् आह ॥ ११.३७ ॥

पुण्यान्य् अन्यानि कुर्वीत श्रद्दधानो जितेन्द्रियः ।
न त्व् अल्पदक्षिणैर् यज्ञैर् यजेतेह कथंचन ॥ ११.३८ ॥

भारुचिः ...{Loading}...

काम्ययज्ञवक्षिणा विधिर् अयम् । नित्यानां तु कर्मणाम् अल्पदक्षिणानाम् अप्य् अनुज्ञनम् इति ॥ ११.३८ ॥

इन्द्रियाणि यशः स्वर्गम् आयुः कीर्तिं प्रजां पशून् ।
हन्त्य् अल्पदक्षिणो यज्ञो न यजेताधनस् ततः ॥ ११.३९ ॥

भारुचिः ...{Loading}...

नित्यानां हि कर्मणाम् आरब्धानां यथा कथम्चित् क्रियाप्रसिद्धौ तदारम्भाशङ्कायां काम्यकर्मार्थप्रतिषेधो ऽयं श्लोकद्वयेनानूद्यते । न्यायाद् एव हि काम्यानां विगुणानाम् अप्रवृत्तिः सिद्धा । एवं च न नित्यानाम् अयं प्रतिषेधः । नित्यत्वाद् एव । विगुणान्य् अपि नित्यानि फलाय चेति मीमांसकाः । इदम् अपरम् अग्निहोत्रप्रकरणाभिसंबन्धेनोच्यते ॥ ११.३९ ॥

अग्निहोत्र्य् अपविध्याग्नीन् ब्राह्मणः कामकारतः ।
चान्द्रायणं चरेन् मासं वीरहत्यासमं हि तत् ॥ ११.४० ॥

भारुचिः ...{Loading}...

प्रायश्चित्तम् इदं कामकारेणाग्निहोत्रपरित्यागे ब्राह्मणस्य विधीयते चान्द्रायणम् । अकामतस् तु सामान्यप्रायश्चित्तम् इदम् । इदं चाप्रकरणे ऽपि प्रायश्चित्तविधानं विग्णानाम् अपि नित्यानां कर्मणाम् अनुष्ठानस्तुत्यर्थम् ॥ ११ ४० ॥

ये शुद्राद् अधिगम्यार्थम् अग्निहोत्रम् उपासते ।
ऋत्विजस् ते भवन्त्य् अस्य ब्रह्मवादिषु गर्हिताः ॥ ११.४१ ॥

भारुचिः ...{Loading}...

शूद्राद् अधिगतेनार्थेनाग्न्याधेयं न कर्तव्यम् । एवम् अग्न्याधेयं न कर्तव्यम् इत्य् अग्न्याधेयप्रतिषेधः । न तु प्रवृत्तकर्मणो नित्यानुष्ठानार्थः । तथा चोक्तम्, “न शूद्राद् भिक्षित्वा यज्ञानुष्ठानं कर्तव्यम्” इति । अयाचितलाभे तु नास्ति दोषः । तथाचासत्प्रतिग्रहाद् आत्मतृप्तिर् एका प्रतिषिद्धा । नित्यानि त्व् अभ्यनुज्ञातानि । यतः शूद्रधनेन प्रार्थितलब्धेन वाविशेषाभिधानसामर्थ्याद् अग्न्याधेयस्यैकस्य प्रतिषेधो ऽयं विज्ञेयः । यदि सर्वकर्मार्थो ऽयं प्रतिषेधः स्याद्, अनेनैव सिद्धत्वान् न शूद्राद् भिक्षणं प्रतिषिद्धं स्यान् “न यज्ञार्थं धनं शुद्रात्” इत्य् एवमादिना वाक्येन । अग्नीनां च वृषलाग्नित्वापवादाद् अग्न्याधेयप्रतिषेधो ऽयं गम्यते । तथा च दर्सयति ॥ ११.४१ ॥

तेषां सततम् अज्ञानां वृषलाग्न्य् उपसेविनाम् ।
पदा मस्तकम् आक्रम्य दाता दुर्गाणि संतरेत् ॥ ११.४२ ॥

भारुचिः ...{Loading}...

परिसमाप्त एतस्मिन्न् अखिलप्रकरणे तत्रैव स्थितम् “अतः प्रवक्ष्यामि प्रायश्चित्तविधिं शुभम्” इति । यतः प्रायश्चित्ताभिधित्सया सामान्यतस् तन्निमित्तान्य् एव तावद् आदाव् उच्यन्ते ॥ ११.४२ ॥

अकुर्वन् विहितं कर्म निन्दितं च समाचरन् ।
प्रसक्तश् चेन्द्रियार्थेषु प्रायश्चित्तीयते नरः ॥ ११.४३ ॥

भारुचिः ...{Loading}...

श्रौतस्मार्तम् इज्याध्ययनादि विहितम्; निन्दितं च प्रतिषिद्धं समाचरन् हिंसानृतस्तेयादि, प्रसक्तश् चेन्द्रियार्थेष्व् अभिप्रेतपुरुषार्थसाधनेषु शब्दादिषु, प्रायश्चित्तीयते नरःनरग्रहणाद् वा सर्ववर्णधर्मो ऽयं गम्यते । ननु चेन्द्रियार्थप्रसङ्गस्य निन्दितग्रहणेनैव गृहीतत्वात् पुनरारंभो न न्याज्ज्य इति । अस्य परिहारः । येष्व् अस्याः प्रतिषेध इन्द्रियार्थेषु यथा मांसाशने ऽन्यायतः क्षत्रियादिस्त्रीपरिग्रहादौ च, तेष्व् अपि प्रकर्षे[ण] सक्तिप्रतिषेधार्थम् अस्य पृथग्ग्रहणं युक्तम् । कथम्, असौ प्रायश्चित्तीयते इति । यत इदम् उच्यते ॥ ११.४३ ॥

अकामतः कृते पापे प्रायश्चित्तं विदुर् बुधाः ।
कामकारकृते ऽप्य् आहुर् एके श्रुतिनिदर्शनात् ॥ ११.४४ ॥

भारुचिः ...{Loading}...

अकामतः कृते पापे पापार्थे तु व्यतिक्रमे यथोक्ते प्रायश्चित्तं वक्ष्यमाणं विदुर् बुधाः । कस्य पुनर् हेतोः । येन स्मृतिप्रामाण्येन हि प्रायश्चित्तोपदेशो युज्यते, न कामतो ऽप्य् अत्रिक्रमे (?) । यो हि नियमं स्मृतिप्रामाण्यम् उल्लङ्घ्य प्रवर्तते, तं प्रति प्रायश्चित्तोपदेशो ऽनर्थकः । येन तद् अव्यवसायतः लङ्घयिष्यति । यतः किं तस्यैतेनोपदिष्टेनेति प्रायश्चित्तोपदेशो ऽनर्थः । एवम् एतस्मिन्न् एव प्रायश्चित्ताधिकरणे प्राप्त इदम् अन्यद् द्वितीयं प्रायश्चित्ताधिकरणम् उच्यते कामकारकृते ऽप्य् आहुर् एके श्रुतिनिदर्शनात् । एवं हि श्रूयते “इन्द्रो यतीन् सालावृकेभ्यः प्रायच्छत् । तम् [अश्ली]ला वाग् अभ्यवदत् । स प्रजापतिम् उपाधावत् । तस्माद् एतम् उपहव्यं प्रायच्छत्” इत्य् एतद् उपहव्यार्थवादब्राह्मणं दर्शयति — कामतो ऽप्य् अस्ति प्रायश्चित्तम् इति । अविशेषेण निमित्तमात्रे स्मर्यमाणं प्रायश्चित्तम् अकामकृत एवेत्य् उक्तम् । तथा चाहुर् वेदलोकयोर् उभयथाभिव्यतिक्रमे प्रायश्चित्तं दृष्टम्, यतस् तेन चेदम् अनुमातव्यम् इति । तथा च संदर्शयति पक्षद्वयम् अप्य् आश्रित्य ॥ ११.४४ ॥

अकामतः कृतं पापं वेदाभ्यासेन शुध्यति ।
कामतस् तु कृतं मोहात् प्रायश्चित्तैः पृथग्विधैः ॥ ११.४५ ॥

भारुचिः ...{Loading}...

तथा चोत्तरत्र प्रदर्शयिष्यामो विशेषम् अनयोः"कामतो ब्राह्मणवधे निष्कृतिर् न विधीयते" इति । एवमादौ चायं नियमार्थः श्लोकः । अकामतो वेदाभ्यासः, कामतः कृतस्यान्यद् विविधं प्रायश्चित्तम् इति । यस्माद् उभयम् उभयोर् उत्तरत्र वक्ष्यति । इयांस् त्व् अनयोर् विशेषः । अकामतो व्यतिक्रमे ऽल्पः प्रत्य्क़्वायः, कामतो महान् । तथा चोक्तं कामतस् तु कृतं मोहात् प्रायश्चित्तैः पृथग्विधैर् इति । अपरः पुनर् आह- नैव प्रायश्चित्तानुष्ठानम् उपपद्यते । यस्मान् न हि कर्म क्षीयते ऽन्तरेण कार्यारंभम् । वातपित्तश्लेष्माशयवत् । यत इदम् उच्यते । कर्तव्यम् एवेदम् स्मृतिशास्त्रोपदेससामर्थ्यात् । यथैव हि धर्माधर्मप्राप्तिपरिहारव्यवस्थायाम् आगम एव प्रमाणं नोपपत्तिः, एवं विनाशो ऽप्यागमत एव कर्मणः किं न श्रद्धीयते । तथा च सति प्रायश्चित्तं न्यायोपदेशम् । इतरथाप्यर्धवैशसं स्याद् इति । एवं च पुरुषार्थकारित्वं शास्त्रस्योपपद्यते, लघूपायक्षिप्रदर्शनेन महतो ऽर्थलक्षणात् क्षयात् प्रायश्चित्तात् । अपि चास्यात्मसंयमदुःखम् अतिमहद् अस्ति । यतः अत्रापि कार्याद् एवास्य व्यतिक्रमाधर्मस्य दुःखलक्षणाद् विनाशं प्रतिपद्यामहे । यथा च वाताद्याशयस्योभयम् अत्यनीकं औषधं दुःखं च, एवम् अधर्मस्यापि प्रायश्चित्तं नरकादिदुःखानुभवश् च स्याद् विनाशहेतुः । एतेन वृश्चिकविषं व्याख्यातम्, श्रुतिर् अपि च प्रायश्चित्ताद् अकुशलकर्माणि यथा गेहदाहादीनि निमित्तानि नैमित्तिकानां कर्मणां स्वर्गफलानाम् इति, यथा क्षामवतीष्टिः । अत्र ब्रूमः प्रतिषेधवत्सु निमित्तेषु प्रायश्चित्तान्य् उच्यन्ते, यतस् तानि दोषनिर्हरणार्थान्य् एव प्रतीयन्ते । यथा चिक्तिसायां दोषवत्सु निमित्तेषु ज्वरादिषु विशोषणादीनि (?) । स्फुटम् एव च स्मृतिर् उपरिष्टाद् वक्ष्यति — “चरितव्यम् अतो नित्यं प्रायश्चित्तं विशुद्धये” इत्य् एवमादि । अपरे त्व् अधिकारार्थानि । तथा च गौतमः “द्विजातिकर्मभ्यः हानिः पतनम्” इत्य् आह । ब्रह्महत्यायाम् एवैतत् । पातकपदार्थावधारणार्थे वाक्ये श्रूयते, न त्व् अन्यस्मिन् व्यतिक्रमवाक्ये । दोषक्षयाद् एव च कर्मान्तराधिकारो विज्ञेयः, नाक्षीनदोषस्य । यथातुरस्येति । यच् च निमित्ते कर्माङ्गं प्रायश्चित्तम् इति कैश्चिद् उच्यते, तच् च पुरुषधर्मत्वाद् अत्र न संभवति । प्रायश्चित्तस्य व्यतिक्रमस्य कारणम् अधुनोच्यते ॥ ११.४५ ॥

प्रायश्चित्तीयतां प्राप्य दैवात् पूर्वकृतेन वा ।
न संसर्गं व्रजेत् सद्भिः प्रायश्चित्ते ऽकृते द्विजः ॥ ११.४६ ॥

भारुचिः ...{Loading}...

दैवशब्दः साधारणो ऽप्य् अधर्मविषयस् सामर्थ्याद् विज्ञेयः । कस्मात् । व्यतिक्रमकारणानुरूपत्वात् कार्यस्य । पूर्वकृतेन वेत्य् अत्र मोहः संबध्यते, व्यतिक्रमहेतुत्वेन । नाधर्मः, तस्योक्तत्वाद्, दृष्टश् च मूढस्य व्यतिक्रमो येन लोके । अतो ऽयम् अत्र शब्दार्थः । अधर्मप्रतिपत्तिश् च पूर्वकृताधर्मशेषात् कस्यचिद् भवति, अपरस्य मोहाद् इति ब्रुवता कुशलकर्मप्रतिपत्तिः पूर्वधर्मशेषाद् असंमोहाच् च सम्यग्ज्ञानलक्षणाद् भवतीत्य् एतद् अर्थसिद्धम् । यतः असंमुग्धेन सता धर्मानुष्ठाने प्रयतितव्यम्; नैवं धर्माधर्माख्यं पुरुषस्य प्रयोजकम् इति कृत्वा निरोहेन (?) भवितव्यम् । एवं शास्त्रोपदेशस्यार्थवत्त्वम्, इतरथा ह्य् असति पुरुषकारे शास्त्रोपदेशो निष्फलः स्यात्, धर्माधर्मकार्यत्वाद् एव पुरुषप्रवृत्तेर् इति । ननु च सताम् एवासत्संसर्गप्रतिषेधाद् एतत् सिद्धं न सिद्ध्यति, क्रियाभेदात् । पाक कृद्भिर् इह संसर्गप्रतिषेधान् न पापकृतां सद्भिः संसर्गः प्रतिषिद्धो भवति, येन भिन्ने एते क्रिये । एवं च सति यस्य नियम उच्यते तस्यैव व्यतिक्रमे प्रायश्चित्तं स्यात्, इहेतरनियमभावात् । अतो ऽस्य प्रतिषेधो युक्तारंभः शूद्रस्य द्विजातिस्त्रीप्रतिषेधवद् इति । अपरस् तु पाठः- “प्रायश्चित्तियतां प्राप्य मोहात् पूर्वकृतेन यै (?)”, अर्थस् तु स एव । प्रायश्चित्तानुष्ठानसामर्थ्यप्रदर्शनार्थम् अधुनोच्यते ॥ ११.४६ ॥

इह दुश्चरितैः केचित् केचित् पूर्वकृतैस् तथा ।
प्राप्नुवन्ति दुरात्मानो नरा रूपविपर्ययम् ॥ ११.४७ ॥

भारुचिः ...{Loading}...

एवं च œऊर्वकृताद् एव कर्मणो ऽभ्युदयप्रत्यव्याव् इति यत् सांख्यैर् उच्यते तद् अवसन्नम् । सो ऽयम् अधुनाकुशलकर्मनिमित्तो रूपविपर्ययप्रपञ्चो ऽनुक्रम्यते प्रायश्चित्तानुष्ठानशेषतया ॥ ११.४७ ॥

सुवर्णचोरः कौनख्यं सुरापः श्यावदन्तताम् ।
ब्रह्महा क्षयरोगित्वं दौश्चर्म्यं गुरुतल्पगः ॥ ११.४८ ॥
पिशुनः पौतिनासिक्यं सूचकः पूतिवक्त्रताम् ।
दान्यचोरो ऽङ्गहीनत्वम् आतिरैक्यं तु मिश्रकः ॥ ११.४९ ॥
अन्नहर्तामयावित्वं मौक्यं वागपहारकः ।
वस्त्रापहारकः श्वैत्यं पङ्गुताम् अश्वहारकः ॥ ११.५० ॥
एवं कर्मावशेषेण जायन्ते सद्विगर्हिताः ।
जडमूकान्धबधिरा विकृताकृतयस् तथा ॥ ११.५१ ॥

भारुचिः ...{Loading}...

यतश् चैतद् एवम् अकृतप्रायस्चित्तान्[आं] नानारूपवैकृत्यम् अनुभूतयातनास्थानदुःखानाम् अपि सतां कर्मावशेषेण भवति ॥ ११.५१ ॥

चरितव्यम् अतो नित्यं प्रायश्चित्तं विशुद्धये ।
निन्द्यैर् हि लक्षणैर् युक्ता जायन्ते ऽनिष्कृतैनसः ॥ ११.५२ ॥

भारुचिः ...{Loading}...

> चरितव्यम् अतो नित्यं प्रायश्चित्तं विशुद्धये ।

नाधिकारार्थम् अन्यार्थं वेत्य् उक्तम्, येन,

> निन्द्यैर् हि लक्षणैर् युक्ता जायन्ते ऽनिष्कृतैनसः ॥ ११.५२ ॥

एवं च सतीयं पापकृद्वरणना षड्भिः श्लोकैः प्रायश्चित्तानुष्ठानप्रशंसार्था विज्ञेयेति । अधुना त्व् अभिहितकारणानि प्रायश्चित्तान्य् उच्यन्ते ॥ ११.५२ ॥

ब्रह्महत्या सुरापानं स्तेयं गुर्वङ्गनागमः ।
महान्ति पातकान्य् आहुः संयोगं चैव तैः सह ॥ ११.५३ ॥

भारुचिः ...{Loading}...

महपातकनिर्देशः संव्यवहारार्थः । महत्त्वशब्दश् च गुरुत्वसंविज्ञानर्थः सर्वपापेभ्य एतानि गुरूणि । एवं च सति व्यतिक्रममात्रं पातकम् । पातयतीति पातकम् इत्य् अस्मात् । एतानि पुनर् महान्ति पातकानि महान्ति सन्त्य् एतस्मात् परिहारे लग्नवान् भविष्यतीति पतितसंप्रयोगे च वक्ष्यति “संवत्सरेण पतति” इति । सुरापानं च [ब्राह्मणस्य] । यस्य यत् प्रतिषेद्धं तस्य तत् पातकम् । अन्यत् तु ब्रह्महत्यादि वर्ववर्णानां विज्ञेयम्, तत्प्रतिषेधात् । स्तेयं ब्राह्मणसुवर्णापहरणाख्यं पातकम्, नान्यत् । तथा च स्मृत्यन्तरम्, “ब्राह्मणसुवर्णापहरणे महापातकम्” इत्य् आपस्तम्बः ॥ ११.५३ ॥

अनृतं च समुत्कर्षे राजगामिच पैशुनम् ।
गुरोश् चाऌईकनिर्बन्धस् समानि ब्रह्महत्यया ॥ ११.५४ ॥

भारुचिः ...{Loading}...

