दशमो ऽध्यायः
[अधीयीरंस् त्रयो वर्णाः स्वकर्मस्था द्विजातयः ।
प्रब्रूयाद् ब्राह्मणस् त्व् एषां नेतराव् इति निश्चयः] ॥ १०.१ ॥
भारुचिः ...{Loading}...
वैश्यशूद्रोपचारानन्तरं शास्त्रानुक्रण्यपेक्षया संकीर्णानां संभवो वक्तव्यः । यतस् तदुपोद्घातार्थं ब्रह्मचारिप्रकरणोपदिष्ट्[आध्ययनापेक्ष्यात्र] “अधीयीरन्न्” इत्य् उक्तम् । एवं चात्राधिपूर्वस्येङो (?) वेदशब्दक्रियस्य वेदशब्दविषयतैव ज्ञायते, अधीयीरन् वेदं पठेयुर् इत्य् अर्थः । ईदृशं च तत्राश्रुतम् अपि विधिवाक्यम् उत्प्रेक्ष्यम् अनुवादसामर्थ्यात् । तथा च ब्रह्मचारिप्रकरण एवं च नियमार्थम् इदम् उक्तम्- “वेदः कृत्स्नो ऽधिगन्तव्यः” इत्येवमादि । स्वकर्मस्था इति चैतत्सामर्थ्याद् ब्रह्मचारिप्रकरणोक्तान् एव गुरूपसदनाभिवादनादीन् अद्ययनव्रतधर्मान् गृह्णाति । अर्थाच् च त्रयाणाम् अध्यापने प्राप्त इदं नियमार्थम् उच्यते क्षत्रियवैश्ययोः प्रब्रूयाद् ब्राह्मणस् त्व् एषाम् इति । एवं च नेतराव् इत्य् एतदर्थसिद्धत्वाद् अनारभ्यं सद् उच्यते विशेषार्थम् । नेतराव् इत्य् अनापद्विषयं प्रतिषेधं कल्पयामः । तद् इदम् उच्यते- आपै त्व् इतराव् अपि क्षत्रियवाइश्यौ प्रब्रूयाताम् । तथा च कृत्वा तत् समञ्जसं भवति यद् उक्तं ब्राह्मणाध्ययनम् अनापत्काले विधीयत इति । अथ वापदि शूद्राध्ययनप्रतिषेधार्थम् । इतरेषां नेतराव् इत्य् एतत् । एवं चापदि क्षत्रियवैश्याव् एव प्रब्रूयाताम्, न शूद्रः । सत्य् अप्य् अविशेषवचन एतस्मिन्न् अब्राह्मणाद् अध्ययनप्राप्तिं शूद्रस्य कृत्वेदम् उक्तम्, न शास्त्रात् । तथा च तद् युक्तरूपं भवति यद् उक्तम् अपाङ्क्तेयप्रकरणे “शूद्रशिष्यो गुरुश् चैव” इति । अथ वा नेतरौ साङ्गं वेदम् अधिकृतं प्रब्रूयाताम्, अन्यत् तु राजशास्त्रधर्नुर्वेदहस्तिशिक्षायुर्वेदाह्यापहं तयोर् न हि वार्यते । तद् अयुक्तम्, अध्ययनानुवादे वक्ष्यमाणप्रकरणाभिसंबन्धार्थे । अथ वा प्रब्रूयाद् ब्राह्मणस् त्व् एषां नेतराव् इत्य् एवमर्थो विज्ञेयः । तथा च तु व्याख्यातम् एतत् । अपरे त्व् आहुः- अयम् एव वेदाध्ययनविधिस् त्रयाणाम् । तत् पुनर् युक्तायुक्ततया विचारणीयम्, उक्तं चेति । यतश् चैतद् एवम् अतः ॥ १०.१ ॥
सर्वेषां ब्राह्मणो विद्याद् वृत्त्युपायान् यथाविधि ।
प्रब्रूयाद् इतरेभ्यश् च स्वयं चैव तथा भवेत् ॥ १०.२ ॥
भारुचिः ...{Loading}...
वृत्तये उपायान् विद्यात् । अथ वा वृत्तिं च विद्याधर्मप्राप्त्युपायांश् च । सर्वग्रहणं चाधिकाराद् वर्णद्वयापेक्षम् एव । अथ वा अस्योभयस्याप्य् अर्थवादः ॥ १०.२ ॥
वैशेष्यात् प्रकृतिश्रैष्ठ्यान् नियमस्य च धारणात् ।
संस्कारस्य विशेषाच् च वर्णानां ब्राह्मणः प्रभुः ॥ १०.३ ॥
भारुचिः ...{Loading}...
विशिष्टत्वाद् ज्ञानत इतरेभ्यः । अथ वा प्रतिज्ञैवेयम् । ततो ऽत्र कारणं वक्ति- प्रकृतिश्रैष्ठ्यं तस्य मुखोद्भवत्वम् उक्तं प्रथमे ऽध्याये ब्राह्मणस्तुतौ “उत्तमाङ्गोद्भवात्” इत्य् एतत् । नियमस्य च धारणात् कृत्स्ने वेदाध्ययने धारणाभ्यासलक्षणस्य ब्राह्मणकर्तृकस्यैवोपदेषात् । एवं चातिशयविशेषापेक्षाद् एतद् इतराभ्यां विज्ञेयम् । संस्कारस्य च श्रौतस्मार्तस्योपनयनादेः श्मशानकरणान्तस्य द्विजातिविषयस्य ब्राह्मणहेतुकत्वात् तस्य विशिष्टत्वम् । अथ वाल्पे कर्मण्य् अग्निहोत्रादेर् एकशतविधस्याग्नेर् दर्सनेन संपादनम् अश्वमेधादेर् वा वर्णान्तरकर्मणो दर्शनेन संपादनापेक्षयेदम् उच्यते । संस्कारस्य विशेषो ऽयम् एवमादिः ब्राह्मणस्यैव । चसब्दाज् ज्येष्ठोपसंग्रहः प्रथमे ऽध्याय ब्राह्मणस्तुतिप्रकरणोपदिष्टः समुच्चीयते । यतश् चैवम् एवं[लक्षण]ब्राह्मणस्य सर्ववर्णप्रभुत्वाद् अध्यापनाद्यधिकृतं कार्यम् इत्य् अर्थवादः ॥ १०.३ ॥
ब्राह्मणः क्षत्रियो वैश्यस् त्रयो वर्णा द्विजातयः ।
चतुर्थ एकजातिस् तु शूद्रो नास्ति तु पञ्चमः ॥ १०.४ ॥
भारुचिः ...{Loading}...
“अधीयीरंस् त्रयो वर्णा[ः” इत्य् अत्र] विशेष एव वर्णशब्द उक्तः यतस् तद्व्यतिरेकेण शूद्रे न प्राप्ते इष्यते च । तस्यापि स्याद् इत्य् अतस् तदर्थो ऽयं श्लोकारम्भः । व्यवहारार्थो वायं ब्राह्मणादीनां चतुर्णाम् अपि वर्णसंज्ञोपदेशः शास्त्रे । तथा चानया व्यवहार एषां सर्वत्र शास्त्रे दृश्यते । वर्णापशदेषु वा वक्ष्यमाणेषु तदभावज्ञापनार्थं तावद् दर्शयति नास्ति तु पञ्चम इति । एवं च सत्य् एत एव चत्वारो वर्णाः स्वतस् सिद्धाः । कथम् । रसवत् । यथा षट्प्र[कारा] रसाः स्वतस् सिद्धाः । यस् तु तेषां परस्परं संपर्काद् रसविशेष उपलभ्यते, नासौ जात्यन्तरस् तेभ्यो भवति, एवं वर्णानाम् अपि परस्परसंपर्काद् चण्डालादिर् उपलभ्यते । शास्त्रे नासौ जात्यन्तरं तेभ्यो भवितुम् अर्हति । ब्राह्मणशूद्राव् एव वर्णौ प्रतिलोमतः संपृक्तौ यं जनयतः स चण्डालाख्यां लभते । येषाम् अप्य् उत्पद्यते वर्णद्वयसंपर्काज् जात्यनत्रम् इति पक्षः, तेषाम् अपि स्वतो नास्तीति कृत्वा युक्तओ वर्णापशदेषु वर्णसंज्ञाप्रतिषेधः । एतावांस् तु विशेषः । उत्कर्षापकर्षयोस् तेषां कर्मसंबन्धस्य च स्मृतिनिमित्तत्वाद् यथाशास्त्रम् एतद्द्वयं विज्ञायते । ननु च संस्कारानुपदेशाद् एव शूद्रस्यैकजातित्वं सिद्धम् इति । एवं तर्ह्य् अमन्त्रतो ऽ[प्य्] उपनयनसंस्कारप्रतिषेधार्थम् इदम् एकजातिग्रहणं शूद्रस्य । तथा चोक्तम् “मन्त्रवर्जं न दुष्यन्ति प्रशंसां प्राप्नुवन्ति च” इति । तथा सत्य् अनियतकालादिसाधनोपनयनसंस्कारप्रतिषेधार्थम् इदं शूद्रस्यैकजातिग्रहणं युक्तम्, मा भूत् पाकयज्ञवद् अस्यामन्त्रकस्य प्राप्तिर् इति, उक्तानुवादो ऽयं पादपूरणार्थः । एवं चान्यपरे ऽस्मिन्न् एकजातिनिर्देशे नास्ति चोद्यावकासः । अथवोत्तरार्थः । तथा च दर्शयति ॥ १०.४ ॥
सर्ववर्णेषु तुल्यासु पत्नीष्व् अक्षतयोनिषु ।
आनुलोम्येन संभूता जात्या ज्ञेयास् त एव ते ॥ १०.५ ॥
भारुचिः ...{Loading}...
सर्ववर्णेष्व् इति, न द्विजातिष्व् एव यथाधिकृतेषु । तुल्यासु नारीषु । केन । पतिभिः । कथम् । तुल्यासु जातितः अक्xअतयोनिष्व् इति शास्त्रत ऊढास्व् इत्य् अर्थः । ननु च पत्नीग्रहणाद् एवाक्षतयोनित्वं सिद्धम् । येन यज्ञीयाः पत्न्यो भवन्ति ता अक्षतयोनय एव नेतराः । नारीशब्दपाठे न चोद्यम् इदम् । पत्नीपाठे ऽपि तु हेत्वर्थो ऽयम् अक्षतयोन्युपदेशः । पत्नी कस्मात्, अक्षतयोनित्वात् । गुणतो ऽपि च पत्नीशब्दो दृष्टः । यतो अक्षतयोनिवचनं मुख्यार्थं विज्ञेयम् । सर्ववर्णेषु तुल्यास्व् इत्य् अनेन च्आनुलोम्यग्रहणम् इहानर्थकं सद् अनन्तरश्लोकार्थं वेदितव्यम् । अत एताभ्यां ये संभूताः वर्णास् ते जात्या ज्ञेयास् त एव । त एवेत्य् अनेन पितृवर्णग्रहणम् इत्य् एतद् उक्तार्थम्, यथा ब्राह्मणजातिभ्यां मातापितृभ्यां संभूतो वर्णस् तज् जातिर् भवति । एवं क्षत्रियादिभ्यो ऽपि संभूतास् तज्जातीया विज्ञेयाः गवादिवत् । ननु चैवं सत्य् अवक्तव्यम् एवेदं जातिलक्षणं भवति । वक्तव्यम् एव ब्राह्मणत्वस्यान्यकारणनिवृत्त्यर्थम् । तथा चार्थवादास् तत्त्वदृष्टिसंवादनहेतवः, “वृत्तस्थम् अपि चण्डालं देवा ब्राह्मणं विदुः” इत्य् एवमादयः । यतो न संस्काराध्ययनवृत्तादिभिर् ब्राह्मणम्, किं तर्ह्य् उभयाभिजनतः यथावोचामेति, जातिस् त्व् अधिकरणकारणं संस्कारादीनां विज्ञेयम् । न च वृत्तिर् एवोत्कर्षहेतुः । यतश् च न ब्राह्मणादीनां जातिभेदः प्रत्यक्षो ऽनुमेयो वा मनुष्यत्वाविशेषे तद्व्यतिरिक्तसंस्थानविशेषानुपलब्धेः गोमहिषाश्वखरादिवत् । एवं च सति प्रत्यक्षानुमानाभ्याम् अप्राप्ते शास्त्रम् अर्थवद् इदं बोधव्यम् । यथा कुशलाकुशलकर्मणोः पुरुषव्यापाराभिसंबन्ध इति । एवं च समानप्रसवात्मकत्वमात्रे गवादय उदाहरणत्वेन ज्ञेयाः । तथा चाभ्युपगतम् एतद् भवत्य् एकवर्णजननसंनियोगेनायं ब्राह्मणत्वादिजातिसंबन्ध इति । यद्य् एवम् अ[प]त्यं जनयितृजातिसदृशं भवतीति मन्यसे जनयित्रोस् तर्हीदं जातिलक्xअणम् एतद् एव, साधारणत्वात् तल्लक्षणस्येति । नन्व् एवं सत्य् अनवस्था । भवतु । को दोषः । अनवस्थायाम् एवैतल् लक्षणं समर्थं भवति, नान्यथा, गवादिवत् । न चैवं सति दृष्टविरोधः शास्त्रविरोधो वा । यतो न किंचिद् एतद् इति ॥ १०.५ ॥
स्त्रीष्व् अनन्तरजातासु द्विजैर् उत्पादितान् सुतान् ।
सदृशान् एव तान् आहुर् मातृदोषविगर्हितान् ॥ १०.६ ॥
भारुचिः ...{Loading}...
किम् अर्थम् इदम् । अधिकाराद् अनुलोमस्तुत्यर्थम् । द्विजैर् हि ब्राह्मणादिभिः क्षत्रियाद्यासु स्त्रीष्व् अनन्तरजातासूत्पादितान् सुतान् सदृशान् एव तान् आहुः । केन । पित्रा । न तु तज्जातीयत्वम् एव सादृश्यवचनात् । यथा गोसदृशो गवय इति । अत्र कारणाम् वक्ति । यस्मान् मातृदोषविगर्हितास् ते । उक्तं चास्माभिर् जातिलक्षणम् “सर्ववर्णेषु तुल्यासु” इति । ये तु मातृसदृशान् आहुः तेषाम् एतद् विरुध्यते- मातृदोषविगर्हितान् इति । यस्माद् अनुलोमेष्व् एवैतत् समर्थं भवति, पितृदोषाद् धि विगर्हणात् प्रतिलोमेषु । एवं च सति किंचिद्धीनास् ते पितृभ्य इति गम्यते । मातृतश् चोत्कृष्टाः । तथा च सत्यानुलोम्यवचनं पूर्वश्लोकोक्तम् अधिकारार्थं वेदितव्यम्, न तच्छ्लोकार्थार्थः, अनन्तराभिधानसामर्थ्याद्, बहुवचनाच् च, द्विजाइर् इति ॥ १०.६ ॥
अनन्तरासु जातानां विधिर् एष सनतनः ।
द्व्येकान्तरासु जातानां धर्म्यं विद्याद् इमं विधिम् ॥ १०.७ ॥
भारुचिः ...{Loading}...
अनुलोमाधिकाराद् अयम् अप्य् एकान्तरद्व्यन्तरासु पूर्ववद् धर्म्यो विधिर् वचनसामर्थ्याद् विज्ञेयः । सो ऽयम् एकान्तरासूच्यते ॥ १०.७ ॥
ब्राह्मणाद् वैश्यकन्यायाम् अम्बष्ठो नाम जायते ।
[निषादः शूद्रकान्यायां (?) यः पारशव उच्यते] ॥ १०.८ ॥
भारुचिः ...{Loading}...
नामतः न वर्णतः । यः स्मृत्यन्तरे भृज्यकण्ठनामा । द्व्यन्तरायां तु ब्राह्मणाद् एव निषादः शूद्रकन्यायाम् ॥ १०.८ ॥
[क्षत्रियाच् छूद्रकन्यायां] क्रूराचारविहारवान् ।
क्षत्रशूद्रवपुर् जन्तुर् उग्रो नाम प्रजायते ॥ १०.९ ॥
भारुचिः ...{Loading}...
क्षत्रियनिमित्तस्य क्रूराचारतास्य विधीयते । एवं च सत्य् अनुलोम्येन संभूता इत्य् एकाधिकारसामर्थ्यान् न केवलम् अनन्तरजाता एवानुलोमा उत्कृष्टा भवन्ति, “स्त्रीष्व् अनन्तरजातासु” इत्य् एवमादिवचनात्, किं तर्ह्य् एकान्तरद्व्यन्तरा अपितृसदृशा मातृदोषविगर्हणात् ज्ञेयाः । तथा च दर्शयति ॥ १०.९
विप्रस्य त्रिषु वर्णेषु नृपतेर् वर्णयोर् द्वयोः ।
वैश्यस्य वर्णे वैकस्मिन् षड् एते ऽपसदाः स्मृताः ॥ १०.१० ॥
भारुचिः ...{Loading}...
