०९

**नवमो ऽध्यायः **

पुरुषस्य स्त्रियाश् चैव धर्म्ये वर्त्मनि तिष्ठतोः ।
संयोगे विप्रयोगे च धर्मान् वक्ष्यामि शास्वतान् ॥ ९.१ ॥

भारुचिः ...{Loading}...

धर्म्ये वर्त्मनीत्य् अन्योन्याव्यभिचारलक्षणे तिष्ठतोर् दम्पत्योः संयोगे जीवति पत्यौ संनिहिते वा विप्रयोगे च मृते प्रोषिते वा तयोर् धर्मान् वक्ष्यामि नियोगवृत्तिनियमादीन् । शाश्वतग्रहणं चानयोर् अनुष्ठानस्तुत्यर्थम् । इदं तावत् प्राक् प्रसिद्धम् एव ॥ ९.१ ॥

यथा

अस्वतन्त्राः स्त्रियः कार्याः पुरुषैः स्वैर् दिवानिशम् ।
विषये सज्जमानाश् च संस्थाप्या आत्मनो वशे ॥ ९.२ ॥

भारुचिः ...{Loading}...

नन्व् आसाम् अस्वातन्त्र्यं स्त्रीधर्मे निष्ठम् एव पञ्चमे ऽध्याये ।

सत्यम् । स्त्रीधर्मा एव ते । इमे तु वक्ष्यमाणाः स्त्रीपुंसयोः । तथा च सति प्रतिज्ञेयं पुरुषस्य् स्त्रियाश् चैवेति । शास्त्रानुक्रमण्यां चैवम् एवोक्तम् । “साक्षिप्रश्नविधानं च धर्मः स्त्रीपुंसयोस् तथा” इति । पुनश् च व्यवहारानुक्रण्याम् अष्टमे ऽध्याये समस्तयोर् एव निर्देशः । “स्त्रीपुंधर्मो विभागश् च” इति । अथ वोत्तरार्थम् एतत् स्यात् । एवं च सति यद् उक्तम् आसां स्त्रीधर्मेषु पारतन्त्र्यं तत् कुतः स्याद् इत्य् अत इदं तत्संबन्धेनोच्यते ॥ ९.२ ॥

पिता रक्षति कौमारे भर्ता रक्षति यौवने ।
पुत्रस् तु स्थविरे भावे न स्त्री स्वातन्त्र्यम् अर्हति ॥ ९.३ ॥

भारुचिः ...{Loading}...

एवं च सति [न] राजनि भर्तर्य् एव वासाम् अस्वातन्त्र्यम्, किं तर्हि यथावयः पित्रादिषु । तत्संरक्षणपरे च वाक्ये न पित्रादयो वयोविभागाश्रयेण हित्रादिस्त्रीणां रक्षितारो नियम्यन्ते । एवं च सति सर्वदा सर्वेषां तद्रक्षणोपदेशो ऽयं सामर्थ्याद् विज्ञेयः । सर्वत्र लड् द्रष्टव्यो विध्यर्थे रक्षेद् इत्य् एवं छान्दसत्वाविशेषात् । स्मृतेर् युक्तं तल्लक्षणम् अत्र । यतश् चैतद् एवम् अतः ॥ ९.३ ॥

काले ऽदाता पिता वाच्यो वाच्यश् चानुपयन् पतिः ।
मृते भर्तरि पुत्रस् तु वाच्यो मातुर् अरक्षिता ॥ ९.४ ॥

भारुचिः ...{Loading}...

सर्वदा तत्संरक्षणम् अकुर्वन्तः कन्यादानादि च यथासंभवं वाच्या वचनीयाः स्युः । यत एतद्दोषपरिहारार्थम् एभिः ॥ ९.४ ॥

सूक्ष्मेभ्यो ऽपि प्रसङ्गेभ्यः स्त्रियो रक्ष्या विशेषतः ।
द्वयोर् हि कुलयोः शोकम् आवहेयुर् अरक्षिताः ॥ ९.५ ॥

भारुचिः ...{Loading}...

सूक्ष्मप्रसङ्गाश् चासां व्यभिचारहेतवो लोके प्रसिद्धाः परिव्राजिकादिसंसर्गाख्याः अननुशिष्टा अपि ॥ ९.५ ॥

इमं हि सर्ववर्णानां पश्यन्तो धर्मम् उत्तमम् ।
यतन्ते रक्षितुं भार्यां भर्तारो दुरबला अपि ॥ ९.६ ॥

भारुचिः ...{Loading}...

किं पुनर् इतरे । तच् च धर्मोत्तमत्वं स्त्रीरक्xअणस्य यथा भवति तथेदम् अधुनोच्यते सर्वर्थम् ॥ ९.६ ॥

स्वां प्रसूतिं चरित्रं च कुलम् आत्मानम् एव च ।
स्वं च धर्मं प्रयत्नेन जायां रक्षन् हि रक्षति ॥ ९.७ ॥

भारुचिः ...{Loading}...

स्वां प्रसूतिम् अपत्यशुद्धिं जायां रक्षन् हि रक्षति यथा तथैव । चरित्रम् आचारम् । भार्या संरक्षणियेत्य् एवम् । कुलं च पूर्वपुरुषान् । आत्मानं च, प्रेतं सन्तम् असंकीर्णापत्यपिण्डोदकरियया, जीवन्तं चापत्यसंकरपरिहारेण । तथा च स्मृत्यन्तर-

अभिरूपाः कुले जाता विद्याशीलसमन्विताः ।
सत्पुत्रशिष्यास् त्रायन्ते मातरं पितरं गुरुम् ॥

स्वधर्मं श्रौतं येनासंकीर्णापत्यस्याधानादिभिर् अधिकारः भवति गौणं वा तद् इति वक्ष्यामः । नामधेयं च स्त्रियाः संरक्षणार्थवादी कुर्वन्न् इदम् आह ॥ ९.७ ॥

पतिर् भार्यां संप्रविश्य गर्भो भूत्वेह जायते ।
जायायास् तद् धि जायात्वं यद् अस्यां जायते पुनः ॥ ९.८ ॥

भारुचिः ...{Loading}...

वेदस्मृतिशास्त्रन्यायविरोधश् चायम् अर्थवादो भार्यासंरक्षणार्थः । तथा च प्रकरणम् । दृष्टश् चायं लोकप्रवादस् तत्संरक्षणार्थः । अपरो ऽर्थवाद उच्यते ॥ ९.८ ॥

यादृशं भजते हि स्त्री सुतं सूते तथाविधम् ।
तस्मात् प्रजाविशुद्ध्यर्थं स्त्रियं सूते तथाविधम् ॥ ९.९ ॥

भारुचिः ...{Loading}...

तत्संरक्षणाच् चापत्यशुद्ध्या सर्वकर्माधिकारो ऽत्यन्तोत्कर्षप्रयोजनो यस्मात् । अतश् चायम् उक्तो मुहुर् मुहुर् आदरेण तत्संरक्षणे ॥ ९.९ ॥

[न कश्चिद् योषितः शक्तः प्र]सह्य परिरक्षितुम् ।
एतैर् उपाययोगैस् तु शक्याः स्युःपरिरक्षितुम् ॥ ९.१० ॥

भारुचिः ...{Loading}...

पूर्वापरविरोधः शास्त्रे न न्याय्यो भिन्नप्रकरणे ऽपि, किं पुनर् एकप्रकरणे । यत एव[ं न कश्चिद्] योषितः शक्तः प्रसह्य परिरक्षितुम् इतीदं वक्ष्यमाणोपय(?)स्तुत्यर्थम् । एवं च पूर्वं स्त्रीसंरक्षणोपदेशो न विरुध्यते ॥ ९.१० ॥

के पुनस् तद्रक्षणोपायाः । यतस् तान् दर्शयति ।

अर्थसंरहणे चैनां व्यये चैव नियोजयेत् ।
सौचे (?) धर्मे ऽन्नपक्त्यां च पारिणह्यस्य चेक्षणे ॥ ९.११ ॥

भारुचिः ...{Loading}...

पारीणह्यम् आसनशयनोपधानास्त्रणादि “पत्नी हि पारीणह्यस्येशे” इति श्रुतेः ॥ ९.११ ॥

अरक्षिता गृहे रुद्धाः पुरुषैर् आप्तकारिभिः ।
आत्मानम् आत्मना यास् तु रक्षेयुस् ताः सुरक्षिताः ॥ ९.१२ ॥

भारुचिः ...{Loading}...

अनन्तरश्लोकोतेन चोपायेनैता आत्मानम् आत्मना रक्षन्ति तस्मात् तत्स्तुतिपरम् एवेदम् । न तु गृहोपरोधाप्तपुरुषोपग्रहलक्षणयोस् स्त्रीरकषणहेत्वोर् अयं प्रतिषेधः, सामर्थ्यात् प्रकरणाच् चेति । अथ वा नारीसंदूषणपरिवर्जनस्तुतिपरम् एतत्, आत्मानम् आत्मना यास् तु रक्षेयुस् ताः सुरक्षिता इति । यतस् तत्परिवर्जनार्थं तानि दर्शयति ॥ ९.१२ ॥

पानम् दुर्जनसंसर्गः पत्या च विरहो ऽटनम् ।
स्वप्नो ऽन्यगेहवासश् च नारीसंदूषणानि षट् ॥ ९.१३ ॥

भारुचिः ...{Loading}...

परिवर्जनार्थ एषाम् उपदेशस् तत्पुरुषाणाम् । यतश् च पानादिव्यभिचारकरणेषु वर्तमानाः ॥ ९.१३ ॥

नैता रूपं परीक्षन्ते नासां वयसि संस्थितिः ।
व्रूपं रूपवन्तं वा पुमान् इत्य् एव भुञ्जते ॥ ९.१४ ॥

भारुचिः ...{Loading}...

एतास्व् अवस्थासु वर्तमाना विसंज्ञाः सत्यः । यतः पानादीन् वर्जयेयुः ॥ ९.१४ ॥

पौंश्चल्याच् चलचित्ताच् च नैःस्नेह्याच् च स्वभावतः ।
रक्षिता यत्नतो ऽपीह भर्तृष्व् एता विकुर्वते ॥ ९.१५ ॥

भारुचिः ...{Loading}...

आसु पानाद्यवस्थासु । अतो न पूर्वविश्वासात् पानादिषुपेक्ष्याः (?) ॥ ९.१५ ॥

एवं स्वभावं ज्ञात्वासां प्रजापतिनिसर्गजम् ।
परमं यत्नम् आतिष्ठेत् पुरुषो रक्षणं प्रति ॥ ९.१६ ॥

भारुचिः ...{Loading}...

व्यभिचारात्मकत्वम् आसां स्वभावतः । अतस् तं विदित्वा नित्यम् एता रक्ष्याः । न विश्वासाद् उपेक्षणीयाः गृहीतविनया इति कृत्वा ॥ ९.१६ ॥

यतश् च ।

शय्यासनम् अलंकारं कामं क्रोधम् अनार्यताम् ।
द्रोहभावं कुचर्यां च स्त्रीभ्यो मनुर् अकल्पयत् ॥ ९.१७ ॥

भारुचिः ...{Loading}...

अतश् च युक्तास् ताः प्रयत्नतो रक्षितुम् एवं स्वभावत्वात् । तत्र तु शय्या भावो नाधिकरणं सुप्यते ऽस्याम् इति । एवम् आसनालंकारकामक्रोधाः, माक्ये भावप्रत्ययाभावे ऽपि । अनार्यता द्रोहभाव इत्य् अत्र स्वशब्देनैव भाव उपदिष्टः । चरणं चर्या कुचर्या उत्सिता चर्या । सर्व एते भावाः । एवम् “स्वभावं ज्ञात्वासाम्” इति प्रकृतत्वाद् अस्य । एवं च सति तन्निन्दावचनं रक्षार्थम् ॥ ९.१७ ॥

यतश् च ।

नास्ति स्त्रीणां क्रिया मन्त्रैर् इति धर्मे व्यवस्थितम् ।
निरिन्द्रिया ह्य् अमन्त्राश् च स्त्रियो ऽनृतम् इति स्थितिः ॥ ९.१८ ॥

भारुचिः ...{Loading}...

“अमन्त्रिका तु कार्येयं स्त्रीणाम् आवृद् अशेषतः” इत्य् उक्तम् यद् तद् इदम् उच्यते- “नास्ति स्त्रीणां क्रिया मन्त्रैः” इति । विवाहसंस्कारश् च मन्त्रतः पुरुषसंबन्धापेक्षया न स्वातन्त्र्येण साधारणो वा । यतो न व्याघातः । अर्थवादार्थं चैतन् निन्दावचनम् । इन्द्रियं प्रज्ञाधैर्यादि । तदभावात् स्त्रियो ऽनिन्द्रिया इत्य् उच्यन्ते, नान्यथा । एवं चाबला इत्य् एवम् एताः प्रसिद्धाः । यतो निरिन्द्रिया अमन्त्राश् च स्त्रियः अतस् तासां स्ववीर्यस्याभावात् स्वयम् आत्मसंरक्षणे सामर्थ्यं नास्ति । अमन्त्रत्वाच् च पुरुषवन् मन्त्रवता संस्कारेण शुद्धिर् नास्ति । अमन्त्रत्वाच् च पुरुषवन् मन्त्रवता संस्कारेण शुद्धिर् नास्ति । आत्मसंयमने त्व् आसां सुद्धिर् एषितव्या । अतश् चैता निरिन्द्रिया निर्वीर्या निस्संज्ञत्वान् निर्विज्ञानाः सत्यो ऽनृतशब्देन निन्द्यन्ते । व्यभिचारात्मकत्वेन वा प्रकृतेन ॥ ९.१८ ॥

तथा च श्रुतयो बह्व्यो गदिता निगमेष्व् अपि ।
स्वालक्षण्यपरीक्षार्थं तासां च शृणुताकृतिम् ॥ ९.१९ ॥

भारुचिः ...{Loading}...

स्वालक्षण्यम् आसां व्यभिचारः । यतस् तासां व्यभिचार्आकृतिम् इमां शृणुत ॥ ९.१९ ॥

यन् मे माता प्रलुलुभे विचरन्त्य् अप्[अतिव्रता ।
तन् मे रेतः पिता वृ]ङ्क्ताम् इत्य् अस्यैतन् निदर्शनम् ॥ ९.२० ॥

भारुचिः ...{Loading}...

कस्मिंश्चित् किल कर्मणि यजमान इदम् आह- यद्य् अपि मे माता परपुरुषलोभा व्यभिचारिणी भवेत् तथापि तद् रेतः पितैव मे वृङ्क्ता[म् इति । अस्य]इतन् निदर्शनम्- वेदे ऽपि च स्वभावव्यभिचारित्वं स्त्रीणां दृश्यते । ततस् तत्संरक्षणार्थम् अयं वैदिको निगम उदाहृतः ॥ ९.२० ॥

अन्यच् चाह ।

ध्यायत्य् अनिष्टं यत् किंचित् पाणि[ग्राहस्य चेतसा ।
तस्यैष व्यभिचारस्य] निह्नवः सम्यग् उच्यते ॥ ९.२१ ॥

भारुचिः ...{Loading}...

एवं च मनोव्यभिचारे एतद् विज्ञेयम् । “यादृग्गुणेन भर्त्रा स्त्री संयुज्येत यथाविध्”, तादृग्व्यभिचारस्य निह्नवः प्रमार्जनं प्रायश्चित्तम् अस्य मन्त्र[द्वारेण] । न केवलं मनोव्यभिचारप्रदर्शकम् एतत्, किं तर्हि कर्मव्यभिचारप्रायश्चित्तम् एव विज्ञेयम् ॥ ९.२१ ॥

यादृग्गुणेन भर्त्रा स्त्री संयुज्येत यथाविधि ।
तादृēग्गुणा सा भवति समुद्रेणेव निम्नगा ॥ ९.२२ ॥

भारुचिः ...{Loading}...

आत्मसंयमनेनाप्य् एताः शक्या रक्षितुं मनुष्येणेत्य् उपायान्तरनिर्देशः । न केवलम् असंयततयात्मानम् एवोपहन्ति मनुष्याः, किं तर्हि स्त्रिया अप्य् उपघात एवंवृत्तो वर्तत इत्य् अस्यार्थस्य निदर्शनम् ॥ ९.२२ ॥

अक्षमाला वसिष्ठेन संयुक्ताधमयोनिजा ।
शारङ्गी मन्दपालेन जगमाभ्यर्हणीयताम् ॥ ९.२३ ॥

भारुचिः ...{Loading}...

यस्माच् च ।

एताश् चान्याश् च लोक ऽस्मिन्न् अपकृष्टप्रसूतयः ।
उत्कर्षं योषितः प्राप्ताः स्वैः स्वैर् भर्तृगुणैः शुभैः ॥ ९.२४ ॥

भारुचिः ...{Loading}...

अतश् चात्मसंयमे यत्नः कर्तव्यः, स्त्रीरक्षणार्थतः तस्येति ॥ ९.२४ ॥

एषोदिता लोकयात्रा नित्यं स्त्रीपुंसयोः शुभा।
प्रेतेह च सुखोदर्कान् प्रजाधर्मान् निबोधत ॥ ९.२५ ॥

भारुचिः ...{Loading}...

कस्य प्रजा, किं क्षेत्रिणो, बीजिन, उभयोर् वेति ॥ ९.२५ ॥

प्रजनार्थं महाभागाः पूजार्हा गृहदीप्तयः ।
स्त्रियः श्रियश् च गेहेषु न विशेषो ऽस्ति कश्चन ॥ ९.२६ ॥

भारुचिः ...{Loading}...

एषो ऽस्याभिप्रायः- सर्वदोषावस्कन्नानाम् अपि हि स्त्रीणां प्रजननायोगान् महाप्रयोजनत्वे सत्य् अयुक्तस् तासां परित्यागः प्रायश्चित्तप्रत्याहरणीयत्वात् । तथा च वक्ष्यति संयतां वासयेद् गृहे, “यत् पुंसः परदारेषु तच् चैनं चारयेद् व्रतम्” इति वचनात् । न चाकस्मात् स्तुतिः प्रवर्तत इति कृत्वावश्यम् एतद् अभ्युपगन्तव्यम् ॥ ९.२६ ॥

यतश् च ।

उत्पादनम् अपत्यस्य जातस्य परिपालनम् ।
प्रत्यहं लोकयात्रायाः प्रत्यक्षं स्त्रीनिबन्धनम् ॥ ९.२७ ॥

भारुचिः ...{Loading}...

अयम् अपरः स्त्रीप्रशंसार्थः श्लोकः पूर्वोक्तप्रयोजनार्थ एव विज्ञेयः ॥ ९.२७ ॥

किं चान्यत्, येन ।

अपत्यं धर्मकार्याणि शुश्रूषा रतिर् उत्तमा ।
दाराधीनस् तथा स्वर्गः पितॄणाम् आत्मनस् च हि ॥ ९.२८ ॥

भारुचिः ...{Loading}...

अतश् च यथोक्त एवार्थो विज्ञेयः ॥ ९.२८ ॥

एवं च सति ।

पतिं या नातिचरति मनोवाग्देहसंयता ।
सा भर्तृलोकान् आप्नोति सद्भिः साध्वीति चोच्यते ॥ ९.२९ ॥
व्यभिचारात् तु भर्तुः स्त्री लोके प्राप्नोति निन्द्यताम् ।
सृगालयोनिं चाप्नोति पापरोगैश् च पीड्यते ॥ ९.३० ॥

भारुचिः ...{Loading}...

यस्मात् तस्माद् आभिः भर्तृपारतन्त्र्यं न मोक्तव्यम् ॥ ९.२९–३० ॥

पुत्रं प्रत्य् उदितं सद्भिः पूर्वजैश् च महर्षिभिः ।
विश्वजन्यम् इमं पुण्यम् उपन्यासं निबोधत ॥ ९.३१ ॥

भारुचिः ...{Loading}...

यथा विश्वजन्य् ऽसौ तथेदम् उच्यते ॥ ९.३१ ॥

भर्तुः पुत्रं विजानन्ति श्रुतिद्वैधं तु कर्तरि ।
आहुर् उत्पादकं केचिद् अपरे क्षेत्रिणं विदुः ॥ ९.३२ ॥

भारुचिः ...{Loading}...

अपरेषां पक्ष उभयोः ॥ ९.३२ ॥

अस्या विप्रतिपत्तेः कारणम् आह ।

क्षेत्रभूता स्मृता नारी बीजभूतः स्मृतः पुमान् ।
क्षेत्रबीजसमायोगात् संभवः सर्वदेहिनाम् ॥ ९.३३ ॥

भारुचिः ...{Loading}...

अत एतस्मात् कारणाद् युक्तेयं विप्रतिपत्तिः ॥ ९.३३ ॥

अस्यां च विप्रतिपत्तौ स्थितं पक्षं दर्शयति ।

विशिष्टं तु क्वचिद् बीजं स्त्रीयोनिस् त्व् एव कुत्रचित् । उभयं तु समं यत्र सा प्रसूतिर् विशिष्यते ॥ ९.३४ ॥

भारुचिः ...{Loading}...

> विशिष्टं तु क्वचिद् बीजं

कैश्चित् परिगृहीतम् ।

> स्त्रीयोनिस् त्व् एव कुत्रचित् ।

अपरेषां पक्षः ।

> उभयं तु समं यत्र सा प्रसूतिर् विशिष्यते ॥ ९.३४ ॥

इत्य् अयं स्थितः पक्ष आचार्यस्य विज्ञेयः ॥ ९.३४ ॥

अत्र पूर्वः पक्षः प्रदर्श्यते ।

बीजस्य चैव योन्याश् च बीजम् उत्कृष्टम् उच्यते । सर्वभूतप्रसूतिर् हि बीजलक्षणलक्षिता ॥ ९.३५ ॥

भारुचिः ...{Loading}...

> बीजस्य चैव योन्याश् च बीजम् उत्कृष्टम् उच्यते ।

यस्मात्,

> सर्वभूतप्रसूतिर् हि बीजलक्षणलक्षिता ॥ ९.३५ ॥

यादृशं तूप्यते बीजं क्षेत्रे कालोपपादिते ।
तादृग् रोहति तत् तस्मिन् बीजं स्वैर् व्यञ्जितं गुणैः ॥ ९.३६ ॥

भारुचिः ...{Loading}...

तथा सति,

अतश् च बीजानां तत्प्राधान्यम् ॥ ९.३६ ॥

इयं भूमिर् हि भूतानां शाश्वती योनिर् उच्यते ।
न च योनिगुणान् कांश्चिद् बीजं पुष्यति पुष्टिषु ॥ ९.३७ ॥

भारुचिः ...{Loading}...

येन च,

अतश् च तद्धर्माननुवृत्तेर् बीजस्य क्षेत्रम् अप्रधानम् ॥ ९.३७ ॥

भूमाव् अप्य् एककेदारे कालोप्तानि कृषीवलैः ।
नानरूपाणि जायन्ते बीजानीह स्वभवतः ॥ ९.३८ ॥

भारुचिः ...{Loading}...

यतश् च ।

बीजानुविधानेन भूमिजात्यननुविधानेन च ॥ ९.३८ ॥

व्रीहयः शालयो मुद्गास् तिला माषास् तथा यवाः ।
[यथाबीजं प्ररोहन्ति लशुनानीक्षव]स् तथा ॥ ९.३९ ॥

भारुचिः ...{Loading}...

तथा च दर्शयति ।

एवं च सति प्रत्यक्षतः ।

अन्यद् उप्तं जातम् अन्यद् इत्य् एतन् नोपपद्यते ।
उप्यते यद् धि यद् बीजं तत् तद् एव प्ररोहति ॥ ९.४० ॥

भारुचिः ...{Loading}...

एतावद्बीजप्राधान्यपक्षः । अधुना [क्षेत्रप्राधान्यपक्षः प्रदर्श्य]ते ॥ ९.४० ॥

तत् प्राज्ञेन विनीतेन ज्ञानविज्ञानवेदिना ।
आयुष्कामेन वप्तव्यं न जातु परयोषिति ॥ ९.४१ ॥

भारुचिः ...{Loading}...

क्षेत्रप्राधान्यात्, मा भूत् परक्षेत्रे बीजापहारः । [अनादिपरंपरासिद्धं च यतः परक्षेत्रजातं न] बीजिनो ऽपत्यम् ॥ ९.४१ ॥

एवं च ।

अत्र गाथां यमोद्गीतां कीर्तयन्ति पुराविदः ।
यथा बीजं न वप्तव्यं पुंसा परपरिग्रहे ॥ ९.४२ ॥
नश्यतीषुर् यथा विद्धः खे विद्धम् अनुविद्ध्य[तः ।
तथा नश्यति वै क्षिप्रं बीजं पर]परिग्रहे ॥ ९.४३ ॥

भारुचिः ...{Loading}...