प्रत्येकम्, न समस्तानि एवम् उत्तरत्रापीति । अनृतं जातिसमुत्कर्षे, यद् अब्राह्मणः सन् “ब्राह्मणोऽस्मि” इति ब्रवीति ब्राह्मणप्रयोजनेषु । एवं क्षत्रियवैश्यजाताव् अपि योज्यम् । कर्मोत्कर्षे वा यद् अनृतं “अनेन क्रतुनेष्टं मया” इति । एवं अध्ययनतपःप्रभृतिष्व् अपीति । समुत्कर्षकरणे कन्यलाभदौ यद् अनृतं तद्दूषणार्थं दातृसंनिधौ कौटसाक्ष्यम्, येन तद् उत्तरश्लोके वक्ष्यति । सुरापानसमं राजगामिपैशुनं (?) हेऌअकत्वं प्रसिद्धम् । गुरोर् अऌईकनिर्बन्धः । अऌईकस् चित्तसंक्षोभः । अऌईकर्थो निर्बन्धः स गुरोर् अभ्युपेत्य द्वेषादिभिः पौनः पुन्येन क्रियमाणो ऽऌईकनिर्बन्धः । ब्रह्महत्यासमः । गुरोर् अनृताबिशंसनं वाऌईकनिर्बन्धः । तथा च गौतमः- “गुरोर् अनृताबिशंसनम्” इति । पातकसमानीति ॥ ११.५४ ॥

ब्रह्मोज्झता वेदनिन्दा कौटसाक्ष्यं सुहृद्वधः ।
गर्हितान्नाज्ययोर् जग्धिः सुरापानसमानि षट् ॥ ११.५५ ॥
निक्षेपस्यपहरणं नराश्वरजतस्य च ।
भूमिवज्रमणीनां च रुक्मस्तेयसमं स्मृतम् ॥ ११.५६ ॥
रेतःसेकः स्वयोन्यासु कुमारीष्व् अन्यजासु च ।
सख्युः पुत्रस्य च स्त्रीषु गुरुतल्पसमं विदुः ॥ ११.५७ ॥

भारुचिः ...{Loading}...

महापातकसमानां चतुर्भिः श्लोकैर् निर्देशो गुरुत्वज्ञापनार्थः । सामान्यविहितस्यात्र गुरोः प्रायश्चित्तस्य कारणं यथा स्याद् इति । स्मृत्यन्तरे चोक्तम्- “एनसु(?) गुरुषु गुरूणि लघुषु लघूनि” इति । ननु यत् येन समानम् उच्यते तदीयं तस्य प्रायश्चित्तं युक्तम् । अत्रोच्यते । न युक्तं यदि ह्य् एतत् प्रायश्चित्तविधानर्थम् अभविष्यत्, यथाह भववान्, ततः प्रायश्चित्तातिदेसप्रकरण एवावक्ष्यत् । कौटसाक्ष्यसुहृद्वधयोश् चेह सुरापानसमीकृतयोः ब्रह्महत्यप्रायस्चित्तातिदेशम् उपरिष्टान् न कुर्यात् । गुरोश् चाऌईकनिर्बन्ध इत्य् एतस्य चेह ब्रह्महत्यासमीकृतस्य पुनर् उपर्तिष्टाद् (?) ब्रह्महत्याप्रयस्चित्तविधानात् । तथा कुमार्यादिरेतस्सेकस्य गुरुतल्पसमीक्ष्तस्येह पुनस् तत्र गुरुतल्पप्रायस्चित्तविधानाद् गम्यते नेदं प्रायस्चित्तार्थं समीकरणम् इति । अपरे तु मन्यन्ते — भेदेन समीकरणाद् यद् येन समीक्रियते तदीयं तस्य प्रायस्चित्तम् अनुमीयते । गुरुत्व हि केवले निदिदिक्षिते, महापातकसमत्वम् एव प्रतिनिर्दिशेत् सामान्येन । सुरापानसमीकृतयोश् च कौटसाक्ष्यसुहृद्वधयोर् ब्रह्महत्यातिदेशो विकल्पर्थः । गुरोस् च प्रतिरम्भो ऽलीकाद् अर्थान्तरम् एव । प्रायस्चित्तकरणे चास्यानध्ययनात् सामान्यविहितम् अप्य् एषु प्रायस्चित्तम् अनुमीयते । यस्य तु प्रायश्चित्तातिदेश एव श्रूयते न समीकरणम्; तत्र विकल्प् नास्ति । यथा “हत्वा गर्भम् अविज्ञातम्” इति । तस्मान् महापातकसमेषु तदीयं प्रायश्चित्तं सामन्यविहितं (?) वेति मन्यामहे । महापातकानि तत्समानि चोक्त्वोपपातकार्थम् अधुनेदम् आह ॥ ११.५७ ॥

गोवधो ऽयाज्यसंयाज्य पारदार्यात्मविक्रयाः ।
गुरुमातृपितृत्यागः स्वाध्यायाग्नेः सुतस्य च ॥ ११.५८ ॥
परिवित्तिता चानुजेन परिवेदनम् एव च ।
तयोर् दानं च कन्यायास् तयोर् एव च याजनम् ॥ ११.५९ ॥
कन्याया दूषणं चैव वार्धुषित्वं व्रताच् च्युतिः ।
तटाकारामदाराणाम् अपत्यस्य च विक्रयः ॥ ११.६० ॥
व्रात्यता बान्धवत्यागो भृत्याध्यापनम् एव च ।
भृताच् चाध्ययनादानम् अपण्यानां च विक्रयः ॥ ११.६१ ॥
सव्राकरेष्व् अधीकारो महायन्त्रप्रवर्तनम् ।
हिंस्रौषधि स्त्रियाजीवो ऽभिचारो मूलकर्म च ॥ ११.६२ ॥
इन्धनार्थम् अशुष्काणाम् द्रुमाणाम् अवपातनम् ।
आत्मार्थं च क्रियारम्भो निन्दितान्नादनं तथा ॥ ११.६३ ॥
अनाहिताग्निता स्त्रैण्यम् ऋणानां चानपक्रिया ।
असच्छास्त्राधिगमनं कौटिल्यं व्यसनक्रिया ॥ ११.६४ ॥
धान्यरूप्यपशुस्तेयं मद्यपस्त्रीनिषेवणम् ।
स्त्रीशूद्रविट्क्षत्रवधो नास्तिक्यं चोपपातकम् ॥ ११.६५ ॥

भारुचिः ...{Loading}...

उपपातकनिर्देशो ऽयम् अष्टाभिः श्लोकैः । अस्मिंश् च गोवधादौ कानिचित् स्नातकव्रतोपदिष्टानि परदाराभिगमनादीनि, कानिचिन् मासश्राद्धप्रकरणोक्तानि परिवेदनादीनि, कानिचिद् इहैवोक्तानि तटाकारामदारापत्यविक्रयादीनि तद्विपरीतानां त्रिविधानाम् अपि कर्मणाम् उपपातकार्थो ऽत्र निर्देशः । अस्य प्रयोजनम् उपपातकप्रायश्चित्तम्, यथा तेषु सामान्यं स्याद्, विशिष्टं च यथोपदेशं वक्ष्यति, “उपपातकसंयुक्तो गोघ्नो मासं यवान् पिबेत्” इत्य् एवमादि । स्नातकव्रतलोपे चाभोजनं प्रायश्चित्तम् आम्नातम्, तथा सासिकार्थप्रकरणोक्तानाम् अपाङ्क्त्यानां विशोधनम् इति । यानि त्व् अस्मिन्न् एव गोवधादौ गृहीतानि पुनः प्रायश्चित्तार्थं गृह्यन्ते, तेषाम् उभयत्राम्नानसामर्थ्याद्, विकल्पेनोभे अपि प्रायश्चित्ते स्याताम् । एतेन सर्वत्र पुनराम्नानं व्याख्यातम् । यानि चेह तटाकविक्रयादीनि प्रायश्चित्तविधानकार्याणि विज्ञायन्ते ऽनुमानतः । तेषां नियमोपदेशाभावाद् वर्जने ऽभ्युदयो नास्ति, अतिक्रमे तु प्रायश्चित्तम् अस्ति । येषां तु वर्णनोपदेशे प्रायश्चित्तविधानं च, यथा “न नग्नः स्नानम् आचरेत्” इति प्रतिषेधः, “स्नात्वा च विप्रो दिग्वासा” इत्य् एवमादि प्रायश्चित्तम् । तेषां वर्जने ऽभ्युदयो ऽतिक्रमे च प्रायश्चित्तम् । अथ तु प्रायश्चित्तविधानाद् एव प्रतिषेधो ऽनुमीयते । एवं च सत्य् उभयोर् अविशेषः ॥ ११.५८–६५ ॥

ब्राह्मणस्य रुजः कृत्वा घ्नातिर् अघ्नेयमद्ययोः ।
जैह्म्यं च मैथुनं पुंसि जातिभ्रंशकरं स्मृतम् ॥ ११.६६ ॥
खरोष्ट्राश्वमृगेभानाम् अजाविकवधस् तथा ।
संकीर्णकरणं ज्ञेयं मीनाहिमहिषस्य च ॥ ११.६७ ॥
निन्दितेभ्यो धनादानं वाणिज्यं शूद्रसेवनम् ।
अपात्रीकरणं ज्ञेयम् असभ्यस्य च भाषणम् ॥ ११.६८ ॥
कृमिकीटवयोहत्या मद्यानुगतभोजनम् ।
फलैधःकुसुमस्तेयम् अधैर्यं च मलावहम् ॥ ११.६९ ॥

भारुचिः ...{Loading}...

जातिभ्रंशकरसंकरीकरणापात्रीकरणमलिनीकरणानां वर्गशस् संज्ञानिर्देशश् चतुर्भिः श्लोकैः । अस्य प्रयोजनम् । वर्गश एव प्रायश्चित्तोपदेशो यथा स्यात् । वक्ष्यति हि “जातिभ्रंशकरं कर्म कृत्वा” इत्य् एवमादि ॥ ११.६६–६९ ॥

एतान्य् एनांसि सर्वाणि यथोक्तानि पृथक् पृथक् ।
यैर् यैर् व्रतैर् अपोह्यन्ते तानि सम्यङ् निबोधत ॥ ११.७० ॥

भारुचिः ...{Loading}...

वक्ष्यमाणप्रायश्चित्तोपन्यासार्थः श्लोकः ॥ ११.७० ॥

ब्रह्महा द्वादशाब्दानि कुटींकृत्वा वने वसेत् ।
भैक्षं चात्मनिवृत्त्यर्थं कृत्वा शवशिरोध्वजम् ॥ ११.७१ ॥

भारुचिः ...{Loading}...

अस्योपरिष्टाद् अत्रैव [प्र]करणे गुणविधिं वक्ष्यति- “कृतवापनो निवसेद् ग्रामान्ते गोव्रजे ऽपि वा” इत्य् एवमादि । कृत्वा शवशिरोध्वजम् इत्य् अत्र मुख्यं गृह्यते, गुणवृत्तेः कारणाभावात् । अवकीर्णप्रायश्चित्तगर्दभाजिनवत् शवशिरो मुख्यम् एव स्यात् । सुरापानप्रायस्चित्तवद् विचित्रा शास्त्रगतिः । न च वचनस्यातिभारो ऽस्ति । न चात्र न्यायगतिस् साध्वी शास्त्रलक्षणत्वाद् धर्माधर्मयोः ॥ ११.७१ ॥

लक्ष्यं शस्त्रभृतां वा स्याद् विदुषाम् इच्छयात्महः ।
प्रास्येद् आत्मानम् अग्नौ वा समिद्धे त्रिर् अवाक्शिराः ॥ ११.७२ ॥

भारुचिः ...{Loading}...

> लक्ष्यं शस्त्रभृतां वा स्याद् विदुषाम् इच्छयात्महः ।

द्वितीयम् इदं वैकल्पिकं प्रायश्चित्तं पूर्वस्मात् । विदुषां प्रायश्चित्तीयो ऽयम् इत्य् एवम् जानताम्। इष्वस्त्रज्ञानां वा, चतुष्पादं धनुर्वेदम् अधीयानानाम् ।

> प्रास्येद् आत्मानम् अग्नौ वा समिद्धे त्रिर् अवाक्शिराः ॥ ११.७२ ॥

एतच् च केचिद् इच्छायाम् अशबलम् आहुस् तृतीयम् ॥ ११.७२ ॥

यजेत वाश्वमेधेन स्वर्जिता गोसवेन वा ।
अभिजिद्विश्वजिद्भ्यां वा त्रिवृत्ताग्निष्टुतापि वा ॥ ११.७३ ॥
जपन् वान्यतमं वेदं योजनानां शतं व्रजेत् ।
ब्रह्महत्यापनोदाय मितभुङ् नियतेन्द्रियः ॥ ११.७४ ॥
सर्वस्वं वा वेदविदे ब्राह्मणायोपपादयेत् ।
धनं वा जीवनायालं गृहं वा सपरिच्छदम् ॥ ११.७५ ॥
हविष्यभुग् वानुसरेत् प्रतिस्रोतः सरस्वतीम् ।
जपेद् वा नियताहरस् त्रिर् वै वेदस्य संहिताम् ॥ ११.७६ ॥

भारुचिः ...{Loading}...

> यजेत वाश्वमेधेन स्वर्जिता गोसवेन वा ।
> अभिजिद्विश्वजिद्भ्यां वा त्रिवृत्ताग्निष्टुतापि वा ॥ ११.७३ ॥
> जपन् वान्यतमं वेदं योजनानां शतं व्रजेत् ।
> ब्रह्महत्यापनोदाय मितभुङ् नियतेन्द्रियः ॥ ११.७४ ॥
> सर्वस्वं वा वेदविदे ब्राह्मणायोपपादयेत् ।

अथ वा,

> धनं वा जीवनायालं गृहं वा सपरिच्छदम् ॥ ११.७५ ॥
> हविष्यभुग् वानुसरेत् प्रतिस्रोतः सरस्वतीम् ।
> जपेद् वा नियताहरस् त्रिर् वै वेदस्य संहिताम् ॥ ११.७६ ॥

त्रयोदश ब्रह्महत्याप्रयश्चित्तानि सामर्थ्याद् यथाधिकारं चतुर्णाम् अपि वर्णानां विकल्पतो विज्ञेयानि । येन साक्षाद् अत्र विकल्पः श्रूयते वाशब्दास्रयः । असामर्थ्याद् अप्य् अयं समुच्चयासंभवे विकल्पः । स्वकाभिप्रायणस्य श्रुतिप्रतिषिद्धस्यापि प्रयस्चित्ताद् अन्यत्र सामर्थ्यम् । इदानीं द्वादसवार्षिअप्रायस्चित्तस्य गुणविध्यर्थम् आरभ्यते ॥ ११.७५–७६ ॥

कृतवापनो निवसेद् ग्रामान्ते गोव्रजे ऽपि वा ।
आश्रमे वृक्षमूले वा गोब्राह्मणहिते रतः ॥ ११.७७ ॥

भारुचिः ...{Loading}...

“ब्रह्महा द्वादशाब्दानि कुटिं कृत्वा वने वसेत्” इत्य् एव[मादिना] यद् उक्तं तस्य वैकल्पिकाः केचिद् अत्रोपदिश्यन्ते धर्माः केचिद् अपूर्वा एव । गोब्राह्मणहिते रत अस्य चानन्तरोक्तस्य गुणविधिर् अर्थवादः ॥ ११.७७ ॥

ब्राह्मणार्थे गवार्थे वा सद्यः प्राणान् परित्यजन् ।
मुच्यते ब्रह्महत्याया गोप्ता गोब्राह्मणस्य च ॥ ११.७८ ॥

भारुचिः ...{Loading}...

विनाशवत् स्थित्यर्थः । एतच् च प्रक्रान्तद्वादसवार्षिकप्रायश्चित्तस्योपदिश्यते । तथा च गोब्राह्मणपरित्राय्यासमाप्तकालो ऽपि मरणाच् छुध्यति । एवं परित्राय्यामृतो ऽपि शुध्यतीत्यर्थः । एवं च नेदं प्रायश्चित्तान्तरम्, किं तर्ह्य् अस्यैव गुणविधिः । यदि ह्य् एतत् प्रायश्चित्तान्तरं स्यात्, तेन वैकल्पिकत्वाद् एतेषां प्रक्रान्तद्वादसवार्षिकप्रायस्चित्तो ऽनेन नाधिक्रियते । येन वैकल्पिकेष्व् एकस्मिन् प्रायश्चित्ते ऽधिकृतो न प्रायश्चित्तान्तरेणाधिक्रियते, वैकल्पिकत्वाद् एव । इतरथा हि समुच्चयः स्यात् । एवं च विकल्पे ऽस्य साक्षाच् छ्रवणम् उपरुध्यते । न चायं न्याय्यः । श्रुतार्थहानिर् अश्रुतकल्पना च । तस्माद् यथोक्त एवार्थः ॥ ११.७८ ॥

त्र्यवरं प्रतिरोद्धा वा सर्वस्वम् अवजित्य वा ।
विप्रस्य तन्निमित्ते वा प्राणालाभे विमुच्यते ॥ ११.७९ ॥

भारुचिः ...{Loading}...

> त्र्यवरं प्रतिरोद्धा वा

ब्राह्मणद्रव्यापहरणे तत्प्रतिमोचनाय । अमोचने न मुच्यत इत्य् अर्थः । निरुपविधं प्रवर्तमानः ।

> सर्वस्वम् अवजित्य वा ।

अप्रतिरोद्धापि त्र्यवरं प्रथम एव ब्राह्मणस्वापहरणप्रतिमोचनार्थे प्रयोगे ।

> विप्रस्य तन्निमित्ते वा प्राणालाभे विमुच्यते ॥ ११.७९ ॥

इत्य् एतद् उक्तार्थम् । अस्येदानीम् उपसंहारो, यथायोगं प्रायश्चित्तम् अनुषक्तव्यः ॥ ११.७९ ॥

[एवं दृढव्रतो नित्यं ब्रह्मचारी समाहितः ।
समाप्ते द्वादशे वर्षे ब्रह्महत्याम् व्यपोहति] ॥ ११.८०
शिष्ट्वा वा भूमिदेवानां नरदेवसमागमे ।
स्वम् एनो ऽवभृथस्नातो हयमेधे विमुच्यते ॥ ११.८१ ॥

भारुचिः ...{Loading}...

अश्वमेधावभृथस्य पृथङ्निर्देशो ऽनारब्धान्यप्रायश्चित्तज्ञापनार्थः । इतरथा ह्य् अश्वमेधावभृथस्याम्नातत्वाद् आरब्धे द्वादसवार्षिके प्रायश्चित्ते तन्मध्ये ऽवभृथस्नातः शुध्येत। एतस्मात् तु पृथङ्निर्देशाद् [अन्]आरब्धान्यप्रायश्चित्तस्यैवेदम् अश्वमेधावभृथप्रायश्चित्तं स्वतन्त्रं युक्तम् । न चैतद्वैकल्पिकानाम् एतस्मात् स्वरूपत इतरेषां तत्कर्तारं प्रत्य् उपदेसः, येनाङ्गीकृतम् अन्यद् वैकल्पिकम् । कश्चिद् एवम् आह- तद् अयुक्तम्, येन नाश्वमेधवभृथस्नानं स्वतन्त्रम्, अनुपदेशाद् वैकल्पिकप्रायश्चित्तमध्ये । यतः प्रकरणात् कृते ऽप्य् उपसंहारे प्रक्रान्तद्वादशवार्षिकप्रायश्चित्तस्यायं गुणविधिः । अथेदं द्वादशवार्षिकं कृतोपसंहारम् इति व्यपेक्षा । तथापि सर्वेषां वैकल्पिकानां यथासंभवम् इदम् अश्वमेधावभृतस्नानं गुणतः शुद्धिहेतुत्वान् निवृत्तये । अस्यार्थवादो ऽनुष्ठानस्तुत्यर्थः ॥ ११.८०–८१ ॥

धर्मस्य ब्राह्मणो मूलम् अग्रं राजन्य उच्यते ।
तस्मात् समागमे तेषाम् एनो विख्याप्य शुध्यति ॥ ११.८२ ॥

भारुचिः ...{Loading}...

