**अष्टमो ऽध्यायः **
एवम् अयं सप्तमाध्यायोपदिष्टेन (?) राजशास्त्रेण यथान्यायं सुविहितराज्यतन्त्रः प्रजापरिपालनार्थम् ।
व्यवहारान् दिदृक्षुस् तु ब्राह्मणैः सह पार्थिवः ।
मन्त्रज्ञैर् मन्त्रिभिश् चैव विनीतः प्रविशेत् सभाम् ॥ ८.१ ॥
भारुचिः ...{Loading}...
मात्स्यम्यायनिवृत्त्या लोकस्थित्यर्थम् अयं व्यवहारान् द्रष्टुम् अन्वेषणशीलः ब्राह्मणैः सह पार्थिवः यान् उपरिष्टाद् वक्ष्यति “यस्मिन् देशे निषीदन्ति विप्रा वेदविदस् त्रयः” इति तैः सह । यतस् तेषाम् इदं विशेषणं क्रियते मन्त्रज्ञैर् इति । एवं च यदि वेदविदो ऽपि सन्तो मन्त्रज्ञा न भवन्त्य् अधिकलक्षणप्राप्त्यर्थम् इदं तद्विशेषणम् । लोकव्यवहारज्ञा मन्त्रज्ञाः । मन्त्रिभिश् चैव मन्त्रज्ञैर् इति समानं पूर्वविशेषणम् । इयांस् तु विशेषः- मन्त्रिणो राजतन्त्रव्यवहारज्ञा नियोगत इष्यन्ते, इतरत्र तु न प्रतिषेधः । अतस् तान् अप्य् एवं विशिनष्टि । विनीतः प्रविशेत् सभाम् । विनीतो ऽनुद्धतवेषालङ्कारः । सभां वक्ष्यमाणाम् “ब्रह्मणस् तां सभां विदुर्” इति । सत्य् अपि च ब्राह्मणस्य धर्मोपदेष्टृत्वे गुरुत्वे च व्यवहारदर्शने ब्राह्मणो न प्रधानीक्रियते । असमर्थो ह्य् असाव् अल्पपरिग्रहत्वाद् अकार्यकारिणो वशीकर्तुम् । क्षत्रियस्य तु करशुल्कप्रीतिभोगदण्डपरिक्रयेण प्रजापालनोपदेशात् परिग्रहमहत्त्वं वृत्तिमतो ऽर्थगृहीतम्, यतः प्रजासंरक्षणार्थम् अकार्यकारिणां निग्रहे तस्य सामर्थम् अस्ति । एवं च सति व्यवहारदर्शने क्षत्रियः प्राधान्येनोपदिश्यते । अथ वादृष्टप्रयोजन एव क्षत्रियस्य व्यवहारदर्शनोपदेशः । व्यवहरणं व्यवहारः । इहैको ऽपि स्वार्थ[संबन्धितया] व्यवहर्तीतरो ऽप्य् अन्यथेत्य् एवं विविधं नानावहरणम्, विरुद्धं वेतरेतरहरणं व्यवहारः ॥ ८.१ ॥
तत्रासीनः स्थितो वापि पाणिम् उद्यम्य दक्षिणम् ।
विनीतवेषाभरणः पश्येत् कार्याणि कार्यिणाम् ॥ ८.२ ॥
भारुचिः ...{Loading}...
[आसीनस् तपस्विविद्वद्]ब्राह्मणगुरुवर्जम् इतरजनस्य पश्येत्; स्थित्वो वापि तपस्विप्रभृतीनां वर्णोत्तमानाम् । स्थितो वापि तपस्विप्रभृतीनां वर्णोत्तमानाम् । पाणिग्रहणं बाह्पलक्षणार्थम् । यस्माद् ब्रह्मसभैषा । तथा चोक्तम् अग्न्यगारादिषु [दक्षिणबाहूद्धरणम् । विनीत]वेषाभरणं हि राजानं सुखम् उपसर्पिष्यन्त्य् अर्थिनः । अथ वायम् अस्यादृष्टप्रयोजन एव नियतशास्त्रस्यार्थवत्त्वाय । यत एवं पश्येत् कार्याणि कार्यिणाम् अर्थिनाम्, न स्वयमुत्पाद्यकार्याणि, ये[षु न शास्त्रोप]देशस्य सामर्थ्यं दृष्टम् । यतो ऽयम् अर्थिविषयो व्यवहारदर्शनोपदेश इत्य् गम्यते । यतो ऽयम् अर्थिविषयो व्यवहारदर्शनोपदेश इति गम्यते । एवं च सत्य् अविधित्वं समर्थ्[इत्]अं भवति । इतरथा हि परिग्रहवत्स्व् अन्येषूपदेशस्य परिसंख्या [न स्यात् । न] चैकस्योपदेशस्योभयत्र सामर्थ्यम् अस्ति, एकार्थत्वाद् वाक्यस्य । एवं च स्वपरिग्रहे ब्राहणादीनां (?) व्यवहारदर्शनम् अप्रतिषिद्धं भवति । ननु च कार्यिणां [कार्याणीति अर्थिनाम् इति] तेन वक्ष्यति “नोत्पादयेत् स्वयं कार्यम्” इति तदनुवाद एवायम् अस्वार्थः प्रसङ्गत इह विज्ञेयः; अथ वा भवत्व् अस्येह स्वार्थ उपदेश उत्तरत्र त्व् अनुवादो विशेषार्थः, “नाप्य् अस्य पुरुष” इति ॥ ८.२ ॥
यद् उक्तं “पश्येत् कार्याणि कार्यिणाम्” इति, अत्र कारणं वक्तव्यम् । अत इदम् आरभ्यते तत्कारणप्रसिद्ध्यर्थम् ।
प्रत्यहं देशदृष्टैश् च शास्त्रदृष्टैश् च हेतुभिः ।
अष्टादशसु मार्गेषु निबद्धानि पृथक् पृथक् ॥ ८.३ ॥
भारुचिः ...{Loading}...
अष्टादशसु मार्गेषु व्यवहारस्थानेष्व् ऋणादानादिषु वक्ष्यमाणेषु पृथक् पृथङ् निबद्धानि, देशाचारव्यवस्थया कर्षकवणिक्पशुपालादिषु धर्मेण, शास्त्रव्यवस्थया च शास्त्रोक्तैर् हेतुभिः साक्षिशपथादिभिः प्रत्यहम् अग्लायमानो राजा पश्येत् कार्याणि कार्यिणाम् । यद्य् अपि लौकिकान्य् अपि शास्त्रोक्तानि लिङ्गानि “बाह्यैर् विभावयेल् लिङ्गैः,” “तथानुमाने[न] नयेद् धर्मस्य नृपतिः पदम्” इत्य् एवमादीनि, तथापीदं लौकिकप्रमाणानुवादि । शास्त्रलक्षणम् तु प्रमाणं शाक्षिशपथादि । यद्य् अपि च लौकिकप्रमाणानुवाद इह शास्त्रे ऽस्ति कुतश्चित् कारणात्, तथापि शास्त्रं लोकम् एव प्रमाणीकरोति केषुचित् कार्येषु । तथा च वक्ष्यति “समुद्रयानकुशला देशहालार्थदर्शिणः” इत्य् एवमादि । अतः पृथग्देशग्रहणं न्याय्यम् ॥ ८.३ ॥
तानि च व्यवहारवसूनीमानि निर्दिश्यन्ते ।
तेषाम् आद्यम् ऋणादानं निक्षेपो ऽस्वामिविक्रयः ।
संभूय च समुत्थानं दत्तस्यानपकर्म च ॥ ८.४ ॥
वेतनस्यैव चादानं संविदश् च व्यतिक्रमः ।
क्रयविक्रयानुशयो विवादः स्वामिपालयोः ॥ ८.५ ॥
सीमाविवादधर्मश् च पारुष्ये दण्डवाचिके ।
स्तेयं च साहसं चैव स्त्रीसंग्रहणम् एव च ॥ ८.६ ॥
स्त्रीपुंधर्मो विभागश् च द्यूतम् आह्वानम् एव च ।
पदान्य् अष्टादशैतानि व्यवहारस्थिताव् इह ॥ ८.७ ॥
भारुचिः ...{Loading}...
विवादास्पदनिर्देशो ऽत्र चतुर्भिः श्लोकैः । आद्यं मुख्यम् । ऋणव्यवहारो ह्य् एष वनवासिनो ऽपि स्पृशति, अतो ऽस्य मुख्यतोच्यते ॥ ८.४–७ ॥
एषु स्थानेषु भूयिष्ठं विवादं चरतां नृणाम् ।
धर्मं शाश्वतम् आश्रित्य कुर्यात् कार्यविनिर्णयम् ॥ ८.८ ॥
भारुचिः ...{Loading}...
एतानि व्यवहार[व]स्तूनि प्रधानभूतानि । तद्भेदानाम् आनन्त्याद् अशक्यो ह्य् अशेषतो निर्देशः कर्तुम् । भूयिष्ठवचनाच् चैव तद्व्यवहारवस्तुबहुत्वं गम्यते । अनुक्तानाम् अपि शास्त्रानुसारिण्या प्रज्ञया धर्मं शाश्वतम् आश्रित्य कार्यनिर्णयं कुर्यात् । पितृपितामहादिप्रवर्तितम् अप्य् उत्सृज्यान्याय्यम् यत् कार[णात्] प्रायेण कृतानुसारी लोकः, विशेषेण तु राजान इति । अतो ऽयम् “आस्थीयते यत्न” इति, सामान्यश् चायम् उपदेशः । विशेषास् त्व् अस्य विषये वक्ष्यन्ते ॥ ८.८ ॥
यदा स्वयं न कुर्यात् तु नृपतिः कार्यदर्शनम् ।
तदा नियुञ्ज्याद् विद्वांसं ब्राह्मणं कार्यदर्शने ॥ ८.९ ॥
भारुचिः ...{Loading}...
यदा कुतश्चिन् निमित्तान्तरतः स्वयं नृपतिः कार्यं न पश्येत्, तदा नियुञ्ज्याद् ब्राह्मणं कार्यदर्शने, नान्यवर्णं धर्मज्ञं व्यवहारज्ञम् अपि सन्तम्, ब्राह्मणम् अपि च विद्वांसं ब्राह्मणज्ञेयेष्व् एव शास्त्रेषु । तद्वर्तिधर्मानतिलङ्घनार्थोच्यते- व्यवहारदर्शनार्था तु विद्वत्तार्थगृहीतत्वाद् अशासनीया (?) ॥ ८.९ ॥
सो ऽस्य कार्याणि संपश्येत् सभ्यैर् एव त्रिभिर् वृतः ।
सभाम् एव प्रविश्याग्र्याम् आसीनः स्थित एव वा ॥ ८.१० ॥
भारुचिः ...{Loading}...
राजन्य् अस्वस्थशरीर कार्यान्तरव्याकुले वा सभाम् एव प्रविश्याग्रां न ततो ऽन्यत्र; न स[भायाम् अपि] राजासनम् अधिरुह्य, किं तर्हि सभायाम् एवान्यासनस्थः । आसीनः स्थित एव वेति स्थानासनयोर् विकल्पः । उक्तं प्रयोजनम् । सभायां साधवः सभ्याः, ते चोक्तविशेषणा एव सन्तो राजस्थानीयब्राह्मणसहाया एव भवेयुः ॥ ८.१० ॥
अग्र्या सभ्येत्य् उक्तिम्, यतस् तदर्थम् इदम् उच्यते ।
यस्मिन् देशे निषीदन्ति विप्रा वेदविदस् त्रयः ।
राज्ञश् च प्रकृतो विद्वान् ब्रह्मणस् ताम् सभां विदुः ॥ ८.११ ॥
भारुचिः ...{Loading}...
त्रिग्रहणान् नावेदविदस् ते स्युः; दण्डापूपिकया चत्वारो ऽपि न विरुद्ध्यन्ते । राज्ञश् च सहायं प्रकृतो विद्वान् इ[त्य् अनु]वाद उत्तरार्थः । ब्रह्मणस् तां सभां विदुः । केचित् तु ब्राह्मण इति पठन्ति । तद् अयुक्तम् । उक्तत्वाद् अस्य जातेः- “तदा नियुञ्ज्याद् विद्वांसं ब्राह्मणं कार्यकर्शने” इति पूर्वत्र । ब्रह्मणो ग्रहणं सभास्तुत्यर्थं युक्त[ं, ब्रह्म]सभेति । अथ वा “विनीतः प्रविशेत् सभाम्” इत्य् उक्तं यत्, तदुपलक्षणार्थम् इदम् उक्तम् । यद्मिन् देश निषीदन्ति इत्य् एवमादि लौकिकसभानिवृत्त्यर्थम् ॥ ८.११ ॥
धर्मो विद्धस् त्व् अधर्मेण सभां यत्रोप्[अतिष्ठते ।
शल्यं चास्य न कृन्तन्ति विद्धास् तत्र सभासदः ॥ ८.१२ ॥
भारुचिः ...{Loading}...
धर्म इति] तस्य वेधो ऽन्यथादर्शनम् । तत्फलं तु धर्मव्यवस्थाभङ्गहेतोर् अधिकृतब्राह्मणस्येदम् उच्यते । शल्यं चास्य न कृन्तन्ति विद्धास् तत्र सभासदः- शल्यम् इव शल्यप्रतिष्ठाहेतुत्वात् अस्य [यदि] न कृन्तन्त्य् एते पुन[ः] सभासदः विद्धाः सन्तः प्राग् एव । यतश् चैतद् एवम् अतो ऽसम्यक् प्रवर्तमानो राजा प्रकृतो वा ब्राह्मणस् सभ्यैर् नानुमन्तव्यः, व्यतिक्रमाद् धर्मवेधभयात् ॥ ८.१२ ॥
अतः ।
सभा व न प्रवेष्टव्या वक्तव्यं वा समञ्जसम् । अब्रुवन् विब्रुवन् वापि नरो भवति किल्बिषी ॥ ८.१३ ॥
भारुचिः ...{Loading}...
> सभा व न प्रवेष्टव्या वक्तव्यं वा समञ्जसम् ।
व्यवहारप्रदर्शनाधिकारो वा न प्रतिपत्तव्यो राजतः सभ्यैः, वक्तव्यं वा प्रतिपन्नाधिकारैस् तत्र समञ्जसं सत्यम् । येन —
> अब्रुवन् विब्रुवन् वापि नरो भवति किल्बिषी ॥ ८.१३ ॥
न केवलं विब्रुवन् किल्बिषी भवति, किं तर्हि अब्रुवन्न् अपि । अतो न “सभ्यैर् अयम् उपेक्षणीयो ऽन्यथा पश्यन् राजप्रकृतो ऽयं करोत्य् एवम्, तद् एवं न वयम्” इति नात्रौदासीन्याद् यूयम् उच्यध्वम् ॥ ८.१३ ॥
तथा चाहुः ।
यत्र धर्मो ह्य् अधर्मेण सत्यं यत्रानृतेन च ।
हन्यते प्रेक्षमाणानां हतास् तत्र सभासदः ॥ ८.१४ ॥
भारुचिः ...{Loading}...
> यत्र धर्मो ह्य् अधर्मेण
व्यवस्था चाव्यवस्थया पूर्वापरादिविप्रतिषेधानुमोदनादिलक्षणया,
> सत्यं यत्रानृतेन च ।
कूटसाक्षिभिः,
> हन्यते प्रेक्षमाणानां हतास् तत्र सभासदः ॥ ८.१४ ॥
तस्मात् सभ्यैर् नोदासीनैर् भवितव्यम् । न साक्षिणः कुर्वन्तीति सभ्या मुच्यन्ते ॥ ८.१४ ॥
एवं च सति ।
धर्म एव हतो हन्ति धर्मो रक्षति रक्षितः ।
तस्माद् धर्मो न हन्तव्यो मा नो धर्मो हतो वधीत् ॥ ८.१५ ॥
भारुचिः ...{Loading}...
एवम् अभिप्रायेण राजप्रकृतो ऽवबोध्यते- “धर्मप्रसादाद् इदम् आधिपत्यं ते प्राप्तम्”, येन न राजप्रसादात् । अतो न धर्मं हन्तुम् अर्हति । एकेवचनाच् च लिङ्गाद् औपरिष्ठके श्लोके, “तस्माद् धर्मं न लोपेयेत्” इत्य् अस्माद् राजप्रकृतो, न सभासदो बहुत्वात् ॥ ८.१५ ॥
यतश् च निर्वचनम् इदम् ।
वृषो हि भगवान् धर्मस् तस्य यः कुरुते लयम् ।
वृषलं तं विदुर् देवास् तस्माद् धर्मं न लोपयेत् ॥ ८.१६ ॥
भारुचिः ...{Loading}...
न जातिवृषल एव वृषलः, किं तर्हि विकर्मणात्र वृषलो भवति । तथा च सति किं ब्राह्मणजातिस् ते करिष्यति व्यतिक्रमाद् अधर्मेण ग्रस्यमानस्य । यत्कारणाद् राजनियुक्तब्राह्मणोपालम्भ एवायम् ॥ ८.१६ ॥
इदम् अपरं प्रसंख्यानम् अधिकृतब्राह्मणव्यवस्थार्थम् उच्यते ।
एक एव सुहृद् धर्मो निधने ऽप्य् अनुयाति यः ।
शरीरेण समं नाशं सर्वम् अन्यद् धि गच्छति ॥ ८.१७ ॥
भारुचिः ...{Loading}...
यतः सुहृन्मित्राद्य् अपेक्षयापि न धर्मो मोक्तव्यः । अन्यथा हि तदुपेक्षया न केवलम् अपराधिनः प्रत्यवायो ऽन्यथादर्शने, किं तर्हि —
पादो ऽधर्मस्य कर्तारं पादः साक्षिणम् ऋच्छति ।
पादः सभासदः सर्वान् पादो राजानम् ऋच्छति ॥ ८.१८ ॥
भारुचिः ...{Loading}...
यतो नैवम् उपेक्षा कर्तव्या, “कर्ता साक्षिणो वा दोषेण संबध्यन्ते, किम् अस्माकम् उदासीनानां भविष्यति” इति । असम्यग्व्यवहारदर्शने हि सर्वत्रैनो विभज्यते । यद्य् अपि चैनसो ऽन्येन कृतस्य विभागो नास्ति, दोषसंबन्धार्थवादस् त्व् अनेन न्यायेन प्रदर्श्यते असम्यग्दर्शननिवृत्त्यर्थम् ॥ ८.१८ ॥
राजा भवत्य् अनेनास् तु मुच्यन्ते च सभासदः ।
एनो गच्छति कर्तारं निन्दार्हो यत्र निद्यते ॥ ८.१९ ॥
भारुचिः ...{Loading}...
एवं सम्यग्व्यवहारदर्शने,सर्वम् इदं साधु संपद्यत इति अर्थप्राप्तो ऽप्य् अयम् अर्थो वाक्यस्वाभाव्याद् अनूद्यते ॥ ८.१९ ॥
जातिमात्रोपजीवी वा कामं स्याद् ब्राह्मणब्रुवः ।
धर्मप्रवक्ता नृपतेर् न तु शूद्रः कथंचन ॥ ८.२० ॥
भारुचिः ...{Loading}...
राजाधिकृतविद्वद्ब्राह्मणाभावे सति तत्र शास्त्रवित् क्षत्रियवैश्याधिकारार्थो ऽयम् आरम्भः । न जातिमात्रोपजीविनः । कथं कृत्वा । उक्तं हि “तदा नियुञ्ज्याद् विद्वांसं ब्राह्मणं कार्यदर्शने” इति । अत्र ब्राह्मणग्रहणं वर्णत्रयपर्युदासार्थम् इत्य् उक्तम् । एवं च सति तत्प्रतिषेधाद् एव शूद्रप्रतिषेधे सिद्धे पुनः शूद्रप्रतिषेध इह क्रियमाणः क्षत्रियवैश्याभ्यनुज्ञानार्थो विज्ञायते । यस्माद् अकृतकारि हि शास्त्रम् एवं युक्त्यारम्भम् अयुक्तारम्भः भवति । अन्यथा पौनरुक्त्यायुक्त्यारम्भः स्यात् । न च शास्त्रविद्ब्राह्मणाभावे तदभाववैकल्पिकम् अर्थलोपात् जातिमात्रोपजीविनम् अविद्वद्ब्राह्मणम् असमर्थं व्यवहारदर्शने शास्त्रम् अधिकर्तुम् अर्हति । न हि कश्चिल् लोके ऽन्धो रूपदर्शने ऽधिकरोति । एवं च सति नायम् अभाववैकल्पिको ब्राह्मणः । किं तर्हि पर्युदासार्थम् एवेदं वचनं जातिमारोपजी[विनः] । तथा च लोक उभयप्रतिषेध इत्थंभूतेषु वाक्येषु दृश्यते- “कामं विषम् अपि भक्षय, मा चास्य गृहे भुङ्क्थाः” इति । यत् एवम् उभयप्रतिषेधात् क्षत्रियवैश्याभ्यनुज्ञेयम् इति ॥ ८.२० ॥
एवं च सति —
[यस्य शूद्रस् तु कुरुते] राज्ञो धर्मविवेचनम् ।
तस्य सीदति तद्राष्ट्रं पङ्के गौर् इव पश्यतः ॥ ८.२१ ॥
भारुचिः ...{Loading}...
> [यस्य शूद्रस् तु कुरुते] राज्ञो धर्मविवेचनम् ।
ब्राह्मणाधिकारस्थाने,
> तस्य सीदति तद्राष्ट्रं पङ्के गौर् इव पश्यतः ॥ ८.२१ ॥
क्षत्रियवैश्यनियोगस्तुत्यर्थो ऽयं शूद्रप्रतिषेध्[अः । तद्विषयम् एवेदम् अप्य् उ]क्तम् —
यद्राष्ट्रं शूद्रभूयिष्ठं नास्तिकाक्रान्तम् अद्विजम् ।
विनश्यत्य् आशु तत् कृत्स्नं दुर्भिक्षव्याधिपीडितम् ॥ ८.२२ ॥
भारुचिः ...{Loading}...
शूद्रभूयिष्ठम् इति धर्मानुशासितृशूद्रभूयिष्ठम् इत्य् अर्थः । एतत्साम्[अर्थ्यात् तद्]राष्ट्रं नास्तिकाक्रान्तं भवति । अत्र कारणं वक्ति । यस्माद् अद्विजप्रायं धर्मानुशासितृब्राह्मणरहितम् । युक्तं चैतद् । ईदृग् राष्ट्रं विनश्यति । अयम् अपि श्लोकः पूर्ववत् क्षत्रियवैश्यनियोगस्तुत्यर्थः । न तु जातिमात्रनियोगसुत्यर्थ इत्य् उक्तम् । यदा निराकुलो राजा स्वयं व्यवहारं द्रष्टुम् इच्छति, तदा —
धर्मासनम् अधिष्ठाय संवीताङ्गः समाहितः ।
प्रणम्य लोकपालेभ्यः कार्यदर्शनम् आरभेत् ॥ ८.२३ ॥
भारुचिः ...{Loading}...
धर्मार्थम् आसनं धर्मासनम् । तत्रोपविश्य संवीताङ्ग इत्य् अनुवादात् विनीतवेषाभरणत्वस्यापूर्वगुणसंबन्धेन । समाहितो व्यवहारदर्शने । प्रणम्य लोकपालेभ्यः सभालेख्यस्थेभ्यः स्वस्थानेभ्यो वा वाङ्मनसाभ्यां कार्यदर्शनम् आरभेत् । व्यवहारदिदृक्षोर् दृष्टार्थो ऽयं विधिर् निर्देशो नृपतेः, अदृष्टार्थो वा शास्त्रस्यार्थवत्त्वाय ॥ ८.२३ ॥
अर्थानर्थाव् उभौ बुद्ध्वा धर्माधर्मौ च केवलौ ।
वर्णक्रमेण सर्वाणि पश्येत् कार्याणि कार्यिणाम् ॥ ८.२४ ॥
भारुचिः ...{Loading}...
राष्ट्रसंप्रसादकोपाव् अर्थानर्थौ राज्यतन्त्रानुकूलप्रतिकूलौ, परत्र च धर्माधर्मौ दृष्टानपेक्षौ संपश्येत्, कार्यदर्शनम् आचरेत् । यद् वा अर्थानर्थौ वैरानुबन्धेतरनिमित्तौ बुद्ध्वेति । संनिपाते च व्यवहाराणां वर्णक्रमेणाश्रयेत् । पश्येत् कार्याणि कार्यिणाम् इत्य् उक्तम्- तत् पुनर् व्यवहारदर्शनम् अनुमानतो विशेषेण, यतस् तदर्थम् अभिधीयते —
बाह्यैर् विभावयेल् लिङ्गैर् भावम् अन्तर्गतं नृणाम् ।
स्वरवर्णेङ्गिताकारैश् चक्षुषा चेष्टितेन च ॥ ८.२५ ॥
भारुचिः ...{Loading}...
स्वरश् च वर्णश् चङ्गितं च स्वरवर्णेङ्गितानि । आकारः शरीरेन्द्रियवैकृत्यम् । स्वरवर्णेङ्गितानि च तान्य् आकारश् च स्वरवर्णेङ्गिताकाराः । तैः स्वरवर्णेङ्गिताकारैः सामान्यविशेषधर्मेणायं निर्देशः । तत्र वैचित्र्यम् । स्वरवैकृत्यं गद्गदादिः । वर्णो गात्ररूपविपर्ययः । लिङ्गितं स्वेदवेपथुरोमाञ्चादिः । चक्षुषा चक्षुर् विकारेण । चेष्टितेन च हस्तभ्रूविक्षेपादिना । तद् एवम् अर्थिप्रत्यर्थिनोः साक्षिणां वानृतभावभाषितं स्वरादिविपर्ययेण प्रत्यक्षम् अपि वेदनीयं विजानीयात् । सामान्यमात्रोपदेशो ऽयम् । केचित् त्व् आहुः सव्यभिचारत्वाद् अनुमानस्य व्यवहारस्थितिः साक्षिभिः स्यात्, अविद्यमानेषु तु साक्षिष्व् अनुमानम् अप्य् आश्रयणीयम् । तद् एतद् अन्याय्यम् । यद्य् अनुमानं व्यभ्चारि दृष्टं ननु साक्षिवचनागमो ऽपि तथा दृष्टः । अथात्रविवेकयत्नान् निर्णयः । एवम् अनुमानादिष्व् अपि भविष्यति । यदि चानुमानं व्यभिचारि कथम् अविद्यमानेषु साक्षिषु तन्निर्णयार्थम् उपादेयम् इत्य् आचक्षीत । तस्माद् युक्तोपदेशम् अनुमानम् । तथा च कृत्वा व्यवहाराद् अन्यत्रापि लौकिकैः ॥ ८.२५ ॥
आकारैर् इङ्गितैर् गत्या चेष्टया भाषितेन च ।
नेत्रवक्त्रविकारैश् च गृह्यते ऽन्तर्गतं मनः ॥ ८.२६ ॥
भारुचिः ...{Loading}...
आकरणं आकारः शरीरेन्द्रियविकरः । अस्य सामान्यवचनस्यायं विशेषः । आकारैः तैश् तद्विकारैर् इङ्गितादिभिः व्य्वहाराद् अन्यत्रापि चापराभिप्रायो लोके गृह्यते । एवं व्यवहारकाले ऽप्य् अधिकृतैर् अद्विष्टैर् अरक्तैश् च निपुणतो दत्तप्रणिधानैर् ग्राह्यम् । एवं च पूर्वश्लोकशेष एवायं विज्ञेयः ॥ ८.२६ ॥
बालदायादिकं (?) रिक्थं [तावद् राजानुपालयेत् ।
यावत् स स्यात् समावृत्तो यावद् वातीतशैशवः ॥ ८.२७ ॥
भारुचिः ...{Loading}...
रिक्थ] इति नित्यं धनम्, समासार्थः । एवं च सत्य् अमातृपितृको ऽयम् अनाथः सामर्थ्याद् विज्ञायते । यतस् तद्धनं तावद् राज्ञा रक्ष्यमाणं तिष्ठेत् यावद् अयं समावृत्तः । समावृत्तिस् त्व् अस्य संव्यवहारक्षमत्वोपलक्षणार्थः । एवं च सति समावृत्तम् अपि शिशुं सन्तं न प्रतिपादयेद् असमर्थम् अववित्तसं[व्यवहारे । यावद् वातीतशैशवः], असमावृत्तो ऽपि । सामर्थ्यापेक्षत्वात् प्रतिपादयेद् इत्य् उक्तम् । अनाथवित्तसंरक्षणोपदेशप्रकरणाद् इदम् अन्यम् उच्यते तद्रूपम् ॥ ८.२७ ॥
वशापुत्रासु चैवं स्याद् र[क्षणं निष्कुलासु च] ।
पतिव्रतासु च स्त्रीषु विधवास्व् आतुरासु] च ॥ ८.२८ ॥
भारुचिः ...{Loading}...
वशा वन्द्या, अपुत्रा स्त्रीप्रजा मृतप्रजा वा उभे अपि चैते सामर्थ्याद् विधवे विज्ञेये । निष्कुला कन्याइवापितृमातृका । पतिव्रता [भर्त्रभावे ऽव्यभिचारिणी । विधवा भर्तृरहिता] । विधवापतिव्रता सामर्थ्याद् गृह्यते, प्रोषितपुत्रा वा । एतासाम् अपि यत् स्त्रीधनं भर्तृधनं वा तद् अपि राज्ञा स्वबन्धुभ्यो रक्षितव्यम् । यथा बा[लरक्थस्य तथानाथधन्]आनाम् एव च राज्ञा सामान्यतो रक्षणं कर्तव्यम् इत्य् अनुशासनम् । अनाथानां त्व् अत्र विशेषेणोपदेशो युक्त आदरार्थः ॥ ८.२८ ॥
जीवन्तीनां तु तासां ये तद् धरेयुः स्वबान्धवाः ।
ताञ् छिष्याच् चोरदण्डेन धार्मिकः पृथिवीपतिः ॥ ८.२९ ॥
भारुचिः ...{Loading}...
जीवद्वचनान् मृतानां तासां बान्धवा एव यथा संनिकर्षं तदीयधनस्येषत इति ज्ञापयति । वक्ष्यति चानपत्यधनस्य सपिण्डादिषु प्रतिपत्तिम् । अत एव च चोरशङ्कायां चोरवत् ते दण्डम् अर्हन्ति । इदं चान्यद् इत्थंभूतम् एव प्रसङ्गाद् उच्यते —
प्रणष्टस्वामिकं द्रव्यं राजा त्र्यब्दं निधापयेत् ।
अर्वाक् त्र्यब्दाद् धरेत् स्वामी परेण नृपतिर् हरेत् ॥ ८.३० ॥
भारुचिः ...{Loading}...
परेण त्र्यब्दान् नष्टस्वामिकस्य धनस्य राज्ञो भोगानुज्ञा, नापहरणम् अस्य । येनोर्ध्वम् अपि त्र्यब्दात् स्वामिन्य् आगते न युक्तं तद् अपहर्तुम्, न हि शक्यं न्यायविरोधेन शास्त्रविरोधेन चार्थकल्पनायां परस्वग्रहणम् अभ्यनुज्ञातुम् । न चार्वाक् त्र्यब्दाद् धरेत् स्वामीत्य् अनेनोर्ध्वं त्र्यब्दात् स्वामिनो ऽस्वामित्वम् इत्य् उच्यते । किं तर्हि परेण नृपतिर् हरेद् इत्य् अस्य भोगो ऽतिसर्गविधेर् वा संबन्धो ऽनूद्यते वाक्यस्वाभाव्यात् । एवं च सत्य् ऊर्ध्वम् अपि त्र्यब्दाद् आगत्य —
ममेदम् इति यो ब्रूयात् सो ऽनुयुज्यो यथाविधि ।
संवाद्य रूपसंख्यादि स्वामी तद्द्रव्यम् अर्हति ॥ ८.३१ ॥
भारुचिः ...{Loading}...