परिग्रहे सत्य् अन्यस्य । पश्चाद् अस्वामित्वात् फलाभावं दर्शयति ॥ ९.४३ ॥

पृथोर् अपीमां पृथिवीं भार्यां पूर्वविदो विदुः ।
स्थाणुच्छेदस्य केदारम् आहुः शल्यवतो मृगम् ॥ ९.४४ ॥

भारुचिः ...{Loading}...

अतश् च पूर्वपरिगृहीतुः क्षेत्रिणः क्षेत्रम् । यस्य तत् क्षेत्रं तस्य च क्षेत्रफलं विज्ञेयम्, न बीजिनः । तथा चागमः ॥ ९.४४ ॥

एतावान् एव पुरुषो यज्जायात्मा प्रजेति ह ।
विप्राः प्राहुस् तथा चैतद् यो भर्ता सा स्मृताङ्गना ॥ ९.४५ ॥

भारुचिः ...{Loading}...

यतश् चैतद् एवम् ।

न निष्क्रयविसर्गाभ्यां भर्तुर् भार्या विमुच्यते ।
एतद् धर्मं विजानीमः प्राक् प्रजापतिनिर्मितम् ॥ ९.४६ ॥

भारुचिः ...{Loading}...

एतद् दर्शयत्य् अनेन न परस्त्री केनचित् क्रयेण प्रतिग्रहेण वात्मीया धर्मतः शक्या कर्तुम् । यतो ऽस्य बीजनाशः परस्यावश्यंभावी क्षेत्रप्राधान्यात् । तथा च लोके ॥ ९.४६ ॥

सकृद् अंशो निपतति सकृत् कन्या प्रदीयते ।
सकृद् आह ददानीति त्रीण्य् एतानि सतां सकृत् ॥ ९.४७ ॥

भारुचिः ...{Loading}...

कन्यातो अन्यद् अपि देयद्रव्यं दाता प्रतिग्रहीत्रे । एवं च सति त्रीण्य् एतानि सतां सकृत् । अतश् च स पुनर्दानासंभवस् तस्याः । तथा च न बीजप्राधान्यं परपरिग्रीतायाम् । कथम् ॥ ९.४७ ॥

यथा गोऽश्वोष्ट्रदासीषु त्व् अजाविमहिषीषु च ।
नोत्पादकः प्रजाभागी तथैवान्याङ्गनास्व् अपि ॥ ९.४८ ॥

भारुचिः ...{Loading}...

एवम्,

ते ऽक्षेत्रिणो बीजवन्तः परक्षेत्रप्रवापिणः ।
ते वै सस्यस्य जातस्य न लभन्ते फलं क्वचित् ॥ ९.४९ ॥
यद् अन्यगोषु वृषभो वत्सानां जनयेच् छतम् ।
गोमिनाम् एव ते सर्वे मोघं वृषभचेष्टितम् ॥ ९.५० ॥
यथा चाक्षेत्रिणो बीजं परक्षेत्रप्रवापिणः ।
करोति क्षेत्रिणाम् अर्थं न बीजी लबते फलम् ॥ ९.५१ ॥

भारुचिः ...{Loading}...

प्रकृतस्यार्थस्य सर्व एते दृष्टान्तश्लोकाः प्ररूपणाय । एवं योनिबलीयस्त्वात् परक्षेत्रजाता न बीजिनो भवन्तीति ॥ ९.४९–५१ ॥

फलं त्व अनभिसंधाय क्षेत्रिणां बीजिनां तथा ।
प्रत्यक्षं क्षेत्रिणाम् अर्थो बीजा योनिर् बलीयसी ॥ ९.५२ ॥

भारुचिः ...{Loading}...

एवं च सति फलं त्व् अनभिसंधायेति वचनात् ।

क्रियाभ्युपगमात् त्व् एव बीजार्थं यत् प्रकीर्यते ।
तस्येह भागिनौ दृष्टौ बीजी क्षेत्रिक एव च ॥ ९.५३ ॥

भारुचिः ...{Loading}...

एवं च संविदा बीजी फलं लभते, नान्यथा । अयं च संविदा करणेन तृतीयः पक्षो विज्ञेयः । यत्र त्व् एवम् उभयोः संविन् नास्ति तत्र ॥ ९.५३ ॥

ओघवाताहृतं बीजं यस्य क्षेत्रे प्ररोहति ।
तज् ज्ञेयं क्षेत्रिकस्यैव न वप्ता लभते फलम् ॥ ९.५४ ॥

भारुचिः ...{Loading}...

ओघवातग्रहणं च प्रदर्शनार्थं विज्ञेयम् । अतश् च यश् चौर्याद् बलाद् वा पारक्षेत्रवापी न तस्यास्ति भाग इति गम्यते ॥ ९.५४ ॥

एष धर्मो गवाश्वस्य दास्युष्ट्राजाविकस्य च ।
विहङ्गमहिषानां च विज्ञेयः प्रसवं प्रति ॥ ९.५५ ॥

भारुचिः ...{Loading}...

गर्दभस्याननुक्रान्तस्यापि पशुसामान्याद् अयम् एव धर्मः स्यात् ॥ ९.५५ ॥

एतद् वः सारफल्गुत्वं बीजयोन्योः प्रकीर्तितम् ।
अतः परं प्रवक्ष्यामि योषितां धर्मम् आपदि ॥ ९.५६ ॥

भारुचिः ...{Loading}...

उपसंहारोपन्यासार्थः श्लोकः ॥ ९.५६ ॥

भ्रातुर् ज्येष्ठस्य या भार्या गुरुपत्न्यनुजस्य सा ।
यवीयसस् तु या भार्या स्नुषा ज्येष्ठस्य सा स्मृता ॥ ९.५७ ॥

भारुचिः ...{Loading}...

एतस्यां च व्यवस्थायां सत्याम् ।

ज्येष्ठो यवीयसो भार्यां यवीयान् वाग्रजस्त्रियम् ।
पतितौ भवतो गत्वा नियुक्ताव् अप्य् अनापदि ॥ ९.५८ ॥

भारुचिः ...{Loading}...

आपदुपगमस्तुत्यर्थं श्लोकद्वयम् । नियुक्ताव् अप्य् अन्पदीति वचनाद् एवम् आपद्य् अप्य् अनियुक्तौ पतितौ भवतः । एवं च सति ज्येष्ठेन कनिष्ठेन वा नियुक्तेन च गुरुभिर् आपदि चोपगमः प्रतिपादनीयः ॥ ९.५८ ॥

इदानीम् आपद् उच्यते ।

देवराद् वा सपिण्डाद् वा स्त्रिया सम्यङ् नियुक्तया।
प्रजेप्सिताधिगन्तव्या सन्तानस्य परिक्षये ॥ ९.५९ ॥

भारुचिः ...{Loading}...

एवं च सति ज्येष्ठकनिष्ठाव् उभाव् अपि देवरशब्देन [विज्ञेयौ । अत एव तयोर् अविशे]षापेक्षो नियोग इति गम्यते । तथा च वक्ष्यति- “निजो विन्देत देवरः” इति । आपत् सन्तानाभावो ऽनुत्पन्नापत्यतया मृतपु[त्रत्वेन वा । अन्ये तु वर्णय्]अन्ति- “पश्येच् चेज् जीवतो मुखम्” इति वचनात्, जन्मनैव कृतो ऽनेन सन्तत्यर्थ इति । तद् अयुक्तम्, शास्त्रविरोधात् । एवं हि श्रूयते- “तस्मात् पुत्रम् अनुशिष्टं [तल्लोक्यम् आहुस् तस्माद् एनम् अनुशासति]” इति वाजसनेयिनां संप्रतिविधाव् एतद् रहस्यब्राह्मणम् । तथा च स्मृत्यन्तरम्- “सत्पुत्रशिष्यास् त्रायन्ते” इति । एवं च मृतपुत्रस्यापि नियोगः । तथा चाविशेषशास्त्रम् इदं सन्तानस्य परिक्षय इति । यथानुत्पन्नपुत्रस्य सन्तानपरिक्षयः एवं विनष्टस्यापीत्य् अयम् उच्यते । यतः कालसामान्याद् उक्त उभयत्रापि नियोगः । एवं च सति “द्वितीयम् एके प्रजनम्” इत्य् एतद् युक्तरूपं भवति । इदानीम् उपगमविधिर् अयम् उच्यते ॥ ९.५९ ॥

विधवायां नियुक्तस् तु घृताक्तो वाग्यतो निशि ।
एकम् उत्पादयेत् पुत्रं न द्वितीयं कथंचन ॥ ९.६० ॥

भारुचिः ...{Loading}...

विधवाग्रहणस्य दर्शनर्थत्वाद् अविधव्याम् अपि नियोगो न [निषिद्ध इति] विज्ञायते । वक्ष्यति हि “यद्य् अर्थिता तु दारैः स्यात् क्लीबादीनां कथंचन” इति । एवं च पाण्डोर् अविधवानियोगाद् एवापत्योत्पत्तिः स्मर्यते । दिवा च प्रतिषेधान् निशीत्य् अयम् अन्धकारोपदेशः, तथा च व्यासोपगमः स्मर्यते ॥ ९.६० ॥

द्वितीयम् एके प्रजनं मन्यन्ते स्त्रीषु तद्विदः ।
अनिर्वृत्तं नियोगार्थं पश्यन्तो धर्मतस् तयोः ॥ ९.६१ ॥

भारुचिः ...{Loading}...

अनयोः स्मृत्योर् द्वितीयपुत्रजननस्मृतिर् ज्यायसी, सन्तानानुग्रहात् । कारणम् अत्र गृह्यत इति चेद् उभयत्र कारणग्रहणाद् अप्रवृत्तिर् एवं सति स्यात् ॥ ९.६१ ॥

विधवायां नियोगार्थे निवृत्ते तु यथाविधि ।
गुरुवच् च स्नुषावच् च वर्तेयातां परस्परम् ॥ ९.६२ ॥

भारुचिः ...{Loading}...

एतस्माच् च ज्येष्ठनियोगो विज्ञायते । तथा च परिभाषोक्ता- “ज्येष्ठो यवीयसो भार्याम्” इति । उभयोश् च देवरशब्देन ग्रहणं युक्तम् “देवराद् वा सपिण्डाद् वा” इत्य् अत्र । अस्य प्रतिषेधविधेर् अर्थवादः ॥ ९.६२ ॥

नियुक्तौ यौ विधिं हित्वा वर्तेयातां तु कामतः ।
ताव् उभौ पतितौ स्यातां स्नुषागगुरुतल्पगौ ॥ ९.६३ ॥

भारुचिः ...{Loading}...

विधवानियोगविधीनां सर्वेषां व्यतिक्रमनिन्दार्थवादो ऽयम् अविशेषाद् विज्ञेयः, न केवलम् अनन्तरश्लोकस्य नियोगार्थनिर्वृत्त्युत्तरकालप्रतिषेधस्य । एष तावद् एव कारणाद् विधवानियोगः । अस्य प्रतिषेधः ॥ ९.६३ ॥

नान्यस्मिन् विधवा नारी नियोक्तव्या द्विजातिभिः ।
अन्यस्मिन् हि न्युञ्जाना धर्मं हन्युः सनातनम् ॥ ९.६४ ॥
नोद्वाहिकेषु मन्त्रेषु नियोगः कीर्त्यते क्वचित् ।
न विवाहविधाव् उक्तं विधवावेदनंपुनः ॥ ९.६५ ॥

भारुचिः ...{Loading}...

> नोद्वाहिकेषु मन्त्रेषु नियोगः कीर्त्यते क्वचित् ।

लिङ्गतो वचनतो वा,

> न विवाहविधाव् उक्तं विधवावेदनंपुनः ॥ ९.६५ ॥

विवाहविधिः शास्त्र इत्य् अर्थः ।

अयं द्विजाइर् हि विद्वद्भिः पशुधर्मो विगर्हितः ।
मनुष्याणाम् अपि प्रोक्तो वेने राज्यं प्रशासति ॥ ९.६६ ॥
स महीम् अखिलां भुञ्जन् राजर्षिप्रवरः पुरा ।
वर्णानां संकरं चक्रे कामोपहतचेतनः ॥ ९.६७ ॥
तदा प्रभृति यो मोहात् प्रमीतपतिकां स्त्रियम् ।
नियोजयत्य् अपत्यार्थे तं विगर्हन्ति साधवः॥ ९.६८ ॥

भारुचिः ...{Loading}...

इमे नियोगप्रतिषेधार्थाः सपुराकल्पाः पञ्चश्लोकाः । उक्तप्रतिषिद्धत्वाच् च नियोगस्य विकल्पः । अनयोस् तु स्मृत्योः कतरा ज्याससीति । किं नः । एतेन शक्यते त्व् एतद् एवं वक्तुम् । उभयत्राभ्युदयः, येनैकत्रापत्यम्, अन्यत्र संयमः । उभयं च विशेषतः संस्कृतम्, यतो नियोगो ऽप्य् अभ्युदयाय । न हि मृतस्य जीवतो वा पत्युर् नियोक्तुः [वा] काचिद् इन्द्रियप्रीतिर् अस्ति, नापि पित्रादीनाम् । विधानसामर्थाच् च पित्रादीनाम् अपि योग्याभ्युदयायेति गम्यते । प्रतिषेधोपदेशसामर्थाच् चानियोगे ऽप्य् अनत्ययः । विधवानियोगसाम्याच् च तत्प्रकरण एवायं कन्यानियोगः शिष्यते ॥ ९.६४–६८ ॥

यस्या म्रियेत कन्याया वाचा सत्ये कृते पतिः ।
ताम् अनेन विधानेन निजो विन्देत देवरः ॥ ९.६९ ॥

भारुचिः ...{Loading}...

विधानं विधिर् विवाहो यथोक्तः, विन्देतेति वचनात् । इतरथा ह्य् अनूढाम् उपगच्छतः कन्यादूषणम् उपपतं स्यात् । निय्मार्थश् चैवम् आरम्भः । एतस्माद् एव च लिङ्गात् प्राग् विवाहात् वाक्प्रदानम् अस्ति, यस्मिन् निर्वृत्ते मृते भर्तरि सान्यस्मै दीयेत ॥ ९.६९ ॥

यथाविध्यधिगम्यैनां शुक्लवस्त्रां शुचिव्रताम् ।
मिथो भजेताप्रसवात् सकृत् सकृद् ऋताव् ऋतौ ॥ ९.७० ॥

भारुचिः ...{Loading}...

यथाविध्यधिगम्यैनां विधिवद् ऊढाम् । शुक्लवस्त्राम् इति नियमः । शुचिव्रतां मनोवागादिसंयताम् । मिथो भजेताप्रसवात् सकृत् सकृद् ऋताव् ऋतौ । कायसामान्याद् विधवानियोगे ऽप्य् एवम् एव स्यात् । पूर्वं च घृता[क्तत्वादि यद् उक्तं] तद् इह सर्वं स्यात्, समानत्वान् नियोगस्य ॥ ९.७० ॥

न दत्वा कस्यचित् कन्यां [पुनर् दद्याद् विचक्षणः ।
दत्वा पुनः] प्रयच्छन् हि प्राप्नोति पुरुषानृतम् ॥ ९.७१ ॥

भारुचिः ...{Loading}...

“सहस्रं पुरुषानृतम्” इति । दत्वान्यस्य कस्यचिद् दानाशङ्कया प्रतिषेधानुवादो ऽयम् ॥ ९.७१ ॥

विधिवत् प्रतिहृत्यापि त्यजेत् कन्यां विगर्हिताम् ।
व्याधितां वि[प्रदुष्टां वा छद्मना चोपपादिताम् ॥ ९.७२ ॥

भारुचिः ...{Loading}...

प्रतिगृ]हीतापि सत्य् एव निमित्ते त्याजा (?) नान्यत्र “निष्क्रयविसर्गाभ्याम्” इति वचनात् । अतो ऽस्याः त्यागनिमित्तैर् विना यथाकामं न त्यागो ऽस्ति, यथोच्छिष्टद्रव्याणाम् ॥ ९.७२ ॥

यस् तु दोषवतीं कन्या[म् अनाख्यायोपपादयेत् ।
तस्य तद् वितथं कुर्या]त् कन्यादानं दुरात्मनः ॥ ९.७३ ॥

भारुचिः ...{Loading}...

छद्मनोपपादिता त्याज्येत्यस्यायम् अनुवादः कारणतस् त्यागे दोशा(?)भावप्रदर्शनार्थम् ॥ ९.७३ ॥

विधाय वृत्तिं भार्यायाःप्रवसेत् कार्यवा[न् नरः ।
अवृत्तिकर्षिता हि स्त्री प्रदुष्येत् स्थितिमत्य् अपि] ॥ ९.७४ ॥

भारुचिः ...{Loading}...

कार्यार्थं नियमेन ग्रासाच्छादनप्रविधानं कुर्याद् भार्यायाः । अस्य नियमविधेर् अर्थवाद उत्तरः श्लोकार्धः । कार्यवतश् च मनुष्यस्य प्रवासोपदेशाद् विना कार्येण भार्यां मुक्त्वान्यत्र गमनं प्रतिषेधति ॥ ९.७४ ॥

विधाय प्रोषिते वृत्तिं जीवेन् नियमम् आस्थिता ।
प्रोषिते त्व् अविधायैव जीवेच् छिल्पैर् अगर्हितैः ॥ ९.७५ ॥

भारुचिः ...{Loading}...

एतस्याम् अवस्थायाम् अगर्हितशिल्पजीवनम् अभ्यनुज्ञायते तस्या जालिकादिकरणम् । एतेन विधवाया अजातपुत्राया वृत्त्युपायो व्याख्यातः । गर्हितं च वस्त्रनिर्णेजनादि । प्रवासप्रयोजनविशेषेण तदाजीवनापेक्षया कालविकल्पम् इदानीं दर्शयति ॥ ९.७५ ॥

प्रोषितो धर्मकार्यार्थं प्रतीक्ष्यो ऽष्टौ नरः समाः ।
विद्यार्थं षड् यशो ऽर्थं वा कामार्थं त्रींस् तु वत्सरान् ॥ ९.७६ ॥

भारुचिः ...{Loading}...

अगर्हितेनाजीवेद् इति । अविधायेत्य् अधिकारात् । तस्या एवायं कालनियमः, अगर्हितशिल्पजीवनेन । ऊर्ध्वं तु कालाद् एतस्माद् गर्हितेनापि जीवेच् छिल्पेन । एवं च विरुद्धशिल्पप्रतिप्रसवो ऽयं विज्ञेयः । धर्मकार्यं गुरुवचनादि । कामार्थं रूपाजीवनानुगमः । न तु व्यभिचारः, प्रतीक्ष्यो ऽष्टौ नरः समाः इत्य् एवमादिवचनाद्, येन शास्त्रविरुद्धस् तासां व्यतिक्रमः, अत्यन्तं संयमोपदेशात् । तथा च सति विधवानियोग एव तावत् कथंचिल् लब्धः, कुत एव व्यभिचारः । अन्यस् त्व् आह- अत ऊर्ध्वं व्यभिचारदोषाभावः, प्रतिप्रसवसामर्थ्यात् । न तु नियमेन व्यभिचारोपदेशः । न हि प्रोषिते ऽन्योढायोगो ऽस्ति यतो गुरुनियुक्तापत्यार्थं प्रवर्तते । एवं च सत्य् अत्यन्तम् अजीवन्त्याः प्राणवृत्तिमात्रार्थो रहसिजन्यो वा व्यभिचारमात्रप्रतिप्रसवो ऽयं विज्ञेयः । “या पत्या वा परित्यक्ता” इत्य् एवं परित्यागोपायजन्यपौनर्भवविषयः । तत् त्व् एतद् अत्यन्तशास्त्रविरोधाद् अयुक्तम् । अपरे त्व् इदं मनुष्याणाम् एव प्रवासकालनियमार्थं वर्णयन्ति । अतः परं प्रोषितस्यावस्थाने धर्मार्थम् अपि प्रत्यवायः स्याद् इति । यो ऽयम् अन्यार्थे वाक्ये सामर्थ्यगम्यो ऽर्थः, न तु शब्दार्थतया शक्यः कल्पयितुम् ॥ ९.७६ ॥

संवत्सरम् उदीक्षेत द्विषाणां योषितं पतिः ।
ऊर्ध्वं संवत्सरात् त्व् एनां दायं हृत्वा न संवसेत् ॥ ९.७७ ॥

भारुचिः ...{Loading}...

न संवसेद् इत्य् उपगमनिवृत्तिः न निर्वासनम् । पातके ऽपि तस्याः [तन् न] युक्तं “निरुन्ध्याद् एकवेश्मनि” इति तत्र प्रायश्चित्तोपदेशात् । अन्यस् तु त्यागम् एवाह । एवं च सति त्यजतो नातिदोषः कारणोपदेशात् । न त्व् अन्यत्र । सर्वश् च स्त्रीत्यागः प्राग् अग्न्याधेयात् विज्ञेयः, नोत्तरत्र, तया सार्धम् अस्य प्रजाकर्मसहत्वोपदेशाद् इति कश्चित् ॥ ९.७७ ॥

मत्तं या वा प्रमत्तं वा रोगर्तं वातिवर्तते ।
सा त्रिमासान् परित्याज्या विभूषणपरिच्छदा ॥ ९.७८ ॥

भारुचिः ...{Loading}...

अत्रासंभोगस् त्यागः, न हि निर्वासनम् ॥ ९.७८ ॥

उन्मत्तं पतितं व्यङ्गम् अबीजं पापरोगिणम् ।
न त्यागो ऽस्ति द्विषाणाया न च दायापवर्तनम् ॥ ९.७९ ॥

भारुचिः ...{Loading}...

अत्र निमित्ते ऽत्याग एव तस्याः ॥ ९.७९ ॥

मद्यपासत्यवृत्ता च प्रतिकूला च या भवेत् ।
व्याधिता वाधिवेत्तव्या हिंस्रार्थघ्नी च सर्वदा ॥ ९.८० ॥

भारुचिः ...{Loading}...

अत्र कश्चिद् आह- सत्य् अपि जात्यर्थाविशेषे “देवानाम् अश्नता हविः” इति लिङ्गात् पुंस एव ब्राह्मणस्य सुरापानप्रतिषेधो नियमन गम्यते, ब्राह्मण्यास् तु क्xअत्रियवैश्यवद् अप्रतिषेधस् तल्लिङ्गाद् विज्ञायते । तथा च तद्वधे क्षत्रियवैश्यवधप्रायश्चित्तम् उपपातकं वक्ष्यति । उपस्पर्शने च शूद्रसाम्यम् । स्त्रीशूद्रोच्छिष्टभक्षणे च । स्मृत्यन्तरे च परिसंख्यातं तासां पातकम् । “ब्रूणहनि हीनवर्णसेवायां च स्त्री पतति” । श्रुतौ च शतकुम्भासुरासंप्रदानं विहितम् । स्त्रीश्राद्धे विशेषः । “प्रति[षि]द्धापि चेद् या तु मद्यम् अभ्युदयेष्व् अपि” इति वचनान् मद्यपानं सर्वस्त्रीणां प्रतिषिद्धम्, न तु विशिष्टसुरायाः । द्विजातिस्त्रीणां क्षत्रियवैश्यवत् । एवं च सति नियमपक्षमात्रायाः स्वयं गुरुवचनेन [वा प्रतिषिद्धाया मद्यपाने ऽध्]इवेदनं तस्या वेदितव्यम् इति । तद् अयुक्तम् । “पतत्य् अर्धं शरीरस्य यस्य भार्या सुरां पिबेत्” इत्यादिस्मृत्यन्तरदर्शनात् । “देवानाम् अश्नता हविः” इत्य् अस्यार्थवादार्थत्वाच् च । ब्राह्म[ण्यापि] सुरापानं न कर्तव्यम् इति । अधिवेदनं नाम तद् उपर्य् अन्या[वि]वाहः । एतेष्व् अपि च निमित्तेषु धर्महानौ; न नियमेनाधिवेदनम्; तत्र हि प्रायश्चित्तैर् अर्ध[पाप]हानिः तासां [शक्यत्वात्] ऋजूकर्तुम् ॥ ९.८० ॥

वन्ध्याष्टमे ऽधिवेद्याब्दे दशमे तु मृतप्रजा ।
एकादशे स्त्रीजननी सद्यस् त्व् अप्रियवादिनी ॥ ९.८१ ॥

भारुचिः ...{Loading}...