“शिष्ट्वा वा भूमिदेवानां नरदेवसमागमे” यजमानर्त्विजां “स्वम् एनो ऽवभृथस्नातो हयमेधे विमुच्यते” इत्य् अस्य विधेर् अर्थवादः ॥ ११.८२ ॥

ब्राह्मणः संभवेनैव देवानाम् अपि दैवतम् ।
प्रमाणं चैव लोकस्य ब्रह्मात्रैव हि कारणम् ॥ ११.८३ ॥

भारुचिः ...{Loading}...

उपदिष्टस्यानन्तरविधेः स्तुत्यर्थम् इदम् उक्तम् ॥ ११.८३ ॥

तेषां वेदविदो ब्रूयुस् त्रयो ऽप्य् एनः सुनिष्कृतिम् ।
सा तेषां पावनाय स्यात् पवित्रा विदुषां हि वाक् ॥ ११.८४ ॥

भारुचिः ...{Loading}...

वक्ष्यति हि, “दशापरा वा परिषद् यं धर्मं परिकल्पयेत्” इत्य् एवमादि । एवं च सति प्रायश्चित्तपरिषद्ब्राह्मणोपआसनात् तैर् अभ्यनुज्ञातं प्रायश्चित्तं कुर्यात्, जानानो ऽपि प्रतिव्यतिक्रमं प्रायश्चित्तम् इति केचित् । तद् अयुक्तम् । एवं हि रहस्य् अस्य प्रायश्चित्तानुपदेशः प्रस्ज्येत । येन “रहस्ये रहस्यं प्रकाशे प्रकाशम्” इतीयम् स्मृतिः । क्व तर्हीदं यस्यर्थलाभो वुज्ञानालाभः । अथ वानुक्तप्रायश्चित्तविषयम् एतद् विज्ञेयम् । तथा च वक्ष्यति “अनुक्तनिष्कृतीनां तु पापानाम् अपनुत्तये, शक्तिं चावेक्ष्य पापं च प्रायश्चित्तं विकल्पयेत्” इति । अथ वा पात्रविशेषात् अर्थविशेषो धर्माख्यो ऽनुग्रहात् तेषां यथा, एवम् उपघाताद् अप्य् अधर्मविशेषेण भवितव्यं तद्विशेषाद् एव । एवं च सत्य् एतस्मिन् विषय इदम् आरभ्यते तेषां वेदविदो ब्रूयुर् इति । तथा च सति तद्विशेषाद् ब्रह्महत्याप्रायश्चित्तानां गुरुलघुत्वं युक्तम् । इतरथा हि लघूपदेशाद् गुरूणां परिहरणाद् अनुपदेश एव स्यात् । यथा लोके “पणलभ्यं हि न प्राज्ञः क्रीणाति दशभिः पनैः (?)” इत्य् एवम् इहापि स्यात् ॥ ११.८४ ॥

अतो ऽन्यतमम् आस्थाय विधिं विप्रः समाहितः ।
ब्रह्महत्याकृतं पापं व्यपोहत्य् आत्मवत्तया ॥ ११.८५ ॥

भारुचिः ...{Loading}...

सर्वेषां ब्रह्महत्याप्रायश्चित्तानाम् उपसंहारश्लोको ऽयम् । विप्रग्रहणं चात्र सर्ववर्णप्रदर्शनार्थम् । तथा च सति सामर्थ्याद् अधिकारो यथासंभवं ब्राह्मणादीनां प्रायश्चित्तेष्व् अविक्षितव्यः ॥ ११.८५ ॥

हत्वा गर्भम् अविज्ञातम् एतद् एव व्रतं चरेत् ।
राजन्यवैश्यौ चेजानाव् आत्रेयीम् एव च स्त्रियम् ॥ ११.८६ ॥

भारुचिः ...{Loading}...

ब्रह्महत्याप्रायश्चित्तातिदेशो ऽयं गर्भादिहन्तॄणाम् । गर्भश् च ब्राह्मणगर्भ एव प्रकरणाद् विज्ञेयः । आत्रेयी तु रजस्वला ब्राह्मण्य् एव । तस्यां हि कदाचित् पुंसस् संभव इति, अतस् तां हत्वा ब्रह्महा भवति । गोत्रत इत्य् अपर आत्रेयीम् आहुः, यस्माच् चात्रेयीं हत्वा ब्रह्महा भवति, ततो ऽन्यां ब्राह्मणीं हत्वा न ब्रह्महेति गम्यते । गवादिषु तु जातिमात्रस्य विवक्षितत्वात् स्त्रियां पुंसि चाविशेषेण प्रायश्चित्तम् । यच् चोपरिष्टश्लोके वक्ष्यति, “कृत्वा च स्त्रीसुहृद्वधम्” इति, स्त्रीग्रहणं तद् अपि ब्रह्मण्या एव । गोवधादौ च स्त्रीग्रहणस्य विद्यमानत्वाद् विकल्पेन ब्राह्मण्याम् इदं प्रायश्चित्तं स्यात् । विकल्पश् च गुणापेक्षो युक्तः, गुरुलघुप्रायश्चित्तयोः प्रत्ययाप्रत्ययकारणेन वा । एवं चात्रेयीग्रहणम् अर्थवद् भवति । सवनगतौ राजन्यवैस्यौ हत्वैतद् एव । तथा च ब्राह्मणम्, “यो वै कश्चिद् यजते ब्राह्मणिभूयैव यजते” इति ॥ ११.८६ ॥

उक्त्वा चैवानृतं साक्ष्ये प्रेतिरुध्य गुरुं तथा ।
उपहृत्य च निक्षेपं कृत्वा च स्त्रीसुहृद्वधम् ॥ ११.८७ ॥

भारुचिः ...{Loading}...

अयं श्लोको महापातकसमानां निर्देशे पूर्वत्र कृतविचारः ॥ ११.८७ ॥

इयं विशुद्धिर् उदिता प्रमाप्याकामतो द्विजम् ।
कामतो ब्राह्मणवधे निष्कृतिर् न विधीयते ॥ ११.८८ ॥

भारुचिः ...{Loading}...

कामतो ऽकामत इति कृतविचारः । तस्मान् न कामकृते प्रायश्चित्ताभावं दर्शयति, किं तर्हि प्रमादस्तुत्यर्थम् इदं कल्प्यते । इतरथा हि पूर्वापरविरोधः स्यात् । अथ वा प्रायश्चित्तगुरुत्वोपदेशपरम् इदं गुणतः कामतो वधे ब्राह्मणस्य । एवं च सर्वगुणविशेषापेक्षया सप्रत्ययाप्रत्ययवधापेक्षया च ब्रह्महत्याप्रायश्चित्तानि यथासंभवम् अर्थयोगापेक्षया प्रकल्प्यानि । अन्यानि चैवम् एव समार्थानि ॥ ११.८८ ॥

सुरां पीत्वा द्विजो मोहाद् अग्निवर्णाम् सुरां पिबेत् ।
तया स काये निर्दग्धे मुच्यते किल्बिषात् ततः ॥ ११.८९ ॥

भारुचिः ...{Loading}...

एवं च मृतस्य शुद्धिर् विज्ञेया । तया च सुरायाग्निवर्णत्वम् अनुगृहीतं भवति । मोहाद् इति चात्र यद् उक्तम्, तत् पूर्वत्रार्थनिर्देशलिङ्गम्, यद् उक्तम् “प्रायश्चित्तीयतां प्राप्य मोहात् पूर्वकृतेन वा” इति, अत्र मोहस्य स्वशब्देनैवोपदेशात् ॥ ११.८९ ॥

गोमूत्रम् अग्निवर्णं वापिबेद् उदकम् एव वा ।
पयो घृतं वामरणाद् गोशकृद् रसम् एव वा ॥ ११.९० ॥

भारुचिः ...{Loading}...

द्रव्यमात्रविकल्पार्थं चेदम् आरब्धम् । तथा चौष्ण्यगुणस् समानो ऽत्र पूर्वद्रव्येण । अग्निवर्णत्वं च सर्वशेषः । तथा वामरणाद् इत्य् उक्तम्, एतच् अ मुख्यसुरापाने कामतः प्राणान्तिकं प्रायश्चित्तम् ॥ ११.९० ॥

कणान् वा भक्षयेद् अब्दं पिण्याकं वा सकृन् निशि ।
सुरापानापनुत्त्यर्थं वालवासा जटी ध्वजी ॥ ११.९१ ॥

भारुचिः ...{Loading}...

एतच् च प्रायश्चित्तं मुख्यसुरापान एवाकामतो गम्यते । एवं ह्य् एतद्व्यतिक्रमे सप्रत्ययाप्रत्ययकारणभेदात् गुरुलघुत्वं प्रायश्चित्तस्योपपन्नं भवति । तथा च गौतमो ऽप्रत्यये सुरापाने लघुप्रायश्चित्तम् आह सप्रत्ययसुरापानप्रायश्चित्ताद् गुरुणः- “अमत्या पाने पयो घृतम् उदकं वायुं प्रति त्र्यहं तप्तानि स कृच्छ्रस् ततो ऽस्य संस्कारः” (ग्ध् २३.३) इति । अथ वेतरयोः सुरयोः पान एतल् लघुप्रायश्चित्तं विज्ञेयम् । तथा च स्मृत्यन्तरम्- “असुरामद्यपाने चान्द्रायणम् अभ्यसेत्” इति ॥ ११.९१ ॥

सुरा वै मलम् अन्नानां पाप्मा च मलम् उच्यते ।
तस्माद् ब्राःमणराजन्यौ वैश्यश् च न सुरां पिबेत् ॥ ११.९२ ॥

भारुचिः ...{Loading}...

केचिद् अत्र “गौडी"श्लोकं पूर्वं पठन्ति, पश्चाद् इमम् “सुरा वै मलम् अन्नानाम्” इति । तैर् अप्य् एतौ विपर्यस्य श्लोकौ व्याखेयाव् अर्थक्रमेण, ये पुनः “सुरा वै मलम् अन्नानाम्” इत्य् एतं पूर्वं पठन्ति, तेषाम् अर्थक्रम एव । अतः पूर्वम् अयम् अस्माभिः पठ्यते । सुरा लोकप्रसिद्धा गवादिवत् । अन्नमलत्वं चार्थवादस्, तस्मात् पानविद्वेषणार्थः । न हेतुः प्रतिषेधविधेर्, हेतुत्वे सति सर्वस्यान्नमलस्याभक्ष्यत्वं स्यान् मण्डादेः, हेतुमालाप्रसङ्गश् च स्यात् । अन्नमलत्वाद् अपेया सुरा, अन्नमलं पुनः कस्माद् अपेयम् इति । अत्र कारणं वक्तव्यं भवति । यतो ऽयम् अर्थवादः, न हेतुः । एवं च सति प्रसन्नापि सती सुरान्नमलत्वेन निन्द्यते । पाप्मा च मलम् उच्यते । अयम् अप्य् अर्थवादो निवृत्त्यर्थ एव । येन नान्नमलत्वं पाप्मनो हेतुः, किं तर्हि सुरापानम् । यतः द्विजतिभिर् अपेया सा । एवं च सुराया अपेयत्वे सिद्धे “सुरां पीत्वा द्विजो मोहात्” इति युक्तः प्रायस्चित्तविधिः । एवं तावद् अन्नमलाद् लिङ्गात् पैष्टी मुख्यसुरा द्विजातीनां प्रतिषिद्धा । अधुना त्व् असुरामद्यप्रतिषेधार्थं ब्राह्मणानाम् इदम् आरभ्यते ॥ ११.९२ ॥

गौडी पैष्टी च माध्वी च विज्ञेया त्रिविधा सुरा ।
यथैवैका तथा सर्वा न पातव्या द्विजोत्तमैः ॥ ११.९३ ॥

भारुचिः ...{Loading}...

गुडस्य विकारो गौडी, गुडकार्या वा । अनुक्ता तद्धितवृत्तिर् इति कृत्वा यत्रापीक्षुरसविकारो मद्यं तत्रापीक्षुरसो गुडकारणत्वाद् गुदशब्देनोच्यते । एवं चोभयथापि गौडी भवति । पैष्टी तु पिष्टविकारः, “तस्येदम्” इति वा । अनुक्ता तद्धितवृत्तिर् इति पूर्वोक्ता मुख्या । माध्वी च मधुशब्दादेर् अत्र विकारार्थे । एवं मधुविकारो माध्वी न माधवी, येन “संज्ञापूर्व[को] विधिर् नित्यः” इतीयं परिभाषा अस्याश् च ज्ञापकं स्यात् । “ओर् ओद् इति वक्तव्ये” गुणग्रहणं गुर्वविकृतं ज्ञापनार्थम् अस्य । तथा च सति गुणस्यानित्यत्वात् माद्वीति सिद्धम् । एवं च “स्वायम्भुव इत्य् एतद् अपि सिद्धम्” भवति । एवं त्रिविधैषा । यथैवैका इति च प्रसिद्धा । प्रतिषिद्धायां पिष्टसुरायां पूर्वश्लोके,इह श्लोके इतरे गौडीमाध्व्याव् असुरे सत्यौ सुरीकरोति निन्दार्थम् । अतः पिष्टसुरासमे इतरे न सुरे एव । यथा राजसमो मन्त्री राजाभवति । यथैवैका तथा सर्वा न पातव्या द्विजोत्तमैर् इति गौडीमाध्व्योश् च बहुवचनम्, तथा सर्व इत्य् एतद्भेदबहुत्वापेक्षम्, समुदायापेक्षं वा । ते च पैष्टी च सर्वापेया । इतरथा हि “यथैवैका तथैवोभौ न पातव्यौ द्विजोत्तमैः” इत्य् एवं पाठः स्यात्, यद्य् एवं बहुवचनम् इदं न व्याख्यायेत । एवं चात्र श्लोके ब्राह्मणानां गौडीमाध्व्योः प्रतिषेधः, पूर्वश्लोके तु मुख्यसुरा त्रयाणाम् अपि प्रतिषिद्धा । एतच् च सामर्थ्याद् विज्ञायते । सामर्थ्यं च वाक्यद्वयारम्भः । तद् यतः श्लोके ऽस्मिंस् त्रयाणां द्विजानां प्रतिषिद्ध्येरन् ततः पूर्वश्लोकारम्भो ऽनर्थकः स्यात् । आरब्धस् तु यतः पुनरुक्तत्वात् शास्त्रवाक्ययोः पूर्वश्लोकेन मुख्यसुरा त्रयाणाम् अपि प्रतिषिद्धा, उत्तरश्लोके तु गौडीमाध्वयोर् एव ब्राह्मणानां प्रतिषेधः । एवं च सति यथैवैका तथा सर्वा इत्य् एतद् उपपन्नं भवति । द्विजोत्तमग्रहणं चात्र ये च “द्विजातिभिः” इत्य् अत्र पठन्ति, तेषां द्विजातिशब्दाद् द्विजोत्तमार्थ एव विज्ञेयः, त्रयाणां साधारणो ऽपि सन्न् एतत् स्यात् सार्थ्यात् । तथा चोत्तरशोकेषु त्रिषु ब्राःमणग्रहणानि लिङ्गान्य् अस्यैवार्थस्य प्रदर्शयिष्यामः ॥ ११। ९३ ॥

यक्षरक्षःपिशाचान्नं मद्यं मांसं सुरासवम् ।
तद् ब्राह्मणेन नात्तव्यं देवानाम् अश्नता हविः ॥ ११.९४ ॥

भारुचिः ...{Loading}...

इति लिङ्गात् सत्य् अपि जात्यर्थविशेषे स्त्रीणाम् अप्रतिषेधः । एवं च सत्य् अनेनाप्रतिषेधदर्शनेन क्वचिद् ब्राह्मण्यः पिबन्ति । यथा च स्त्रीपुंसयोः सत्य् अप्य् एकजातित्वे प्रायश्चित्तभेदः, एवम् अयम् अपि प्रतिषेधविशेषो विज्ञेयः । यथा “अश्विनं भक्षयन्ति” इति च सुराग्रहे सौत्रामण्यां कर्माङ्गत्वाद् अदोषः, मांसवत्, एवं वाजपेये त्व् इति । अयम् अपरो ऽर्थवादस् सुराप्रतिषेधविधेः ॥ ११.९४ ॥

अमेध्ये वा पतेन् मत्तो वैदिकं वाप्य् उदाहरेत् ।
अकार्यम् अन्यत् कुर्याद् वा ब्राह्मणो मदमोहितः ॥ ११.९५ ॥

भारुचिः ...{Loading}...

अर्थवादो ऽयम्, न हेतुः । हेतुत्वे हि स्वल्पिका पीयेत, यावती पीता मदं न जनयति । अमेध्ये पतनादौ चाकार्ये न प्रवर्तयति । अथ वा सप्रत्यनीका मांसभक्षणेन सह पीयमानामेध्यपतनादिदोषं मदभावं न जनयतीति कृत्वा तथा पीयेत ॥ ११.९५ ॥

यस्य कायगतं ब्रह्म मद्येनाप्लाव्यते सकृत् ।
तस्य व्यपैति ब्राह्मण्यं शूद्रत्वं च स गच्छति ॥ ११.९६ ॥

भारुचिः ...{Loading}...

आत्मस्थं ब्रह्मभावनाख्यं यस्मात् अतः कायगतम् इत्य् अर्थवादो ऽयम् । ब्राह्मणग्रहणं चात्र श्लोकत्रये धारणार्थम् । अनन्तरश्लोके गौडीमाद्व्योः ब्राह्मणप्रतिषेधात् तदपेक्षया । अथ तु पूर्वश्लोकप्रतिषेधापेक्षो ऽपि ततः पूर्वस्य प्रतिषेधस्योत्तरस्य च सामान्येनामी श्लोकत्रयार्थवादाः । एतस्मिंश् च पक्षे ब्राह्मणग्रहणं निदर्शनार्थं यथासंभवं विज्ञेयम् । अन्ये तूक्तप्रतिषिद्धत्वात् क्षत्रियवैश्ययोर् विकल्पं मन्यन्ते गौडीमाध्व्योः प्रतिषेधस्य । तद् इदं य्क्तम् अयुक्तं वेति विचारणीयम्, ग्रन्थगौरवभयात् तु न लिख्यते । किं चातः यदि जातिनिमित्तः सर्वावस्थम् अपेयम् । अथ मदगुणनिमित्ते ततो ऽपि नष्टे तस्मिन्न् अल्पं वा पेयं स्यात् । यत इदम् उच्यते गुणनिमित्तो ऽयं प्रतिषेधः । एवं सति प्रत्यस्तमितमदगुणं दयं कुत्रचिद् आचरन्ति ब्राह्मणाः । तथा चोक्तम्- “अमेध्ये वा पतेन् मत्तः” इत्य् एवमादिषु मदगुणनिमित्त एव प्रतिषेधो मद्यस्येति विज्ञयते । अनुत्पन्नमदगुणं च माध्वीकम् अपर्युषितं च पीयते । यतः गुणापेक्ष एव प्रतिषेधः । [अन्]ये ऽपि च नाचरन्ति विनष्टमदगुणम् अपि सन् मद्यम् । तथा च वक्ष्यत् “सुराभाण्डस्थितस् तथा” इत्य् एवमादि ॥ ११.९६ ॥

एषा विचित्राभिहिता सुरापानस्य निष्कृतिः ।
अत ऊर्ध्वं प्रवक्ष्यामि सुवर्णस्तेयनिष्कृतिम् ॥ ११.९७ ॥

भारुचिः ...{Loading}...