मातृदोषविगर्हणायापशदा उच्यन्ते । अवसन्ना मातृजातिभ्यो ऽन्येभ्यो मनुष्येभ्यः । एवं च सत्य् आपेक्षिको ऽयम् अपशदस् तेषु विज्ञेयः । उत्कृष्टेष्व् एव पुनस् त्रिप्रतिलोमहीनतयापशदाः । अपशदा इत्य् अपशीर्णाः शदार्थवान् । पुत्रकार्याद् हीना इत्य् अर्थः । स्वर्णासुतापेक्ष्योच्यन्ते । एवम् अनुलोमानन्तरम् अधुना प्रतिलोमान् आह ॥ १०.१० ॥
क्षत्रियाद् विप्रकन्यायां सूतो भवति जातितः ।
वैश्याण् मागधवैदेहौ राजप्रिप्राङ्गनासुतौ ॥ १०.११ ॥
भारुचिः ...{Loading}...
प्रातिलोम्येन यथाक्रमं क्षत्रियाद् ब्राह्मण्यां सूतः । विस्यात् क्षत्रियायां मागधः। ब्राह्मण्यां वैदेहकः ॥ १०.११ ॥
शूद्राद् आयोगवः क्षत्ता चण्डालश् चाधमो नृणाम् ।
वैश्यराजन्यविप्रासु जायन्ते वर्णसम्कराः ॥ १०.१२ ॥
भारुचिः ...{Loading}...
एवं प्रातिलोम्येन शूद्राद् वैश्यायाम् आयोगवः, क्षत्रियायां क्षत्ता, ब्राह्मण्यां चण्डाल इति । अत्र तु श्लोके वैश्यराजन्ययोर् वर्णनिर्देशात् स्त्रीलिङ्गम् अविवक्षितम् । तदविवक्षा च पद्यग्रन्थानुविधानेन, इतरथा हि स्त्रीलिङ्गापाठे श्लोकभङ्गः स्याद् इति । एवम् एतान् प्रतिलोमान् उक्त्वा तद्विशेषविव्क्षयेदम् अधुनोच्यते ॥ १०.१२ ॥
एकान्तरे त्व् आनुलोम्याद् अम्बष्ठोग्रौ यथा स्मृतौ ।
क्षत्तृवैदेहकौ तद्वत् प्रातिलोम्ये तु जन्मनि ॥ १०.१३ ॥
भारुचिः ...{Loading}...
एकान्तराव् अनुलोमाव् अम्बष्ठोग्रौ यथा संस्पर्शनादौ व्यवहारे अवर्जीयौ, एवं प्रतिलोमाव् अपि गन्तौ क्षत्तृवैदेहकौ तद्वद् विज्ञेयौ । सूतमागधायोगवानां तु प्रातिलोम्ये ऽनन्तरत्वाद् दण्डापूइकया सिद्धः क्षत्तृवैदेहकाभ्याम् उत्कर्ष इति । एवं च चण्डालप्रयुदासो ऽत्र विवक्षितः । तथा चोक्तम् एव “दिवाकीर्त्[इम् उदक्य्]आं च” इत्येवमादिः ॥ १०.१३ ॥
पुत्रा ये ऽनन्तरस्त्रीजः क्रमेणोक्ता द्विजन्मनाम् ।
तान् अनन्तर्नाम्नो हि मातृदोषान् प्रचक्षते ॥ १०.१४ ॥
भारुचिः ...{Loading}...
ब्राह्मणाद् अनन्तरा क्षत्रिया । तस्यां जातो वर्णेनानन्तरनामा भवति । मातृजातिः क्षत्रियशब्देनोच्यते । प्रयोजनं क्षत्रियजाति[विहितेषु व्यवहा]रेष्व् अस्यापि ग्रहणं यथा स्याद् इति । कथं च न स्यात् । मातृजातितो यस्माद् उत्कृष्टा अनुलोमा उक्ताः “स्त्रीष्व् अनन्तरजातासु द्विजैर् उत्पादितान् सुतान्, सदृशान् एव तान् आहुर् मातृदोषविगर्हितान्” [इति पूर्व]श्लोके । अत उभयवर्णजर्जितानाम् उभयत्राप्राप्तौ सत्याम् इदम् आह । एवं क्षत्रियेण वैश्यायाम् जातो वैश्य्नामा भवति । तत्प्रयोजनं चोक्तम् । नन्व् एवं सति ब्राह्मणेन वैश्यानाम् आनन्तर्याभावात् तत्रोत्पन्नस्य वैश्यव्यपदेशो न प्राप्नोति । एवं क्षत्रियेण शूद्रायां ब्राह्मणेन वा । नैव दोषः । आनन्तर्यस्याविवक्षितत्वाद् अपरवर्णासु स्त्रीषु जाताः सन्तः स्त्रीजातिनामानस् ते भवन्तीति । एवं च सति ब्राह्मणक्षत्रियाभ्यां वर्णद्वयजानाम् अनुलोमानां त्रयाणाम् उपनयनादिसंस्कारार्थम् इदं विज्ञेयम् । तथा च सति शूद्रायाम् उत्पन्नास् त्रयो ऽपि ब्राह्मणादिभ्यस् तन्नामानो मातृदोषाच् छूद्रवद् असंस्कार्याः । एवं च गौतमः- “प्रतिलोमास् तु धर्महीनाः,” इत्य् उक्त्वानन्तरम् एवाह- “शूद्रायां च,” (ग्ध् ४.२५–२६) अनुलोमा अपीति । इदानाईं यत्र मातृजातित्वम् उत्कृष्टजातेर् अपि नेच्छति तत्रेमं प्रतिषेधम् आरभते ॥ १०.१४ ॥
ब्राह्मणाद् उग्रकन्यायाम् आवृतो नाम जायते । आभीरो ऽम्बष्ठकन्यायाम् आयोगव्यां तु धिग्वणः ॥ १०.१५ ॥
भारुचिः ...{Loading}...
> ब्राह्मणाद् उग्रकन्यायाम् आवृतो नाम जायते ।
न मातृजातिः, किं तर्हि जात्यन्तर एव-
> आभीरो ऽम्बष्ठकन्यायाम्
जातो वेदितव्यः । ब्राह्मणाद् इति वर्तते । अनुलोमस्त्रीषु तावद् एवम् उत्कृष्टत्वात् । यथा चानुलोमस्त्रीषु जात्यान्तरम्, एवं प्रतिलोमस्त्रीष्व् अपि दर्शयति-
> आयोगव्यां तु धिग्वणः ॥ १०.१५ ॥
ब्राह्मणजात एव न मातृजातिर् भवति । यथा च ब्राह्मणादिभ्यः क्षत्रियाद्यास्व् अनुलोमजाता मातृनामानो भवन्ति मातृदोषविगर्हणया, एवं शूद्रादिभ्यो वैश्याद्यासु जाताः प्रतिलोमाः पितृदोषविगर्हणयापि च न तज्जातीया भवन्ति, किं तर्ह्य् उभयजातिविवर्जिता जात्यन्तरम् । यतस् तान् दर्शयति ॥ १०.१५ ॥
आयोगवश् च क्षत्ता च चण्डालश् चाधमो नृणाम् ।
प्रातिलोम्येन जायन्ते शूद्राद् अपशदास् त्रयः ॥ १०.१६ ॥
भारुचिः ...{Loading}...
यथा च शूद्राद् एते त्रयास् त्रिषु, एवम्-
वैश्यान् मागधवैदेहौ क्षत्रियात् सूत एव तु ।
प्रतीपम् एते जायन्ते परेऽप्य् अपशदास् त्रयः ॥ १०.१७ ॥
भारुचिः ...{Loading}...
> वैश्यान् मागधवैदेहौ
उत्कृष्टवर्णद्वये यथासंख्येन प्रतिलोमौ भवतः,
> क्षत्रियात् सूत एव तु ।
एवं च,
> प्रतीपम् एते जायन्ते परेऽप्य् अपशदास् त्रयः ॥ १०.१७ ॥
तथा च निदर्शनार्थम् अन्यान् अपि दर्शयति-
जातो निषादाच् छूद्रायां जात्या भवति पुल्कसः ।
शूद्राज् जातो निषाद्यां तु स वै कुक्कुटकः स्मृतः ॥ १०.१८ ॥
भारुचिः ...{Loading}...
> जातो निषादाच् छूद्रायां जात्या भवति पुल्कसः ।
उभयवर्जितो जात्यन्तरम् । एवम् एव-
> शूद्राज् जातो निषाद्यां तु स वै कुक्कुटकः स्मृतः ॥ १०.१८ ॥
अयं निषादो ऽस्मिञ् छ्लोके न शूद्रायां ब्राह्मणाज् जातो यथोक्तः । प्रतिलोमाधिकारसामर्थ्यात् । इतरथा हि ब्राह्मणजातः शूद्रायां यो निषाद उक्तः तस्माच् छूद्रायां जातस्यानुलोम्यात् पुल्कसत्वम् अयुक्तम्, प्रतिलोमत्वात् पुल्कसजातेर् इति । एवम् एव,
क्षत्तुर् जातस् तथोग्रायां श्वपाक इति कीर्त्यते ।
वैदेहकेन त्व् अम्बष्ठ्याम् उत्पन्नो वेण उच्यते ॥ १०.१९ ॥
भारुचिः ...{Loading}...
उत्कर्षापकर्षौ चैतेषां शास्त्रतः कल्पयितव्यौ । वर्णसंकरप्रकरणे चाप्रतिलोमा अपि संकीर्णयोनयो व्रात्याज् जाता वक्तव्या इति । यत इदम् उच्यते ॥ १०.१९ ॥
द्विजातयः सवर्णासु जनयन्त्य् अव्रतासु यान् ।
तान् सावित्रीप्रैभ्रष्टान् व्रात्यान् इत्य् अभिनिर्दिशेत् ॥ १०.२० ॥
भारुचिः ...{Loading}...
सावित्रीपतिताद् व्रात्यो जायते । न तु सावित्रीपतितो व्रात्यो भवति । एवं च व्रात्यस्तोमप्रायश्चित्तं सावित्रीपतितो व्रात्यो भवति । एवं च व्रात्यस्तोमप्रायश्चित्तं सावित्रीपतितस्य न भवति, अन्यत् त्व् अस्य प्रायश्चित्तं कल्प्यम् । इतः प्रभृति चैते व्रात्या जाताः । पुत्रपौत्रा व्रात्या इति केचित् । तद् अयुक्तम् । उक्तत्वाद् व्रात्यलक्षणस्योपनयनप्रकर्णे, “अत ऊर्ध्वं त्रयो ऽप्य् एते” इत्यादि । तस्मान् नेदं व्रात्यलक्षणम्, अव्रताद् यो जायते स व्रात्य इति, किं तर्ह्य् अव्रत एव व्रात्य इत्य् उक्तम् । यतः तेनास्य विरोधाद् अनर्थो ऽयम् । विप्रतिषिद्धं चैतत् । यदि द्विजातयः कथम् अव्रताः । अथाव्रताः कथं द्विजातयः । कथं तर्ह्य् अस्य पा[ठः], “द्विजातयः सवर्णासु जनयन्त्य् अव्रतांस् तु यान् तान् सावित्रीपरिभ्रष्टान्” — उपनयनादिसंस्कारकीनान् — “व्रात्यान् इत्य् अभिनिर्दिशेत्” । उक्तव्रात्यलक्षणानुवाद उत्तरप्रकरणादिसंबन्धर्थः । सो ऽय[म् एव] ॥ १०.२० ॥
व्रात्यात् तु जायते विप्रात् पापात्मा भूर्जकण्ठकः ।
आवन्त्यवातधानौ च पुषधश् शैख एव च ॥ १०.२१ ॥
भारुचिः ...{Loading}...
व्रात्याद् विप्राद् वर्णायाम् एव, तस्याः पूर्वश्लोके ऽधिकृतत्वाद् इहावचनात् स्त्री[जातेः । तस्यां यो जातः] स भूर्जकण्ठनामा भवति व्रात्याभिजनः । स्मृत्यन्तरे वैश्यायां ब्राह्मणाज् जातो भृज्जकण्ठः स्मर्यते । स चानुलोमत्वाद् अपापात्मा । यतः इदं तदपेक्षं विशेषणम् उच्यते- पापात्मत्वम् अस्य व्रात्याज् जातत्वाद् असंस्कृतात्मनः । ततो ऽपि ब्राह्मण्याम् एवावन्त्यः पापतरः, न तु भूर्जकण्टः स्त्रियां तस्यां हि जातो ऽवर्णस् तन्नाम भवति । अत इदं विशेष्यते । ब्राह्मण्याम् एव । एतेनोत्तरा व्याख्याताः- एवम् अवन्त्याद् वातधानः पापतमः, तस्मात् पुष्पधः, ततो ऽपि शैख इति । ईषद्विकारत्वाद् वयम् निर्देशः, पञ्चधा ब्राह्मणव्रात्यजातानां निदर्शनार्थो वा । एवम् उत्तरयोर् अपि बोद्धव्यम् । क्xअत्रियव्रात्याज् जाताः क्षत्रियायाम् अधुनोच्यन्ते ॥ १०.२१ ॥
ज्हल्लो मल्लश् च राजन्याद् व्रात्याल् लिच्छविर् एव च ।
नटश् च करणश् चैव खसो द्रविड एव च ॥ १०.२२ ॥
भारुचिः ...{Loading}...
एते च पूर्ववद् व्याकरणीयआः ॥ १०.२२ ॥
वैश्यात् तु जायते व्रात्यात् सुधन्वाचार्य एव च ।
कारुषश् च निजङ्घश् च मैत्रः सात्वत एव च ॥ १०.२३ ॥
भारुचिः ...{Loading}...
वैश्याच् च व्रात्यात् सुधन्वादयः पूर्ववद् विज्ञेयाः । नामनिर्देशे च प्रयोजनम् । य एभिर् नामभिः कस्मिंश्चिद् देश उच्यन्ते ऽवर्णाः त एवंप्रकारा विज्ञेयाः, अविज्ञेतयोनयो (?) पि सन्तः । किम् अर्थं पुनर् अन्तरप्रभवानाम् अभिधानप्रकरणे ब्राह्मणादिव्रात्यजाता उच्यन्ते इति । यस्मात् ॥ १०.२३ ॥
व्यभिचारेण वर्णानाम् अवेद्यावेदनेन च ।
स्वकर्मणां च त्यागेन जायते वर्णसंकरः ॥ १०.२४ ॥
भारुचिः ...{Loading}...
व्यभिचारो वर्णानां प्रतिलोमस्त्रीग्रहणेन मुख्यः, अनुलोमे ऽपि मुख्यवर्णापेक्षयोच्यते । अवेद्यावेदनं पुनर् एतत्विलोमचारिपुनर्भुवादिस्त्रीपरिग्रहेण । स्वकर्मणां च त्यागः उपनयनसंस्कारहानिर् अधिकृता[नाम्] । एवं च सति वर्णसंकरहेतुप्रदर्शनार्थम् इदं युक्ताभिधानं परिहारार्थं चैषाम् ॥ १०.२४ ॥
संकीर्णयोनयो ये तु प्रतिलोमानुलोमजाः ।
अन्योन्यव्यतिषक्ताश् च प्रवक्ष्याम्य् अशेषतः ॥ १०.२५ ॥
भारुचिः ...{Loading}...
अन्योन्यव्यतिषक्तानां प्रतिलोमैर् अनुलोमैश् चैवम् अनुलोमा अपि विज्ञेयाः । वक्ष्यमाणार्थोपक्षेपतश् चित्तप्रणिधानार्थम् । यतस् तदर्थम् अयं पूर्वश्लोकोतानां प्रतिलोमानाम् अनुवाद उत्तरार्थः ॥ १०.२५ ॥
सूतो वैदेहकश् चैव चण्डालश् च नराधमः ।
मागधः क्षत्तृजातिश् च तथायोगव एव च ॥ १०.२६ ॥
भारुचिः ...{Loading}...
उत्तरविवक्षार्थम् एषां पुनर्ग्रहणम् । तद् इदम् उच्यते ॥ १०.२६ ॥
एते षट् सदृशान् वर्णाञ् जनयन्ति स्वयोनिषु ।
मातृजातौ प्रसूयन्ते प्रवरासु च योनिषु ॥ १०.२७ ॥
भारुचिः ...{Loading}...