धर्महानौ सत्याम् । एतद् आसाम् अधिवेदननियमतो विज्ञेयम्, येन जातपुत्रस्याधिकारः श्रौतेषु । अप्रियवादिन्यास् त्व् अनित्यम् अधिवेदनम्, जातपुत्रत्वे सति तया सहाधिकृतत्वात् कर्मसु ॥ ९.८१ ॥

यारोगिणी स्यात् तु हिता संपन्ना चैव शीलतः ।
सानुज्ञाप्याधिवेत्तव्या नवमान्या हि कर्हिचित् ॥ ९.८२ ॥

भारुचिः ...{Loading}...

अस्याश् चावमानप्रतिषेधाद् इतरा न केवलम् अधिवेद्याः, किं तर्हि शिष्ट्यर्थम् परिभाष्याश् च ॥ ९.८२ ॥

अधिविन्ना तु या नारी निर्गच्छेद् रुषिता गृहात् ।
सा सद्यः संनिरोद्धव्या त्याज्या वा कुलसंनिधौ ॥ ९.८३ ॥

भारुचिः ...{Loading}...

उक्तेषु निमित्तेष्व् अधिविन्नाया निर्गतायाः क्रोधेन, त्यागः श्रुतिकर्माधिकाराविरोधे कुलसंनिधौ, असंभोगो वा त्यागः संनिरोधो वा तस्याः । अपरे तु प्रजाकर्मसहत्वनिवृत्त्यर्थम् इदं त्यागवचनं कथयन्ति श्रौतकर्माविरोधेन ॥ ९.८३ ॥

प्रतिषिद्धापि चेद् या तु मद्यम् अभ्युदयेष्व् अपि ।
प्रेक्षासमाजं गच्छेद् वा सा दण्ड्या कृष्णलानि षट् ॥ ९.८४ ॥

भारुचिः ...{Loading}...

प्रतिषेधो मद्यपानस्य न प्रेक्षासमाजगमने । अथ वा प्रसङ्गनिवृत्त्यर्थम् । एवं च सति दण्डस्याल्पत्वाद् अप्रतिषेधे ऽस्त्य् अनुज्ञालेशो ऽभ्युदयादिना निमित्तेन । तच् च मद्यम् असुरा द्विजातिस्त्रीणां विज्ञेयम् । तथा च सति पूर्वत्राप्य् अधिवेदननिमित्तेन मद्यपान एषैव व्याख्या “मद्यपासत्यवृत्ता च” इत्य् अत्र । इतरवर्णविषयं चैतत्प्रतिषेधरूपं विज्ञेयम् ॥ ९.८४ ॥

यदि स्वाश् चापराश् चैव विन्देरन् योषितो द्विजाः ।
तासां वर्णक्रमेण स्याज् जैष्ठ्यं पूजा च वेश्मनि ॥ ९.८५ ॥

भारुचिः ...{Loading}...

“इमाः स्युः क्रमशो ऽपराः” इत्य् एतत्क्रमेणैव दारकर्मोक्तम् । इह तूत्सृज्येति क्रमेणाद्यूढानां वर्णक्रमेणैव ज्यैष्ठ्यादि स्यात् । प्रयोजनम् अस्य दायविभागः । पूजा चैतेनैव च सवर्णानाम् अनुक्रमेणैव ज्यैष्ठ्यं विज्ञेयम्, न तु जन्मना ॥ ९.८५ ॥

भर्तुः शरीरशुश्रूषां धर्मकार्यं न नैत्यकम् ।
स्वा स्वैव कुर्यात् सर्वेषां नास्वजातिः कथंचन ॥ ९.८६ ॥

भारुचिः ...{Loading}...

अग्निशरणोपलेपनादिधर्मकार्यं यत् स्त्रिया कर्तव्यं तद् गृह्यते । पुरुषस्यापि धर्मकार्यप्रवृत्तस्यैवोपस्पर्शनदानादिलक्षणा शरीरशुश्रूषा धर्मकार्यसाहचर्याद् गृह्यते । न तु पादनिर्णेजनादिस्वरूपा, धर्मकार्येणासरूपत्वात् ॥ ९.८६ ॥

यस् तु तत् कारयेन् मोहात् स्वजात्या स्थितयान्यया ।
यथा ब्राह्मणचण्डालः पूर्वदृष्टस् तथैव सः ॥ ९.८७ ॥

भारुचिः ...{Loading}...

शुश्रूषानियमार्थवादो ऽयम् । एवं च सति नान्यया कार्यः । यस् तु व्यतिक्रमे वर्तते तस्यायम् निन्दार्थवादः केनचित् सामान्येन ॥ ९.८७ ॥

उत्कृष्टायाभिरूपाय वराय सदृशाय वा ।
अप्राप्ताम् अपि तां तस्मै कन्यां दद्याद् यथाविधि ॥ ९.८८ ॥

भारुचिः ...{Loading}...

आत्मनो विद्यादिभिर् उत्कृष्टकारणैर् उत्कृष्टायाभिरूपाय वराय तदभावे सदृशाय वा । ऋज्व् अन्यत् । “उत्तमैर् उत्तमैर् नित्यं संबन्धान् आचरेत्” इत्य् अत्रोक्तम् अप्य् एतत् सदृशदानार्थं पुनर् आरभ्यते । एवं च गुणहीने ददतः प्रत्यवायः । तथा चेदम् अनूद्यते ॥ ९.८८ ॥

कामम् आ मरणात् तिष्ठेद् गृहे कन्यर्तुमत्य् अपि ।
न चैवैनां प्रयच्छेत् तु गुणहीनाय कर्हिचित् ॥ ९.८९ ॥

भारुचिः ...{Loading}...

अनेन चाप्राप्तकालदानेन परस्याप्राप्तकालस्य कन्याप्रतिग्रहो ऽनुमीयते । येन प्राप्नोत्य् अप्राप्तां न प्रतिग्रहीष्यति । अर्थगृहीतत्वाच् च प्राप्तकालसंयोगस्याप्राप्ते काले दानकीर्तनं नार्थवादिक्रियते ॥ ९.८९ ॥

त्रीणि वर्षाण्य् उपासीत कुमार्य् ऋतुमती सती ।
[ऊर्ध्वं तु काला]द् एतस्माद् विन्देत सदृशं पतिम् ॥ ९.९० ॥

भारुचिः ...{Loading}...

कन्याया अयम् उपदेशः । सा च द्वादशवर्षर्तुं पश्यतीति स्मर्यते । यत एतस्मात् कालाद् ऊर्ध्वं वर्षत्रयं स्वयंवरात् ग्रहणं तस्याः । ऊर्ध्वं तु ॥ ९.९० ॥

अदीयमाना भर्तारम् अधिगच्छेद् यदि स्वयम् ।
नैनः किंचिद् अवाप्नोति न च यं साधिगच्छति ॥ ९.९१ ॥

भारुचिः ...{Loading}...

यं वरं स्वयं कन्याधिगच्छति तस्यादोषार्थं कन्याया अदोषवचनम् ॥ ९.९१ ॥

अलंकारं नाददीत पित्र्यं कन्या [स्वयंवरा ।
मातृकं भ्रा]तृदत्तं वा स्तेयं स्याद् यद् इदं हरेत् ॥ ९.९२ ॥

भारुचिः ...{Loading}...

अन्ये त्व् एवम् इमं श्लोकं पठन्ति- “नाददीत त्व् अलंकारं पित्र्यं कन्यास्वयंवरे, मातृकं भ्रातृदत्तं वा स्तेनः स्याद् यदि तं हरेत्” । एवं चापाठे पुरुषविषयः स्लोको भवति ॥ ९.९२ ॥

पित्रे न दद्याच् छुल्कं तु कन्याम् ऋतुमतीं हरन् ।
स च स्वाम्याद् अतिक्रामेद् ऋतूनां प्रतिरोधनात् ॥ ९.९३ ॥

भारुचिः ...{Loading}...

स्मृत्यन्तरेष्व् अयं श्लोको न त्व् अत्र समाम्नायते ॥ ९.९३ ॥

त्रिंशद्वर्षोद्वहेत् कन्यां हृद्यां द्वादशवर्षिकीम् ।
त्र्यष्टवर्षो ऽष्टवर्षां वा धर्म सीदति सत्वरः ॥ ९.९४ ॥

भारुचिः ...{Loading}...

गुरुणानुमत् इयता कालेन यवीयसीम् उद्वहेत् कन्याम् ॥ ९.९४ ॥

देवदत्तां पतिर् भार्यां विन्दते नेच्छयात्मनः ।
तां साध्वीं बिभृयान् नित्यं देवानां प्रियम् आचरेत् ॥ ९.९५ ॥

भारुचिः ...{Loading}...

स्वप्रयत्नाद् ऋते पित्रोपनीता देवदत्ता भवति, स्वव्यापारपाप्ता वा । उपदेशप्रयोजनं तां साध्वीं द्विषतीम् अपि द्वेष्यां च सतीं बिभृयात् । येनेदृश्या सहधर्मचारिण्या यजमानेन हविः प्रत्तं देवताभिः प्रतिगृह्यते । प्रसवशुद्धा च सा देवपितृमौष्याणाम् अनृण्ये हि निमित्तम् भवति । यतस् ताम् ईदृशीं द्वेष्यतादिभिर् अपि कारणैर् न परित्यजेत् । येन ॥ ९.९५ ॥

**प्रजनार्थं स्त्रियः सृष्टाः सन्तानार्थं च मानवाः । **
तस्मात् साधारणो धर्मः श्रुतौ पत्न्या सहोदितः ॥ ९.९६ ॥

भारुचिः ...{Loading}...

एवम् अनयोः प्रजासहत्ववत् कर्मसहत्वं स्मर्यते । येनातस् तां न परित्यजेद् अधिकारानुग्रहाय ॥ ९.९६ ॥

कन्यायां दत्तशुल्कायां म्रियेत यदि शुल्कदः ।
देवराय प्रदातव्या यदि कन्यानुमन्यते ॥ ९.९७ ॥

भारुचिः ...{Loading}...

केनचिद् विशेषेणास्य पुनर् आरम्भः । एवं च सति “यस्या म्रियेत कन्याया वाचा सत्ये कृते पतिः” इत्य् उक्तं तद् अदत्तशुल्काया विधानं स्यात् । देवरग्रहणाच् च पुनः सपिण्डनिवृत्तिर् गम्यते । युक्ता च तन्निवृत्तिः । सा हि क्रीतत्वात् तद्द्रव्याभिसंबन्धिन्य् एव देवरे ऽभ्यनुज्ञातुं युक्ता, शुल्कपण्यत्वात् तस्याः ॥ ९.९७ ॥

आददीत न शूद्रो ऽपि शुल्कं दुहितरं ददन् ।
शुल्कं हि गृह्णन् कुरुते छन्नं दुहितृविक्रयम् ॥ ९.९८ ॥

भारुचिः ...{Loading}...

न शूद्रो ऽपीति वचनात् शुल्कग्रहणं दोषवद् इत्य् एतद् दर्शयति । न तु शूद्रस्य प्रतिषेधः ॥ ९.९८ ॥

एतत् तु न परे चक्रुर् नापरे जातु साधवः ।
यद् अन्यस्याभ्यनुज्ञाय पुनर् अन्यस्य दीयते ॥ ९.९९ ॥

भारुचिः ...{Loading}...

अनेन दानम् अन्यत्र नास्ति । प्रकृतापेक्षम् एतत् ॥ ९.९९ ॥

नानुशुश्रुम जात्व् एतत् पूर्वेष्व् अपि हि जन्मसु ।
शुल्कसंज्ञेन मूल्येन छन्नं दुहितृविक्रयम् ॥ ९.१०० ॥

भारुचिः ...{Loading}...

एवं च सति शुल्कदोषान् नियोगो ऽपि सपिण्डे नास्ति । अतो देवराभावपक्षे नियतः प्रजनविभागः ॥ ९.१०० ॥

अन्योन्यस्याव्यभिचारो भवेद् आमरणान्तिकः ।
एष धर्मः समानेन ज्ञेयः स्त्रीपुंसयोः सुभः ॥ ९.१०१ ॥

भारुचिः ...{Loading}...

अव्यभिचारो ऽन्योपगमपरित्यागः स्त्रियाः । न तु पुरुषस्य स्त्रीवद् अन्योपगमप्रतिषेधः । “तस्माद् एकस्य बह्व्यो जाया भवन्ति नैकस्या बहवः सह पतयः” इति स्रुतिः । स्त्रियास् तु पुरुषान्तरसंकल्पेनापि व्यभिचार इत्य् उतं च । एवं सति ॥ ९.१०१ ॥

तथा नित्यं यतेयातां स्त्रीपुंसौ तु कृतक्रियौ ।
यथा नातिचरेतां तौ वियुक्ताव् इतरेतरम् ॥ ९.१०२ ॥

भारुचिः ...{Loading}...

विहितस्य स्त्रीपुंधर्मस्यानेकप्रकारस्यास्मिन् प्रकरणे तदनुष्ठानादरार्थम् इदम् उक्तानुकीर्तनम् ॥ ९.१०२ ॥

एष स्त्रीपुंसयोर् उक्तो धर्मो वो रतिसंहितः ।
आपद्य् अपत्यप्राप्तिश् च दायधर्मं निबोधत ॥ ९.१०३ ॥

भारुचिः ...{Loading}...

पूर्वयोः प्रकरणयोर् उपसंहारोपन्यासवचनम् इदं श्रोतृसंबोधनार्थम् ॥ ९.१०३ ॥

ऊर्ध्वं पितुश् च मातुश् च समेत्य भ्रातरः सह ।
भजेरन् पैतृकं रिक्थम् अनीशास् ते हि जीवतोः ॥ ९.१०४ ॥

भारुचिः ...{Loading}...

तदनुज्ञाता जीवद्पितृमातृका अपि धर्मकार्यापेक्षया भजेरन्न् इत्य् एतद् अर्थाद् आपद्यते । तथा च गौतम आह- “जीवति चेच्छति पितरि” इति । मातुर् अपि चोर्ध्वं तदीयद्रव्यविभागः पाक्षिको विज्ञेयो भगिनीभिः सह ॥ ९.१०४ ॥

ज्येष्ठ एव तु गृह्णीयात् पित्र्यं धनम् अशेषतः ।
शेषास् तम् उपजीवेयुर् यथैव पितरं तथा ॥ ९.१०५ ॥

भारुचिः ...{Loading}...

एष कारणतः पाक्षिको ऽविभागो विज्ञेयः । [यदि तत् कार]णं न स्यात् तदा ज्येष्ठमध्यमकनिष्ठानां विभागम् अनेकप्रकारं वक्ष्यति । ज्येष्ठग्रहणपक्षे चायम् अर्थवादो भवति ॥ ९.१०५ ॥

ज्येष्ठेन जतमत्रेण पुत्री भवति मानवः ।
[पितॄणाम् अनृणश् चैव स तस्मात्] सर्वम् अर्हति ॥ ९.१०६ ॥

भारुचिः ...{Loading}...

यतश् च,

यस्मिन्न् ऋणं संनयति येन चानन्त्यम् अश्नुते ।
स एव धर्मजः पुत्रः कामजान् इतरान् विदुः ॥ ९.१०७ ॥

भारुचिः ...{Loading}...

स शिष्टः स्यात् । अविभागपक्षे चेयं ज्येष्ठस्य कनीयस्सु वृत्तिर् उच्यते ॥ ९.१०७ ॥

पितेव [पालयेत् पुत्राञ् ज्येष्ठो ब्रातॄन्] यवीयसः ।
पुत्रवच् चापि वर्तेत ज्येष्ठे भ्रातरि धर्मतः ॥ ९.१०८ ॥

भारुचिः ...{Loading}...

येनैवंगुणः,

ज्येष्ठः कुलं वर्धयति विनासयति (?) वा पुनः ।
ज्येष्ठः पूज्यतमो लोके ज्येष्ठः सद्भिर् अगर्हितः ॥ ९.१०९ ॥

भारुचिः ...{Loading}...

एवं च सति,

> ज्येष्ठः कुलं वर्धयति विनासयति (?) वा पुनः ।

अनेवंगुणः, तस्मात् कारणात् ।

> ज्येष्ठः पूज्यतमो लोके

अतश् चासौ,

> ज्येष्ठः सद्भिर् अगर्हितः ॥ ९.१०९ ॥

यो ज्येष्ठो ज्येष्ठवृत्तिः स्यान् मातेव स पितेव च ।
अज्येष्ठवृत्तिर् यस् तु स्यात् स संपूज्यस् तु बन्धुवत् ॥ ९.११० ॥

भारुचिः ...{Loading}...

गुरुकार्यनिवृत्त्यर्थम् इदं बन्धुवचनम् । तथा च सति ॥ ९.११० ॥

एवं सह ससेयुर् वा पृथग् वा धर्मकाम्यया ।
पृथग् विवर्धते धर्मस् तस्माद् धर्म्या पृथक्क्रिया ॥ ९.१११ ॥

भारुचिः ...{Loading}...

अत्र कारणम् इदम् उच्यते । यदि ज्येष्ठो गुणवत्तया धर्माधिकारार्हो भवति, इतरे चानधिकृता असमर्थाश् च धर्मानुष्ठाने, अतो ऽयम् अविभागो द्रष्टव्यः । यदि त्व् अज्येष्ठवृत्तिर् ज्येष्ठः स्यात् गुणवान् अपि सन् गतो (?) ऽसमर्थेष्व् अपि धर्मानुष्ठाने कनीयस्सु अयम् अविभागो न स्यात् । उक्तं हि “यो ज्येष्ठो ज्येष्ठवृत्तिः स्यात्” इति । तथा “ज्येष्ठवृत्तिर् यस् तु स्यात्” इति च । एवं च सति धर्मानुष्ठानसमर्थेष्व् अधिकारार्हेषु कनीयस्सु दण्डापूपिकया प्रतिषिद्ध एवायम् अविभागो द्रष्टव्यः, सत्य् अपि ज्येष्ठस्य गुणवत्त्वे ज्येष्ठवृत्तित्वे च । तथा चोक्तम् “तस्माद् धर्म्या पृथक्क्रिया” इति । न च धर्म्ये विभागे सत्य् अविभागो युक्तः कारणोपदेशात् । तथा च तद् उक्तम् एव । एतेन पितापुत्रविभागो व्याख्यातः । तुल्यहेतुत्वात् । न चायं नास्तीति मन्तव्यः “ऊर्ध्वं पितुर्” विभागोपदेशात् । यस्माद् वक्ष्यति, “न तत्सुतैर् भजेत् सार्धम्” इति । ततो लिङ्गात् पितापुत्रयोर् विभागो विज्ञेयः । यतश् च सर्वेष्व् अधिकारार्हेषु धर्मानुष्ठानसमर्थेषु च धर्म्या पृथक्क्रिया । अत इदम् उच्यते ॥ ९.१११ ॥

ज्येष्ठस्य विंश उद्धारः सर्वद्रव्याच् च यद् वरम् ।
ततो ऽर्धं मध्यमस्य स्यात् तुरीयं तु यवीयसः ॥ ९.११२ ॥

भारुचिः ...{Loading}...

ज्येष्ठस्य विंशतिभागः सर्वद्रव्येषु च यद् वरम्मध्यमस्य ततो ऽर्धं चत्वारिंशद् भागः । वरद्रव्यानन्तरश् चोद्धारो मध्यमस्य । एवं चतुर्थस् त्व् अशीतिभागो यवीयसः सर्वद्रव्येभ्यश् च हीनः उद्धारः । “द्रव्येभ्यश् च वरं वरम्” इत्य् अस्मिन् पाठे मध्यमकनिष्ठयोस् तदनुरूपैवांशकल्पना विज्ञेया । एवं च मध्यगा उद्धृत्य यद् अन्यच् छिष्यते तस्य समो विभागः कार्यः । त्रयाणां चायं समगुणानां विभागविधिः, त्रयाणाम् उद्धारदर्शनात् । अयम् अपरो विभागः ॥ ९.११२ ॥

ज्येष्ठश् चैव कनिष्ठश् च संहरेतां यथोदितम् ।
ये ऽन्ये ज्येष्ठकनिष्ठाभ्यां तेषां स्यान् मध्यगं धनम् ॥ ९.११३ ॥

भारुचिः ...{Loading}...

बहुपुत्रस्य ज्येष्ठकनिष्ठयोर् गुणवतोर् यथोक्तम् उद्धृत्य निर्गुणानां बहूनाम् अपि मध्यमानां गुणवतो मध्यमस्य यश् चत्वारिंशद्भाग उक्तो ऽनन्तरश्लोके स बहुभिर् अपि च मध्यमैर् विभजनीयः । समगुणानां तु मध्यमानां सर्वेषाम् एकैकस्य पूर्ववच् च[त्वा]रिंशद् भाग उद्धार्यः ॥ ९.११३ ॥

सर्वेषां धनजातानाम् आददीताग्र्यम् अग्रजः ।
यच् च सातिशयं किंचिद् दशतश् चाप्नुयाद् वरम् ॥ ९.११४ ॥

भारुचिः ...{Loading}...

धनजाताद् धनजाताद् यच् छ्रेष्ठं यच् चैकम् अपि सातिशयं सर्वस्माच् च धनजाताद् दशभागः । एतज् ज्येष्ठस्योद्धृत्य पूर्ववद् अन्यत् समधा विभजेरन् । यत्रैव च ज्येष्ठो महागुणः इतरे च गुणहीनाः तत्रायं विधिः सामर्थ्याद् विज्ञेयः । तथा चोत्तरश्लोके चैतम् अर्थं स्फुटीकरिष्यत्य् एव । अपरे तु “दशतश् चाप्नुयाद् वरान्” इति द्वितिया(?)बहुवचनं पठन्ति । गा अश्वान् वा तथा चैतद् दश पशव एव स्मृत्यन्तरे विशेषिताः “दशकं पशूनां नैकशफद्विपदानाम्” इति ॥ ९.११४ ॥

उद्धारो न दशस्व् अस्ति सं[पन्नानां स्व]कर्मसु ।
यत् किंचिद् एव देयं तु ज्यायसे मानवर्धनम् ॥ ९.११५ ॥

भारुचिः ...{Loading}...

पूर्वश्लोके य उद्धारो ज्येष्ठस्योक्तः स निवर्त्यते । उद्धारो दशस्व् अपि पशुषु नास्ति ज्येष्ठस्य, प्राग् एवान्यत्र यथो[क्तधनजातादिषु । यन्]निमित्तेनायं ज्येष्ठांशापवादस् तं दर्शयति । संपन्नानां स्वकर्मसु तद्भ्रातॄणाम् । एवं वैषाम् अध्ययनविज्ञाने कर्मसंपद्वचनाद् अर्थगृहीते । एतद् अपि [ज्ञेयम्] । यत् किंचिद् एव देयं तु ज्यायसे मानवर्धनं नोद्धारः पूर्वः । तथा च समगुणेषु भ्रातृष्व् अयं विभागो विज्ञेयः । उद्धारग्रहणपक्षे चेदम् उच्यते ॥ ९.११५ ॥

एवं समुद्धृतोद्धारे समान् अंशान् प्रकल्पयेत् ।
उद्धारे ऽनुद्धृते त्व् एषाम् इयं स्याद् अंशकल्पना ॥ ९.११६ ॥

भारुचिः ...{Loading}...

एवं यथोक्तन्यायाविरोधेनोद्धृत्य शिष्टस्य समो विभागः ॥ ९.११६ ॥

एकाधिकं हरेज् ज्येष्ठः पुत्रओ ऽध्यर्धं ततो ऽनुजः ।
अंशम् अंशं यवीयांस इति धर्मो व्यवस्थितः ॥ ९.११७ ॥

भारुचिः ...{Loading}...

गुणाधिके ज्येष्ठे ईषद्प्रकृष्टगुणे च तदनन्तरजे तदवरेषु च ताभ्यां निकृष्टगुणेषु समेषु वायं विभागः सामर्थ्याद् विज्ञायते । “समेत्य भ्रातरः सह” इति वचनात् प्रतिषिद्धं भगिनीभ्यः पित्र्यधनांशदानम् । इष्यते च तासाम् अनूढतया निमित्तेन तत्प्राप्तिः । यत इदं तदपवादार्थम् आरभ्यते ॥ ९.११७ ॥

स्वेभ्यो ऽंशेभ्यस् तु कन्याभ्यः प्रदद्युर् भ्रातरः पृथक् ।
स्वात् स्वाद् अंशाच् चतुर्भागं पतिताः स्युर् अदित्सवः ॥ ९.११८ ॥

भारुचिः ...{Loading}...