उपसंहारोपन्यासार्थः स्लोकः ॥ ११.९७ ॥

सुवर्णस्तेयकृद् विप्रो राजानम् अभिगम्य तु ।
स्वकर्म ख्यापयन् ब्रूयान् मां भवान् अनुशास्त्व् इति ॥ ११.९८ ॥
गृहीत्वा मुसलं राजा सकृद् धन्यात् तु तं स्वयम् ।
वधेन शुध्यति स्तेनो ब्राह्मणस् तपसैव वा ॥ ११.९९ ॥
तपसापनुनुत्सुस् तु सुवर्णस्तेयजं फलम् ।
चीरवासा द्विजो ऽरण्ये चरेद् ब्रह्महणो व्रतम् ॥ ११.१०० ॥

भारुचिः ...{Loading}...

त्रिभिः श्लोकैः सुवर्णस्तेयप्रायश्चित्तविधिः । क्षत्रियादीनां च विशेषेण प्रायश्चित्तविधेर् अनाम्नातत्वात् सुवर्णस्तेयकृद् विप्र इति यद् इदं विप्रग्रहणम् एतत् सर्ववर्णप्रदर्शनार्थं विज्ञेयम् । तथा “ब्राह्मणस् तपसैव वा” इति यद् उक्तम् अत्रेदम् उच्यते । न हि तपश् शक्यते क्षत्रियादिवर्णानां प्रतिषेद्धुम् । अपरे त्व् एतस्माद् यत्नात् ब्राह्मणस्याइवैकस्य तपः नेतरेषां वर्णानाम् इति मन्यन्ते । राजाभिगमनस्य च राजधर्मेषु सिद्धस्यापि सतः पुनर् इहोपदेशः प्रायश्चित्तार्थः, तत्र च राजदण्डार्थः, तपोविधित्सया वा पुनर्ग्रहणम् । ब्राह्मणस्य च वधो नास्तीति तत्रैवोक्तम् । निगदव्याख्यातम् अन्यत् ॥ ११.९८–१०० ॥

एतैर् व्रतैर् अपोहेत पापं स्तेयकृतां नरः ।
गुरुस्त्रीगमनीयं तु व्रतैर् एभिर् अपानुदेत् ॥ ११.१०१ ॥

भारुचिः ...{Loading}...

उपसंहारोपन्यासः पूर्वोत्तरप्रकरणयोः ॥ ११.१०१ ॥

गुरुतल्प्य् अभिभाष्यैनस् तप्ते स्वप्याद् अयोमये ।
सूर्मीं ज्वलन्तीं स्वाश्लिष्येन् (?) मृत्युना स विसुध्यति ॥ ११.१०२ ॥
स्वयं वा शिश्नवृषणाव् उत्कृत्याधाय चाञ्जलौ ।
नैरृतीं दिशम् आतिष्ठेद् आ निपाताद् अजिह्मगः ॥ ११.१०३ ॥
खट्वाङ्गी चीरवासा वा स्मश्रुलो निर्जने वने ।
प्राजापत्यं चरेत् कृच्छ्रम् अब्दम् एकं समाहितः ॥ ११.१०४ ॥
चान्द्रायणं वा त्रीन् मासान् अभ्यसेन् नियतेन्द्रियः ।
हविष्येण यवाग्वा वा गुरुतल्पापनुत्तये ॥ ११.१०५ ॥

भारुचिः ...{Loading}...

चतुर्भिः श्लोकैः गुरुतल्पप्रायश्चित्तम् इदं वैकृतिकम् । गुरुर् व्याख्यातो विद्यागुरुः स्वयोनिगुरुश् च । तदङ्गनां गतो गुरुतल्पग इति गुणतस् तल्पशब्दो गुरुभार्यायां विज्ञेयः । हविष्ययवाग्वोश् च ग्रहणं गोबलीवर्दन्यायेन । ऋज्व् अन्यत् ॥ ११.१०२–१०५ ॥

एतैर् व्रतैर् अपोहेयुर् महापातकिनो मलान् ।
उपपातकिनस् त्व् एवं विविधैर् नियमैर् इमैः ॥ ११.१०६ ॥
उपपातकसंयुक्तो गोघ्नो मासं यवान् पिबेत् ।
कृतवापो वसेद् गोष्ठे चर्मणा तेन संवृतः ॥ ११.१०७ ॥
चतुर्थकालम् अश्नीयाद् अक्षारलवणं मितम् ।
गोमूत्रेण चरेत् स्नानं द्वौ मासौ नियतेन्द्रियः ॥ ११.१०८ ॥
दिवानुगच्छेत् गास् तास् तु तिष्ठन्न् ऊर्ध्वं रजः पिबेत् ।
शुश्रूषित्वा नमस्कृत्वा रात्रौ वीरासनो भवेत् ॥ ११.१०९ ॥
[तिष्ठन्तीष्व् अनुतिष्ठेत् तु व्रजन्तीष्व् अप्य् अनुव्रजेत् ।
आसीनासु तथासीनो नियतो वीतमत्सरः ॥ ११.११० ॥
आतुराम् अभिशस्तां वा वौरव्याघ्रादिभिर् भयैः ।
पतितां पङ्कलग्नां वा सर्वोपायैर् विमोचयेत्] ॥ ११.१११ ॥
उष्णे वर्षति शीते वा मारुते वाति वा भृशम् ।
न कुर्वीतात्मनस् त्राणं गोर् अकृत्वा तु शक्तितः ॥ ११.११२ ॥
आत्मनो यदि वान्येषां गृहे क्षेत्रे ऽथ वा खले ।
भक्षयन्तीं न कथयेत् पिबन्तं चैव वत्सकम् ॥ ११.११३ ॥
अनेन विधिना यस् तु गोघ्नो गा अनुगच्छति ।
स गोहत्याकृतं पापम् त्रिभिर् मासैर् व्यपोहति ॥ ११.११४ ॥

भारुचिः ...{Loading}...

केचित् तु त्रिभिर् वर्षैर् इति पठन्ति । तद् अयुक्तम् । अधस्ताद् अत्रैव प्रायश्चित्तप्रकरणे मासत्रयग्रहणात् । सर्वोपपातकेषु चैतद् एव व्रतं कुर्युर् इति वक्ष्यति चान्द्रायणवैकल्पिकम् अवकीर्णिवर्जम् । एवं च वर्षत्रयेणास्यासमानविधित्वाद् अन्याय्यकल्पनेयम् ॥ ११.१०६–११४ ॥

वृषभैकादशा गाश् च दद्यात् सुचरितव्रतः ।
अविद्यमाने सर्वस्वं वेदविद्भ्यो निवेदयेत् ॥ ११.११५ ॥

भारुचिः ...{Loading}...

अविद्यमानायाम् अनन्तरदक्षिणायां चरितप्रायश्चित्तस्य सर्वस्वं दक्षिणा तच् चैकादशभ्यो गोरूपेभ्यः सर्वस्वम् अर्वाग् इति सामर्थ्याद् गम्यते । गावो ऽन्यद् वोभयं वा ॥ ११.११५ ॥

एतद् एव व्रतं कुर्युर् उपपातकिनो द्विजाः ।
अवकीर्णिवर्ज्यं शुद्ध्यर्थं चान्द्रायणम् अथापि वा ॥ ११.११६ ॥

भारुचिः ...{Loading}...

एतद् एव गोघातप्रायश्चित्तं सर्वोपपातकेष्व् अतिदिश्यते । तद्विकल्पेन चान्द्रायणम् एव । एवं च सति गोहत्यायाश् चान्द्रायणं न स्यात्, तद्वैकल्पिकसामर्थ्यात्, यथान्येषूपपातकेषु । अत एव पृथङ्निर्देशः । अवकीर्णिवर्ज्यम् इति चानेन प्रतिषेधलिङ्गेन गोवधादौ यद् उक्ता व्रताः स्युर् इति तद् अवकीर्णिनो ग्रहणम् इति विज्ञायते ॥ ११.११६ ॥

अवकीर्णी तु काणेन गर्दभेन चतुष्पथे ।
पाकयज्ञविधानेन यजेत निरृतिं निशि ॥ ११.११७ ॥
हुत्वाग्नौ विधिवद् धोमान् अन्ततश् च समेत्य् ऋचा ।
वातेन्द्रगुरुगह्नीनां जुहुयात् सर्पिषाहुतीः ॥ ११.११८ ॥

भारुचिः ...{Loading}...

अवकीर्णीपदार्थं प्रायश्चित्तनिमित्तम् अवधारयति ॥ ११.११७–११८ ॥

कामतो रेतसःसेकं व्रतस्थस्य द्विजन्मनः ।
अतिक्रमं व्रतस्याहुर् धर्मज्ञा ब्रह्मवादिनः ॥ ११.११९ ॥

भारुचिः ...{Loading}...

एवं चाकामतो दिवा रात्रौ वा प्रच्युतेन्द्रियस्य लघुतरं प्रायश्चित्तं स्यात् । ततो ऽपि स्वप्न इति । तथा चोक्तं स्वप्ने रेतःसेके ब्रह्मचारिणः “पुनर् माम् इत्य् ऋचं जपेत्” इति ॥ ११.११९ ॥

मारुतं पुरुहूतं च गुरुं पावकम् एव च ।
चतुरो व्रतिनो ह्य् एति ब्राह्मं तेजो ऽवकीर्णिनः ॥ ११.१२० ॥

भारुचिः ...{Loading}...

यत एवम् अतो ऽवकीर्णी,

एतस्मिन्न् एनसि प्राप्ते वसित्वा गर्दभाजिनम् ।
सप्तागारं चरेद् भैक्षं स्वकर्मपरिकीर्तयन् ॥ ११.१२१ ॥
तेभ्यो लब्धेन भक्षेण वर्तयन्न् एककालिकम् ।
उपस्पृशंस् त्रिषवणम् अब्देनैकेन शुध्यति ॥ ११.१२२ ॥

भारुचिः ...{Loading}...

वेदब्रह्मचारिणः स्त्रीगमन एतत् प्रायश्चित्तं विज्ञेयम् । एवं च समानकार्यत्वात् प्रव्रजितानाम् अप्य् एवंविधम् एव रेतःसेकप्रायश्चित्तं प्रव्रज्याविरोधि स्यात् । तेषां च स्खलितानाम् अन्यप्रायश्चित्तानुपदेशात् ॥ ११.१२१–१२२ ॥

**जातिभ्रंशकरं कर्म कृत्वान्यतमम् इच्छया । **
चरेत् सान्तपनं कृच्छ्रं प्राजापत्यम् अनिच्छया ॥ ११.१२३ ॥

भारुचिः ...{Loading}...

सान्तपनं कृच्छ्रं प्राजापत्यं च वक्ष्यति ॥ ११.१२३ ॥

संकरापात्रकृत्यासु मासः शोधनम् ऐन्दवः ।
मलिनीकरणीयेषु तप्तः स्याद् यावकैस् त्र्यहम् ॥ ११.१२४ ॥

भारुचिः ...{Loading}...

अन्यतमम् इति वर्तते । एवं चेच्छया प्रत्येकं गुरुप्रायश्चित्तोपदेशैर् अनिच्चया तस्य लघुत्वम् अर्थसिद्धम् पूर्वशास्त्राद् एव ॥ ११.१२४ ॥

तुरीयो ब्रह्महत्यायाः क्षत्रियस्य वधे स्मृतः ।
वैस्ये ऽष्टमो ऽंशो वृत्तस्थे शूद्रे ज्ञेयस् तु षोडशः ॥ ११.१२५ ॥

भारुचिः ...{Loading}...

क्षत्रियादीनाम् अपरः प्रायश्चित्तविधिर् वैकल्पिक उपपातकप्रायश्चित्ताच् चान्द्रायणात् । येन स्त्रीशूद्रविट्क्षत्रवध उपपातकमध्य उपदिष्टः । सदसद्विभागापेक्षया च क्षत्रियादीनाम् इदं वैकल्पिकम् अन्यत् प्रायश्चित्तं पूर्वोक्तात् । तथा चोक्तम्, वैश्य ऽष्टमो ऽंशो वृत्तस्थ इति । इदं परम् अधुना क्xअत्रियादिवध एव क्xअत्रियादिप्रायश्चित्तम् उपदिश्यते, पूर्वश्लोकोपदिष्टप्रायश्चित्ताद् वैकल्पिकम् ॥ ११.१२५ ॥

अकामतस् तु राजन्यं विनिपात्य द्विजोत्तमः ।
वृषभैकसहस्रा गा दद्याच् छुद्ध्यर्थम् आत्मनः ॥ ११.१२६ ॥

भारुचिः ...{Loading}...

अर्थाच् चेदं वित्तवतः प्रायश्चित्तम् उपदिश्यते । पूर्वं चावित्तस्य तपः । वक्ष्यति च दानं तस्य [च] तपसा विकल्पं “दानेन वधनिर्णेकं सर्पादीनाम् अश्क्नुवन्” इत्य् एवमादि । अकामत इत्य् अयं च प्रमादस्तुत्यर्थो ऽर्थवादः । यस्मान् न ह्य् अकामतो गरीयः प्रायश्चित्तम् उपपद्यत इत्य् उक्तं पुरस्तात् । एवं तावत् संभवद्वित्तस्य प्रायश्चित्तम् इदम् अन्यद् । दरिद्रस्य पूर्वोक्तम् अनूद्यते वैकल्पिकम् एतस्य ॥ ११.१२६ ॥

त्र्यब्दं चरेद् वा नियतो जटिलो ब्रह्महवर्तम् ।
वसन् दूरतरे ग्रामाद् वृक्षमूलनिकेतनः ॥ ११.१२७ ॥

भारुचिः ...{Loading}...

जटिलवचनं नियमार्थत्वाद् अन्येषां खट्वाङ्गीत्येवमादीनां निवृत्त्यर्थम् ॥ ११.१२७ ॥

एतद् एव चरेद् अब्दं प्रायश्चित्तं द्विजोत्तमः ।
प्रमाप्य वैश्यं वृत्तस्थं दद्याद् वैकशतं गवाम् ॥ ११.१२८ ॥

भारुचिः ...{Loading}...

संभवद्वित्तस्येदं पूर्ववद् वैकल्पिकम् । द्विजोत्तमग्रहणं चेतरवर्णनिदर्शनार्थम्, नावधारणार्थम् ॥ ११.१२८ ॥

प्रमाप्य शूद्रं षण्मासान् एतद् एव व्रतम् चरेत् ।
वृषभैकादशा वापि दद्याद् विप्राय गाः सिताः ॥ ११.१२९ ॥

भारुचिः ...{Loading}...

उक्तार्थः श्लोकः । सितवर्णाग्रहणं चात्र शुद्धिसामान्यात् । एवं च त्रीण्य् एतानि प्रायश्चित्तानि क्षत्रियादिवधे विकल्प्यन्ते । पूर्वोक्तं चान्द्रायणम् इह च प्रकरणे गोदानम् । ब्रह्महत्याप्रायश्चित्तविकल्पश् च कामकृतः । केचित् तु समुच्चयम् एतयोर् अस्मिन् प्रकरण उपदिष्टयोः प्रायश्चित्तं मन्यन्ते । समुच्चयेन श्लोकान् पठन्ति “त्र्यब्दं चरेच् च नियतः”, तथा “प्रमाप्य वैश्यं वृत्तस्थं दद्याच् चैकशतं गवाम्” । एवम् एव वृषभैकादशागाश् चापीति । तद् एतद् अयुक्तं शास्त्रन्यायविरोधात्, एतस्यां च कल्पनायाम् उपपातकप्रायश्चित्तं चान्द्रायणं लघु नोपपद्येत, गुरुणः प्रायश्चित्तस्य दानतपःसमुच्चयस्योपदेशेन । तथा च लोके व्यवहारः- “पणल्भ्यं हि न प्राज्ञः क्रीणाति दशबिः पणैः” इति । वैकल्पिकयोर् एव तावद् एतयोर् उपदेशे चान्द्रायणस्यानर्थक्यं प्राप्नोतीति । किं पुनः समुच्चितयोः । अत्यन्तगुरुत्वा । तस्मात् समुच्चयाभावाद् वाशब्दो विकल्पार्थः पठितव्यः॥ ११.१२९ ॥

मार्जारनकुलौ हत्वा चाषं मण्डूकम् एव च ।
श्वगोधोलूककाकांश् च शूद्रहत्याव्रतं चरेत् ॥ ११.१३० ॥

भारुचिः ...{Loading}...

समुच्चितानां वध एतत् प्रायश्चित्तम् । तथा च वक्ष्यति “अस्थिमतां तु सत्त्वानां सहस्रस्य प्रमापने” इति । अपरे तु लघुत्वाद् एतेषां शूद्रजातानां प्रतिलोमानाम् आयोगवक्षत्तृचण्डालानां यद् वधे प्रायश्चित्तं तद् एतत् समस्तवध इति । प्रत्येकं तु वध इदम् अन्यत् प्रायश्चित्तं पूर्वस्माल् लघूपदिश्यते ॥ ११.१३० ॥

पयः पिबेत् त्रिरात्रं वा योजनं वाध्वनो व्रजेत् ।
उपस्पृशेत् स्रवन्त्यां वा सूक्तं वाब्दैवतं जपेत् ॥ ११.१३१ ॥

भारुचिः ...{Loading}...

> पयः पिबेत् त्रिरात्रं वा योजनं वाध्वनो व्रजेत् ।

असमर्थः सन्न् अध्वगमनस्यात्यन्तवृद्धो गम्यते ।

> उपस्पृशेत् स्रवन्त्यां वा सूक्तं वाब्दैवतं जपेत् ॥ ११.१३१ ॥

समुद्रगामिन्यां विशिष्टायां स्नायाद् इत्य् अर्थः । सपरिष्करस्नानोपदेशपरतश् चैतत् सामर्थ्याद् विशिष्टम् उपदिश्यते । सूक्तं वाब्दैवतं जपेत् । सर्वेषु च पयःपानं सामर्थ्याद् उपवासो वा त्रिरात्रं सप्रत्ययाप्रत्ययवधोपेक्षया ॥ ११.१३१ ॥

अभ्रिं कार्ष्णायसीं दद्यात् सर्पं हत्वा द्विजोत्तमः ।
पलालभारकं षण्डे सैसकं चैकमाषकम् ॥ ११.१३२ ॥

भारुचिः ...{Loading}...