एते सूतादयस् स्वयोनिष्व् एव सदृशान् जनयन्ति । तद् यथा । आयोगव आयोगव्याम् एव सदृशं जनयति । यथाम्बष्ठो ऽम्बष्ठ्याम् सदृशायाम् एव वैश्ययां (?) चैवात्मनो हीनायां वैश्यं जनयति । नान्यस्याम् । एवम् इतरे ऽप्य् अनुलोमाः पारशवादयः । यद्य् अपि चैतेषाम् अम्बष्ठादीनां केवलवैश्यादिभ्य उत्कर्षतो विशेषो ऽस्ति, तथापीदं सादृश्यम् उच्यते, येनोभयेषाम् अप्य् एतेषां वैश्यादिधर्मान् प्रति विशेषो नास्ति । यत इदम् उच्यते, स्वयोन्यां मातृजातौ च सदृशान् जनयतीति । तथा चोक्तम्,
> पुत्रा ये ऽनन्तरस्त्रीजाः क्रमेणोक्ता द्विजन्मनाम् ।
> तान् अनन्तरनाम्नस् तु मातृदोषान् प्रचक्षते ॥ इति ।
आयोगवादयस् तु प्रतिलोमजाता मातृजातौ प्रसूयमाना प्रवरासु च योनिषु धर्महीनतरान् जनयन्ति । एवम् आनुलोम्या अप्य् अम्बष्ठादयो वेदितव्याः ॥ १०.२७ ॥
यथा त्रयाणां वर्णानां द्वयोर् आत्मास्य जायते ।
आनन्तर्यात् स्वयोन्यां तु तथा बाह्येष्व् अपि क्रमः ॥ १०.२८ ॥
भारुचिः ...{Loading}...
यथा ब्राह्मणक्षत्रियाभ्यां जनयितृभ्यां क्षत्रियावैश्ययोर् आत्मास्य द्विजत्वं जायते जातः सन्न् अधिकारसामर्थ्याद् द्विजो भवति, एवम् एव बाह्येष्व् अपि प्रातिलोम्येन वर्तमानेषु द्वाभ्याम् एव वैश्यक्षत्रियाभ्यां क्षत्रियाब्राह्मणयोर् आत्मा द्विजत्वं भवति । सति च द्विजत्व उपनयनादेः संस्कारस्य्[आनि]षेधं वक्ष्यति, “षड् एते द्विजधर्माणो भवन्ति” इति । एतावांस् तु विशेषः । यथैवानुलोमजाताः मातृदोषान् मातृहान्या न मातृजातीयाः, एवं प्रतिलोमजाताः पितृहान्या न पितृजातीयाः । [एवं च वैश्यक्षत्रियाभ्यां] प्रातिलोम्येन क्षत्रियाब्राह्मण्योर् यौ मागधसूतौ तयोर् अनुलोमजाताभ्यां सामान्यापादनं स्तुत्यर्थम्, स्तुतिश् च व्यवहारार्थ । अथ वा चण्डालादिप्रतिलोमपर्युदासार्था स्तुतिः ॥ १०.२८ ॥
ते चापि बाह्यान् सुबहूंस् ततो ऽभ्यधिकदूषितान् ।
परस्परस्य दारेषु जनयन्ति विगर्हितान् ॥ १०.२९ ॥
भारुचिः ...{Loading}...
ते चायोगवादयः षड् अपि बाह्यान् सुबहून् परस्परस्य दारेषु, तद् यथा आयोगवः क्षत्त्र्यां क्षत्त्रायोग[वम् इ]त्य् एवं जनयन्तस् ततो ऽभ्यधिकदूषितान् अनन्तरान् जनयन्ति । तद् यथा आयोगवः क्षत्त्र्याम् आत्मनो बह्यं हीनतरं जनयति । ततो ऽपि बाह्यतरं चण्डाल्याम् । तथा क्षत्ता आयोगव्याम् आत्मनो बाह्यतरं जनयति, ततो ऽपि चण्डाल्याम् । एवं चण्डालः क्षत्त्र्याम् आत्मनो बाह्यतरम् । [एवम्] आयोगव्याम् । अनेनैव न्यायेन मागधो वैदेह्याम् आत्मनो बाह्यतरं जनयति । ततो ऽपि बाह्यतरं सूतायाम् । तथा वैदेहको मागध्याम् [आत्मनो] बाह्यतरं जनयति । ततो बाह्यतरं सूतायाम् । तथा च सूत आत्मनो बाह्यतरं मागध्याम्, ततो ऽपि वैदेह्याम् । एवम् अनेन क्रमेण पुनः पुनर् अभ्यावृत्तिं जनयन्तः परस्परदारेषु सुबहून् पञ्चदशविधान् जनयन्ति । एवं च परस्परस्य दारेषु व्याख्याय “चातुर्वर्ण्ये” त्व् आचष्टे ॥ १०.२९ ॥
यथैव शूद्रो ब्राह्मण्यां बाह्यं जन्तुं प्रसूयते ।
तथा बाह्यतरं बाह्यश् चातुर्वर्ण्ये प्रसूयते ॥ १०.३० ॥
भारुचिः ...{Loading}...
तद् इदानीम् उच्यते-
प्रतिकूलं वर्तमाना बाह्या बाह्यतरान् पुनः ।
हीना हीनान् प्रसूयन्ते वर्णान् पञ्चदशैव तु ॥ १०.३१ ॥
भारुचिः ...{Loading}...
एत एव षट् चातुर्वर्ण्ये प्रसूयमाना आत्मनो बाह्यतरान् जनयन्ति । तद् यथा चण्डालः शूद्रायाम् आत्मनो हीनतरं जनयति । ततो ऽपि बाह्यतरं वैश्यायां ततो ऽपि क्षत्रियायां ततो ऽपि ब्राह्मण्याम् । एवम् एव क्षत्ता चतुर्षु वर्णेषु चतुरो जनयन् परस्परम् आत्मनो बाह्यतरं जनयति । तथायोगवश् चतुर्षु वर्णेष्व् एवम् एव नवतरं नवतरं जनयति । एते शूद्रप्रभवेभ्यश् चण्डालक्षत्त्रायोगवेभ्यश् चतुर्षु वर्णेषु द्वादश वर्णभेदा जायन्ते । आत्मानश् च त्रयश् चण्डालक्षत्त्रयोगवा[ः । एवं] शूद्रप्रभवाः प्रतिलोमेन पञ्चदशवर्णभेदा भवन्ति । एते च शूद्रप्रभवाः पञ्चदसवर्णाः पुनः पुनश् चातुर्वर्ण्ये बाह्यतरान् अन्तर्यकल्पान् जनयन्ति । अथ वैश्यप्रभवाः प्रतिलोमाः पञ्चदशवर्णाः उच्यन्ते । वैश्यस्य द्वौ प्रतिलोमौ, एकस् त्व् अनुलोमजः । मागधवैदेहकौ क्षत्रियायां ब्राह्मण्यां च, शूद्रायां त्व् अस्यानुलोमजः । एतेषां वैश्येन शूद्रायाम् जातो यदा चातुर्वर्ण्ये प्रसूयते तदा शूद्राद् आत्मनो बाह्यतरं शूद्रम् जनयति । ततो ऽपि हीनतरं वैश्यायाम् आयोगवः । ततो ऽपि हीनतरं क्षत्रियायां क्षत्ता । तस्माद् अपि हीनतरं ब्राह्मण्यां चण्डालः । एते तु पूर्वेभ्यः केवलशूद्रप्रभवेभ्यः उत्कृष्टतरा विज्ञेयाः । एवं मागधः शूद्रायां जनयन् केवलवैश्यजाताच् छूद्राद् धीनतरं जनयति । एवं क्षत्रियायाम् आत्मनो हीनतरं मागधं जनयति । तथा ब्राह्मण्यां केवलवैश्यजाताद् वैदेहकाद् धीनतरं जनयति । एवं मागधश् चातुर्वर्ण्य चतुरो जनयति । एवं वैदेहकस्य वक्ष्यामः । वैदेहकः शूद्रायां जनयन् केवलवैश्यजाताद् धीनतरं जनयति । एवं वैश्यायां क्xअत्रियायां ब्राह्मण्यां च केवलवैश्यजातेभ्यो मागधजातेभ्यश् च हीनतरं जनयति । एवं वैदेहको ऽपि चातुर्वर्ण्ये चतुरो जनयति । एवम् एतेभ्यो वैश्यप्रभवेभ्यस् त्रिभ्यः चातुर्वर्ण्ये द्वादश भवन्ति । आत्मानश् च त्रय इति एवं वैश्यप्रभवा अपि पञ्चदसवर्णा वेदितव्याः । अथ क्षत्रियस्य वैश्यायां [शूद्रायां चानुलोमजौ], ब्राह्मण्यां प्रतिलोमजः । क्षत्रियेण जातः शूद्रायां चात्रुवर्ण्ये प्रसूयमानः उग्रनामा शूद्रायाम् आत्मनो हीनतरं जनयति, वैश्यजातात् तु शूद्राद् उत्क्[ऋष्टम् । तथा वैश्यायां क्षत्रियायां] ब्रह्माण्यां (?) चायोगवक्षत्तृ(?)चण्डालानुत्तरोत्तरं हीनं जनयति । एते तु वैश्यप्रभवेभ्यः आयोगवादिभ्य उत्कृष्टतरा वेदितव्याः । एवम् एत उग्रपुत्राश् चत्वारः । क्षत्रियेण वैश्यायां जातश् चातुर्वर्ण्ये प्रसूयमानः शूद्रायाम् आत्मनो हीनतरं जनयति । एते क्षत्रियायां तु मागधं जनयन्[तो] केवलवैश्यजातान् मागधाद् उत्कृष्टतरं जनय[न्]ति । तथा ब्राह्मन्यां वैदेहकं जनयन्तो केवलवैश्यवैदेहकाद् उत्कृष्टतरं जनय[न्]ति । तथा प्रतिलोमजाः — क्xअत्रियेण ब्राह्मण्यां जातः सूतनामा चातुर्वर्ण्ये प्रसूयमानशूद्रायाम् आत्मनो हीनतरं जनयति, मागधवैदेहकशूद्रेभ्यस् तूत्कृष्टम् । एवं वैश्यायां क्षत्रियायां ब्राह्मण्यां चात्मनो हीनतरं मागधवैदेहकजातेभ्यस् तूकृष्टतरम् । एवं सूतनामा चातुर्वर्ण्ये चतुरो जनयति । एवं क्षत्रियपुत्रेभ्यो द्वादश, आत्मानश् च त्रय इति क्षत्रियप्रभवाः पञ्चदस वर्णा भवन्ति । ब्राह्मणस्य त्व् अनुलोमजा एव त्रयः । तत्र पारशवः सर्वशूद्रेभ्य उत्कृष्टस् चातुर्वर्ण्ये प्रसूयमानः शूद्रायाम् आत्मनो हीनतरं जनयति, केवलवैशयाताच् चोत्कृष्टम्, क्xअत्रियजातात् तूग्राद् धीनतरम् । तथा वैश्यायाम् आत्मनो हीनतरं जनयति, वैश्यजाताच् चोत्कृष्टम् । क्षत्रियायां तु केवलवैश्यक्षत्रियाभ्याम् उत्कृष्टतरं मागधं जनयति । एवं वैदेहकं ब्राह्मण्यां जनयति । एवम् वैदेहकं ब्राह्मण्यां जनयन् पूर्वाभ्यां क्षत्रियवैश्यप्रभवाभ्यां सूतवैदेहकाभ्याम् उत्कृष्टतरं जनयति । एवम् एतेषु पुत्राश् चत्वारः । तथा च क्षत्रियायां ब्राह्मणेन जातश् चातुर्वर्ण्ये प्रसूयमानः शूद्रायां पुत्रं जनयन् आत्मनो हीनतरं जनयति, क्षत्रियप्रभवात् तूग्राद् उत्कृष्टतरं जनयति । एवम् एतेषु पुत्राश् चत्वारः । तथा च क्षत्रियायां ब्राह्मणेन जातश् चातुर्वर्ण्ये प्रसूयमानः शूद्रायां पुत्रं जनयन् आत्मनो हीनतरं जनयति, क्षत्रियप्रभवात् तूग्राद् उत्कृष्टतरम् । तथा वैश्यायां जनयन्न् आत्मनो हीनतरं जनयति, वैश्यक्षत्रियजाताभ्याम् उत्कृष्टतरम् । तथा क्षत्रियायाम् आत्मनो हीनतरं जनयति, केवलक्षत्रियात् तूत्कृष्टतरम् । एवं ब्राह्मण्यां सूतं जनयन्न् आत्मनो हीनतरं जनयति पूर्वसूताद् उत्कृष्टम् । एवं च ब्राह्मणजातात् क्षत्रियाच् चत्वारः । त एवं ब्राह्मनप्रभवेभ्यस् त्रिभ्यो द्वादश आत्मनश् च त्रय इत्य् एवं ब्राह्मणप्रभवाः पञ्चदश वर्णा भवन्ति । एवम् एते चतुर्भ्यो वर्णेभ्यः षष्टिर् वर्णाः । आत्मानश् चत्वारः इत्य् एते चतुःषष्ट्तिवर्णभेदाः यथास्थूलं वेदितव्याः । एतेषां पुनः पुनर् भिद्यमाना असंख्येया वर्णभेदाह् भवन्ति । तद् एवम् “संकीर्णयोनयो ये तु प्रतिलोमानुलोमजाः, अन्योन्यव्यतिषक्ताश् च” इत्य् अस्यायं श्लोकस्य प्रपञ्चो विज्ञेयः । वर्णापशदा अपि सन्तो वर्णवद् उपचर्यन्ते । “इव"शब्दलोपेन वर्णा इव वार्णाः । तथा चोक्तम्- “ब्राह्मणः क्षत्रियो वैश्यस् त्रयो वर्णा द्विजातयः, चतुर्थ एकजातीयः शूद्रो नास्ति तु पञ्चमः” इति ॥ १०.३१ ॥
प्रसाधनोपचारज्ञम् अदासं दासजीवनम् ।
सैरन्ध्रं वागुरावृत्तिं सूते दस्युर् आयोगवे ॥ १०.३२ ॥
भारुचिः ...{Loading}...
प्रसाधनोपचारज्ञम् इति, वृत्त्युपदेशः । अदासस् सन् दास्यजीवनः । प्रसाधनोपचरज्ञतया । परमतजीवी यस्मात् । सैरन्ध्रम् इति वर्णनामेदम् । अन्यस् त्व् आह, ग्रन्थिकारः सैरन्द्रः द्रौपदीदर्शनात् । वागुरावृत्तित्वम् आरण्यपसुहिंसनाख्यं युक्तम् आर्याणां देवपित्रर्थम् औषधार्थं च । प्राणयात्रामात्रार्थं वा पुत्रदारात्ययम् प्राप्तस्य ॥ १०.३२ ॥
मैत्रेयकं तु वैदेहो माधूकं संप्रसूयते ।
नॄन् प्रशंसत्य् अजस्रं यो घण्टाताडो ऽरुणोदये ॥ १०.३३ ॥
भारुचिः ...{Loading}...
मैत्रेयकं तु नाम्ना मैरेयकं वा पाठान्तरेण वैदेहको जनयति, वैश्यजातो ब्राह्मण्यां य उक्तः । मैत्रेयकं च गुणेन विशिनष्टि माधूकं मधुरभाषिणम् । संप्रसूयते आयोगव्याम् एवाधिकृतायाम् । तस्य वृत्तिनिर्देशः- नॄन् प्रशंसत्य् अजस्रं यो घण्टाताडो ऽरुणोदये, प्रातर् गायंस् तु वन्दनादिभिः ॥ १०.३३ ॥
निषादो मार्गरं सूते दाशं नौकर्मजीवनम् ।
कैवर्तम् इत्य् यं प्राहुर् आर्यावर्तनिवासिनः ॥ १०.३४ ॥
भारुचिः ...{Loading}...
निषादो नाम ब्राह्मणजातात् शूद्रात् प्रतिलोमो वेदितव्यह्, प्रतिलोमाधिकारसामर्थ्यात् । न तु ब्राह्मणजातः शूद्रायाम् । अनुलोमत्वात् । स निषादो ऽधिकृतायाम् एवायोगव्यां मार्गरवर्णं नाम्ना जनयति दासद्वितीयनामानम् । तस्य वृत्त्युपदेशः नौकर्मजीवनम् इति । कैवर्तम् इति यं प्राहुस् तृतीयेण नाम्ना आर्यावर्तनिवासिनो जानपदाः । आयोगवी पितृबाह्यतरा वेदितव्याः, निषादवत्, न तु शूद्रेण वैश्यायां जाता । तथा च दर्शयति ॥ १०.३४ ॥
मृतवस्त्रभृत्सु नारीषु गर्हितान्नाशनासु च ।
भवन्त्य् आयोगवीष्व् एते जातिहीनाः पृथक् त्रयः ॥ १०.३५ ॥
भारुचिः ...{Loading}...