स्वामित्वकारणाख्याने सति ।
अवेदयानो नष्टस्य देशं कालं च तत्त्वतः ।
वर्णं रूपं प्रमाणं च तत्समं दण्डम् अर्हति ॥ ८.३२ ॥
भारुचिः ...{Loading}...
तत्र शुक्लादिर् वर्णः, आकारो रूपम्, संख्यापलाग्रपरिमाणं प्रमाणम् । नियमेन चात्र तच्छुद्ध्यर्थो दण्डः ॥ ८.३२ ॥
आददीताथ षड्भागं प्रणष्टाधिगतान् नृपः ।
दशमं द्वादशं वापि भागं धर्मम् अनुस्मरन् ॥ ८.३३ ॥
भारुचिः ...{Loading}...
ऊर्ध्वम् एव त्र्यब्दाद् अधिगतस्वामिकम्, न तु सर्वं प्रत्यर्पयेत् । किं तर्हि उद्धृतषड्भागादिभागं प्रत्यर्पयेत् । षड्भागादिग्रहणव्यवस्था च गुणापेक्षया संरक्षणश्रमव्यपेक्षया च नियम्यते ॥ ८.३३ ॥
प्रणष्टाधिगतं द्रव्यं तिष्ठेद् युक्तैर् अधिष्ठितम् ।
यांश् तत्र चोरान् गृह्णीयात् तान् राजेभेन घातयेत् ॥ ८.३४ ॥
भारुचिः ...{Loading}...
अस्वामिकत्वाद् अस्य प्रयत्नेन रक्षणार्थम् इदम् उच्यते । युक्तानां च रक्षिणां हस्तिवधो दृष्टप्रयोजनः ॥ ८.३४ ॥
ममायम् इति यो ब्रूयान् निधिं सत्येन मानवः ।
तस्याददीत षड्भागं राजा द्वादशम् एव वा ॥ ८.३५ ॥
भारुचिः ...{Loading}...
राजानाधिगतम् अध्गतं वा यो निधिं प्रवादयेद् आत्मीयं कारणतः तस्य श्रोत्रियत्वाद्यपेक्षया भागविकल्प आश्रयितव्यः प्रतिपत्तिकारणविसंवादे च —
अनृतं तु वदन् दण्ड्यः स्ववित्तस्यांशम् अष्टमम् ।
तस्यैव वा निधानस्य संख्यायाल्पीयसीं कलाम् ॥ ८.३६ ॥
भारुचिः ...{Loading}...
यथा धनमात्रया दण्डितो ऽवसादं न गच्छेद्, विनयं [च] ग्राह्येत तावतीम् अर्थमात्रां दापयेत् । पुरुषविशेषापेक्षया च दण्डविकल्प आश्रयितव्यः ॥ ८.३६ ॥
विद्वांस् तु ब्राह्मणो दृष्ट्वा पूर्वोपनिहितं निधिम् ।
अशेषतो ऽप्य् आददीत सर्वस्याधिपतिर् हि सः ॥ ८.३७ ॥
भारुचिः ...{Loading}...
एवं च सति ऽममायम्" इत्य् अस्मिन् पूर्वविधाव् अब्राह्मणविषयं भागस्य विकल्पेन ग्रहणम् । अविद्वद्ब्राह्मणविषयं वा ॥ ८.३७ ॥
यं तु पश्येन् निधिं राजा पुराणनिहितं क्षितौ ।
तस्माद् द्विजेभ्यो दत्वार्धम् अर्धं कोशे निवेशयेत् ॥ ८.३८ ॥
भारुचिः ...{Loading}...
राज्ञो ऽयं निध्यधिगमे दाननियमः । न त्व् अन्यस्य, वचनसामर्थ्यात् ॥ ८.३८ ॥
निधीनां हि पुराणानां धातूनाम् एव च क्षितौ ।
रक्षणाद् अर्धभाग् राजा भूमेर् अह्दिपतिर् हि सः ॥ ८.३९ ॥
भारुचिः ...{Loading}...
अर्धभाग् अंशभाक्, अर्धशब्दो ह्य् अंशे ऽपि दृश्यते । “अर्धिकः कुलमित्रश् च” इति । एवं च सत्य् अंशप्र्कॢप्तिर् द्रष्टृगुणापेक्षया राजाभिप्रायेण वा कल्पयितव्या । तथा च समप्रविभागार्थो ऽप्य् अर्धशब्दः ॥ ८.३९ ॥
दातव्यं सर्ववर्णेभ्यो राज्ञा चोरैर् हृतं धनम् ।
राजा तद् उपयुञ्जान[श् चौरस्या]प्नोति किल्बिषम् ॥ ८.४० ॥
भारुचिः ...{Loading}...
अस्मिन् पाठे राज्ञानीतस्वद्रव्यः पोषयितव्यश् चोरैर् अपहृतस्याशक्यादाने । चोराहृतम् इति पाठे तु अयम् अर्थः- चोरेभ्य आहृत्य राजा न भागं तस्मात् कंचिद् उपाद[द्यात् किं तु स्व]स्थानं प्रतिपादयेत् । एवं च धर्मयशसी तेनापरित्यक्ते भवतः ॥ ८.४० ॥
जातिजानपदं धर्मं श्रेणिधर्मांश् च धर्मवित् ।
समीक्ष्य कुलधर्मांश् च स्वधर्मं प्रतिपादयेत् ॥ ८.४१ ॥
भारुचिः ...{Loading}...
जातिधर्मः प्रसिद्धः । [जाति ब्राह्मणादिः, तच् च नित्य]त्वेनोच्यते, शास्त्रलक्षणत्वात् । जानपदः सामयिकः, न शास्त्रप्रमाणः, गोप्रचारोदकरक्षणादिः । श्रेणीधर्मो वणिक्कारुककुशीलवानां स्वकार्यसिद्ध्यर्थं प्रवर्ति[तः । त]म् अपि धर्मं राजा प्रतिपादयेत् । न सामयिको ऽयम् इत्य् अनास्था कर्तव्या । यदि च राजा सामायिकेष्व् अनादरं कुर्यात्, ततो व्यवस्थाभङ्गा मात्स्यन्यायः प्रवर्तते ॥ ८.४१ ॥
स्वानि कर्माणि [कुर्वाणा दूरे सन्तो ऽपि मानवाः] ।
प्रिया भवन्ति लिकस्य स्वे स्वे कर्मण्य् अवस्थिताः ॥ ८.४२ ॥
भारुचिः ...{Loading}...
सामयिकधर्मानुपालनप्रशंएयम् (?), प्ररोचनार्था ॥ ८.४२ ॥
नोत्पादयेत् स्वयं कार्यं राजा नाप्य् अस्य पूरुषः ।
न चाप्रापितम् अ[न्येन ग्रसेद् अर्थं कथंचन] ॥ ८.४३ ॥
भारुचिः ...{Loading}...
नोत्पादयेत् स्वयम् उपजापेनार्थिनः कस्यचिद् उपघातस्य पौरजानपदस्य द्वेषाद् धनवतो वा लोभेन राजा, नापि तत्प्रकृतो व्यवहाराणां द्रष्टा राजब्राह्मणः । न चाप्रापितं व्यवहारेण तस्माद् अन्येन प्रकारेण ग्रसेद् अर्थं कथंचन । अथ वा पाठान्तरं व्याख्यायते, न च प्रापितं व्यवहाराद् अन्येन प्रकारेण ग्रसेद् अर्थं कथंचन । अथ वा पाठान्तरं व्याख्यायते, न च प्रापितं व्यवहाराद् अन्येन प्रकारेण ग्रसेद् अर्थं कथंचन । अन्यथा हि लोभाद् राज्ञः प्ररलोकोपघातश् च स्यात्, दृष्टश् च राज्यतन्त्रोपघातदोषः । अन्यस् त्व् आह नोत्पादयेत् स्वयं कार्यं राजा साक्षाद् अप्य् उपलभ्याकार्यकारिणम्; नापि तत्प्रकृतो राजपुरुषः, येन व्यवहारदर्शनम् एव जयपराजयोर्, इष्टेन तु राजेति नियमो राज्ञः उच्यते । अतो ऽस्य स्वयं दृष्ट्वाप्य् अतिक्रमकारिणम् उत्सृजतो न दोषो ऽस्ति । येन राज्ञा विनार्थिना स्वप्रत्ययेन व्यवहारे ऽवस्थाप्यमाने लोभरागद्वेषप्रतीतौ राज्यतन्त्रविरोधः प्रसज्यते । एवं च बृहस्पतिसमेनापि व्यवहारेणाप्राप्यमाणं न ग्राह्यम् । तथा ह्य् अस्य सर्वलोकानुरञ्जनाद् धर्मराजतन्त्रयशांसि प्रथन्ते । एवं च साक्षिप्रत्याख्यानेनाप्य् अनुमानप्रमाणशुद्धिम् आस्रित्य व्यवहारेषु तत्प्रधानः स्याद्, आन्वीक्षिक्यां चाभिविनीतः । तत्र दृष्टान्तम् आह पूर्वश्लोकार्धेन ॥ ८.४३ ॥
यथा नयत्य् असृक्पातैर् मृगस्य मृगयुः पदम् ।
नयेत् तथानुमानेन धर्मस्य नृपतिः पदम् ॥ ८.४४ ॥
भारुचिः ...{Loading}...
तथा च प्रत्यक्षागमाव् उत्सृज्यानुमानप्रधानो व्यवहारगतौ स्याद् इत्य् अनुमानप्रशंसैषा । येन [न] सर्वः लोकप्रत्यक्षो योग्यो ऽर्थः न्याय्या स्तुतिः या प्रत्यक्षागमप्रत्याख्यानेन वेदितव्या । तथा च शेषशेषिभावाद् अपुनरुक्तौ पूर्वोत्तरश्लोकौ । अधुना व्यवहारेषु परमार्थावधारणार्थम् इदं द्रष्टुः प्रसंख्यानम् उच्यते ॥ ८.४४ ॥
सत्यम् अर्थं च संपश्येद् आत्मानम् अथ साक्षिणम् ।
देशं कालं च रूपं च व्यवहारविधौ स्थितः ॥ ८.४५ ॥
भारुचिः ...{Loading}...
सत्यार्थयोः सारफल्गुतां पश्येद् आत्मानं साक्षिणं कृत्वा, तथात्मनो महति स्थाने स्वर्गादौ धर्मेणावस्थानम्, अवस्थानकालं च तस्य महान्तम् । अथ वा कालं च आयुषः, इहाल्पं जरसाभिभवाद्; आत्मनो रूपविपर्ययः अनेकव्याधियोगाच् च । अथ वा रूपं तनुमनस्तृप्तिकरं निरवद्यम् अप्रत्यनीकं निरतिशयसुखोपभोगं च स्वर्गवासिनाम् अभिसमीक्ष्यार्थत्यागेन सत्यं परिगृह्णीयात् स्वर्गप्राप्तिसाधनम् । अथ वा पाठान्तरम् अस्येदम् अन्यत्- “सत्यम् अर्थेषु” व्यवहारेषु संपश्येत् । न छलम् इति छलप्रतिषेधार्थो ऽयम् आरम्भयत्नः । शेषम् अन्यद् यथोक्तम् ॥ ८.४५ ॥
सद्भिर् आचरितं यत् स्याद् धार्मिकैश् च द्विजोत्तमैः ।
तद् देशकुलजातीनाम् अविरुद्धं प्रकल्पयेत् ॥ ८.४६ ॥
भारुचिः ...{Loading}...
सद्भिः प्रतिषिद्धवर्जकैः, धार्मिकैश् च विहितार्थानुष्ठातृभिः । अथ वा धार्मिकैः सद्भिः, सच्छब्दः सत्तार्थो न पुनरुक्तसामर्थ्याद् । उभयविशेषणैर् ब्राह्मणैः । अथ वा सद्भिर् अध्ययनविज्ञानवद्भिः, धार्मिकैश् च शास्त्रार्थस्थैर् यद् आचरितं स्यात्, तद् देशकुलजातीनां वेदस्मृतिशास्त्राविरुद्धं प्रकल्पयेत् । तथा च स्मृत्यन्तरं “शिष्ट्[आचारश् च शास्त्राविरुद्धं] प्रमाणम्” । न तु तद्विरोधि, शुकशारिकाभक्षणादि । एवं च यच् छिष्टैः कथंचित् कदाचित् चाचरितं गृह्यमाणार्थतया तद् राज्ञा निर्वर्त्यम् । अथ वा जातिजानपदादिधर्माणाम् उ[पदेशार्थो ऽयम् आर]म्भः । ते हि दृष्टार्था अपि सन्तः शास्त्राविरुद्धा एव राज्ञा कर्तव्याः । न तद्विरोधिनः । यतः “जातिजानपदं धर्मं” श्लोकशेष एवायम् । एवं चास्यापौनरुक्त्यं विज्ञेयम् ।
यत् त्व् आह सद्भिर् आचरितं यत् स्याद् इत्य् एतच् छ्लोकार्थम् । देशान्तरे धार्मिकैः सद्भिर् यद् आचर्यते अविरुद्धं श्रुत्या स्मृत्यन्तरेण वा तद् देशान्तरे ऽपि राजा [प्रकल्पयेत्, तद्देशस्थ्]आन् करायेत् (?) । तथा कुलैकदेशकालनियतम्, कर्णवेधादि यद् आचर्यते, तद् अपि कृत्स्ने कुले प्रकल्पयेत् । एवं विजातिनिमित्तो यो विवाहकाले ऽध्य्[आयादिः प्रवर्तितो भवति तम्] अपि सर्वस्यां जातौ प्रकल्पयेत् । राजावष्टम्भाच् चैषां धर्मानां प्रथनम् (?) अवस्थितिश् च यथा स्याद् इत्य् अवम् अर्थं राजधर्षूच्यते । कृतपरिभाषं व्यवहारदर्शनम् अधुना प्रस्तूयते ॥ ८.४६ ॥
अधर्मर्णार्थसिद्ध्यर्थम् उत्तमर्णेन चोदितः ।
दापयेद् धनिकस्यार्थम् अधमर्णविभावितम् ॥ ८.४७ ॥
भारुचिः ...{Loading}...
अधमः ऋणे अधर्मर्णः । को ऽसौ । गृहीता । कस्य हेतोः । येनासौ तद् ऋणं सोपचयं प्रतिदेयं परिगृह्णाति, अशक्यसंशोध्यं बहुक्लेशं च । दाता तूत्तमर्णः । येनासौ सोपचयं प्रत्यादेयं ददाति । अतश् चोत्तम ऋणे दीयमाने भवति । एवं च सति कालेन द्विगुणीभूते अद्विगुणीभूते वा यदाधमर्णो याच्यमानस् तद्धर्नं न ददाति तदा तस्य सिद्ध्यर्थम् उत्तमर्णेन चोदितो राजा धनिकस्यार्थं दापयेद् अधमर्णाद् अधमर्णं वा । सामान्यो ऽयं व्यवहारनिर्देशः ॥ ८.४७ ॥
यैर् यैर् उपायैर् अर्थं स्वं प्राप्नुयाद् उत्तमर्णिकः ।
तैस् तैर् उपायैः संगृह्य साधयेद् अधर्मर्णिकम् ॥ ८.४८ ॥
भारुचिः ...{Loading}...
प्रतिपन्नार्थम् अधमर्णं सान्त्वनादिभिर् उपायैर् उत्तमर्णचोदितो दापयेत् । नास्य तन्त्रोत्सादनं कुर्याद् इत्य् एवम् अर्थम् उपायनिर्देशः । धर्मः प्रथमः । एवं चोभयोर् अप्य् अविरोधाद् राज्ञानुग्रहो ऽनुष्ठितो भवति । ते च सामान्यत उक्ताः दापनोपाया विशेषतो निर्दिश्यन्ते ॥ ८.४८ ॥
धर्मेण व्यवहारेण छलेनाचरितेन च ।
प्रयुक्तं साधयेद् अर्थं पञ्चमेन बलेन च ॥ ८.४९ ॥
भारुचिः ...{Loading}...
धर्मेण साम्नानुद्वेजयन् शनैर् दापयेत्, शपथेन वा संप्रतिपत्तौ । तावद् एवम् अप्रतिपत्तौ व्यवहारेण वक्ष्यति; छलेन वानेकप्रकारेणापि विश्वास्य; आचरितेन वाभोजनगृहद्वारोपवेशनादिना लोकसमाचरितेन; बलेन वा स्वगृहबन्धनादिना मा भूद् अस्यार्थक्षयो राजसमावेशनेन । एवं च सत्य् अत्र नास्ति कश्चिद् धर्मातिक्रमो, यस्माद् अतः —
यः स्वयं साधयेद् अर्थम् उत्तमर्णो ऽधर्मर्णिकात् ।
न स राज्ञाभियोक्तव्यः स्वयं संसाधय्न धनम् ॥ ८.५० ॥
भारुचिः ...{Loading}...
स्वगृहसंरोधनादि च कुर्वन्न् अकार्यकारीति कृत्वा राज्ञा नाभियोक्तव्यः । उत्तमर्णप्रतिपन्नस् तावद् एवं यथासंभवम् उपायैर् दाप्यः । यः पुनर् इतरः तम् —
अर्थे ऽपव्ययमानं तु करणेन विभावितम् ।
दापयेद् धनिकस्यार्थं दण्डलेशं च शक्तितः ॥ ८.५१ ॥
भारुचिः ...{Loading}...
करणप्रतिपादितस्य दशभागदण्डं वक्ष्यति ।
> ऋणे देये प्रतिज्ञाते पञ्च्कं शतम् अर्हति ।
> अपह्नवे तद्द्विगुणं तन् मनोर् अनुशासनम् ॥ इति । (म्ध् ८.१३९)
इयं तु निर्धनस्य दशभागं दातुम् अशक्तस्य गुणवतो वा या काचिद् दण्डमात्रोच्यते इति व्यवस्थार्थम् । न तु निःस्व इत्य् उत्सृज्येत । करणं च यत् संदिग्धे वस्तुनि निर्णयसाधनम्, तत् पुनस् त्रिप्रकारम् । एवं चोशना पऋहति, “यत्र न स्यात् कृतं पत्रं करणं च न विद्यते, न चोपालम्भः पूर्वोक्तस् तत्र दैवी क्रिया भवेत्” । इदानीम् अर्थिप्रत्यर्थिनोर् व्य्वहरतोर् जयपराजयन्यायो वक्तव्य इति यत् इदं तन्निर्देशार्थं प्रकरणम् आरभ्यते ॥ ८.५१ ॥
अपह्नवे ऽधर्मर्णस्य देहीत्य् उक्तस्य संसदि ।
अभियोक्ता दिशेद् देशं करणं वा समुद्दिशेत् ॥ ८.५२ ॥
भारुचिः ...{Loading}...
इदानीम् अर्थिप्रत्यर्थिनोर् व्यवहरतोः सामान्ये जयपराजयकारणम् उपदिश्यते । गृहीतार्थ्आपह्नवे ऽधमर्णस्य कदा देहीत्य् उक्तस्य प्रयोक्त्रा प्राड्विवाकेन वा संसदि व्यवहारस्थाने न स्वैरकथासु, अभियोक्ता प्रयोक्ता दिशेद् दानाधिकरणदेशम् । अत्र च देशग्रहणं सामर्थ्यात् साक्ष्युपलक्षणार्थम् । एवं चार्थग्र[हणकाले विद्य्]अमानान् द्रष्टॄन् ब्रूयाद् इति यावत् । अतश् चैतद् एव । यस्माद् आह करणम् वा समुद्धिशेत् पत्रसंज्ञं व्यवहारस्थान एव । अतश् च गम्यते देशग्रहणं करणोप[लक्षणार्थम् इति] । गृहीतार्थप्रतिपादकम् इत्य्, अस्याप्य् अयम् एवार्थः पाठान्तरस्य । अथ वा अपह्नवे ऽधमर्णस्य व्याजेन देहीत्य् उक्तस्य संसदि प्रयोक्त्रा दत्तं [मया इत्य् उक्ते], इदानीम् अभियुक्तओ दिशेद् देशम् । देसग्रहणं च निदर्शनार्थत्वात् कालार्थम् अपि द्रष्टव्यम्, “कस्मिन् देशे काले त्वया मम प्रतिदत्त्ं धनम्” इति । करणं [वा समुद्दिशेत्] अग्रे प्रतिपादककरणं भवतो धनप्रतिपादने । अथ वा अभियुक्तो देशेद् देश्यम् इति देश्यं देष्टव्यम् । यथा गृहीतं कथयेत् । अन्यद् उभयत्र समानम् ॥ ८.५२ ॥
अदेश्यं [यश् च] दिशति निर्दिश्यापह्नुते च यः ।
यश् चाधरोत्तरान् अर्थान् विगीतान् नावबुद्ध्यते ॥ ८.५३ ॥
भारुचिः ...{Loading}...
अदेशं गृहीतुर् यश् च दिशति अदेश्यं वर्थवस्तु; निर्दिश्यापह्नुते च यः देशं देश्यं वा; यश् चाधरोत्तरान् अर्थान्, देशाद् अन्यान्य् अपि कालद्रव्यरूपसंख्यादीन् विगीतान् पूर्वोत्तरविरुद्धान् नावबुद्ध्यते, “हीनं तम् इति निर्दिशेत्” इति वक्ष्यत्य् अर्थिनम् इतरं वा ॥ ८.५३ ॥
अपदिश्यापदेश्यं च पुनर् यस् त्व् अपधावति ।
सम्यक् प्रणिहितं चार्थं पृष्टः सन् नाभिनन्दति ॥ ८.५४ ॥
भारुचिः ...{Loading}...
अपदिश्यापदेशं च, अपदेश्यं वा, पुनर् यस् त्व् अपधावति, अन्यथा ब्रवीति, “अनेन मम हिरण्यं गृहीतम्” इत्य् अपदिश्य पक्षान्तरे पुत्रं भृत्यं वा निर्दिशति, “कस्मिंश्चित् काले देशे वा व्यवहारस् त्वया कृतः” इति यदैवमादि पृच्छ्यते राज्ञा प्राङ्विवाकेन वा तत् सम्यक् पृष्टंनाभिनन्दति, मा भूद् इति विचारणया परमार्थदर्शनम् ॥ ८.५४ ॥
असंभाव्य् सक्षिभिश् च देशे संभाषते मिथः ।
निरुच्यमानं प्रश्नं च नेच्छेद् यश् चापि निष्पतेत् ॥ ८.५५ ॥
भारुचिः ...{Loading}...
सभातो ऽन्यत्रोपह्वर एकाकी साक्षिभिः सह संभाषते मिथः । असाव् अपि साक्षिभेदाशङ्कया जीयते । साक्षिणश् च पृच्छ्यमानान् नेच्छति, केनचिद् व्याजेन व्यवहारगतेनैव राजतन्त्रानुग्रहप्रदर्शनेन वा साक्षिप्रश्नकाले कार्यान्तरव्यासङ्गेन केनचिद् व्यवहारस्थानान् निष्पतिः, राजोपकारप्रदर्शनेन वेत्य् उक्तम्, यतः “तस्माद् अर्थात् स हीयते” इत्य् एवं वक्ष्यति ॥ ८.५५ ॥
ब्रूहीत्य् उक्तश् च न ब्रूयाद् उक्तं च न विभावयेत् ।
न च पूर्वापरं विद्यात् तस्माद् अर्थात् स हीयते ॥ ८.५६ ॥
भारुचिः ...{Loading}...
ब्रूहीत्य् उक्तश् च न ब्रूयात् प्रतिपादनकाले पराभव[भीत्या नोत्तरं ददाति । उक्तं च न वि]भावयेत् साक्षिभिः, अभावाद् वा तेषां विवक्षासम्यग्दर्शनाद् वा । न च पूर्वापरं विद्यात्- साक्षिगतम् अन्यत्र व्यवहारगतम् उक्तम् एव । तस्माद् अर्थात् स हीयते ॥ ८.५६ ॥
ज्ञातारः सन्ति [मेत्य् उक्त्वा दिशेत्य् उक्तो दिशेन् न यः ।
धर्मस्थः] कारणैर् एतैर् हीनं तम् इति निर्दिशेत् ॥ ८.५७ ॥
भारुचिः ...{Loading}...
सर्वथा साक्षिभ्यो ऽन्यैः प्रेतिज्ञातार्थप्रतिपादकैः कारणैर् अविभाव्यमाने वस्तुनि । साक्षिणः शरण् । । । [कार]णैर् यथोक्तैर् असत्प्रत्ययवचनैर् हीनम् इत्य् एव निर्दिशेत् । अर्थिनम् इतरं वा, उभयतः संभवात् पराजयहेतूनाम् । धर्मस्थः करणैर् एतैर् हीनं तम् इति पराजयकारणं विज्ञेयम् । इतिकरणं चैवंशब्दार्थे । तथा च व्याख्यातम् । इदानीम् अर्थिप्रत्यर्थिनोर् वचनकालनियमार्थम् इदम् आरभ्यते ॥ ८.५७ ॥
अभियोक्ता न चेद् ब्रूयाद् बध्यो दण्डश् च धर्मतः ।
न चेत् त्रिपक्षात् प्रब्रूयाद् धर्मं प्रति पराजितः ॥ ८.५८ ॥
भारुचिः ...{Loading}...
अभियोक्ता न चेद् ब्रूयात्, न लेखयेद् व्यवहारं राज्ञः स्वकार्यनिर्वेदनानन्तरम् एव । तत्रायं बन्धनार्हो दण्डार्हश् च स्यात् । गुणवद्व्यवहारवस्त्वपक्षया चैतयोर् नियोगविकल्पसमुच्चयाः प्रकल्प्याः । चशब्दाद् ब्(व्?)अधदण्डवाग्दण्डयोर् अपि यथोक्तसामर्थ्याद् । अत्र संहवो विज्ञेयो गुणान् अतिक्रमेण धर्मतः पराजितस्य सोपधत्वात् कारणान्तरतः, येन सुविहितार्थेन ह्य् अर्थिना भवितव्यम् । अथ केनचित् प्रमाकरणान्तरेणायम् अकुटिलो निरुपधत्वाद् विज्ञायते । अतो नायं ब् (व्?)अधदण्डादिः पदार्थः स्यात् । तथा चोक्तम्, धर्मं प्रतिपराजितस्य नान्यथा प्रत्यर्थिनः । इदानीम् अर्थिकालाद् अन्यः प्रतिवचनकालो निर्दिश्यते । न चेत् त्रिपक्षात् प्रब्रूयात् प्रतिब्रूयाद् इत्य् अर्थः । अतो बध्यो दण्डश् च धर्मतो, धर्मं प्रति पराजितः सन्, नेतरथेत्य् उक्तम् । अधुना जितस्यार्थिनः प्रत्यर्थिनो वा दण्डनियमार्थम् अयम् आरभ्यते श्लोकः ॥ ८.५८ ॥
यो यावन् निह्नुवीतार्थं मिथ्या यावति वा वदेत् । तौ नृपेण ह्य् अधर्मज्ञौ दाप्यौ तद्द्विगुणं दमम् ॥ ८.५९ ॥
भारुचिः ...{Loading}...
> यो यावन् निह्नुवीतार्थं मिथ्या यावति वा वदेत् ।
अर्थी प्रत्यर्थी वा ।
> तौ नृपेण ह्य् अधर्मज्ञौ दाप्यौ तद्द्विगुणं दमम् ॥ ८.५९ ॥
तस्माद् अपह्नुताद् अभियोगाच् च मिथ्याभियोक्तारं निह्नवकं च सोपदेशं [यत्] किंचित् प्रतिपद्यमानं तद्द्विगुणं दापयेत् । साक्ष्युपलक्षणार्थम् इदं प्रकरणम् अधुनोच्यते ॥ ८.५९ ॥
पृष्टो ऽपव्ययमानस् तु कृतावस्थो धनैषिणा ।
त्र्यपरैः साक्षिभिर् भाव्यो नृपब्राह्मणसंनिधौ ॥ ८.६० ॥
भारुचिः ...{Loading}...
एकस्य साक्षित्व प्रतिषेधाद् द्वयोर् अपि साक्षित्वं त्रित्वापवादाद् भविष्यति, अन् केवलं त्रयाणाम् ॥ ८.६० ॥
यादृशा धनिभिः कार्या व्यवहारेषु साक्षिणः ।
तादृशान् संप्रवक्ष्यामि यथा वाच्यम् ऋतं च तैः ॥ ८.६१ ॥
भारुचिः ...{Loading}...
धनव्यवहारे च साक्षिणां लक्षणम् उच्यमानम्, अन्येष्व् अपि व्यवहारेषु कार्यसामान्याद् अविरोधाच् चेत्थंभूता एव प्रतीयेरन् ॥ ८.६१ ॥
गृहिणः पुत्रिणो मौलाः क्षत्रविट्शूद्रयोनयः ।
अर्थयुक्ताः साक्ष्यम् अर्हन्ति न ये केचिद् अनापदि ॥ ८.६२ ॥
भारुचिः ...{Loading}...
श्रोत्रियस्य साक्षित्वे प्रतिषेधाद् ब्राह्मणस्याश्रोत्रियस्यास्ति साक्षित्वम् इति गम्यते । अन्त्यजस्य प्रतिषेधाद् धीनोत्कृष्टानाम् अपि शूद्राणां ग्रहणं प्रतीयते ॥ ८.६२ ॥
आप्ताः सर्वेषु वर्णेषु कार्याः कार्येषु साक्षिणः ।
सर्वकर्मविदो ऽलुब्धा विपरीतांस् तु वर्जयेत् ॥ ८.६३ ॥
भारुचिः ...{Loading}...
विपरीतांस् तु वर्जयेद् इत्य् अर्थसिद्धस्याप्य् अनुवादो वाक्यस्वाभाव्याद् आदरार्थः । सर्ववर्णग्रहणाच् चात्र ब्राह्मणस्यापि साक्षित्वं प्रतीयते । श्रोत्रियस्य प्रतिषेधाद् इतरस्य ॥ ८.६३ ॥
नार्थसंबन्धिनो नाप्ता न सहाया न वैरिणः ।
न दृष्टदोषाः कर्तव्याह् न व्याध्यार्ता न दूषिताः ॥ ८.६४ ॥
भारुचिः ...{Loading}...
> नार्थसंबन्धिनो नाप्ता न सहाया न वैरिणः ।
> न दृष्टदोषाः कर्तव्याह्
अन्यस्मिन् व्यवहारे कूटसाक्षित्वेन
> न व्याध्यार्ता न दूषिताः ॥ ८.६४ ॥
ते हि स्मृतिप्रमाणाद् उभयत्र न स्युः । निमित्तेन च प्रतिषेधाद् अनार्तो व्याधितो ऽपि स्यात् । पातकोपपातकाभिशंसा दूषितो ऽपि न स्यात् ॥ ८.६४ ॥
न साक्षी नृपतिः कार्यो न कारुककुशीलवौ ।
न श्रोत्रियो न लिङ्गस्थो न सङ्गेभ्यो विनिर्गतः ॥ ८.६५ ॥
भारुचिः ...{Loading}...
नृपतेः साक्षित्वप्रतिषेधः सत्यविभावने ऽपि तस्य पक्षपरिग्रहाशङ्कया अवचनेन च परिक्षयो जानपदानाम् । अथ वा समानदेशस्य राज्ञः अवश्यत्वात् प्रतिषेधः । अथ वा व्यवहारद्रष्टू राज्ञः साक्षित्वम् अयुक्तम् । कारुका नित्यव्यापृताः कुशीलवा नित्यप्रोषिताः । सर्वजनपदसंबन्धेन वा, तेषाम् अनृताशङ्कया तत्प्रत्यवायाद् [असाक्षित्वम्] । श्रोत्रियस्य धर्मोपरोधाशङ्कया तदानयनपीडाशङ्कया च । एतेन लिङ्गस्थो व्याख्यातः । अथ तु सोपधः सुतरां तस्य प्रतिषेधो युक्तो । नृ । । । त्रियत्वान् अन् यायापराभिः (?) ॥ ८.६५ ॥
नाध्यधीनो न वक्तव्यो न दस्युर् न विकर्मकृत् ।
न वृद्धो न शिशुर् नैको नान्त्यो न विकलेन्द्रियः ॥ ८.६६ ॥
भारुचिः ...{Loading}...