पलालेनास्य माषकस्य च समुच्चय आनन्तर्यसामर्थ्याद् विज्ञेयः । नाभ्र्या । पलालं चार्थात् गवे गोपतये वा ब्राह्मणाय ॥ ११.१३२ ॥

घृतकुम्भं वराहे तु तिलद्रोणं तु तित्तिरिम् ।
शुकं द्विहायनं वत्सं क्रौञ्चं हत्वा त्रिहायनम् ॥ ११.१३३ ॥
हत्वा हंसं वलाकां च बकं बर्हिणम् एव च ।
वानरं श्येनभासौ च स्पर्सयेद् ब्राह्मणाय गाम् ॥ ११.१३४ ॥

भारुचिः ...{Loading}...

समस्तवध एतत् प्रायश्चित्तं विभागानुपदेशात्, गोश् च महत्त्वात्, यथा “मार्जारनकुलौ हत्वा” इत्य् एवमादि । यत्र समस्तानाम् अप्य् उपदेशे प्रत्येकम् इच्छति तत्र पृथग् ग्रहणं करोति । तथा चोपरिष्टात् प्रदर्शयिष्यामः ॥ ११.१३३–१३४ ॥

वासो दद्याद् धयं हत्वा पञ्च नीलान् वृषान् गजम् ।
अजमेषाव् अनड्वाहं खरं हत्वैकहायनम् ॥ ११.१३५ ॥

भारुचिः ...{Loading}...

निगदव्याख्यातश्लोकः । अजाविकवधश् च संकीर्णकर उक्तः । एवं च तदीयं प्रायश्चित्तम् अजमेषाव् अनड्वाहम् इत्य् अनेनोपदेशसामर्थ्याद् विकल्पेत । एवम् अन्यत्रापि योज्यम् ॥ ११.१३५ ॥

क्रव्यादांस् तु मृगान् हत्वा धेनुं दद्यात् पयस्विनीम्
अक्रव्यादान् वत्सतरीम् उष्ट्रं हत्वा तु कृष्णलम् ॥ ११.१३६ ॥
जीलकार्मुकबस्तावीन् पृथग् दद्याद् विशुद्धये ।
चतुर्णाम् अपि वर्णानां नारीर् हत्वानवस्थ्ताः ॥ ११.१३७ ॥

भारुचिः ...{Loading}...

> क्रव्यादांस् तु मृगान् हत्वा

व्याघ्रादीन्

> धेनुं दद्यात् पयस्विनीम्

धेनूपदेशाद् एव पयः सिद्धम् । एवं च सिद्धस्योपदेशो ऽतिशयार्थो विज्ञेयः,

> अक्रव्यादान् वत्सतरीम् उष्ट्रं हत्वा तु कृष्णलम् ॥ ११.१३६ ॥
> जीलकार्मुकबस्तावीन् पृथग् दद्याद् विशुद्धये ।
> चतुर्णाम् अपि वर्णानां नारीर् हत्वानवस्थ्ताः ॥ ११.१३७ ॥

जीलं चर्मपुटं दद्यात् । ब्राह्मणाय तदुपभोगदेशे । ब्राह्मणीम् अनवस्थितां हत्वा । क्षत्रियां कार्मुकं ब्राह्मणायैव । तद्भृत्यापहरणं रक्षार्थं ब्राह्मणतन्त्रस्य । वैश्यां बस्तम्, शूद्राम् अविम्पृथग्ग्रहणाच् चात्रान्यत्र समुदायेषु प्रायश्चित्तं न पृथग्भावाद् इति विज्ञेयम् । गत्वेति केचित् । न युक्तम्, तद् धिंसाप्रकरणान् नारीर् हत्वानवस्थिता इति पाठात् । तथा चोपसंहारं प्रकरणान्ते करिष्यति, “एतैर् व्रतैर् अपोह्यं स्याद् एनो हिंसासमुद्भवम्” इति ॥ ११.१३६–१३७ ॥

दानेन वधनिर्णेकं सर्पादीनाम् अशक्नुवन् ।
एकैकशश् चरेत् कृच्छ्रं द्विजः पापापनुत्तये ॥ ११.१३८ ॥

भारुचिः ...{Loading}...

अनेन च गम्यते प्रायश्चित्तेषु दानं प्रथमकल्पिकम्, येन तदभावे कृच्छ्रम् इह शास्ति ॥ ११.१३८ ॥

अस्थन्वतां तु सत्त्वानां सहस्रस्य प्रमापणे ।
पूर्णे चानस्य् अनस्थ्नां तु शूद्रहत्याव्रतं चरेत् ॥ ११.१३९ ॥

भारुचिः ...{Loading}...

समुदायहिंसां परिज्ञायास्थिमतां च शूद्रस्यावृत्तस्य हिंसायां यत् प्रायश्चित्तं तच् चरेत् । एतेषाम् एव प्रत्येकं हिंसायाम् अधुनोच्यते ॥ ११.१३९ ॥

किंचिद् एव तु विप्राय दद्याद् अस्थिमतां वधे ।
अनस्थ्नां चैव हिंसायां प्राणायामेन शुध्यति ॥ ११.१४० ॥

भारुचिः ...{Loading}...

> किंचिद् एव तु विप्राय दद्याद् अस्थिमतां वधे ।

प्रत्येकम् इत्य् अस्यारम्भसामर्थ्याद् विज्ञायते ।

> अनस्थ्नां चैव हिंसायां प्राणायामेन शुध्यति ॥ ११.१४० ॥

कृमिकीटवयोहत्या मलिनीकरणेषूक्ताः । एवं च सति तदीयं प्रायश्चित्तं समानाश्रयत्वाद् अनेन विकल्पेन ॥ ११.१४० ॥

फलदानं तु वृक्षाणां छेदने जप्यम् ऋक्सतम् ।
गुल्मवल्लीलतानां च पुष्पितानां च वीरुधाम् ॥ ११.१४१ ॥

भारुचिः ...{Loading}...

एतच् चायज्ञीये छेदन एषां प्रायश्चित्तम् । तथा च वक्ष्यति “वृथालम्भे ऽनुगच्छेद् गाम्” इत्य् एवमादिः ॥ ११.१४१ ॥

अन्नाद्यजानां सत्त्वानां रसजानां च सर्वशः ।
फलपुष्पोद्भवानां च घृतप्राशो विशोधनम् ॥ ११.१४२ ॥

भारुचिः ...{Loading}...

पूर्वओ ऽस्थिमदनस्थिमद्विधिर् अन्नादिजातेभ्यो ऽन्यत्र विज्ञेयः, अस्यारम्भसामर्थ्यात् ॥ ११.१४२ ॥

कृष्टजानाम् ओषधीनां जातानां च स्वयं वने ।
वृथालम्भे ऽनुगच्छेद् गां दिनम् एकं पयोव्रतः ॥ ११.१४३ ॥
एतैर् व्रतैर् अपोह्यम् स्याद् एनो हिंसासमुद्भवम् ।
ज्ञानाज्ञानकृतं कृत्स्नं शृणुतानाद्यभक्षणे ॥ ११.१४४ ॥

भारुचिः ...{Loading}...

उपसंहारोपन्यासार्थः श्लोकः ॥ ११.१४४ ॥

अज्ञानाद् वारुणीं पीत्वा संस्कारेणैव शुध्यति ।
मतिपूर्वम् अनिर्देश्यं प्राणान्तिकम् इति स्थितिः ॥ ११.१४५ ॥

भारुचिः ...{Loading}...

तप्तकृच्छ्रसहितेन पुनःसंस्कारेण शुध्यतीत्य् एतद् गौतमाद् विज्ञायते, न संस्कारेण मात्रेण तस्यात्यन्ताल्पत्वात् । तथा च गौतमः- “अमत्या मद्यपाने पयो घृतम् उदकं वायुं प्रतित्र्यहं तप्तानि स कृच्छ्रस् ततो ऽस्य संस्कारः” (ग्ध् २३.२) इति । इहापि चाभक्ष्यप्र्करणे कृच्छ्र उक्तः, मूत्रादिप्राशने सप्रत्यये “मत्या भुक्त्वाचरेत् कृच्छ्रं रेतो विण्मूत्रम् एव च” इति । स च तप्तकृच्छ्रो गौतमीयाद् एव । अत्र पुनःसंस्कारः सहकारित्वेन प्रायस्चित्ततया विज्ञायते । एवं च सति न मुख्यसुरायाः पैष्ट्या अमत्या पान एतत् प्रायस्चित्तम्, किं तर्हि गौडीमाद्व्योर् अमत्या पाने, तत्प्रत्यासत्तेः । तथा च तत्र गौडीमाध्व्योर् [मत्या पा]ने कणपिण्याकम् अब्दं प्रायश्चित्तम् उक्तम्, न पैष्ट्यं प्राणान्तिकप्रायश्चित्तवैकल्पिकम् । इतरथा हि समानार्थत्वे को दैवशप्तो लघुप्रायश्चित्तं परित्यज्य कणादिभक्षणम् अत्यन्ताभिप्रेतमूलहरं प्राणान्तिकं कुर्यात् । तथा च स्मृत्यन्तरम्- “[अ]सुरामद्यपाने चान्द्रायणम् अभ्यसेत्” इति । एवं च सति मुख्यसुरापानप्रायश्चित्तस्य प्राणान्तिकाख्यस्यानेन लघुनात्यन्तविप्रकर्षात्, गौडीमाध्व्योर् एवामत्यापान एतत् प्रायश्चित्तम् । न च सप्रत्ययाप्रत्ययव्यतिक्रमप्रायश्चित्तयोर् एकविषययोर् इवाभेद उपपद्यते । यथान्यत्र । एत्च् च सकृत् पाने असुरामद्ययोः प्रायश्चित्तं सामर्थ्याद् विज्ञायते । तथा च स्मृत्यन्तरम्-

> प्रमादान् मद्यम् असुरां सकृत् पीत्वा द्विजोत्तमः ।
> गोमूत्रयावकाहारो दशरात्रेण शुध्यति ॥ इति ।

मतिपूर्वं तु गौडीमाध्वयोः पानम् अभ्यसतः अनिर्देश्यम् इदं प्रायश्चित्तम् । किं तर्ह्य् अस्यान्यत् प्राणान्तिकम् एव सप्रत्ययाभ्यासदोषाधिक्येन यथा पैष्ट्याः इति । एतस्माद् एव च सामर्थ्यान् मुख्यसुरापाने ऽप्य् अप्रत्यये सप्रत्ययप्रायश्चित्ताद् ईषद् ऊनं प्रायस्चित्तान्तरम् उत्प्रेक्ष्यम् । तथा च वक्ष्यति- “शक्तिं चावेक्ष्य पापं च प्रायश्चित्तम् प्रकल्पयेत्” इति ॥ ११.१४५ ॥

अपः सुराभाजनस्था मद्यभाण्डस्थितास् तथा ।
पञ्चरात्रं पिबेत् पीत्वा शङ्खपुष्पीश्रितं पयः ॥ ११.१४६ ॥

भारुचिः ...{Loading}...

अपः सुराभाजनस्थाः पीत्वा कस्य तत्र प्रतिषेधः, यथासंभवं द्विजातेः । पञ्चरात्रं पिबेच् छङ्खपुष्पीश्रितं पयः । एवं चास्यान्याहारप्रतिषेधः । रसस्य चाग्रहण इदं प्रायश्चित्तम् । रसस्य ग्रहणे सुरापानप्रायश्चित्तम् एव न्याय्यम् । असुरामद्यभाण्डस्थितास् त्व् अपः पीत्वा तदूनं न्याय्यं प्रायश्चित्तम् । तथा च कृतविभागप्रायश्चित्ते ते मुख्यामुख्यसुरे पूर्वत्र, तत्सामर्थ्याद् इहापि प्रायश्चित्तयोः पूर्ववद् गुरुलघुत्वविभागो विज्ञेयः, तथा विभागव्याख्यया ॥ ११.१४६ ॥

स्पृष्ट्वा दत्त्वा च मदिरां विधिवत् प्रतिगृह्य च ।
शूद्रोच्छिष्टाश् च पीत्वापः कुशवारि पिबेत् त्र्यहम् ॥ ११.१४७ ॥

भारुचिः ...{Loading}...

विधिवच्छब्दः प्रतिग्रहेणैव संबध्यते स्वस्तिवचनादिना । अथ वा दाने ऽप्य् एष एव विधिर् ज्ञेयः, ब्राह्मणस्य सुराप्रतिग्रहे । तत्प्रतिषिद्धाचरणे कुसवारिपानं त्र्यहम् । पूर्ववच् चाहारप्रतिषेधः । शूद्रोच्छिष्टानां चापां पान एतद् एव स्यात् प्रायश्चित्तम् । अन्नस्य तु शूद्रोच्छिष्टस्यान्यत् प्रायश्चित्तं वक्ष्यति- “सप्तरात्रं यवान् पिबेत्” इति । न चात्रागमप्रमाणे ऽर्थे न्यायावतारो ऽस्ति, यतः नातिशङ्क्य एष शूद्रोच्छिष्टप्रायश्चित्तविकल्पः ॥ ११.१४७ ॥

ब्राह्मणस् तु सुरापस्य गन्धम् आघ्राय सोमपः ।
प्राणान् अप्सु त्रिर् आयम्य घृतं प्राश्य विशुद्ध्यति ॥ ११.१४८ ॥

भारुचिः ...{Loading}...

सुरापस्य सुरागन्धम् आघ्राय्ऐतत् प्रायश्चित्त्म् कुर्यात्, नान्यम् । तच्छरीरगन्धम् । एवं च सुरायान्यत्रावस्थिताया अपि गन्धोपलब्धाव् एतद् एव प्रायश्चित्तम् एतस्मात् सामर्थ्याद् विज्ञायते । सोमपाशब्दविशेषणेन चासोमपानां ब्राह्मणानाम् अत्र लघुतरं प्रायश्चित्तं स्यात् ॥ ११.१४८ ॥

अज्ञानात् प्राश्य विण्मूत्रं सुरासंस्पृष्टम् एव च ।
पुनः संस्कारम् अर्हन्ति त्रयो वर्णा द्विजातयः ॥ ११.१४९ ॥

भारुचिः ...{Loading}...

सुरासंस्पृष्टं चसति रसग्रहणे विज्ञेयम् । एतस्मिन् व्यभिचारे पुनः संस्कारः द्विजातीनां स्मृत्यन्तरसामर्थ्याच् च सतप्तकृच्छ्रः । तथा च गौतमीयम् अत्रोपसंहरणीयम् (?)- “मूत्रपुरीषरेतसां च प्राशने” (ग्ध् २३.३) इति एतत् । एवं च सति तप्तकृच्छ्रपुनःसंस्कारौ समुच्चितौ प्रायश्चित्तम्, न पुनः संस्कारमात्रम् । अत्यन्तलघुत्वाद्, इहापि च “मत्या भुक्त्वाचरेत् कृच्छ्रं रेतो विण्मूत्रम् एव च” इत्य् उक्तम् अभोज्यप्रकरणे । अत ब्रूयात् तत्र मतिपान उक्तो मूत्रादीनां कृच्छ्रः, इह त्व् अमत्येति । सत्यम् एतत्, कल्पान्तरत्वात् तु सप्रत्ययाप्रत्ययव्यतिक्रमयोर् अविरोध इति । पुनःसंस्कारगर्हणाच् च सर्वस्मिंस् तद्धर्मे प्राप्त इदं नियमार्थम् आरभ्यते ॥ ११.१४९ ॥

वपनं मेखला दण्डो भैक्षचर्या व्रतानि च ।
निवर्तन्ते द्विजातीनां पुनः संस्कारकर्मणि ॥ ११.१५० ॥

भारुचिः ...{Loading}...

निगदव्याख्यातः श्लोकः ॥ ११.१५० ॥

अभोज्यानां तु भुक्त्वान्नं स्त्रीशुद्रोच्छिष्टम् एव च ।
जग्ध्वा मांसम् अभक्ष्यं च सप्तरात्रं यवान् पिबेत् ॥ ११.१५१ ॥

भारुचिः ...{Loading}...

पतिग्रहणे च तत्स्त्रीग्रहणे द्विजातिनिर्देशसामर्थ्याद् एव सिद्धे पुनस् तद्ग्रहणं सर्ववर्णार्थम् इदं विज्ञेयम् । एषु सप्तरात्रं यवान् पिबेत् । अत्र च पानोपदेशाद् यवैः पिष्टैर् यवागुर् उपदिस्यते, येन द्रवद्रव्यसाधना हि पानक्रिया । अभोज्यश् च स्नातकव्रतकाध्याये व्याख्यातः ॥ ११.१५१ ॥

शुक्तानि च कषायांश् च पीत्वा मेध्यान्य् अपि द्विजः ।
तावद् भवत्य् अप्रयतो यावत् तन् न व्रजत्य् अधः ॥ ११.१५२ ॥

भारुचिः ...{Loading}...

मेध्यानि यानि प्रतिषिद्धानि । अत्र चापकरणम् एव प्रायश्चित्तं नायत् ॥ ११.१५२ ॥

विड्वराहख्रोष्ट्राणां गोमयोः कपिकाकयोः ।
प्राश्य मूत्रपुरीषाणि द्विजश् चान्द्रायणं चरेत् ॥ ११.१५३ ॥

भारुचिः ...{Loading}...

अमत्या प्राशनम् एषाम् एतद् अधिकारात् । तथा चोत्तरश्लोके विक्ष्यति- “अज्ञातं चैव सूनास्थम्” इति । मतिपूर्वे तु प्राशन एषां गुरुतरं प्रायश्चित्तं प्रकल्प्यं परिषदा ॥ ११.१५३ ॥

शुष्काणि भुक्त्वा मांसानि भौमानि कवकानि च ।
अज्ञातं चैव सूनास्थम् एतद् एव व्रतं चरेत् ॥ ११.१५४ ॥

भारुचिः ...{Loading}...

द्विजश् चान्द्रायणं चरेद् इति द्विजग्रहणात् प्रकरणाच् चात्र शूद्रस्य व्यतिक्रमे प्रायश्चित्ताभावः । ब्राह्मणापाश्रितशूद्रस्य हि “यथा यथा हि सद्वृत्तम् आतिष्ठन्त्य् अनुसूयकः” इति वचनात् पाक्षिकं स्यात् प्रायश्चित्तं प्रतिषेधात् ॥ ११.१५४ ॥

क्रव्यादसूकरोष्ट्राणां कुक्कुटानां च भक्षणे ।
नरकाकखराणां च तप्तकृच्छ्रो विशोधनम् ॥ ११.१५५ ॥

भारुचिः ...{Loading}...