त्रिभ्यो यथोपदिष्टेभ्यो वर्णेभ्यो दस्युवैदेहकनिषादेभ्यः श्लोकत्रयाधिकृतेभ्यः । ये तु पुनः “सूतो दस्युर् आयोगवे” (?) इत्य् एवं प्रथमश्लोकस्यान्त्यपादं पठन्ति तेषां तत्र क्षत्रियजातो ब्राह्मण्यां सूत उक्तः । एवं सूतवैदेहकनिषादेभ्यः एवंविधेभ्य आयोगविषु श्लोकत्रयोपदिष्टा नामतो वर्णा जायन्ते ॥ १०.३५ ॥
कारावरो निषादात् तु चर्मकारः प्रसूयते ।
वैदेहकाद् अन्द्रमेदौ बहिर् ग्रामप्रतिश्रयौ ॥ १०.३६ ॥
भारुचिः ...{Loading}...
वैदेह्याम् एव जायते इति, वक्ष्यमाणश्लोकलिङ्गान् । निषादात् कारावरनामा वर्णश् चर्मकरणवृत्तिर् वैदेह्यां जायते । वैदेहकाद् अन्ध्रमेदौ कारावरनिषादवर्णयोः स्त्रियोः, अन्ययोर् असंभवाद्, एतच्छ्लोकोपदिष्टयोश् च वर्णयोः संनिहितत्वाद्, वैदेहकाच् च वैदेह्याम् अन्ध्रमेदयोर् वर्णयोर् असंभवात् परिशेषात् कारावरनिषादस्त्रियाव् एव गृहेते । एवं हि स्त्रीवर्णभेदे वैदेहकाद् अन्ध्रमेदौ भिन्नवर्णौ युक्तौ न तु वैदेह्याम् ॥ १०.३६ ॥
चण्डालात् पाण्डुसोपाकस् त्वक्सारव्यवहारवान् ।
आहिण्डिको निषादेन वैध्याम् एव जायते ॥ १०.३७ ॥
भारुचिः ...{Loading}...
चण्डालाद् वैदेह्याम् एकजातौ वर्णद्वयम् इदं पाण्डुसोपाखाहिण्डिकलक्षणं जायते । एवं चात्र वर्णापशदप्रकरणे मातृभेदाद् वा एकवर्णजातयोर् अपि भेदः, पितृभेदाद् वा एकस्याम् एव स्त्रियां भेदो विज्ञेयः ॥ १०.३७ ॥
चण्डालेन तु सोपाको मूलव्यसनवृत्तिमान् ।
पुल्कस्यां जायते पापः सदा सज्जनगर्हितः ॥ १०.३८ ॥
भारुचिः ...{Loading}...
मूलव्यसनं मारणवृत्तिर् इत्य् अर्थः । वध्यमारणं राजदेशाद् अनाथशवनिर्हरणं तद्वस्त्रादिग्रहणं प्रेतपिण्डभोजनम् इत्य् एवमादिवृत्तिः पुल्कस्यां चण्डालेन जायते ॥ १०.३८ ॥
निषादस्त्री तु चण्डालात् पुत्रम् अन्त्यावस्श्यिनम् ।
श्मशानगोचरं सूते बाह्यानाम् अपि गर्हितम् ॥ १०.३९ ॥
भारुचिः ...{Loading}...
श्मशानगोचरस् तद्वृत्तिस् तत्स्थाननिवासश् च । एवं च सत्य् अयं चण्डालाद् अपि पापतरो विज्ञेयः । तद् एतद् आनन्त्यात् संकरस्य प्रदर्शनमात्रं विज्ञेयम् ॥ १०.३९ ॥
संकरे जातयस् त्व् एताः पितृमातृप्रदर्शिताः ।
प्रच्छन्ना वा प्रकाशा वा वेदितव्याः स्वकर्मभिः ॥ १०.४० ॥
भारुचिः ...{Loading}...
कर्मणा शास्त्रोपदिष्टजातिर् अनुमातव्या । जातिप्रदर्शनाच् च स्वकर्मस्व् एते नियोज्याः ॥ १०.४० ॥
स्वजातिजानन्तरजाः षट् सुता द्विजधर्मिणः ।
शूद्रायां तु सधर्माणः सर्वे ऽपध्वंसजाः स्मृताः ॥ १०.४१ ॥
भारुचिः ...{Loading}...
स्वजाति जास् त्रिभ्यो द्विजातिभ्यः त्रयो ब्राह्मणीक्षत्रियावैश्यासु जाताः संस्कारार्हाः तथानन्तरजाः ब्राह्मणक्xअत्रियाभ्यां क्षत्रियवैश्ययोर् जाताः षट् सुता द्विजधर्मिणः । एवं च स्वजातिजानाम् अनन्तरजार्थं ग्रहणम्, न स्वार्थम् । ननु च ब्राह्मणक्षत्रियाभ्याम् अनन्तर्वर्णयोः क्षत्रियाविश्ययोर् जातौ द्वाव् एव भवतः, येन ब्राह्मणजातः वैश्यायां नानन्तरजः । असाव् अप्य् अनन्तरज एव, अनुलोमार्थत्वात् । द्विजधर्मत्वं प्रवर्तन् निवर्तयति, “शूद्रायां तु सधर्माणः सर्वे ऽपध्वंसजाः स्मृताः” इति ब्राह्मणादिजाता अपि सन्तः । एवं च नैभिः सहेदं षड् ग्रहणम्, किं तर्हि स्वजातिजैः सहानन्तरजानाम् । तथा च गौतमः- “प्रतिलोमास् तु धर्महीनाः, शूद्रायां च” इति । ननु च “पुत्रा ये ऽनन्तर[स्त्री]जा” [इत्य् अत्रोक्ता]र्थे ऽयं पुनरुक्तः श्लोक इति। [न] पुनरुक्तः । तत्र ह्य् उक्तम् “तान् अनन्तरनाम्नो हि मातृदोषान् प्रचक्षते” इति । अनन्तरनामत्वं चोभयथा प्रसज्यते व्यवहारार्थं [सं]ज्ञया, संस्कारार्थं च यतः संदेहनिवृत्त्यर्थम् इदं त्रयाणां द्विजातिधर्मत्वाभिधानम् । अथ वा हेत्वर्थम् इदं पूर्वश्लोकस्य । कथम् । “तान् अनन्तरनाम्नो हि मातृदोशान् प्रचक्षते” इत्य् अत्र कारणं वक्ति । यस्मात् षट् सुता द्विजधर्माण इति एवम् अपुनरुक्तत्वम् अस्य पूर्वश्लोकाद् विज्ञेयम् ॥ १०.४१ ॥
तपोबीजप्रभावैश् च ते गच्छन्ति युगे युगे ।
उत्कर्षं चापकर्षं च मनुष्येष्व् इह जन्मतः ॥ १०.४२ ॥
भारुचिः ...{Loading}...
अयं च श्लोको ब्राह्मणादिजातानां क्षत्रियाद्यासु पूर्वश्लोकविहितस्य संस्कारस्य स्तुत्यर्थो विज्ञेयः । तथा वक्ष्यति “शूद्रायां ब्राह्मणाज् जातः” इत्येवमादि । एवं च सत्य् एष वर्णविभाग उत्कर्षापकर्षसंबन्धो मनुष्यविषय एव द्रष्टव्यः । न गवादिषु । अतश् च गवादीनां मतरि स्वसरि वा जातस्यापरिहारः (?) ॥ १०.४२ ॥
शनकैस् तु क्रियालोपाद् इमाः क्षत्रियजातयः ।
वृषलत्वं गता लोके ब्राह्मणादर्शनेन च ॥ १०.४३ ॥
भारुचिः ...{Loading}...
> व्यभिचारेण वर्णानाम् अवेद्यावेदनेन च ।
> स्वकर्मणां च त्यागेन जायते वर्णसंकरः ॥ (म्ध् १०.२४)
इति यद् उक्तं तस्य प्रपञ्चो ऽयम् । शूद्रवत् कर्मानधिकारः । क्रियालोपे चात्र हेतुः ब्राह्मणादर्शनेन चेति । तदभावात् प्रायश्चित्ताभावम् आह । अथ वोभयार्थं ब्राह्मणादर्शनं क्रियालोपहेतुः प्रायश्चित्ताभावहेतुश् च । अपकर्षहेतुप्रदर्शनं च परिहारार्थम् । यतस् ते प्रदर्श्यन्ते ॥ १०.४३ ॥
पुण्ड्रकाश् चोऌअद्रमिलाः काम्बोजा यवनाः शकाः ।
पारदा पल्लवाश् चीनाः किराता दरदास् तथा ॥ १०.४४ ॥
भारुचिः ...{Loading}...
पुण्ड्रकादयो दरदान्राः क्षत्रियाः सन्तः क्रियालोपाच् छूद्रीभूताः ॥ १०.४४ ॥
मुखबाहूरुपज्जानां या लोके जातयो बहिः ।
म्लेच्छवाचश् चार्यवाचः सर्वे ते दस्यवः स्मृताः ॥ १०.४५ ॥
भारुचिः ...{Loading}...
न केवलं क्षत्रियाणाम्, किं तर्हि सर्ववर्णानाम् एव क्रियालोपाद् बाह्यत्वं ब्राह्मणादर्शनेन चेति । यतश् चैतद् एवम् अतस् त्रयो ऽप्य् अपभ्रंशहेतवो यत्नतः परिहरणीयाः । ते च बर्वरा मण्डिका इत्य् एवमादयः । “सूते दस्युर् आयोगवे” इत्य् अत्राप्य् अयम् एव वेदितव्यः ॥ १०.४५ ॥
ये द्विजानाम् अपशदा ये चापध्वंसजाः स्मृताः ।
ते निन्दितैर् वर्तयेयुर् द्विजानाम् एव कर्मभिः ॥ १०.४६ ॥
भारुचिः ...{Loading}...
द्विजातिस्त्रीषु शूद्राभिः प्रतिलोमजाता आयोगवादयश् चण्डालवर्जं ये चापध्वंसजाः शूद्रायां द्विजातिभिर् अनुलोमा अपि सन्तः । तथा चोक्तम्- “शूद्रायां तु सधर्माणः सर्वे ऽपध्वंसजाः स्मृताः” । ते निन्दितैर् वर्तयेयुर् आत्मानम् । वृत्तिनियमार्थो ऽयम् उपदेशस् तेषाम् । तथा च दर्शयति ॥ १०.४६ ॥
सूतानाम् अश्वसारथ्यम् अम्बष्ठानां चिक्तिसितम् ।
वैदेहकानां स्त्रीकार्यम् मागधानां वण्क्पथः ॥ १०.४७ ॥
भारुचिः ...{Loading}...
> सूतानाम् अश्वसारथ्यम् अम्बष्ठानां चिक्तिसितम् ।
तत्राम्बष्ठजातः प्रतिलोमो गृह्यते सामर्थ्यात् । अम्बष्ठ्यां वा प्रतिलोमेन ।
> वैदेहकानां स्त्रीकार्यम्
स्त्रीरक्षान्तःपुरादिषु काञ्चुकीयत्वेन
> मागधानां वण्क्पथः ॥ १०.४७ ॥
हंसपथवारिपथाख्याः । एवम् ॥ १०.४७ ॥
मत्स्यघातो निषादानां त्वष्टिर् आयोगवस्य तु ।
मेदान्ध्रचुञ्चमद्गूनाम् आरण्यपशुहिंसनम् ॥ १०.४८ ॥
भारुचिः ...{Loading}...
निषादप्रभवा बाह्याः निषादशब्देन गृह्यन्ते सामर्थ्यात् । तथा च कृतव्याख्यानम् एतत् पुरस्ताद् इति ॥ १०.४८ ॥
क्षत्त्रुग्रपुल्कसानां तु बिलौकवधबन्धनम् ।
धिग्वणानां तु चर्मार्थं वेणानां भाण्डवादनम् ॥ १०.४९ ॥
चैत्यद्रुमश्मशानेषु शैलेषूपननेषु च ।
वसेयुर् एते विज्ञाना वर्तयन्तः स्वकर्मभिः ॥ १०.५० ॥
चण्डालश्वपचानां तु निर्ग्रामः स्यात् प्रतिश्रयः ।
अपपात्राश् च कर्तव्या धनम् एषां स्वगर्दभम् ॥ १०.५१ ॥
वासांसि मृतचेलानि भिन्नभाण्डेषु भोजनम् ।
कार्ष्णायसम् अलंकारः परिव्रज्या च नित्यशः ॥ १०.५२ ॥
न तैः समयं अन्विच्छेत् पुरुषो धर्मम् आचरन् ।
व्यवहारो मिथस् तेषां विवाहः सदृशैः सह ॥ १०.५३ ॥
अन्नम् एषां पराधीनं देयं स्याद् भिन्नभाजने ।
रात्रौ न विचरेयुस् ते ग्रामेषु नगरेषु च ॥ १०.५४ ॥
दिवा चरेयुः कार्यार्थं छिनिता राजशासनैः ।
अबान्धवं शवं चैव निर्हरेयुर् इति स्थितिः ॥ १०.५५ ॥
वध्यांश् च हन्युः सततं यथा शास्त्रं नृपाज्ञया ।
वध्यवासांसि गृह्णीयुः शय्याश् चाभरणानि च ॥ १०.५६ ॥
भारुचिः ...{Loading}...
वृत्तिनिवासप्रकरणं वर्णापशदानाम् एवैतत् । आगमाभावे चानुमानतः एतं प्रतिलोमं निन्दितकर्माभ्याससामर्थाद् अविज्ञातम् आगतम् इत्य् आहुः ॥ १०.५६ ॥
[वर्णापेतम् अविज्ञातं] नरं कलुषयोनिजम् ।
आर्यरूपम् इवानार्यं कर्मभिः स्वैर् विभावयेत् ॥ १०.५७ ॥
भारुचिः ...{Loading}...
वर्णेभ्यो ब्राह्मणादिभ्यो [ऽपेतम् अ]नार्यं कर्मभिः स्वैः कलुषयोन्य्अनुरूपैर् इत्य् अर्थः । कानि पुनस् तानि । यत इदम् उच्यते ॥ १०.५७ ॥
अनार्यता निष्ठुरता क्रूरता निष्क्रियात्मता ।
पुरुषं व्यञ्जयन्तीह लोके कलुषयोनिजम् ॥ १०.५८ ॥
भारुचिः ...{Loading}...
[अनार्यम् अन्त्यजम् अनार्य]बाष्यम् इमं वेतु [अनार्यता] निष्ठुरता क्रूरता निष्क्रियात्मतेति एवमादीनां कलुषयोनिलिङ्गानां निदर्शनार्थान्य् एतानि नान्यनिवृत्त्यर्थानि । एवं च सत्य् एवमादीनि पुरुषं व्यञ्जयन्तीह लोके कलुषयोनिजं मुख्यकुलसंभूतम् अपि । कस्य पुनर् हेतोः । बीजानुविधानात् तत्कार्याणाम् । तथा दर्शयति ॥ १०.५८ ॥
पित्र्यं वा भजते शीलं मतुर् वोभयम् एव वा ।
न कथंचन दुर्योनिः प्रकृतिं स्वां नियच्छति ॥ १०.५९ ॥
भारुचिः ...{Loading}...
> पित्र्यं वा भजते शीलं मतुर् वोभयम् एव वा ।
एवं च लोके कार्याणां कारणानुविधानं दृष्टम् । यतश् चैतद् एवम् अतः ।
> न कथंचन दुर्योनिः प्रकृतिं स्वां नियच्छति ॥ १०.५९ ॥
एवं चागमतो ऽविज्ञातस्य प्रतिपत्तये ऽनुमानं युक्तम् । एवं च दर्शयति ।
कुले मुख्ये ऽपि जातस्य अस्य स्याद् योनिसंकरः ।
संश्रयत्य् एव तच् छीलं नरो ऽल्पम् अपि वा बहु ॥ १०.६० ॥
भारुचिः ...{Loading}...