अध्यधीनो गर्भदासः, अत्यन्त[परतन्तत्वात् । अनुशास्या अ]पीति वक्तव्यो ऽङ्गव्यसनः कुष्ट्यादिश् च । स च जात्यन्तरे दोषाशङ्कया । एवं कर्मावशेषेणेति वक्ष्यति । दस्युर् दासह्- उपसादयति कर्माणि क्षपयतीति । [अपि च] दस्युस् तस्करः । न विकर्मकृत्, अधार्मिकत्वात् । वृद्धशिश्वोर् अतीताप्राप्तव्यवहारत्वात् प्रतिषेधः । एकस्य साक्षित्वप्रतिषेधस् “त्र्यपरैर्” इति सिद्धः, यतः [अस्मिन् श्लोके] एकस्यापि विशेषनिषेधात् पाक्षिकः पूर्वश्लोकः । अयं पुनः प्रतिषिद्धप्रतिप्रसवार्थः । [एकस्यै]व साक्षित्वम् “एको ऽलुब्धस् तु साक्षी स्यात्ऽ इति वक्ष्यति । अन्त्यः शूद्रः, तस्य च विधिप्रतिषेधात् पाक्षिकं साक्षित्वं गुणापेक्षया । अथ वा चण्डालो ऽन्त्यः । तथा वक्ष्यति “स्त्रीणां साक्ष्यं स्त्रियः कुर्युः” इति शूद्रान् अभिधार्य “अन्त्यानाम् अन्त्ययोनयः” इति । वर्णापसदमात्रं वा । विकलेन्द्रियो विसंज्ञत्वात् प्रतिषिध्यते ॥ ८.६६ ॥
नार्तो न मत्तो नोन्मत्तो न क्षुत्तृष्णोपपीडितः ।
न श्रमार्तो न कामार्तो न क्रुद्धो नापि तस्करः ॥ ८.६७ ॥
भारुचिः ...{Loading}...
आर्तो बन्धुविनाशादिना । एवं चोक्तव्याध्यार्ताद् अन्यो ऽयम् । मत्तोन्मत्तौ प्रसिद्दौ क्षुत्तृष्णोपपीडितश् च । क्रुद्धः क्रोधनत्वाद् अप्रत्ययवृत्तिः । तस्करो गोबलीवर्दन्यायेन विकर्मकृद्उपदेशाद् विज्ञेयः ॥ ८.६७ ॥
स्त्रीणां साक्ष्यं स्त्रियः कुर्युर् द्विजानां सदृशा द्विजाः ।
शूद्रश् च सन्तः शूद्राणाम् अन्त्यानाम् अन्त्ययोनयः ॥ ८.६८ ॥
भारुचिः ...{Loading}...
अर्थव्यवहारेषु स्वस्थवृत्तयः आत्मनो जात्यादिसादृश्येन साक्षिणः स्युः, अर्थप्रयोक्तारो ऽन्ये वार्थसंबन्धिनः । एवं च प्रदर्शनार्थत्वाद् अस्य तापसप्रव्रजितवणिक्कुशीलवगोपालकादीनां सादृश्येन साक्षिणः स्युः । तथा च ऽक्षत्रविट्शूद्रयोनयः” इति सामान्यनिर्देशो ऽयं द्रष्टव्यः । अर्थव्यवहारेभ्यस् त्व् अन्यत्र —
अनुभावी तु यः कश्चित् कुर्यात् साक्ष्यं विवादिनाम् ।
अन्तर्वेश्मन्य् अरण्ये वा शरीरस्याइव चात्यये ॥ ८.६९ ॥
भारुचिः ...{Loading}...
अतिपातिनि कार्ये ऽन्तर्वेश्मादिष्व् असदृशो ऽपि साक्ष्यं कुर्यात् । तथा च सति —
स्त्रियो ऽप्य् असंभवे कार्यं बालेन स्थविरेण वा ।
शिष्येण बन्धुना वापि दासेन भृतकेन वा ॥ ८.७० ॥
भारुचिः ...{Loading}...
सादृश्यापवादार्थः एवं च सति यथा स्त्र्यादीनां सादृश्याभावे ऽप्य् असदृशा एव क्वचिद् भवन्ति, एवं बालादीनाम् अपि क्वचिद् विवादे साक्षित्वं विज्ञेयं प्रतिषिद्धानाम् अपि सताम् । उक्तेभ्यश् च बालादिभ्यो ऽत्र श्लोके ये ऽप्य् अनुक्ताः प्रतिषिद्धाश् च तेषाम् अपि प्रतिप्रसवो निर्देशनार्थत्वाद् बालानां विज्ञेयः । ननु च कारणतः प्रतिषिद्धानां बालादीनां साक्षित्वे पुनस् तेषाम् उपदेशो न न्याय्यः । प्रतिषेधकारणस्यावस्थितत्वाद् इति ॥ ८.७० ॥
यत् इदम् अनुमानं तद् विशुद्ध्यर्थम् आह-
बालवृद्धातुराणां च साक्ष्येषु वदतां मृषा ।
जानीयाद् अस्थिरां वाचम् उत्सिक्तमनसां तथा ॥ ८.७१ ॥
भारुचिः ...{Loading}...
केन । सत्यानृतवचनविभागार्थेनानुमानेन, उक्तं च “बाह्यैर् विभावयेल् लिङ्गैः” इत्यादि, “यथा नयत्य् असृक्पातैः” इति च । एवं चानुमानोपदेश इदमर्थो भवति । यदि यथोक्तानां साक्षिणाम् असंभवे साहसादिषु प्रतिषिद्धा अपि साक्षिणो भवन्त्य् अनुमानेन विशोध्यन्ते, अप्रतिषिद्धाश् च कदाचित् । एवं च सति —
साहसेषु च सर्वेषु स्तेयसंग्रहणेषु च ।
वाग्दण्डयोश् च पारुष्ये न परीक्षेत साक्षिणः ॥ ८.७२ ॥
भारुचिः ...{Loading}...
वस्त्रपाटनोल्कादहनकेशछेदनादिष्व् अप्रत्ययकारी पुरुषः क्रोधचापलप्रभवेषु । स्तेयादीनि प्रसिद्धानि । एवमादिषु न परीक्षेत साक्षिणम्, “गृहिणः पुत्रिणः” इत्य् एवमादिना लक्षणेन । अर्थसंबन्धादिभिस् तु सामर्थ्यात् परीक्ष्या एव “अनुमानेन” । प्रतिषिद्धा अपि सन्तः परीक्ष्या एव साक्षिणो ऽनुमानतः । एवं चानुमानोपदेष्(श्?)ओ ऽत्रार्थवान् भवतीत्य् उक्तः । यत्र पुनः साक्षिणां समगुणानां विप्रतिपत्तिः, तत्र —
बहुत्वं प्रतिगृह्णीयात् साक्षिद्वैधे नराधिपः ।
समेषु तु गुणोत्कृष्टान् गुणसाम्ये द्विजोत्तमान् ॥ ८.७३ ॥
भारुचिः ...{Loading}...
विधिविप्रतिपत्ताव् एष एव न्यायः । अनुमाने यथोक्ते, क्वचिच् च शपथाद्य् अपि वक्ष्यति- “असाक्षिकेषु त्व् अर्थेषु । । । शपथेनापि लम्भयेत्” इति । अपि च “जागर्ति भगवान् धर्मः” । स एव साम्ये ऽपि सति केनचित् कारणेनात्मानं दर्शयति । द्विजोत्तमान् इति चेदं लिङ्गं ब्राह्मणानां साक्षित्वे तथा चोक्तम् “आप्ताः सर्वेषु वर्णेषु” इति । न चैतद् उक्तवर्णानुवादार्थं सर्वग्रहणम् । किं तर्हि ब्राह्मणवर्णावबोधार्थम् । तथा च कृत्वैवमादीनि लिङ्गानि श्रोत्रियप्रतिषेधस्य ॥ ८.७३ ॥
समक्षदर्शनात् साक्ष्यं श्रवणाच् चैव सिध्यति ।
तत्र सत्यं ब्रुवन् साक्षी धर्मार्थाभ्यां न हीयते ॥ ८.७४ ॥
भारुचिः ...{Loading}...
दर्शनश्रवणाभ्यां साक्षित्वसिद्धिः, न तु निबन्धनतः । अतो ऽन्तरेणापि निबन्धनं साक्षी स्याद् एव । एतावांस् तु साक्षिणो नियमः । निबन्धेनापि पृष्टेन सता सत्यं वक्तव्यम् इति । येन —
साक्षी दृष्टश्रुताद् अन्यद् विब्रुवन्न् आर्यसंसदि ।
अवाङ् नरकम् एवैति प्रेत्य स्वर्गाच् च् हीयते ॥ ८.७५ ॥
भारुचिः ...{Loading}...
न केवलं धर्मानुत्पत्त्या स्वर्गाद् धीयत इत्य् उक्तम् । अयं च पूर्वश्लोकशेष एवार्थवादः, तथा च संबन्धेन दर्शित एवायम् अर्थः । यतश् च दर्शनश्रवणाभ्यां साक्षित्वसिद्धिः, न निबन्धात् ॥ ८.७५ ॥
यत्रानिबद्धो ऽपीक्षेत शृणुयाद् वाप् किंचन ।
पृष्टस् तत्रापि तद् ब्रूयाद् यथादृष्टं यथाश्रुतम् ॥ ८.७६ ॥
भारुचिः ...{Loading}...
उपसंहारार्थः श्लोकः ॥ ८.७६ ॥
एको ऽलुब्धस् तु साक्षी स्याद् भव्यः शुच्यो ऽपि न स्त्रियः।
स्त्रीबुद्धेर् अस्थिरत्वात् तु दोषैश् चान्ये ऽपि ये वृताः ॥ ८.७७ ॥
भारुचिः ...{Loading}...
एकस्य सत्य् अपि प्रतिषेधे गुणातिशयाद् अलुब्धस्याभ्यनुज्ञार्थम् इदम् । अपि चालुब्धः, अपीत्य् उभयत्रापि बोद्धव्यः । शुच्यो ऽपीत्य्- अयम् एव वालुब्धो ऽप्य् एको न साक्षी स्यात् । उत्तरविवषार्थश् चायम् आरम्भः । एवं स्त्रियो बह्व्यः शुच्यो ऽपि न स्युः, यथैको ऽलुब्धो ऽपि, तासां हि बुद्धेर् धर्मार्[थाभ्याम् अस्थिर]संबन्धः । व्याख्यानं शास्त्रविरोधान् नात्पेशलम्, यत् एकस्य लोभात् प्रतिषेधाद् वैतयोर् अलुब्धयोर् अभ्यनुज्ञानार्थम् इदम्, अन्यत्रापि च प्रतिषे[धस्य पुरुषस्त्री]तुल्यत्वात् । एवं च सति बह्व्यः शुच्यो ऽप्य् अलुब्धा अपि प्रकरणात् स्त्रियो न स्युः, स्त्रीबुद्धेर् अस्थिरत्वाद् इत्य् उक्तम् । दोषैर् नयैर् अपि ये वृताः पुरुषा अति[रिकत्वत् अलुब्धा अपि प्रतिषिध्यन्ते], किं पुनर् अन्यत्र । पुनर्वचनं चास्य यदर्थं तद् उक्तम् एवात्र ॥ ८.७७ ॥
स्वभावेनैव यद् ब्रूयुस् तद् ग्राह्यं व्यावहारिकम् ।
अतो यद् अन्यद् विब्रूयुर् धर्मार्थं तद् अपा[र्थकम् ॥ ८.७८ ॥
भारुचिः ...{Loading}...
स्वभावेनेति सभायां] ग्रामिणाम् अन्येषां चाप्रागल्भ्याद् अप्रतिभानकम्पादयो जायन्ते । तेषां व्यावहारिकं ब्रुवतां स्वभाव उपलक्षयितव्यो ऽनुमानतः पुरुषशीलतो वा, किम् एषाम् अमी मिथ्यावचनकृताः कम्पादयः उताप्रागल्भ्याद् अनुचितमहाजनसमवायाद् वा । येन ह्य् अनुमानागम्यं कुंचिन् नास्ति । एवं धृष्टप्रागल्भ्यानाम् अपि स्वभावो ऽवधारणीयः ॥ ८.७८ ॥
सभान्तः साक्षिणः सर्वान् अर्थिप्रत्यर्थिसंनिधौ ।
प्राद्विवाको ऽनुयुञ्जीत विधिनानेन सान्त्वयन् ॥ ८.७९ ॥
भारुचिः ...{Loading}...
अधुना साक्षिणां सत्यवचनार्थो योगो ऽत ऊर्ध्वं वर्तिष्यते । प्राङ्विवाको ब्राह्मणो राजाधिकृतो विडान् न राजा सामर्थ्यात् । तथा च वक्ष्यति “अमात्यः प्राड्विवाको वा यत् कुर्युः कार्यं अन्यथा” इति । “क्विब्वचिप्रच्छ्यायतस्तुकटप्रुजुश्रीणां दीर्घो ऽप्रसारणं च” इत्य् अनेन । पृच्छतीति प्राट्, पृष्ट्वा विषेषेण धर्मसंकटेषु विशिष्टं वा वक्ष्यति विवाकः, प्राट् चासौ विवाकश् चेति प्राड्विवाकः । पृच्छति चासौ विविनक्ति चेति यावत् एष प्राड्विवाको धर्मज्ञो ब्राह्मणः । साक्षिणो ऽनुयुञ्जीत विधिनानेन वक्ष्यमाणेन संत्वयन्न् अपारुषम् । किं कारणम्, प्रकृतिस्थो यथा सत्यं ब्रूयात् साक्षी ॥ ८.७९ ॥
यद् द्वयोर् अनयोर् वित्तं कार्ये ऽस्मिंश् चेष्टितं मिथः ।
तद् ब्रूत सर्वं सत्येन युष्माकं ह्य् अत्र साक्षिता ॥ ८.८० ॥
भारुचिः ...{Loading}...
एवं सत्यवचनार्थो ऽयम् अधुनार्थवादः प्रक्रियते ॥ ८.८० ॥
सत्यं साक्ष्ये ब्रुवन् साक्षी लोकान् आप्नोति पुष्कलान् ।
इह चानुत्तमां कीर्तिं वाग् ह्य् एषा ब्रह्मपूजिता ॥ ८.८१ ॥
भारुचिः ...{Loading}...
दृष्टादृष्टफलसंबन्धेनेयं स्तुतिः सत्यवचनार्था । न च केवलं सत्यस्यावचनाद् एतद् यथोक्तं न भवति, किं तर्हि प्रत्यवायश् चापरः । तथा प्रदर्शयति ॥ ८.८१ ॥
साक्ष्ये ऽनृतं वदन् पाशैर् बध्यते वारुणैर् नरः ।
विवशः शतम् आजातीस् तस्मात् साक्ष्ये वदेद् ऋतम् ॥ ८.८२ ॥
भारुचिः ...{Loading}...
यस्मात् —
सत्येन पूज्यते साक्षी धर्मः सत्येन वर्धते ।
तस्मात् सत्यं हि वक्तव्यं सर्ववर्णेषु साक्षिभिः ॥ ८.८३ ॥
भारुचिः ...{Loading}...
येन —
आत्माइव ह्य् आत्मनः साक्षी गतिर् आत्मा तथात्मनः । मावमंस्थाः स्वम् आत्मानं नृणां साक्षिणम् उत्तमम् ॥ ८.८४ ॥
मन्यते वै पापकृतो न कश्चित् पश्यतीति नः । तांश् च देवाः प्रपश्यन्ति स्वश् चैवान्तरपूरुषः ॥ ८.८५ ॥
भारुचिः ...{Loading}...
> आत्माइव ह्य् आत्मनः साक्षी गतिर् आत्मा तथात्मनः ।
एतस्मात् कारणात् —
> मावमंस्थाः स्वम् आत्मानं नृणां साक्षिणम् उत्तमम् ॥ ८.८४ ॥
> मन्यते वै पापकृतो न कश्चित् पश्यतीति नः ।
इह प्रकरणाद् अनृताभिधायिनः पापकृत इत्य् उच्यन्ते । सामर्थ्यात् तु सर्वस्य व्यतिक्रमकारिण इदं ग्रहणम् —
> तांश् च देवाः प्रपश्यन्ति स्वश् चैवान्तरपूरुषः ॥ ८.८५ ॥
द्यौर् भूमिर् आपो हृदयं चन्द्रार्काग्नियामानिलाः ।
रात्रिः संध्ये च धर्मश् च वृत्तज्ञाः सर्वदेहिनाम् ॥ ८.८६ ॥
भारुचिः ...{Loading}...
देवास् ते इत्य् उच्यन्ते — अन्तरपूरुषः स्वक्षेत्रज्ञो ऽन्तर्यामी परमात्मा । एवं च न रहस्य् अपि पापं वर्तयेद् न को ऽपि । यतश् चैतद् एवम् । अतस् तेषां नियम उच्यते
देवब्राह्मणसांनिध्ये साक्ष्यं पृच्छेद् ऋतं द्विजाः ।
उदङ्मुखान् प्राङ्मुखान् वा पूर्वाह्णे वै शुचिः शुचीन् ॥ ८.८७ ॥
भारुचिः ...{Loading}...
यथा च ते प्रष्टव्यास् तथेदं ब्राहणादि(?)जात्याश्रयनियमकारि शास्त्रम् उच्यते ॥ ८.८७ ॥
ब्रूहीति ब्राह्मणं पृच्छेत् सत्यं ब्रूहीति पार्थिवम् ।
गोबीजकाञ्चनैर् वैश्यं शूद्रम् एभिस् तु पातकैः ॥ ८.८८ ॥
भारुचिः ...{Loading}...
पातकार्था अनुयोगाः पातकशब्देनोच्यन्ते, मिथ्यावचनप्रतिषेधार्थाः । इदं चापरं ब्राह्मणस्य साक्षित्वेन निदर्शनम् ॥ ८.८८ ॥
ब्रह्मघ्नो ये स्मृता लोका ये च स्त्रीबालघातिनः ।
मित्रद्रुहः कृतघ्नस्य ते ते स्युर् ब्रुवतो मृषा ॥ ८.८९ ॥
जन्मप्रभृति यत् किंचित् पुण्यं भद्र त्वया कृतम् ।
तत् ते सर्वं शुनो गच्छेद् यदि ब्रूयास् त्वम् अन्यथा ॥ ८.९० ॥
एको ऽहम् अस्मीत्य् आत्मानं यत् त्वं कल्याण मन्यसे ।
नित्यं स्थितस् ते हृद्य् एष पुण्यपापेक्षिता मुनिः ॥ ८.९१ ॥
यमो वैवस्वतो देवो यस् तवैषा हृदि स्थितः ।
तेन चेद् अविवादस् ते मा गङ्गां मा कुरून् गमः ॥ ८.९२ ॥
नग्नो मुण्डः कपालेन भिक्षार्थी क्षुत्पिपासितः ।
सीनः शत्रुगृहं गच्छेद् यः साक्ष्यम् अनृतं वदेत् ॥ ८.९३ ॥
अवाक्शिरा[स् तमस्य् अन्धे किल्बिषी नरकं व्रजेत् ।
यः प्रश्नं वि]तथं ब्रूयात् पृष्टः सन् धर्मनिश्चये ॥ ८.९४ ॥
अन्धो मत्स्यान् इवाश्नाति कष्टकैः स नरः सह ।
यो भाषते ऽर्थवैकल्यम् अप्रत्यक्षं सभां गतः । ८.९५ ॥
यस्य विद्वान् हि वदतः [क्षेत्रज्ञो नाभिशङ्कते ।
तस्मान् न देवाः श्रे]यांसं लोके ऽन्यं पुरुषं विदुः ॥ ८.९६ ॥
भारुचिः ...{Loading}...
अष्टौ श्लोकाः शूद्रशपथानुयोगार्थाः । एवम् एभिर् अनेकैर् वाक्यार्थप्रकारैः सत्यवचनार्थाः संप्[अद्यते] । यथा ब्राह्मणादिवर्णानुयोगानाम् ॥ ८.८९–९६ ॥
यावतो बान्धवो यस्मिन् हन्ति साक्ष्ये ऽनृतं वदन् ।
तावतः संख्यया तस्मिञ् छृणु सौम्यानुपूर्वशः ॥ ८.९७ ॥
भारुचिः ...{Loading}...
कूटसाक्षिणाम् एतत् तामि (?) कालपरिमाणार्थम् अधुना प्रकरणं आरभ्यते सर्वजातिसाक्ष्यार्थं सामर्थ्यात्, न केवलं प्रकरणाच् छूद्राणाम् एव । अतश् च चित्तप्रणिधानार्थं सर्वेषाम् एवायं श्लोक आरब्धः । कथं नाम । चित्तप्रणिधानाः साक्षिणः श्रुत्वैतन्मित्यावचनप्रत्यवायम् अतिमहन्तं निवर्तेरन् मिथ्यावचनाद् इति ॥ ८.९७ ॥
पञ्च पश्वनृते हन्ति दश् हन्ति गवानृते ।
शतम् अश्वानृते हन्ति सहस्रं पुरुषानृते ॥ ९.९८ ॥
भारुचिः ...{Loading}...
पूर्वापरान् । यद् अयम् आह —
हन्ति जातान् अजातांश् च हिरण्यार्थे ऽनृतं वदन् ।
सर्वं भूम्यनृते हन्ति मा स्म भूम्यनृतं वदीः ॥ ९.९९ ॥
भारुचिः ...{Loading}...
नन्व् इयं श्रुतिर् विरुध्यते । “न मां मर्त्यः कश्चन दातुम् अर्हति” इति । अतश् च स्वामित्वाभावः । तदभावाद् व्यवहाराभावः । ततश् च वादाभावे तदनृतदोषाभावः साक्षिणाम् इति । तच् च न । अर्थापरिज्ञानात् । न हि कश्चित् समर्थः कृत्स्नाम् दातुं विजयस्याभावाद् इत्य् एषो ऽत्रार्थः, दानापहारमिथ्यावचनेषु गुणदोषप्रदर्शनशास्त्रारम्भसामर्थ्यात् । तथा च व्यासादयः- “षष्टिवर्षसहस्राणि स्वर्गे तिष्ठति भूमिदः, आच्छेत्ता चानुमन्ता च तान्य् एव नरके वसेत्” इति । भूमिछलार्थत्वेव दानापहारादय इत् केचित् । तच् चैतद् विचारणीयम् । मीमांसादर्शणं तु “न भूमिः स्यात् सर्वान् प्रत्य् अविशिष्टत्वात्” इति सर्वान् दक्षिणार्थान् गुणविधीन् प्रत्य् अविशिष्टत्वात् । दक्षिणाद्रव्येषु हि गुणः श्रूयते “अन्तरेण सदः पत्नीशाले दक्षिणां नयन्ति” इति । स चायं गुणविधिर् अत्यन्ताशक्यः पृथिव्याम् । ततो ऽस्माद् अन्यत्राप्य् अपहारदोषः स्यात् । एवं च तद्विवादे ऽनृतदोषः साक्षिणां सिद्धः । सर्वस्य च कार्यस्य पृथिवीकारणत्वात् तद् अनृते सर्वं हन्तीत्य् उच्यते । एवं च पुरुषाभिनयेन स्मृतिः सादरं वारयति मा स्म भूम्यन्र्तं वदिः ॥ ९.९९ ॥
अप्सु भूमिवद् इत्य् आहुः स्त्रीणां भोगे च मैथुने ।
अब्जेषु चैव रत्नेषु सर्वेष्व् अश्ममयेषु च ॥ ८.१०० ॥
पशुवत् क्षौद्रघृतयोर् यानेषु च तथाश्ववत् ।
गोवद् रजतवस्त्रेषु धान्ये ब्रह्मणि (?) चैव हि ॥ ८.१००.१ ॥
एवं दोषान् अवेक्ष्य त्वं सर्वान् अन्र्तभाषणे ।
यथा श्रुतं यथा दृष्टं सत्यम् एवाञ्जसा वद ॥ ८.१०२ ॥
भारुचिः ...{Loading}...
अमी पञ्च श्लोकाः सर्वसाक्षिसाधारणाः, अमृतवचनप्रतिषेधविद्वेषणार्था अर्थवादाः, न फलविधयः । अकृताभ्यागमकृतविप्रणाशदोषप्रसङ्गात् । एवं च प्रतिपुरुषं शास्त्राधिकारो हीयेत । आनर्थक्यं चास्य स्यात् । येन स्वकृतकर्मफलभोगः शास्त्रस्यार्थवत्त्वम् । अतः शास्त्रविरोधान् न्यायविरोधाच् च प्रतिषेधार्थवादा एवैते विज्ञेयाः ॥ ८.१००–१०२ ॥
गोरक्षकान् वाणिजकांस् तथा कार्तुकुशीलवान् ।
प्रेष्यान् वार्धुषिकांश् चैव विप्राञ् शूद्रवद् आचरेत् ॥ ८.१०३ ॥
भारुचिः ...{Loading}...
प्रकरणाद् ब्राह्मणशपथानुयोगापवादः । “शूद्रम् एभिस् तु पातकैः” इति वचनात् । एषां गोरक्षकादीनां ब्राःमणानाम् एव सतां शूद्रशपथानुयोगः । एवं च नान्यत्र प्रयोजने शूद्रवद् आचरणम् । इतरथा प्रकरणम् उपरुध्येत ॥ ८.१०३ ॥
तद् वदन् धर्मतो ऽर्थेषु जानन्न् अप्य् अन्यथा नरः ।
न स्वर्गाच् च्यवते लोकाद् दैवीं वाचं वदन्ति ताम् ॥ ८.१०४ ॥
भारुचिः ...{Loading}...
प्राङ्(ड्?)विवाकस् तच् छूद्रानुयोगवचनम् अन्यथा गोरक्षकादिषु ब्राह्मणेषु वदन् धर्मतो ऽर्थेषु व्यवहारेषु, ये साक्षिणः तेषु जानन्न् अपि यथावर्णम् अनुयोगं नाधर्मेण युज्यते । येन दैवीं शास्त्रवतीम् वाचं वदन्ति तां स्मृत्वा मन्वादयः “विप्रान् शूद्रवद् आचरेत्” इति । अस्यानन्तरविधेः स्तुत्यर्थवादः ॥ ८.१०४ ॥
शूद्रविट्क्षत्रपिप्राणां [यत्रर्तोक्तौ भवेद् वधः ।
तत्र] वक्तव्यम् अनृतं तद् धि तत्र विशिष्यते ॥ ८.१०५ ॥
भारुचिः ...{Loading}...
सत्यवचनापवादो ऽयं कारणतः आदरार्थं वेदम् । शूद्रादीनां प्रातिलोम्येन ग्रहणम् अनृताभ्यनुज्ञानार्थम् । अ[नृतवचन]निवृत्त्यर्थात् तु युक्तावलम्बम् इदम् । एवं तर्हि सत्यप्रतिषेध एवात्र वक्तव्यः, नानृताभ्यनुज्ञेति । न त्व् एवमर्थानृताभ्यनुज्ञा कृतैव भवति । [न कदाचिद् वक्त]व्यतास्येति । ननु च पुरुषार्थकारित्वाच् छास्त्रस्य प्रत्यवायार्थ उपदेशो न न्याय्य इति । पुरुषार्थकारित्वाद् एवास्याय्म् उपदेशो युक्तः, [क्वचिद् अनृतवचनस्य] पुरुषानुग्रहधर्मापेक्षया च । तथा च सति धार्मिकपुरुषविषयम् इदम् अनृताभ्यनुज्ञानम् उपदेशसामर्थ्याद् विज्ञायते । तथा च स्मृत्यन्तरे “नानृतवचने दोषो जीवनं चेत् तद् अधीनम्, न तु पापीयसो जीवनम्” इति । अतश् च महाप्रत्यवायपरिहारार्थम् [एष] आश्रितो ऽनृतवचनव्यतिक्रमः । तस्य प्रायश्चित्तार्थम् इदम् आरभ्यते ॥ ८.१०५ ॥
वाग्दैवत्यैस् तु चरुभिर् यजेरंस् ते सर्स्वतीम् ।
अनृतस्याइनसस् तस्य कुर्वाणा निष्कृतिं पराम् ॥ ८.१०६ ॥
भारुचिः ...{Loading}...
सरस्वतीं यजेरन्न् “अहं रुद्रेभिर् वसुभिश् चरामि” इत्य् अनेनाष्टर्चेन सूक्तेन । त्रिर् अभ्यासश् चरोः । अनाश्रितबहुत्वविशेषाच् चोदनाया, यथा “वसन्ताय कपिञ्जलान् आलभते” इति ॥ ८.१०६ ॥
कूष्माण्डैर् वापि जुहुयाद् घृतम् अग्नौ यथाविधि ।
उद् इत्य् ऋचा वा वारुण्या तृचेनाब्दैवतेन वा ॥ ८.१०७ ॥
भारुचिः ...{Loading}...
अग्निग्रहणं जुहोतिसिद्धम् अप्य् अग्निविशेषार्थं विज्ञेयम् । इदं च पूर्वप्रायश्चित्तवैकल्पिकम् । उत्तरे च —
त्रिपक्षाद् अब्रुवन् साक्ष्यम् ऋणादिषु नरो ऽगदः ।
तद् ऋणं प्राप्नुयात् सर्वं दशबन्धं च तत्त्वतः ॥ ८.१०८ ॥
भारुचिः ...{Loading}...
यावतो द्रव्यस्याभियोगः तद्दशभागः साक्षिणं दापयेत् । येनारोगः सन् त्रिपक्षाद् अपि साक्षी नान्यतरं ब्रवीति । दण्डयित्वापि तं साक्षिणं व्यवहारदर्शनम् अनुतिष्ठेत्, एवम् अपरिसमाप्तत्वाद् अस्येत् । ऋणव्यवहाराद् अन्यत्र साक्षी कार्यद्रव्यापेक्षया दण्डयितव्यः ॥ ८.१०८ ॥
यस्य दृश्येत् सप्ताहाद् उक्तवाक्यस्य साक्षिणः ।
रोगो ऽग्निर् ज्ञातिमरणं दाप्यो दमम् ऋणं च सः ॥ ८.१०९ ॥
भारुचिः ...{Loading}...
अर्वाक् सप्ताहात् साक्षी कुटुम्बरोगादिदर्शनेन मिथ्यावचनस् साक्षाद् एव प्रतिपादितो दण्डयितव्यः । यावन्तं तदनृतेन दापितो वा दण्डितश् च । ऋणव्यवहारार्थं त्व् अन्यत्र शास्त्रसामर्थ्यापेक्षया । एवम् उभयं मिथ्यावचनेषु साक्षिषु प्रकल्प्यम् । असाक्षिकेषु तावद् व्यवहारेष्व् एवम् अन्मानसाक्षिनिमित्तो निर्णयः ॥ ८.१०९ ॥
असाक्षिकेषु त्व् अर्थेषु मिथो विवदमानयोः ।
अविन्दंस् तत्त्वतः सत्यं शपथेनापि लम्भयेत् ॥ ८.११० ॥
भारुचिः ...{Loading}...
सत्यप्रशंसार्थं पुराकल्पार्थवाद उदाह्रियते विहितानुष्ठानप्ररोचनाय ॥ ८.११० ॥
महर्षिभिश् च देवैश् च कार्यार्थं शपथाः कृताः ।
वसिष्ठश् चापि शपथं शेपे पैजवने नृपे ॥ ८.१११ ॥
भारुचिः ...{Loading}...
अप्य् अन्ये महर्षयः । तथा च व्यासो “यस् ते हरति पुष्करम्” इति शपथाख्यानकं प्रोवाच । एवं च सत्यधर्मपरिहारापेक्षया —
न वृथा शपथं कुर्याद् अल्पे ऽप्य् अर्थे नरो बुधः ।
वृथा हि शपथं कुर्वन् प्रेत्य चेह च नश्यति ॥ ८.११२ ॥
भारुचिः ...{Loading}...