अनूढानां भगिनीनां नियमेन दानम् इदम् उच्यते, सान्तानिकादिदानवत् । “पतिताः स्युर् अदित्सवः” इति वचनात् । एतच् च स्वांशतो न समुदायतः । उद्वाहमात्रप्रयोजनं देयं स्वधर्मानुपरोधेन, न चतुर्भागो यथाश्रुतः । एवं हि बहुभ्रातृकाणाम् अल्पत्वाच् च कन्यानां धनं बहुतरम् आपद्येत, द्व्येकयोश् च भ्रात्रोर् बह्वीनां भगिनीनां दाने निर्धनत्वं प्रसज्येत । न चैतद् इष्टम्, “धर्म्या पृथक्रिया” इति वचनात् । अथ वा “प्रदद्युर् भ्रातरः पृथक्” इत्य् अत्र श्लोकपदे पृथग्वचनात् भिन्नमातृका एवैते सोदर्याभ्यो भगिनीभ्यः पूर्ववद् दद्युर् इति ॥ ९.११८ ॥

अजाविकं चैकशफं न जातु विषमं भजेत् ।
अजाविकं तु विषमं ज्येष्ठस्यैव विधीयते ॥ ९.११९ ॥

भारुचिः ...{Loading}...

अजाविकं तु विभागकाले यदि विअमसंख्यया विभक्तुम् अशक्यं तज् जेष्ठस्यैव स्यात् । न तद् अन्यस्य द्रव्यांशपातेन समतां नयेत्, विरीय वा तन्मूल्यं खण्डयेत् ॥ ९.११९ ॥

यवीयाञ् ज्येष्ठभार्यायां पुत्रम् उत्पादयेद् यदि ।
समस् तत्र विभागः स्याद् इति धर्मो व्यवस्थितः ॥ ९.१२० ॥

भारुचिः ...{Loading}...

ज्येष्ठांशापवादार्थो ऽयम् आरम्भः । एवं च ज्येष्ठापत्यतया तदंशाधिको भागो न स्यात्, गुणवतो ऽपि कनीयसोत्पन्नत्वात् क्षेत्रजत्वाच् च । नाप्य् अर्धांशः, किं तर्हि “समस् तत्र विभागः स्यात्” । केन, पितृव्येन पितुः कनीयसोत्पादकेनेति । अयं च नियुक्तासुतः क्षेत्रजो विज्ञेयः । अनियुक्तासुतस्य त्व् अनंशार्हत्वम् एव वक्ष्यते । ज्येष्ठपुत्रस्य तु गुणवतः पितुर् इव सोद्धारो धणांश इत्य् एतद् अपि च सामर्थ्याद् गम्यते ॥ ९.१२० ॥

उपसर्जनं प्रधानस्य धर्मतो नोपपद्यते ।
पिता प्रधानः प्रजने तस्माद् धर्मेण तं भजेत् ॥ ९.१२१ ॥

भारुचिः ...{Loading}...

अयं पूर्वश्लोकार्थवादः । उपसर्जनम् अप्रधानं पितुः कनीयान् भ्राता क्षेत्रजस्योत्पादयिता, यस्माद् अतः प्रधानस्य ज्येष्ठस्य भ्रातुः समांशम् इत्य् एतद् धर्मतः शास्त्रतो नोपपद्यते । तथा चोक्तं ज्येष्ठस्यांशदानम् । एवं च सति पिता प्रधानो ऽपत्यप्रजने । तथा च वक्षत्य् औरसप्राधान्यम्, न चायं क्षेत्रजः पित्रा जातः । तस्माद् दर्मेण तं भजेत्- धर्म पूर्वश्लोकशास्त्रम्, “समस् तत्र विभागः स्यात्” इत्य् एतत् । केचिद् “अर्धेन तं भजेत्” इति पठन्ति । तद् अयुक्तम्, पूर्वोक्तव्याघातप्रसङ्गात् । न चात्र विकल्पो युक्तः, अविधित्वाद् अस्य । अविधित्वं च पूर्वश्लोकार्थवादत्वाद् इति । अथ वोपसर्जनं क्षेत्रजः प्रधानस्यौरसस्य् समांश इति एतद् धर्मतो नोपपद्यते । तथा च वक्ष्यति “एक एवौरसः पुत्रः पित्र्यस्य वसुनः प्रभुः” इति । यतश् च पिता प्रधानः प्रजने न चायं तेन जातः, तस्माद् अस्य समांशतैव युक्ता । पूर्वशास्त्र [समं] पितृदानं ततः । अथ वोपसर्जनं क्षेत्रजः प्रधानस्य क्षेत्रिणः समांशम् इत्य् एतद् धर्मतो नोपपद्यत इति । अन्यत् समानम् ॥ ९.१२१ ॥

पुत्रः कनिष्ठो ज्येष्ठायां कनिष्ठायां च पूर्वजः ।
[कथं तत्र विभागः स्या]द् इति चेत् संशयो भवेत् ॥ ९.१२२ ॥

भारुचिः ...{Loading}...

किं मातुर् उद्वाहक्रमेण ज्यैष्ठ्यम् उतापत्यजन्मक्रमेणेत्य् एवं [संशय], अयं निर्णयक्रमो विधीयते ॥ ९.१२२ ॥

एकं वृषभम् उद्धारं [संहरेत स पूर्वजः ।
ततो ऽपरे ऽज्येष्ठवृ]षास् तदूनानां स्वमातृतः ॥ ९.१२३ ॥

भारुचिः ...{Loading}...

पूर्वस्यां जातः पूर्वजः कनीयान् उच्यते न पूर्वजातः । एवं च सत्य् एतद् अत्र समञ्जसं ज्येष्ठग्रहणं भवति । ततो ऽपि अज्येष्ठ[वृषा एकशः] तदूनानाम् । तस्माद् ऊनास् तदूनाः न व्यस्तः, किं तर्हि स्वमातृतः । तथा च सति मातृतो ज्यैष्ठ्यम् अत्र पुत्राणाम्, न जन्मतः॥ ९.१२३ ॥

ज्येष्ठस् तु जातो ज्येष्ठायां हरेद् वृषभषोडशम् ।
ततः स्वमातृतः शेषा भजेरन्न् इति धारणा ॥ ९.१२४ ॥

भारुचिः ...{Loading}...

ऋज्वर्थः श्लोकः । एतद् एकीयमतम्, मनुस् तु भगवान् आह ॥ ९.१२४ ॥

सदृशस्त्रीषु जातानां पुत्राणाम् अविशेषतः ।
न मातृतो ज्यैष्ठ्यम् अस्ति जन्मतो ज्यैष्ठ्यम् उच्यते ॥ ९.१२५ ॥

भारुचिः ...{Loading}...

अस्यार्थवादः-

जन्मज्येष्ठेन चाह्वानं सुब्रह्मण्यास्व् अपि स्मृतम् ।
यमयोश् चैकगर्भे ऽपि जन्मतो ज्येष्ठता स्मृता॥ ९.१२६ ॥

भारुचिः ...{Loading}...

एककालनिषिक्तयोर् अपि सतोः । अत्र कश्चित् “सदृशस्त्री” वचनात् पूर्वविधिम् असदृशस्त्रीविषयं मन्यते । तद् अयुक्तम्, येन विषमसमीकरणम् अन्याय्यम् । “सदृशस्त्री"ग्रहणं चात्र विध्यन्तरसंबन्धेनोच्यमानं न पूर्वविधेर् असदृशस्त्रीविxअयत्वं दर्शयितुं समर्थम् । यतश् च वक्ष्यति, “एतद् विधानं विज्ञेयं विभागस्यैकयोनिषु, बह्वीषु चैकजातानां न्नास्त्रीषु नोबोधत” इति । अतश् चेद् असमञ्जसं पौनरुक्त्याद् आपद्यते ॥ ९.१२६ ॥

अपुत्रो ऽनेन विधिना सुतां कुर्वीत पुत्रिकाम् ।
यद् अपत्यं भवेद् अस्यां तन् मम स्यात् स्वधाकरम् ॥ ९.१२७ ॥

भारुचिः ...{Loading}...

यथैवौरसाभावे क्षेत्रजाद्यभिधानं दायविभागप्रकरणे ऽंशप्राप्त्यर्थं तथैव पुत्रिकापुत्रविधानं विज्ञेयम् । अपुत्रस्यैवैतत् स्यात् पुत्रिकापुत्रविधानम् । अनया संविदा “यद् अपत्यं भवेद् अस्यां तन् मम स्यात् स्वधाकरम्” पिण्डोदकप्रदम् इत्य् अर्थः । अस्यार्थवादः परकृतिरूप उदाह्रियते ॥ ९.१२७ ॥

अनेन तु विधानेन पुरा चक्रे ऽथ पुत्रिकाः ।
विवृद्ध्यर्थं स्ववंशस्य स्वयं दक्षः प्रजापतिः ॥ ९.१२८ ॥

भारुचिः ...{Loading}...

प्रजापतिर् हि प्रजाविधिज्ञः । यतः स एवोदाहृतः ॥ ९.१२८ ॥

ददौ स दश धर्माय काश्यपाय त्रयोदश ।
सोमाय राज्ञे सत्कृत्य प्रीतात्मा सप्तविंशतिम् ॥ ९.१२९ ॥

भारुचिः ...{Loading}...

सत्कारवचनं च सर्वार्थं लिङ्गम् अपरेषां पुत्रिकाकर्मणि ॥ ९.१२९ ॥

यथैवात्मा तथा पुत्रः पुत्रेण दुहिता समा ।
तस्याम् आत्मनि तिष्ठन्त्यां कथम् अन्यो धनं हरेत् ॥ ९.१३० ॥

भारुचिः ...{Loading}...

पितरि प्रेते सपुत्रा अपुत्रा वा पुत्रिका धनं हरेत् तदीयम् ॥ ९.१३० ॥

मातुस् तु यौतकं यत् स्यात् कुमारीभाग एव सः ।
दौहित्र एव तु हरेद् अपुत्र्स्याखिलं धनम् ॥ ९.१३१ ॥

भारुचिः ...{Loading}...

अस्येशिन्य् एव सा । पुत्रिकापुत्रस् त्व् अपुत्रे मातामहे प्रमीते ऽखिलं धनं हरेत्, पुत्रिका वा । यदा पुत्रिकायां कृतायां मातामहस्य तु पुत्रो जायते दैवात् कथंचित्, तदा भ्रात्रंशस्यैव पुत्रिकापुत्र ईशत इति । अथ तु पुत्रिका कृता तथापि प्राक् प्रयाणात् प्तुर् न पितू रिक्थभागिनी ॥ ९.१३१ ॥

दौहित्रो ह्य् अखिलं रिक्थम् अपुत्रस्य हरेद् यदि ।
स एव दद्यात् तत्पिण्डं पित्रे मातामहाय च ॥ ९.१३२ ॥

भारुचिः ...{Loading}...

यस्मिन् पक्षे ऽपुत्रो मातामहः पुत्रिकासुतश् चाखिलद्रव्यहारी, तस्मिन् पक्षे तस्य पिण्डदाननियमः । यदा तु मातामहः सपुत्रः संपद्यते दैवात् पुत्रिकापुत्रे सति, तदा पुत्रिकापुत्रो ऽपि सन् नैव पिण्डं मातामहाय दद्यात् । हरेद् यदि, यस्मिन् पक्ष इत्य् अर्थः । तच् च पिण्डदानं पितृमातामहयोः प्रथमम् । एवम् उत्तरयोर् अपि द्वयोर् द्वयोः पिण्डो देयः । यस्मात् ॥ ९.१३२ ॥

पौत्रदौहित्रयोर् लोके न विशेषो ऽस्ति धर्मतः । तयोर् हि मातापितरौ संभूतौ तस्य देहतः ॥ ९.१३३ ॥

भारुचिः ...{Loading}...

> पौत्रदौहित्रयोर् लोके न विशेषो ऽस्ति धर्मतः ।

कारणम् अत्र ब्रवीति, येन-

> तयोर् हि मातापितरौ संभूतौ तस्य देहतः ॥ ९.१३३ ॥

पुत्रिकापुत्रस्तुतिः पूर्वविध्यर्था ॥ ९.१३३ ॥

पुत्रिकायां कृतायां तु यदि पुत्रो ऽनुजायते ।
समस् तत्र विभागः स्याज् ज्येष्ठता नास्ति हि स्त्रियाः ॥ ९.१३४ ॥

भारुचिः ...{Loading}...

एवं च सति पुत्रांशदानम् अज्येष्ठत्वान् नास्ति ॥ ९.१३४ ॥

अपुत्रायां मृतायां तु पुत्रिकायां कथंचन ।
धनं तत्पुत्रिकाभर्ता हरेतैवाविचारयन् ॥ ९.१३५ ॥

भारुचिः ...{Loading}...

पुत्रिकायाः पितर्य् अपुत्रे उपरते, तद्धने च सर्वस्मिन् पुत्रिकया गृहीते, यद्य् अपुत्र्[आ पुत्रिका म्रियेत तदा तद्धनं] भर्तुः स्यात् । नासौ श्वशुरसपिण्डैर् ज्ञातिभिर् वानुयोज्यः ॥ ९.१३५ ॥

अकृता वा कृता वापि यं विन्देत् सदृशात् सुतम् ।
पौत्री मातामहस् तेन दद्यात् पिण्डं [हरेद् धनम् ॥ ९.१३६ ॥

भारुचिः ...{Loading}...

धनग्रहणस्य पिण्ड]दाननिमित्तत्वात् नियमतो धनहरणं पिण्डदानं च । अकृतायां तु पुत्रिकायां दौहित्रस्येच्छासंनियोगशिष्यं पिण्डदानं धनहरणं च स्यात् । यद्य् अभ्युप[गम्यते विक]ल्पो नियमो वा भवत् । ततः पुत्रिकाविधिनार्थः स्यात् । तस्मात् कृतायां नियमः, अन्यत्र तु विकल्प इत्य् उक्तम् । यद् आह । ९.१३६ ॥

पुत्रेण लोकञ् जयति पौत्रेणानन्त्यम् अश्नुते ।
अथ पुत्रस्य पौत्रेण ब्रध्नस्याप्नोति विष्टपम् ॥ ९.१३७ ॥

भारुचिः ...{Loading}...

दौहित्रप्रशंसार्थः श्लोकः । कथम् । पौत्र एवायं दौहित्र इति कृत्वा स्तूयते मृतस्योपकारविशेषसंबन्धेन । कथम् । पुत्रिणो हि प्रमीताः पितृगणापन्नाः पितृवत् पूजार्हाः पुत्रपौत्रप्रपौत्रैर् विधिसामर्थ्याद् उपहृतस्य कव्यस्य प्रतिग्रहमात्रभोगाद् आ चतुर्थात् पुरुषात् संसारम् आपन्नाः तत्रासत इति । शास्त्रसामर्थ्याद् एतद् गम्यते । एवं हि पुत्रादिभिर् लोकादीञ् जयतीत्य् अयं संस्तव उपपद्यते । तथा च नामधेयनिर्वचनम् अत्र दर्शयति ॥ ९.१३७ ॥

पुंनाम्नो नरकाद् यस्मात् त्रायते पितरं सुतः ।
तस्मात् पुत्र इति प्रोक्तः स्वयम् एव स्वयंभुवा ॥ ९.१३८ ॥

भारुचिः ...{Loading}...

गम्यमानस्य नामधेयगतस्यार्थरूपस्यात्र प्रमाणभावो नामधेयनिर्वचनेन प्रदर्शितः । यतश् चैतद् एवम् अतः कार्यसामान्यात् ॥ ९.१३८ ॥

पौत्रदौहित्रयोर् लोके विशेषो नोपपद्यते ।
दौहित्रो ऽपि ह्य् अमुत्रैनं संतारयति पौत्रवत् ॥ ९.१३९ ॥

भारुचिः ...{Loading}...

उक्तार्थोपसंहारार्थः श्लोकः ॥ ९.१३९ ॥

मातुः प्रथमतः पिण्डं निर्वपेत् पुत्रिकासुतः ।
द्वितीयं तु पितुस् तस्यास् तृतीयं तु पितुः पितुः ॥ ९.१४० ॥

भारुचिः ...{Loading}...

“स एव दद्यात् तत्पिण्डं पित्रे मातामहाय च” इत्य् अत्रोक्तम् अपि सत् पुनर् उच्यते । किम् अर्थम् । कथं नाम पुनरुक्तिः । तत्र मातामहप्रक्रमात् पुत्रिकापुत्रदानं मातामहप्रक्रमं युक्तम् । तस्माद् अयम् अपरः कल्पः पुत्रिकापुत्रपिण्डदानस्य मातुः प्रथमतः पिण्डं निर्वपेत् इत्य् एवमादि । अन्येषां तु पाठो ऽर्थश् चास्य श्लोकस- “मातुः प्रथमतः पिण्डं निर्वपेत् पुत्रिकासुतः, द्वितीयं तु पितुः स्वस्य” इत्य् एवम्, अर्थश् च मातुः प्रथमं मामसंकीर्तनं ततः पितुः स्वस्य । ततो मातामहपितामहयोः यत्परयोश् चेति । तत् पुनर् युक्तायुक्ततया विचारणीयम् ॥ ९.१४० ॥

उपपन्नो गुणैः सर्वैः पुत्रो यस्य तु दत्त्रिमः ।
स हरेतैव तद्रिक्थं संप्राप्तो ऽप्य् अन्यगोत्रतः ॥ ९.१४१ ॥

भारुचिः ...{Loading}...

अपुत्राधिकाराद् अपुत्रस्य सतो दत्तको रिक्थं हरेत् । प्रदर्शनं चेदं कृत्रिमादीनां द्रष्टव्यम् । एवं च सर्व एव पुत्रप्रतिनिधयो ऽविशेषेणापुत्रस्य धनभाजो युक्ताः । यच् च कानीनादीनां षण्णाम् अदाय्[आद्]अत्वम् उच्यते पाक्षिकं तद्विज्ञेयम् । यद् औरस उत्तरकालम् उत्पन्नः उत्तरेभ्यः प्रजीवनमात्रं प्रयच्छति तदा कानीनादीनां विकल्पेन ददातीत्य् एवं कानीनादीनाम् अदायादत्वम् उच्यते ॥ ९.१४१ ॥

गोत्ररिक्थे जनयितुर् न हरेद् दत्त्रिमः सुतः ।
गोत्ररिक्थानुगः पिण्डो व्यपैति दधतः स्वधा ॥ ९.१४२ ॥

भारुचिः ...{Loading}...

गोत्ररिक्थे पिण्डदानं च जनयितुर् दत्त्रिमो न गृह्णीयात् । यस्मै तु दीयते ऽसौ तदीये तस्य गोत्ररिक्थे स्याताम् । पिण्डदानं च तत्संनियोगेन । यस्माद् गोत्रानुगः पिण्डः । अत एतस्मात् कारणाद् व्यपैति दधतः स्वधा पिण्डदानोपलक्षणम् । स्वधा सा च व्यपैति जनयितुः, तेन तस्यान्यस्मै दत्तत्वात् । अन्यस् त्व् आह- “गोत्ररिक्थे जनयितुर् न हरेद् अन्यस्मै दीयमानो ऽपि” । तथा द्व्यामुष्यायणो ऽसौ संपद्यते । गौतमस् तं विसेषयित्वाह- “पिण्डगोत्रर्षिस्[अंबन्धा रिक्थं भजेरन्” इति स एव] गोत्ररिक्थे भजेतेति ॥ ९.१४२ ॥

अनियुक्तासुतश् चैव पुत्रिण्य् आप्तश् च देवरात् ।
उभौ तौ नार्हतो भागं जारजातककामजौ ॥ ९.१४३ ॥

भारुचिः ...{Loading}...

अनियुक्तासुतश् चैवे[ति देवराज् जातो] ज्येष्ठभार्यायाम् इत्य् अर्थः । एवं च सति नियुक्तासुतस्य तत्र समांशत्वम् उक्तं विज्ञेयम् । पुत्रिण्य् आप्तश् च देवराद् इत्य् एतद् अनपत्याय्[आ एव देवरोत्पन्नस्य नान्योत्पन्नस्य भागहर]त्वम् । देवराद् अपि किम्, उतान्यस्माद् इत्य् “अपि"शब्दलोपः सामर्थ्याद् विज्ञेयः । देवरग्रहणं चोभयविशेषः । अस्यार्थवादः यस्मात् तौ जारजात[ककामजौ इति] कथंचिन् निन्देयम् उभयोः, येन तन्निन्दावचनम् उभयत्र युज्यते, अविधिनोत्पन्नत्वाद् उभयोः ॥ ९.१४३ ॥

नियुक्तायाम् अपि पुमान् नार्यां जातो ऽविधानतः ।
नैवार्हः पैतृकं रिक्थं पतितोत्पादितो हि सः ॥ ९.१४४ ॥

भारुचिः ...{Loading}...

नियुक्तायाम् अपि “घृताक्तो वाग्यतः” इति वचनाद् विध्यतिक्रमजातो न रिक्थभागः स्यात् । येन पतितेन पतिताभ्यां वासाव् उत्पादितः । उभयोर् नियमश्रवणात् तद्व्यतिक्रमनिन्दैषा वेदितस्या॥ ९.१४४ ॥

हरेद् एव नियुक्तायां पुत्रो जातो यथौरसः ।
क्षेत्रिकस्य तु तद् बीजं धर्मतः प्रसवश् च सः ॥ ९.१४५ ॥

भारुचिः ...{Loading}...

जातो यथौरस इत्य् एतद्गुणवतः क्षेत्रजस्य पित्र्यांशप्राप्त्यर्थं वचनम् । एवं च सति पूर्वोक्तायास् समांशताया अयम् अपवादः गुणवदपत्यतयारम्भसामर्थ्याद् विज्ञेयः । इतरथा हि पूर्वश्लोकार्थपत्तिसिद्धत्वाद् अनारभ्यम् एतत् स्यात् । एवं चात्र स्तुत्यर्थं प्रशंसावचनम् उपपद्यते इदं क्षेत्रिकस्य तु तद्बीजं धर्मतः प्रसवश् च सः इति । न चाकस्मात् प्रशंसावचनम् इदं भवितुम् अर्हति । तथा च ॥ ९.१४५ ॥

[धनं यो बिभृयाद् भ्रातुर् मृतस्य स्त्रियम् एव च ।
सो ऽपत्यं भ्रातुर् उत्पाद्य दद्यात् तस्यैव तद्धनम्] ॥ ९.१४६ ॥

भारुचिः ...{Loading}...

दण्डापूपिकयौरसस्य । भ्रातुर् उत्पाद्येति नियोगादिविध्यप्केषितम् इदं वचनम् । अपरे त्व् आहुः- अनियुक्तायाम् अपि पित्र्यं दद्याद् इति । तत् त्व् इदं युक्तायुक्तत्वेन विचारणीयम् ॥ ९.१४६ ॥

या नियुक्तान्यतः पुत्रं देवराद् वाप्य् अवाप्नुयात् ।
तं कामजम् अरिक्थीयं निथ्योत्पन्नं प्रचक्षते ॥ ९.१४७ ॥

भारुचिः ...{Loading}...

विधिजातापत्यस्तुतिर् इयम्, अविधिजातापत्यनिन्दया, पितृधनांशप्राप्त्यर्थम् । अन्यस् त्व् आह- यद् उक्तं “देवराद् वा सपिण्डाद् वा” नियुक्तासुतो रिक्थभाग् इति [तस्या]यं प्रतिषेधः । उक्तनिषिद्धत्वाच् च विकल्पेन रिक्थभाक्त्वं विज्ञेयम् । गुणोपेक्षया चान्यतरम् अध्यवसितव्यम् ॥ ९.१४७ ॥

एतद् विधानं विज्ञेयं विभागस्यैकयोनिषु ।
बह्वीषु [चैकजातानां नाना]स्त्रीषु निबोधत ॥ ९.१४८ ॥

भारुचिः ...{Loading}...

वक्ष्यमाणप्रकरणौपन्यासिकः श्लोकः ॥ ९.१४८ ॥

ब्राह्मणस्यानुपूर्व्येण चतस्रस् तु यदि स्त्रियः ।
तासां पुत्रेषु जातेषु विभागे ऽयं विधिः स्मृतः ॥ ९.१४९ ॥

भारुचिः ...{Loading}...

आनुपूर्व्यग्रहणम् [अनुवादार्थ]म् । यदिग्रहणं चानित्यार्थम् । तथा चोक्तम् “कामतस् तु प्रवृत्तानाम् इमाः स्युः क्रमशो ऽवराः” इति ॥ ९.१४९ ॥

कीनाशो गोवृषो यानम् अलङ्करश् च वेश्म च ।
विप्रस्यौद्धारिकं देयम् एकांशस् च प्रधनतः ॥ ९.१५० ॥

भारुचिः ...{Loading}...