क्रव्यादा गृध्रादयः, सूकरो विड्वराहः, खरादिसाहचर्याद् गम्यते । एवं कुक्क्टो ग्रामकुक्कुटो विज्ञेयः । तस्य प्रतिषेधात् पूर्वत्र, खरादिसाहचर्याद् वा । एवं च मांसभक्षणप्रतिषेधो विज्ञेयः । तत्र मूत्रपुरीषं प्रतिषिद्धम् विड्वराहश्लोके । येषाम् अपि क्रव्यादप्रभृतीनां तत्र मूत्रपुरीषम् अप्रतिषिद्धम्, तेषाम् अपीह खरादिसाहचर्यात् प्रतिषिद्धं तद् विज्ञेयम् ॥ ११.१५५ ॥

मासिकान्नं तु यो ऽश्नीयाद् असमावर्तको द्विजः ।
स त्रीण्य् अहान्य् उपवसेद् एकाहं चोदके वसेत् ॥ ११.१५६ ॥

भारुचिः ...{Loading}...

स्वयंप्रार्थनया प्रार्थितस्यैतत् प्रायश्चित्तं मासिकान्नभोजने । यस्माद् उक्तम् “कामम् अभ्यर्थितो ऽश्नीयात्” इत्य् एवमादि इतरथा हि विहितप्रतिषेधः प्रसज्येत । तथा चोक्तम्, “व्रतस्थम् अपि दौहित्रं कामं श्राद्धं नियोजयेत्” इति । एवं सत्य् अस्मात् प्रायस्चित्तोपदेशात् विशेषप्रतिषेधो ऽयं विज्ञेयः । नात्यन्तप्रतिषेधः ॥ ११.१५६ ॥

व्रतचारी तु यो ऽश्नीयान् मधु मांसं कथंचन ।
स कृत्वा प्राकृतं कृच्छ्रं व्रतसेषं समापयेत् ॥ ११.१५७ ॥

भारुचिः ...{Loading}...

श्राद्धे, अन्यत्र वा ॥ ११.१५७ ॥

बिडालकाकाखुच्छिष्टं जग्ध्वाश्वनकुलस्य च ।
केशकीटावपन्नं च पिबेद् ब्रह्मसुवर्चलाम् ॥ ११.१५८ ॥

भारुचिः ...{Loading}...

एकाहम् अविसेषोपदेशात् । एतेषाम् उच्छिष्टभक्षण एतत्प्रायश्चित्तम् । एवं च काकादीनां प्रतिषिद्धानि धर्मशास्त्रे उच्छिष्टमूत्रपुरीषमांसभक्षणानि श्लोकत्रयेण । विड्वराहश्लोके मूत्रपुरीषप्रतिषेधः, क्रव्यादसूकरश्लोके मांसभक्षणस्य, बिडालकाकाखूच्छिष्टम् इत्य् अत्रोच्छिष्टस्य । एवं च सति य एकत्रोपदिष्टा अन्यत्र श्लोके नोपदिश्यन्ते कुक्कुटादयस्, तेषां साहचर्याच् छ्लोकत्रये ऽपि ग्रहणं विज्ञेयम् । तच् चैतद् एवम् अतः ॥ ११.१५८ ॥

अभोज्यम् अन्नं नत्तव्यम् आत्मनः सुद्धिम् इच्छता ।
अज्ञातजग्धम् उद्गार्यं शोध्यं वाप्याशु शोधनैः ॥ ११.१५९ ॥
एषो ऽनाद्यादनस्योक्तो व्रतानां विविधो विधिः ।
स्तेयदोषापहर्तॄणां व्रतानां श्रूयतां विधिः ॥ ११.१६० ॥

भारुचिः ...{Loading}...

निगदव्याख्यातः श्लोकः ॥ ११.१६० ॥

धान्यान्नधनचौर्याणि कृत्वा कामाद् द्विजोत्तमः ।
स्वजातीयगृहाद् एव कृच्छ्राब्देन विशुध्यति ॥ ११.१६१ ॥

भारुचिः ...{Loading}...

धान्यं व्रीह्यादि । अन्नं तद् एव संस्कृतं भोजनीयम् । धनं सुवर्णम् अन्यद् [वा] वस्त्रादि । धनशब्देनैव च सर्वगृहीतत्वाद् धान्यादिनिदेशो गोबलीवर्दवद् एव । एतद् उक्तं भवति, “यत् किंचिद् अपहत्या” इति । कामाद् इति चाविवक्षितम् एव । न ह्य् अन्यत्र विनियोगो ऽस्ति, यथा सुरापानप्रायश्चित्ते । द्विजोत्तमशब्दस् च ब्राह्मणनिर्देशार्थः, अपिशब्दश् चात्र सामर्थ्याल् लुप्तनिर्देशो द्रष्टव्यः, ब्राह्मणो ऽपि ब्राह्मणगृहाद् अपहृत्येत्य् अर्थः । एवं च सति दण्डेनापूपो व्याख्यात इति । क्षत्रियादीनाम् अप्य् एतत् प्रायश्चित्तं भवति । इतरथा हि स्वजातीयगृहाद् इति क्षत्रियादीनां क्षत्रियादिगृहेभ्य एवैतत् प्रायश्चित्तं स्यात्, ब्राह्मणगृहात् तु सामान्यविहितं प्रायश्चित्तं चान्द्रायणादि स्यात् । न चैतद् इष्टम्, महत्त्वात् कृच्छ्राब्दप्रायस्चित्तस्य । तस्माद् इदं प्रायश्चित्तं सर्वेषाम् एव ब्राह्मणादीनां ब्राह्मणस्वहरणे स्यत्, ब्रह्महत्या प्रायस्चित्तवत् । एवम् इतरत्रापि विज्ञेयम् ॥ ११.१६१ ॥

मनुष्याणां तु हरणे स्त्रीणां क्षेत्रगृहस्य च ।
कूपवापिजलानां च शुद्धिश् चान्द्रायणं स्मृतम् ॥ ११.१६२ ॥

भारुचिः ...{Loading}...

जलाहरणम् आत्मोपभोगार्थं प्रतिषिद्धम् । कूपवाप्यादेस् त्व् आहरणं परोपभोगार्थम् अपि । अतस् तयोः स्वकाभिसंबन्धमत्रत्वाद् एवापहरणदोष इत्य् एतस्माद् वैलक्षण्यात् पृथग्ग्रहणम् । अन्यो वा समाधिर् वक्तव्यः ॥ ११.१६२ ॥

द्रव्याणाम् अल्पसाराणां स्तेयं कृत्वान्यवेश्मतः ।
चरेत् सान्तपनं कृच्छ्रं तन् निर्यात्य् आत्मशुद्धये ॥ ११.१६३ ॥

भारुचिः ...{Loading}...

अल्पसाराणाम् अल्पमूल्यानाम् अल्पोपभोगानां वा । भक्ष्यभोज्यादिष्व् अन्यस्य द्रव्यजातस्य गृहीतत्वात् त्रपुसीसादीनाम् इदं ग्रहणं विज्ञेयम् ॥ ११.१६३ ॥

भक्ष्यभोज्यापहरणे यानशय्यासनस्य च ।
पुष्पमूलफलानां च पञ्चगव्यं विशोधनम् ॥ ११.१६४ ॥

भारुचिः ...{Loading}...

अत्र च संख्या भक्ष्यभोज्यादीनाम् आवृत्त्यपेक्षया सप्रत्ययाप्रत्ययतो वा ॥ ११.१६४ ॥

तृणकाष्ठद्रुमाणां च शुष्कान्नस्य गुडस्य च ।
चेलचर्मामिषाणां च त्रिरात्रं स्याद् अभोजनम् ॥ ११.१६५ ॥

भारुचिः ...{Loading}...

तृणादीनां सारापेक्षया प्रायश्चित्तम् । सत्य् अपि च पेयत्वे पय आदीन्य् अपि भक्ष्यभोज्यान्तर्भूतानि द्रष्टव्यानि । शुष्कान्नं पर्पटकादि । गुडग्रहणं सर्वगुडविकारार्थम् । चेलग्रहणं शाणक्षौमदुकूलाद्यर्थम् । कार्पासादीनां त्व् अन्यत् प्रायश्चित्तं वक्ष्यति ॥ ११.१६५ ॥

मणिमुक्ताप्रवालानां ताम्रस्य रजतस्य च ।
अयःकांस्योपलानां च द्वादशाहं कणान्नता ॥ ११.१६६ ॥

भारुचिः ...{Loading}...

अत्रापि सारासारापेक्षया सकृद् धरणे आवृत्तौ च ॥ ११.१६६ ॥

कार्पासकीटजीर्णानां द्विसफैकशफस्य च ।
पक्षिगन्धौषधीनां च रज्ज्वाश् चैव त्र्यहं पयः ॥ ११.१६७ ॥

भारुचिः ...{Loading}...

पूर्ववद् अत्राप्य् अपेक्षा योजनीया । हस्त्यादीनां च सामान्यविहितम् अन्यद् द्रष्टव्यम् इति ॥ ११.१६७ ॥

एतैर् व्रतैर् अपोहेत पापं स्तेयकृतं द्विजः ।
अगम्यागमनीयं तु व्रतैर् एभिर् अपानुदेत् ॥ ११.१६८ ॥
गुरुतल्पव्रतं कुर्याद् रेतः सिक्त्वा स्वयोनिषु ।
सख्युः पुत्रस्य च स्त्रीषु कुमारीष्व् अन्त्यजासु च ॥ ११.१६९ ॥

भारुचिः ...{Loading}...

अकुमारीष्व् अपि चण्डालादिस्त्रीषु चान्यद् अपि प्रायश्चित्तम् वक्ष्यति । “चण्डालान्त्यस्त्रियो गत्वा” इत्य् एवमादि ॥ ११.१६८–१६९ ॥

पैतृष्वसेयीं भगिनीं स्वस्रीयां मातुर् एव च ।
मातुश् च भ्रातुस् तनयां गत्वा चान्द्रायणं चरेत् ॥ ११.१७० ॥
एतास् तिस्रस् तु भार्यार्थे नोपयच्छेत् तु बुद्धिमान् ।
ज्ञातित्वेनानुपेयास् ताः पतति ह्य् उपयन्न् अधः ॥ ११.१७१ ॥

भारुचिः ...{Loading}...

मातृषवसृमातुलदुहित्रोस् त्व् “असपिण्डास् च याः मातुः” इत्य् अनेन सिद्धे प्रतिषेधे पैतृषवस्रेय्याः प्रतिषेधार्थं पुनर् इह ग्रहणम् । अनुवादार्थो वायं श्लोको वर्णनीयः, “असपिण्डा च या मातुः” इत्य् अनेनैव सिद्धात्वाद् इति ॥ ११.१७०–१७१ ॥

अमानुषीषु पुरुष उदक्यायां अयोनिषु ।
रेतः सिक्त्वा जले चैव कृच्छ्रं सान्तपनं चरेत् ॥ ११.१७२ ॥

भारुचिः ...{Loading}...

“अमानुषीष्व् अनङ्गे च पैशाच्यां चैव योषिति” इत्य् अपरः पाठो ऽस्य श्लोकार्धस्य । “खे च” इत्य् अपरे पठन्ति । अमानुषीषु बडबाद्यासु । पुरुषे चानङ्गे । उदक्या प्रसिद्धा । अयोनौ च जले च रेतः सिक्त्वा । व्यवहितेषु वक्ष्यत्य् अनन्तरश्लोके नौप्रभृतिषु । कृच्छ्रं सान्तपनं चरेत् । तच् च वक्ष्यति । बडबादिवद् गवि प्रायश्चित्तम् नयम् एतत् । अतस् तस्यानुक्तत्वात् स्मृत्यन्तराद् वर्णनीयम्- " । । । स्नुषायां गविच् च [गुरु]तल्पसमः” इति ॥ ११.१७२ ॥

मैथुनं तु समासेव्य पुंसि योषिति वा द्विजः ।
गोयाने ऽप्सु दिवा चैव सवासाः स्नानम् आचरेत् ॥ ११.१७३ ॥

भारुचिः ...{Loading}...

पुंस्य् उपरिभोग्ये पूर्वश्लोक उक्तं प्रायश्चित्तं गुरु । इदं त्व् अन्यद् अन्यत्र प्रदेशे लघु प्रायस्चित्तम् । योषिति वा द्विज इति द्विजग्रहणं विसेषार्थम् । तत्स्त्रीपुंसयोर् मैथुनं विसेषयति । गोयाने ऽप्सु च याने दिवा चैवायाने ऽपि सवासाः स्नानम् आचरेत् । सवस्त्रस्नानोपदेशाच् च नित्याद् अधिकं विशिष्टम् इदं नैमित्तिकं स्नानम् उच्यते ॥ ११.१७३ ॥

चण्डालान्त्यस्त्रियो गत्वा भुक्त्वा च प्रतिगृह्य च ।
पतत्य् अज्ञानतो विप्रो ज्ञानात् साम्यं तु गच्छति ॥ ११.१७४ ॥

भारुचिः ...{Loading}...

चण्डालो ऽन्त्यो येषाम्, आयोगवादीनां शूद्रप्रभवानां त इमे चण्डालान्त्याह् । तेषां स्त्रीप्रतिषेधः । प्रायश्चित्तं तु वक्ष्यामः । पतनसाम्ययोः को विशेषः । प्रायश्चित्तेन प्रत्याहारः पतने, प्रायश्चित्ताभावस् तु साम्ये विज्ञेयः ॥ ११.१७४ ॥

विप्रदुष्टां स्त्रियं भर्ता निरुन्ध्याद् एकवेश्मनि ।
यत् पुंसः परदारेषु तच् चैनां चारयेद् व्रतम् ॥ ११.१७५ ॥
सा चेत् पुनः प्रदुष्येत् तु सदृशेनोपमन्त्रिता ।
कृच्छ्रं चान्द्रायणं चैव तद् अस्याः पावनं स्मृतम् ॥ ११.१७६ ॥

भारुचिः ...{Loading}...

ऋज्वर्थः श्लोकः । एतावांस् तु विशेषः । यत् पुंसः स्त्रीसंपर्के तद् एव तस्या अपि स्त्रियाः पुरुषसंपर्के । तद् यथा यच् छूद्रस्य ब्राह्मणीगमने, तद् एव ब्राह्मण्या अपि शूद्रसंपर्के । एवं सर्वसंपर्के व्याख्येयम् ॥ ११.१७५–१७६ ॥

यत् करोत्य् एकरात्रेण वृषलीसेवनाद् द्विजः ।
तद् भैक्षभुग् जपन् नित्यं त्रिभिर् वर्षैर् व्यपोहति ॥ ११.१७७ ॥

भारुचिः ...{Loading}...

चण्डालान्त्यस्त्रीगमने प्रायश्चित्तस्याविधानात्, शूद्रायाः वृषल्याः पक्षे गम्यत्वाद् अनधिकृतत्वाच् च, चण्डालान्त्यस्त्रीगमन इदं प्रायश्चित्तं द्रष्टव्यम्, अधिकृतत्वात् तस्या इति । अपरे त्व् अक्रोधां शूद्रां वृषलीम् आहुः । पाठान्तरं च कुर्वन्ति “त्रिभिर् मासैः” इति । तत् पुनर् न न्याय्यम् अनधिकृतत्वात् तस्या इत्य् अपरे ॥ ११.१७७ ॥

एषा पापकृताम् उक्ता चतुर्णाम् अपि निष्कृतिः ।
पतितैः संप्रयुक्तानाम् इमाः शृणुत निष्कृतीः ॥ ११.१७८ ॥
संवत्सरेण पतति पतितेन सहाचरन् ।
याजनाध्यापनाद् यौनान् न तु यानाशनासनात् ॥ ११.१७९ ॥

भारुचिः ...{Loading}...

यानाशनासनैर् न संवत्सरेण, किं तर्हि सद्य एव । ऊर्ध्वं तस्मात् कालाद् अर्वाग् वा संवत्सराद् यानाशनासनमाग्रेणेति सामर्थ्याद् इदं वचनीयम् । अथ वास्यान्यो ऽर्थः स्मृत्यन्तराद् उच्यते । व्यवहितकल्पनया संवत्सरेण पतति यानाशनासनात्न तु याजनाध्यापनाद् यौनात्, किं तर्हि एभिर् याजनादिभिः सद्यः पतति । स्मृत्यन्तरदर्शनात् । संपर्कसादृश्येन च पतनं कल्पयितव्यम् । तदीयं च तस्य प्रायश्चित्तम् । तथा च दर्शयति ॥ ११.१७८–१७९ ॥

यो येन पतितेनैषां संसर्गं याति मानवः ।
स तस्यैव व्रतं कुर्यात् तत्संसर्गविशुद्धये ॥ ११.१८० ॥

भारुचिः ...{Loading}...

इदम् अपि च प्रायश्चित्तं महापातकिभिर् एव संबन्धे स्यात्, गोघातादिसंबन्धे तु सामान्यविहितं कल्प्यम् ॥ ११.१८० ॥

पतितस्योदकं कार्यं सपिण्डैर् बान्धवैर् बहिः ।
निन्दिते ऽहनि सायाह्णे ज्ञात्यृत्विग्गुरुसंनिधौ ॥ ११.१८१ ॥

भारुचिः ...{Loading}...

जीवत एवेत्य् अर्थः । तस्यायं विधिर् उच्यते ॥ ११.१८१ ॥

दासी घटम् अपां पूर्णं पर्यस्येत् प्रेतवत् सदा।
अहोरात्रं उपासीरन्न् अशौचं बान्धवैः सह ॥ ११.१८२ ॥
निवर्तेरंश् च तस्मात् तु संभाषणसहासने ।
दायाद्यस्य प्रदानं च यात्रा चैव हि लौकिकी ॥ ११.१८३ ॥
ज्येष्ठता च निवर्तेत ज्येष्ठावाप्यं च यद् धनम् ।
ज्येष्ठांशं प्राप्नुयाच् चास्य यवीयान् गुणतो ऽधिकः ॥ ११.१८४ ॥
प्रायश्चित्ते तु चरिते पूर्णकुम्भम् अपां नवम् ।
तेनैव सार्धं प्रास्येयुः स्नात्वा पुण्ये जलाशये ॥ ११.१८५ ॥
स त्व् अप्सु तं घटं प्रास्य प्रविश्य भवनं स्वकम् ।
सर्वाणि ज्ञातिकार्याणि यथा पूर्वं समाचरेत् ॥ ११.१८६ ॥

भारुचिः ...{Loading}...

इमे अपि पात्रविपर्यासोद्धरणे षट्स्लोकोक्ते महापातकसंबन्ध एव स्यात् । तच् चोक्तम् “पतितस्योदकं कार्यम्” इत्य् एवमादि । स्मृत्यन्तरे तु “त्यजेत् पितरम्” इत्य् एवमादि केषांचिद् एव ॥ ११.१८२–१८६ ॥

एतम् एव विधिं कुर्याद् योषित्सु पतितास्व् अपि ।
वस्त्रान्नपानं देयं तु वसेयुश् च गृहान्तिके ॥ ११.१८७ ॥

भारुचिः ...{Loading}...

निगदव्याख्यातः श्लोकः ॥ ११.१८७ ॥

एनस्विभिर् अनिर्णिक्तैर् नार्थं किंचित् सहाचरेत् ।
कृतनिर्णेजनांश् चैव न जुगुप्सेत कर्हिचित् ॥ ११.१८८ ॥

भारुचिः ...{Loading}...