इयं च मिथ्याशपथनिन्दा प्रत्यवायदर्शनेन प्रतिषिद्धवर्जनार्थापि सती सत्यशपथप्रशंसार्था सम्पद्यत इत्य् अविपर्ययः । सामर्थ्याद् अस्य मिथ्याशपथस्य सर्वत्र प्रत्यवायहेतुत्वे प्राप्ते; यत्र तन् नेष्यते प्रत्यवायहेतुत्वम् अस्य, तत्रेदं तद् अपवादार्थम् आरभ्यते ॥ ८.११२ ॥
कामिनीषु विवाहेषु गवां भक्ते तथेन्धने ।
ब्राह्मणाभ्युपपत्तौ च शपथे नास्ति पातकम् ॥ ८.११३ ॥
भारुचिः ...{Loading}...
कामिन्या कामतन्त्राभियोगे यः प्रतिज्ञातार्थसम्पादनार्थमिथ्याशपथः क्रियते तत्रे नास्ति पातकधर्म इत्य् अर्थः । एवं विवाहे कृताकृतसंदेहे अभियोगे वास्य कर्माङ्गभूतानां च गवां भक्तस्य हरणाभियोगेन गोमात्रस्य व्यवस्थासामर्थ्यात् । एवं च शास्त्रवद् अग्नीन्धनापहरणाभियोगे मिथ्याशपथे नास्त्य् अधर्मः, येन शास्त्रलक्षणाव् एव धर्माधर्मौ । अन्येन तु कारणेन गोभक्तेन्धनयोर् विभावितस्य सतो दण्डो यथाशास्त्रं भवेत् । ब्राह्मणस्य च तत्र शरीरलक्षणाभ्युपपत्ताव् एवम् एव स्यात् । न सर्वस्याइवाभ्यवपत्तिः, न्यायकारिणः कर्तव्या । ब्राह्मणा[द् अन्यस्य न न्याय]कारिणो ऽप्य् आरम्भसामर्थ्याद् विज्ञायते । स्थिताम् सत्यशपथक्रियाम् इदानींनिर्दिश्यन्ते वर्णविशेषसंनियोगेन शपथाः स्वरूपतः ॥ ८.११३ ॥
सत्येन शापेद् विप्रं क्षत्रियं वाहनायुधैः ।
[गोबीजकाञ्चनैर् वैश्यं शूद्रं सर्वैस् तु पा]तकैः ॥ ८.११४ ॥
भारुचिः ...{Loading}...
असाक्षिके तत्त्वाभिगमार्थं ब्राह्मणादीन् वर्णान् अभियुक्तान् यथोपदेशं शपथैर् एभिः शापयेत् ॥ ८.११४ ॥
अग्निं वाहारयेद् एन[म् अप्सु चैनंनिमज्जयेत् ।
पुत्रदारस्य वाप्य् एनं शिरांसि स्पर्श]येत् पृथक् ॥ ८.११५ ॥
भारुचिः ...{Loading}...
शूद्रस्य वृत्तापेक्षयाग्न्यादयो ऽपि कल्प्येरन् । शपथैर् एवम् । तत्राग्निहरणे सप्तपदाश्वत्थपत्रैर् इयद्भिर् व्यवधानम् इति [स्मृत्यन्तरो]पेक्षयैतत् स्यात्; इहावचनं च गुणविधेः, स्मृतिपारम्पर्याविच्छेदात् । तथाप्सु निमज्जने कालः ॥ ८.११५ ॥
यम् इद्धो न दहत्य् अग्निर् नापो (?) नोन्मज्जयन्ति च ।
न चार्तिम् ऋच्छति क्षिप्रं स ज्ञेयः शपथे शुचिः ॥ ८.११६ ॥
भारुचिः ...{Loading}...
दहनोन्मज्जनाभ्याम् आर्तिः पृथग् उपदेशसामर्थ्यात् अन्यारोग्याद्यभिघातलक्षणा । सा चोक्ता पुरस्तात्- “यस्य दृश्येत सप्ताहाद् उक्तवाक्यस्य साक्षिणः रोगो ऽग्निर् ज्ञातिमरणम्” इति । ननु च साक्ष्यनृतविभावनार्था सोक्ता । समानकारणत्वात् तु मिथ्याशपथभावनार्थापि सैवेह स्यात् । अन्यार्तेर् अनिर्देशाद् इह सैव गम्यते । अत्र कश्चिद् आह- “इद्धो नामाग्निर् न धक्ष्यति नोन्मज्जयिष्यन्त्य् अपः” इति दृष्टविरुद्धम् एतत् । न हि महाभूतस्यचैतन्यात् स्वभावव्यतिकरो निमित्तम् अन्तरेणोपलभ्यते । मन्त्रौषधाभ्यां तु भवति । तद् इह न मानम् । अत्र हि सत्यशपथप्रयोगोपहृतयोर् अग्*यम्भसोअर् (?) अयं निमित्ततः स्वभावव्यतिकरः स्यात् । सदेवतत्त्वाच् च तयोर् विशेषतो ऽस्मिन् काले सनिमित्तः स्याद् अयं व्यतिकरो, यतः तद् अचैतन्यम् अकारणम् । जयः तद्विपर्यये च पराजय इति साध्यम् । किं व्यवधानकालयोर् अल्पमहत्त्वाभ्याम् एतौ भवतः, उत दैवकृताव् इति । असमानं चैतत्, येन साम्य ऽपि व्यवधानकालयोर् एतौ दृश्येते । तस्मान् नेमौ तद्वैषम्यकृतौ विज्ञेयौ । यतश् च जिह्वया तप्तायःपिण्डाभिस्पर्शनेनोभयं दृष्टम्, अतो नैतयोर् वचनक्रिययोस् त्रासनमात्रम् एव प्रयोजनम् । कथं नामायम् अभीतः प्रपद्येतेति । यच् च पुनर् इदम् उच्यते । यदि च किल त्रासनार्थवादो भवति ततो “नाग्निर् ददाह रोमापि” इति रोमादहनवचनम् अनर्थवद् भवति । इतरथा ह्य् अग्निहरणविधौ कल्प्यमाने हस्ततलयोर् लोमाभावाल् लोमादहनवचनम् अनर्थकं स्यात् । अपि चेक्षिते त्व् अग्निहरणे यथा कथंचिद् अग्निसंबन्धस् तु यत इति, अत्र रोमशब्दो ऽयं न स्वार्थवाची गुणतो लोकपदत्वार्थः, यथोक्तसामर्थ्यात् । अतः साक्षिमिथ्यावचनवन् मिथ्याशपथवच् चाग्निहर्णोदकनिमज्जने अपि तद्वद् एव विज्ञेये इति ॥ ८.११६ ॥
वत्सस्य ह्य् अभिशस्तस्य पुरा भ्रात्रा यवीयसा ।
नाग्निर् ददाह रोमापि सत्येन जगतः स्पशः ॥ ८.११७ ॥
भारुचिः ...{Loading}...
परकृतिर् इयम् अधिकृतविध्यर्थवादार्था । “वत्सस्य ह्य् अभिशस्तस्य” इति लिङ्गाद् अभिशस्तस्यायं शपथ इति केचित् । एवं च शूद्रशपथो ऽयं न स्यात् । किं तर्हि अस्माल् लिङ्गात् ब्राह्मणस्यैवायं स्यात्; न चैतद् इष्टम्- तेन यथा ब्राह्मणविषयः श्रुतः शूद्रस्यापीति शास्त्रसामर्थ्यात् । एवम् अभिशंसने श्रुति ऽन्यत्रापि । जगतः स्पशो निश्चर इत्य् अर्थः, “इह नो भवान् स्पशश् चरतु” इति श्रुतेः ॥ ८.११७ ॥
यस्मिन् यस्मिन् विवादे तु कूटसाक्षी कृतो भवेत् ।
तत् तत् कार्यं निवर्तेत कृतं चाप्य् अकृतं भवेत् ॥ ८.११८ ॥
भारुचिः ...{Loading}...
अर्धसमाप्ते निवर्तनम्, दण्डान्ते ऽपि कृते अकृतं भवेत् । एवं च सति पुनस् तत् परीक्ष्यं निवृत्तिवचनात् । तच् च पुनः —
लोभान् मोहाद् भयान् मैत्रात् कामात् क्रोधात् तथैव च ।
अज्ञानाद् बालभावाच् च साक्ष्यं वितथम् उच्यते ॥ ८.११९ ॥
भारुचिः ...{Loading}...
अनृतवचने कारणनिर्देशो ऽयंदण्डविशेषार्थः ॥ ८.११९ ॥
एषाम् अन्यतमे स्थाने यः साक्ष्यम् अनृतं वदेत् ।
तस्य दण्डविशे[षांस् तु प्रवक्ष्याम्य् अनुपूर्वशः ॥ ८.१२० ॥
लोभात् सहस्रं दण्ड्यस् तु मोहात् पूर्वं तु साहसम् ।
भयाद् द्वौ मध्यमौ दण्डौ मैत्रात् पूर्वं चतुर्गुणम् ॥ ८.१२१ ॥
कामाद् दशगुणं पूर्वं क्रोधात् तु त्रिगुणं परम्] ।
अज्ञानाद् द्वे शते पूर्णे बालिश्याच् छतम् एव तु ॥ ८.१२२ ॥
एतान् आहुः कौटसाक्ष्ये प्रोक्तान् दण्डान् मनीषिभिः ।
धर्मस्याव्यभिचारार्थम् अधर्मनियमाय च ॥ ८.१२३ ॥
भारुचिः ...{Loading}...
त्रयः श्लोका दण्डप्रकॢप्त्यर्थाः । साक्षिणा मिथ्यावचनेषु सहस्रं शतम् इति च यद् उक्तम् अत्र तत्रा[पेक्षया] विकृतस्य वा । एवं प्रथममध्यमोत्तमसाहसग्रहणेषु विशेषतः सर्वं वक्ष्यति ॥ ८.१२०–१२३ ॥
कौटसाक्ष्यं तु कुर्वानांस् त्रीन् वर्णान् धर्मिको नृपः ।
प्रवासयेद् दण्डयित्वा ब्राह्मणं तु विवासयेत् ॥ ८.१२४ ॥
भारुचिः ...{Loading}...
[एकदानृतवादिनां दण्डाः पूर्वोक्ताः], अभ्यसतां तु कौटसाक्ष्यं त्रयाणां वर्णानां दण्डश् चायं यथाशास्त्रम् । प्रवासनं च मारणं शास्त्रान्तरे परिभाषितत्वाद्, इह च तदभ्यासान् निर्वासनम् एव [प्रतिपद्यते ब्राह्मण]म् एव विवासयेत् इति । गृहभङ्गेन चायोजयेद् इत्य् अर्थः । पूर्वस्मिंश् चार्थे प्रवासनशब्दस्य निर्वासनं ब्राह्मणस्यैव ॥ ९.१२४ ॥
दशस्थानानि दण्डस्य मनुः स्वायंभुवो ऽब्रवीत् ।
त्रिषु वर्णेषु तानि स्युर् अक्षतो ब्राह्मणो व्रजेत् ॥ ८.१२५ ॥
भारुचिः ...{Loading}...
शरीरस्थानानि दश दण्डस्य, तानि पुनः — ॥ ८.१२५ ॥
उपस्थम् उदरं जिह्वा हस्तौ पादौ च पञ्चमम् ।
चक्षुर् नासा च कर्णौ च धनं देहस् तथैव च ॥ ८.१२६ ॥
भारुचिः ...{Loading}...
कामापराध उपस्थमात्रे दण्डं पातयेत् । न तद्व्यतिरिक्ते ऽन्यस्मिन् अङ्गे ताडनादि कुर्यात् । अन्नदोषे चोदरदण्ड आहारप्रतिषेधः । आक्रोशापराधे च जिह्वाश्रयम् । ताडने च हस्ताश्रयम् । पादापराधे च पादगतम् । चक्षुरपराधे च तदाश्रयः । एवं नासिकायां कर्णे च, धनापहारे च धनाश्रयम्, शरीरगते च पाटनं स्वशरीरगतं वैनयिकं कुर्यात् । तस्य त्व् अन्यद् वक्ष्यति- “येन येन यथाङ्गेन” इति । धनहरणं चात्र निक्षेपादिविषयं द्रष्टव्यम् । यतो न पौनरुक्त्यम्, चोरदण्डेन । दण्ड्येष्व् अपि च न दण्डमूलहरं पातयेत्, किं तर्हि — ॥ ८.१२६ ॥
अनुबन्धं परिज्ञाय देशकालौ च तत्त्वतः ।
सारापराधौ चालोक्य दण्डं दण्ड्येषु पातयेत् ॥ ८.१२७ ॥
भारुचिः ...{Loading}...
अनुबन्धं परिज्ञायेति । केचित् अत्र व्यतिक्रमानुष्ठानस्य पौनःपुन्यं क्रियानुष्ठानाभ्यासलक्षणम् आहुः । वयं पुनर् अनुबन्धम् अपराधकारणम् आचक्ष्महे । कथम् अनुबध्यते ऽनेनेत्य् अनुबन्धो, लोभादिपदार्थः । किं तत्, अपराधश् चौर्यादिः । तं परिज्ञाय किम् अयं चौर्यादिर् अपराधो ऽस्य् कामात् उत क्रोधात् अथ लोभान् मोहाद् वा । अथात्मकुटुम्बस्थित्यै धर्मतन्त्रानुग्रहाय वेत्य् एवम् । अस्य चापराधहेतोर् अनुबन्धस्व विज्ञाने प्रयोजनम्, तद्भेदाद् दण्डविशेषो यथा स्याद् इति । देशकालौ च तत्त्वतः परिज्ञायेति वर्तते । तत्र गृहरथ्याखलक्षेत्रस्वविषयपरविषयादिनिर्देशो ऽपराधे ऽपेक्षितव्यः । क्वायम् अपराधः तथा कालः, सुभिक्षदुर्भिक्षाकुलानाकुलवयोऽवस्थादिः । सारं चापराधस्य द्रव्याद्भिजनादिः, तद्विपर्ययं चासारं निदर्शनार्थत्वात् सारग्रहणस्य । अपराधं चावेक्ष्य गुरुलघुत्वेन ज्ञानाज्ञानकृतं वस्त्रहिरण्यादिकृतं वा दण्डं दण्ड्येषु पातयेत् देशादीन् अवेक्ष्य, यस्माद् अन्यथा हि तस्य — ॥ ८.१२७ ॥
अधर्मदण्डनं लिके यशोघनं कीर्तिनाशनम् ।
अस्वर्ग्यं च परत्रापि तस्मात् तत् परिवर्जयेत् ॥ ८.१२८ ॥
भारुचिः ...{Loading}...
देशाद्यपेक्षया दण्डं विदध्याद् यत्नतः । एवं च सति तस्यायं प्रयोगक्रमविधिः शिष्यते ॥ ८.१२८ ॥
वाग्दण्डं प्रथमं कुर्याद् धिग्दण्डं तदनन्तरम् ।
तृतीयं धनदण्डं तु वधदण्डम् अतः परम् ॥ ८.१२९ ॥
भारुचिः ...{Loading}...
अपराधापेक्षैषा दण्डप्रकॢप्तिः क्रमेण स्यात् । वधश् चात्र ताडने न तु मारणे, सामर्थ्यात् । तथा च दर्शयति — ॥ ८.१२९ ॥
वधेनापि यदा त्व् एतान् निग्रहीतुं न शक्नुयात् । तदैषु सर्वम् अप्य् एतत् प्रयुञ्जीत चतुष्टयम् ॥ ८.१३० ॥
भारुचिः ...{Loading}...
> वधेनापि यदा त्व् एतान् निग्रहीतुं न शक्नुयात् ।
अविनेयत्वाद् एतेषाम् —
> तदैषु सर्वम् अप्य् एतत् प्रयुञ्जीत चतुष्टयम् ॥
कृते ऽपि शारीरे दण्डे यदि नोपतिष्ठेतापराधात्, ततो ऽस्य वाग्दण्डादिचतुष्टयं समस्तं क्रियते, न पुनर् अपराधी कृतनिग्रह इत्य् उत्सृज्येत् व्यवस्थार्थं लोकस्य । इतरथा मात्स्यन्यायः स्यात् । धनदण्डर्थश् चायं पुनरारम्भः । वाग्दण्डदिघ्दण्डौ तु मृदुत्वात् कः प्रयच्छतीति । तथा च प्रकरणान्तरे इमम् एव क्रमं वक्षय्ति । “अङ्गुलीर् ग्रन्थिभेदस्य छेदयेन् प्रथमे ग्रहे द्वितीये हस्तचरणौ तृतीये वधम् अर्हति” ॥ ८.१३० ॥
लोकसंव्यवहारार्थं याः संज्ञाः प्रथिता भुवि ।
ताम्ररूप्यसुवर्णानां ताः प्रवक्ष्याम्य् अशेषतः ॥ ८.१३१ ॥
भारुचिः ...{Loading}...
विशिष्टजातिपरिमाणस्य द्रव्यस्य संज्ञार्थ उपदेशो दण्डविशेषार्थः ॥ ८.१३१ ॥
त्रसरेणवो ऽष्टौ विज्ञेया लिक्षैका परिमाणतः ।
ता राजसर्षपस् तिस्रस् ते त्रयो गौरसर्षपः ॥ ८.१३२ ॥
सर्षपाः षट् यवो मध्यस् त्रियवं त्व् एककृष्णलम् ।
पञ्चकृष्णलिको माषस् ते सुवर्णस् तु षोडश ॥ ८.१३३ ॥
पलं सुवर्णाश् चत्वारः पलानि धरणं दश ।
[द्वे कृष्णले स]मधृते विज्ञेयो रूप्यमाषकः ॥ ८.१३४ ॥
ते षोषश स्याद् धरणं पुराणश् चैव राजतः ।
कार्षापणस् तु विज्ञेयस् ताम्रिकः कार्षिकः पणः ॥ ८.१३५ ॥
धरणानि दश ज्ञेयः शतमानस् तु राजतः ।
चतुः सौ[वर्णिको निष्को विज्ञेयस् तु प्रमाणतः ॥ ८.१३६ ॥
पणानां] द्वे शते सार्धे प्रथमः साहसः स्मृतः ।
मध्यमः पञ्च विज्ञेयः सहस्रं त्व् एव चोत्तमः ॥ ८.१३७ ॥
भारुचिः ...{Loading}...
सर्वसंज्ञार्थाः श्लोकाः । तत्र य एतेषु संछन्नेषु कूटीमठेष्व् [आदित्यकरदृष्टास् रे]णवस् ते त्रयस् त्रसरेणवः ॥ ८.१३२–१३७ ॥
ऋणे देये प्रतिज्ञाते पञ्चकं शतम् अर्हति ।
अपहनवे तद्द्विगुणं तन् मनोर् अनुशासनम् ॥ ८.१३८ ॥
भारुचिः ...{Loading}...
ऋणव्यवहारे स्वयं प्रतिपन्नो विंश[तिभागम्, प्रतिपादि]तः साक्ष्यादिभिर् दशभागम् । असमर्थो दण्डलेशं यत् किंचिद् इति । तच् चोक्तं पुरस्ताद् “दण्डलेशं च शक्तितः” इति । एते त्रयो ऽधर्मर्णस्य दण्डाः । ये तूत्तमर्णं दशभागं दापयन्ति अधमर्णं चान्यं दण्डं स्मृत्यन्तरात् ते दापयन्ति । इदं तु मानवं दर्शनम् ॥ ८.१३८ ॥
वसिष्ठविहितां वृ[द्धिं] सृजेद् वित्तविवर्धिनीम् ।
अशीतिभागं गृह्णीयान् मासाद् वार्धु[षिकः] शते ॥ ८.१३९ ॥
भारुचिः ...{Loading}...
अशीतभागः प्रथमः कल्पः प्रयुक्तस्यार्थस्य वृद्धिः ॥ ८.१३९ ॥
द्विकं शतं वा गृह्णीत सतां धर्मम् अनुस्मरन् ।
द्विकं शतं हि गृह्णानो न भवत्य् अर्थकिल्बिषी ॥ ८.१४० ॥
भारुचिः ...{Loading}...
पञ्चाशद्भागो ऽनुकल्पः ॥ ८.१४० ॥
द्विकम् त्रिकं चतुष्कं च [पञ्चकं च} शतं समम् ।
मासस्य वृद्धिं गृह्णीयाद् वर्णानाम् सनुपूर्वशः ॥ ८.१४१ ॥
भारुचिः ...{Loading}...
अयं च वर्णानुपूर्व्यात् तृतीयः कल्पः । एषां तु पूर्वः पूर्वो ज्यायान् । अन्ये ऽपि तु समाम् इति पठन्ति । समाग्रहणाद् अत्रेयं वृद्धिर् न संवत्सरात् परतः । पूर्वातः स्यात् । परतो ऽपि अल्पत्वाद् वृद्धेः । प्रयोगश् च द्विविधो भवति । गृहीत्वा चाधिम् अन्यथा च । तत्राधिग्रहणपक्षे विशेषार्थम् इदम् उच्यते — ॥ ८.१४१ ॥
न त्व् एवाधौ सोपकारे कौसीदीं वृद्धिम् आप्नुयात् ।
न चाधेः कालसंरोधान् निसर्गो ऽस्ति न विक्रयः ॥ ८.१४२ ॥
भारुचिः ...{Loading}...
भुञ्जानस्य हि प्रयोक्तुर् आधिं क्षेत्रादिकं वृद्धिर् न स्यात् । अर्थाच् चानुपकारिण्याधौ सोपकारे ऽपि च समयाद् अभुज्यमाने स्याद् वृद्धिः । न चाधेर् अभोग्यस्य कालसंरोधाद् द्विगुणीभूते ऽर्थे काले ऽधिगच्छति निसर्गो ऽस्यान्यत्राधमनम् अननुज्ञातस्य गृहीत्रा । किं तु यावद् धनं न प्रयच्छेद् द्विगुणीभूतं तावद् आधिं भुञ्जीतैव सामर्थ्याद् विज्ञायते, प्रयुक्तार्थसाधनाय । विक्रयसाधर्म्याच् चान्यत्राधमनं निसर्गो विज्ञायते । एवं विक्रयो ऽपि विज्ञेयः । तथा च सत्य् अर्थप्रयोगकाल एव प्रतिषिद्धेन प्रयोक्त्रा — ॥ ८.१४२ ॥
न भोक्तव्यो बलाद् आधिर् भुञ्जानो वृद्धिम् उत्सृजेत् ।
इदं तावत् पूर्वश्लोकम् एवोक्तम् उत्तरार्थम् । तच् चेदम् उच्यते —
मूल्येन तोषयेद् वैनम्
आधमयितारं दिवसभोगवृद्ध्या द्रव्यस्य, ताम्रकटाहाद्युपक्षयं परिज्ञाय तद्विद्भ्यः । रहस्यं तु प्रयुञ्जानो दृष्टेनापि दोषेण युज्यते । यद् अयम् आह —
आधिस्तेनो ऽन्यथा भवेत् ॥ ८.१४३ ॥
भारुचिः ...{Loading}...
विज्ञातारश् च । राज्ञा दण्डः स्यात् । इदं शास्त्रं भोगक्षय एवाधौ समर्थं भवति नान्यत्र । अन्यस् त्व् आह- द्विगुणीभूते ऽर्थे स्वामिनानुज्ञातम् आधिं भुञ्जानो मूलहिरण्येनैव भुञ्जीत । मूलहिरण्यम् एव वा परिगणय्याप्रतिपद्यमानमूल्येन परितोषयेत् । एवं च द्विगुणीभूते हिरण्ये ऽयम् आधिभोगप्रतिषेधः, पूर्वस्मिंश् चार्थ आदाव् एव ॥ ८.१४३ ॥
आधिश् चोपनिधिश् चोभौ न कालात्ययम् अर्हतः ।
अवहार्यौ भवेतां तौ दीर्घकालम् अवस्थितौ ॥ ८.१४४ ॥
भारुचिः ...{Loading}...
आधिसादृश्येनोपनिधेर् अपि समानविधित्वाद् अत्रोपदेशः । न चाधेः कालसंरोधे ऽपि निसर्गविक्रयौ स्त इति कृत्वा तस्माद् आधात्रा तन्मोक्षणे यतितव्यम् । कालात्ययेन हि तौ जलाग्निचोरादिभिर् विनाशं गच्छेयाताम् । अथ वा दशवर्षभोगेन । तथा च वक्ष्यति “यति किंचिद् दशवर्षाणि” इति । अथाध्युपनिध्योः को विशेषः । आधिर् हिरण्यभोग्यः; प्रीतिभोग्य उपनिधिः । तथा च वक्ष्यति “निक्षिप्तस्य धनस्याइवं प्रीत्योपनिहितस्य च” इति ॥ ८.१४४ ॥
संप्रीत्या भुज्यमानानि न नश्यन्ति कदाचन ।
धेनुश् चोष्ट्रो वहन्न् अश्वो यश् च दम्यः प्रयुज्यते ॥ ८.१४५ ॥
भारुचिः ...{Loading}...
आध्युपनिध्योः प्रकरणाद् एतद् ग्रहणम् । उक्तं हि “आधिश् चोपनिधिश् चोभौ न कालात्ययम् अर्हतः” । अथ वा संप्रीतिभोगवचनाद् उपनिधिर् अयम्, नाधिः । तथा च प्रीत्योपनिहितस्य चेत्य् एवंविधम् उपनिधिं वक्ष्यति । संप्रीत्या भुज्यमानो धेनूष्ट्राः वहन्तश् चाश्वादयः स्वं स्वम् अर्थं प्रयच्छन्ति । यश् च दम्यः प्रयुज्यते अवहन्न् अपि । एते न नश्यन्ति कदाचिद् अतिभोगेन । अथ वा संप्रीत्या भुज्यमानानि गृहादीन्य् उच्यन्ते । एभ्यस् त्व् अन्ये धेन्वादयो ऽपि प्रीतिभोग्या[ः नश्यन्ति ॥ ८.१४५ ॥
यत् किंचिद् दश् वर्षाणि संनिधौ] प्रेक्ष्यते धनी ।
भुज्यमानं परैस् तूष्णीं न स तल् लब्धुम् अर्हति ॥ ८.१४६ ॥
भारुचिः ...{Loading}...
प्रीतिरहितं यति किंचिद् ॥ ८.१४६ ॥
[अजडश् चेद् अपोगण्डो] विषये चास्य भुज्यते ।
भग्नं तद् व्यवहारेण भोक्ता तद्धनम् अर्हति ॥ ८.१४७ ॥
भारुचिः ...{Loading}...
अजडश् चेद् अपो[गण्ड इति ए]तौ स्वधनान्वेषणाय पर्याप्तौ, न तु जडः, पोगण्डो वा, शक्तिविकल्पत्वात् । विषये चान्यस्य भुज्यते चक्षुषः नाप्रकाशम् । अथ वा स्वविषये नान्य[विषये], न प्रोषीतस्य । एवं च सति पश्यतः समर्थस्य [स]तो भुज्यमानं स्वद्रव्यम् उपक्षया युक्तस् तदपहारो दशवर्षभोगेन । अजडापोगण्डग्रहणेन चान्यद् अपि {स्वध]नान्वेषणव्यासङ्गकारणम् अपाटवादि गृह्यते । सत्रदीक्षादिव्यासङ्गकारणम् अभिहितं विज्ञेयम् । दशवर्षभोगेन स्वीकरणापवादार्थम् इदम् आरभ्यते ॥ ८.१४७ ॥
आधिः सीमा बालधनं निक्षेपोपनिधिः स्त्रियः ।
राजस्वं श्रोत्रियस्वं च न भोगेन प्रणश्यति ॥ ८.१४८ ॥
भारुचिः ...{Loading}...
स्त्रियः परिचारिकाः नोढाह् शास्त्रविरोधात् । अन्ये त्व् आहुः- ऊढा अपि प्रत्याहरणीयाः प्रायश्चित्तेन । यतो न युक्तम् आसाम् आपद्य् अपहृतानां परित्यागः । राजस्वश्रोत्रियस्वयोश् च लब्धक्रीतयोर् अपि भोगेनाप्रणाशः । तत्र श्रोत्रियधर्मस्याचारासङ्गात् । राज्ञश् च स्वतन्त्रानुष्ठानसङ्गेन । अन्यदीययोस् तु लब्धक्रीतयोर् अन्य एव स्यात् ॥ ८.१४८ ॥
यः स्वामिनाननुज्ञातम् आधिं भुङ्क्ते ऽविचक्षणः ।
तेनार्धवृद्धिर् मोक्तव्या तस्य भोगस्य निष्क्रयः ॥ ८.१४९ ॥
भारुचिः ...{Loading}...
स्वामी च गृहे व्यवहरति । तत्प्रयुक्तश् च भृत्यः । तथा च वक्ष्यति “कुटुम्बार्थ ऽध्यधीनः” [इति] । तेनाननुज्ञातश् च स्वामिना य आधिं भुङ्क्ते ऽविचक्षणः तेनार्धवृद्धिर् अर्था उपक्ष्यन्त इत्य् एवं न जानाति । एतस्मात् कारणाद् अनेन तस्यार्धवृद्धिर् मोक्तव्या भोगनिष्कृत्यर्थम् । एवं च ग्रहणाधमनयोः प्रमाणम् अध्यधीनः पृथक्तन्तुत्वत् (?) तु नोपभोगानुज्ञाने दाने । एतच् च यो वेद स विचक्षणः । तथा चायम् एव युक्तः पाठः- न विचक्षणः स्वाम्युपसर्जनत्वाद् अध्यधीनस्येति । अन्यस् त्व् आह पूर्वो द्विगुणीभूते विधिर् उक्तः, “न भोक्तव्यो बलाद् आधिर् भुञ्जानो वृद्धिम् उत्सृजेत्” इत्य् एषः । अयं पुनर् आदाव् एवोच्यते ॥ ८.१४९ ॥
कुसीदवृद्धिर् द्वैगुण्यं नात्येति सकृदाहिता ।
धान्ये शदे लवे वाह्ये नातिक्रामति पञ्चताम् ॥ ८.१५० ॥
भारुचिः ...{Loading}...
वृद्धिर् द्वैगुण्यं नात्येति । कालमहत्त्वे ऽपि सति । सकृद् आहिता पुरुषान्तरम् असंक्रान्ता, संक्रमिते तु धने प्रयोक्त्रान्यत्र पुनर्वर्धत एव, गृहीतृदोषाद् अप्रतिपादनेन पूर्वं प्रयोक्तुर् धनस्य । हिरण्ये तावद् एवम् । धान्ये तु फलकाले शदकाले प्रतिवर्षं भागशो वर्धमानं तत् प्रयुक्तं धान्यं नातिक्रामति पञ्चताम् । हिरण्यवद् द्वैगुणे प्राप्ते इदं तत्प्रतिषेधार्थं पञ्चगुणत्वम् आरभ्यते । एवं शदे पञ्चतां परिवर्तमानो नातिक्रामति । एवं लवे प्रयुक्त ऽव्याद्यूर्णाजानां लवकाले लवकाले भागशो वर्धते तत्प्रयुक्तम् । वाह्ये तु बलीवर्दादाव् एष एव न्यायः ॥ ८.१५० ॥
कृतानुसाराद् अधिका व्यतिरिक्ता न सिध्यति ।
कुसीदपथम् आहुस् तं पञ्चकं शतम् अर्हति ॥ ८.१५१ ॥
भारुचिः ...{Loading}...