> कुले मुख्ये ऽपि जातस्य अस्य स्याद् योनिसंकरः ।
प्रच्छन्नतयाविज्ञातः ।
> संश्रयत्य् एव तच् छीलं नरो ऽल्पम् अपि वा बहु ॥ १०.६० ॥
यथा[श्वतरो] रासभजातः, तस्माद् अव्यभिचार्ये तदनुमानं विज्ञेयम् । यथा भद्रे ऽन्यमृगसंकीर्णानां जातिविशेषाणां शास्त्रलक्षणाद् अनुमानात् तद्विशेषप्रतिपत्तिः, एवम् इहापीति । अस्य चोपदेशप्रयोजनम् । यथैवागमतो विज्ञातैः वर्णापशदैः सह व्यवहारो न क्रियते, एवम् अनुमानतो विज्ञतैः सहेति । यतश् चैतद् एवम् । अतो वर्णसंकरो राज्ञो ऽपि प्रयत्नतो रक्षणीयः । यस्माद् आह ॥ १०.६० ॥
यत्र त्व् एते परिध्वंसाज् जायन्ते वर्णदूषकाः ।
राष्ट्रिकैः सह तद् राष्ट्रं क्षिप्रम् एव विनश्यति ॥ १०.६१ ॥
भारुचिः ...{Loading}...
राज्ञो रक्षणार्थम् इदं निन्दावचनं विज्ञेयम्, विपर्ययस्तुत्यर्थम् । इदानीम् एषां कर्मस्व् अनधिकृतानां शुद्धिहेतुर् अयम् उच्यत उत्कर्षार्थम् ॥ १०.६१ ॥
ब्राह्मणार्थे गवार्थे वा देहत्यागो ऽनुपस्कृतः ।
स्त्रीबालाभ्यवपत्तौ च बाह्यानां सिद्धिकारणम् ॥ १०.६२ ॥
भारुचिः ...{Loading}...
बाह्याः प्रतिलोमा गृह्यन्ते । अनुपस्कृतो धनेनापरिक्रीतः । देहत्यागविशेषणम् इदम् । सिद्धिर् अधिकारस्यान्यजन्मनि सिद्धिर् इति कारणाद् उच्यते अधिकारसामर्थ्यात् । अथ वा व्यवहितैव स्वर्गप्राप्तिः । नियोगार्थम् इदं प्रायश्चित्तशास्त्रं प्रतिलोमानाम् एवेति केचित् कल्पयन्ति । अपरे तु दण्डापूपिकया सर्वेषाम् अविशेषेनेदम् इच्छन्ति । अस्य देहत्यागस्य प्रायश्चित्तार्थम् उपदेशाद् बाह्यानां पुरुषधर्मार्थम् इदम् उच्यते ॥ १०.६२ ॥
अहिंसा सत्यम् अक्रोधः शौचम् इन्द्रियनिग्रहः ।
एतं सामासिकं धर्मं चातुर्वर्ण्ये ऽब्रवीन् मनुः ॥ १०.६३ ॥
भारुचिः ...{Loading}...
एवं च प्रकरणसामर्थाच् चातुर्वर्णान्तरप्रभावानाम् अप्य् अहिंसादिपुरुषधर्मो विज्ञेयः । एवं चायं शनकैः सिद्धिहेतुर् एषाम् । पूर्वस् तु सामर्थ्यात् सद्य एव इति विज्ञायते, पूर्वस्माद् ब्राह्मणादिवर्णलक्षणशस्त्रात् “सर्ववर्णेषु तुल्यासु” इत्य् एवमादेः । अन्यथा ब्राह्मणत्वादीन्य् अप्राप्तानि । इष्यन्ते च तान्य् उत्कर्षापकार्षाभ्याम् अपि । यत इदम् आरभ्य[ते] ॥ १०.६३ ॥
शूद्रायां ब्राह्मणाज् जातः श्रेयसा चेत् प्रजायते ।
अश्रेयान् श्रेयसीं जातिं गच्छत्य् आ सप्तमाद् युगात् ॥ १०.६४ ॥
भारुचिः ...{Loading}...
शूद्रायां ब्राह्मणाज् जातो वर्णः स्त्रीलक्षणः पारशवाख्यः, श्रेयसा चेद् ब्राह्मणेनैव पुंनाम्ना पुनः पुनः प्रजायते, एवम् अनेन प्रकारेणासाव् अश्रेयाञ् छौद्रो वर्णः श्रेयसीं ब्राह्मणजातिं गच्छत्य् आ स्पतमाद् युगाज् जन्मन इत्य् अर्थः । बीजप्राधान्येन । अतश् चानेन युगपरिवर्तक्रमेण ॥ १०.६४ ॥
ब्राह्मणश् चैति शूद्रताम् । क्षत्रियाज् जातम् एवं च विद्याद् वैश्यात् तथैव च ॥ १०.६५ ॥
भारुचिः ...{Loading}...
यथा शूद्र एवम्
> ब्राह्मणश् चैति शूद्रताम् ।
पारशवाख्यः शूद्रपुरुषसंबन्धेन । एवं च शूद्रपुरुषाद् अपकर्षः । पारसववर्णस्य शूद्रत्वम् आ सप्तमाद् युगाद् विज्ञेयम् ।
> क्षत्रियाज् जातम् एवं च विद्याद् वैश्यात् तथैव च ॥ १०.६५ ॥
शूद्रायाम् उत्कर्षापकर्षौ च विद्यात् । पञ्चमे युगपरिवर्तने । अत्रापि स्त्रीत उत्कर्षः पुरुषाद् अपकर्षः । वैश्याज् जातो ऽपि वर्णशूद्रायाम् एवम् उत्कर्षापकर्षाभ्यां तृतीये जन्मनि सामर्थ्याद् विज्ञेयः । अनेनैव न्यायेन ब्राह्मणजातो ऽपि वर्णक्xअत्रियस् तृतीये जन्मनि क्षत्रियसंबन्धेन क्षत्रियवर्णाद् विज्ञेयः । तथा च ब्राह्मणाद् वैश्यायां पञ्चमे जन्मन्य् उत्कर्षापकर्षौ सामर्थ्याद् विज्ञायेते । क्षत्रियेण च वैश्यायाम् अनन्तरायाम् एष एव न्यायः । यथा ब्राह्मणस्य क्xअत्रियायाम् इति । अशाब्दं चैतत् सामर्थ्यसिद्धं व्याख्येयम्, प्रथमश्लोकलिङ्गात् । अथ वा दृष्टा[र्थ् ऽयम् उपदेशः । यथा] ब्राह्मनवर्णो योनिदोषात् पारशवात्मना शूद्रसंबन्धेन निष्कृष्तमाणः शूद्रो भवत्य् आ सप्तमाद् युगात्, एवं पारशवो वर्णः स्त्र्याख्यः ब्राह्मण[योनिसंबन्धे] वर्तमानो ब्राह्मणवर्णो भवति । अस्य च ब्राह्मणसंस्कारः श्रौतस्मार्तकर्माधिकारश् च पूर्वस्मरणवद् युक्तः । अपरस् त्व् आह- स्रौतेष्व् अस्य कर्मस्व् अनधिकारः । तद् अयुक्तम्, समानशास्त्रत्वात् पूर्वोत्तरयोः । तथा चोक्तं पुरस्ताद् इति । एवम् इदं बीजप्राधान्यम् उपश्रुत्याह यदि शूद्रो ब्राःमणताम् एति बीजप्राधान्येन ब्राह्मणश् चैति शूद्रतां क्षेत्रप्राधान्येन । एवं च सति ॥ १०.६५ ॥
अनार्यायां समुत्पन्नो ब्राह्मणात् तु यदृच्छया ।
ब्राह्मण्याम् अप्य् अनार्यात् तु श्रेयस्त्वं क्वेति चेद् भवेत् ॥ १०.६६ ॥
भारुचिः ...{Loading}...
अनार्यतो वा ब्राह्मण्यां स्रेयस्ताम् अनार्यायां शूद्रायां समुत्पन्नो ब्राह्मणात् तु यदृच्छया अप्य् अनूढायां किं पुनर् ऊढायाम् । यथा न गर्ह्यत्वं प्रशस्तश् च केवलशूद्रवैश्यक्षत्रियजातेभ्यो भवति, एवं ब्राह्मण्यां अप्य् अनार्याच् छूद्राज् जातस्यागर्ह्यत्वं पारशववत् प्राप्नोति, क्षेत्रप्राधान्यात्, स्रेयस्त्वं चास्य क्षत्रियावैश्यजाताभ्यां प्राप्नोति क्षेत्रसामर्थ्यात् । तथा च क्षेत्रजाताः सुता उपदिष्टाः शास्त्रत इति बीजप्राधान्याक्षेपाभिप्रायो ऽयं श्लोको वेदितव्यः । न संशयप्रश्नाख्यः । यथा न केचिद् आहुः । क्वचिद् बीजं क्वचिद् योनिर् इति बीजयोन्योः प्राधान्यानवस्थानात् संमोह इव जायत इति । एवं च सति बीजप्राधान्यप्रकरणम् अनुगृहीतं भवति । अस्योत्तरम् ॥ १०.६६ ॥
जातो नार्याम् अनार्यायाम् आर्याद् आर्यो भवेद् गुणः । जातो ऽप्य् अनार्याद् आर्यायाम् अनार्य इति निश्चयः ॥ १०.६७ ॥
भारुचिः ...{Loading}...
> जातो नार्याम् अनार्यायाम् आर्याद् आर्यो भवेद् गुणः ।
पाकयज्ञादिभिः पारशवादिभिः,
> जातो ऽप्य् अनार्याद् आर्यायाम् अनार्य इति निश्चयः ॥ १०.६७ ॥
चाण्डालादिभिः, तस्य शूद्रधर्मे ऽप्य् अनधिकारात् । अस्याभिप्रायः को हि शक्तो भगवतो धर्मस्य हेतुतः साधुत्वम् अवधारयितुम् । एवं हि हेत्वनवस्थानात् धर्मानवस्थानम् अपि प्रसज्येत । तथा चैतत् पुरस्तात् प्रत्याख्यातम् एव “अचिन्त्यस्याप्रमेयस्य” इत्य् अत्र । एवं च सति यथोपदेशं बीजयोन्योः प्राधान्यम् अभ्युपगन्तव्यम्, न त्व् अनुमानतः । उपदेशविषयाद् अन्यत्रापि यथा सुखदुःखयोर् धर्माधर्मोत्पत्ताव् इति । तथा च कृत्वा ॥ १०.६७ ॥
ताव् उभाव् अप्य् असंस्कार्याव् इति धर्मो व्यवस्थितः ।
वैगुण्याज् जन्मनः पूर्व उत्तरः प्रतिलोमतः ॥ १०.६८ ॥
भारुचिः ...{Loading}...
> ताव् उभाव् अप्य् असंस्कार्याव् इति धर्मो व्यवस्थितः ।
न केवलं चण्डालादिः, किं तर्हि पारशवादयो ऽपि । तथा चोक्तम् ।
> वैगुण्याज् जन्मनः पूर्व उत्तरः प्रतिलोमतः ॥ १०.६८ ॥
पारशवादिः सत्य् अपि बीजप्राधान्ये क्वचित्, उत्तरः चण्डालादिः प्रतिलोमतः पितृदोषात् सत्य् अपि योनिप्राधान्ये क्वचित् । लोकदृष्ट्या तु स्वजातिजान् अन्तरजान् पुनः स्तौति ॥ १० ६९ ॥
सुबीजम् एव सुक्षेत्रे जातं संपद्यते यथा ।
तथार्यजातस् त्व् आर्यायां सर्वं संस्कारम् अर्हति ॥ १०.६९ ॥
भारुचिः ...{Loading}...
> सुबीजम् एव सुक्षेत्रे जातं संपद्यते यथा ।
एवं दृष्टान्तो लौकिकः,
> तथार्यजातस् त्व् आर्यायां सर्वं संस्कारम् अर्हति ॥ १०.६९ ॥
उपदेशसामर्थ्याच् छ्रौतं स्मार्तं च । कः पुनर् असौ । स्वजातिजो ऽनन्तरजश् च शूद्रवर्जम् । पारशवादिस् त्व् अनुलोमो ऽपि स्मार्तम् एव पाकयज्ञादिकं, न श्रौतं “मातृदोषविगर्हणाद्” इत्य् उक्तम् । प्रतिलोमाः पुनर् आयोगवादयः पुरुषधर्मैर् अप्य् अहिंसादिभिर् अधिरियन्ते, ब्राह्मणादित्राने च देहत्यागेन । एवं च सत्य् एकान्तपरिग्रहेण सर्वत्र यत्,
बीजम् एके प्रशंसन्ति क्षेत्रम् एके मनीषिणः । बीजक्षेत्रे तथैवान्ये तत्रेयं तु व्यवस्थितिः ॥ १०.७० ॥
भारुचिः ...{Loading}...
बीजम् एके प्रशंसन्ति
तद् अयुक्तम् । एवं यत्
> क्षेत्रम् एके मनीषिणः ।
उभयत्रैकान्तयोर् दोषदर्शनात्,
> बीजक्षेत्रे तथैवान्ये तत्रेयं तु व्यवस्थितिः ॥ १०.७० ॥
यद् अप्य् एकान्तत आहुः तद् अप्य् असाधु । यस्मात् क्षेत्रे वैगुण्ये ऽपि सति क्षत्रियावैश्ययोर् ब्राःमणक्षत्रियाभ्यां च गर्ह्यास् त्रयो ऽधिकृताश् च यथासंभवं कर्मभिर् दृश्यन्ते । तत्रैवम् एकान्तत्रये ऽपि दोषदर्शनाद् इयम् एव स्थितिः यथोक्ता विज्ञेयेति । अथ वा “सुबीजम् एव सुक्षेत्रे” इतीयम् उत्कर्षापेक्षा व्यवस्थोच्यते । पूर्वा तु यथाविषयम् उपदेशसामर्थ्याद् विज्ञेया । उभयप्राधान्यम् एव च परिगृह्येमाव् अन्वयव्यतिरेकाव् उच्येते ॥ १०.७० ॥
अक्षेत्रे बीजम् उत्सृष्टम् अन्तरैव विनश्यति ।
अबीजकम् अपि क्षेत्रं केवलं स्थण्डिलं भवेत् ॥ १०.७१ ॥
भारुचिः ...{Loading}...
> अक्षेत्रे
शिलादौ
> बीजम् उत्सृष्टम् अन्तरैव विनश्यति ।
अदत्तफलम् इत्य् अर्थः अथ वान्तरैव पटलादौ विनश्यति ।
> अबीजकम् अपि क्षेत्रं केवलं स्थण्डिलं भवेत् ॥ १०.७१ ॥
सूपस्कृतम् अपि केवलं बीजरहितं स्थण्डिलम् निष्फलं भवेत् । अथ चोभयप्राधान्यं क्वचिद् उच्यते-
यस्माद् बीजप्रभावेण तिर्यग्जा ऋषयो ऽभवन् ।
**पूजिताश् च प्रशस्ताश् च ** तस्माद् बीजं प्रशस्यते ॥ १०.७२ ॥
भारुचिः ...{Loading}...
> यस्माद् बीजप्रभावेण तिर्यग्जा ऋषयो ऽभवन् ।
बीजं च प्रभावश् च- भीजप्रभावे द्वन्द्वैकवद्भावो नपुंसकलिङ्गः । बीजं यथोक्तम्, प्रभावः प्रतिनिविष्टधर्मविशेषाविष्कृतात्मत्वम्, तेन बीजप्रभ्[आवेण तिर्यग्जा] अपि सन्तः ऋषयो ऽभवन्-
> **पूजिताश् च प्रशस्ताश् च **
ऋष्यशृङ्गप्रभृतयः यस्मात्,
> तस्माद् बीजं प्रशस्यते ॥ १०.७२ ॥
इत्य् आहुः एतच् चैकान्तपरिग्रहे सत्य् उक्तदोषं बीजप्राधान्यं पुनर् निगमनायैतज् ज्ञापयति । बीजयोन्योः बीजोत्कृष्टजातिः प्रशस्यत इति । तथा च सत्य् अनुलोमान् उत्कृष्टान् एव सतः स्तौति क्षत्रियावैश्याजान् शूद्रावर्जम् । अयं च बीजयोन्योर् एवम् आत्मेति ॥ १० ७२ ॥
अनार्यम् आर्यकर्माणम् आर्यं चानार्यकर्मिणम् ।
संप्रधार्याब्रवीद् धाता न समौ नासमाव् इति ॥ १०.७३ ॥
भारुचिः ...{Loading}...