कीनाशः कर्षकः । तथा च मन्त्रः “इन्द्र आसीत् सीरपतिः शतक्रतुः, कीनाशा आसन् मरुतस् सुदानवः” इति । गोवृषस् सेक्ता गवाम् । यानं गन्त्र्यादि । अलंकारश् च पित्र्याङ्गुलीयकादि । एवं वेश्म । एकश् चांशो यः प्राधान्येन लक्ष्यते । एतद् विप्रस्योद्धारिकम् । एतद् उद्धृत्य मध्यकात् शिष्टस्यांशविभागो येन न्यायेन सो ऽयम् उच्यते ॥ ९.१५० ॥

त्र्यंशं दायाद् धरेद् विप्रो द्वाव् अंशौ क्षत्रियासुतः ।
वैश्याजो ऽध्यर्धम् एवांशं शूद्रापुत्रो ऽर्धम् एव तु ॥ ९.१५१ ॥

भारुचिः ...{Loading}...

निगदव्याख्यातांशप्रकॢप्तिः । द्विबहुष्व् अपि समसंख्येष्व् एवं विभज्य पश्चात् सजातयो विभजेरन् पूर्ववत् । विषमसंख्येषु तु शास्त्रलिङ्गाद् उत्प्रेक्ष्यांशकल्पनाः ॥ ९.१५१ ॥

सर्वं वा रिक्थजातं तद् दशधा परिकल्प्य च ।
धर्म्यं विभागं कुर्वीत विधिनानेन धर्मवित् ॥ ९.१५२ ॥

भारुचिः ...{Loading}...

धर्म्यवचनाद् अत्र सर्वेषु यथोक्तकारिष्व् अयं विभागः । सो ऽयम् उच्यते ॥ ९.१५२ ॥

चतुरो ऽंशान् हरेद् विप्रस् त्रीन् अंशान् क्षत्रियासुतः ।
वैश्यापुत्रो हरेद् द्व्यंशम् अंशं शूद्रासुतो हरेत् ॥ ९.१५३ ॥

भारुचिः ...{Loading}...

ऋज्वर्थांशकल्पना । अत्रापि पूर्ववत् समविषमसंख्येषु विभागो विज्ञेयः ॥ ९.१५३ ॥

यद्य् अपि स्यात् तु सत्पुत्रो यद्य् अपुत्रो ऽपि वा भवेत् ।
नाधिकं दशमाद् दद्याच् छूद्रापुत्राय धर्मतः ॥ ९.१५४ ॥

भारुचिः ...{Loading}...

सन्तः पुत्रा [द्विजात]यो यस्य सो ऽयं सत्पुत्रः । यद्य् अपुत्रो ऽपि वा भवेत् तद् अभावे केवलः शूद्रापुत्रः । एवम् अपि नाधिकं दशभागात् तस्मै देयम्, अन्यत् सपिण्डा हरेयुः । तदभावे तद्धनस्य [त एवाधिकारिणः स्युः] । एतस्माद् एव लिङ्गत् क्षत्रियस्याताम् । इतरथा हि शूद्रप्रतिषेधो ऽनर्थकः स्यात् ॥ ९.१५४ ॥

ब्राह्मणक्षत्रियवि[शां शूद्रापुत्रो न रिक्थभाक् ।
यद् एवा]स्य पिता दद्यात् तद् एवास्य धनं भवेत् ॥ ९.१५५ ॥

भारुचिः ...{Loading}...

पित्रधीनो ऽस्यांश इत्य् अयम् अपरः कल्पो गुणसंबन्धापेक्षः पूर्वविधेः । एवं च सति पूर्वोत्तरयोर् विरोधाद् अनयोर् विकल्पो गुण[संबन्धापे]क्षः । अथ वा अनूढाशूद्रापुत्रस्यायं विधिर् ज्ञेयः । पूर्वस् तूढापुत्रस्य । तथा च गौतमः शूद्रप्रकरण आहापरिगृहीतास्व् अपि “शुश्रूषुश् चेल् लभेत वृत्तिमूलम् अन्तेवासिविधिना” ॥ ९.१५५ ॥

समवर्णासु वा जाताः सर्वे पुत्राः सुजन्मनाम् ।
उद्धारं ज्यायसे दत्त्वा भजेरन्न् इतरे समम् ॥ ९.१५६ ॥

भारुचिः ...{Loading}...

समवर्णासु वा जाता ज्यायसे मानवर्धनं यत् किंचिद् दत्वा भजेरन्न् इतरे समम् । हीनजातिगुणवत्तरेष्व् अयं विधिः सामर्थ्याद् विज्ञेयः ॥ ९.१५६ ॥

शूद्रस्य तु सवर्णैव नान्या भार्या विधीयते ।
तस्यां जाताः समांशाः स्युर् यदि पुत्रशतं भवेत् ॥ ९.१५७ ॥

भारुचिः ...{Loading}...

शूद्रायां शुद्धायाम् इदम् उच्यते । अन्यासूत्कृष्टापकृष्टासु धर्माधर्मापेक्षेया (?) विभागः कल्पयितव्यः ॥ ९.१५७ ॥

पुत्रान् द्वादश यान् आह नृणां स्वायंभ्य्वो मनुः ।
तेषां षड् बन्ध्दायादाः षड् अदायादबान्धवाः ॥ ९.१५८ ॥

भारुचिः ...{Loading}...

दायविभागप्रकरणापेक्षः पुत्राणाम् अयम् उपदेशो ऽत्र । सूत्रस्थानीयस्येदं भाष्यं तत्स्वरूपनिर्देशार्थं भवति ॥ ९.१५८ ॥

औरसः क्षेत्रजश् चैव दत्तः कृत्रिम एव च ।
गूढोत्पन्नो ऽपविद्धश् च दायादा बान्धवाश् च षट् ॥ ९.१५९ ॥
कानीनश् च सहोडश् च क्रीतः पौनर्भवस् तथा ।
स्वयंदत्तश् च शौद्रश् च षड् अदायादबान्धवाः ॥ ९.१६० ॥

भारुचिः ...{Loading}...

कार्यार्थो ऽयं वर्गप्रविभागः पुत्राणाम्, तच् च वक्ष्यति । सहोपदेशाद् औरसेन साम्यं मा भूत् क्षेत्रजादीनाम् इति । अत इदम् उच्यते ॥ ९.१५९–६० ॥

यादृशं गुणम् आप्नोति क्प्लवैः सन्तरं जलम् ।
तादृशं गुणम् आप्नोति कुपुत्रैः सन्तरंस् तमः ॥ ९.१६१ ॥

भारुचिः ...{Loading}...

अनेन लिङ्गेन सर्वे क्षेत्रजादयो ऽपुत्रस्य पुत्रकार्याणि कुर्युः, सर्वे च दायं गृह्णीयुः । कानीनादीनाम् अदायादत्वम् उक्तं पाक्षिकं तद् इति व्याख्यातम् ॥ ९.१६२ ॥

यद्य् एकरिक्थिनौ स्याताम् औरसक्षेत्रजौ सुतौ ।
यस्य यत् पैतृकं रिक्थं स तद् गृह्णीत नेतरः ॥ ९.१६२ ॥

भारुचिः ...{Loading}...

[और]से सति क्षेत्रजो भव्तीति सामर्थात् वक्तव्यम्, क्षेत्रजे वा सत्य् औरस इति । एवं च सत्य् अनियुक्तासुत एवायं विज्ञेयो गुणतः । तथा हि [यदा पुत्रिण्यां क्षेत्रजो जायेत यदा वोत्पादिते क्षेत्रज औरसो जायेत तदा त]द्धनस्य तयोर् अयं विभागः । यद् यस्य पित्र्यम् इति । एतेन दर्शनेनानियुक्तासुतादय इतरत्रानंशार्हत्वाद् बीजिनो ऽंशं लभन्ते । अन्यस् त्व् आह यदि जातापत्यो ऽथर्वणपक्षक्रियया पुनः सर्वं कृत्वा पुत्रान् उत्पादयेत्, तयोश् च बीजिक्षेत्रिणोर् धनं स्त्रीगतं स्यात्, तयोर् एष विभागः ॥ ९.१६२ ॥

एक एवौरसः पुत्रः प्त्र्यस्य वसुनः प्रभुः ।
शेषाणाम् आनृशंस्यार्थं प्रदद्यात् तु प्रजीवनम् ॥ ९.१६३ ॥

भारुचिः ...{Loading}...

एवं क्षेत्रजादीनाम् औरसे सति पश्चाद् उत्पन्ने वानंशत्वे प्राप्ते विधिर् अयं विकल्पार्थम् उच्यते । इतरेभ्यः क्षेत्रजादिभ्यः प्रजीवनमात्रं देयम् इति ॥ ९.१६३ ॥

षष्ठं तु क्षेत्रजस्यांशं प्रदद्यात् पैतृकाद् धनात् ।
औरसो विभजन् दायं पित्र्यं पञ्चमम् एव वा ॥ ९.१६४ ॥

भारुचिः ...{Loading}...

क्षेत्रजस्य तृतीयो ऽयं विकल्पो नियुक्तासुतस्य मुख्यत्वात् । षष्टपञ्चमभागविकल्पश् च गुणापेक्षः ॥ ९.१६४ ॥

औरसक्षेत्रजौ पुत्रौ पितृरिक्थस्य भागिनौ ।
दशापरे तु क्रमशो गोत्ररिक्थांशभागिनः ॥ ९.१६५ ॥

भारुचिः ...{Loading}...

एवं च पूर्वस्मिन् पूर्वस्मिन् सति उत्तरोत्तरः रजीवनमात्रेणांशेन युज्यते । एतस्माच् च यस्मात् पूर्वस्य पूर्वस्य ज्यायस्त्वं गोत्रभाक्त्वं च ज्ञातिकार्यं च कानीनादिभिर् अपि कार्यम् । एषाम् इदानीं लक्षणम् उच्यते ॥ ९.१६५ ॥

स्वे क्षेत्रे संस्कृतायां तु स्वयम् उत्पादयेद् धि यम् ।
तम् औरसं विजानीयात् पुत्रं प्रातमकल्पिकम् ॥ ९.१६६ ॥

भारुचिः ...{Loading}...

या यस्य स्वर्णा सा तस्य क्षेत्रम् । तस्याम् उत्पन्नः प्राथमकल्पिक औरसो ऽपि विज्ञेयः । क्षत्रियवैश्ययोस् तु जाता न संपूर्णलक्षणा औरसाः सुताः । अतस् तेषाम् [विभा]गो न्यायविरोधेन कल्पयितव्यः । अपरे तु क्षत्रियवैश्याव् एवाउरसौ क्षेत्रजादिभ्यो ज्यायांसौ मन्यन्ते ॥ ९.१६६ ॥

यस् तल्पजः प्रमीतस्य क्लीबस्य व्याधितस्य वा ।
स्वधर्मे[ण नियुक्तायां स पुत्रः क्षेत्रजः स्मृतः] ॥ ९.१६७ ॥

भारुचिः ...{Loading}...

निगदव्याख्यातः श्लोकः ॥ ९.१६७ ॥

माता पिता च दद्यातां यम् अद्भिः पुत्रम् आपदि ।
सदृशं प्रीतिसंयुक्तं स ज्ञेयो दत्त्रिमः सुतः ॥ ९.१६८ ॥

भारुचिः ...{Loading}...

ये तु “माता पिता वा दद्याताम्” इति पठन्ति [तद् अयुक्त]म् उच्यते । समस्ताभ्यां दाननियमाद् अन्यतरापाये दत्तको न ग्राह्यः । “माता पिता वा” इत्य् अस्मिंस् तु विकल्पपक्षे समस्तयोर् दाननियमो नास्ति । सदृशं सवर्णम्, [जात्य्]आदितः ॥ ९.१६८ ॥

सदृशं तु प्रकुर्याद् यं गुणदोषविचक्षणम् ।
पुत्रं पुत्रगुणैर् युक्तं स विज्ञेयस् तु कृत्रिमः ॥ ९.१६९ ॥

भारुचिः ...{Loading}...

कृत्रिमो ऽपि सवर्ण एव पितृमातृविहीनश् च ॥ ९.१६९ ॥

उत्पाद्यते गृहे यस्य न च ज्ञायेत कस्य सः ।
स गृहे गूढम् उत्पन्नस् तस्य स्याद् यस्य तल्पजः ॥ ९.१७० ॥

भारुचिः ...{Loading}...

अविज्ञातबीजिनो मातृजातीयो गूढोत्पन्नो विज्ञेयः । तथा च व्यासदर्शनम् ॥ ९.१७० ॥

मातापितृभ्याम् उत्सृष्टं तयोर् अन्यतरेण वा ।
यं पुत्रं परिगृह्णीयाद् अपविद्धः स उच्यते ॥ ९.१७१ ॥

भारुचिः ...{Loading}...

अन्यतरे प्रमीते ऽन्यतरोत्सर्ग उच्यते । इतरथा हि मातापित्रोर् जीवतोर् अन्यतरोत्सर्गे ऽपविद्धतास्य न युक्ता । अयम् अपि च सवर्ण एव ॥ ९.१७१ ॥

पितृवेश्मनि कन्या तु यं पुत्रं जनयेद् रहः ।
तं कानीनां वदेन् नाम्ना वोढुः कन्यासमुद्भवम् ॥ ९.१७२ ॥

भारुचिः ...{Loading}...

सवर्णार्थं सदृशोत्पन्नः । अपरे तु रह इति वचनाद् अत्र्[आपि बी]जिनो ऽविज्ञानात् कानीनं मातृजातीयम् एवाहुः ॥ ९.१७२ ॥

या गर्भिणी संस्क्रियते ज्ञाताज्ञातापि वा सती ।
वोढुः स गर्भो भवति सहोढ इति चोच्यते ॥ ९.१७३ ॥

भारुचिः ...{Loading}...

अयम् अपि सहोढो मातृजातीयः ॥ ९.१७३ ॥

क्रीणीयाद् यस् त्व् अपत्यार्थे मातापित्रोर् यम् अन्तिकात् ।
स क्रीतकः सुतस् तस्य सदृशो ऽसदृशो ऽपि वा ॥ ९.१७४ ॥

भारुचिः ...{Loading}...

अपरे त्व् आहुः क्रीतः सदृशो ऽसदृशो वेति गुणतः कल्प्यते । वर्णतो हि कल्पनायाम् असमवर्णग्रहणे न्यायविरोधः । अन्यस् तु ब्राह्मणविxअयम् एव न्यायविरोधम् आह ॥ ९.१७४ ॥

या पत्या वा परित्यक्ता विधवा स्वेच्छयात्मनः ।
उत्पादयेत् पुनर् भूत्वा स पौनर्भव उच्यते ॥ ९.१७५ ॥

भारुचिः ...{Loading}...

सवर्णः पौनर्बवो ऽसवर्णो ऽपि वा, असवर्णस् तु गुणतः ॥ ९.१७५ ॥

सा चेद् अक्षतयोनिः स्याद् गतप्रत्यागतापि वा ।
पौनर्भवेन भर्त्रा सा पुनस् संस्कारम् अर्हति ॥ ९.१७६ ॥

भारुचिः ...{Loading}...

पाणिग्रहणमात्रेण दूषिता यद्य् अपि भर्तृगृहाद् गतप्रत्यागता भवेत् अक्षतयोनि[ः पुनः संस्कार्या ॥ ९.१७६ ॥

मा]तापितृविहीनो यस् त्यक्तो वा स्याद् अकारणे ।
आत्मानं स्पर्शयेद् यस्मै स्वयंदत्तस् तु स स्मृतः ॥ ९.१७७ ॥

भारुचिः ...{Loading}...

सवर्ण एव स्यात्, न तथेतरः ॥ ९.१७७ ॥

यं ब्राह्मणस् तु शूद्रायां कामाद् उत्पादयेत् सुतम् ।
स पारयन्न् एव शवस् तस्मात् पारशवः स्मृतः ॥ ९.१७८ ॥

भारुचिः ...{Loading}...

यः शौद्र इति प्राग् अभिहितः । यं ब्राह्मण इति क्षत्रियवैश्ययोर् अपि प्रदर्शनार्थम् । तथा च पारशवग्रहणवान् स पारयन्न् एव जीवन्न् एव शवः । पुरुषार्थप्रयोजनविशिष्टकर्मणानभिसंबन्धित्वात् तस्य पारशवः स्मृतः ॥ ९.१७८ ॥

दास्यां वा दासदास्यां वा शूद्रो यस्य सुतो भवेत् ।
सो ऽनुज्ञातो हरेद् अंशम् इति धर्मो व्यवस्थितः ॥ ९.१७९ ॥

भारुचिः ...{Loading}...

शूद्रं प्रति पितुर् अनुज्ञावचनाद् ब्राह्मणादीनां स्नेहाद् रागाद् वा दायं प्रत्य् अनुज्ञानं नास्ति ॥ ९.१७९ ॥

क्षेत्रजादीन् सुतान् एतान् एकादश यथोदितान् ।
पुत्रप्रतिनिधीन् आहुः क्रियालोपान् मनीषिणः ॥ ९.१८० ॥

भारुचिः ...{Loading}...

एकादशानाम् अविशेषेण प्रतिनिधिवचनात् कानीनादयो ऽपि पूर्वैर् अविशिष्टाः प्रतीयन्ते । अतो यद् एषाम् अदायादबान्धवत्वम् उक्तं प्रजीवनविषये पाक्षिकदानार्थं तत् स्याद् इति व्याख्यातम्, किं अयं प्रधानेन विशिष्टकार्यप्रतिनिधिः यथा मीमांसका आहुर् इति । नेत्य् उच्यते, विषमसमीकरणस्यायुक्तत्वात् । तथा चोक्तम् “तादृशं गुणम् आप्नोति कुपुत्रैः संतरंस् तमः” इत्य् एवमादि । तथा चेदम् आहैषाम् निन्दावचनं समानबलत्वप्रतिषेधार्थम् ॥ ९.१८० ॥

य एते ऽभिहिताः पुत्राः प्रसङ्गाद् अन्यबीजजाः ।
यस्य ते बीजतो जातास् तस्य ते नेतरस्य तु ॥ ९.१८१ ॥

भारुचिः ...{Loading}...

पौनर्भवशौद्रौ द्वौ परित्यज्य नव पुत्रा अन्यबीजजाः उच्यन्ते । तेषाम् औरसेनानिरस्तानां बीजिनां सति संभवे भागित्व[म् । येषां तु] बीजी न ज्ञायेत यथा गूढोत्पन्नकानीनसहोढानां तेषाम् उभयत्राभागित्वे केवलं प्रजीवनमात्रम् एभ्यो दीयते, तच् चानृशंसावचनात् सर्वेषाम् [अभ्यनु]ज्ञातम् । औरसप्रशंसार्थो ऽयं श्लोकः इत्य् अपरे, येन किंचिद् अपि न विधीयते प्रतिषिध्यते वा । अथ वा प्रतिनिध्[एः प्रध्]आनासमानकार्यत्वप्रदर्शनार्थो ऽयं श्लोकः ॥ ९.१८१ ॥

[ब्रातॄणाम् ए]कजातीनाम् एकश् चेत् पुत्रवान् भवेत् ।
सर्वांस् तांस् तेन पुत्रेण पुत्रिणो मनुर् अब्रवीत् ॥ ९.१८२ ॥

भारुचिः ...{Loading}...

सति भ्रातृपुत्र एते प्रतिनिधयः [न] कर्तव्याः इत्य् एवंपरम् एतत् । अथ वा [तत्पुत्रस्य] प्रथमं दत्तकादिन्यायेन प्रतिनिधित्वम् अनेन श्लोकेन विज्ञायते । अलभ्यमाने त्व् असति वा भ्रातृपुत्रे ऽन्ये कल्पा आश्रयणीया इति ॥ ९.१८२ ॥

बह्वीनाम् एकपत्नीनाम् एका चेत् पुत्रिणी भवेत् ।
सर्वास् तास् तेन पुत्रेण प्राह पुत्रवतीर् मनुः ॥ ९.१८३ ॥

भारुचिः ...{Loading}...

इयं न नियोक्तव्येत्य् एतस्माद् गम्यते । न चैतयैकाकिन्या दत्तकादिपुत्रग्रहणं कार्यम् ॥ ९.१८३ ॥

शेयसः श्रेयसो ऽभावे पापीयान् रिक्थम् अर्हति ।
बहवश् चेत् तु सदृशाः सर्वे रिक्थस्य भागिनः ॥ ९.१८४ ॥

भारुचिः ...{Loading}...

सर्वस्मिन् रिक्थविभाए बीजभूतो ऽयं श्लोकः । एवं च सत्य् अस्यानुरोधेन रिक्थविभागे ऽनागतो ऽतिक्रान्तश् च वर्णनीयः ॥ ९.१८४ ॥

न भ्रातरो न पितरः पुत्रा रिक्थहराः पितुः ।
पिता हरेद् अपुत्रस्य रिक्थं भ्रातर एव च ॥ ९.१८५ ॥

भारुचिः ...{Loading}...

य एते औरसादयःपुत्राः प्रकृतास् त एव रिक्थहराः स्युः । क्षेत्रजादयो ऽप्य् औरसासंभवे । कुत एतत् । प्रकरणसामर्थ्यात् सत्य् अपि संनिकृष्टतरत्वे पितुर् भ्रातुश् च नैव रिक्थभाजः स्युः । अपुत्रस्य पिता हरेत्, तदभावे भ्रातरः । एवं चौरसस्य पितृधनप्राप्तौ सिद्धायां क्षेत्रजादिसुतप्राप्त्यर्थो ऽयम् आरम्भः । यथ्श् चेदम् आह ॥ ९.१८५ ॥

त्रयाणाम् उदकं कार्यं त्रिषु पिण्डः प्रवर्तते ।
चतुर्थः संप्रदातैषां पञ्चमो नोपपद्यते ॥ ९.१८६ ॥

भारुचिः ...{Loading}...

प्रकृतस्य संनिकर्षस्य विभवनार्थो ऽयं श्लोकः ॥ ९.१८६ ॥

अनन्तरः सपिण्डाद् यस् तस्य तस्य धनं भवेत् ।
अत ऊर्ध्वं सकुल्याः स्युर् आचार्यः शिष्य एव वा ॥ ९.१८७ ॥

भारुचिः ...{Loading}...

सकुल्यग्रहणेन समानोदका गृह्यन्ते । आचार्यः शिष्यो वा । तदभावे ॥ ९.१८७ ॥

सर्वेषाम् अप्य् अभावे तु ब्राह्मणा रिक्थभागिनः ।
त्रैविद्याः शुचयो दान्तास् तथा धर्मो न हीयते ॥ ९.१८८ ॥

भारुचिः ...{Loading}...

सर्वेषाम् अप्य् अभावे इत्य् एतस्माद् गम्यते तत्स्त्रीणाम् अप्य् अभावे यथोक्तगुणसंबन्ध [इति । तथा च] सति ॥ ९.१८८ ॥

अहार्यं ब्राह्मणद्रव्यं राज्ञा नित्यम् इति स्थितिः ।
इतरेषां तु वर्णानां सर्वाभावे हरेन् नृपः ॥ ९.१८९ ॥

भारुचिः ...{Loading}...

ऋज्वर्थः श्लोकः ॥ ९.१८९ ॥

संस्थितस्यानपत्यस्य सगोत्रात् पुत्रम् आहरेत् ।
तत्र यद् रिक्थजातं स्यात् तत् तस्मिन् प्रतिपादयेत् ॥ ९.१९० ॥

भारुचिः ...{Loading}...

क्षेत्रजस्य देवरसपिण्डाभ्याम् उक्तत्वाद् इह सगोत्रग्रहणं तदुत्पन्नस्यापि धनांशप्राप्त्यर्थम् । इतरथा हि “देवराद् वा सपिण्डाद् वा” इति वचनाद् अदेवरसपिण्डात् सगोत्रात् उत्पन्नस्य क्षेत्रजस्यानंशार्हता स्यात् । क्लीबकस्य दत्तकस्य तु दत्त्कृत्रिमस्वयंदत्ताः स्युः ॥ ९.१९० ॥

द्वौ तु यौ विवदेयातां द्वाभ्यां जातौ स्त्रिया धने ।
तयोर् यद्य् अस्य पित्र्यं स्यात् तत् संगृह्णीत नेतरः ॥ ९.१९१ ॥

भारुचिः ...{Loading}...

या पुनर्भूः सापत्या सधना च परस्मिन् पुरुषे पुनर् भवति तत्रायं विभागः । इदं च पुनर्भूपुत्रस्यांशहरत्वे दर्शनम् ॥ ९.१९१ ॥

जनन्यां संस्थितायां तु समं सर्वे सहोदराः ।
भजेरन् मातृकं रिक्थं भगिन्यश् च सनाभयः ॥ ९.१९२ ॥

भारुचिः ...{Loading}...