“सर्वाणि ज्ञातिकार्याणि” इति महापातकेभ्यो ऽनुज्ञानात् गोवधार्थं प्रकल्प्यते । “न संसर्गं व्रजेत् सद्भिः प्रायस्चित्ते ऽकृते सति” इत्य् उभयत्रापि शक्यः संपर्को ज्ञापयितुम् । बालघ्नाद्यर्थं तु पुनर् अपोद्यते ॥ ११.१८८ ॥

बालघ्नांश् च कृतघ्नांश् च विशुद्धान् अपि धर्मतः ।
शरणागतहन्तॄंश् च स्त्रीहन्तॄंश् च न संवसेत् ॥ ११.१८९ ॥

भारुचिः ...{Loading}...

संपर्कापवादार्थो ऽस्यारंभः । अथ वा प्रत्यवायातिशयज्ञापनार्थः ॥ ११.१८९ ॥

येषां द्विजानां सावित्री नानूच्येत यथाविधि ।
तांश् चारयित्वा त्रीन् कृच्छ्रान् यथाविध्य् उपनाययेत् ॥ ११.१९० ॥

भारुचिः ...{Loading}...

त्रयः कृच्छ्राः, आद्यत्वात् प्राजापत्याः । कृच्छ्रातिकृच्छ्रपराका इत्य् अपरे ॥ ११.१९० ॥

प्रायश्चित्तं चिकीर्षन्ति विकर्मस्थास् तु ये द्विजाः ।
ब्रह्मणा च परित्यक्तास् तेषाम् अप्य् एतद् आदिशेत् ॥ ११.१९१ ॥

भारुचिः ...{Loading}...

अनधीतवेदा विकर्मस्थाश् च ये ऽधीतवेदा अपि तेषां अपीदं प्रायश्चित्तम् । यद् अस्य प्रतिषिद्धं तत् तस्य् विकर्म । यथा शूद्रसेवनम् आर्याणाम् ॥ ११.१९१ ॥

यद् गर्हितेनार्जयन्ति कर्मणा ब्राह्मणा धनम् ।
तस्योत्सर्गेण शुध्यन्ति जप्येन तपसैव च ॥ ११.१९२ ॥

भारुचिः ...{Loading}...

पूर्वस्मिन् श्लोके द्विजातीनाम् अधिकृतत्वाद् यद् गर्हितेनार्जयन्ति कर्मणा ब्राह्मणा धनम् इतीदं ब्राह्मणग्रहणं सर्वद्विजप्रदर्शनार्थं विज्ञायते । जप्यतपसोर् गर्हितेषु सामान्यतो ऽभिधानाद् यो यत्र विशेषेण विहितः स तत्र प्रत्येतव्यः । तयोस् च प्राप्तयोर् अपि सतोर् धनोत्सर्गार्थं ग्रहणम् ॥ ११.१९२ ॥

जपित्वा त्रीणि सावित्र्याः सहस्राणि समाहितः ।
मासं गोष्ठे पयः पीत्वा मुच्यते ऽसत्प्रतिग्रहात् ॥ ११.१९३ ॥

भारुचिः ...{Loading}...

असत्प्रतिग्रहस्य विशेषविधिः ॥ ११.१९३ ॥

उपवासकृशं तं तु गोव्रतात् पुनर् आगतम् ।
प्रणतं प्रति पृच्छेयुः साम्यं सौम्येच्छसीति किम् ॥ ११.१९४ ॥
सत्यम् उक्त्वा तु विप्रेषु विकिरेद् यवसं गवाम् ।
गोभिः प्रवर्तिते तीर्थे कुर्युस् तस्य परिग्रहम् ॥ ११.१९५ ॥

भारुचिः ...{Loading}...

ऋज्वर्थं श्लोकद्वयम् ॥ ११.१९४–१९५ ॥

व्रात्यानां याजनं कृत्वा परेषाम् अन्त्यकर्म च ।
अभिचारम् अहीनं च त्रिभिः कृच्छ्रैर् विशुध्यति ॥ ११.१९६ ॥

भारुचिः ...{Loading}...

परेषाम् असंबन्धानाम् इत्य् अर्थः । तथा चोक्तम्-

> गुरोः प्रेतस्य शिष्यस् तु पितृमेधं समाचरन् ।
> प्रेताहारैः समं तत्र दशरात्रेण शुध्यति ॥ इति ।

याजनाधिकाराच् चाभिचाराहीनयोर् अपि याजनार्थं वचनम् । न त्व् आत्मार्थे प्रतिषेधः । एवं च श्रुतिर् “अहीनयाजनम् अकार्यम्” इति । अनभिचरणीयाभिचारे चैतत् प्रायश्चित्तम् । तथा चोक्तो ऽभिचरणीयाभिचारः, “वाक्शस्त्रं वै ब्राह्मणस्य तेन हन्याद् अरीन् द्विजः” इति ॥ ११.१९६ ॥

शरणागतं परित्यज्य वेदं विप्लाव्य च द्विजः ।
संवत्सरं यवाहारस् तत्पापम् अपसेधति ॥ ११.१९७ ॥

भारुचिः ...{Loading}...

एवं च सति विद्वद्भिः प्रायश्चित्ती शरणागतो न परित्यजनीयः, किं तर्हि देयम् एव तस्य यथाशास्त्रं प्रायश्चित्तम् । अथ वा लोकप्रसिद्ध एव शरणागतः तत्परित्यागे, उभयोर् वा । वेदविप्लावनम् अनध्याप्याध्यापनम् अनुयोगदानं वा धनार्थम् । तथा च स्मृत्यन्तरम् “दत्त्वानुयोगान् धनहेतोः पतितान् मनुर् अब्रवीत्” इति ॥ ११.१९७ ॥

श्वसृगालखरैर् दष्टो ग्राम्यैः क्रव्याद्भिर् एव च ।
नराश्वोष्ट्रवराहैश् च प्राणायामेन शुध्यति ॥ ११.१९८ ॥
षष्ठान्नकालता मासं संहिताजप एव वा ।
होमाश् च शाकला नित्यम् अपाङ्क्त्यानां विशोधनम् ॥ ११.१९९ ॥

भारुचिः ...{Loading}...

अपाङ्क्त्याः स्तेनपतितादयः । तथा चोक्तम्- “ये स्तेनपतितक्लीबाः” इत्य् एव्मादि । तेषां यान्य् अविहितप्रायश्चित्तान्य् अपङ्क्त्यकरणानि । तत्रेदं प्रायश्चित्तम् पूगयाजनादौ । शाकलहोमानां न विकल्पः पूर्वेण नित्यवचनात् ॥ ११.१९८–१९९ ॥

उष्ट्रयानं समारुह्य खरयानं तु कामतः ।

दण्डापूपिकया चोष्ट्रखरयोर् अव्यवधान एतद् एव स्यात्, ईषद् अधिकं वा ।

स्नात्वा च विप्रो दिग्वासाः प्राणायामेन शुध्यति ॥ ११.२०० ॥
विनाद्भिर् अप्सु वानार्थः शरीरं संनिषेव्य तु ।
सचेदो जलम् आप्लुत्य गाम् आलभ्य विशुध्यति ॥ ११.२०१ ॥

भारुचिः ...{Loading}...

जलग्रहणं च सविधिस्नानार्थम् ॥ ११.२००–२०१ ॥

वेदोदितानां नित्यानां कर्मणां समतिक्रमे ।
स्नातकव्रतलोपे च प्रायश्चित्तम् अभोजनम् ॥ ११.२०२ ॥

भारुचिः ...{Loading}...

नित्यानां प्रधानकर्मणाम् अग्निहोत्रादीनाम् अतिवर्तने ऽभोजनम् । श्रौतं च नानार्थत्वात् समुच्चीयते । गुणकर्मणां वा । स्नातकव्रतलोपे चानिर्दिष्टप्रायश्चित्तम् इदम् एव स्यात् ॥ ११.२०२ ॥

हुङ्कारं ब्राह्मणस्योक्त्वा त्वंकारं च गरीयसः ।
स्नात्वानश्नन्न् अहः शेषम् अभिवाद्य प्रसादयेत् ॥ ११.२०३ ॥

भारुचिः ...{Loading}...

विशिष्टस्नानचोदनेयं नित्यादधिका (?) निमित्तकीति विज्ञेया ॥ ११.२०३ ॥

ताडयित्वा तृणेनापि कण्ठे वाबध्य वाससा ।
विवादे वा विनिर्जित्य प्रणिपत्य प्रसादयेत् ॥ ११.२०४ ॥

भारुचिः ...{Loading}...

विवादश् च लौकिको वा कलहो विज्ञेयः, नेतरः, तस्य वादसंज्ञत्वात् ॥ ११.२०४ ॥

अवगूर्य त्व् अब्दशतं सहस्रम् अभिहत्य च ।
जिघांसया ब्राह्मणस्य नरकं प्रतिपद्यते ॥ ११.२०५ ॥

भारुचिः ...{Loading}...

न परिहासतः ॥ ११.२०५ ॥

शोणितं यावतः पांसून् संगृह्णाति महीतले ।
तावन्त्य् अब्दसहस्राणि तत्कर्ता नरके वसेत् ॥ ११.२०६ ॥

भारुचिः ...{Loading}...

प्रायश्चित्तम् इदानीं तस्य कर्मणो विवक्षन्न् इदम् आह,

अवगूर्य चरेत् कृच्छ्रं अतिकृच्छ्रं निपातने ।
कृच्छ्रातिकृच्छ्रौ कुर्वीत विप्रस्योत्पाद्य शोणितम् ॥ ११.२०७ ॥

भारुचिः ...{Loading}...

सर्वो ब्राह्मणादिवर्णः । “ब्राह्मणस्य रुजःकृत्यम्” इति चैतज् जातिभ्रंशकरमध उपदिष्टम् । यतः तदीयेन प्रायश्चित्तेन कृच्छ्रातिकृच्छ्रौ विकल्पितौ स्याताम् ॥ ११.२०७ ॥

अनुक्तनिष्कृतीनां तु पापानाम् अपनुत्तये ।
शक्तिं चावेक्ष्य पापं च प्रायश्चित्तं प्रकल्पयेत् ॥ ११.२०८ ॥

भारुचिः ...{Loading}...

चण्डालादीनां प्रतिलोमानां हिंसायाम् अनुक्ता निष्कृतिः, अथ वा कारणे कृतानुज्ञायां च नोक्ता निष्कृतिः, ब्राह्मणवधादिषु आयुधदानादिभिर् हन्तुः प्रीत्यर्थम् । एतेषु शक्तिं चावेक्ष्य साधनवयोऽवस्थाशरीरसामर्थ्यकृताम् च पापं च गुरुलघुताविशेषेण सप्रत्ययाप्र्त्ययविशेषेण च । सप्रत्यये ऽपि च क्रोधाद्यनुबन्धेन प्रायश्चित्तं प्रकल्पयेद् इत्य् अर्थः । परिषद् दशावरा त्र्यवरा वा । अथ वा “एको ऽपि वेदविद् धर्मम्” इत्य् वक्ष्यति ॥ ११.२०८ ॥

यैर् यैर् पुपायैर् एनांसि मानवो व्यपकर्षति ।
तान् वो ह्य् उपायान् वक्ष्यामि देवर्षिपितृसेवितान् ॥ ११.२०९ ॥

भारुचिः ...{Loading}...

मानवग्रहणं सर्ववर्णार्थम् । देवादिग्रहणं चाधर्मक्षयोपायस्तुत्यर्थम् ॥ ११.२०९ ॥

त्र्यहं प्रातस् त्र्यहं सायं त्र्यहम् अद्याद् अयाचितम् ।
त्र्यहं परं च नाश्नीयात् प्राजापत्यं चरन् द्विजः ॥ ११.२१० ॥
गोमूत्रं गोमयं क्षीरं दधि सर्पिः कुशोदकम् ।
एकरात्रोपवासश् च कृच्छ्रं सान्तपनं स्मृतम् ॥ ११.२११ ॥

भारुचिः ...{Loading}...

कृच्छ्रसाध्यत्वात् कृच्छ्रप्रतिमो[चन]वचनात् वा कृच्छ्रम् ॥ ११.२१०–२११ ॥

एकैकं ग्रासम् अश्नीयात् त्र्यहाणि त्रीणि पूर्ववत् ।
त्र्यहं चोपवसेद् अन्त्यम् अतिकृच्छ्रं चरन् द्विजः ॥ ११.२१२ ॥
तप्तकृच्छ्रं चरन् विप्रो जलक्षीरघृतानिलान् ।
प्रति त्र्यहं पिबेद् उष्णान् सकृत्स्नायी समाहितः ॥ ११.२१३ ॥
यतात्मनो ऽप्रमत्तस्य द्वादशाहम् अभोजनम् ।
पराको नाम कृच्छ्रो ऽयं सर्वपापापनोदनः ॥ ११.२१४ ॥

भारुचिः ...{Loading}...

स चायं कृच्छ्रातिकृच्छ्रो गौतमीयो ऽभिहितः ॥ ११.२१२–२१४ ॥

एकैकं ह्रासयेत् पिण्डं कृष्णे शुक्ले च वर्धयेत् ।
उपस्पृशंस् त्रिषवणम् एतच् चान्द्रायणं स्मृतम् ॥ ११.२१५ ॥
एतम् एव विधिं कृत्स्नम् आचरेद् यवमध्यमे ।
शुक्लपक्षादिनियतश् चरंश् चान्द्रायणं व्रतम् ॥ ११.२१६ ॥
अष्टाव् अष्टौ समश्नीयात् पिण्डान् मध्यंदिने स्थिते ।
[नियतात्मा हविष्याशी यतिचान्द्रायणं चरन् ॥ ११.२१७ ॥
चतुरः प्रातर् अश्नीयात् पिण्डान् विप्रः समाहितः] ।
चतुरो ऽस्तमिते सूर्ये शिशुचान्द्रायणं स्मृतम् ॥ ११.२१८ ॥
यथा कथंचित् पिण्डानां तिस्रो ऽशीतीः समाहितः ।
मासेनाश्नन् हविष्यस्य चन्द्रस्यैति सलोकताम् ॥ ११.२१९ ॥
एतद् रुद्रास् तथादित्या वसवश् चाचरन् व्रतम् ।
सर्वाकुशलमोक्षाय मरुतश् च महर्षिभिः ॥ ११.२२० ॥
महाव्याहृतिभिर् होमः कर्तव्यः स्वयम् अन्वहम् ।
अहिंसा सत्यम् अक्रोधम् आर्जवं च समाचरेत् ॥ ११.२२१ ॥
त्रिर् अह्नि त्रिर् निशायां च सवासा जलम् आविशेत् ।
स्त्रीशूद्रपतितांश् चैव नाभिभाषेत कर्हिचित् ॥ ११.२२२ ॥
स्थानासनाभ्यां विहरेद् अशक्तो ऽधः सयीत वा ।
ब्रह्मचारी व्रती च स्याद् गुरुदेवद्विजार्चकः ॥ ११.२२३ ॥
सावित्रीं च जपेन् नित्यं पवित्राणि च शक्तितः ।
सर्वेष्व् एव व्रतेष्व् एवं प्रायश्चित्तार्थम् आदृतः ॥ ११.२२४ ॥
एतैर् द्विजातयः शोध्या व्रतैर् आविष्कृतैनसः ।
अनाविष्कृतपापांस् तु मन्त्रैर् होमैर् विशोधनैः॥ ११.२२५ ॥

भारुचिः ...{Loading}...

सप्तदशश्लोकाः कृच्छ्रादिशुद्ध्यर्थाः ऋज्वर्थत्वान् न व्याख्याताः । यथा कथंचिद् इति प्रकृतानुवादः, न विध्यन्तरोपदेशः । अनाविष्कृतपापान् मन्त्रान् होमांश् च वक्ष्यति ॥ ११.२१५–२२५ ॥

ख्यापनेनानुतापेन तपसाध्ययनेन च ।
पापकृन् मुच्यते पापात् तथा दानेन चापदि ॥ ११.२२६ ॥

भारुचिः ...{Loading}...

ख्यापनानुतापनयोः प्रायश्चित्तयोर् अयं विध्यर्थः श्लोकः । तथा च सति तपःप्रभृतीनाम् अत्र दृष्टान्तार्थम् उपादानम्, न स्वार्थम् । तथा दानेन चापदीति वृद्धस्त्रीबालव्याधितादयो दीर्घकालप्रायश्चित्तानुष्ठाने ऽसमर्थास् तपसा दानेन शुध्यन्ते यथा एवं ख्यापनानुतापाभ्याम् । तथा च सति ख्यापनं प्रकाशप्रायश्चित्तेन सह समुच्चीयते सामर्थ्यात्, न केवलम् । अनुतापस् तूभाभ्याम् । तत्र ख्यापनार्थवादः ॥ ११.२२६ ॥

यथा यथा नरो ऽधर्मं स्वयं कृत्वानुभाषते ।
तथा तथा त्वचेवाहिस् तेनाधर्मेण मुच्यते ॥ ११.२२७ ॥

भारुचिः ...{Loading}...

शरीरस्थः पुरुषः शरीरशब्देन स्थानाद् उपचर्यते । मञ्चवत् । येन पुण्यपापयोर् आत्माश्रयः । तथा च ॥ ११.२२७ ॥

कृत्वा पापं हि संतप्य तस्मात् पापात् प्रमुच्यते ।
नैतत् कुर्यात् पुनर् इति निवृत्त्या शुध्यते नरः ॥ ११.२२८ ॥

भारुचिः ...{Loading}...

तथा च सति निवृत्तिर् अपि पूर्ववत् प्रायस्चित्तम् इत्य् एतत् सिद्धम् ॥ ११.२२८ ॥

एवं संचिन्त्य मनसा प्रेत्य कर्मफलोदयम् ।
मनोवाङ्मूर्तिभिर् नित्यं शुभं कर्म समाचरेत् ॥ ११.२२९ ॥

भारुचिः ...{Loading}...

उभयम् अपि निवृत्तिं प्रायश्चित्तं च, येनैकत्रानुत्पत्तिर् एव पापस्य, अन्यत्रोत्पन्नस्य विनाशः । यतश् चैतद् एवम् अतः ॥ ११.२२९ ॥

अज्ञानाद् यदि वा ज्ञानात् कृत्वा कर्म विगर्हितम् ।
तस्माद् विमुक्तिम् अन्विच्छन् द्वितीयं न समाचरेत् ॥ ११.२३० ॥

भारुचिः ...{Loading}...

ज्ञानकृतस्याप्य् अकुशलस्य निवृत्त्या शुद्धिः, किं पुनर् अज्ञानकृतस्येत्य् अनेन दर्शयति ॥ ११.२३० ॥

यस्मिन् कर्मण्य् अस्य कृते मनसः स्याद् अलाघवम् ।
तस्मिंस् तावत् तपः कुर्याद् यावत् तुष्टिकरं भवेत् ॥ ११.२३१ ॥

भारुचिः ...{Loading}...