यो हि कार्यवर्त्तां विज्ञाय गृहीतुः पञ्चकाच् छताद् अधिकं वृद्धिं कारयेत् प्रयोक्ता न तस्य साकार्यसिद्धिं गच्छेत् । शास्त्रव्यतिरेकाद् धेतोः । यतः पञ्चकम् एव शतं दातुम् अर्हति । अथ वा कृता तु वृद्धिर् अविशेष्या ग्रहणकाले विशेष्या वा अल्पान् न किंचनास्य गृहीतुः पूर्वम्, पश्चाद् धनव्यवहारेणैव प्राप्तैश्वर्यस्य, अन्यथा वा, पुरुषकारात् संपल्लक्षणाद् अधिका, यथा मन्दीकृता तत्प्रयोक्तृलोभाद् उत्तरकालं गृहीतुः संपदपेक्षया, न सिध्यति, शास्त्रव्यतिरेकाद् धेतोः । तत्र हि सर्वमहती वृद्धिः पञ्चकं शतम् । तद् अपि शूद्रविषयम् । कामम् अशूद्रस्यापि तावती स्याद् वृद्धिः, नातो व्यतिरिक्ता । तथा च निन्द्यते, कुसीदपथम् आहुस् तम् इति ॥ ८.१५१ ॥
नातिसांवत्सरीं वृद्धिं न चादृष्टाम् [पुनर्] हरेत् ।
[चक्रवृद्धिः कालवृद्धिः कारिता कायिका च या] ॥ ८.१५२ ॥
भारुचिः ...{Loading}...
> नातिसांवत्सरीं वृद्धिं
नातिसांवत्सरीं वृद्धिं गृह्णीयात्, यदि वृद्धिमहत्त्वात् संवत्सर एव तद्धनं द्विगुणीभवति । अन्यथा तु परस्ताद् अपि संवत्सरस्य गृह्णीयात् यावत् तद्द्वैगुण्यम् । तथा च गौतमः- “चिरस्थाने द्वैगुण्यं प्रयोगस्य” इति । अन्ये तु लब्धीम् अपि वृद्धिम् अशीतिपञ्चाशद्भागलक्षणां नातिवत्सरीं मन्यन्ते, धर्म[विरोधात् त]स्याः ।
> **न चादृष्टाम् [पुनर्] **
शास्त्रैः स्वयंकल्पितां द्विकादिवृद्धिभ्यो ऽन्याम्
> हरेत् ।
अथ वादृष्टाम् अनुपचिताम् इत्य् अर्थः । प्रतिमासं न गृह्णीयात्, प्रतिमासोपजातांस् तु तावत् गृह्णीयात् यावद् द्वैगुण्यम् ।
> [चक्रवृद्धिः कालवृद्धिः कारिता कायिका च या] ॥ ८.१५२ ॥
परस्परोपकारापेक्षया स्वयं कृता वृद्धिकल्पाभ्यनुज्ञायते चक्रवद् यानसंयुक्ता वृद्धिश् चक्रवृद्धिः । अथ वा चक्रवद् आवर्तते । प्रतिमासं या [वर्धते सा । कालवृद्धिः] काल्[आन्तरे ऽस्]यैतद् धनं वर्धते, न संप्रत्येव । एतच् च प्रीत्या कल्प्यते, स्वयम् अनुग्राह्यतया परस्य । अथ वा अस्मिन् काले अप्रयच्छतस् तथैव [वर्धते यथानिश्चितं] स्वयम् एव प्रयोक्त्रा गृहीत्रा च देशकालकार्यावस्थापेक्षया । इयं चाभिहितापवादकृतानुसाराद् अधिकेति । कायिका कायिककर्मसंशोध्या ॥ ८.१५२ ॥
ऋणं दातुम् अशक्तो यः कर्तुम् इच्छेत् पुनः क्रियाम् ।
स दत्वा निर्जितां वृद्धिं करणं परिवर्तयेत् ॥ ८.१५३ ॥
भारुचिः ...{Loading}...
मूलहिरण्यस्य पुनः क्रिया न वृद्धेः । कथम् । यो हि गृहीता मूलं वृद्धिं च दातुम् अशक्तः करणं साक्ष्यादि परिवर्तयितुम् इच्छेत्, स पूर्वनिर्जितां वृद्धिं दत्वा मूलमात्रस्य करणं परिवर्तयेत् । न तत्र वृद्धिम् आरोपयेत् । यच् च दद्यात् तद् वृद्धितः शोधयेत्, न तु मूलतः । अयं च राज्ञ उपदेशः । पीडितस्य वृद्ध्या राज्ञैवाकारयितव्यम् ॥ ८.१५३ ॥
अदर्शयित्वा तत्रैव हिरण्यं परिवर्तयेत् ।
यावती संभवेद् वृद्धिस् तावतीं दातुम् अर्हति ॥ ८.१५४ ॥
भारुचिः ...{Loading}...
अशक्तस्य काकिणिम् अपि दातुं सह वृद्ध्या पुनः क्रिया ॥ ८.१५४ ॥
चक्रवृद्धिं समारूढो देशकालव्यवस्थितः ।
अतिक्रामन् देशकालौ न तत्फलम् अवाप्नुयात् ॥ ८.१५५ ॥
भारुचिः ...{Loading}...
उत्तमर्णो ऽधर्मर्णाद् देशकालातिक्रमेण स्वदोषाद् एव । इदानीं कारिता विऋद्धिविषयो ऽयम् अपर उच्यते ॥ ८.१५५ ॥
समुद्रयानकुशला देशकालार्थदर्शिनः ।
स्थापयन्ति तु यां वृद्धिं सा तत्राधिगमं प्रति ॥ ८.१५६ ॥
भारुचिः ...{Loading}...
तत्र ते वणिजो यां वृद्धिं स्थापयेयुः, सा प्रतीयेत, ये हि तत्र क्षयव्ययाध्वलाभद्रव्यसारज्ञाः । ऋणसंबन्धेन, अयम् अपरः प्रतिभुवो धर्मः शिष्यते ॥ ८.१५६ ॥
यो यस्य प्रतिभूस् तिष्ठेद् दर्शनायेह मानवः ।
अदर्शयन् स तं तस्य प्रयच्छेत् स्वधनाद् ऋणम् ॥ ८.१५७ ॥
भारुचिः ...{Loading}...
निगदव्याख्यात एवायं श्लोकः । इदानीम् अस्य दर्शनप्रतिभुवो ऽधमर्णम् उत्तमर्णस्यादर्शयतः स्वधनाद् ऋणदानप्राप्तौ सत्याम् मृतस्य “रिक्थभाज ऋणं प्रतिकुर्युः” इत्य् अनेन शास्त्रेणार्थतश् च तत्पुत्रदानं प्राप्तं सत् प्रतिषिध्यते ॥ ८.१५७ ॥
प्रातिभाव्यं वृथादानम् आक्षिकं सौरिकं च यत् ।
दण्डशुल्कावशेषं च न पुत्रो दातुम् अर्हति ॥ ८.१५८ ॥
भारुचिः ...{Loading}...
एतेषु पुत्रस्यासंबन्धः शास्त्रसामर्थ्याद् विज्ञेयः । शुल्कावशेषम् इति वचनात् कृत्स्ने शुल्के ऽस्ति पुत्रस्य संबन्धः । दण्डावशेषस्याप्य् एनं विधिम् इच्छन्ति केचित् । प्रातिभाव्यसंबन्धेन च समानविधित्वात् वृथादानादिषु पित्र्येषु न पुत्राः संबध्यन्ते । इदानीं द्विप्रकारस्य प्रतिभुवो न पुत्रो दातुम् अर्हतीत्य् एतस्मिन् प्राप्त इदम् आरभ्यते — ॥ ८.१५८ ॥
दर्शनप्रातिभाव्ये तु विधिः स्यात् पूर्वचोदितः ।
दानप्रतिभुवि प्रेते दायादान् अपि दापयेत् ॥ ८.१५९ ॥
भारुचिः ...{Loading}...
एवं च सति दानप्रतिभुवः पुत्रस्यास्ति संबन्धः ॥ ८.१५९ ॥
अदातरि पुनर् दाता विज्ञातप्रकृताव् ऋणम् ।
पश्चात् प्रतिभुवि प्रेते परीप्सेत् केन हेतुना ॥ ८.१६० ॥
भारुचिः ...{Loading}...
समानविभक्तीनि पदान्य् एकार्थतया व्याख्येयानि । अदातरि प्रतिभुवि प्रेते विज्ञातप्रकृतौ विज्ञातं कारणं लग्नकत्वे यस्य, सो ऽयं विज्ञातप्रकृतिः । किं पुनस् तत्संबन्धकार्पणम् । एवं च धनावष्टम्भेनायम् अस्याधमर्णस्य, यस्मान् न किंभूतः । तत इत्तंभूते ऽस्मिन् प्रतिभुवि प्रेते पश्चाद् दाता प्रयुक्तम् ऋणं परीप्सेत् केन हेतुना संदिह्य पृच्छति । कथं च संदिह्यते यतः तत्कारणम् उच्यते । येन तावद् दानप्रतिभुवः पुत्रस्यास्ति संबन्ध इत्य् उक्तम्, न दर्शनप्रतिभुवः । अतः सत्य् अपितृरिक्थसंबन्धे शास्त्रसामर्थ्यान् न युक्तो दापयितुम्, यतश् च गृहीतधने [प्रतिभुवि] प्रेते दर्शनलग्नकपुत्रो ऽपि सन् दापयितुम् इति एवम् उभयथा दर्शनात् संदेहे सतीदम् आह — ॥ ८.१६० ॥
निरादिष्टधनश् चेत् तु प्रतिभूः स्याद् अलंधनः ।
स्व[धनाद् एव तद् दद्यान् निरादिष्ट इति स्थितिः ॥ ८.१६१ ॥
भारुचिः ...{Loading}...
निरादिष्टधनो] प्रतिभूः समर्पितधनः, न वाङ्मात्रेण । अलंधनश् च स्यात् पर्याप्तधनः । यावता संबध्यते लग्नकत्वेन । अथ वा निरादिष्टधनो वा[ङ्मात्रेन प]श्चाद् अलंधनस् समर्पितधनः पर्याप्तधनश् च भवति, तत्रैतस्माद् धेतोः स्वधनाद् एव तद् दातुम् अर्हति । अधमर्णलग्नकपुत्र उत्तमर्णायेति । अयं च दानग्रहणविधिः [सिद्धि]कारणेन ॥ ८.१६१ ॥
अन्यश् च ।
मत्तोन्मत्तार्ताध्यधीनैर् बालेन स्थविरण वा ।
असंबन्धकृतश् चैव व्यवहारो न सिध्यति ॥ ८.१६२ ॥
भारुचिः ...{Loading}...
धर्मव्यवहारा एव मत्तादिभिः कृता न सिध्यन्ति । न केवलं प्रकरणाद् ऋणव्यवहारः । अमत्तादिभिर् अपि प्रयुज्यमानाः सर्वव्यवहारेषु ॥ ८.१६२ ॥
सत्या न भाषा भवति यद्य् अपि स्यात् प्रतिष्ठिता ।
बहिश् चेद् भाष्यते धर्मान् नियताद् व्यावहारिकात् ॥ ८.१६३ ॥
भारुचिः ...{Loading}...
धर्मविरुद्धश् च व्यवहारो ऽपत्यभार्याविक्रयादिर् न सिध्यति । येनासौ [धर्मं] वारयति । वृद्धिः सा प्रयोगकाले द्विगुणीभूतापि पुनर् वर्धत एव प्रतिमासम्- एवं ग्रामपुञ्जग्रहणादिवृद्धयो ऽपि प्रतिषिद्धा बोद्धव्याः । ऋणसंबन्धाद् इदम् अपरं तद्गतम् एवोच्यते ॥ ८.१६३ ॥
योगाधमनविक्रीतं योगदानप्रतिग्रहम् ।
यत्र चाप्य् उपधिं पश्येत् तत् सर्वं विनिवर्तयेत् ॥ ८.१६४ ॥
भारुचिः ...{Loading}...
योगाधमनं नाम लोकयात्रायां यन् न स्फुटम् उच्यते । “त्वं तावत् अनेन कार्यं कुरु, अहं पुनर् अनेन कार्यं करिष्यामि” इति । विक्रयो ऽप्य् एवंलक्षणः । योगदानं च यद् यात्रोत्सवव्यपदेशेन सोपधं दीयते ऽधमर्णादिभिर् उत्तमर्णप्रभृतीनाम् । अमुमूर्षुश् चानपत्यो ज्ञातिभ्यो बिभ्यन् नैराश्याद् ददाति, एवमादिना योगेन । दानप्र[ति]ग्रहयोर् विशेषः- दानं मैत्र्या प्रतिग्रहो धर्मेण । यत्र चाप्य् उपधिं पश्येद् दानप्रतिग्रहगतम् अन्यगतं वा तत् सर्वं विनिवर्तयेत्, राजा व्यावहारान् पश्यन् अनयत्र वा । ऋणसंबन्धाच् चेदम् अन्यम् अपरं तद्गतम् एवोच्यते ॥ ८.१६४ ॥
गृहीता यदि नष्टः स्यात् कुटुम्बार्थे कृतो व्ययः ।
दातव्यं बान्धवैश् तत् स्यात् प्रविभक्तैर् अपि स्वतः ॥ ८.१६५ ॥
भारुचिः ...{Loading}...
प्रतीतार्थ एव श्लोकः ॥ ८.१६५ ॥
कुटुम्बार्थे ऽध्यधीनो ऽपि व्यवहारं यम् आचरेत् ।
स्वदेशे वा विदेशे वा तं ज्यायान् न विचारयेत् ॥ ८.१६६ ॥
भारुचिः ...{Loading}...
> कुटुम्बार्थे ऽध्यधीनो ऽपि व्यवहारं यम् आचरेत् ।
कुटुम्बस्थित्यै स्वाम्यसंनिधाने —
> स्वदेशे वा विदेशे वा तं ज्यायान्
अध्यधीनस्वामी
> न विचारयेत् ॥ ८.१६६ ॥
“मम परोक्षे ऽप्य् एतद् अध्यधीनेन त्वया कर्म कस्मात् क्र्तम्” इति न विचारयेत् । एवम् अविचार्य तद्धनं प्रतिकुर्यात् । अथ वा पूर्वश्लोकशेषार्थो ऽयं वर्णनीयः । कथं कृत्वा । कुटुम्बार्थे ऽप्य् अधीनो ऽपि तावद् व्यवहारं यम् आचरेत् प्रमाणीभवेत् ज्यायसः, किं पुनर् बान्धवानाम् । एवं च सति मत्तोन्मत्ताध्यधीनकृतो व्यवहारो न सिध्यतीत्य् उक्तम् । अथ त्व् “असंबन्धकृतो व्यवहारो न सिध्यति” इत्य् एतस्माच् छक्यते कथंचिद् अध्यधीनस्य ज्यायसि परोक्षे गृहार्थे स्वातन्त्र्यं कल्पयितुम् । ततः सार्थ एवायं श्लोको यथैनम् अवोचाम सामर्थम् । कुटुम्बार्थं पुनर् अध्यधीनस्य धनं प्रयुक्तम् — ॥ ८.१६६ ॥
बलाद् दत्तं बलाद् भुक्तं बलाद् यच् चापि लेखितम् ।
सर्वान् बलकृतान् अर्थान् अकृतान् मनुर् अब्रवीत् ॥ ८.१६७ ॥
भारुचिः ...{Loading}...
बलात् तावद् दत्तं वृद्धिकामेन धनं क्षेत्राध्याधिभोगकामेन च तन् निवर्त्यं राज्ञा । बलाच् च भुक्तम् आधिद्रव्यं प्रतिषिद्धेन सता तद् आधिभोगान्वेषणेन निवर्त्यम् । अथ वा नाधिद्र्व्यम् अपि गृहादि बलाद् भुक्तं दशवर्षभोगेनैतद् अपहर्तिष्यामीत्य् अनया भुद्ध्या । बलाद् यच् चापि लेखितं पत्रे सर्वांश् चैवं प्रकारान् अन्यान् अप्य् अर्थान् साक्षित्वप्रतिभूकुलग्रहणकालावधिद्वैगुण्यकरणान निर्वर्त्यम् मनुर् आह ॥ ८.१६७ ॥
ये[न] —
त्रयः परार्थे क्लिश्यन्ति साक्षिणः प्रतिभूः कुलम् ।
चत्वारस् तूपचीयन्ते विप्र आढ्यो वणिङ् नृपः ॥ ८.१६८ ॥
भारुचिः ...{Loading}...
यस्मात् परस्यार्थं कुर्वन्ति दृष्टानि साक्षिप्रतिभूकुलानि, अतो नानिच्छातस् तानि कारयेत् साक्ष्यादीनि । चत्वारस् तूपचीयन्ते विप्रादयः परार्थम् एव कुर्वन्तः, विप्रस् तावन् नादित्सन्तं दापयेत् दातारम्, आढ्यश् च वृद्ध्यर्थम् अजिघृक्षन्तं न ग्राहयेत्, वणिक् च नाचिकीर्षन्तं कारयेत् लाभार्थी । एवं नृपो ऽपि नाव्यवजिहीर्षन्तं व्यवहारयेत् । एवं च सत्य् अयं श्लोको ऽर्थस्य बलात् कृतस्य पदार्थस्य निवृत्तिप्रदर्शनार्थो ऽपि विज्ञेयः । यतश् चैतद् एवम् अतो बलवान् अपि सन् राजा, व्यवहाराद् अन्यत्र — ॥ ८.१६८ ॥
अनादेयं नाददीत परिक्षीणो ऽपि पार्थिवः ।
न चादेयं [समृद्धो ऽपि सूक्ष्मम् अप्य् अर्थम् उत्सृजेत्] ॥ ८.१६९ ॥
भारुचिः ...{Loading}...
_येन । _
अनादेयस्य चादानाद् आदेयस्य च वर्जनात् ।
दौर्बल्यं ख्याप्यते राज्ञः स प्रेत्येह च नश्यति ॥ ८.१७० ॥
भारुचिः ...{Loading}...
अत्र चादेयापरिवर्जननियमः शास्त्रसामर्थ्यात् । अतो वर्ज[नीयवर्जयितुः ॥ ८.१७० ॥
स्वादानाद् वर्ण्]आसंसर्गाद् दुर्बलानां च रक्षणात् ।
बलं संजायते राज्ञः स प्रेत्येह च वर्धते ॥ ८.१७१ ॥
भारुचिः ...{Loading}...
यथाशास्त्रं पुनर् अस्य वर्तमानस्य, व्यवहारेभ्यो ऽन्यतश् च पौरजानपदेभ्यस् तद्द्रव्यादानाद्, दुर्बलानां च बलवद्भ्यो रक्षणाद्, वर्णानाम् असर्गः परस्परेणासङ्करः प्रजासु भवति । ततश् च राजा प्रेत्येह वर्धत इति । अधिकृतविधिस्तुतिमात्रम् इदम् ॥ ८.१७१ ॥
यस्माच् चैतद् एवम् ।
तस्माद् यम इव स्वामी स्वयं हित्वा प्रियाप्रिये ।
वर्तेत याम्यया वृत्त्या जितक्रोधो जितेन्द्रियः ॥ ८.१७२ ॥
भारुचिः ...{Loading}...
समः प्रजासु स्याद् इत्य् अस्य राज्ञो ऽयम् उपमार्थः । तथा च वैषम्यहेतुव्याख्यानम् आह जितक्रोधो जितेन्द्रिय इति ॥ ८.१७२ ॥
अजितकामक्रोधश् च पुनः पार्थिवः ।
यस् त्व् अधर्मेण कार्याणि मोहात् कुर्यान् नराधिपः ।
अचिरात् तं दुरात्मानं वशे कुर्वन्ति शत्रवः ॥ ८.१७३ ॥
भारुचिः ...{Loading}...
अपरक्तप्रकृतिम्, बहुकृत्यवन्तं वृद्धपर्यवसानादिभिः । पुनर् आहितविज्ञाननिर्णयः सन् राजा — ॥ ८.१७३ ॥
कामक्रोधौ तु संयम्य यो ऽर्थान् धर्मेण पश्यति ।
प्रजास् तम् अनुवर्तन्ते समुद्रम् इव सिन्धवः ॥ ८.१७४ ॥
भारुचिः ...{Loading}...
यथा हि सिन्धवो गम्यं समुद्रं गत्वा न निवर्तन्ते किं तर्हि तन्मय्यो भवन्ति, एवम् इत्थंभूतस्य राज्ञो नापराध्यन्ते प्रकृतयो ऽमात्यादयः, किं तर्हि तन्मय्यो भवन्तीत्य् अयम् उपमार्थः ॥ ८.१७४ ॥
यः साधयन्तं छन्देन वेदयन् धनिकं नृपे ।
स राज्ञा तच्चतुर्भागं दाप्यस् तस्य च तद्धनम् ॥ ८.१७५ ॥
भारुचिः ...{Loading}...
राजवाल्लभ्याद् अबिभ्यन् यो राजपुरुषस् तस्मै धनिकम् आवेदये तस्य तथोपदेशं दण्डनं धनदानं च राजा कुर्यात् । अपरः पाऋहः- “यो ऽसाध्यं मन्यमानस् तु वेदयेद् धनिकं नरः, स राज्ञर्णचतुर्भागं दाप्यस् तस्य च तद्धनम्” । अत्रापि स एवार्थः । ईषद् अन्यथा भिन्नः। अशक्तस्य धनदान एतत् । धनदानायेदम् उपायान्तरम् अभिधीयते धनाभावतो वैकल्पिकः ॥ ८.१७५ ॥
कर्मणापि समं कुर्याद् धनिकायाधर्मर्णिकः ।
समो ऽपकृष्टजातिश् च दद्याच् छ्रेयांस् तु तच्छनैः ॥ ८.१७६ ॥
भारुचिः ...{Loading}...
श्रेयसो मान्यत्वात् सोढव्यम् एव तस्याप्रदानात् । अक्षान्त्या तु न कदाचिद् अप्य् असौ समहीनवत् कर्मकारयितव्यः । ēणापादानार्थः श्लोकः ॥ ८.१७६ ॥
अनेन विधिना राजा मिथो विवदतां नृणाम् ।
साक्षिप्रत्ययसिद्धानि कार्याणि समताम् नयेत् ॥ ८.१७७ ॥
भारुचिः ...{Loading}...
प्रत्ययसिद्धानि हेतुसिद्धानीत्य् अर्थः । ऋणव्यवहारोपसंहारार्थः श्लोकः । निक्षेपविध्यर्थम् इदम् अधुनोच्यते ॥ ८.१७७ ॥
कुलजे वृत्तसंपन्ने धर्मज्ञे सत्यवादिनि ।
महापक्षे धनिन्य् आर्ये निक्षेपं निक्षिपेद् बुधः ॥ ८.१७८ ॥
भारुचिः ...{Loading}...
निक्षेपिलक्षणविध्यर्थः श्लोकः । कुलजे प्रकृष्टाभिजने । [वृत्तसंपन्ने] आचारवति । प्रकरणाद् अर्थव्यवहारे, इतरत्र वा । एवं चार्थव्यवहारे शुचिर् भवति यदि धर्मज्ञतया सत्यवादी भवति । तथा च सति वृत्तविशेषणम् इदं विज्ञेयम् । एवंवृत्तो यदि भवति ततो ऽयं निक्षेपयोग्यः संपद्यते । महापक्षश् चागम्यश् चाटविकादीनां भवति, स्वपक्षपराभवभयाच् च न विकारं याति । एवं च धनित्वोपदेशो व्याख्येयः । आर्यश् चैवंवृत्तः शूद्रो ऽपि विज्ञेयः, अविक्रियात्मकत्वाद् इति । अन्ये तु द्विजातिम् आचक्षते, तस्य चादृष्टार्थं ग्रहणम् आहुर् इति ॥ ८.१७८ ॥
यो यथा निक्षिपेद् धस्ते यम् अर्थं यस्य मानवः ।
स तथैव गृहीतव्यो यथा दायस् तथा ग्रहः ॥ ८.१७९ ॥
भारुचिः ...{Loading}...
यस्माद् उभयथा निक्षेपो दृष्टः समुद्रो विमुद्रश् च, असाक्षितस् सुसाक्षितश् च, संख्यातो ऽसंख्यातश् च, तस्माद् इदम् उच्यते- यथा दायस् तथा ग्रहः । मानवग्रहणाच् चेह विज्ञायते- पूर्वश्लोके आर्यग्रहणं सर्ववर्णार्थम्, न तु द्विजातिविषयम् । एवं च सति दानप्रतिदानयोस् तुल्यक्रिययोर् निक्षेपधारकस्याभियोगो न जायते ॥ ८.१७९ ॥
यो निक्षेपं याच्यमानो निक्षेप्तुर् न प्रयच्छति ।
स याच्यः प्राङ्विवाकेन तन्निक्षेप्तुर् असंनिधौ ॥ ८.१८० ॥
भारुचिः ...{Loading}...
ऽसाक्ष्यभावे" इत्य् उपरिष्टाद् वक्ष्यति । तेनास्य सामर्थ्यात् संबन्धो द्रष्टव्यः । साक्ष्यभावे यो निक्षेपं याच्यमानो न प्रयच्छति ततो निक्षेप्त्रा प्राङ्विवाको विज्ञापि[तः इमं] कुर्यात्- पूर्वनिक्षिप्तस्य परिमाणवयोरूपसादृश्येन कैश्चिद् अपदेशैः केनचिद् हिरण्यादि तस्मिन्न् एव निक्षेपं पूर्वनिक्षेपधारिणि निक्षिपेत् । ततः कस्मिंश्चित् काले गते पूर्वनिक्षे[प्तु]र् असंनिधौ प्राङ्विवाको द्वितीयेन निक्षेप्त्रा द्वितीयं निक्षेपं याचयेत् ॥ ८.१८० ॥
स यदि प्रतिपद्येत यथान्यस्तं यथा कृतम् ।
न तत्र विद्यते किंचिद् यत् परैर् अभियुज्यते ॥ ८.१८१ ॥
भारुचिः ...{Loading}...
यदि तं द्वितीयं निक्षेपं यथा [न्यस्तं प्रतिपद्येत् तदा न] किंचिद् अस्ति यत् परैर् अभियुज्यते ॥ ८.१८१ ॥
तेषां न दद्याद् यदि तु तद्धिरण्यं यथाविधि ।
उभौ निगृह्य दाप्यः स्याद् इति धर्मस्य धारणा ॥ ८.१८२ ॥
भारुचिः ...{Loading}...
अथ प्राड्विवाकविज्ञातं पश्चान् नियो[जितं न दद्यात्] तत उभयं निगृह्य पूर्वं द्वितीयं च दाप्यः ॥ ८.१८२ ॥
साक्ष्यभावे प्रतिनिधिं वयोरूपसमन्वितम् ।
अपदेशैश् च संन्यस्य हिरण्यं तस्य तत्त्वतः ॥ ८.१८३ ॥
भारुचिः ...{Loading}...
पूर्वेणास्य संबन्धः । तथा चोक्तं “यो निक्षेपं याच्यमानः” इत्य् एवमादि ॥ ८.१८३ ॥
निक्षेपोपनिधी नित्यं न देयौ प्रत्यन्तरे ।
नश्येतां विनिपाते ताव् अनिपाते त्व् अनाशिनौ ॥ ८.१८४ ॥
भारुचिः ...{Loading}...
निक्षेप्तरि जीवति तत्प्रत्यनन्तरे पुत्रे भ्रातरि वा तदीयधनार्हे निक्षेपोपनिधी न देयौ, प्रार्थयमानाय । येन न प्रत्यनन्तरस्याविनाशे ऽस्ति गतिः । प्रत्यनन्तरस्य विनाशे तु निक्षेपधारी निक्षेप्त्रा याचितः किम् उत्तरं दास्यति तस्य । यतो न तस्य प्रत्यनन्तरदानं युक्तम् ॥ ८.१८४ ॥
स्वयम् एव तु यो दद्यान् मृतस्य प्रत्यनन्तरे ।
न स राज्ञाभियोक्तव्यो न निक्षेप्तुश् च बन्धुभिः ॥ ८.१८५ ॥
भारुचिः ...{Loading}...
अविदितनिक्षेपं स्वयं प्रयच्छतो नास्त्य् अभियोगः । अथ तूद्भावकः कश्चिद् अत्रार्थं दर्षयेद् (?) अधिकम्, ततः— ॥ ८.१८५ ॥
अच्छलेनैव चान्विच्छेत् तम् अर्थं प्रीतिपूर्वकम् ।
विचार्य तस्य वा वृत्तिं साम्नैव परिसाधयेत् ॥ ८.१८६ ॥
भारुचिः ...{Loading}...
अविदितं स्वयं प्रयच्छतो यदि तद्गतः कश्चित् कर्णेजपात् संशयः स्यात्, तत अच्छलेनैव तस्य वृत्तिं विचार्य, तदधिगमो विज्ञेयः, निक्षेपधारिणा प्रज्ञाय ॥ ८.१८६ ॥
[निक्षेप्श्व् एषु सर्वेषु विधिः स्यात् परिसाधने ।
समुद्रे नाप्नुयात् किंचिद् यदि तस्मान् न संहरेत् ] ॥ ८.१८७ ॥
भारुचिः ...{Loading}...
तदीयं द्रव्यं रूपतः परिमाणतश् च समुद्र एव निक्षेपो धारयितव्यः । न च समुद्रो निक्षेपः प्रत्यर्पित इत्य् एतावता निक्षेपधारी मुच्यते, यदि तस्मान् न किंचित् संहरति प्र[ति]मुद्राकरणेनापस्रावणादिना वान्[येन्]ओपायेन । अपरे ऽपि वर्णयन्ति समुद्रयानरूढानां निक्षेपधारी यानव्यापत्तौ सति यदि किंचिद् आत्मीयं न संहरत्य् अर्थं नाभियोज्यो भवति निक्षेप्तुः । एतद् उक्तं भवति । परित्यज्यात्मीयं निक्षेपरक्षणे यत्नः करणीय इति ॥ ८.१८७ ॥
चोरैर् हृतं जलेनोढम् अग्निना दग्धम् एव च ।
न दद्याद् यदि तस्मात् तु न संहरति किंचन ॥ ८.१८८ ॥
भारुचिः ...{Loading}...
चोरादिभ्यो ऽपि नाशे ऽयम् एव समुद्रयानविधिर् व्याख्यात इति । यतः पूर्व एव श्लोकार्थो ज्यायान् ॥ ८.१८८ ॥
निक्षेपस्यापहर्तारम् अनिक्षेप्तारम् एव च ।
सर्वैर् उपायैर् अन्विच्छेच् छपथैश् चैव वैदिकैः ॥ ८.१८९ ॥
भारुचिः ...{Loading}...
यस् त्व् अपदेशाद् विना निक्षिप्तं याच्यमानो निक्षेप्त्रे न दद्यात्- असाक्षिके निक्षेप एतद् उच्यते । निक्षेप्ता वा गृहीत्वा पुनर् याचेत, अदत्वा वा । स राज्ञा प्राङ्विवाकेन वा सामादिभिः सर्वोपायैर् अन्वेष्य, तदसंभवे तु शपथैश् चैव वैदिकैः अग्निहरणादिभिः । चशब्दाल् लौकिका अपि कोशपानादयो ऽत्रानुरुध्यन्ते । कार्यसामान्याच् च निक्षेपविधेर् अन्यत्राप्य् एषाम् अप्रतिषेधः ॥ ८.१८९ ॥
यो निक्षेपं नर्पयति यश् चानिक्षिप्य याचते ।
ताव् उभौ चोरवच् छास्यौ दाप्यौ वा तत्समं दमम् ॥ ८.१९० ॥
भारुचिः ...{Loading}...
पूर्वव्यतिक्रमकारिणो दण्डार्थो ऽयम् आरम्भः विकल्पेन । तथा ब्राह्मणं तु — ॥ ८.१९० ॥
निक्षेपस्यापहर्तारं तत्समं दापयेद् दमम् ।
तथोपनिधिहर्तारम् अविशेषेण पार्थिवः ॥ ८.१९१ ॥
भारुचिः ...{Loading}...