अनार्यस् तावच् छूद्रः आर्यकर्मा द्विजातिकर्मापि सन् न समो द्विजातिभिः । कस्मात् । तस्य तेनानधिकाराद् उत्कर्षाभावात् । न केवलम् उत्कर्षाभावः, अपरश् च प्रात्यवायः, प्रतिषिद्धसेवनात् । ब्राह्मणः शूद्रकर्मापि सन् न समः शूद्रेण, जातेर् माहाभाग्यात् प्रतिषिद्धसेवने ऽपि । एवं तावद् अनयोर् असाम्येन नासमौ, येनोभाव् अपि तौ प्रतिषिद्धसेवनया पतितौ । तथा च गौतमः- “आर्यानार्ययोर् व्यतिक्षेपे कर्मणः साम्यम्” इत्य् आह । सेयम् एवं कर्मप्रशंसा सामर्थ्याद् विज्ञायते । एवं च सति न जातिबलम् आश्रित्य कर्माणि हापयेत् । यस्मात् संयुक्ते हि जातिकर्मणी कार्यम् अदृष्टं पुरुषार्थाख्यं साधयतः । इदानीम् आपत्कल्पप्रकर्णोपन्यासार्थम् इदं प्रस्तूयते ब्राह्मणादीनां वर्णानाम् ॥ १०.७३ ॥
ब्राह्मणा ब्रह्मयोनिस्था ये स्वकर्मव्यवस्थिताः ।
ते सम्यग् उपजीवेयुः षट् कर्माणि यथाक्रमम् ॥ १०.७४ ॥
भारुचिः ...{Loading}...
ब्राह्मयोनिस्था इत्य् एतत् स्वयम् एव विवृणोति- ये स्वकर्मस्व् अवस्थिताह् न वर्णान्तरकर्मसु, ते सम्यग् उपजीवेयुः षट् कर्माणि । तथा च वक्ष्यति “वैश्यवृत्तिम् अनातिष्ठन्” इत्य् एवमादि । यथाक्रमम् इति शास्त्रविहितेन क्रमेणानुपरिपाट्या आचारोपक्रमः । तेन तथा चैतिहासिकान् प्रवरान् श्रुतिक्रमाद् अधीत इत्य् एवमादिकर्ममात्रानुष्ठाने चोपजीवनशब्दो विज्ञेयः, आजीवनकर्मसंबन्धेन वा । तानि पुनः॥ १०.७४ ॥
अध्यापनम् अध्ययनं यजनं याजनं तथा ।
दानं प्रतिग्रहश् चैव षट् कर्माण्य् अग्रजन्मनः ॥ १०.७५ ॥
भारुचिः ...{Loading}...
विध्यर्थम् एषाम् इहोपदेशः । प्रथमे ऽध्याये शास्त्रस्तुत्यर्थ उक्तः । अथ तु विधिर् एषां पूर्वशास्त्राद् एव विज्ञातुं शक्यस्, तत आपत्प्रकरणार्थम् एषाम् इहोपदेशो विज्ञेयः । इदानीं वर्गद्वयप्रविभागो दृष्टादृष्टार्थत्वाद् एषां प्रतिक्रियते ॥ १०.७५ ॥
षण्णां तु कर्मणाम् अस्य त्रीणि कर्माणि जीविका ।
याजनाध्यापने चैव विशुद्धाच् च प्रतिग्रहः ॥ १०.७६ ॥
भारुचिः ...{Loading}...
विशुद्धात् प्रतिग्रहो ऽयम् उच्यते, यतः स विचार्यते कः पुनर् इह शुद्धः । “यो जात्या कर्मणा च” इति । नन्व् एवं सति ब्राह्मण एवैको विशुद्धः प्रत्ययः । स्मृत्यन्तरे तु “प्रशस्तानां स्वकर्मसु द्विजातीनां ब्राःमणो भुञ्जीत प्रतिगृह्णीयाच् च” (ग्ध् १७.१–२) इति, क्षत्रियवैश्याव् अपि गृह्येते । इह तु यदि विशुद्धशब्दः क्षत्रियवैश्ययोर् अपि ग्राहकः परिकल्प्यते ब्राह्मणव्यतिरेकेण तेन शूद्रेण को मत्सरः । असाव् अपि हि जात्या कर्मणापि शुद्धः । विशेषो ऽस्ति चेत् क्षत्रियवैश्ययोर् अपि ब्राह्मणात् परस्परविसेषो ऽस्ति । यतः शूद्रो वा ग्राह्यो वृत्तस्थः क्षत्रियवैश्यौ वोत्सृष्टव्यौ ब्राह्मणं परिगृह्य । उच्यते । सत्य् अप्य् एतस्मिन् वेदाह्ययनं वैदिककर्मसंबन्धम् चवेक्ष्य त्रयाणाम् अप्य् अविशिष्टैव कर्मशुद्धिर् अधिकारसाम्याद् उच्यते । तथा चाविशेषेण त्रिभ्यो ऽपि स्मृत्यन्तरे प्रतिग्रहो ऽनुज्ञायते स्वकर्मस्थेभ्यः । न तु शूद्रात् । एवं च सति तथाइवेहापि व्याख्येयम् । विशुद्धग्रहणं च प्रतिग्रहसंबद्धम् अपि सद्याजनाध्यापनार्थम् इति सामर्थ्याद् द्रष्टव्यम् । इतरथा हि ताभ्याम् असंबद्धं शूद्रार्थम् एवैतत् स्यात्, एतस्य् याजनाध्यापनाधिकारात् ॥ १०.७६ ॥
त्रयो धर्मा निवर्तन्ते ब्राह्मणात् क्षत्रियं प्रति ।
अध्यापनं याजनं च तृतीयश् च प्रतिग्रहः ॥ १०.७७ ॥
भारुचिः ...{Loading}...
अत्र च धर्मशब्दो वृत्तिकर्मविषय एव द्रष्टव्यः, तन्निर्देशसामर्थ्यात् । एवं च सति इज्याध्ययनदानानि तस्यादृष्टार्थानि [न] प्रतिषिध्यन्ते । तथा च तानि वक्ष्यति । अत्र चाधिकाराद् वेदाध्यापनं प्रतिषिध्यते क्षत्रियस्य सहाङ्गैः न तु धनुर्वेदादीनाम् ॥ १०.७७ ॥
वैश्यं प्रति तथैवैते निवर्तेरन्न् इति स्थितिः ।
न तौ प्रति हि तान् धर्मान् मनुर् आह प्रजापतिः ॥ १०.७८ ॥
भारुचिः ...{Loading}...
वृत्तिकर्मप्रति[षेधो वैश्या]नाम् । इज्यादीनां पूर्ववद् इहाप्य् अप्रतिषेधो विज्ञेयः । तथा च तानि वक्ष्यति ॥ १०.७८ ॥
शस्त्रास्त्रभृत्त्वं क्षत्रस्य वणिक्पशुकृषिर् विशः ।
आजीवनार्थं धर्मस् तु दानम् अध्ययनं यजिः ॥ १०.७९ ॥
[वेदाभ्यासो ब्राह्मणस्य् क्षत्रियस्य तु रक्षणम् ।
वार्ताकर्मैव वैश्यस्य विशिष्टानि स्वकर्मसु] ॥ १०.८० ॥
भारुचिः ...{Loading}...
स्वयम् अभ्यासो ऽध्यापनं च वेदाभ्याससब्देन सामर्थाद् इहोच्यते, न त्व् अध्ययनम्, समानत्वात्, विशिष्टानि स्वकर्मसु इति वचनात् । वृत्तिर् अपि च सत्येषां ब्राह्मणस्यैव ज्यायसी, दृष्टादृष्टपुरुषार्थप्रयोजनत्वात् । तथा च क्षत्रियस्य रक्षणं वृत्त्यर्थं धर्मार्थं च विज्ञेयम् । एवं च वैश्यस्य धनव्यवहारो ब्राह्मणादिपुष्ट्यर्थम् अवश्यानुष्ठेयः । येन तस्य धनातिसर्ग एव विशिष्टो धर्मः । अथ वा विशिष्टानि स्वकर्मस्व् इति वचना इदम् अन्यद् विज्ञायते । यथा अनिज्यादानः वेदाभ्यासमात्रेणैव ब्राह्मणः पूतो भवति, एवं क्षत्रियो ऽनधीयानश् चायजमानश् च प्रजारक्षणमात्रेणैवोत्कृष्यते । वैश्यश् च वार्तयैव द्विजाद्यर्थया इज्याध्ययनासंभवे ऽपीति । एवम् एतानि ब्राह्मणादीनाम् आ - जिवनार्थानि (?) धर्माय च कल्प्याह ॥ १०.८० ॥
अजीवंस् तु यथोक्तेन ब्राह्मणः स्वेन कर्मणा ।
जीवेत् क्षत्रियधर्मेण स ह्य् अस्य प्रत्यनन्तरः ॥ ९.८१ ॥
भारुचिः ...{Loading}...
धर्मात्मकुटुम्बा[व]सादे अयम् अजीवन् भवति, यतः एतस्याम् अवस्थायाम् उत्सृज्य स्वकर्म क्षत्रियवृत्तिर् ग्रामनगरदेशाद् - रकषणम् (?) अस्य स्यात् । अपरे त्व् एकपुरुषोत्थानेन राजत्वम् आहुः । एवं च प्रत्यनन्तरहेतुवचनाद् अस्येषत्प्रत्यवायता गम्यते । क्रमभेदे च प्रत्यवायगौरवम् ॥ १०.८१ ॥
उभाभ्याम् अप्य् अजीवंस् तु कथं स्याद् इति चेद् भवेत् ।
कृषिगोरक्षम् आस्थाय स जीवेद् वैश्यजीविकाम् ॥ १०.८२ ॥
भारुचिः ...{Loading}...
कृष्ट्गोरक्षग्रहणं च सर्ववैश्यवृत्तिप्रदर्शनार्थम् । स्वयं करणपक्षे चेयं ब्राह्मणस्य वैस्यवृत्तिर् उच्यते । अस्वयं कृता तु पूर्वम् उक्ता “ऋतामृताभ्यां जीवेत” इत्य् एवमादौ । एवं च वैश्यवृत्तेः प्रकरणभेद उपपद्यते । बहुलम् आसाम् इदम् अधुनोच्यते ॥ १०.८२ ॥
[वैश्यवृत्त्यापि जीवंस् तु ब्राह्मणः क्षत्रियो ऽपि वा ।
हिंसाप्रायां पराधीनां कृषिं यत्नेन वर्जयेत्] ॥ १०.८३ ॥
कृषीं साध्व् इति मन्यन्ते सा वृत्तिः सर्वगर्हिता ।
भूमिं भूमिशयांश् चैव हन्ति काष्ठम् अयोमुखम् ॥ १०.८४ ॥
भारुचिः ...{Loading}...
कृष्यपवादो ऽयम् इतरवैश्यवृत्तिस्तुत्यर्थम् (?), कृषेर् उपदेशसामर्थ्याद् एतद् विज्ञायते । इतरथानुपदेशार्हेव सा प्रसज्येत । “निन्दितं न समाचरेत्” इत्य् अनेनाकरेण भूमिविलेखनप्रतिषेधार्थो ऽर्थवादः । न चैतन्याद् भुवः यथा भूमिशयानाम् । अपरे त्व् आहुः- एतस्माद् एव नखाग्रेणापि भूमिविलेखनं न कर्तव्यम् इति ॥ १०.८४ ॥
इदं तु वृत्तिवैकल्यात् त्यजतो धर्मनैपुणम् ।
विट्पण्यम् उद्धृतोद्धारं विक्रेयं वित्तवर्धनम् ॥ १०.८५ ॥
भारुचिः ...{Loading}...
धर्मनैपुणत्यागवचनाद् अस्यापि हीनता गम्यते गोरक्ष्यात् । एवं च सति क्ट्षेर् वानिज्यम् उत्कृष्टम् । तथापि गोरक्ष्यं ज्याय इत्य् एतत् सामर्थ्याद् गम्यते । सो ऽयम् अधुना विट्पण्योद्धार उच्यते विक्रीणानस्य पण्यम् ॥ १०.८५ ॥
सर्वान् रसान् अपोहेत कृतान्नं च तिलैः सह ।
अश्मानो लवणं चैव पशवो ये च मानुषाः ॥ १०.८६ ॥
भारुचिः ...{Loading}...
अत्र च रसप्रधानं द्रव्यं गुऌआदि सामर्थ्याद् रस उच्यते । यथा तगरोशीरचन्दनसमुदायो गन्धप्रधानो गन्धशब्देन । कृतान्नं च तण्डुलादि, पक्वम् अपरे । अश्मानः सर्वपाशाणाः । लवणस्यापाषाणार्थे आरम्भः । न तु सैन्धवार्थः, तस्य पाषाणशब्देन ग्रहणात् । रसपक्षे च लवणस्य नित्यार्थ आरम्भः । पशवो ये च मानुषाः- पशवश् च ग्राम्यारण्या मानुषाश् च पशवो ऽपि ॥ १०.८६ ॥
सर्वं च तान्तवं रक्तं शाणक्षौमाइनानि च ।
अपि चेत् स्युर् अरक्तानि फलमूले तथौषधीः ॥ १०.८७ ॥
भारुचिः ...{Loading}...
शाणादीनाम् अरक्तार्थ आरम्भः । तथौषधयो ऽविक्रेयाः ॥ १०.८७ ॥
अपः शस्त्रं विषं मांसं सोमं गन्धांश् च सर्वशः ।
क्षीरं क्षारं दधि घृतं तैलं मधु गुऌअं कुशान् ॥ १०.८८ ॥
भारुचिः ...{Loading}...
क्षीरदधिघृतग्रहणम् इह सर्वक्षीरविकारप्रदर्शनार्थम् । एवं च मस्तुकिलाटादीन्य् अप्य् अविक्रेयाणि । क्षीऋआदीणां च प्राधान्यात् ग्रहणं प्रदर्शनाथं (?) युक्तम्, न तु परिसंख्यार्थम् । स्मृत्यन्तरे चोक्तम्- “क्षीरं सविकारम्” इति । रसशब्देन गुऌअम् [अपि] निषिद्धं पूर्वश्लोके तत इह गुऌअग्रहणं नित्यार्थम् । एवं चेतररसानां विकल्पेन प्रतिषेधः । अथ तु रसशब्देन गुऌओ न गृह्यते । तत एष रसानां विकल्पो नास्ति । एतेन मधु [व्याख्यातम्] ॥ १०.८८ ॥
[आरण्यांश् च पशून्] सर्वान् दंष्ट्रिणश् च वयांसि च ।
मद्यं नीलीं च लाक्षां च सर्वांश् चैकशफांस् तथा ॥ १०.८९ ॥
भारुचिः ...{Loading}...
बहून् इत्य् अपरे पठन्ति । आरण्यपशुप्रतिषेधो नित्यार्थः । एवं च “पशवो ये च मानुषाः” इत्य् अत्र श्लोके ग्राम्यपशूनां विकल्पो विज्ञायते । अत्रापि चैकशफग्रहणाद् अस्वाश्वतरगर्दभानाम् अविकल्पः, खरानां च । ये तु पठन्ति “सर्वांश् चैकशफान् बहून्” इति, तेषां विशेषार्थः पुनरारम्भः । एकशफा बहवो ऽविक्रेयाः इति । एवं च सति ॥ १०.८९ ॥
कामम् उत्पाद्य कृष्यां तु स्वयम् एव कृषीवलः ।
विक्रीणीत तिलाञ् छुद्धान् धर्मार्थम् अचिरस्थितान् ॥ १०.९० ॥
भारुचिः ...{Loading}...
तिलानां विक्रयप्रतिषेधाद् अयं तेषां विशेषाश्रयो विक्रयप्रतिप्रसवः । शुद्धग्रहणं मिश्रीकृतान्यद्रव्यप्रतिषेधार्थम् (?) । अथ वा तिलशब्दस्यावधारणार्थत्वं दर्शयति, एवं च नेदम् अन्यप्रदर्शनार्थम्, कारणस्य समानत्वाद् इति । धर्मार्थं नित्यकर्मसङ्गे पुत्रदारात्ययप्राप्तौ । अचिरस्थितान् इत्य् अर्घप्रतीक्षणप्रतिषेधः । अस्यार्थवादः ॥ १०.९० ॥
भोजनाभ्यञ्जनाद् दानाद् यद् अन्यत् कुरुते तिलैः ।
कृमिभूतः श्वविष्ठायां पितृभिः सह मज्जति ॥ १०.९१ ॥
सद्यः पतति मांसेन लाक्षया लवणेन च ।
त्र्यहेण शूद्रो भवति ब्राह्मणः क्षीरविक्रयी ॥ १०.९२ ॥
इतरेषां तु पण्यानां विकरयाद् इह कामतः ।
ब्राह्मणः सप्तरात्रेण वैश्यभावं निगच्छति ॥ १०.९३ ॥
भारुचिः ...{Loading}...
मांसादीनां श्लोकद्वयेन गुरुलघुत्वप्रदर्सनं प्रायश्चित्तर्थं विज्ञेयम्, गुरुणि गुरुप्रायश्चित्तं यथा स्याल् लघुनि लघ्व् इति ॥ १०.९३ ॥
रसा रसैर् निमातव्या न त्व् एव लवणं तिलैः ।
कृतान्नं चाकृतान्नेन तिला धान्येन तत्समम् ॥ १०.९४ ॥
भारुचिः ...{Loading}...