समवचनान् नास्त्य् अत्र ज्येष्ठांशः । भगिन्यश् च सनाभय ऊढा अनूढाश् च गृह्यन्ते । अनूढा एवेति केचित् । बगिन्यभावे तु ॥ ९.१९२ ॥

यास् तासां स्युर् दुहितरस् तासाम् ऐ यथार्हतः ।
मातामह्या धनात् किंचित् प्रदेयं प्रीतिपूर्वकम् ॥ ९.१९३ ॥

भारुचिः ...{Loading}...

ऊढानाम् अनूढानां चेति कृतविचारम् एतत् । प्रीतिपूर्वकम् इति वचनान् न नियतं दानम् इदं विज्ञायते ॥ ९.१९३ ॥

अध्यग्न्याध्यावाहनिकं दत्तं च प्रीतिकर्मणि ।
भ्रातृमातृपितृप्राप्तं षड्विधं स्त्रीधनं स्मृतम् ॥ ९.१९४ ॥

भारुचिः ...{Loading}...

षड्विधस्य नियमात् मैत्रलब्धस्य स्त्रीधनत्वं नास्ति । अध्यग्नीयम् अग्निसमीप उह्यमानायै दत्तम् । अध्यावाहनिकं पत्या स्वगृहम् आनीयमानायै दीयते ॥ ९.१९४ ॥

अन्वाधेयं च यद् दत्तं पत्या प्रीतेन चैव यत् ।
पत्यौ जीवति वृत्तायां प्रजायास् तद् धनं भवेत् ॥ ९.१९५ ॥

भारुचिः ...{Loading}...

ऋज्वर्थः श्लोकः ॥ ९.१९५ ॥

ब्राह्मदैवार्षगान्धर्वप्राजापत्येषु यद् धनम् ।
अप्रजायाम् अतीतायां भर्तुर् एव तद् इष्यते ॥ ९.१९६ ॥

भारुचिः ...{Loading}...

एतेषु पञ्चधेषु (?) भर्तुर् धनम् अभ्यनुज्ञायते ॥ ९.१९६ ॥

यत् त्व् अस्याः स्याद् धनं दत्तं विवाहेष्व् आसुरादिषु ।
अप्रजायाम् अतीतायां मातापित्रोस् तद् इष्यते ॥ ९.१९७ ॥

भारुचिः ...{Loading}...

एतेष्व् आसुरादिषु कल्या[नेषु तयोः] प्रत्यर्पयितव्यं धनम् ॥ ९.१९७ ॥

स्त्रियां तु यद् भवेद् वित्तं पित्रा दत्तं कथंचन ।
ब्राह्मणी तद् धरेत् कन्या तदपत्यस्य वा भवेत् ॥ ९.१९८ ॥

भारुचिः ...{Loading}...

षड्विधस्या[पि स्त्रीधन]स्यापुत्रायाम् [अतीतायां ग्रहणे न्याय्ये] सति पित्रा दत्तम् इत्य् एतद् अत्र निदर्शनार्थं सर्वस्त्रीधनानां विज्ञेयम् । [मृत]पुत्रायाश् च विभागं वक्ष्यति । ब्राह्मणी तद् धरेत् कन्या इति नियमात् क्षत्रियादिकन्यानाम् [अयं निय]मः । एतद् ब्राह्मणादीनाम् । ब्राह्मणीक्षत्रियावैश्यासूढास्व् असवर्णस्त्र्युपरमे ब्राह्मणादिकन्याभ्यो धनदानं विज्ञेयम् ॥ ९.१९८ ॥

न निर्हारं स्त्रियः कुर्युः कुटुम्बाद् बाहुमध्यगात् ।
स्वकाद् अपि च वित्ताद् धि स्वस्य भर्तुर् अनाज्ञया ॥ ९.१९९ ॥

भारुचिः ...{Loading}...

निर्हारप्रतिषेधाच् चैतत् विज्ञायते यदि काचिद् ईशत्वात् तद्धनं निर्हरेत्, ततस् तत्पुनरादाय भ्रातृभिर् विभक्तव्यम् एव ॥ ९.१९९ ॥

पत्यौ जीवति यः स्त्रीभिर् अलङ्कारो धृतो भवेत् ।
न तं भजेरन् दायादा भजमानाः पतन्ति ते ॥ ९.२०० ॥

भारुचिः ...{Loading}...

दायादानाम् अयं प्रतिषेधः । आत्मीयानां त्व् औरसपुत्राणाम् अनुज्ञातो विभागः ॥ ९.२०० ॥

अनंशौ क्लीबपतितौ जात्यन्धबधिरौ तथा ।
उन्मत्तजडमूकाश् च ये च केचिन् निरिन्द्रियाः ॥ ९.२०१ ॥

भारुचिः ...{Loading}...

इत्य् अनेन पीठसर्पिपंग्वादयो ऽपि गृह्यन्ते सामर्थ्यात् ॥ ९.२०१ ॥

सर्वेषाम् अपि तु न्याय्यं दातुं शक्त्या मनीषिणा ।
ग्रासाच्छादनम् अत्यन्तं पतितो ह्य् अददद् भवेत् ॥ ९.२०२ ॥

भारुचिः ...{Loading}...

प्रकरणात् क्लीबादीनाम् इदम् उच्यते ग्रासाच्छादनदानं यावज्जीवम् ॥ ९.२०२ ॥

यद्य् अर्थिता तु दारैः स्यात् क्लीबदीनां कथंचन ।
तेषाम् उत्पन्नतन्तूनाम् अपत्यं दायम् अर्हति ॥ ९.२०३ ॥

भारुचिः ...{Loading}...

क्लीबादीनाम् इति चात्र सामर्थ्यान् न बहुव्रीहौ तद्गुणसंविज्ञानं भवति । एवं च क्लीबाद् अपरे तु गृह्यन्ते । येन धर्मप्रजार्थं दाराणां संग्रहः यतस् तद् अभावात् क्लीबस्य नास्ति संग्रहः । अपुत्रस्यानधिकाराद् आधाने । अथ स्मार्तकर्मापेक्षो दारसंग्रहः । ततः क्लीबस्याप्य् अत्र ग्रहणं युक्तं तद्गुणसंविज्ञानबहुव्रीहिणा ॥ ९.२०३ ॥

यत् किंचित् पितरि प्रेते धनं [ज्येष्ठो] ऽधिगच्छति ।
भागो यवीयसां तत्र यदि विद्यानुपालिनः ॥ ९.२०४ ॥

भारुचिः ...{Loading}...

ज्येष्ठलब्धस्य वैद्याः सन्तो भागिनो यवीयांसः, न तु कनिष्ठलब्धस्य ज्यायान् इत्य् एतद् अर्थाल् [लभ्यते] ॥ ९.२०४ ॥

अविद्यानां तु सर्वेषाम् ईहातश् चेद् धनं भवेत् ।
समस् तत्र विभागः स्याद् अपित्र्य इति धारणा ॥ ९.२०५ ॥

भारुचिः ...{Loading}...

ईहातः चेष्टातः कृष्यादित इत्य् अर्थः । सर्वे चेच् चेष्टन्ते समस् तत्र विभागः स्यात्, न तु गुणापेक्षः कश्चिद् विभागकल्प आश्रयितव्यः ॥ ९.२०५ ॥

विद्याधनं तु यद् यस्य तत् तस्यैव धनं भवेत् ।
मैत्रम् औद्वाहिकं चैव माधुपर्किकम् एव च ॥ ९.२०६ ॥

भारुचिः ...{Loading}...

औद्वाहिकग्रहणेन सर्वं श्वशुरगृहाल् लब्धं गृह्यते ॥ ९.२०६ ॥

भ्रातॄणाम् यस् तु नेहेत धनं शक्तः स्वकर्मणा ।
स निर्भाज्यः स्वकाद् अंशात् किंचिद् दत्त्वोपजीवनम् ॥ ९.२०७ ॥

भारुचिः ...{Loading}...

अददताम् अपि तु नैव विरोधो ऽस्ति ॥ ९.२०७ ॥

अनुपघ्नन् पितृद्रव्यं स्रमेण यद् उपार्जयेत् ।
स्वयम् ईहितलब्धं तन् नाकामो दातुम् अर्हति ॥ ९.२०८ ॥

भारुचिः ...{Loading}...

अर्थात् कामस्य दानम् अनुजानाति ॥ ९.२०८ ॥

पैतृकं तु पिता द्रव्यम् अनवाप्तं यद् आप्नुयात् ।
न तत् पुत्रैर् भजेत् सार्धम् अकामः स्वयम् अर्जितम् ॥ ९.२०९ ॥

भारुचिः ...{Loading}...

पितामहधनस्येतरे ऽपीशत इत्य् अनया शङ्कया प्रतिषेधः । अनेन च दर्शनेन सत्यां विभागप्रतिपत्तौ वित्तं सर्वं विभजनीयम् । पित्रा पुत्रविभागस्यैतद् दर्शनम् । जीवपितृकाणाम् अस्ति विभाग इत्य् एतद् दर्शयति ॥ ९.२०९ ॥

विभक्ताः सह जीवन्तो विभजेरन् पुनर् यदि ।
समस् तत्र विभागः स्याज् ज्यैष्ठ्यं तत्र न विद्यते ॥ ९.२१० ॥

भारुचिः ...{Loading}...

संसृष्टानां यो ज्येष्ठः नासौ ज्येष्टांशं गृह्णीयात् । यत्र तु ज्येष्ठः सह ज्येष्ठांशेन संसृज्यते तत्र पुनर् अस्य ज्य्ष्ठांश उद्ध्रियते ॥ ९.२१० ॥

येषां ज्येष्ठः कनिष्ठो वा [हीयेतांशप्रदानतः ।
म्रि]येतान्यतरो वापि तस्य भागो न लुप्यते ॥ ९.२११ ॥

भारुचिः ...{Loading}...

प्रोषितस्य मृतस्य वा भागम् उद्धृत्य ॥ ९.२११ ॥

सोदर्या विभजेरंस् तं समेत्य सहिताः समम् ।
भ्रातरो ये च संसृष्टा भगिन्यश् च सना[भयः ॥ ९.२१२ ॥

भारुचिः ...{Loading}...

असंसृष्टाणां सोद]राणांस् तं विभजेरन् न सापत्नाः, सति तु संसर्गे ये संसृष्टास् ते विभजेरन्, न सोदर्या अप्य् असंसृष्टाः ॥ ९.२१२ ॥

यो ज्येष्ठो विनिकुर्वीत लोभाद् भ्रातॄन् यवीयसः ।
[सो ऽज्येष्ठः स्या]द् अभागश् च नियन्तव्यश् च राजभिः ॥ ९.२१३ ॥

भारुचिः ...{Loading}...

विनिकरणम् अन्यायेन यवीयसां न्यक्करणं धनोपयोगश् च तान् अतिसंधाय । अर्थाच् च कनिष्ठो ऽपि सुतरांनियन्तव्य इत्य् आपद्यते ॥ ९.२१३ ॥

सर्व एव विकर्मस्था नार्हन्ति भ्रातरो धनम् ।
न चादत्त्वा कनिष्ठेभ्यो ज्येष्ठः कुर्वीत यौतकम् ॥ ९.२१४ ॥

भारुचिः ...{Loading}...

ये कुटुम्बकार्य ऽव्युत्पन्नास् ते द्यूतादिना विकर्मस्थाः प्रकरणसामर्थ्याद् विज्ञायते । पतिताना[म् अ]नंशार्हतोक्ता ॥ ९.२१४ ॥

भ्रातॄणाम् अविभक्तानां यद्य् उत्थानं भवेत् सह ।
न तत्र भागं विषमं पिता दद्यात् कथंचन ॥ ९.२१५ ॥
ऊर्ध्वं विभागाज् जातस् तु पित्र्यम् एव हरेद् धनम् ।
संसृष्टास् तेन वा ये स्युर् विभजेत स तैः सह ॥ ९.२१६ ॥

भारुचिः ...{Loading}...

ये ऽन्योन्योपार्जितधनाः पित्रा स्नेहेन गुणापेक्षया वा तेषां विषमो विभागो न कर्तव्यः । इदं च दर्शनं पितुर् अभिप्राये न सति । अपि तु पित्रभिप्रायेण विभागे वैकल्पिकं ग्रहणं तदभिप्रायेण स्यात्, नान्यथा ॥ ९.२१६ ॥

अनपत्यस्य पुत्रस्य माता दयाद्यम् आप्नुयात् ।
मातर्य् अपि च वृत्तायां पितुर् मात्रा हरेद् धनम् ॥ ९.२१७ ॥

भारुचिः ...{Loading}...

जीवत्यां मातरि पितामह्यां च न सोदरा ईशन्ते ऽनपत्यस्य स्वधनस्य, नापि तत्पितासोदर्या वा भ्रातरः ॥ ९.२१७ ॥

ऋणे धने च सर्वस्मिन् प्रविभक्ते यथाविधि ।
पश्चाद् दृश्येत यत् किंचित् तत् सर्वं समतां नयेत् ॥ ९.२१८ ॥

भारुचिः ...{Loading}...

द्रष्ट्रा न तद् ग्राह्यम् इत्य् एवमर्थं पुनर् उपदेशः, ज्येष्ठांशप्रतिषेधार्थो वा, द्व्यंशः पूर्वजः इत्य् एवम् उक्तं ज्येष्ठस्य तद् अत्र न स्यात् ॥ ९.२१८ ॥

वस्त्रं पत्रम् अलंकारं कृतान्नम् उदकं स्त्रियः ।
योगक्षेमप्रचारं च न विभाज्यं प्रचक्षते ॥ ९.२१९ ॥

भारुचिः ...{Loading}...

एतान् अपीच्छया विभजेतन् । “नाकामो दातुम् अर्हति” इत्य् एतद् अनुवादो ऽयं द्रष्टव्यः । सर्वत्रैवेच्छातो दानम् अयुक्तं प्रतिषेद्धुम् । सर्वत्र धनविभागे प्राप्ते- वस्त्रं [प्रसिद्धम् । पत्रं] पतत्य् अनेनेत्य् अश्वादिः । अलंकारं सामर्थ्यात् पितरि जीवति यद् येन परिगृहीतम् । कृतान्नं तण्डुलादि । उदकं तदाधारकूपादिः । स्त्रियः उपभोगदास्यः प्रतिनियताः । योगक्षेमप्रचारं च येन द्रव्येण योगक्षेमर्थं पर्चरन्ति । योगो ऽनुपात्तपरिलाभः, क्षेमम् उपात्तपरिपालनम् । योगक्षेमं वा तदर्थं राज्ञापि दीयमानं द्रष्टव्यम् । प्रचारं च प्रचरणभूमिजम् इन्धनकादि, न विभाज्यं प्रचक्षते ॥ ९.२१९ ॥

एष उक्तो विभागो वः पुत्राणां च क्रियाविधिः ।
क्रमसः क्षेत्रजादीनां द्यूतधर्मं निबोधत ॥ ९.२२० ॥

भारुचिः ...{Loading}...

उपसंहारोपन्यासार्थः स्लोकः ॥ ९.२२० ॥

द्यूतं समाह्वयं चैव राजा राष्ट्रान् निवारयेत् ।
राज्यान्तकरणाव् एतौ द्वौ दोषौ पृथिवीक्षिताम् ॥ ९.२२१ ॥

भारुचिः ...{Loading}...

येन,

प्रकाशम् एतत् तास्कर्यं यद् एवनसमाह्वयौ । तयोर् नित्यं प्रतीघाते नृपतिर् यत्नवान् भवेत् ॥ ९.२२२ ॥

भारुचिः ...{Loading}...

> प्रकाशम् एतत् तास्कर्यं यद् एवनसमाह्वयौ ।

अतः,

> तयोर् नित्यं प्रतीघाते नृपतिर् यत्नवान् भवेत् ॥ ९.२२२ ॥

अप्राणिभिर् यत् क्रियते तल् लोके द्यूतम् उच्यते ।
प्राणिभिः क्रियते यस् तु स विज्ञेयः समाह्वयः ॥ ९.२२३ ॥
द्यूतं समाह्वयं चैव यः कुर्यत् कारयेत वा ।
तान् सर्वान् घातयेद् राजा शूद्रांश् च द्विजलिङ्गिनः ॥ ९.२२४ ॥

भारुचिः ...{Loading}...

सभिका अपि कारयतो द्यूतं ताडयितव्याः न केवलं कर्तारः । प्रतिषेधपरत्वाच् च वधोपदेशस्यान्येनाप्य् उपायेन तेषां प्रतिषेधः कर्तव्यो राजतन्त्रविरोधिनाम् । येन न ह्य् अत्र धर्मातिक्रमः कश्चिद् अस्ति । एवं च सत्य् अत्र वधिस् ताडनार्थः एव विज्ञेयः । धर्मव्यवस्थाभेदिनस् तु शूद्रान् द्विजलिङ्गिनो घातयेद् एव । द्विजलिङ्गिनश् च शूद्रा यज्ञो[पवी]तपात्रधारिणो भोशब्दवादिनः परिव्राजकादिवेषधारिणश् च । व्याकरणाध्ययनम् अपि च द्विजलिङ्गम् इति शक्यं वक्तुम् ॥ ९.२२४ ॥

कितवान् कुशीलवान् क्रूरान् पाषण्डस्थांश् च मानवान् ।
[विकर्मस्थान् शौण्दि]कांश् च क्षिप्रं निर्वासयेत् पुरात् ॥ ९.२२५ ॥

भारुचिः ...{Loading}...

क्रूराभिन्नदुष्टयोर् वर्णलोपेन गुणवृत्त्योच्यन्ते । “केलान्” इत्य् अपरः पाठः, ते चातिकामुकाः केलीजीवि[नः । “कैलान्” इत्य् अपरे] पठन्ति- सङ्केतकारिणः । पाषण्डस्थांश् च मानवान् श्रुतिस्मृतिबाह्येष्व् आश्रमलिङ्गेषु व्यवस्थितान् । [विकर्मस्थो] ऽधिकारविरोधेन कर्मस्थः [इति] शब्दस् सतन्त्रः, शौण्डिकविशेषणा[र्थो व(आ)] । सर्वान् एतान् निर्वासयेत् पुरात् । प्रवासनकार्यस्य चविशेषाद् राष्ट्राद् अप्य् एते ऽर्थतो निर्वास्याः । अत्र च कितवप्रसङ्गेन कुशीलवादीनाम् अपि प्रतिषेधः क्रियते । येन ॥ ९.२२५ ॥

एते राष्ट्रे वर्तमाना राज्ञः प्रच्छन्नतस्कराः ।
विकर्मक्रियया नित्यं बाधन्ते भद्रिकाः प्रजाः ॥ ९.२२६ ॥

भारुचिः ...{Loading}...

यस्माद् एते राजधान्याम् अवस्थिताः महतो ऽनर्थाय राज्ञः । अतश् चैषां राष्ट्राद् अपि निर्वासनम् उच्यते ॥ ९.२२६ ॥

द्यूतम् एतत् पुरा कल्पे दृष्टं वैरकं महत् ।
तस्माद् द्यूतं न सेवेत हास्यार्थम् अपि बुद्धिमान् ॥ ९.२२७ ॥

भारुचिः ...{Loading}...

युधिष्ठिरादयो ऽपरकालाः । देवासुरदृष्टं तु द्यूतं चिरवृत्तत्वाद् अत्रोदाह्रियते “ते देवाः एकतः” इति श्रुतेः । एवं चायं द्यूतनिन्दार्थवादो विज्ञेयः । यतश् चैतद् एवम् अतः ॥ ९.२२७ ॥

प्रच्छन्नं वा प्रकाशं वा तन् निषेवेत यो नरः ।
तस्य दण्डविकल्पः स्याद् यथेष्टं नृपतेस् तथा ॥ ९.२२८ ॥

भारुचिः ...{Loading}...

एवं च सति येन येन दण्डप्रकारेण द्यूतनिवृत्तः स्यात् तं तं दण्डप्रकारं कल्पयेद् आत्मेच्छया ॥ ९.२२८ ॥

क्षत्रविट्शूद्रयोनिस् तु दण्डं दातुम् अशक्नुवन् ।
आनृण्यं कर्मणा गच्छेद् विप्रो दद्याच् छनैः शनिअः ॥ ९.२२९ ॥

भारुचिः ...{Loading}...

यथोक्तं दण्डप्रकारम् अशक्नुवन्तो निर्धनत्वात् क्षत्रियादयो दण्डानुरूपाणि कर्माणि कुर्युः । ब्राह्मणस् तु स्वधर्मानुरोधेन शनैः शनैर् दण्डनीयः । तद् एतद् उक्तम् अप्य् अधुना पुनर् उच्यते दण्डविषयार्थम् । पूर्वं तु कुसीदप्रकरणे तद्गतम् ॥ ९.२२९ ॥

स्त्रीबालोन्मत्तवृद्धानां दरिद्रानाथरोगिणाम् ।
शिफाविदलरज्ज्वाद्यैर् विदध्यान् नृपतिर् दमम् ॥ ९.२३० ॥

भारुचिः ...{Loading}...

विकर्मस्थानाम् एतद् अपराधानुरूपतः शिफादिभिस् ताडनम् । न पातकिनाम् अपि चापलता विज्ञेया ॥ ९.२३० ॥

ये नियुक्तास् तु कार्येषु हन्युः कार्याणि कार्यिणाम् ।
धनोष्मणा पच्यमानास् तान् निःस्वान् कारयेन् नृपः ॥ ९.२३१ ॥

भारुचिः ...{Loading}...

धनोष्मणा कस्यचिद् व्यवहारतः साहाय्यं कुर्वन्ति । ते निःस्वाः कार्याः । अथ वा अधिकृताः सन्तो धनं गृहीत्वा ये ऽन्यथा कार्याणि कुर्युः ते निःस्वाः कार्या इति ॥ ९.२३१ ॥

कूटशासनकर्तॄंश् च प्रकृतीनां च दूषकान् ।
स्त्रीबालब्राह्मणघ्नांश् च हन्याद् द्विट्सेविनस् तथा ॥ ९.२३२ ॥

भारुचिः ...{Loading}...

[ते]षां राज्यतन्त्रविरोधे वर्तमानानां नियमतो वधः । द्विट्सेविनश् छमागतिकाः ॥ ९.२३२ ॥

तीरितं चानुशिष्टं च यत्र क्वचन यद् भवेत् ।
कृतं तद्धर्मतो विद्यान् न तद् भूयो निवर्तयेत् ॥ ९.२३३ ॥

भारुचिः ...{Loading}...

एवं च सति मैत्र्या कारुण्येन वान्येन वा कारणान्तरेण न निवर्तयेत् । अर्थाद् अशास्त्रकृतं निवर्तयेत् । तथा च सति ॥ ९.२३३ ॥

अमात्यः प्राङ्विवाको वा यत् कुर्युः कार्यम् अन्यथा ।
तत् स्वयं नृपतिः कुर्यात् तान् सहस्रं च दण्डयेत् ॥ ९.२३४ ॥

भारुचिः ...{Loading}...

अमात्यो राज्ञा नियुक्तो ब्राह्मणः व्यवहाररक्षणे । तथा चोक्तम्- “तदा नियुञ्ज्याद् विद्वांसं ब्राह्मणं कार्यदर्शने” इति । प्राङ्विवाकास् तु पृथग् वेदशास्त्रज्ञातारः । तथा चोक्तम्- “यस्मिन् देसे निषीदन्ति विप्रा वेदविदस् त्रयः” इति । एते यत् कुर्युः कार्यम् अन्यथा रागादिभिः कारणैः, असंनिहिते राजनि, तत् स्वयं नृपतिः कुर्यात् । पुनस् तान् सहस्रं दण्डयेत् । पणानाम् इत्य् उक्तपरिभाषम् एतत् । समुदाये चैषां दण्डचोदना, यथा “गार्ग्याश् शतं दण्ड्यन्ताम्” इति ॥ ९.२३४ ॥

ब्रह्महा च सुरापश् च तस्करो गुरुतल्पगः ।
एते सर्वे पृथग् वेद्या महापातकिनो नराः ॥ ९.२३५ ॥

भारुचिः ...{Loading}...

अपरः पाठो ऽत्र श्लोके-

> ब्राह्मणघ्नं सुरापं च तस्करं गुरुतल्पगम् ।
> एतान् विद्यात् पृथक् सर्वान् महापातकिनो नरान् ॥

अत्र पातकसंबन्धात् सुवर्णस्तेयकृत् तस्करो गृह्यते । ब्रह्महत्यायां सर्वेषां व्यतिक्रमः । सुरायां मधुरामद्यपाने च विशेषं वर्णाश्रयं वक्ष्यामः । चौर्ये च सर्ववर्णाधिकारः । स गुरुतल्पे ॥ ९.२३५ ॥

चतुर्णाम् अपि चैतेषां प्रायश्चित्तम् अकुर्वताम् ।
शरीरधनसंयुक्तं दण्डं धर्म्यं प्रकल्पयेत् ॥ ९.२३६ ॥

भारुचिः ...{Loading}...