> निक्षेपस्यापहर्तारं तत्समं दापयेद् दमम् ।
चोरदण्डनिवृत्त्यर्थं ब्राह्मणस्येदं पुनर्वचनं धनदापनस्य —
> तथोपनिधिहर्तारम् अविशेषेण पार्थिवः ॥ ८.१९१ ॥
औपरिष्टश्लोकार्धस्योपनिध्यर्थ आरम्भः । चोरवच्छिष्टिर् अधिकाराद् उपनिधाव् अपि स्याद् ब्राह्मणवर्जम् ॥ ८.१९१ ॥
उपधाभिस् तु यः कश्चित् परद्रव्यं हरेन् नरः ।
ससहायः स हन्तव्यः प्रकाशं विविधैर् वधैः ॥ ८.१९२ ॥
भारुचिः ...{Loading}...
पवित्रासनेनाशादानेन स्वकलत्रसं[भोग]न्यासेनागामिकालोपकारप्रदर्शनेनेत्य् एवमादिभिर् उपधाभिः परद्रव्यापहारी ससहायो विविधैर् वधिः प्रकाशम् अनुशासनीयः, येन कष्ट[तरस् तदीयनिग्रहस् स]र्वद्रव्यापहारेणेति ॥ ८.१९२ ॥
निक्षेपो यः कृतो येन यावांश् च कुलसंनिधौ ।
तावान् एव स विज्ञेयो विब्रुवन् दण्डम् अर्हति ॥ ८.१९३ ॥
भारुचिः ...{Loading}...
ससाक्षिके सति निक्षेपे सा[क्षिणाम् ग्राम्यादीनाम् एव] प्रमाणं स्याद् अर्थसंख्यापरिमाणे ॥ ८.१९३ ॥
मिथो दायः कृतो येन गृहीतो मिथ एव वा । मिथ एव प्रदातव्यो यथा दायस् तथा ग्रहः ॥ ८.१९४ ॥
भारुचिः ...{Loading}...
उपनिध्यर्थो ऽयं पुनरारम्भः । “यो यथा निक्षिपे[द् धस्ते” इति] पूर्वश्लोके निक्षेपप्रकरणोक्तं तदर्थ एव । अयं पुनर् उपनिध्यर्थत्वात् पुनरुक्तस् तेनैव विज्ञेयः । सामान्यविशेषप्रकॢप्त्या वानयोः स्लोकयोर् अपुनरुक्तता वर्णयितव्या ॥ ८.१९४ ॥
निक्षिप्तस्य धनस्यैवं प्रीत्योपनिहितस्य च ।
कुर्याद् विनिर्णयं राजाक्षिण्वन् न्यासधारिणम् ॥ ८.१९५ ॥
भारुचिः ...{Loading}...
समुद्रो विमुद्रो वा निक्षेपः । विमुद्र एव तु प्रीतिविमुक्तभोग उपनिधिः । तयोर् अन्वेषणविधिर् अयं विज्ञेयः । अस्वामिविक्रय इदानीम् उच्यते ॥ ८.१९५ ॥
विक्रीणीते परस्य स्वं यो ऽस्वामी स्वाम्यसंमतः ।
न तं नयेत साक्ष्यं तु स्तेनम् अस्तेनमानिनम् ॥ ८.१९६ ॥
भारुचिः ...{Loading}...
न तं नयेत साक्ष्यम् इत्य् अस्य प्रदर्शनार्थत्वात् सर्वाप्रामाण्याद् एव तं निवर्तयति ॥ ८.१९६ ॥
अवहार्यो भवेद् एष सान्वयः षट्शतं दमम् ।
निरन्वयो ऽनपसरः प्राप्तः स्याच् चोरकिल्बिषम् ॥ ८.१९७ ॥
भारुचिः ...{Loading}...
अवहार्यो दण्ड्यः सान्वयः सनिःसरः षट्शतं दमम् । निरन्वयस् तद् अनपसरः प्राप्तः स्याच् चोरकिल्बिषम् इत्य् अनेनापराधमहत्त्वाद् दण्डमहत्त्वं दर्शयति पूर्वस्मात् । अन्यस् त्व् आह- अपसरः क्रयाद् अन्यो धनागमः । एवं च सति — ॥ ८.१९७ ॥
अस्वामिना कृतो यस् तु दायो विक्रय एव वा ।
अकृतः स तु विज्ञेयो व्यवहारे यथा स्थितिः ॥ ८.१९८ ॥
भारुचिः ...{Loading}...
क्रयविक्रयाव् अस्वामिकृतौ निपात्याव् एव । तथा च स्वाम्य् एव धनभाक् स्यात् । न तु क्रेता विक्रेता वा धने स्वामी परितोषणीयः । इदानीम् अस्वामिसकाशात् क्रीतस्य दश[वर्ष]भोगाभिगमेन मा भूत् स्वत्वम् इति, यत इदम् आह — ॥ ८.१९८ ॥
**संभोगो यत्र दृश्येत न दृश्येतागमः क्वचित् । **
आगमः कारणं तत्र न संभोग इति स्थितिः ॥ ८.१९९ ॥
भारुचिः ...{Loading}...
एवं चागमाद् अशुद्धद्रव्यस्य दशवर्षभोगेनापि न स्वामित्वम् । यतश् चैतद् एवम् अतः — ॥ ८.१९९ ॥
विक्रयाद् यो धनं किंचिद् गृह्णीयात् कुलसंनिधौ ।
क्रयेण स विशुद्धस् तु न्यायतो लभते धनम् ॥ ८.२०० ॥
भारुचिः ...{Loading}...
न्यायतस् तु क्रयः कुलसंनिधाव् उचितेन मूल्येन संभाव्याच् च पुरुषात् । एतच् च तस्यानभियोगं धनलाभश् च युक्तः । एवं बुद्धिपूर्वव्यवहारयिताय न्यायकारिणः ॥ ८.२०० ॥
अथ मूल्यम् अनाहार्यं प्रकाशक्रयशोधितम् ।
अदण्ड्यो मुच्यते राज्ञा नाष्टिको लभते धनम् ॥ ८.२०१ ॥
भारुचिः ...{Loading}...
अभियोगकाले च तस्य यदि मूल्यम् आहर्तुं शक्यं [न] स्यात् विक्रेतुर् अभावात्, अतस् तस्य प्रकाशक्रयेण शुद्धस्यादण्डत्वं युक्तम् । अपि च देशान्तराद् आगतैः पापकारिभिः निःशङ्कं राजसंनिधाव् अप्रविकाशं विक्रियते द्रव्यम्, तत्र च यदि मूल्यस्यानाहार्यत्वात् प्रकाशक्रयशुद्धे विक्रये क्रेतुर् दोषः स्यात्, एवं च सति राज्ञः सर्वदिक्को व्यवहारः साधूनाम् अपि विच्छिद्येत । न चैतद् इष्टम् । अतः क्रेतुर्न् अत्र नास्ति दोषः । नाष्टिकस् तु कारणतः स्वम् अर्थं प्रज्ञापयन् कथम् इव न लभते स्वधनम्- अतस् तस्य धनलाभो युक्तः । इतरस्य चादोषत्वाद् अदण्ड्यत्वं युक्तम् । अस्वामिविक्रयव्यवहारसाधर्म्यात् तत्प्रकरणम् एवायम् उच्यते ॥ ८.२०१ ॥
नान्यद् अन्येन संसृष्टं रूपं विक्रयम् अर्हति ।
न सावद्यं न च न्यूनं न दूरे न तिरोहितम् ॥ ८.२०२ ॥
भारुचिः ...{Loading}...
अन्यत् कुङ्कुमादिद्रव्यम् अन्येन कुसुम्भादिना द्रव्येण संसृष्टं विक्रयं नार्हति । एवं च प्रतिषेधाद् अस्यैवम् अकार्यम् अनुमीयते । एवं सावद्यम् असंसृष्टम् अपि यद् भाण्डं पूतिकं चिरन्तनं जीर्णवस्त्रादि । न च न्यूनं यत् तुल्यान्तरेण पश्चाद् धीयते पलसंख्यया । न दूरे ऽप्रत्यक्षत्वात् । एतेन तिरोहितं व्याख्यातम्- अद्रव्यं वा द्रव्याभासं यत् क्रियते भाण्डरागादिना कर्मणा तत् तिरोहितम् । एवं च सति, ईदृशम् एवं विक्रीणानस्य दोषत्वाद् अस्य दण्डार्हता । न केवलम् अशुद्धता विक्रेतुः । तथा च सति, क्रेत्रा ऊर्ध्वम् अपि दशाहाद् एतद् विक्रेतुः प्रत्यर्पणीयम् एव । येनास्याइतत् प्रतिषेधशास्त्रम् असद्विक्रयेणापोदितम्, “परेण तु दशाहस्य न दद्यान् नापि दापयेत्” इति । विक्रयसंबन्धेनैवायम् अपरः कान्यव्यवहारः शुल्काश्रयः प्रस्तूयते — ॥ ८.२०२ ॥
अन्यां चेद् दर्शयित्वान्या वोढुः कन्या प्रदीयते ।
उभे त एकशुल्केन वहेद् इत्य् अब्रवीन् मनुः ॥ ८.२०३ ॥
भारुचिः ...{Loading}...
निरवद्यां कन्यां दर्शयित्वा यः सा[वद्यां ददा]ति तस्य उभे अपि ते एकशुल्केनइव वहनीये ॥ ८.२०३ ॥
नोन्मत्ताया न कुष्ठिन्या न च या स्पृष्टमैथुना ।
पूर्वं दोषान् अभिख्याप्य प्रदाता दण्डम् अर्हति ॥ ८.२०४ ॥
भारुचिः ...{Loading}...
एवं च सति दोषवत्यास् तद्दोषाकथने विप[र्ययण दाता दण्ड्यः, पूर्वम् आ]वेदने ऊढायाश् च दोषवत्या अपि परित्यागो नास्ति । क्रमप्राप्तं संभूयसमुत्थानम् अधुनोच्यते, यतः तदर्थं श्रौतम् उदाहरणं दर्शयति ॥ ८.२०४ ॥
ऋत्विग् यदि वृतो यज्ञे [स्वकर्म परिहापयेत् ।
तस्य कर्मानुरूप्येण देयो ऽंशः सह क]र्तृभिः ॥ ८.२०५ ॥
भारुचिः ...{Loading}...
प्रधानर्त्विक् प्रक्रान्तकर्मा यदि परिहापयेत् स्वकर्म देशान्तरगमनापाटवादिभिर् अर्थलक्षणैः तस्य कर्मानुरूप्येण दक्षिणांशः स्यात् । कथम् । कर्मण[श् चतुर्थे कृते दक्षिणा]या अपि चतुर्भागः । एवं त्रिभागादिष्व् अपि योज्यम् । सह कर्तृभिर् इति [प्रति]प्रस्थातृप्रभृतींस् तत्पुतुषान् आह । अस्यापवादः — ॥ ८.२०५ ॥
दक्षिणासु तु दत्तासु स्वकर्म परिहापयन् ।
कृत्स्नम् एव लभेतांशम् अन्येनैव च कारयेत् ॥ ८.२०६ ॥
भारुचिः ...{Loading}...
दक्षिनादानाद् ऊर्ध्वं तेषां स्वकर्माकुर्वतां कारणान्तरतो न प्रत्याहरणीया दक्षिणास् तेभ्यः । अकुर्व[तां यान्]य् औपर्तिष्टानि कर्माणि अन्येनैव च कारयेत् तानि तत्पुरुषेण वान्येन वा, परिशिष्टकर्मानुरूपं यत् किंचिद् दत्त्वा, इतरथा ह्य् अपरिजितं दक्षिणया तत्कर्मयजमानार्थं न स्यात् । इदम् एव शास्त्रं परिशिष्टकर्मानुष्ठातुर् दक्षिणादाने विज्ञेयम् । अनेन च प्रसङ्गेनेदम् अपरं तद्गतम् एवोच्यते ॥ ८.२०६ ॥
यस्मिन् कर्मणि यास् तु स्युर् उक्ताः प्रत्यङ्गदक्षिणाः ।
स एव ता आददीत भजेरन् सर्व एव वा ॥ ८.२०७ ॥
भारुचिः ...{Loading}...
प्रत्यङ्गदक्षिणाः सर्वदा संशय्यन्ते । किम् अमीषाम् ऋत्विजां प्रतिग्रहनियमश् चातुर्विद्यविनियुक्तपादिकब्राह्मणवत्, उत पदार्थस्वरूपस्वाभाव्यात् तदर्थेनेति न्यायविकल्पो ऽनूद्यते । तादर्थ्यपक्षं चाश्रित्यैतद् अधुनोच्यते ॥ ८.२०७ ॥
रथं हरेत चाध्वर्युर् ब्रह्माधाने च वाजिनम् ।
होता वापि हरेद् अश्वम् उद्गाता चाप्य् अनः क्रये ॥ ८.२०८ ॥
भारुचिः ...{Loading}...
क्रतौ नानाशाखास्व् अवस्थितानाम् अङ्गदक्षिणानां बह्वीनां प्रदर्शनार्थः श्लोकः । एवं तावद् आधाने प्रधानर्त्विग्दक्षिणा अनः सोमिकेष्व् अपि ॥ ८.२०८ ॥
सर्वेषाम् अर्धिनो मुख्यास् तद् अर्धेनार्धिनो ऽपरे ।
तृतीयिनस् तृतीयांशाश् चतुर्थांशास् तु पादिनः ॥ ८.२०९ ॥
भारुचिः ...{Loading}...
“ताञ् छतेन दाक्षयन्ति” इति वचनाद् अष्टचत्वारिंशद् भवन्तीति । एवं तदर्धाद् इव संख्यानिर्देश उत्तरत्र समर्थो भवति । तेन्आर्धिनो ऽध्वर्युब्रह्मोद्गातृहोतारो मुख्या ऋत्विजो भवन्ति । तदर्धेन चतुर्विंशत्या अर्धिनो ऽपरे उक्तेभ्यो द्वितीयस्थानं प्रतिप्रस्थातृमैत्रावरुणब्राह्मणाच्छंसिप्रस्तोतारः । एवं च कात्यायनः “षत् षत् द्वितीयेभ्यः” वक्ति । तृतीयिनः तृतीयं स्थानं येषां त इमे तृतियिनः, तृतीयांशाः । समुदायेन षोडश पशुभाजः । कात्यायनो ऽपि चैवम् एव वक्ति- “चतस्रश् चतस्रस् तृतीयेभ्यः” इति । प्रत्येकं चतुर्थ अंशो येषां त इमे चतुर्थांशाः समुदायतो द्वादशपशुभाजः पादिनो भवन्ति । कात्यायनो ऽपि “तिस्रस् तिस्र इतरेभ्यः” । आद्यसंख्यापेक्षया पाद एषाम् अस्तीति पादिनः । चतुर्थस्थाना उच्यन्ते । स्थाने स्थानिनां व्यपदेशो ऽयम् । चतुर्थांशशब्दस् तु भागकल्पकः समासपदेन । तथा चोक्तम्, विपर्ययेण वैतद् व्याख्येयम् । उभवनिर्देशश् चात्र पादपूरणार्थो विज्ञेयः । यद्य् अप्य् अन्यतरस्माद् उभयार्थप्रतीतिः अयं सर्वो विधिर् न्यायश्रुतिसिद्धो दृष्टान्तत्वेनेहोपादीयते । यथा संभूयैकं कर्म सहकुर्वतां दृष्टा गुरुलघुताम् अवक्ष्यानवेक्ष्य वा वचनसामर्थ्याद् विषमांशप्रकॢप्तिः । एवम् — ॥ ८.२०९ ॥
संभूय स्वानि कर्माणि कुर्वद्भिर् इह मानवैः ।
अनेन विधियोगेन कर्तव्यांशप्रकल्पना ॥ ८.२१० ॥
भारुचिः ...{Loading}...
एकस्मिन् गृहकरणादौ सूत्रकारवधकिस्थपत्यादीनां गुरुलघुताम् अवक्ष्यानवेक्ष्य वा यथास्मरणं कर्तव्यांशप्रकल्पना । न ह्य् अशिल्पेषु व्यवहारेषु वा मनुष्याणां तुल्यता शक्या ग्रहीतुम् । अदत्तानपकर्म[वर्]णार्थम् इदम् आह — ॥ ८.२१० ॥
धर्मार्थं येन दत्तं स्यात् कस्मैचिद् याचते धनम् ।
पश्चाच् च न तथा तत् स्यान् न देयं तस्य तद् भवेत् ॥ ८.२११ ॥
भारुचिः ...{Loading}...
स्वनिगदोपवर्णितः श्लोकः ॥ ८.२११ ॥
यदि संसादयेत् तत् तु दर्पाल् लोभेन वा पुनः ।
रा[ज्ञा दाप्यः सुवर्णं स्यात् तस्य स्तेयस्य निष्कृतिः] ॥ ८.२१२ ॥
भारुचिः ...{Loading}...
येन धर्मार्थं किंचित् प्रतिश्रुतं न तु दत्तम् । तं चेद् धर्मम् अकुर्वन् प्रतिश्रुतम् इति कृत्वा साधयेद् अदातारम्, ततो राज्ञा सुवर्णं स दाप्यः । सोपधं [याचितारः न स्तेयकारिणः, अन्यायकारित्वाद् उ]द्धृतदण्डास् त्व् इति ॥ ८.२१२ ॥
दत्तस्यैषोदिता धर्म्या यथावद् अनपक्रिया ।
अतः परं प्रवक्ष्यामि वेतनस्यानपक्रियाम् ॥ ८.२१३ ॥
भारुचिः ...{Loading}...
उपसंहारोपन्यासार्थः श्लोकः ॥ ८.२१४ ॥
भृ[तो ऽनार्तो न कुर्याद् यो दर्पात्] कर्म यथोदितम् ।
स दण्ड्यः कृष्णलान्य् अष्टौ न देयं चास्य वेतनम् ॥ ८.२१४ ॥
भारुचिः ...{Loading}...
उत्पन्ने वेतने किंचित्कृतकर्मापि दण्डयितव्यः वेतनं च [न] लभेत, येन दर्पात् कर्मणः प्रक्रान्तस्याकृत्स्नकारी ॥ ८.२१४ ॥
आर्तस् तु कुर्यात् स्वस्थः सन् यथा भाषितम् आदितः ।
सुदीर्घस्यापि कालस्य तल् लभेतैव वेतनम् ॥ ८.२१५ ॥
भारुचिः ...{Loading}...
प्रतीतार्थः श्लोकः ॥ ८.२१५ ॥
यथोक्तम् आर्तः स्वस्थो वा यस् तत्कर्म न कारयेत् ।
न तस्य वेतनं देयम् अल्पोनस्यापि कर्मणः ॥ ८.२१६ ॥
भारुचिः ...{Loading}...
आर्तः स्वस्थो वा यथोदितं कर्म न कुर्वन्, न कारयन् वा, अल्पोनस्यापि वेतनं न लभेत ॥ ८.२१६ ॥
एष धर्मो ऽखिलेनोक्तो वेतनादानकर्मणः ।
अत ऊर्ध्वं प्रवक्ष्यामि धर्मं समयभेदिनाम् ॥ ८.२१७ ॥
भारुचिः ...{Loading}...
उपसंहारोपन्यासार्थः श्लोकः ॥ ८.२१७ ॥
यो ग्रामदेशसङ्घानां कृत्वा सत्येन संविदम् ।
विसंवदेन् नरो लोभात् तं राष्ट्राद् व्प्रवासयेत् ॥ ८.२१८ ॥
भारुचिः ...{Loading}...
धर्मार्थयुक्तेषु प्रयोजनेषु राजकार्याविरोधिषु गोप्रचारोदकरक्षणदेवतायतनप्रतिसंस्करणादिषु ग्रामादीनां या संविद् उत्पद्यते, तत्र व्यभिचारिणं तस्माद् देशाद् राजा निर्वासयेत् ॥ ८.२१८ ॥
निगृह्य दापयेच् चैनं समयव्यभिचारिणम् ।
चतुस् सुवर्णान् षण्निष्काञ् छतमानं च राजतम् ॥ ८.२१९ ॥
भारुचिः ...{Loading}...
चतुः सुवर्णादि च दण्डं च दाप्यः, ततो निर्वास्यः । “निगृह्य दापयेद् वैनम्” इत्य् अपरो दण्डविकल्पपाठः । एवं च सति निर्वासनं दण्डो वा ॥ ८.२१९ ॥
एतद् दण्डविधिं कुर्याद् धार्मिकः पृथिवीपतिः ।
ग्रामजातिसमूहेषु समयव्यभिचारिणाम् ॥ ८.२२० ॥
भारुचिः ...{Loading}...
उपसंहारार्थः श्लोकः ॥ ८.२२० ॥
क्रीत्वा विक्रीय वा किंचिद् यस्येहानुशयो भवेत् ।
सो ऽयं दशाहात् तद्द्रव्यं दद्याच् चैवाददीत च ॥ ८.२२१ ॥
भारुचिः ...{Loading}...
अन्तर्दशाहम् आदानप्रत्यर्पणे साम्नेत्य् अयम् अपाठः । येनोर्ध्वम् अपि दशाहात् कः शक्तस् साम्ना दानादाने प्रतिषेद्धुम् । लब्धिमेष्व् अपि द्रव्येषु सामाशक्यं प्रतिषेद्धुम्, किं पुनः कृत्रिमेषु, यत्र कश्चिद् धर्मगतिर् नास्ति । धर्म्येषु तु प्रतिग्रहेषु तदनन्तरनिर्वृत्तत्वाद् धर्मस्य साम्नाप्य् अश्क्यं कृतम् अकृतं कर्तुम् । तत्र प्रत्यर्पणे पुनर्दानं वा कृतं भवेत् परित्यागो वा । यतश् चैतद् एवम् । अत एवं पठितव्य उत्तरश्लोकार्धः- “सो ऽयं दशाहात् तद्द्रव्यं दद्याच् चैवाददीत च” इति । अत्रैवार्थ उत्तरश्लोकार्धपाठो ऽन्यो भवति- “दानादाने दशाहं तु स्याताम् अपि निपातिनि” इति । अथ वा सामग्रहणं दशाहे दण्डनिवृत्त्यर्थम् । अन्तर्दशाहानुशये कथंचिद् विवदतां राजाधिगमे दण्डनिवृत्तिर् यथा स्याद् राजतस् तयोः । तथा च दशाहस्योत्तरत्र तद्विवादे दण्डः श्रूयते ॥ ८.२२१ ॥
परेण तु दशाहस्य न दद्यान् नापि दापयेत् ।
आददानो ददच् चैव राज्ञा दाप्यः शतानि षट् ॥ ८.२२२ ॥
भारुचिः ...{Loading}...
नायं श्लोको दशाहाद् ऊर्ध्वं सामप्रतिषेधार्थ आरभ्यते, साम्नाप्य् ऊर्ध्वं दशाहान् न दद्यान् नापि दापयेद् इति । न हि साम प्रतिषेद्धुं शक्यम् इत्य् उक्तम् । यत्र तु साम्नापि प्रत्यर्पणं नास्ति, तत्र नियमयत्य् एव, यथा “सकृद् अंशो निपतति” इति; अत्रापि त्व् अंशपातने साम्नाइव प्रतिषेद्धुं शक्यं नियमाभावाद्, व्यवस्थार्थत्वाच् च । कन्यादाने तु निष्क्रमविसर्गाभ्याम् इति विशेषनियमात् साम न विद्यते ॥ ८.२२२ ॥
अनुशयप्रसङ्गाद् इदम् अन्यद् अत्रोच्यते ।
यस् तु दोषवतीं कन्याम् अनाख्याय प्रयच्छति ।
तस्य कुर्यान् नृपो दण्डं स्वयं षण्णवतिं पणान् ॥ ८.२२३ ॥
भारुचिः ...{Loading}...
धर्मप्रजानिरोधिना रोगेण गृहीता स्पृष्टमैथुना वा दोषवती । ताम् अनाख्याय दोषवतीं प्रयच्छतो दण्डः, “नोन्मत्ताया” इति पूर्वोक्तश्लोकेनैव गतार्थो, यतः वयम् अत्र नाधीयामहे । अथ वानुवादपक्षः केनचित् कारणेन तस्यास्य च शक्यते दर्शयितुम्, यतो युक्तम् अध्ययनम् [इहापि ॥ ८.२२३ ॥
अकन्येति तु यः कन्यां ब्रूयाद् द्वे]षेण मानवः ।
स शतं प्राप्नुयाद् दण्डं तस्या दोषम् अदर्शयन् ॥ ८.२२४ ॥
भारुचिः ...{Loading}...
स्वशब्दव्याख्यातः श्लोकः । कस्य पुनर् हेतोर् अयं दण्डो महान् विधीयते, येन — ॥ ८.२२४ ॥
पाणिग्राहणिका मन्त्राः कन्यास्व् एव [प्रतिष्ठिताः ।
नाकन्यासु क्वचिन् नृणां लुप्तधर्मक्रिया हि ताः] ॥ ८.२२५ ॥
भारुचिः ...{Loading}...
तथा वैवाहिको मन्त्रः “अर्यमणं देवं कन्याग्निमयक्षत । स नो अर्यमा देवः प्रेतो मुञ्चतु मा पतेः स्वाहा” इत्यादिना कन्यास्व् इत्य् अत्र [मन्त्रार्थः, तास्व् एव प्रतिष्ठि]ता विवाहादिभिर् इत्य् अर्थः । एवं च सति पूर्वं पाणिग्रहणात् प्रतिगृहीतापि स्पृष्टमैथुना परित्यक्तव्येति ॥ ८.२२५ ॥
यश् च ।
पाणिग्राहणिका मन्त्रा नियतं दारलक्ष[णम् ।
तेषां निष्ठा तु विज्ञेया विद्वद्भिः सप्तमे पदे ॥ ८.२२६ ॥
भारुचिः ...{Loading}...
विवाह्]आर्थे संस्कारे [पाणिग्र]हलक्षणे भवाह् पाणिग्राहणिकाः, तत्कर्मसाधनभूता मन्त्राः । नियतं दारलक्षणं दारोपसंग्रहलक्षणम्, कन्यानाम् एव गृह्यशास्त्रतो नाकन्यानाम् । तथा च दर्शयति- “विवाहे उदगयन आपूर्यमाणपक्षे पुण्याहे, कुमार्याः पाणिं गृह्णीयात् । त्रिषु त्रिषूत्तरादिषु । स्वातौ मृगशिरसि रोहिण्यां वा” इति । पुनश् चैतम् एवार्थं संदर्शयति- “कुमार्या भ्राता शमिपलाशमिश्राल् लाजान् अञ्जलिनाञ्जलाव् आवपति । ताञ् जुहोति सर्ट् हतेन (?) तिष्ठति” इति । यतश् चैतद् एव । अतस् तेषां निष्ठा तु वुज्ञेया विद्वद्भिः सप्तमे पदे । तेषां मन्त्राणां पाणिग्रहणप्रयोजनानां सप्तमे पदे निष्ठा परिसमाप्तिः । प्रेत्य तस्य कार्यतः प्राप्तव्यस्य सप्तलोकसंस्थस्य जगतः इयत्परिमाणत्वात् । सप्त हि लोका भूरादयः सत्यान्ताः; तान् असौ पदसंख्या संमितांस् तया सह श्रौतस्मार्तैः कर्मभिर् यातुम् इच्छति । तथा च मन्त्रः एतदर्थानुवाद्य् एव भवति- “सखा सप्तपदी भव” इति । एवं च सति, आसप्तभ्यः पदेभ्यः स्पृष्टमैथुनत्वेन विज्ञाता हेया भवति । ऊर्ध्वं तु सप्तमात् पदात् स्पृष्टमैथुनापि सती न परित्याज्या । तस्मान् निष्ठावचनलिङ्गाद् भवति । तथा च सति सहोढकानीनयोः शास्त्रोपदेशः समर्थो भवति । या तु रोगिणी सती धर्मप्रजननयोर् अन्यत्रसमर्था भवति, तां प्रतिगृह्य नोत्सृजेत । न ह तस्या धर्माविरोधे प्रजाविरोधे वा सति पुंसा कर्तव्यतान्यास्ति । अथाप्य् अस्यादृष्टार्थः सप्रयोगः, तथाप्य् असौ प्राग् अग्न्याधेयाद् अन्याम् उद्वाहयिष्यति । या तूभयोर् अपि धर्मप्रजननयोर् समर्था सा विद्यमानयातुल्येति परित्याज्यैव । अयं च कन्याव्यवहारः क्रयविक्रयानुशयसादृश्याद् एतस्मिन्न् अवधाव् उच्यत इति ॥ ८.२२६ ॥
यस्मिन् यस्मिन् कृते कार्ये यस्येहानुशयो भवेत् ।
तम् अनेन विधानेन धर्मे पथि निवेशयेत् ॥ ८.२२७ ॥
भारुचिः ...{Loading}...
आधिवेतनसमयाद्यनुशयेषु दशाह एव निष्ठा स्यात् ॥ ८.२२७ ॥
पशुषु स्वामिनां चैव पालानां च व्यतिक्रमे ।
विवादं संप्रवक्ष्यामि यथावद् धर्मतत्त्वतः ॥ ८.२२८ ॥
भारुचिः ...{Loading}...
उपन्यासार्थश्लोकः ॥ ८.२२८ ॥
दिवा वक्तव्यता पाले रात्रौ स्वामिनि तद्गृहे ।
योगक्षेमे ऽन्यथा चेत् तु पालो वक्तव्यताम् इयात् ॥ ८.२२९ ॥
भारुचिः ...{Loading}...
पर्तीतार्थः श्लोकः ॥ ८.२२९ ॥
गोपः क्षीरभृतो यस् तु स दुहेद् दशतो वराम् ।
गोस्वाम्य् अनुमतां भृत्यः सा स्यात् पाले ऽभृते भृतिः ॥ ८.२३० ॥
भारुचिः ...{Loading}...
क्षीरभृतो [न] भ्क्ताच्छादनभृतो, द्विविधो यस्माद् गोपः । अत इदं विशेष्यते । क्षीरभृतो यस् तु गोपः स दुहेद् दशतः दशभ्यो धेनुभ्य एकां वरां श्रेष्ठाम् इत्य् अर्थः । ताम् अपि च गोस्वाम्य् अनुमतः, न स्वेच्छया, सा स्यात् पाले भृत्यन्तरेण्**आभृते भृतिः **। एवं च सति पञ्चावस्थासु गोषु बह्ववस्थासु वा गोस्वामिभिर् गोपैश् च त्रिभागः क्षीरस्य कल्पितः परिकल्प्य भोग्याभोग्यरूपाण्य् अनेनैव शास्त्रेण, येनाइतस्माद् एव च दर्शनात् क्षीरभृतिः पशूनां संरकणे न दोषायाप्रतिषेधात् तस्या इति । एवं च सति — ॥ ८.२३० ॥
नष्टं विनष्टं कृमिभिश् श्वहतं विषमे मृतम् ।
हीनं पुरुषकारेण [प्रदद्यात् पाल एव तु] ॥ ८.२३१ ॥
भारुचिः ...{Loading}...
गोपप्रमादेन ॥ ८.२३१ ॥
अस्यापवादः ।
विघुष्य तु हृतं चोरैर् न पालो दातुम् अर्हति ।
वदि देशे च काले च स्वामिनः स्वस्य शंसति ॥ ८.२३२ ॥
भारुचिः ...{Loading}...
हरणदेशे हरणकाले च विघुष्य अनन्तरं स्वामिन आख्याते पालो न दद्यात् । स्वयं मृत्युनापि च मृतेषु प्रयत्नवतो गोपस्य स इदं कुर्यात् ॥ ८.२३२ ॥
कर्णौ च चर्म वालांश् च बस्तिस्नायूनि रोचनाम् ।
पशुस्वामिषु दद्यात् तु मृतेष्व् अङ्कांश् च दर्श[येत् ॥ ८.२३३ ॥
भारुचिः ...{Loading}...
विधिर् अयं] चाविशेषः ॥ ८.२३३ ॥
[अजा]विकार्थम् इदम् आह ।
अजाविके तु संरुद्धे वृकैः पाले त्व् अनायति ।
यां प्रसह्य वृको हन्यात् पाले तत्किल्बिषं भवेत् ॥ ८.२३४ ॥
भारुचिः ...{Loading}...