लवणस्य तिलैर् विनिमयप्रतिषेधाद् रसैर् अन्यैस् तिलानि मातव्याः । तिला धान्येन व्रीह्यदिना; तत्समम् एव प्रस्थः प्रस्थे[न] निमातव्यः । न त्व् अल्पार्घितया ॥ १०.९४ ॥
जीवेद् एतेन राजन्यः सर्वेणाप्य् अनयं गतः । न त्व् एव ज्यायसीं वृत्तिम् अभिमन्येत कर्हिचित् ॥ १०.९५ ॥
भारुचिः ...{Loading}...
> जीवेद् एतेन राजन्यः सर्वेणाप्य् अनयं गतः ।
सर्वेणेत्य् अयं प्रतिषिद्धपण्यप्रतिप्रसवः पूर्वेणाजीविनः ।
> न त्व् एव ज्यायसीं वृत्तिम् अभिमन्येत कर्हिचित् ॥ १०.९५ ॥
ज्यायस्या वृत्तेः प्रतिषेधाद् अत्रानुवादः । न त्व् एव ज्यायसीं वृत्तिम् इति यद् उक्तं तस्य प्रतिषेधस्य निन्दार्थवादः ॥ १०.९५ ॥
यो लोभाद् अधमो जात्या जीवेद् उत्कृष्टकर्मभिः ।
तं राजा निर्धनं कृत्वा क्षिप्रम् एव प्रवासयेत् ॥ १०.९६ ॥
भारुचिः ...{Loading}...
तस्य सर्वस्वम् अपहृत्य प्रवासं नियमेन कुर्याद् धार्मिको राजा । यद्य् अपि चैतत्प्रकरणसामर्थ्यात् क्षत्रियविषयं शास्त्रम्, तथापि समानत्वात् कारणस्य वैश्यशूद्रयोर् अपि विज्ञेयम् ॥ १०.९६ ॥
वरं स्वधर्मो विगुणो न पारक्यः स्वनुष्ठितः ।
परधर्मेण जीवन् हि सद्यः पतति जातितः ॥ १०.९७ ॥
भारुचिः ...{Loading}...
अयम् अपरो निन्दार्थवादः । उत्कृष्टवर्णवृत्त्यनुष्ठानप्रतिषेधे स्वधर्मः परधर्म इति । प्रकरणात् तु वृत्तिविषयो धर्मशब्दः ॥ १०.९७ ॥
वैश्यो ऽजीवन् स्वधर्मेण शूद्रवृत्त्यापि वर्तयेत् ।
अनाचरन्न् अकार्याणि निवर्तेत च शक्तिमान् ॥ १०.९८ ॥
भारुचिः ...{Loading}...
सामर्थ्याद् ब्राह्मणक्षत्रिययोर् अप्य् एतद् इष्यते ॥ १०.९८ ॥
अशक्नुवंस् तु शुश्रूषां शूद्रः कर्तुं द्विजन्मनाम् ।
पुत्रदारात्ययं प्राप्तो जीवेत् कारुककर्मभिः ॥ १०.९९ ॥
भारुचिः ...{Loading}...
एतस्माच् च विज्ञायते शूद्रकर्मन्भ्यः कारुकमर्माण्य् अत्यन्तनिकृष्टानि, वर्नापशदानां वृत्तिः ॥ १०.९९ ॥
यैः कर्मभिः प्रचरितैः शुश्रूष्यन्ते द्विजातयः ।
तानि कारुककर्माणि शिल्पानि विविधानि च ॥ १०.१०० ॥
भारुचिः ...{Loading}...
कारुककर्माणि वर्धकिलोहकारादि, नानाशिल्पान्यालेख्यादीनि । आपत्काले वृत्त्यर्थम् इदं श्लोकद्वयं प्रकरणसामर्थ्याद् विज्ञेयम् ॥ १०.१०० ॥
वैश्यवृत्तिम् अनातिष्ठन् ब्राह्मणः स्वे पथि स्थितः ।
आवृत्तिकर्षितः सीदन्न् इमं धर्मं समाचरेत् ॥ १०.१०१ ॥
भारुचिः ...{Loading}...
स्वे पथि स्थित इति च लिङ्गात् क्षत्रियवृत्तिम् अप्य् अनातिष्ठन्न् इति गम्यते । एवं च ब्राह्मणस्यासत्पर्तिग्रहः क्षत्रियादिवृत्तेर् अभावे वैकल्पिको गम्यते । न तु समुच्चयेन ॥ १०.१०१ ॥
सर्वतः प्रतिगृह्णीयाद् ब्राह्मणस् त्व् अनयं गतः ।
पवित्रं दुष्यतीत्य् एतद् धर्मतो नोपपद्यते ॥ १०.१०२ ॥
भारुचिः ...{Loading}...
यथैव च वर्णान्तरकर्मानुष्ठान्[ए तद्]अनन्तरम् अस्य कर्मेणोक्तम्, एवं प्रतिग्राह्याणाम् अप्य् अप्रशस्तानां गुरुलघुत्वाल् लघोर् लघोर् अभावे असत्प्रतिग्रहो ऽपि गुरोर् गुरोः सकाशात् स्याद् इति । एवं च [प्रशस्ताभावे] ऽप्रशस्तात् स्यात् । तदभावे अप्रशस्ततरात् । तस्याप्य् अभावे ऽरशस्ततमात् । तथा च वक्ष्यति, “सर्वस्वं वा वेदविदुषे ब्राह्मणायोपपादयेत्” इति । यदि चैतद् एवं न स्यात् । न चैतद् इष्टम् । अतो यथोक्त एव शास्त्रार्थः । पवित्रं च तन् न दुष्यतीत्य् अयम् आपद्धर्मस्तुत्यर्थवादः । ईषत्प्रत्यवाय हेतुर् वेति कृत्वा । अथ वा प्राणधारणस्य प्रयोजनातिशयदर्शनार्थकः स्यात्, येन जीवन्न् अयं शक्ष्यति ह्य् अतिक्रमाकुशलं च निहर्तुम् इति ॥ १०.१०२ ॥
[नाध्यापनाद् याजनाद् वा गर्हिताद् वा प्रतिग्रहात् ।
दोषो भवति] विप्राणां ज्वलनाम्बुसमा हि ते ॥ १०.१०३ ॥
भारुचिः ...{Loading}...
अत्राध्यापनयाजनयोर् गर्हितयोर् नानुज्ञानम् । असत्प्रतिग्रहस्तुत्यर्थत्वात् तयोर् ग्रहणस्य । स चाधिकृत एव “सर्वतः प्रतिगृह्णीयात्” इति । न त्व् असदध्यापनयाजने ऽधिकृते । तथा च सति पूर्ववद् अयम् अप्य् अर्थवादो व्याख्यातः ॥ १०.१०३ ॥
जीवितात्ययम् आपन्नो यो ऽन्नं अत्ति यतस् ततः ।
आकाशम् इव पङ्केन न स पापेन लिप्यते ॥ १०.१०४ ॥
अजीगर्तः सुतं हन्तुम् उपासर्पद् बुभुक्षितः ।
न चालिप्यत दोषेण क्षुत्प्रतीकारम् आचरन् ॥ १०.१०५ ॥
श्वमांसम् इच्छन्न् आर्तस् तु धर्माधर्मविचक्षणः ।
प्राणानां परिरक्षार्थं वामदेवो न लिप्तवान् ॥ १०.१०६ ॥
भारद्वाजः क्षुधार्तश् च सपुत्रो विजने वने ।
बह्वीर् गाः प्रतिजग्राह बृहत्तक्ष्णो महातपाः ॥ १०.१०७ ॥
क्षुधार्तश् चात्तुम् अभ्यागाद् विश्वामित्रः श्वजाघनीम् ।
चण्डालहस्ताद् आदाय धर्माधर्मविचक्षणः ॥ १०.१०८ ॥
भारुचिः ...{Loading}...
जीवितात्यये सर्वान्नाभ्यनुज्ञानार्थाः पञ्चश्लोकाः परकृत्यर्थवादाः विज्ञेयाः ॥ १०.१०४–०८ ॥
प्रतिग्रहाद् याजनाच् च तथैवाध्यापनाद् अपि ।
प्रतिग्रहः प्रत्यवरः प्रेत्य विप्रस्य गर्हितः ॥ १०.१०९ ॥
भारुचिः ...{Loading}...
प्रकरणाद् असत्प्रतिग्रहनिन्दा । ईषद्गर्हितयाजनाध्यापनवृत्तिसंस्तुत्यर्था सामर्थ्यात् । एवं च सति ईषद्गर्हिते याजने ऽध्यापने वा सति वृत्त्यर्थे नासत्परिग्रहे प्रवर्तेत इत्य् अर्थात् विज्ञायते । इतरथा, आपत्कल्पविहितासत्प्रतिग्रहनिन्दा पूर्वशास्त्रविरोधिनी (?) प्रसज्येत । न चैतद् इष्टम् । अतस् तन्निन्दयेत्रवृत्तिस्तुतिर् विज्ञेया । सा च क्रमार्थेत्य् उक्तम् । अत्र कारणम् आह ॥ १०.१०९ ॥
याजनाध्यापने नित्यं क्रियेते संस्कृतात्मनाम् ।
प्रतिग्रहस् तु क्रियते शूद्राद् अप्य् अन्त्यजन्मनः ॥ १०.११० ॥
भारुचिः ...{Loading}...
यतश् चैतद् एवम् अतो यथोपदिष्टः क्रमः प्रतिपादनीयः ॥ १०.११० ॥
जपहोमैर् अपैत्य् एनो याजनाध्यापनैः कृतम् ।
प्रतिग्रहनिमित्तं तु त्यागेन तपसैव च ॥ १०.१११ ॥
भारुचिः ...{Loading}...
प्रकरणाद् अयं प्रतिग्रहो ऽसत्प्रतिग्रहो विज्ञेयः । छन्दोभङ्गभयात् असच् छब्दो ऽत्र न पठितः प्रतिग्रहोपपदम् । जपहोमत्यागतपसां च प्रायश्चित्तप्रकरणोपदिष्टानाम् इहोपदेशः स्तुत्यर्थः, न विध्यर्थः ॥ १०.१११ ॥
शिलोञ्छम् अप्य् आददीत विप्रो ऽजीवन् यतस् ततः ।
प्रतिग्रहाच् छिलः श्रेयांस् ततो ऽप्य् उञ्छः प्रशस्यते ॥ १०.११२ ॥
भारुचिः ...{Loading}...
असत्प्रतिग्रहपक्षे शिलोञ्छाभ्याम् । “दुर्धराव्” इमौ विज्ञेयौ । सत्प्रतिग्रहाद् इत्य् एके । येन सिलोञ्छयोः किलासत्प्रतिग्रहात् साधुवादो न युक्तः । अत्यन्तहीनत्वाद् असत्प्रतिग्रहस्य सिलोञ्छाभ्याम् । “दुर्धरौ हि ताव् अकृतात्मभिः” इति यद् उक्तं तद् एतद् अनादृत्यम् । यस्मात् सिलोञ्छवृत्तिनो यद्य् अप्य् आत्मनिग्रहो ऽस्ति, तथापि देवतातिथिभृत्यगतम् अवश्यम् अस्य क्रियावैकल्यं जायते । असत्प्रतिग्रहे चात्मनिग्रह उच्यते, “न तु तृप्येत् स्वयं ततः” इति वचनात् । तीव्रतरश् च संनिहितद्रव्यस्यात्मनिग्रहः । तथा द्रव्यस्यार्जनरक्षप्रतिपादनेषु प्रयत्ननियमः । अपि च सिलोञ्छवृत्तिनो ऽप्य् असत्सिलोञ्छगन्धो ऽस्ति, यतस् तत इति वचनात्, अविशेषेण सर्वकृषीवलेभ्यः । एताव् इह शिलोञ्चाव् उच्येते । यतः असत्प्रतिग्रहापकरणाल् लिङ्गाच् च विर्पो ऽजीवन् यतस् तत इति एतस्माद् विज्ञायते च । सत्प्रतिग्रहपक्ष एतौ सिलोञ्छौ । एवं च नाधिकार उत्स्रक्ष्यते । न लिङ्गम् । गुणवृत्त्या साधुवाद एतद् गम्यते । तदभावे ऽसत्प्रतिग्रहः स्यात् । यथा याजनाध्यापनयोर् इत्य् उक्तम् ॥ १०.११२ ॥
सीदद्भिः कुप्यम् इच्छद्भिर् धनं वा पृथिवीपतिः ।
याच्यः स्यात् स्नातकर् विप्रैर् अदित्संस् त्यागम् अर्हति ॥ १०.११३ ॥
भारुचिः ...{Loading}...
अयं च प्रतिषेधविषयाद् अक्षत्रियाद् राज्ञः, क्षत्रियाद् अपि वा, अलुब्धाच् छास्त्रवर्तिनः सकाशाद् अयं प्रतिग्रहो विज्ञेयः । उपाध्यायस् त्व् आह- क्षत्रियाद् एव राज्ञः [प्रतिग्रहः] प्राथमकल्पको ऽयम् । कुप्यं काष्ठमयं शय्यासनाद्य् असारम् । धनं वा गोहिरण्यादि याच्यम्, द्रव्यस्यायोगे क्षुदवसन्नात्मकालत्रापत्यधर्मतन्त्रेण ॥ १०.११३ ॥
अकृतं च कृतात् क्षेत्राद् गौर् अजाविकम् एव च ।
हिरण्यं धान्यम् अन्नं च पूर्वं पूर्वम् अदोषवत् ॥ १०.११४ ॥
भारुचिः ...{Loading}...
उत्तरस्योत्तरस्य परित्यागे ऽभ्युदयः ॥ १०.११४ ॥
सप्त वित्तागमा धर्म्या दायो लाभः क्रयो जयः ।
प्रयोगः कर्मयोगश् च सत्प्रतिग्रह एव च ॥ १०.११५ ॥
भारुचिः ...{Loading}...
दायं पित्र्यं ज्ञातिधनं वा । लाभो निध्यधिगमः, संविभागो वा, कुतश्चिद् अन्योन्योपकारनिमित्तः । क्रयजयौ प्रसिद्धौ । प्रयोगो धर्म्यः कुसीदः । कर्मयोगः कृषिवानिज्ये ऽस्वयंकृते । सत्प्रतिग्रहो व्याख्यातः । एतेषां दायलाभौ चतुर्णाम् अपि वर्णानां साधारणौ ऽप्रतिषेधात् । क्रये विवदन्ते — चतुर्णाम् इत्य् एके, वैश्यस्येत्य् अपरे, येन क्रयनिमित्त उपकारो न युक्तो ब्राह्मणादीनाम् इति । एवं तर्हि शाकाद्य् अपि क्रीत्वा नोपयोक्तव्यं ब्राह्मणादिभिः । अन्ये तु क्रयविक्रयाद् अप्य् उपजीवनात् प्रतिषेधं मन्यमाना उपभोगे दानादौ च ब्राह्मणादीनां क्रीत्वाप्य् उपयोगं मन्यन्ते । जयस् तु धर्म्यवचनात् क्षत्रियस्येतरेभ्यो विशिष्टः । प्रयोगकर्मयोगौ च ब्राह्मणक्षत्रिययोर् वैश्यवृत्तिप्रवृत्ते सत्यं धर्म्यतरौ । वैश्ये हि कृषिवाणिज्यकुसीदान्य् अविशेषेणाभ्यनुज्ञातानि । तस्यापि तु धर्म्यवचनाद् अस्वयंक्रियां अभ्युदयविशेषसिद्धिम् अविरुद्धां मन्यामहे । एवं च सत्य् एषां दायादीनां धर्म्यनिर्देशात् दायादिभिर् वृत्तिविशेषैः संनिहितद्रव्याणां ब्राःमणादीनां न नियोगतो याजनादिवृत्तिता स्यात् । ब्रह्मचारिभैक्षवत् । अथास्य श्लोकस्यायम् अन्यो ऽर्थः । यथा प्रकृतौ ब्राह्मणस्य सत्प्रतिग्रहादयो धर्म्याः, एवम् अन्यान्य् अप्य् आपत्कल्पोपदिष्टानि ब्राह्मणादीनां कर्माण्यभावे वैकल्पिकानि धर्म्याण्य् एव विज्ञेयानि । तथा च सति विहितार्थानुष्ठानस्तुतिर् आत्मकुटुम्बधारणार्था, आपादितप्रयोजनातिशयदर्शनात् । तथा च सत्य् आह ॥ १०.११५ ॥
विद्या शिल्पं भृतिः सेवा गोरक्ष्यं विपणिः कृषिः ।
धृतिर् भैक्ष्यं कुसीदं च दश जीवनहेतवः ॥ १०.११६ ॥
भारुचिः ...{Loading}...