चतुर्णाम् अपीति वचनात् तत्संबन्धी पञ्चमो गृह्यते । स्त्रीबालब्राह्मणवधे [व]धदण्ड उक्तः । चतुर्णाम् अपि चैतेषाम् इत्य् अत्र श्लोक [अङ्क]न[ं] धनदण्डश् च । तद् एतत् पातकानुरूपं कार्यम् । शूद्रस्य तु ब्रह्महत्याप्रायश्चित्तम् अकुर्वतो दण्डद्वयम् ॥ ९.२३६ ॥

गुरुतल्पे भगः [कार्[यः सुरापाने सुरा]ध्वजः ।
स्तेये च श्वपदः कार्यो ब्रह्मनण्य् अशिराः पुमान् ॥ ९.२३७ ॥

भारुचिः ...{Loading}...

ललाटे ऽङ्कनप्रतिषेधविधौ ललाटग्रहणात् ॥ ९.२३७ ॥

असंभोग्या ह्य् असंयोज्या असंपाट्याविवाहिनः ।
चरेयुः पृथिवीं दीनाः सर्वधर्मबहिष्कृताः ॥ ९.२३८ ॥

भारुचिः ...{Loading}...

एष एव तेषां त्यागो विज्ञेयः । तद् एव दर्शयति ॥ ९.२३८ ॥

ज्ञातिसंबन्धिभिस् त्व् एते त्यक्तव्याः कृतलक्षणाः ।
निर्दया निर्नमस्कारास् तन् मनोर् अनुशासनम् ॥ ९.२३९ ॥

भारुचिः ...{Loading}...

नैते राज्ञा धृतदणा इति कृत्वा ज्ञातिसंबन्धिभिः परिग्राह्याः । एवं च सति व्याध्यादियोगे ऽप्य् एषु दया न कर्तव्या । ज्यैष्ठ्यादिगुणयोगे च नैते नमस्कार्याः, प्रत्युत्थानादिभिः । एष एव चात्र वचनसामर्थ्याद् धर्मो विज्ञेयः । न तु स्वातन्त्र्येण दया विनयो वा पूर्वोपदिष्ट इति ॥ ९.२३९ ॥

प्रायस्चित्तं तु कुर्वाणाः पूर्वे वर्णा यथोदिताः ।
नाङ्क्या राज्ञा ललाटेषु दाप्यास् तूत्तमसाहसम् ॥ ९.२४० ॥

भारुचिः ...{Loading}...

पूर्वे वर्णाः ब्राह्मणादयः । प्रमादवधे च पञ्चशतो दण्ड इत्य् एतद् अर्थाद् गम्यते ॥ ९.२४० ॥

आगस्सु ब्राह्मणस्यैषु कार्यो मध्यमसाहसः ।
विवास्यो वा भवेद् राष्ट्रात् सद्रव्यः सपरिच्छदः ॥ ९.२४१ ॥

भारुचिः ...{Loading}...

अकामत इत्य् उत्तरश्लोके वक्ष्यति । तद् इहापि विज्ञेयम् । एवं च सत्य् एतेष्व् एवागस्सु ब्राह्मणो मध्यमसाहसं दण्ड्यः । कामं विवास्यो राष्ट्रात् । एवं निग्रहद्वयं विकल्पेनास्य स्यात्, वृत्तस्वाध्यायापेक्षया ॥ ९.२४१ ॥

इतरे क्ष्तवन्तस् तु पापान्य् एतान्य् अकामतः ।
सर्वस्वहारम् अर्हन्ति कामतस् तु प्रवासनम् ॥ ९.२४२ ॥

भारुचिः ...{Loading}...

एतान्य् एव महापातकानि कृतवन्तः क्षत्रियादयो ऽकामतः सर्वस्वहरणं कार्याः पूर्वोक्तं वोत्तमसाहसं दण्ड्याः । एवं ब्राह्मणस्य प्रायश्चित्तम् अकु[र्व]तो ऽकामतो मध्यमसाहसो दण्डः, कामतो विवासनम् । क्षत्रियवैश्ययोर् अकामत उत्तमसाहसः सर्वस्वहरणं वा । कामतश् च वधः । शूद्रस्य त्व् अकामतः सर्वस्वहरणम् अङ्कनं च । कामतस् तु वधः ॥ ९.२४२ ॥

नाददीत न्र्पः साधुर् महापातकिनां धनम् ।
आददानस् तु तल् लोभात् तेन दोषेण तप्यते ॥ ९.२४३ ॥

भारुचिः ...{Loading}...

यत एतद् एवम् अतः ।

अप्सु प्रवेश्य तं दण्डं वरुणायोपपादयेत् ।
श्रुतवृत्तोपपन्ने वा ब्राह्मणे प्रतिपादयेत् ॥ ९.२४४ ॥

भारुचिः ...{Loading}...

अत्र प्रतिपत्तिविधौ कारणं वक्ति, यस्मात् ।

ईशो दण्डस्य वरुणो राज्ञां दण्डधरो हि सः ।
ईशः सर्वस्य जगतो ब्राह्मणो वेदपारगः ॥ ९.२४५ ॥

भारुचिः ...{Loading}...

तस्मात् तद् धनं राज्ञा न ग्राह्यम् । किं चान्यत् ॥ ९.२४५ ॥

यत्र वर्जयते राजा पापकृद्भ्यो धनागमम् ।
तत्र कालेन जायन्ते मानवा दीर्घजीविनः ॥ ९.२४६ ॥
निष्पद्यन्ते च सस्यानि यथोक्तानि विशां पृथक् ।
बालाश् च न प्रमीयन्ते विकृतं च न जायते ॥ ९.२४७ ॥

भारुचिः ...{Loading}...

दण्डविनियोगस्तुतिश्लोकौ ॥ ९.२४६–४७ ॥

ब्राह्मणात् बाधमानं तु कामाद् अवरवर्णजम् ।
हन्याच् चित्रैर् वधोपायैर् उद्वेजनकरैर् नृपः ॥ ९.२४८ ॥

भारुचिः ...{Loading}...

अत्र चित्रैर् वधोपायैर् वध एव नियमेन प्रायश्चित्तम् अकुर्वतो ऽस्य शुद्धय उपदिश्यते । यथापराधं ताडनबन्धनादिभिः शूद्रस्य । त्रयाणां चैके, यस्मात् ॥ ९.२४८ ॥

यावान् अवध्यस्य वधे तावान् वध्यस्य मोक्षणे ।
अधर्मो नृपतेर् दृष्टो धर्मस् तु विनियच्छतः ॥ ९.२४९ ॥

भारुचिः ...{Loading}...

युक्तश् च तद्रक्षणाद् अधिकृतस्य राज्ञो वध्यमोक्षणे प्रत्यवायः । विशेषेण तु बलिषड्भागहारिणः शास्त्रप्रत्ययाद् दोषनिर्हारणस्य यथाश्रुतैर् एवोपायैर् दोषनिर्हरणं युक्तम् । प्रायश्चित्तवत् । तथा च शास्त्रलक्षणैव धर्माधर्मव्यवस्थेत्य् उक्तम् । एवं च तदुत्पत्तिप्रामाण्यवत् पापक्षये ऽस्य प्रामाण्यं स्यात् । अदृष्टार्थेषु तावद् एवम् । दृष्टार्थेषु तु राज्यतन्त्रविध्यर्थ उपदेशे यद् वधश्रवणं यथा “द्विट्सेविनश् च हन्यात्” इत्य् उक्तं त[त्र दृष्टप्र]योजनार्थत्वाद् उपदेशस्य न नियतो वधः । एवं च सत्य् उपायान्तरेणापि बन्धनादिना विनियच्छतो न दोषः ॥ ९.२४९ ॥

उदितो ऽयं विस्तरशो मिथो विवदमानयोः ।
अष्टादशसु मार्गेषु व्यवहारस्य निर्णयः ॥ ९.२५० ॥

भारुचिः ...{Loading}...

सर्वव्यवहारोपसंहरार्थश्लोकः ॥ ९.२५० ॥

एवं कार्याणि सर्वाणि कुर्वन् सम्यङ् महीपतिः ।
देशान् अलब्धांल् लिप्सेत लब्धांश् च परिपालयेत् ॥ ९.२५१ ॥

भारुचिः ...{Loading}...

येन चोपायेन [प्रजापरिपालनं राज्ञो भवति स इदानीम् उच्यते । एवमर्थश् च पूर्व उपसंहारो विज्ञेयः ॥ ९.२५१ ॥

सम्यङ् निविष्टदेशस् तु कृतदुर्गश् च शास्त्रतः ।
कण्टकओद्धरणे नित्यम् आति[ष्ठेद् यत्न]म् उत्तमम् ॥ ९.२५२ ॥

भारुचिः ...{Loading}...

अस्य प्रशंसार्थवादः फलविधिरूपः ॥ ९.२५२ ॥

रक्षणाद् आर्यवृत्तानां कण्टकानां च शोधनात् ।
नरेन्द्रास् त्रिदिवं यान्ति प्रजापालनतत्पराः ॥ ९.२५३ ॥

भारुचिः ...{Loading}...

उभयानुग्रहाद् युक्तं राज्ञां त्रिदिवगमनं रक्षताम् । अतः संरक्षणीयधर्मापक्षम् अपि चैतद् युक्तम् । एवं चावश्यं रक्षणीयाः । वृत्तिसंरक्षणाच् च । न चासति फलसंबन्धे इयती स्तुतिर् उपलभ्यते । शास्त्रलक्षणत्वाच् च धर्माधर्मयोर् उत्पत्तिवत् फलारम्भो ऽपि फलाच् छ्रद्दधनीयः । यतश् चैतद् एवम् अतः ॥ ९.२५३ ॥

अशासंस् तस्करान् यस् तु बलिं गृह्णाति पार्थिवः ।
तस्य प्रक्षुभ्यते राष्ट्रं स्वर्गाच् च परिहीयते ॥ ९.२५४ ॥
निर्भयं तु भवेद् यस्य राष्ट्रं बाहुभलास्रितम् ।
तस्य तद् वर्धते नित्यं सिच्यमान इव द्रुमः ॥ ९.२५५ ॥

भारुचिः ...{Loading}...

दृष्टार्थसंबन्धेनेयम् अदृष्टफलस्तुतिः ॥ ९.२५४–५५ ॥

द्विविधांस् तस्करान् विद्यत् परद्रव्यापहारिणः ।
प्रकाशांश् चाप्रकाशांश् च चारचक्षुर् महीपतिः ॥ ९.२५६ ॥

भारुचिः ...{Loading}...

चारचक्षुर्भिः पार्थिवैः परद्रव्यनिर्हरतां तास्कर्यं विज्ञेयम् । आदरार्थं चायम् उपदेशः आदाव् एषां विज्ञेयः ॥ ९.२५६ ॥

प्रकाशवञ्चकास् त्व् एषां नानापण्योपजीविनः ।
प्रच्छन्नवञ्चकास् त्व् एते स्तेनाटव्यादयो जनाः ॥ ९.२५७ ॥

भारुचिः ...{Loading}...

तत्र ये क्रये विक्रये मानतुलादिविशेषेण मुष्णन्ति द्रव्याणाम् आगमस्थाननिर्गमान् अनवेक्ष्य ते प्रकाशा वञ्चकाः । प्रच्छन्नास् तु रात्रिसत्त्रास्, तस्करा इत्य् अर्थः । न च केवलम् अत एव किं तर्हीमे चान्ये यान् इत ऊर्ध्वं वक्ष्यामः ॥ ९.२५७ ॥

उत्कोचका औपधिका वञ्चकाः कितवास् तथा ।
मङ्गलादेशवृत्ताश् च भद्राश् चैक्षणिकैस् सह ॥ ९.२५८ ॥
असम्यक् कारिणश् चैव महामात्राश् चिकित्सकाः ।
शिल्पोपचारयुक्ताश् च निपुणाः पण्ययोषितः ॥ ९.२५९ ॥
एवमाद्यान् विजानीयात् प्रकाशांल् लोककण्टकान् ।
निगूढचारिणश् चान्यान् अनार्यान् आर्यलिङ्गिनः ॥ ९.२६० ॥
तान् विदित्वा सुचरितैर् गूढैस् तत्कर्मकारिभिः ।
चारैश् चानेकसंस्थानैः प्रोत्साह्य वशम् आनयेत् ॥ ९.२६१ ॥
तेषां दोषान् अभिख्याप्य स्वे स्वे कर्मणि तत्त्वतः ।
कुर्वीत शासनं राजा सम्यक् सारापराधतः ॥ ९.२६२ ॥

भारुचिः ...{Loading}...

कस्य पुनर् हेतोस् तत्र दण्डानुष्ठानं राज्ञः शिष्यते। येन,

न हि दण्डाद् ऋते शक्यः कर्तुं पापविनिग्रहः ।
स्तेनानां पापबुद्धीनां निभृतं चरतां क्षितौ ॥ ९.२६३ ॥

भारुचिः ...{Loading}...

जनपदकण्टकानाम् एतल् लक्षणम् उक्तं तन् निग्रहार्थम् । कण्टकातुत्यौपमित एषाम् एष शब्दो विज्ञेयः । तद्ग्रहणोपाय इदानीम् उच्यते ॥ ९.२६३ ॥

सभाप्रपापूगशालावेशमद्यान्नविक्रयाः ।
चतुष्पथाश् चैत्यवृक्षाः समाजाः रक्षणानि च ॥ ९.२६४ ॥
जीर्णोद्यानान्य् अरण्यानि कारुकावेशनानि च ।
शून्यानि चाप्य् अगाराणि वनान्य् उपवनानि च ॥ ९.२६५ ॥
एवंविधान् नृपो देशान् गुल्मैः स्थावरजङ्गमैः ।
तस्करप्रतिषेधार्थं चारैश् चाप्य् अनुचारयेत् ॥ ९.२६६ ॥
तान् सहायैस् त्व् अनुगतैर् नानाकर्मप्रवेदिभिः ।
विद्याद् उत्साहयेच् चैव निपुणैः पूर्वतस्करैः ॥ ९.२६७ ॥
भक्ष्यभोज्यापदेशैश् च ब्राह्मणानां च दर्शनैः । शौर्यकर्मापदेशैश् च तेषां कुर्यात् समागमम् ॥ ९.२६८ ॥

भारुचिः ...{Loading}...

> भक्ष्यभोज्यापदेशैश् च

चण्डिकादियागात् सर्वनिमित्त्म्,

> ब्राह्मणानां च दर्शनैः ।

विद्यागतागतयोगज्ञानाम्, यद्बलात् सुकरं महाफलं चौर्यं भवति यथेष्टम्,

> शौर्यकर्मापदेशैश् च तेषां कुर्यात् समागमम् ॥ ९.२६८ ॥

तच्छीलिनां बलातिशयव्यवहारिणाम् । एवं च सति ।

ये तत्र नोपसर्पेयुर् मूलप्रणिहिताश् च ये ।
तान् प्रसह्य नृपो हन्यात् समित्रज्ञातिबान्धवान् ॥ ९.२६९ ॥

भारुचिः ...{Loading}...

एवं च सति । ये तस्कराः प्रकरणे नोपगच्छन्ति राजशासनान्, ये च मूलप्रणिहितास् तस्करा नोपगच्छन्ति चण्डिका[यागा]दिषु । तांश् च तेभ्य एवागमय्य हन्यात् । एवम् अपि च वर्तमानश् चोरनिग्रहे ॥ ९.२६९ ॥

न होढेन विना चोरं घातयेद् धार्मिको नृपः ।
सहोढं सोपकरणं हन्याद् एवाविचारयन् ॥ ९.२७० ॥

भारुचिः ...{Loading}...

होढो [लोप्त्रम् । सह] तेन ग्रस्तः स्यात्, नान्यथा । यदि तावल् लोप्त्रं दर्शनविचार्यमानं प्रमाणतः शुद्धं भवति । एवम् उपकरणं विवरसाधनादि विज्ञेयम् ॥ ९.२७० ॥

ग्रामेष्व् अपि च ये केचिच् चोराणां भक्तदायकाः ।
भाण्डावकाशदाश् चैव सर्वांस् तान् अपि घातयेत् ॥ ९.२७१ ॥

भारुचिः ...{Loading}...

विचार्य प्रत्यक्षागमानुमानैः प्रमाणैः । येनाविज्ञानाद् अपि ह्य् एतत् सर्वं भवति ॥ ९.२७१ ॥

राष्ट्रेषु रक्षाधिकृतान् सामन्तांश् चैव चोदितान् ।
अभ्याघातेषु मध्यस्थाञ् छिष्याच् चौरान् इव द्रुतम् ॥ ९.२७२ ॥

भारुचिः ...{Loading}...

आत्ययिकेष्व् एतान् अननुधातताञ् चोरसंवादेन प्रमादाद् वा चोरवच् छिष्यात् । निमित्तभेदाच् चानुशासनभेदो विज्ञेयः ॥ ९.२७२ ॥

यश् चापि धर्मसमयात् प्रच्युतो धर्मजीवनः ।
दण्डेनैव तम् अप्य् ओषेत् स्वकाद् धर्माद् धि विच्युतम् ॥ ९.२७३ ॥

भारुचिः ...{Loading}...

ब्राह्मणो धर्मजीवनः । स ह्य् अनुपकृत्य जीवति । यतस् तस्यापि स्वधर्मस्थापनार्थं दण्डो ऽपराधानुरूपः प्रणेयः ॥ ९.२७३ ॥

ग्रामघाते हिडाभङ्गे पथि चोरादिदर्शने ।
शक्तास् त्व् अनभिधावन्तो निर्वास्याः सपरिच्छदाः ॥ ९.२७४ ॥

भारुचिः ...{Loading}...

आलस्येनानभिधावन्तो निर्वास्याः, ये तु च्रोपक्षेपान् नानुधावन्ति ते चोरवधेन वध्याः ॥ ९.२७४ ॥

राजकोशापहर्तॄंश् च प्रातिकूलेषु च स्थितान् ।
अरीणाम् उपजप्तॄंश् च घातयेद् विविधैर् वधैः ॥ ९.२७५ ॥

भारुचिः ...{Loading}...

अपराधानुरूपतः स्वतन्त्रपीडापेक्षया एषां निग्रहः स्यात् ॥ ९.२७५ ॥

संधिं छित्वा तु ये चर्यं रात्रौ कुर्वन्ति तस्कराः ।
तेषां छित्वा नृपो हस्तौ तीक्ष्णे शूले निवेशयेत् ॥ ९.२७६ ॥

भारुचिः ...{Loading}...

चौर्योपलक्षणार्थं च संधिग्रहणम् । एवं चास्कन्धावार एव प्रविश्य चौर्यं कुर्वतो ऽयम् एव निग्रहः स्यात् । हस्तयोश् छेदनं शुले वा निवेशम् । एकस्यैवेत्य् अपरे । एतच् च वर्णविसेषापक्षया उभयम् अत्रास्य प्रयोजनानुबन्धापेक्षया कल्प्यम्, न यथाश्रुतम् । तथा च दर्शयति ॥ ९.२७६ ॥

अङ्गुलीर् ग्रन्थिभेदस्य छेदयेत् प्रथमे ग्रहे ।
द्वितीये हस्तचरणौ तृतीये वधम् अर्हति ॥ ९.२७७ ॥

भारुचिः ...{Loading}...

कृतनिग्रहस्यापि निग्रहोपदेशश् छिन्नहस्तचरणो ऽपि पुनः केनचिद् उपायान्तरेण चौर्यम् आसेवतः ॥ ९.२७७ ॥

अग्निदान् भक्तदांश् चैव तथा शस्त्रावकाशदान् ।
संनिधातॄंश् च मोषस्य शिष्याच् चोरान् इवेश्वरः ॥ ९.२७८ ॥

भारुचिः ...{Loading}...

विज्ञाय चोरांस् तत्साहाय्येनाइतानि कुर्वतां चोरवच् छिष्टिस् ताडनबन्धनपरिभाषणादिरूपा । न तु वराङ्गच्छेदो ऽर्थदण्डनं वा शिष्टिः । प्रथमम् एवानुक्तापि चौर्यं वर्णानां चोरवच् छिष्टिर् अल्पेष्व् अपराधेषु चोरस्यापि स्यात् ॥ ९.२७८ ॥

तटाकभेदकं हन्याद् अप्सु शुद्धवधेन वा ।
यद् वापि प्रतिसंस्कुर्याद् दद्याच् चोत्तमसाहसम् ॥ ९.२७९ ॥

भारुचिः ...{Loading}...

वप्रं तटाकस्य भित्वोदकं हरतो वधो ऽप्स्व् अन्यत्र वा स्थले ऽशक्तस्य प्रतिसंस्कारे, शक्तस्यापि दण्डनम् । पुण्यानुबन्ध एवोभयोर् अप्य् अनुग्रहः कल्पितो भवति, तटाकस्वामिनः तटाकभेदकस्य च । प्रतिसंस्कारपक्षे चास्योत्तमसाहसः पणसहस्रम् ॥ ९.२७९ ॥

कोष्ठागारायुधागारदेवतागारभेदकान् ।
हस्त्यश्वरथहरॄंश् च हन्याद् एवाविचारयन् ॥ ९.२८० ॥

भारुचिः ...{Loading}...

देवतागारभेदकाद् ऋते इतरेषां स्वतन्त्ररक्षणप्रयोजनत्वाद् वधोपदेशस्य न नियमेन वधः क्रियते । प्रतिप्रसवभावाच् च निवृत्ताव् अपि नाभ्युदयः । देवतागारभेदकस्यापि प्रतिकर्तुं दण्डं च दातुम् अशक्तस्य वधः स्यात् । तथा चोक्तं पूर्वश्लोके । एवं चाधिकाराद् उत्तमसाहसो दण्डः । “सङ्क्रमद्वजयष्टीनाम्” इत्य् अस्मिन् वक्ष्यमाणश्लोके देवताप्रतिमाभेदकस्यापि दण्डं वक्ष्यति वधरहितम् । एवं च सति यदि देवतागारभेदकस्य नियोगतो वध उच्यते, ततो न्यायविरोध्ययुक्तरूप उपदेशः । अतः पाक्षिको वधो विज्ञेयः ॥ ९.२८० ॥

यस् तु पूर्वनिविष्टस्य तटाकस्योदकं हरेत् ।
आगमं वाप्य् अपां भिन्द्यात् स दाप्यः पूर्वसाहसम् ॥ ९.२८१ ॥

भारुचिः ...{Loading}...

देवताघातकत्वात् पूर्वनिवेश उच्यते । इतरथा वा । तत्र यद् उक्तम्- सस्यसकार्यं यो हरेत् अनागत एवोदकस्य्[आलादि]न्आगमं वा भिन्द्यात् स दण्ड्यः पूर्वसाहसम् । एवं च सति यद् उक्तम्, दण्डं दातुम् अशक्ताः क्षत्रियादयः “आनृण्यं कर्मणा” गच्छेयुर् इति, तत्कार्यसामान्याद् अत्र सर्वत्र प्रत्येतव्यम् ॥ ९.२८१ ॥

समुत्सृजेद् राजमार्गे [यस् त्व् अमे]ध्यम् अनापदि ।
स द्वौ कार्षापणौ दद्याद् अमेध्यं चासु शोधयेत् ॥ ९.२८२ ॥

भारुचिः ...{Loading}...

कार्षापणपरिमाणं व्याख्यातम् ॥ ९.२८२ ॥

आपद्गतो ऽथ वा वृद्धो गर्भिणी बाल एव वा ।
परिभाषणम् अर्हन्ति तच् च शोध्यम् इति स्थितिः ॥ ९.२८३ ॥

भारुचिः ...{Loading}...

आप्[अद्गत इति सहोप]देशाद् अत्यन्तवृद्धो, गर्भिणी, बालो वेदितव्यः ॥ ९.२८३ ॥

चिकित्सकानां सर्वेषां मिथ्या प्रचरतां दमः ।
अमानुषेषु प्रथमो मानुषेषु तु मध्यमः ॥ ९.२८४ ॥

भारुचिः ...{Loading}...

प्रथममध्यमौ साहसोत्तरपदाव् एतौ द्रष्टव्यौ । विना शास्त्रेण । [अथ]वा सति शास्त्राध्ययने मिथ्या ये चिकित्सायां वर्तन्ते मानुषामानुषेषु तेषाम् एष दमः ॥ ९.२८४ ॥

संक्रमध्वजयष्टीनां प्रतिमानां च भेदकः ।
प्रतिकुर्याच् च तत् सर्वं पञ्च दद्याच् छतानि च ॥ ९.२८५ ॥

भारुचिः ...{Loading}...