पशुरक्षकस्य सतस् तदसंनि[धाने वा वृको हन्यात् स एव] दद्यात् । यस्माद् अवरुद्धानां संनिहितो न भवति । वृकग्रहणं चान्येषाम् अपि प्रदर्शनार्थम् ॥ ८.२३४ ॥
तासां चेद् अवरुद्धानां चरन्तीनां मिथो वने ।
याम् उत्प्लुत्य वृको हन्यान् न पाल[स् तत्र किल्बिषी] ॥ ८.२३५ ॥
भारुचिः ...{Loading}...
अशक्यत्वाद् अटव्यां बहुवृक्षक्षुपगर्तायां तत्संरक्षणस्य मिथश् चरन्तीनां न पालापराधः । एतेन गोमहिष्यादि व्याख्यातम् । उक्तो गोसंरक्षणविधिः । पशुपीडापशुसंहारार्थम् इदम् उच्य[ते] ॥ ८.२३५ ॥
धनुः शतं परीहारो ग्रामस्य स्यात् समन्ततः ।
शम्यापातास् त्रयो वापि त्रिगुणो नगरस्य तु ॥ ८.२३६ ॥
भारुचिः ...{Loading}...
यो देशो ग्रामनगरयोः समन्ततो गवां सुखप्रचारस्थानासनार्थम् अनुप्तसस्यकार्यः ॥ ८.२३६ ॥
तत्रापरिवृतं धान्यं विहिंस्युः पशवो यदि ।
न तत्र प्रणयेद् दण्डं नृपतिः पशुरक्षिणाम् ॥ ८.२३७ ॥
भारुचिः ...{Loading}...
यदि तु तत्र भूलोपात् समुप्यते न केनचित् परिवृतं च भवेत्, ततस् तद्भक्षणे गोभिर् न दोषः स्यात् पशुरक्षिणाम् ॥ ८.२३७ ॥
वृतिं तत्र तु कुर्वीत याम् उष्ट्रो नावलोकयेत् ।
छिद्रं चावारयेत् सर्वं श्वसूकरमुखानुगम् । ८.२३८ ॥
भारुचिः ...{Loading}...
पशुवारणसमर्थायाम् तु वृतौ कृतायां सस्योपघाते पालस्य दोषः स्यात् ॥ ८.२३८ ॥
पथि क्षेत्रे ऽपरिवृते ग्रामान्तीये ऽथ वा पुनः ।
स पालः शतदण्डार्हो विपालं वारयेत् पशुम् ॥ ८.२३९ ॥
भारुचिः ...{Loading}...
यष्टिपातेन खादयन् पालः शतदण्डार्हः स्यात्, विपालं च पशुं वारयेत् । अदण्डश् च स्यात् पशुपालः तदसंनिधानात् । अन्यस् त्व् अत्रार्थः सह पालेन सपालः क्षेत्रिकः न पशुर् अत्रोच्यते । पूर्ववच्छतदण्डार्हः स्यात् । उभयापराधात्, क्षेत्रिकेण तावत् किम् इति क्षेत्रं स्वम् अनावृतम् इति, तस्माद् उभयापराधाद् उभयोर् दण्डः । गौतमीये ऽपि चोक्तम् “पथि क्षेत्रे ऽनावृते पालक्षेत्रिकयोः” इति ॥ ८.२३९ ॥
क्षेत्रेष्व् अन्येषु तु पशुः सपादं पणम् अर्हति ।
सर्वत्र तु शदो देयः क्षेत्रिकस्येति धारणा ॥ ८.२४० ॥
भारुचिः ...{Loading}...
अन्यक्षेत्राणि पूर्वोक्ताद् अवधेर् यानि बहिः तान्य् उच्यन्ते । गोश् च सपादस्य पणस्योपदेशाद्, उपघातानुरूपेण महिष्यादीनां स्याद् राजभाव्यो दण्डः । शदः क्षेत्रिकस्य सर्वत्रशब्दाच् च विपाले ऽपि शदो देयत् इति ॥ ८.२४० ॥
अनिर्दशाहां गां सूतां वृषान् देवपशूंस् तथा ।
सपालान् वाप्य् अपालान् वा न दण्ड्यान् मनुर् अब्रवीत् ॥ ८.२४१ ॥
भारुचिः ...{Loading}...
पूर्वापवादः । वृषाः सेक्तारः प्रति तान् । देवपशवश् चोत्सृष्टा वृषोत्सर्गन्यायेन, अन्ये च मृगा आप्य् अजादयो देवायतनमण्डना अदण्ड्याः । ननु च निष्परिग्रहत्वाद् देवपशुष्व् एतद् अयुक्तं, सपरिग्रहानुगमाद् एषां तद्वत्प्राप्तौ सत्याम् अपवादः । अथ वा दृष्टान्तार्थम् एव पशव उपादीयन्ते । यथा देवपशवो ऽदण्ड्याः, एवम् अनिर्दशाहा गौः सूता वृषाश् च सेक्तार इति परिग्रहवद् वा । देवायतनेष्व् एतद् दण्डं न युक्तम् । एवं च सति यो ऽन्येषां परिग्रहवतां दर्मः स एव तेषाम् अपि स्यात् । न चैतद् इष्टम् ॥ ८.२४१ ॥
क्षेत्रिकस्यात्यये दण्डो भागाद् दशगुणो भवेत् ।
ततो ऽर्धदण्डो भृत्यानाम् अज्ञानात् क्षेत्रिकस्य तु ॥ ८.२४२ ॥
भारुचिः ...{Loading}...
यस्मात् सस्यात् क्षेत्रिको यद् अपहरेत् तस्य भागकल्पनया दशगुणो दण्डः प्रकल्प्यः । अर्धदण्डा भृत्याः स्युः । अज्ञानात् क्षेत्रिकस्य तु प्रयोगाद् एव भृत्यानाम् असाव् एव दण्डः स्यात् । सस्यसम्बन्धप्रसङ्गाच् चायं क्षेत्रिकस्य व्यतिक्रम उच्यते, अस्तेयाभिमतत्वाच् च ॥ ८.२४२ ॥
एतद् विधानम् आतिष्ठेद् धार्मिकः पृथिवीपतिः ।
स्वामिनां च पशूनां च पालानां च व्यतिक्रमे ॥ ८.२४३ ॥
भारुचिः ...{Loading}...
उपसंहाराथः श्लोकः ॥ ८.२४३ ॥
सीमां प्रति समुत्पन्ने विवादे ग्रामयोर् द्वयोः ।
ज्येष्ठमासे नयेत् सीमां सुप्रकाशेषु सेतुषु ॥ ८.२४४ ॥
भारुचिः ...{Loading}...
उपन्यासश् चित्तप्रणिधानार्थः । ज्येष्ठमासे सेतवः, सीमाव्यवच्छेदहेतवः, सुविज्ञाता भवन्ति ॥ ८.२४४ ॥
सीमावृक्षांस् तु कुर्वीत न्यग्रोधाश्वत्थकिंशुकान् ।
शाल्मलीन् शालतालांश् च क्षीरिणश् चैव पादपान् ॥ ८.२४५ ॥
गुल्मान् वेणूंश् च विविधाञ् छमीवल्लीस्थलानि च ।
शरान् कुब्जकगुल्मांश् च तथा सीमा न नश्यति ॥ ८.२४६ ॥
तटाकान्य् उदपानानि वापीः प्रस्रवणानि च ।
सीमासंधिषु कार्याणि देवतायतनानि च ॥ ८.२४७ ॥
उपच्छन्नानि चान्यानि सीमालिङ्गानि कारयेत् ।
सीमा[ज्ञाने] नृणां वीक्ष्य लोके नित्यं विपर्ययम् ॥ ८.२४८ ॥
अश्मनो ऽस्थीनि गोवालांस् तुषान् भस्म कपालिकाः ।
करीषम् इष्टकाङ्गारांश् छर्करा वालुकास् तथा ॥ ८.२४९ ॥
यानि चैवं प्रकाराणि कालाद् भूमिर् न भक्षयेत् ।
तानि संधिषु [सीमायाम् अप्रकाशं] निधापयेत् ॥ ८.२५० ॥
भारुचिः ...{Loading}...
षट् च्छ्लोकाः सीमासेतुप्रकारदर्शनार्थाः ॥ ८.२४५–२५० ॥
एतैर् लिङ्गैर् नयेत् सीमां राजा विवदमानयोः ।
पूर्वभुक्त्या च सततम् उदकस्यागमेन च ॥ ८.२५१ ॥
भारुचिः ...{Loading}...
यत्र निबद्धानि लिङ्गा[नि नष्टानि] न चान्यतरस्य शून्यता स्मर्यते, तत्र पूर्वभुक्तिः प्रमाणम् । अन्यतरशून्यत्वे तु ऽन भोगेन प्रणश्यति" इति पूर्वभुक्तिर् नाश्रियते । विद्यते हि भोगस्य निमित्त[त्वम् यस्मात् अशून्ये ऽव]च्छेदः क्रियते । किम् अत्र लिङ्गकरणेन स्रोत एव हि नित्यम् अभिप्रवृत्तं सीमास्थापकं भविष्यति । न हि पूर्वभुक्तौ सत्याम् उदकागमो निर्हेतुको विकल्पेन वा बाध[को युक्तः कल्प]यितुम् । तस्माच् छून्यविषय एव सुखप्रतिपत्त्यर्थ आयत्युपेतयोर् उदकागमः कल्प्यते । अथ वा महास्रोतो [अशून्य]विषय एव द्रष्टव्यः । स्रोतांसि हि महान्ति कदाचित् [अपथेन] प्रवर्तन्ते, तत्र पूर्वभुक्तिम् अतीत्यापि स्रोत एव निर्णयाय स्याद् इति ॥ ८.२५१ ॥
यदि संशय एव स्याल् लिङ्गानाम् अपि दर्शने ।
साक्षिप्रत्यय एव स्यात् सीमावादे विनिर्णयः ॥ ८.२५२ ॥
भारुचिः ...{Loading}...
[न कुतश्चिल् लिङ्ग्]ओत्पत्ताव् उभयथा लिङ्गानुस्मृतौ च साक्षिप्रत्ययः ॥ ८.२५२ ॥
ग्रामेयककुलानां तु समक्षं सीमसाक्षिणः ।
प्रष्टव्याः सीमलिङ्गानि तयोश् चैव विवादिनोः ॥ ८.२५३ ॥
भारुचिः ...{Loading}...
प्रश्नविधिः ॥ ८.२५३ ॥
ते पृष्टास् तु यथा ब्रूयुः समस्ताः सीम्नि निश्चयम् ।
निबध्नीयात् तथा सीमां सर्वांस् तांश् चैव नामतः ॥ ८.२५४ ॥
भारुचिः ...{Loading}...
निबन्धनं लेख्यम् अपि स्मरणार्थं तल् लिखेत् ॥ ८.२५४ ॥
शिरोभिस् ते गृहीत्वोर्वीं स्रग्विणो रक्तवाससः ।
सुकृतैः शापिताः स्वैः स्वैर् नयेयुस् ते समञ्जसम् ॥ ८.२५५ ॥
भारुचिः ...{Loading}...
नयनविधिः ॥ ८.२५५ ॥
यथोक्तेन नयन्तस् ते पूयन्ते सत्यसाक्षिणः ।
विपरीतं नयन्तस् ते दाप्याः स्युर् द्विशतं दमम् ॥ ८.२५६ ॥
भारुचिः ...{Loading}...
स्तुतिः प्ररोचनार्था । दण्डश् च यथोक्तः । विपरीतनयनं त्व् अन्येन व्यवहारान्तरेण ज्ञातव्यम् ॥ ८.२५६ ॥
साक्ष्यभावे तु चत्वारो ग्राम्याः सामन्तवासिनः ।
सीम्नो विनिर्णयं कुर्युः प्रयता राजसंनिधौ ॥ ८.२५७ ॥
भारुचिः ...{Loading}...
पूर्वे ऽनुभाविनः । इमे तु सामन्ताः कर्णपरंपरया श्रुतवन्तः ॥ ८.२५७ ॥
सामन्तानाम् अभावे तु मौलानां सीम्नि साक्षिणाम् ।
इमान् अप्य् अनुयुञ्जीत पुरुषान् वनगोचरान् ॥ ८.२५८ ॥
भारुचिः ...{Loading}...
तदभावे तु वनगोचराः प्रमाणं स्युः ॥ ८.२५८ ॥
व्याधाञ् छाकुनिकान् गोपान् कैवर्तान् मूलखनकान् ।
व्यालग्राहान् उञ्छवृत्तीन् अन्यांश् च वनगोचरान् ॥ ८.२५९ ॥
ते पृष्टास् तु यथा ब्रूयुः सीमासंधिषु लक्षणम् ।
तत् तथा स्थापयेद् राजा धर्मेण ग्रामयोर् द्वयोः ॥ ८.२६० ॥
भारुचिः ...{Loading}...
उपसंहारार्थः श्लोकः ॥ ८.२६० ॥
क्षेत्रकूपतटाकानाम् आरामस्य गृहस्य च ।
सामन्तप्रत्ययो ज्ञेयः सीमासेतुविनिर्णयः ॥ ८.२६१ ॥
भारुचिः ...{Loading}...
सीम्नि गुरुत्वाद् अर्थस्य कदाचिद् दशवर्षाणि नाभियोगं कुर्युः । अतस् तत्र ऽन भोगेन प्रणश्यति" इत्य् उक्तम् । क्षेत्रादिषु [त्व्] अत्यल्पत्वाद् अर्थस्य “यत् किंचिद् दशवर्षानि” इत्य् अयम् एव पक्ष आश्रीयते । अत एषां सामन्तप्रत्ययो निर्णय उच्यते । यथैवान्येषां द्रव्याणां साक्षिप्रत्ययो निर्णयः, एवम् अमीषाम् अपीति ॥ ८.२६१ ॥
सामन्ताश् चेन् मृषा ब्रूयुः सेतौ विवदतां नृणाम् ।
सर्वे पृथक् पृथग् दण्ड्या राज्ञा मध्यमसाहसम् ॥ ८.२६२ ॥
भारुचिः ...{Loading}...
सीम्साक्षिणाम् अयं विशेषदण्डः ॥ ८.२६२ ॥
गृहं तटाकम् आरामं क्षेत्रं वा भीषया हरन् ।
शतानि पञ्च दण्ड्यस् स्याद् अज्ञानाद् द्विशतो दमः ॥ ८.२६३ ॥
भारुचिः ...{Loading}...
ज्ञानाज्ञानहरणे ऽयं दण्डः ॥ ८.२६३ ॥
सीमायाम् अविषह्यायां स्वयं राजैव धर्मवित् ।
प्रदिशेद् भूमिम् एतेषाम् उपकाराद् इति स्थितिः ॥ ८.२६४ ॥
भारुचिः ...{Loading}...
दूरत्वाद् अशक्योपभोगायां राजा दृष्टोपकारसंबन्धेनैकत्र प्रयच्छेत् भूमिम् । न च राज्ञो ग्रहणे तत्र दोषः । एवमर्थश् चायम् उपदेशः; अतो ऽप्रदाने ऽपि न दोषः ॥ ८.२६४ ॥
एषो ऽखिलेनाभिहितो धर्मः सीमाविनिर्णये ।
अत ऊर्ध्वं प्रवक्ष्यामि वाक्पारुष्यस्य निर्णयम् ॥ ८.२६५ ॥
भारुचिः ...{Loading}...
उपसंहारोपन्यासार्थः श्लोकः । ननु चैवं क्रमभेदः, “पारुष्ये दण्डवाचिके” इत्य् अभिधानाद् व्यवहारास्पन्दानुक्रण्याम् । [शब्दक्रम्]आत् तत्र पूर्वं दण्डपारुष्यग्रहणम् । अयं त्व् अर्थक्रमम् अश्रित्यात्र वाक्पारुष्यस्य पूर्वम् उपन्यासः । स च शब्दक्रमाद् गरीयान् । यतो नास्ति क्रमभेदः, अल्पाच्तरत्वाद् (?) [अस्मिन् द्वन्]द्वे ॥ ८.२६५ ॥
शतं ब्राह्मणम् आक्रुश्य क्षत्रियो दण्डम् अर्हति ।
वैश्यो ऽध्यर्धशतं द्वे वा शूद्रस् तु वधम् अर्हति ॥ ८.२६६ ॥
भारुचिः ...{Loading}...
अवचनीयाद् आक्रोशाद् ऋते अन्यस्मिन्न् आक्रोशे एते यथार्हं दण्डवि[धयः ब्राःमणाक्रोशने यो] वैश्यस्य दण्ड उक्तः ततो ऽर्धं क्षत्रियम् आक्रुश्य वैश्यस्य न्यायाद् आप्नोति दण्डम् । शूद्रस्य त्व् एकजातिदण्डः “एकजातिर् द्विजातिम्” इति द्विजातिमात्र्[आक्रोशने तद्विधानात् ॥ ८.२६६ ॥
पञ्चाशद् ब्राह्मणो दण्ड्यः क्षत्रि]यस्याभिशंसने ।
वैश्ये स्याद् अर्धपञ्चाशच् छूद्रे द्वादशको दमः ॥ ८.२६७ ॥
भारुचिः ...{Loading}...
गदव्याख्यातः श्लोकः । अत्रापि न्यायप्रकॢप्त्या क्षत्रियो वैश्यम् आक्रु[श्य ब्राह्मणदण्डाद् द्विगुणं] दण्ड्यः स्यात्, वैश्यस् तु शूद्रम् आक्रुश्य ब्राह्मणदण्डात् त्रिगुणं दद्यात् ॥ ८.२६७ ॥
समवर्णे द्विजातीनां द्वादशैव व्यतिक्रमे ।
वादेष्व् अवचनीयेषु तद् एव द्विगुणं भवेत् ॥ ८.२६८ ॥
भारुचिः ...{Loading}...
[ब्राह्मणस्य] ब्राह्मण (?) । एवम् इतरयोर् अपि । शूद्रे ऽपि कार्यसामान्याद् एतद् एव स्यात् । एवं च द्विजातिग्रहणस्याविवक्षितत्वाद् एकजातिप्रदर्शनार्थम् अप्य् एतद् अत्र स्यात् । अवचनीयेषु तु वादेषु “शतं ब्राह्मणम् आक्रुष्य” इति एवमादिषु यद् यद् उक्तं तत् तद् द्विगुणं तत्र स्यात् ॥ ८.२६८ ॥
एकजातिर् द्विजातिं तु वाचा दारुणया क्षिपन् ।
जिह्वाहाः प्राप्नुयाच् छेदं जघन्यप्रभवो हि सः ॥ ८.२६९ ॥
भारुचिः ...{Loading}...
ब्राह्मणाक्रोशे वध उक्तः शूद्रस्य । यतो ऽयं क्षत्रियवैश्याक्रोशे तस्य दण्डविधिर् ज्ञेयः । यतः जिह्वाच्छेदश् चाप्राणोपरोधी सामार्थ्याद् अस्य विज्ञायते ॥ ८.२६९ ॥
नामजातिग्रहं चैषाम् अभिद्रोहेण कुर्वतः ।
निखेयो ऽयोमयः शङ्कुर् ज्वलन्न् आस्ये दशाङ्गुलः ॥ ८.२७० ॥
भारुचिः ...{Loading}...
अवचनीयैर् अभिद्रोहेणाक्रोशतः शूद्रस्यानेन प्रकारेण वध उपदिश्यते ॥ ८.२७० ॥
धर्मोपदेशं दर्पेण विप्राणाम् अस्य कुर्वतः ।
तप्तम् आसेचयेत् तैलं वक्त्रे श्रोत्रे च पार्थिवः ॥ ८.२७१ ॥
भारुचिः ...{Loading}...
धर्मोपदेशसामर्थ्यं चैतच्छूद्रस्यार्थाद् विज्ञेयम् । एवं च सति नेदं लिङ्गं शूद्रस्य शास्त्रप्राप्तेर् भवति ॥ ८.२७१ ॥
श्रुतं देशं च जातिं च कर्म शारीरम् एव च ।
वितथेन ब्रुवन् दर्पाद् दाप्यः स्याद् द्विशतं दमम् ॥ ८.२७२ ॥
भारुचिः ...{Loading}...
सत्य् अपि शूद्रप्रकरणे सर्वेषां ब्राह्मणादीनाम् अयं विधिर् ज्ञेयः सामर्थात् ॥ ८.२७२ ॥
काणं वाप्य् अथ वा खञ्जम् अन्यं वापि तथाविधम् ।
तथ्येनापि ब्रुवन् दाप्यो (?) दण्डं कार्षापणावरम् ॥ ८.२७३ ॥
भारुचिः ...{Loading}...
कार्षापणावरत्वं चापराधं परिज्ञाय स्थाप्यम् । तथा च विहितदण्डापवादः शास्त्रोक्त एवानुबन्धं परिज्ञायेत्य् एवमादि ॥ ८.२७३ ॥
मातरं पितरं जायां भ्रातरं तनयं गुरुम् ।
आक्षारयञ् छतं दाप्यः पन्थानं चाददद् गुरोः ॥ ८.२७४ ॥
भारुचिः ...{Loading}...
अत्र श्लोके जायातनयग्रहणम् अर्थवादर्थम् । कथं कृत्वा । भार्यापुत्रयोर् एव तावद् आक्षारणे ऽयम् अस्य दण्डो भवितुम् अर्हति, प्राग् एव मात्रादीनाम् । यस्मान् मात्रादिभ्[इर् न्यू]नत्वं भार्यापुत्रयोः । एतस्मात् सामर्थ्याद् इदम् एवं व्याकरणीयम् । भ्राता च यदि कनीयान् तत एषैवात्र (?) व्याख्या । अत तु ज्येष्ठस्य ग्रहणम्, ततो गुरुत्वाद् अस्य विध्यर्थतैव न्याय्या । एवं च सति गुरुग्रहणं विद्यागुरुप्रभृतीनाम् अवरोधार्थम् । गुरुग्रहणाद् एव च मात्रादिग्रहणे सिद्धे पृथग् उपदेशस् तेषाम् आदरार्थो विज्ञेयः । इदं चान्यद् अर्थान्तरविषयं वाक्यान्तरं समानदण्डत्वाद् अस्मिन्न् एवावधाव् उच्यते । पन्थानं चाददद् गुरोः सर्वप्रकारस्यानाक्षारयन्न् अप्य् अयम् एव दण्ड एकः कार्यः स्यात् । एतस्माद् एव च गुरुग्रहणात् पूर्वत्र भार्यापुत्रग्रहणम् अर्थवादार्थं सुतरां विज्ञायते । येन समानदण्ड एव व्यभिचारान्तरौ श्रूयेते । आक्षारणं च प्रतरद्वाक्पारुष्यविशेष आक्रोशादिः । अन्यस् त्व् आह- अनृतेन भेदनम् आक्षारणम् । अनृताभिशंसनं त्व् अपरः । तत् त्व् एतद् उभयं प्रकरणविरोधाद् विचारणीयं युक्तायुक्तत्वेन ॥ ८.२७४ ॥
ब्राह्मणक्षत्रियाभ्यां तु दण्डौ कार्यौ विजानता ।
ब्राह्मणे साहसः पूर्वः क्षत्रिय त्व् एव मध्यमः ॥ ८.२७५ ॥
विट्शूद्रयोर् एवम् एव स्वजातिं प्रति तत्त्वतः ।
छेदवर्जं प्रणयनं दण्डस्येति विनिश्चयः ॥ ८.२७६ ॥
भारुचिः ...{Loading}...
अयम् अपर उपदेशसामर्थ्याद् विकल्पार्थो विधिर् उच्यते । यदा ब्राह्मणः क्षत्रियम् आक्रोशति तदा तस्य पूर्वसाहसः । यदा च क्षत्रियो ब्राह्मणं तदा तत्र मध्यमः साहसः । एवं क्षत्रियवैश्ययोस् तथा वैश्यशूद्रयोः । एवं च सति शूद्रस्य जिह्वाछेदनवर्जं दण्डनिपातनम् उक्तं भवति ॥ ८.२७५–७६ ॥
एष दण्डविधिः प्रोक्तो वाक्पारुष्यस्य तत्त्वतः ।
अत ऊर्ध्वं प्रवक्ष्यामि दण्डपारुष्यनिर्णयम् ॥ ८.२७७ ॥
येन केनचिद् अङ्गेन हिंस्याच् छ्रेयांसम् अन्त्यजः ।
छेत्तव्यं तत् तद् एवास्य तन् मनोर् अनुशासनम् ॥ ८.२७८ ॥
भारुचिः ...{Loading}...
अयम् उक्तस्य विशेषप्रपञ्चस्य सामान्यनिर्देशः । श्रेष्ठं द्विजातिम्[आत्रम् इति] निदर्शनाच् च पूर्ववर्णस्य हिंसायाम् उत्तरेणाप्य् एतद् विज्ञेयम् । न केवलं शूद्रस्य पूर्वापराधे । अस्य सामान्यश्लोकस्य चत्वारो वक्ष्यमाणाः श्लोकाः प्रपञ्चाः ॥ ८.२७७–७८ ॥
पाणिम् उद्यम्य दण्डं वा पाणि च्छेदनम् अर्हति ।
[पादेन प्रहरन् कोपात् पाद च्छेदनम् अर्हति] ॥ ८.२७९ ॥
सहा]सनम् अभिप्रेप्सुर् उत्कृष्टस्यापकृष्टजः ।
कट्यां कृतङ्को निर्वास्यः स्फिचं वास्यावकर्तयेत् ॥ ८.२८० ॥
अवनिष्ठीवतो दर्पाद् द्वाव् ओष्ठौ छेदयेन् नृपः ।
अवमूत्रयतो [मेढ्रम् अवशर्धयतो गुदम् ॥ ८.२८१ ॥
केशेषु गृहतो हस्तौ] छेदयेद् अविचारयन् ।
पादयोर् नासिकायाम् च ग्रीवायां वृषणे तथा ॥ ८.२८२ ॥
भारुचिः ...{Loading}...
एवं च सति न मारणम् एव हिंसा, किं तर्हि अनेकोपायसाध्यं च परदुःख्[ओत्पादनम्, द्वि]जातीनाम् एवान्योन्यव्यतिक्रमे धनदण्ड उच्यते, पूर्वदण्डस्य वैकल्पिकः, एतेषाम् अप्रत्ययापराधापेक्षया ॥ ८.२८२ ॥
त्वग्भेदकः शतं दण्ड्यो लोहितस्य च दर्शकः ।
मांसभेदी तु षण्निष्कान् प्रवास्यस् त्व् अस्थिभेदकृत् ॥ ८.२८३ ॥
भारुचिः ...{Loading}...
यस् त्वचो विकारं दर्शयत्य् अलोहितं स विज्ञेयस् त्वग्भेदकः । ऋज्व् अन्यत् । अस्य तु विशेषः । मनुष्यानां पशूनां चेति ॥ ८.२८३ ॥
वनस्पतीनां सर्वेषाम् उपभोगो यथा यथा ।
तथा तथा दमः कार्यो हिंसायाम् इति धारणा ॥ ८.२८४ ॥
भारुचिः ...{Loading}...
अत्र वनस्पतिशब्देन वृक्षाणाम् अपि ग्रहणम् । “अनुबन्धं परिज्ञाय” इत्य् अनेनैवायं श्लोकः उक्तार्थ इति कश्चिद् आह । तद् अयुक्तम् । अस्मिन् हिंसति दण्डविध्यर्थो ऽयं श्लोक उपपद्यते ॥ ८.२८४ ॥
मनुष्याणाम् पशूनां च दुःखाय प्रकृते सति ।
यथा यथा महद् दुःखं दण्डं कुर्यात् तथा तथा॥ ८.२८५ ॥
भारुचिः ...{Loading}...
एवं च सत्य् अयं पूर्वस्य हिंसादण्दस्य विशेषार्थो विज्ञेयः । कथम् । “त्वग्भेदक” इति हि यो दण्डविधिर् उक्तः, तस्यापराधानुरूपेणोनाधिकता प्राङ्विवाकेन कल्पनीयेत्य् एवमर्थः श्लोकः ॥ ८.२८५ ॥
अङ्गावपीडनायां च प्राणशोणितयोस् तथा ।
समुत्थानव्ययं दाप्यः सर्वदण्डम् अथापि वा ॥ ८.२८६ ॥
भारुचिः ...{Loading}...
समुत्थानं पुनः प्रत्यापत्तिः तद्गतं व्ययं तस्मै राज्ञा दाप्यो ऽवपीडयिता । अथ त्व् असौ न गृह्णीयाद् अवपीडितः समुत्थानव्ययम् अवपीडकात्, ततो राजैवोभयतः पिण्डीकृत्य गृह्णीयात् ॥ ८.२८६ ॥
द्रव्याणि हिंस्याद् यो यस्य ज्ञानतो ऽज्ञानतो ऽपि वा ।
स तस्योत्पादयेत् तुष्टिं राज्ञे दद्याच् च तत्समम् ॥ ८.२८७ ॥
भारुचिः ...{Loading}...
जानन्न् अजानन् वा हिंसयन् विनाशयन् दण्ड्यः । न त्व् अज्ञानत इति प्रमोक्तव्यः । तुष्ट्युत्पत्तिश् च तत्प्रतिसंस्कारेण निरन्वयविनाशे वा तथाविधस्यान्यस्य प्रतिपादनेन ॥ ८.२८७ ॥
चर्मचार्मिकभाण्डेषु काष्ठलोष्टमयेषु च ।
मूल्यात् पञ्चगुणो दण्डः पुष्पमूलफलेषु च ॥ ८.२८८ ॥
भारुचिः ...{Loading}...
एतेषां विनाशे पञ्चगुणो दण्डः, न तु तत्समः । एवं चैभ्यो ऽन्यत्र पूर्वश्लोकविधिस् तत्समो विज्ञेयः । तुष्ट्युत्पत्तिश् च व्यवस्थित एव ॥ ८.२८८ ॥
यानस्य चैव यातुश् च यानस्वामिन एव च ।
दशातिवर्तनान्य् आहुः (?) शेषे दण्डो विधीयते ॥ ८.२८९ ॥
भारुचिः ...{Loading}...
वक्ष्यमाणेषु दशसु निमित्तेषु द्रव्यविनाशे प्राणिवधे वा दण्डो नास्तीत्य् एतद् अतिवर्तनं दण्डस्य । अपरे तु तस्य न दशत्वम् [विवक्षितम्] आहुः ॥ ८.२८९ ॥
छिन्ननास्ये भग्नयुगे तिर्यक् प्रतिमुखागते ।
अक्षभङ्गे च यानस्य चक्रभङ्गे तथैव च ॥ ८.२९० ॥
छेदने चैव यन्त्राणां योक्त्ररश्म्योस् तथैव च ।
आक्रन्दे चाप्य् अपैहीति न दण्ड्यान् मनुर् अब्रवीत् ॥ ८.२९१ ॥
भारुचिः ...{Loading}...
छिन्ननास्य बलीवर्दे युग्ये भग्नयुगे च तस्मिन्न् एव तिर्यगागते प्रतिमुखागते च याने अक्षभङ्गचक्रभङ्गयोश् च । एवं योक्त्ररश्म्योः, आक्रन्दे चाप्य् अपैहीति, एषु दशसु निमित्तेषु न दण्डः कार्यो राज्ञा यानस्वामिप्रभृतीनाम् । एभ्यस् त्व् अन्यत्रैषाम् अपराधहेतुर् उच्यते, मनुष्यादिहिंसायां वक्ष्यमाणदण्डार्थः ॥ ८.२९०–९१ ॥
यत्रापवर्तते युग्यं वैगुण्यात् प्राजकस्य तु ।
तत्र स्वामी भवेद् दण्ड्यो हिंसायां द्विशतं दमम् ॥ ८.२९२ ॥
भारुचिः ...{Loading}...