प्रायश्चित्ताभ्यासार्थो निमित्ततो ऽस्यारम्भः । तस्यायम् उभयत्र रहस्ये प्रकाशे च विज्ञेयः । तथा चोक्तं भावप्रसादस्य कु[श]लकर्महेतुत्वम् ॥ ११.२३१ ॥

तपोमूलम् इदं सर्वं दैवमानुषकं सुखम् ।
तपोमध्यं बुधैः प्रोक्तं तपोऽन्तं वेददर्शनात् ॥ ११.२३२ ॥

भारुचिः ...{Loading}...

देवस्य तावत् सुखस्याणिमादेः, मानुषस्य च शब्दाद्युपभोगस्य, गन्धर्वविध्याधरादिसुखस्य च तप एवेत्य् अवस्था कारणम् ॥ ११.२३२ ॥

ब्राह्मणस्य तपो ज्ञानं तपः क्षत्रस्य रक्षणम् ।
वैश्यस्य तु तपो वार्त्ता तपः शूद्रस्य सेवनम् ॥ ११.२३३ ॥

भारुचिः ...{Loading}...

प्रायश्चित्तप्रकरणे ऽस्योपदेशाद् विज्ञायते दृष्टार्थेष्व् अपि नियमः शुद्धिहेतुः, किं पुनर् विहितप्रायश्चित्तानुष्ठानानाम् । तथा चोक्तं ज्ञानस्य शुद्धिहेतुत्वम्, “ज्ञानं तपो ऽग्निर् आहारः,” “बुद्धिर् ज्ञानेन शुध्यति” इति च । तस्य चार्थप्राप्तस्यात्र विशुद्ध्यर्थ उपदेशो विज्ञेयः ॥ ११.२३३ ॥

ऋषयः शंसितात्मानः फलमूलानिलाशनाः ।
तपसैव प्रपश्यन्ति त्र्यैलोक्यं (?) सचराचरम् ॥ ११.२३४ ॥

भारुचिः ...{Loading}...

प्रायश्चित्तानुष्ठानार्थतपसा पश्यन्ति । सेयम् एवं प्रायश्चित्ततपः स्तुतिः प्रकरणसामर्थ्याद् विज्ञेया । एवम् उत्तरश्लोकाः ॥ ११.२३४ ॥

औषधान्य् अगदो विद्या दैवा च विविधा स्थितिः ।
तपसैव प्रसिद्ध्यन्ति तपस् तेषां हि साधनम् ॥ ११.२३५ ॥
यद् दुस्तरं यद् दुरापं यद् दुर्गं यच् च दुष्करम् ।
सर्वं तु तपसा साध्यं तपो हि दुरतिक्रमम् ॥ ११.२३६ ॥

भारुचिः ...{Loading}...

ग्रहनक्षत्रवैषम्यनिमित्ता आपद् दुस्तरादुरापं चान्तर्धानावेशाकाशगमनाद्यैश्वर्यजीवितैव । दुर्गं च यद् दुरार्छं (?) स्वर्गादि । यच् च दुष्करं कृत्स्नसमुद्रपानमृतसंजीवनाद्य् अगस्त्यजमदग्निप्रभृतीनां तत् सर्वं तपसा शक्यम् इति । सेयम् उक्तस्य सामर्थ्येन प्रायश्चित्ततपःस्तुतिर् एव प्रकरणसामर्थ्याद् विज्ञेया । येन ॥ ११.२३५–२३६ ॥

महापातकिनश् चैव शेषाश् चाकार्यकारिणः ।
तपसैव सुतप्तेन मुच्यन्ते किल्बिषात् ततः ॥ ११.२३७ ॥

भारुचिः ...{Loading}...

विनष्टकिल्बिषाणां च प्रतिबन्धाभावाद् विहितकर्मानुष्ठानतपसा सर्वार्थेन यथोक्ता सिद्धिः । किं चान्यत् ॥ ११.२३७ ॥

कीटाश् चैव पतङ्गाश् च पसवश् च वयांसि च ।
स्थावराणि च भूतानि दिवं यान्ति तपोबलात् ॥ ११.२३८ ॥

भारुचिः ...{Loading}...

कीटपतङ्गा अग्निप्रवेशतपसा, पशवो ऽपत्यपोषणसंवर्धनेन वाहक्षीरदानादिभिश् च, वयांसि चापत्यसंवर्धनेन साधूनां च स्वमांसोपकारेण, स्थावराणि च पुष्पमूलफलछायाद्य् उपकारेण, दिवं यान्ति तपोबलात् । तपःस्तुत्यर्थवादो ऽयम् । अथ वा कीट्[अत्व्]आदिप्राप्तिहेतुकर्मसंबन्धात् प्रायश्चित्तेन यस्मान् मुच्यन्ते । अत एवम् इदम् उच्यते । सेयम् अपरेण प्रकारेण प्रायश्चित्तस्तुतिः । एवं च सति ॥ ११.२३८ ॥

यत् किंचिद् एनः कुर्वन्ति मनोवाङ्मूर्तिभिर् जनाः ।
तत् सर्वं निर्धहन्त्य् आशु तपसैव तपोधनाः ॥ ११.२३९ ॥

भारुचिः ...{Loading}...

यतश् च,

तपसैव विशुद्धस्य ब्राह्मणस्य दिवौकसः ।
इज्याश् च प्रतिगृह्णन्ति कामान् संवर्धयन्ति च ॥ ११.२४० ॥

भारुचिः ...{Loading}...

काम्यकर्मसाध्यत्वात् तद् अनुष्ठातॄणाम् । अतश् चैतन् न्याय्यं कर्तुम् । इदं चापरं पश्य तपसो महाभाग्यम् ॥ ११.२४० ॥

प्रजापतिर् इदं शास्त्रं तपसैवासृजत् प्रभुः ।
तथैव वेदान् ऋषयस् तपसा प्रतिपेदिरे ॥ ११.२४१ ॥

भारुचिः ...{Loading}...

प्रजापतिर् अपि भूत्वा तपःशरण इति कर्तव्येषु, किं पुनर् मनुष्या इत्य् एवम् अस्य स्तुतित्वं बोद्धव्यम् ॥ ११.२४१ ॥

इत्य् एवं तपसो देवा महाभाग्यं प्रचक्षते ।
सर्वस्यास्य प्रपश्यन्तस् तपसः पुण्यम् उत्तमम् ॥ ११.२४२ ॥

भारुचिः ...{Loading}...

“तपोमूलम् इदं सर्वम्” इत्य् एतस्मात् श्लोकात् प्रभृति यावद् अयं श्लोक इयत्य् अत्र या स्तुतिः सा प्रकाशप्रायश्चित्ततपसः । अथ वा “अनाविष्कृतपापस् तु” इत्य् अतः प्रभृति रहस्यप्रायश्चित्तप्रकरणसामर्थ्यात् तत्तपःस्तुतिः, अविरोधाद् उभयोर् वा । अथ वा तपःस्थितानाम् अप्रत्ययाकुशलकर्मनाशाय तपःस्तुतिर् इति ॥ ११.२४२ ॥

वेदाभ्यासो ऽन्वहं शक्त्या महायज्ञक्रिया क्षमा ।
नाशयन्त्य् आशु पापानि महापातकजान्य् अपि ॥ ११.२४३ ॥

भारुचिः ...{Loading}...

प्रायश्चित्तप्रकरणे नित्यकर्मप्रशंसना कस्माद् युज्यत इति । यतः एतेषाम् अपि पापक्षयहेतुत्वं विज्ञेयम् । न केवलम् उत्कर्षार्थम् एवेति । अपरे त्व् आहुः- अनिर्दिष्टप्रायश्चित्तानाम् एनसां प्रत्ययकृतानाम् अप्रत्ययकृतानां चेतन[भूतान्]आम् एतत् प्रायश्चित्तम् इति । अत्र दृष्टान्तम् आह ॥ ११.२४३ ॥

यथैधस् तेजसा वह्निः प्राप्तं निर्दहति क्षणात् ।
तथा ज्ञानाग्निना पापं कृत्स्नं दहति वेदवित् ॥ ११.२४४ ॥

भारुचिः ...{Loading}...

न केवलं वेदाभ्यासः, किं तर्हि तद्विज्ञानम् अपि । शुद्धये वेदार्थविदाम् । इतरथा हि- प्रायश्चित्तप्रकरणे स्तुतिर् अस्यानर्थिका स्यात् । अपरे तु प्रायश्चित्तानुष्ठानविज्ञानस्तुतिम् एतां मन्यन्ते । तद् अयुक्तम्, अर्थगृहीतत्वात् प्रयोगविज्ञानस्य । यतो ऽन्यद् देवतादिसतत्त्वविज्ञानम् इदं विज्ञेयम् । तथा चोक्तम्, कृत्स्नं दहति वेदविद् इति । तद् इदानीं रहस्यप्रायश्चित्तम् उपदिश्यते ॥ ११.२४४ ॥

सव्याहृतिकाः सप्रणवाः प्राणायामास् तु षोषश ।
अपि भ्रूणहणं मासात् पुनन्त्य् अहर् अहः कृताः ॥ ११.२४५ ॥

भारुचिः ...{Loading}...

ब्रह्महत्यायाम् अभिधाय, रहस्यं सुरापस्येदानीम् आह ॥ ११.२४५ ॥

कौत्सं जप्त्वाप इत्य् एतद् वासिष्ठं च प्रतीत्य् ऋचम् ।
माहेन्द्रं शुद्धवत्यश् च सुरापो ऽपि विशुध्यति ॥ ११.२४६ ॥

भारुचिः ...{Loading}...

कौत्सं सूक्तम् “अप नः शोशुचद् अघम्” इत्य् अष्टर्चलक्षीतम् । वाग्दैविकं वासिष्ठम् “प्रतिस्तोमेभिर् उषसं वसिष्ठाः” इत्य् एतत् । माहेन्द्रम् “महाम् इन्द्रो य ओजसा” इत्य् एतद् अष्टाचत्वारिंशद् अर्चम् । अन्ये तु “माहित्रम्” पठन्ति । मन्त्रं चेमम् आहुः- “माहित्रीणामवो ऽस्तु” इत्य् एवम् । शुद्धवत्य ऋचः प्रसिद्धाः ॥ ११.२४६ ॥

सकृज् जप्त्वास्यवामीयं शिवसंकल्पम् एव च ।
अपहृत्य सुवर्णं तु क्षणाद् भवति निर्मलः ॥ ११.२४७ ॥

भारुचिः ...{Loading}...

“अस्य वामस्य पलितस्य होतुः” इति द्विपञ्चाशद् ऋग्लक्षितं सूक्तम् आस्यवामीयम्शिवसंकल्पम् अपि सूक्तम् “यज् जाग्रतो दूरम् उदैति दैवम्” इति षडृगुपलक्षितम् । सकृद् इति च प्रत्यहम् एतज्जपकर्ममासं ज्ञेयम् अधिकराद् । उक्तं हि- “अपि भ्रूणहनं मासात्” इति ॥ ११.२४७ ॥

हविष्पान्तीयम् अभ्यस्य न तम् अंह इतीति च ।
जपित्वा पौरुषं सूक्तं मुच्यते गुरुतल्पगः ॥ ११.२४८ ॥

भारुचिः ...{Loading}...

मासीति वर्तते सकृद् इति च । “हविष्पान्तम्” इत्य् एकोनविंशर्चम् । “न तम् अंहो न दुरितम्” इत्य् अष्टर्चम् । “इति वा इतिमे मनः” इति द्वादशर्चम् “सहस्रशीर्षा पुरुषः” इति पौरुषं सूक्तं षोडशर्चम् ॥ ११.२४८ ॥

एनसां स्थूलसूक्ष्माणां चिकीर्षन्न् अपनोदनम् ।
अवेत्य् ऋचं जपेद् अब्दं यत् किंचेदम् इतीति च ॥ ११.२४९ ॥

भारुचिः ...{Loading}...

अर्वाङ् महापातकेभ्यः एनांसि स्थूलसूक्ष्माणीत्य् उच्यन्ते, उपपातकादीनि । तेषाम् अपनोदनं चिकीर्षन् अवेत्य् ऋचं जपेद् अब्दम्, “अव द्वके अव त्रिका दिवश् चरन्ति” इति । अपरे तु सावित्रीम् अत्र पठन्ति । यत् किं चेदम् इतीति च इति यावत्- “यत् किं चेदं वरुणदैव्ये जने” इत्य् एवमादि ॥ ११.२४९ ॥

प्रतिगृह्याप्रतिग्राह्यं भुक्त्वा चान्नं विगर्हितम् ।
जपंस् तरत्समन्दीयं पूयते मानवस् त्र्यहात् ॥ ११.२५० ॥

भारुचिः ...{Loading}...

तरत्समन्दीयं प्रसिद्धम् ॥ ११.२५० ॥

सोमारौद्रं तु बह्वेना मासम् अभ्यस्य शुध्यति ।
स्रवन्त्याम् आचरन् स्नानम् अर्यम्णाम् इति वा तृचम् ॥ ११.२५१ ॥

भारुचिः ...{Loading}...

सोमारौद्रौ मन्त्रौ तत्र रौद्रो “मा त्वा रुद्र चुक्रुधामा नमोभिः” इति । सौम्यः “सोमः पवते जनिता मतीनाम्” इति च । “अर्यम्णाम्” इत्य् एषु मन्त्रः ऋग्वेदाद् गमयितव्यः ॥ ११.२५१ ॥

अब्दार्धम् इन्द्रम् इत्य् एतद् एनस्वी सप्तकं जपेत् ।
अप्रशस्तं तु कृत्वाप्सु मासम् आसीत भैक्षभुक् ॥ ११.२५२ ॥

भारुचिः ...{Loading}...

अब्दार्धं षण्मासात् “इन्द्रम् इद्गाथिन्दो बृहद्” इत्य् एतत् सप्तकं जपेद् अविसेषात् सर्वस्मिन्न् एनसि । अप्रशस्तं तु कृत्वाप्सु मैथुनं मासं न्भैक्षाहारस् तिष्ठेत् ॥ ११.२५२ ॥

मन्त्रैः शाकलहोमीयैर् अब्दं हुत्वा घृतं द्विजः ।
सुगुर्व् अप्य् अपहन्त्य् एनो जप्त्वा वा इम इत्य् ऋचम् ॥ ११.२५३ ॥

भारुचिः ...{Loading}...

“देवकृतस्यैनसः” इत्य् एवमादयो ऽष्टौ मन्त्राः शाकलहोमीयाः । एतैर् घृतम् अब्दं हुत्वा सुगुव् अप्य् अपहन्त्य् एनः सर्वमहापातकान्य् अपीत्य् अर्थः । जप्त्वा वा “इमा रुद्राय तवसे कपर्दिने क्षयद्वीराय” इत्य् एतन् मन्त्रं संवत्सरम् एव । एतां जपकर्म पूर्वेण शाकलमन्त्रहोमेन प्रायस्चित्तम् । अन्ये तु “जप्त्वा वा मन इत्य् ऋचम्” [इति पठन्ति]- सा तु शिष्टेभ्य आगमयितव्या । “मनो न्व् आहुवामहे” इत्य् एषा ॥ ११.२५३ ॥

महापातकसंयुक्तो ऽनुगच्छेद् गाः समाहितः ।
अब्ब्यस्याब्दं पावमानीर् भैक्षाहारो विशुध्यति ॥ ११.२५४ ॥

भारुचिः ...{Loading}...

पावमान्यः “उपास्मै गायता नर” इत्य् आरभ्य यावद् “यः पावमानीर् अध्येति” इत्य् एषा ऋक् । गवां च सेवनं गोघातप्रायश्चित्तम् उक्तम् । इहापि तच्छेषं द्रष्टव्यम् ॥ ११.२५४ ॥

अरण्ये वा त्रिर् अभ्यस्य प्रयतो वेदसंहिताम् ।
मुच्यते पातकैस् सर्वैः पराकैः शोधितस् त्रिभिः ॥ ११.२५५ ॥

भारुचिः ...{Loading}...

अविशेषवचनाद् यां कांचिद् वेदसंहिताम् इति ॥ ११.२५५ ॥

त्र्यहं तूपवसेद् युक्तस् त्रिर् अह्नो ऽभ्युपयन्न् अपः ।
मुच्यते पातकैः सर्वैस् त्रिर् जपित्वाघमर्षणम् ॥ ११.२५६ ॥

भारुचिः ...{Loading}...

अल्पत्वाच् चास्य प्रायश्चित्तस्याश्रद्दधानानां प्रवृत्त्यर्थम् इदम् आह ।

यथाश्वमेधः क्रतुराट् सर्वपापापनोदनः ।
तथाघमर्षणं सूक्तं सर्वपापापनोदनम् ॥ ११.२५७ ॥
हत्वा लोकान् अपीमांस् त्रीन् अश्नन्न् अपि यतस् ततः ।
ऋग्वेदं धारयन् विप्रो नैनः प्राप्नोति किंचन ॥ ११.२५८ ॥

भारुचिः ...{Loading}...

ऋग्वेदग्रहणम् इतरवेदप्रदर्शनार्थम् अपि स्यात् । तथा च दर्शयति ॥ ११.२५७–२५८ ॥

ऋक्संहितां त्रिर् अभ्यस्य यजुषां वा समाहितः ।
साम्नां वा सरहस्यानां सर्वपापैः प्रमुच्यते ॥ ११.२५९ ॥

भारुचिः ...{Loading}...

अस्येयं स्तुतिः प्रवृत्त्यर्था ॥ ११.२५९ ॥

यथा महाह्रदं प्राप्य क्षिप्तं लोष्टं विनश्यति ।
तथा दुश्चरितं सर्वं वेदे त्रिवृति मज्जति ॥ ११.२६० ॥

भारुचिः ...{Loading}...

तच् च वेदस्य त्रिवृत्यर्थम् इदं दर्शयति ॥ ११.२६० ॥

ऋचो यजूंषि चान्यानि सामानि विविधानि च ।
एष ज्ञेयस् त्रिवृद् वेदो यो वेदैनं स वेदवित् ॥ ११.२६१ ॥

भारुचिः ...{Loading}...

ऋचः प्रसिद्धाः । यजूंष्याद्यानि संहितागतानि न तु ब्राह्मणमधे ऽधीतानि पदक्रमान्वितानि । “ययोर् ओजसा स्कभिता रजांसि” इत्य् एवमादीनि सामानि पुनर् विविधानि ग्रामारण्यार्चिकस्तौभिकानि ॥ ११.२६१ ॥

आद्यं यत् त्र्यक्षरं ब्रह्म त्रयी यस्मिन् प्रतिष्ठिता ।
स गुह्यो ऽन्यस् त्रिवृद्वेदो यस् तं वेद स वेदवित् ॥ ११.२६२ ॥

भारुचिः ...{Loading}...

यत् त्र्यक्षरं ब्रह्म वर्णत्रयसमुदाय ॐकारः । यस् तं वेद स वेदवित् । तथा च ब्राह्मणम्, “[तद्] यथा शङ्कुना सर्वाणि पर्णानि” इत्य् एवमादि । तस्य चोपासना पुरस्ताद् उक्तेति । तथा च ब्राह्मनम्- “ओम् इत्य् एतद् अक्षरम् उद्गीथम् पासीत” इति ॥ ११.२६२ ॥

इति भारुचेः कृतौ मनुशास्त्रविवरण एकादशो ऽध्यायः ॥