नदीगर्तादिषु यैः संक्रामन्ति ते संक्रमाः । ध्वजो राज्ञां देवतायतनेषु वा, यष्टिर् नागायतने, बलियष्टिर् वा ग्रामेषु । अयं च विचारितो ऽर्थः । पूर्वश्लोके व्कल्पार्थं वधदण्डस्य केनचिद् अत्रानुबन्धादिना कारणेन प्रतिमाभेदकस्येहोपदेशः ॥ ९.२८५ ॥

अदूषितानां द्रव्यानां दूषणे भेदने तथा ।
मणीनाम् अप्य् अवेधे च दण्डः प्रथमसाहसः ॥ ९.२८६ ॥

भारुचिः ...{Loading}...

कुंकुमादिद्रव्याणां तत् सदृशेन मायाकुसुम्भादिना दूषणम् । भेदनं तु मणिभिः संबध्यते । मणीनां भेदने विनाशे ऽवेधे ऽस्थानवेधे च मणीनाम् एव सारानुरूपो दण्डः । एवं च सति प्रथमसाहसग्रहणं प्रदर्शनार्थं विज्ञेयम् । येन मणयो हि काकणिकमूल्या अपि सन्ति अनेकसाहस्राश् च । अतो नाविशेषेण युक्तो ऽत्र दण्ड इति । एतस्मात् कारणात् प्रथमसाहसग्रहणस्य प्रदर्शनार्थता कल्प्यते ॥ ९.२८६ ॥

समैश् च विषमं यश् च प्रकरेन् मूल्यतो ऽपि वा ।
स प्राप्नुयाद् दमं पूर्वं नरो मध्यमम् एव वा ॥ ९.२८७ ॥

भारुचिः ...{Loading}...

अपरिच्छिन्नार्धानां द्रव्याणाम् अज्ञाततया कार्यवत्तां वावेद्क्ष्य क्रेतुर् यो ऽन्यथा विक्रीणीते भावदोषेण तस्य [वि]क्रेतुर् द्रव्यापेक्षया प्रथममध्यमौ कल्प्यौ । अथ वा क्रेतरि प्रथमः कार्यः विक्रेतुर् मध्यमः ॥ ९.२८७ ॥

बन्धनानि च सर्वाणि राजमार्गे निवेशयेत् ।
दुःखिता यत्र दृश्येरन् व्कृताः पापकारिणः ॥ ९.२८८ ॥

भारुचिः ...{Loading}...

पृथग्जनस्य पापनिवृत्त्युपायोपदेशः ॥ ९.२८८ ॥

प्राकारस्य च भेत्तारं परिखाणांच पूरकम् ।
द्वाराणां चैव भङ्क्तारं क्षिप्रम् एव प्रवासयेत् ॥ ९.२८९ ॥

भारुचिः ...{Loading}...

पुरस्य राजकुलस्य दुर्गस्य वा । प्रवासनम् अत्रोभयथा राजकार्यविरोधापेक्षया विज्ञेयम् । एवं च सत्य् अत्र राज्ञः स्वतन्त्रसंरक्षणत्वाद् उपदेशस्य न नियोगेन व्यतिक्रमकारिणां वध उपदिश्यते ॥ ९.२८९ ॥

अभिचारेषु सर्वेषु कर्तव्यो द्विशतो दमः ।
मूलकर्मणि चानाप्तैः कृत्यासु विविधासु च ॥ ९.२९० ॥

भारुचिः ...{Loading}...

श्रुतिस्मृतिबाह्येष्व् अभिचारेषु खादिरसूचीनिखननपदपांशुग्रहणादिष्व् इदम् उच्यते । अत्राभिचारार्हस्यायं दण्डो न विद्यते । तथायं प्रायश्चित्तं वक्ष्यत्य् अनभिचरणीयस्याभिचारे “अभिचारम् अहीनं च त्रिभिः कृच्छ्रैर् व्यपोहति” इति । मूलकर्मणि चानाप्तैः क्रियमाणे । न मातृभगिन्यादिभिः, अधिकारात् तासाम् । कृत्यासु च वैताऌआद्यासु भूततन्त्रविहितास्व् असंबन्धकृतास्व् एव । अपरे तु सर्वग्रहणसामर्थ्यात् सर्वाभिचारेष्व् एतद् दण्डम् आहुः ॥ ९.२९० ॥

अबीजविक्रयी यश् च बीजोत्कृष्टं तथैव च ।
मर्यादाभेदकश् चैव विकृतं प्राप्नुयाद् वधम् ॥ ९.२९१ ॥

भारुचिः ...{Loading}...

बीजम् इति कृत्वाबीजं यो विक्रीणीते ऽर्थिनश् च क्रेतॄन् दृष्ट्वा बीजमूल्यत उत्कर्षं नयति । मर्यादाश् च क्षेत्रकेदारगता यो भिनत्ति, न ग्रामदेशसङ्घमर्यादाः, बीजक्रयविक्रयादिसाहचर्यात् । स कर्णनासाच्छेदनाख्यं विकृतत्वकारणम् अर्हति । अपराधसमुच्चयेन सानुबन्धेन च मारणम्, येन न हि दृष्टप्रयोजन इतीयान् निग्रह उपपद्यते । अयम् अपि दण्डो न नियमतः स्याद् एतेष्व् एवापराधेषु, दृष्टार्थत्वाद् अस्य निग्रहोपदेशस्य ॥ ९.२९१ ॥

सर्वकण्टकपापिष्ठं हेमकारं तु पार्थिवः ।
प्रवर्तमानम् अन्याये छेद्येल् लवशः क्षुरैः ॥ ९.२९२ ॥

भारुचिः ...{Loading}...

सर्ववर्णेभ्यः सुवर्णापहारप्रवृत्ते ब्राह्मणसुवर्णापहरणे वा महापातकाभ्यासशीलस्येदम् उच्यते । तं निकषपरिवर्तनतुलासंचरणादिषु अन्यायेषु प्रवृत्तम् “येन येन यथाङ्गेन” इत्य् अनया परिभाषया जिह्वाहस्तपादशिरश्चक्षुरादिना सुवर्णगुप्तिं कुर्वन्तं लवशो घातयेत्, अपराद्धाभ्यासानुबन्धेन । अपरे त्व् आहुः- सर्ववर्णसुवर्णापहरण एतद् उच्यते । हेमकर्तुर् बहुत्वाल्पत्वापेक्षयायं छेदनोपदेशः प्रदर्शनार्थः । अपरे तु सुवर्णकारस्यापीदं न शोधनम् इत्य् उपदिशन्ति, रक्षितापहरणे ऽपि सुराप्रायश्चित्तवत् ॥ ९.२९२ ॥

सीताद्रव्यापहरणे शस्त्राणाम् औषधस्य च ।
कालम् आसाद्य कार्यं च राजा दण्डं प्रकल्पयेत् ॥ ९.२९३ ॥

भारुचिः ...{Loading}...

सीताद्रव्याणि कलयुग, प्रतोदादीनि । शस्त्राणि फलदात्रादीनि तत्साहचर्यात् । औषधं तद्गतं लशुनादि । अथ वा [ओ]षधयो सामान्येन ग्रहणं युक्तम्, समानत्वाद् अपराधस्य । कालम् आसाद्य कार्यं च तेषां दण्डं राजा यथेष्टं कुर्यात् । तद् अपराधनिवृत्तिहेतुम् अन्येषाम् अपि ॥ ९.२९३ ॥

स्वाम्यमात्यौ पुरं राष्ट्रं कोशदण्डौ तथा सुहृत् ।
सप्त प्रकृतयो ह्य् एताः समस्तं राज्यम् उच्यते ॥ ९.२९४ ॥
सप्तानां प्रकृतीनांतु राज्यस्यासां यथाक्रमम् ।
पूर्वं पूर्वं गुरुतरं जानीयाद् व्यसने नृपः ॥ ९.२९५ ॥

भारुचिः ...{Loading}...

अस्योपदेशप्रयोजनं स्वाम्य्आदीनां पूर्वस्मिन् पूर्वस्मिन् व्यसनं गुरुतरं राज्यतन्त्रविनाशकरणं परिज्ञाय परिहरेन् नृप इति ॥ ९.२९४–९५ ॥

सप्ताङ्गस्यास्य राज्यस्य विष्टब्धस्य त्रिदण्डवत् ।
अन्योन्यगुणवैशेष्यान् न किंचिद् अतिरिच्यते ॥ ९.२९६ ॥

भारुचिः ...{Loading}...

यस्मात्,

तेषु तेषु हि कार्येषु तत् तद् अङ्गं विशिष्यते ।

स्वविषयनियमाद् इन्द्रियवत् । एवं च सति,

येन यत् साध्यते कार्यं तत् तस्मिञ् छ्रेष्ठम् उच्यते ॥ ९.२९७ ॥

भारुचिः ...{Loading}...

भवति हि तत् कार्यं राज्ञो, यत्र लघीयान् अपि प्रकृति पदार्थो गरीयान् भवति । तस्मात् सर्व एवैते सर्वदा समीक्षितव्याः तत्पुरुषाश् च । एवमर्थश् चायं पुनर् इहोपदेशो राजप्रकृतीनाम्, यस्मात् प्रायेण हि राज्यकण्टका अमात्यादिप्रकृतिसंश्रया एव भवन्ति । राजवल्लभामात्यमहिषीकुमाराद्याश्रितास् ते हि राजोष्मणा निःशङ्का सन्तः सुतरां जनपदं मुष्णन्ति ॥ ९.२९७ ॥

[चारेणोत्साहयोगेन क्रिययैव च कर्मणाम् ।
स्वशक्तिं परशक्तिं च नित्यं विद्यान् महीपतिः] ॥ ९.२९८ ॥

भारुचिः ...{Loading}...

अत एषां पुनर् इहोपदेशः कण्टकोद्धरणप्रकरणे । यथैतत्संश्रयाद् इदम् उपदिश्यते नित्यग्रहणम् । एवं च परचक्रसंरक्षणवज् जनपदः स्वचक्रपीडातो ऽपि रक्षणीयः । सैषा कण्टकोद्धरणादरार्था पुनर् इह राजधर्मोक्तिर् विज्ञेया ॥ ९.२९८ ॥

पीडनानि च सर्वाणि व्यसनानि तथैव च ।
गुरुलाघवतो ज्ञात्वा ततः कार्यं समाचरेत् ॥ ९.२९९ ॥

भारुचिः ...{Loading}...

पीडनानि जगताम् अशनिपातदुर्भिक्षादीनि । स्वकृतानि व्यसनानि त्रयाणि देहदैवात्मगतानि क्षयहेतूनि । ज्ञात्वा लोकस्य गुरुलाघ्वतः, ततो दण्डगुरुत्वलघुत्वं समाचरेत् नृपतिर् नाविशेषेण । एवं च राजधर्मेषु वर्तमानो यावज्जीवम् ॥ ९.२९९ ॥

आरभेतैव कर्माणि श्रान्तः श्रान्तः पुनः पुनः ।
कर्माण्य् आरभमानं हि पुरुषं स्रीर् निषेवते ॥ ९.३०० ॥

भारुचिः ...{Loading}...

एवं च श्रमाद् अलसत्वाद् न कर्मारम्भान् निवर्तितव्यम् । मा माइवं गृह्णीयाद् युगानुरूपम् मया वर्तितव्यम् इति, यस्मात् ।

कृतं त्रेतायुगं चैव द्वापरं कलिर् एव च ।
राज्ञो वृत्तानि सर्वाणि राजा हि युगम् उच्यते ॥ ९.३०१ ॥

भारुचिः ...{Loading}...

तथा च कलियुगम् इति कृत्वा नोदासीनः स्यात् । येन च राजवृत्तेनायं कलियुगादिभिर् व्यपदिश्यते राजा। तद् दर्शयति ॥ ९.३०१ ॥

कलिः प्रसुप्तो भवति स जाग्रद् द्वापरं युगम् ।
कर्मस्व् अभ्युदितस् त्रेता विचरंस् तु कृतं युगम् ॥ ९.३०२ ॥

भारुचिः ...{Loading}...

अनुत्थानशीलः प्रसुप्तो भवति, यो जानानश् चोत्कर्षोपायम् अनुतिष्ठेत् स जाग्रद् भवति । व्यवसितकर्मप्रयोगस् त्रेतायुगं भवति । अनुतिष्ठंश् च सर्वकर्माणि यथाशास्त्रं कर्मफलसंपदा कृतयुगं भवति । एवं च राजनिमित्तत्वात् सर्वारम्भाणां युक्ता तद्वृत्तस्तुतिः ॥ ९.३०२ ॥

इन्द्रस्यार्कस्य वातस्य यमस्य वरुणस्य च ।
चन्द्रस्याग्नेः पृथिव्याश् च तेजोवृत्तं नृपश् चरेत् ॥ ९.३०३ ॥

भारुचिः ...{Loading}...

एवंवृत्तो हि राजा कण्टकोद्धारणेन प्रतापानुरागाव् आत्मन्य् उत्पादयन् सकलमहीमण्डलाधिपत्येनान्त्येन युज्यते । इन्द्रादिलोकपालवृत्ततां राज्ञः केनचित् सामान्येन प्रदर्श्यते ॥ ९.३०३ ॥

वार्षिकांश् चतुरो मासान् यथेन्द्रो ऽभिप्रवर्षति ।
तथाभिवर्षेत् स्वं राष्ट्रं कामैर् इन्द्रव्रतं चरन् ॥ ९.३०४ ॥
अष्टौ मासान् यथादित्यस् तोयं हरति रश्मिभिः ।
तथा हरेत् करं राष्ट्रान् नित्यम् अर्कव्रतं हित् तत् ॥ ९.३०५ ॥
प्रविश्य सर्वभूतानि यथा चरति मारुतः ।
तथा चारैः प्रवेष्टव्यं व्रतम् एतद् धि मारुतम् ॥ ९.३०६ ॥
यथा यमः प्रियद्वेष्यौ प्राप्ते काले नियच्छति ।
तथा राज्ञा नियन्तव्याः प्रजास् तद् धि यमव्रतम् ॥ ९.३०७ ॥
वरुणेन यथा पाशैर् बद्ध एव हि दृश्यते ।
तथा पापान् निबध्नीयाद् व्रतम् एतद् धि वारुणम् ॥ ९.३०८ ॥
पर्पूर्णं यथा चन्द्रं दृष्ट्वा हृष्यन्ति मानवाः ।
तथा प्रकृतयो यस्मिन् स चान्द्रव्रतिको नृपः ॥ ९.३०९ ॥
प्रतापयुक्तस् तेजस्वी नित्यं स्यात् पापकर्मसु ।
दुष्टसामन्तहिंस्रश् च तद् आग्नेयं व्रतं स्मृतम् ॥ ९.३१० ॥
यथा सर्वाणि भूतानि धरा धारयते समम् ।
तथा सर्वाणि भूतानि बिभ्रतः पार्थिवं व्रतम् ॥ ९.३११ ॥
एतैर् उपायैर् अन्यैश् च युक्तो नित्यम् अतन्द्रितः ।
स्तेनान् राजा निगृह्णीयात् स्वराष्ट्रे पर एव च ॥ ९.३१२ ॥

भारुचिः ...{Loading}...

अष्टाभिः श्लोकैर् उक्तम् अपि राजवृत्तम् अर्थनिर्मलत्वाय पुनर् उक्तम् । दण्ड्येषु दण्डपातनं यथापराधं कुर्वन् लोकपालवत् समः प्रजासु यथा स्याद् इति दण्डप्रकरणे पुनर् आदरार्थम् उच्यत इति ॥ ९.३०४–१२ ॥

पराम् अप्य् आपदं प्राप्तो ब्राह्मणान् न प्रकोपयेत् ।
ते ह्य् एनं कुपिता हन्युः सद्यः सबलवाहनम् ॥ ९.३१३ ॥

भारुचिः ...{Loading}...

अभिचाराभिशापाभ्याम् । तथा च तत्प्रतापं दर्शयति ॥ ९.३१३ ॥

यैः कृतः सर्वभक्षो ऽग्निर् अपेयश् च महोदधिः ।
क्षयी चाप्यायितः सोमः को न नश्येत् प्रकोप्य तान् ॥ ९.३१४ ॥

भारुचिः ...{Loading}...

किं च,

लोकान् अन्यान् सृजेयुर् ये लोकपालांश् च कोपिताः ।
देवान् कुर्युर् अदेवांश् च कः क्षिण्वंस् तान् समृध्नुयात् ॥ ९.३१५ ॥
यान् समाश्रित्य त्ष्ठन्ति लोका देवाश् च सर्वदा ।
ब्रह्म चैव धनं येषां को हिंस्यात् ताञ् जिजीविषुः ॥ ९.३१६ ॥

भारुचिः ...{Loading}...

न चाविद्वान् इति परिभवनीयो ऽसौ, यस्मात् ।

अविद्वांश् चैव विद्वांश् च ब्राह्मणो दैवतं महत् ।
[प्रणीतश् चाप्रणीतश् च यथाग्निर् दैवतं महत् ॥ ९.३१७ ॥
श्मशानेष्व् अपि तेजस्वी पावको नैव दुष्यति ।
हूयमानस् च यज्ञेषु भूय एवाभिवर्धते ॥ ९.३१८ ॥
एवं यद्य् अप्य् अनिष्टेषु वर्तन्ते सर्वकर्मसु ।
सर्वथा ब्राह्मणाः पूज्याः परमं दैवतं हि तत्] ॥ ९.३१९ ॥
क्षत्रस्यातिप्रवृद्धस्य ब्राह्मणान् प्रति सर्वतः ।
ब्रह्मैव संनियन्तृ स्यात् क्षत्रं हिम् ब्रह्मसंभवम् ॥ ९.३२० ॥
अद्भ्यो ऽग्निर् ब्रह्मतः क्षत्रम् अश्मनो लोहम् उत्थितम् ।
तेषां सर्वत्रगं तेजः स्वासु योनिषु शाम्यति ॥ ९.३२१ ॥
नाब्रह्म क्षत्रम् ऋध्नोति नाक्षत्रं ब्रह्म वर्धते ।
ब्रह्मक्षत्रे च संपृक्ते इह चामुत्र ऋध्नुतः ॥ ९.३२२ ॥

भारुचिः ...{Loading}...

दशभिः श्लोकैर् दण्ड्यनिग्रहप्रकरणे ब्राह्मणाः प्रशस्यन्ते । सत्य् अपि शास्त्रे तदपेक्षयाइषां क्षान्तिम् आश्रित्य मृदूपक्रमो निग्रहो यथा स्यात् स्ववृत्तस्थापनार्थम् इत्य् एवमर्थम् इदम् ॥ ९.३१३–२२ ॥

दत्वा धनं तु विप्रेभ्यः सर्वदण्डसमुत्थितम् ।
पुत्रे सर्वं समासृज्य कुर्वीत प्रायणं रणे ॥ ९.३२३ ॥

भारुचिः ...{Loading}...

प्रायणं च राज्ञः प्रथमकल्पः । अतस् तदभाव इतरे कल्पा यथा स्युः स्वकामप्रायणाविरोधश् चास्य व्याख्यातः ॥ ९.३२३ ॥

एवं चरन् सदा युक्तो राजधर्मेषु पार्थिवः ।
हितेषु चैव लोकस्य सर्वभृत्यान् नियोजयेत् ॥ ९.३२४ ॥
एषो ऽखिलः कर्मविधिर् उक्तो राज्ञः सनातनः ।
इमं कर्मविधिं विद्यात् क्रमशो वैश्यशूद्रयोः ॥ ९.३२५ ॥

भारुचिः ...{Loading}...

श्लोकद्वयेन राजधर्मोपसंहारो [वैश्य]शूद्रवृत्तिधर्मोपक्षेपविशेषार्थो विज्ञेयः । तथा च तं विशेषं प्रदर्शयति- यत्कृतो ऽस्य पुनरारम्भः ॥ ९.३२४–२५ ॥

वैश्यस् तु कृतसंस्कारः कृत्वा दारपरिग्रहम् ।
वार्तायां नित्ययुक्तः स्यात् पशूनां चैव रक्षणे ॥ ९.३२६ ॥

भारुचिः ...{Loading}...

आनन्तर्यार्थो विशेषार्थश् चायम् उपदेशः । अस्यार्थवादः ॥ ९.३२६ ॥

प्रजापतिर् हि वैश्याय सृष्ट्वा परिददे पशून् ।
ब्राह्मणाय च राज्ञे च सर्वाः परददे प्रजाः ॥ ९.३२७ ॥
न च वैश्यस्य कामः स्यान् न रक्षेयं पशून् इति ।
वैश्ये चेच्छति नान्येन रक्षितव्याः कथंचन ॥ ९.३२८ ॥

भारुचिः ...{Loading}...

राज्ञो ऽयम् उपदेशः, तथान्यमनुष्यस्य ब्राह्मणादेः । इदं चान्यद् वैशेषिकं वैष्यस्य वृत्तिकर्मणा ॥ ९.३२७–२८ ॥

मणिमुक्ताप्रवाऌआनां लोहानां तान्तवस्य च ।
गन्धानां च रसानां च विद्याद् अर्घबलाबलम् ॥ ९.३२९ ॥
बीजानाम् उप्तिविच् च स्यात् क्षेत्रबीजगुणस्य च ।
मानयोगं च जानीयात् तुलायोगांश् च सर्वशः ॥ ९.३३० ॥
सारासारं च भाण्डानां देशानां च गुणागुणम् ।
लाभालाभं च पण्यानां पशूनां च विवर्धनम् ॥ ९.३३१ ॥
भृत्यानां च भृतिं विद्याद् भाषाश् च विविधा नृणाम् ।
द्रव्याणां स्थानयोगांश् च क्रयं विक्रयम् एव च ॥ ९.३३२ ॥
धर्मेण च द्रव्यवृद्धाव् आतिष्ठेद् यत्नम् उत्तमम् ।
दद्याच् च सर्वभूतानाम् अन्नम् एव प्रयत्नतः ॥ ९.३३३ ॥

भारुचिः ...{Loading}...

अष्टाभिः श्लोकैर् उक्तापि सती वैश्यवृत्तिर् विशेषार्थं पुनर् अभिधीयते । स च विशेषो ऽयम्- न च वैश्यस्य कामः स्यान् न रक्षेयं पशून् इति । एवं च सत्य् अस्यान्याभ्यो वृत्तिभ्यः पशुरक्षणवृत्तिर् एव धर्म्येति विज्ञायते । मणिमुक्तादिग्रहणं च सर्वद्रव्यदर्शनार्थम् । तथा च सति नास्य किंचिद् अपि अक्रेयम् इति गम्यते । अन्यच् च हिरण्यादिदानं परिहाप्यान्नं विशेषतो दद्यात्, सर्वभूतानाम् इति वचनाति । न केवलं गुणवद्ब्राह्मणेभ्यः । शूद्रस्या[पि वृत्तिर् इदान्]ईम् उच्यते धर्म्या च ॥ ९.३२९–३३ ॥

विप्राणां वेदविदुषां गृहस्थानां यशस्विनाम् ।
शुश्रूषैव तु शूद्रस्य धर्मो नैःश्रेयसः परः ॥ ९.३३४ ॥

भारुचिः ...{Loading}...

शूद्रो विशेषतः इत्थंभूतगुणवतां ब्राह्मणानां [शुश्रूषया निःश्रेयसं लभते] ॥ ९.३३४ ॥

शुचिर् उत्कृष्टशुश्रूषुर् मृदुवाग् अनहंकृतः ।

तद् एवंवृत्तह्,

ब्राह्मणापाश्रयो नित्यम् उत्सृष्टां जातिम् अश्नुते ॥ ९.३३५ ॥

भारुचिः ...{Loading}...

ब्राह्मणापाश्रितशूद्रस्य तदाश्रयफलार्थवादो ऽयम् । फलविधिर् वायं न्यायशास्त्राविरोधाद् युक्तः ॥ ९.३३५ ॥

एषो ऽनापदि वर्णानाम् उक्तो धर्मवृत्तिः शुभः ।
आपद्य् अपि च यस् त्व् एषाम् [क्रमशस् तन् निबोधत] ॥ ९.३३६ ॥

भारुचिः ...{Loading}...

वृत्तिः धर्मश् चेति सिद्ध्यर्थं द्वैविध्यम् ॥ ९.३३६ ॥

इति भारुचिकृते मनुशास्त्रविवरणे नवमो ऽध्यायः ॥