धर्माधिकाराद् यस्य यत् प्रतिषिद्धं तत् तस्यैतस्याम् अवस्थायाम् अभ्यनुज्ञायते । यथा “ब्राह्मणस्यार्थेनाध्यापनम्” इत्य् एवमादिः पुत्रदा[रा]त्ययप्राप्तस्य स्थितौ । तथा च कृत्वोक्तं दश जीवनहेतवः इति । अपरे तु धृतिनिर्दिदृक्षया विद्यादीनां निर्देशं मन्यन्ते । यस्मान् न धृतिम् अन्तरेण विद्यादयो जीवनहेतवो भवन्ति । धृत्यनुगतास् त्व् एते जीवनाय पर्याप्ताः । अतः सर्वत्र धृतिः कर्तव्येति धृत्यर्थो ऽयम् उपदेशः ॥ १०.११६ ॥
ब्राह्मणः क्षत्रियो वापि वृद्धिं नैव प्रयोजयेत् ।
कामां तु खलु धर्मार्थं दद्यात् पापीयसे ऽल्पिकाम् ॥ १०.११७ ॥
भारुचिः ...{Loading}...
आपत्कल्पे ऽपीत्य् अर्थः । एवं च सति दण्डापूपिकया प्रकृताव् अपि ब्राह्मणस्य वृद्धेर् अत्यन्तप्रतिषेधः, अस्वयंकरणपक्षे ऽपि । तथा मन्त्रे वार्धुषिकापवादः श्रूयते, “किं ते कृण्वन्ति कीकटेषु गावः” इत्य् एवमादि । अथ वेतरवृत्तिस्तुत्यर्थो ऽयं श्लोकः, क्रमार्थो वा । एवं च सत्य् अन्यास्व् आपत्कल्पवृत्तिष्व् अपि विद्यमानासु नैनं अनुतिष्ठेत् स्वयम् । किं तर्हि तदभावे । गुरुत्वाद् अस्याः । तथा च मन्त्रवर्ण इत्य् उक्तम् ॥ १०.११७ ॥
चतुर्थम् आददानो ऽपि क्षत्रियो भागम् आपदि ।
प्रजा रक्षन् परं शक्त्या किल्बिषात् प्रतिमुच्यते ॥ १०.११८ ॥
भारुचिः ...{Loading}...
चतुर्थम् अप्य् आददानो भागम् अन्यय्यम् आपदि रक्षाधिकृतो राजा क्षत्रियः प्रजा रक्षन् किल्बिषात् प्रतिमुच्यते, अन्याय्यभागग्रहणादेः । एवं च सति क्षत्रियचतुर्थभागादानम् अर्थवादः प्रजासंरक्षणस्य । येन ॥ १०.११८ ॥
स्वधर्मो विजयस् तस्य नाहवे स्यात् पराङ्मुखः ।
शस्त्रेण वैश्यान् रक्षित्वा धर्म्यम् आहारयेद् बलिम् ॥ १०.११९ ॥
भारुचिः ...{Loading}...
प्रजासंरक्षणं कुर्वन् । एवं च सति सो ऽयम् उच्यते ॥ १०.११९ ॥
धान्य ऽष्टमं विशां शुल्कं विंशं कार्षापणावरम् ।
कर्मोपकरणाः शूद्राः कारवः शिल्पिनस् तथा ॥ १०.१२० ॥
भारुचिः ...{Loading}...
[राज्ञा धान्यस्याष्टमो] भागो गृहीतव्यो जानपदात् स्ववस्थापेक्षया। हिरण्यव्यवहारिणां च लाभाच् छुल्कं विंशो भागः । सो ऽयम् अनुवादो विज्ञेयः पूर्वोक्तस्य । कर्मोपकरणाः शूद्राः [भवेयुस्] तथा च कारवः शिल्पिनश् च । कारुशिल्पव्यपदेशश् च गोबलीवर्दन्यायेन ॥ १०.१२० ॥
शूद्रस् तु वृत्तिं कांक्षन् क्षत्रम् आराधयेद् यदि ।
धनिनं वाप्य् उपाराध्य वैश्यं शूद्रो जिजीविषेत् ॥ १०.१२१ ॥
भारुचिः ...{Loading}...
> शूद्रस् तु वृत्तिं कांक्षन्
आपदीति वर्तते
> क्षत्रम् आराधयेद् यदि ।
क्षत्रं आराधय्तुम् इच्छेत्, तदभावे
> धनिनं वाप्य् उपाराध्य वैश्यं शूद्रो जिजीविषेत् ॥ १०.१२१ ॥
एवं च सति क्षत्रियवैश्याराधनं वृत्तिर् एव केवलया शूद्रस्य ॥ १०.१२१ ॥
स्वर्गार्थम् उभयार्थं वा ब्राह्मणान् अभिधारयेत् ।
जातब्राह्मणशब्दस्य सा ह्य् अस्य कृतकृत्यता ॥ १०.१२२ ॥
भारुचिः ...{Loading}...
> स्वर्गार्थम् उभयार्थं वा ब्राह्मणान् अभिधारयेत् ।
शूद्रस्येदं ब्राह्मणाराधनं वृत्तिअर्थम् अपि सद्, धर्माय । एवं च सत्य् एषा स्तुतिर् अस्योपपन्ना भवति ।
> जातब्राह्मणशब्दस्य सा ह्य् अस्य कृतकृत्यता ॥ १०.१२२ ॥
यतश् चैतद् एवम् अतः ।
विप्रसेवैव शूद्रस्य विशिष्टं कर्म कीर्त्यते ।
यद् अतो ऽन्यद् धि कुरुते तद् भवत्य् अस्य निष्फलम् ॥ १०.१२३ ॥
भारुचिः ...{Loading}...
> विप्रसेवैव शूद्रस्य विशिष्टं कर्म कीर्त्यते ।
> यद् अतो ऽन्यद् धि कुरुते
क्षत्रियविश्याराधनम् ।
> तद् भवत्य् अस्य निष्फलम् ॥ १०.१२३ ॥
अथ वा यद् अतो ऽन्यत् प्रकुरुते पाकयज्ञादि तद् भवत्य् अस्य निष्फलम् इति । एवं च सतीयं विहितकर्मनिन्दा विप्रसेवास्तुत्यर्थम् उपदेशसामर्थ्याद् विज्ञायते ॥ १०.१२३ ॥
प्रकल्प्या तस्य तैर् वृत्तिः स्वकुटुम्बाद् यथार्हतः ।
शक्तिं चावेक्ष्य दाक्ष्यं च भृत्यानां च परिग्रहम् ॥ १०.१२४ ॥
भारुचिः ...{Loading}...
सत्याम् अपि धर्मार्थायां विप्रसेवायां प्रकल्प्या तस्य तैर् वृत्तिः । अर्थाच् चैतद् आपद्यते वृत्तितो ऽप्य् आश्रितस्य, किं पुनर् अवृत्तेः शूद्रस्य । पुत्रवच् चास्य शुश्रूषा न वृत्तिपरिक्रयेण, येनासौ धर्मोपनतः । एवंविधस्यापि च शूद्रस्य ॥ १०.१२४ ॥
उच्छिष्टम् अन्नं दातव्यम् जीर्णानि वसनानि ।
पुलाकाश् चैव धान्यानाम् जीर्णाश् चैव परिच्छदाः ॥ १०.१२५ ॥
भारुचिः ...{Loading}...
> उच्छिष्टम् अन्नं दातव्यम्
प्रतिषिद्धार्थप्रतिप्रसवो ऽयम्, यद् उक्तम् “न शूद्राय मतिं दद्यात् नोच्छिष्टम्” । एवं च सत्य् अनाश्रितशूद्रविषयो ऽयं प्रतिषेधो द्रष्टव्यः । ब्राह्मणाश्रितशूद्रविषयो ऽस्त्व् अयं प्रतिप्रसवः प्रकरणसामर्थ्यात् ।
> जीर्णानि वसनानि ।
ब्राह्मणपरिभुक्तानि गृह्यन्ते ।
> पुलाकाश् चैव धान्यानाम्
असारद्रव्योपदेशपरम् इदम्
> जीर्णाश् चैव परिच्छदाः ॥ १०.१२५ ॥
आसनशयनास्तरणोपधानादयः । एवंविधो ऽपि च ॥ १०.१२५ ॥
न शूद्रे पातकं किंचि[न् न च संस्कारम् अर्हति ।
नास्याधिकारो धर्मे ऽस्ति न धर्मात् प्रतिषेधन]म् ॥ १०.१२६ ॥
भारुचिः ...{Loading}...
[न शूद्रे पातकं किंचिद्] इति सामर्थ्यान् न ब्रह्महत्यादि यथासंभवं प्रतिषिध्यते । किं तर्हि लशुनादिभक्षणजम्, येन तदभक्षणं द्विजातिधर्मः । तथा चोक्तम् “एतद् उक्तं द्विजातीनां भक्ष्याभक्ष्यम् अशेषतः” । अनुवादश् चायम् उत्तरार्थः । कस्मात् पुनर् अभक्ष्यभक्षणजं शूद्र एवंविधे पातकं नास्तीति । यद् अयं न च संस्कारम् उपनयनादिकम् अर्हतीत्य् आह पर्युदासेन, “चतुर्थ एकजातिस्” तद् अनुवादेन । एवं च सति तद् अभावात् नास्याधिकारो धर्मे ऽस्ति, श्रौते ऽग्निहोत्रादौ । कथं पुनर् अयं विशेषप्रतिषेधो विज्ञायते । येनाह- न धर्मात् प्रतिषेधनम् । स्मार्तात् पाकयज्ञादेर् इति गम्यते । तथा चास्यासौ विहितः (?) । एवं च व्यासः “न चेह शूद्रः पततीति निश्चयो ने (?) चेह संस्कारम् इहार्हतीति [वा] श्रुतिप्रयुक्तं न च धर्मम् अश्नुते न चास्य धर्मे प्रतिषेधनं स्मृतौ” इति । अथ वा सर्वम् एवैतत् पूर्वशास्त्रविरुद्धत्वाद् अवचनीयम्, यद् उक्तं न शूद्रे पातकं किंचिन् न च संस्कारम् अर्हति,नास्याधिकारो धर्मे ऽस्तीति । उत्तरार्थस् त्व् इतीदम् आरभ्यते, न धर्मात् प्रतिषेधनम् इति । तथा च वक्ष्यति, “धर्मेप्सवस् तु धर्मज्ञः,” “यथा यथा हि सद्वृत्तम्” इति च । अथ वा विकल्पार्थो ऽस्यारम्भः । शूद्रस्य हि कानिचित् कर्माण्य् अमन्त्रकान्य् अनुज्ञायन्ते पाकयज्ञादीनि । तेषाम् अनुष्ठानाद् ब्राह्मणम् आश्रित्यास्य शूद्रस्याधिकारो धर्मे ऽस्ति नियोगतः । न चैतस्मात् प्रतिषेधनम् । एवं च सत्य् उक्तप्रतिषिद्धत्वात् विकल्पेनैषां क्रिया स्यात् । तस्य चास्य क्रियायाम् अभ्युदयः, अक्रियायां प्रत्यवायाभाव इत्य् एतत् सिद्धं भवति । प्रकरणसामर्थ्याद् ब्राह्मणाश्रितस्याइतत् । इतरस्य वा । तथा च सत्य् आह ॥ १०.१२६ ॥
धर्मेप्सवस् तु धर्मज्ञाः सतां वृत्तम् अनुष्ठिताः ।
मन्त्रवर्ज्यं न दुष्यन्ति प्रशंसां प्राप्नुवन्ति च ॥ १०.१२७ ॥
भारुचिः ...{Loading}...
अप्रतिषिद्धम् आसेवमानाः । प्रकरणाद् ब्राह्मणापाश्रितशूद्रा उच्यन्ते । न चानेन मन्त्रप्रतिषेधेनाग्निहोत्रादिष्व् अप्य् अस्याधिकारो ऽनुज्ञायते, “मन्तर्वर्जं न दुष्यन्ति” इत्य् एतस्माद् । येन श्रुत्याग्निहोत्रादिषु शूद्रः पर्युदस्तः तस्माद् धर्मेप्सवः स्मार्तविषयं नियतसंस्कारेषु पाकयज्ञेषु चावसथ्याधानपार्वणवैश्वदेवान्नप्राशनादिषु शूद्राणां पाक्षिको ऽधिकार इत्य् उक्तम् । तथा च स्मृत्यन्तरम्- “पाकयज्ञैः स्वयं यजेतेत्य् एके” इति । एवं च ॥ १०.१२७ ॥
यथा यथा हि सद्वृत्तम् आतिष्ठत्य् अनसूयकः ।
तथा तथेमं चामुं च लोकं प्राप्नोत्य् अनिन्दितः ॥ १०.१२८ ॥
भारुचिः ...{Loading}...
स्मार्तानां कर्मणां शूद्रक्रियापक्षे स्तुतिर् अनुष्ठानप्ररोचनार्था ॥ १०.१२८ ॥
शक्तेनापि हि शूद्रेण न कार्यो धनसंचयः ।
शूद्रो हि धनम् आसाद्य ब्राह्मणान् एव बाधते ॥ १०.१२९ ॥
भारुचिः ...{Loading}...
महाफलैः शिल्पादिभिः वृत्त्यन्तरैः पर्याप्तधनः शूद्रो विशेषतो दानेन गुणवद्ब्रह्मणेभ्यो शूद्रप्रतिग्रहोपच्छन्दनेन महतो ब्राह्मणान् स्वधर्मात् प्रच्यावयेत् । अयं तावन् नार्थः । न हि शास्त्रोपदिष्टं कुर्वतः सत्य् अपि परोपघाते कश्चिद् दोषो ऽस्ति । यदि स्यात्, नवश्राद्धादिष्व् अपि ददतो दोषः स्यात् । असाव् अपि परस्योपघातं करोति, यो ऽर्थमानाभ्यां गुणवतो ब्राह्मणान् प्रतिपूजयति । तस्मान् नायम् अर्थः । धनोत्सेकाच् छूद्रो ब्राह्मणबाधने वर्तेतेत्य् अयम् अपि न शक्यो ऽभ्युपगन्तुम् । सर्वेषां गृह्येत ब्राह्मणादिना तुल्यम् । केन कः शूद्रे विशेषः, येन तस्यैवम् अर्थसंचयो निषिध्यते । अयं तर्ह्य् अन्यो ऽर्थः । न केवलं नित्यदानं शूद्रस्याभ्यनुज्ञायते, किं तर्ह्य् अभ्युदयप्रयोजनम् अप्य् अनेन दानम् अनुष्ठेयम् । एवं च न कार्यो धनसंचय इत्य् अयम् एवमर्थः प्रतिषेधः । अथ वोक्तं “प्रकल्प्या तस्य तैर् वृत्तिः स्वकुटुम्बाद् यथार्हतः” इत्य् एवमादि । एवं च सति ब्राह्मणापाश्रितस्य शूद्रस्यायम् उपदेशः । शक्तेनापि हि शूद्रेण न कार्यो धनसंचय इति । तथा स्मृत्यन्तरम्- “यं चार्यम् आश्रयेद् भर्तव्यस् तेन क्षीनो ऽपि, तेन चोत्तरः, तदर्थो ऽस्य निचयः स्यात्” इति ॥ १०.१२९ ॥
एते चतुर्णां वर्णानाम् आपधर्माः प्रकीर्तिताः ।
यान् सम्यग् अनुतिष्ठन्तो व्रजन्ति परमां गतिम् ॥ १०.१३० ॥
भारुचिः ...{Loading}...
आत्मकुटुम्बप्राणधारणस्य प्रयोजनातिशयदर्शनाद् धर्मतन्त्रसंयोगे च तदनुष्ठानार्थस्याग्निहोत्रादेर् नित्यस्य कर्मणियम् (?) एव स्थितिर् उपपन्ना- यान् सम्यग् अनुतिष्ठन्त इत्य् एवमादि । अथ वा महाफलानाम् अल्पप्रत्यवायानुषङ्गापक्षयेदं स्तुतिवचनम् उपपन्नम्, आपद्धर्मोपसंहारार्थम् ॥ १०.१३० ॥
एष धर्मविधिः कृत्स्नश् चातुर्वर्ण्यस्य कीर्तितः ।
अतः परं प्रवक्ष्यामि प्रायश्चित्तविधिं शुभम् ॥ १०.१३१ ॥
भारुचिः ...{Loading}...
पूर्वार्धश्लोकश् चात्र सर्वधर्मोपसंहारार्थ उत्तरः प्रायश्चित्तोपन्याससिद्दय इति ॥ १०.१३१ ॥
इति भारुचिकृते दषमो ऽध्यायः ।