अकुशले प्राजके स्वामिनो ऽपराधः, तत्प्रयुक्तत्वात् प्राजकस्य । द्विशतग्रहणं चात्र न विवक्षितम् । येन दण्डहेतोर् अपराधस्य प्रकरणम् इदम् । मनुष्यादिहिंसादण्डस्य वक्ष्यमाणस्य तं हि प्राणविशेषाश्रयं तधिंसायां वक्ष्यति, “मनुष्यमारणे क्षिप्रं चोरवत् किल्बिषं भवेत्” इति । तथा चेदं क्षुद्रपश्वाश्रयं तत्रैव प्रकरणे विशेषदण्डं वक्ष्यति “क्षुद्रकाणां पशूनां तु हिंसायां द्विशतो दमः” इति । यत एवम् अविवक्षित्वैतद् उक्तं द्विशतग्रहणम् ॥ ८.२९२ ॥
प्राजकश् चेद् भवे आप्तः प्राजको दण्डम् अर्हति ।
युग्यस्थाः प्राजके ऽनाप्ते सर्वे दण्ड्याः शतं शतम् ॥ ८.२९३ ॥
भारुचिः ...{Loading}...
कुशले प्राजके प्रा[जक एव दण्ड्यः । युग्यस्था]स् तु युग्यस्वामिप्रभृतिर्, यानास्वामिनो ऽपि सन्तः, अकुशले सति प्रत्येकं शतं शतं दण्ड्या भवेयुः । येन [प्राजको] ऽनाप्तः युग्यस्वामिनां देशान्तरा[दिगमनाय प्र]युक्तः, नान्यथा । शतं दण्डत्वं चाविवक्षितम् इति कृतव्याख्यानम् एतत् ॥ ८.२९३ ॥
स चेत् तु पथि संरुद्धः पशुभिर् वा रथेन वा ।
प्रमा[पयेत् प्राणभृतस् तत्र दण्डो विचारितः ॥ ८.२९४ ॥
भारुचिः ...{Loading}...
अना]प्ताद् वाज्ञानात् संरोधादिदोषात् पशुभिर् वा संमुखीनरथयुक्तैः संरोद्धृभिः रथेन वा जघनोपसर्पिणा संरुद्धयुग्यस् संनि[हि]तश् चामुत्[अश् च परिपात्]आदिभिः कारणैः तत्र दण्डनिमित्तो ऽप्राधो दण्ड इत्य् उच्यते । गुणतः स विचारितो ऽनन्तरम् एव । यानस्वाम्यादीनां “यत्रापवर्तते युग्यम्” इत्य् एवमादिना वाक्ये[ष्व् अ]त्र दण्डो विचारितः । वक्ष्यमाणश्लोकेषु यानस्वाम्यादीनाम् अनन्तरोक्तेश्व् अपराधेषु युग्यावर्तनादिभिः कारणैर् मनुष्यादिमारणे वक्ष्यमाणो “मनुष्यमारणे क्षिप्रम्” इत्य् एवमादिः । न त्व् अविशेषेण मनुष्यादिप्राणिहिंसाया दण्डः । किं तर्हि विचारितः नानाप्रकार उपदिष्टः मनुष्यादिहिंसाविशेषाख्यः । अथ वा पशुरथग्रहणं नैव स्वयानसंरुद्ध्विशेषणं यथा व्याख्यातम् अस्माभिः, किं तर्हि पशुभिर् वा बलीवर्धाख्यैर् आत्मीयरथयुक्तैः रथेन वा आत्मीयन् क्वचित् सङ्कुले इतश् चामुतश् च मार्गात् परिपतंस् तत्सङ्कटत्वाद् यदि ऽप्रमापयेत् प्राणभृतः तत्र दण्डो विचारितः" इत्य् एतद् उक्तार्थम् । इदानीं पूर्वापराधेषु प्राजकादीनां दण्डविकल्प उच्यते ॥ ८.२९४ ॥
मनुष्यमारणे क्षिप्रं चोरवत् किल्बिषं भवेत् ।
प्राणभृत्सु महत्स्व् अर्धं गोगजोष्ट्रहयादिषु ॥ ८.२९५ ॥
भारुचिः ...{Loading}...
सत्य् अप्य् अविशेषाभिदाने चोरवत् किल्बिषे न वधः, किं तर्हि उत्तमसाहसो धनदण्डः । तथा च प्राणभृत्सु महत्सु प्रभावतः गवादिषु परिमाणतश् च हस्त्यादिष्व् अर्धदण्डम् आह, चोरवत्किल्बिषदण्डात् । स चार्धदण्डो धनदण्ड एवोत्तमसाहसे युज्यते पूर्वाभिहिते, न वधे । तथा च क्षुद्रकाणां पशूनां तु हिंसायां तृतीयस्थाने द्विशतो दम उच्यमान उत्तरश्लोके, प्रथमे स्थाने उत्तमसाहस (?) धनदण्डं दर्शयत्य् अत्र । एवं च सति चोरवत् किल्बिष उत्तमसाहस एव धनदण्डः, न वधो युज्यते । यदि चैतद् एवं भवति ततो “राजा स्तेनेन गन्तव्यः” इत्य् अत्र राजाभिगमने स्तेनस्योभयं युक्तम् इदम् “शासनाद् वा विमोक्षाद् वा” इति । स च मोक्षो धनदण्डेनैव युक्तः । तथा च कृत्वोत्तरो दण्डविधिर् अर्थवान् भवति । आदिग्रहणं च हयादिष्व् इत्य् एतत् महिषादिविषयं विज्ञेयम् ॥ ८.२९५ ॥
क्षुद्रकाणां पशूदां तु हिंसायां द्विशतो दमः ।
पञ्चाशत् तु भवेद् दण्डः शुभेषु मृगपक्षिषु ॥ ८.२९६ ॥
भारुचिः ...{Loading}...
अजाविकस्य पृथग्ग्रहणात् क्षुद्रपशुग्रहणम् अत्रान्यार्थम् । एवं चात्राल्पप्रयोजनानां गवादीनां दृष्टात् कारणात् ग्रहणम् । विकल्पार्थं वा स्यात् पुनर् अजाविकादीनाम् उत्तरश्लोके ग्रहणम् । शुभाश् च मृगपक्षिणो देवतायतनभूषणा रुरुमयूरप्रभृतयः अन्यपरिग्रहा वा ॥ ८.२९६ ॥
गर्दभाजाविकानां तु दण्डः स्यात् पञ्चमाषिकः ।
माषिकश् तु भवेद् दण्डः श्वसूकरनिपातने ॥ ८.२९७ ॥
भारुचिः ...{Loading}...
माषिकग्रहणेन चात्र द्रव्यग्रहणं पुरुषशक्त्यपराधानुबन्धसामर्थ्याद् विज्ञेयम् । विशेषतः सपरिग्रहप्राणिहिंसाविषयश् चायं दण्ड उच्यमानो यानोपघाताद् अन्यत्रापि कार्यसामान्याद् विज्ञायते ॥ ८.२९७ ॥
भार्या पुत्रश् च दासास् च शिष्यो भ्राता च सोदरः ।
प्राप्तापराधास् ताड्याः स्यू रज्ज्वा वेनुदलेन वा ॥ ८.२९८ ॥
भारुचिः ...{Loading}...
दण्डप्रतिषेधर्थो ऽयम् आरम्भः, ताडनासादननियमार्थश् च ॥ ८.२९८ ॥
पृष्ठतस् तु शरीरस्य नोत्तमाङ्गे कथंचन ।
अयं तु ताड्यदेशनियमार्थः श्लोकार्धः ।
अतो ऽन्यथा तु प्रहरन् प्राप्तः स्याच् चोरकिल्बिषम् ॥ ८.२९९ ॥
भारुचिः ...{Loading}...
इत्य् अयं नियमस्य व्यतिक्रमे ताडयितुं विज्ञेयः । न चावश्यताडनम् एतेषाम् अपराधिनां पुत्रादीनाम्, नियमार्थत्वाद् उपदेशस्य । प्राप्तः स्याच् चोरकिल्बिषम् इत्य् अयं नियमव्यतिक्रमे निन्दार्थवादो निवृत्त्यर्थः । एवं च सत्य् अतो ऽन्यथा ताडने नियमातिक्रममात्रम्, न तु चोरवद् दण्ड्यः । धिग्दण्डवाग्दण्डमात्रं वा, तत्र तत्सामान्यात् ॥ ८.२९९ ॥
एषो ऽखिलेनाभिहितो दण्डपारुष्यनिर्णयः ।
[स्तेनस्यातः प्रवक्ष्यामि विधिं दण्डविनिर्णये ॥ ८.३०० ॥
भारुचिः ...{Loading}...
उपसंहा]रोपन्यासार्थः श्लोकः । मा भूच् च पूर्वैर् अपराधस्य तुल्यत्वम् इत्य् अतो गुरुत्वाद् अस्य तन्निग्रहादरार्थम् इदम् आह ॥ ८.३०० ॥
परमं यत्नम् आतिष्ठेत् स्तेना[नां निग्रहे नृपः ।
स्तेनानां निग्रहादस्य य]शो राष्ट्रं च वर्धते ॥ ८.३०१ ॥
भारुचिः ...{Loading}...
कथम् । जानपदानां हि कर्मणां वृत्त्यर्थानाम् अदृष्टप्रयोजनानां च सुकृतपरिपन्थिनिग्रहणम् । एवं च सति, इति ॥ ८.३०१ ॥
अभयस्य हिस् यो [दाता स पूज्यः सततं नृपः ।
सत्त्रं हि वर्धते तस्य सदैवाभयदक्षिणम् ॥ ८.३०२ ॥
भारुचिः ...{Loading}...
येन सत्त्रं हि वर्धते तस्य तस्य न निग्रहरूपं सदैव यावज्जीवम् इत्य् अर्थः । न तु यथा वैताने नियतकालम् । तच् आस्य भवति अभयदक्षिणम्- सत्त्रे दक्षिणा[भावात् तद्वैलक्ष्यण्यम् अस्य सत्त्रस्य ॥ ८.३०२ ॥
सर्वतो] धर्मषड्भागो राज्ञो भवति रक्षतः । अधर्माद् अपि षड्भागो भवत्य् अस्य ह्य् अरक्षतः ॥ ८.३०३ ॥
भारुचिः ...{Loading}...
> सर्वतो] धर्मषड्भागो राज्ञो भवति रक्षतः ।
सर्वत इत्य् आदेय वृत्तिभ्यो ऽपि सपरिग्रहेभ्यः, किं पुनर् इतरेभ्यः, यतो वृत्तिगन्धो ऽपि नास्ति । अथ वा स्मार्तत्वाद् अस्योपदेशस्य स्मृतिकर्म[विषये] षड्भागे प्राप्तम् इदं सर्वग्रहणं करोति श्रुतिकर्मेभ्यः — तथा चानन्तरश्लोके वक्ष्यति, “यद् अधीते यद् यजते” इत्य् एवमादि । रक्षतश् चेद् राज्ञो धर्मषड्भागग्रहणम् । तेन हेतुविपर्यय इति कृत्वेदम् उच्यते-
> अधर्माद् अपि षड्भागो भवत्य् अस्य ह्य् अरक्षतः ॥ ८.३०३ ॥
अथ वा रक्षायाम् अधिकृतस्य् स्वयंभुवा, योग्यताशास्त्रेण वा तस्याननुष्ठानाद् युक्तम् अधर्मषड्भागवचनम् इदं शिष्टस्याक्रियायाः, अभिषेककाले वा प्रजासंरक्षणमताक्रियायाः, अन्यार्थप्रतिज्ञाहानिवत् ॥ ८.३०४ ॥
अधुना सर्वतो धर्मषड्भाग इत्य् एतत् सूत्रस्थानं विवृनोति ।
यद् अधीते यद् यजते यद् ददाति यद् अर्चति ।
तस्य षड्भागभाग् राजा सम्यग् भवति रक्षणात् ॥ ८.३०४ ॥
भारुचिः ...{Loading}...
सर्वक्रियानिदर्शनार्थत्वाच् चासां निर्दिष्टाभ्यो नेतराः परिसंख्यायेरन् । वेदस्मृतिशास्त्रन्यायविरोधाश् च मा भूवन्न् इति । अत एतं यथाश्रुतपरिकल्पनां परित्यज्य, धर्मषड्भागग्रहणं प्रनाडिकयार्थवादो नियमधर्मापेक्षः भवति, गुणवत्पुरुषसंरक्षणापेक्षो वा, तद् अपेक्षम् एतद् धर्मषड्भागग्रहणं प्रनाडिकयार्थवादार्थम् । न तु वृत्तिपरिक्रीतत्वाद् राज्ञो निर्बीजम् इदं प्ररोचनार्थमात्रार्थं भवितुम् अर्हति, असति धर्मसंभन्ध इति । इतश् च धर्मषड्भागग्रहणं राज्ञः प्रजासंरक्षणापेक्षम् ॥ ८.३०४ ॥
यद् आह ।
रक्षन् धर्मेण भूतानि राजा वध्यांश् च घातयन् ।
यजते ऽहरहर् यज्ञैः सहस्रशतदक्षिणैः ॥ ८.३०५ ॥
भारुचिः ...{Loading}...
न ह्य् अकस्मात् स्तुतिः प्रवर्तते, येनातः प्रजासंरक्षणाद् यथोक्तेन शास्त्रन्यायेन राज्ञो धर्मेण भवितव्यम् । वध्यनिग्रहश् च प्रणाडिकया संरक्षणार्थः । तथा च तस्मात् संरक्षणं पृथग् एव दर्शयति “रक्षन् धर्मेण” । वर्णाश्रमिणो यथाशास्त्रं स्वकर्मण्य् अवस्थापयति, शास्त्रार्थप्रदर्शनेन । कथम् । “यूयम् एवं भवत, शास्त्रशिष्टं कुरुत” इत्य् अर्थः; “यूयं पुनर् मैवं भूत, प्रतिषिद्धं वर्जयत” इत्य् अर्थः । एतदनुशासनातिक्रमाद् यथाशास्त्रदण्डेन वा तान् रक्षति । तथा च सत्य् अन्यद् रक्षणं वध्यवधक्रियतो विज्ञायते । एतदनुशासनातिक्रमाद् यथाशास्त्रदण्डेन वा तान् रक्षति । तथा च सत्य् अन्यद् रक्षणं वध्यवधक्रियतो विज्ञायते । एवं च सति वक्ष्यति “रक्षणाद् आर्यवृत्तानां कण्टकानां च शोधनात्”, तथा “निग्रहेण च पापानां साधूनां संग्रहेण च” इत्य् एवमादि ॥ ८.३०५ ॥
यतश् चैतद् एवम्, अतः ।
योऽरक्षन् बलिम् आदत्ते करं शुल्कं च पार्थिवः ।
प्रीतिभोगं च दण्डं च स सद्यो नरकं व्रजेत् ॥ ८.३०६ ॥
भारुचिः ...{Loading}...
तथा शिष्टस्मरणप्रवादः ॥ ८.३०६ ॥
अरक्षितारं राजानं बलिषड्भागहारिणम् ।
तम् आहुः सर्वलोकस्य समग्रमलहारकम् ॥ ८.३०७ ॥
अनपेक्षितमर्यादं नास्तिकं विप्रलोपकम् ।
अरक्षितारम् अत्तारं नृपं विद्याद् अधोगतिम् ॥ ८.३०८ ॥
भारुचिः ...{Loading}...
स्तेनप्रकरणे च रक्षार्थं स्तेननिग्रहानुष्ठानं संस्तुत्य, तन्निग्रहस्वरूपम् अधुनेदम् आह ॥ ८.३०८ ॥
अधार्मिकं त्रिभिर् न्यायैर् निगृह्णीयात् प्रयत्नतः ।
निरोधनेन बन्धेन विविधेन वधेन च ॥ ८.३०९ ॥
भारुचिः ...{Loading}...
ताडनादिना यथापराधम् । यो यथापराध्यति, तं तथापराधानुरूपेण दण्डेन योजयेद् अरागद्वेषो धर्मतुलाम् आश्रित्य । कस्य पुनर् हेतोः । येन — ॥ ८.३०९ ॥
निग्रहेण च पापानां साधूनां संग्रहेण च ।
द्विजतय इवेज्याभिः पूजन्ते सततं नृपाः ॥ ८.३१० ॥
भारुचिः ...{Loading}...
निर्बीजस्तुत्यर्थासंभवेन च यथाश्रुत उपकारो राज्ञो धर्मलक्षणस् तन्निग्रहात् प्रतीयते, निग्राह्यस्य च स्तेनस्य । तथा च “राजभिर् धृतदण्डा” इति वक्ष्यति । जानपदसंरक्षणाच् च धर्मसंबन्धः सिद्धः । यतः एवम् आत्मापरानुग्रहभूयस्त्वा[त् रक्षा] या न प्रमाद्यः पाप[निग्रहसाधु]संरक्षणार्थो राजेति । अथ त्व् एवासाम्येन प्रजासु वर्तमानं मोहात् कश्चित् क्षिपेत् । ततस् तेन ॥ ८.३१० ॥
क्षन्तव्यं प्रभुना नित्यं क्षिपतां कार्यिणां नृणाम् ।
बालवृद्धा[तुराणां च कुर्वता हितम् आत्मनः ॥ ८.३११ ॥
भारुचिः ...{Loading}...
अर्थवाद]म् आह, उपदिष्टार्थानुष्ठानप्ररोचनार्थम् ॥ ८.३११ ॥
यः क्षिप्तो मर्षयत्य् आर्तैस् तेन स्वर्गे महीयते ।
यस् त्व् ऐश्वर्यान् न क्षमते नरकं तेन गच्छति ॥ ८.३१२॥
भारुचिः ...{Loading}...
एवम् इयं क्ष्[अमानुष्ठानस्तुतिः । चि]त्तसंक्षोभहेऊपनिपाते ऽपि राज्ञा क्षमोभयलोकोपार्जनसाधनं प्रयत्नतो भावनीया । वाक्यस्वाभाव्याच् चेयम् उभयथात्र श्लोके क्षमानुष्ठानस्तुति[ः] । राजसंबन्धाच् च स्तेनप्रायश्चित्तस्येदम् एतत्प्रकरण एवोच्यते ॥ ८.३१२ ॥
राजा स्तेनेन गन्तव्यो मुक्तकेशेन धीमता ।
आचक्षाणेन तत् स्तेयम् एवंकर्मास्मि शाधि माम् ॥ ८.३१३ ॥
भारुचिः ...{Loading}...
पातकं यस्य सुवर्णादेर् अभिसंबन्धेनायं स्तेन उच्यते, न द्रव्यमात्रस्य, प्रायश्चित्तमहत्त्वोपदेशात् । तथा च प्रायश्चित्तप्रकरणे विशेषयिष्यति “सुवर्णस्तेयकृत्” इत्य् एवमादि । अन्ये तु द्रव्यमात्रापहारकं स्तेनं मन्यन्ते । अत्र तत्प्रत्यवमर्शात्मकस्य श्रद्दधानतया राजाभिगमनं स्वयं धीमता “विविधेन वधेन च” शुद्धिहेतुर् इदं प्रायश्चित्तशास्त्रसामर्थ्याद् इत्य् एवं जानतानेन । अन्ये तु “धावता” इति पठन्त्य् आदरार्थम् । न चेयान् एव स्तेनस्य राजोपगमनं धर्मः, किं तर्हि, अयं चान्यह् ॥ ८.३१३ ॥
स्कन्धेनादाय मुसलं लकुटं वापि खादिरम् ।
शक्तिं वोभयतस् तीक्ष्णाम् आयसं दण्डम् एव वा ॥ ८.३१४ ॥
भारुचिः ...{Loading}...
एकार्थविषयो विकल्पो मुसलादीनां ब्राह्मणवर्जम् । अन्ये तु वर्णक्रमेणैषां मुसलादीनाम् उपदेशं मन्यन्ते । एवं च स स्वयम् उपगतः श्रद्दधानतया क्षत्रियादिर् यथाशास्त्रम् ॥ ८.३१४ ॥
शासनाद् [वा विमोक्षाद् वा स्तेनः स्तेयाद् विमुच्यते ।
अशासित्वा तु तं राजा स्तेनस्याप्नोति किल्बिषम् ॥ ८.३१५ ॥
भारुचिः ...{Loading}...
> शासनाद् [वा विमोक्षाद् वा स्तेनः स्तेयाद् विमुच्यते ।
शासनाद् वा] वधलक्षणाद् अपराधमहत्त्वापेक्षया निर्धनतया विमोक्षाद् वा धनदण्डितः सन् । अपराधमहत्त्वे ऽपि ब्राह्मणः स्तेनः स्तेयाद् विमुच्यते । एतस्माद् एव कारणाद् अयं दण्डविकल्पः । तथा च गौतमः अस्मिन्न् एव प्रकरणे “न शारीरो ब्राह्मणदण्डः” इत्य् आह । यस् तु स्वयम् अनुपगतो ब्राह्मणस्तेनो राजपुरुषैर् आनीयते विदितापराधैर् बलात् तस्यापि च न वधः । किं तर्हि “कर्मवियोगविख्यापनविवासनाङ्ककरणानि” । तथापि च सर्वस्य हिरण्यादिस्तेनस्य दण्डविधिर् अयम् उपदिष्टः; यतः स्वयम् उपगतयोर् ब्राह्मणाब्राह्मणयोर् एवं दण्ड्यतैव स्यात् । तथा च सति ।
> अशासित्वा तु तं राजा स्तेनस्याप्नोति किल्बिषम् ॥ ८.३१५ ॥
एवं च सत्य् एतद् अनयोः प्रायश्चित्तं शुद्धिहेतुत्वाद् विज्ञेयम् । तथा च राजाभिगमनं स्वयम् अनयोर् अर्थवद् भवतीति । वक्ष्यति हि ऽराजभिः कृतदण्डास् तु" इति । यस् तु राज्ञा बलाद् दण्ड्यते वध्यते वा न तस्य तेन दण्डेन निष्कृतिर् अस्ति । यतः तेन दण्डेन दण्डितेनापि सता प्रायश्चित्तं कर्तव्यम् एव । यश् च स्वयम् एव प्रायश्चित्तम् आरभते न तत्र राज्ञो हस्तप्रक्षेपो ऽस्ति । तथा च वक्ष्यति “प्रायश्चित्तं तु कुर्वानाः” इति । तुष्ट्युत्पत्तिश् च धनस्वामिनो ऽनेन दण्डितेनापि कार्यैव । अकुर्वंश् चैव राजा स्तेननिग्रहम् आत्मापघातं कुर्यात् ॥ ८.३१५ ॥
यस्माद् आह ।
अन्नादे भ्रूणहा मार्ष्टि पत्यौ भार्यापचारिणी ।
गुरौ शिष्यश् च याज्यश् च स्तेनो राजनि किल्बिषम् ॥ ८.३१६ ॥
भारुचिः ...{Loading}...
अन्नम् अत्तीत्य् अन्नादः । तस्मिन् अन्नादे भ्रूणहा किल्बिषं मार्ष्टि । एवम् इतरे ऽपि योज्याः । अतः स्थितप्रज्ञेन राज्ञा निश्शङ्केन तदनिग्रहदोषम् आत्मनः परिहरता स्तेननिग्रहे यथाशास्त्रं वर्तितव्यम् आत्मपरानुग्रहार्थम् इति । यतः स्वयम् उपगतत्वाच् च कदाचिद् अयं भिन्नदृष्टिर् उपहतप्रतिज्ञानस् तन्निग्रहे न प्रवर्तेत ॥ ८.३१६ ॥
यत्र अयं यत्न आस्थीयते तद् उपकारसंबन्धापेक्षयैवम् ।
राजभिर् धृतदण्डास् तु कृत्वा पापानि मानवाः।
निर्मलाः स्वर्गम् आयान्ति सन्तः सुकृतिनो यथा ॥ ८.३१७ ॥
भारुचिः ...{Loading}...
प्रकरणात् स्तेयपापनिर्हरणविषयम् एव निर्मलवचनं, येन स्तेयनिमित्तम् एवेदं अस्य प्रायश्चित्तम् । अतो युक्तम् इदम् । यत् ते निर्मलाः स्वर्गम् आगच्छेयुः, पूर्वोपात्तेन स्वर्गारोहणिकेन कुशलकर्मणा । एवं च सत्य् उभयोर् अप्य् अनया शिष्टक्रियया तत्कालोपकारसंबन्धापेक्षायाम् इदं राजाभिगमनपक्षे प्रशंसावचनं, न निर्बीजम् इति ॥ ८.३१७ ॥
इदानीम् अन्यत् स्तेयसंबन्धेनेदम् आह ।
यस् तु रज्जुं घटं कूपाद् धरेद् भिद्याच् च यः प्रपाम् ।
स दण्डं प्राप्नुयान् माषं तच् च तस्मिन् समाहरेत् ॥ ८.३१८ ॥
भारुचिः ...{Loading}...
माषो मुख्यत्वाद् अविशेषाभिधाने सति हिरण्यस्य स्यात् ॥ ८.३१८ ॥
धान्यं दशभ्यः कुम्भेभ्यो हरतो ऽभ्यधिकं वधः ।
शेषे ऽप्य् एकादशगुणं दाप्यस् तस्य च तद्धनम् ॥ ८.३१९ ॥
भारुचिः ...{Loading}...
ताडने ऽपि वधः प्रयुज्यते । इह तु यदि ब्राह्मणादिषु प्रस्परे च धान्यापहरणे इदम्; हीनवर्णश् च स्याद् अयम् अपहर्ता, ततो [दोष]महत्त्वात् तस्य न नैर्गुण्याद् विधिर् मारणे द्रष्टव्यः । अन्यत्र तु कल्पना स्वयम् एवोह्या । दशानां चार्वाग् एकादशगुणो दण्डो, न वधः ॥ ८.३१९ ॥
तथा धरिममेयानां शताद् अभ्यधिके वधः ।
[सुवर्णरजतादीनाम् उत्तमानां च वासआम् ॥ ८.३२० ॥
भारुचिः ...{Loading}...
धरिम्णा] तुलया यानि मीयन्ते तानि धर्ममेयानि सुवर्णादीनि । सुवर्णादिग्रहणं च घृतादिन्वृत्त्यर्थम् । तथा चानन्तरम् एव घृतादीनां तन्मूल्याद् (?) द्विगुणं दमं वक्ष्यति । [एवं च] “सुवर्णरजतादीनाम्” इत्य् एवमादि ग्रहणं सर्वलोहोपसंग्रहार्थम् । ये पुनः धर्मेभ्यः पृथङ्मेयान्य् आचक्षते धान्यादीनि तेषां “धान्यं दशभ्यः कुम्भेभ्यः” इत्य् अनेनेदं पुनरुक्तम् आपद्यते । घृतादीनां च मेयत्वे कल्प्यमाने वक्ष्यमाणैर् घृतादिभिः पौनरुक्त्यम् । यतस् तथा धरिममेयानाम् इत्य् अस्य यथोक्त एव विग्रहः । उत्तमानां च वाससां नवादीनाम् ॥ ८.३२० ॥
पञ्चाशतस् त्व् अभ्यधिके हस्तच्छेदनम् इष्यते ।
शेषे ऽप्य् एकादशगुणं मूल्याद् दण्डं प्रकल्पयेत् ॥ ८.३२१ ॥
भारुचिः ...{Loading}...
अधिके पञ्चाशतो हस्तच्छेदः । ऊने ऽप्य् एकादशगुणो दण्डः ॥ ८.३२१ ॥
पुरुषाणां (?) कुलीनानां नारीणांच विशेषतः ।
मुख्यानां चैव रत्नानां हरणे वधम् अर्हति ॥ ८.३२२ ॥
भारुचिः ...{Loading}...
अत्र ह्रियमाणहर्तृजातिगुणापेक्षया विधिप्रपञ्चः कल्पनीयः॥ ८.३२२ ॥
महाप्शूनां हरणे शस्त्राणाम् औषधस्य च ।
कालम् आसाद्य कार्यं च दण्डं राजा प्रकल्पयेत् ॥ ८.३२३ ॥
भारुचिः ...{Loading}...
महापशवो हस्त्यश्वोष्ट्रादयः, दृष्टोपकारमहत्त्वात् । परिमाणतश् च महापशवो राज्ञस् तत्प्रकृतीनां चैते सामर्थाद् विशेषतो विज्ञेयाः शस्त्रग्रहणसाहचर्याच् च । तानि राजहितगोचन एव महान्ति गुणतः शस्त्राणि प्रायेण भवन्ति । तथा महच् छब्दो ऽत्राधिकारार्थ विज्ञेयः । एवम् औषधम् अपि व्याख्येयम् । एतेषां हरणे कालम् आसाद्य राजा विग्रहेतरलक्षणं देशविप्लवरूपं वा दुर्भिक्षसुभिक्षाख्यं वा, कार्यं महापशूनाम् अपहरणप्रयुजनं विज्ञाय, किं द्यूतादिप्रयोजन एषाम् अपहारः, अथ वैरानुबन्धेन, उत क्षुदवसन्नात्मकुटुम्बस्वतन्त्रस्य तत्स्थित्यर्थं धर्मायैव नासदुपयोगाय । दण्डं राजा प्रकल्पयेद् इति प्रकृतम् अनन्तरम् एव धान्यश्लोके वधम् अवधम् एकादशगुणमूल्यं वा दण्डं देशकालकार्यावस्थां विज्ञाय जातिगुणं वापहर्तुः । उक्तं चैतद् दण्डविधिश्लोके “अनुबन्धं परिज्ञाय” इत्य् एवम् आदिः ॥ ८.३२३ ॥
गोषु ब्राह्मणसंस्थासु स्थूरिकायाश् च भेदने ।
पशूनां हरणे चैव सद्यः कार्यो ऽर्धपादिकः ॥ ८.३२४ ॥
भारुचिः ...{Loading}...
पूर्वश्लोके तु महापशुग्रहणेन यद् गोर् अग्रहणं ततो ऽस्य विशेषार्थ आरम्भः । अथ पुनर् अनुगृहीते ऽतो ऽपूर्वार्थः । गावश् च ब्राह्मणे संस्था यज्ञकर्मशेषा आरम्भसामर्थ्याद् अस्य विज्ञायन्ते । एवं च सति यागशीलाद् ब्राह्मणाद् गाम् अपहरतः तदपहर्तुर् अर्धपादनं सद्य ऽनवेक्ष्य कालकार्यादीन् दण्डविकल्पहेतून् पूर्वश्लोकोतान् अस्य स्याद् इति । अन्यथा “महापशूनां हरणे” इत्य् अनेनैव सिद्धत्वाद् “गोषु ब्राह्मणसंस्थासु” इत्य् एतद् अनारम्भसमं प्रसज्येत । कालाद्यनपक्षायां सत्याम् आरब्धव्यम् इदम् । अतो विशेषार्थ एवम् अस्यारम्भो, न पुनरुक्तत्वादियुक्त इति । अथ तु यथा व्याख्यातः पूर्वश्लोकोपेक्ष्य राजतन्त्रविषय एव । अतो ऽस्यापूर्वकल्पनायाम् अयम् अदोष एव । स्थूरिकायाश् च भेदन एष एव दण्डः स्याद् आत्मीयाया अपि कृत् एतत् आरम्भसामर्थात् । स्थूरिका वन्ध्या गौर् देशान्तरे ऽभिधीयते । तां च लाङ्गलादिषु वाहयन्तो ऽवश्यं प्रतोदेन भिनन्ति । एवं च सति तद्भेदनं वाहोपलक्षणं तस्या विज्ञेयम् । यः पुनर् एतद् अन्यथा पठति स्थूरिकायाश् च वाहन इति, तस्य साक्षाद् अभिधानात् अनुमानगतिर् नास्ति । अन्यस् त्व् आह, पार्ष्ण्याश् चतुरङ्गुलाद् ऊर्ध्वः प्रदेशः स्थूरिका, तद्भेदने छेदने वा निदर्शनार्थत्वाद् भेदनग्रहणस्यैष एव दण्डः स्यात् । पशूनां हरणे चैव यथोक्तो दण्डः । अयं च्(ह्?)आगोपश्वर्थ आरम्भः । ब्राह्मणपशूनाम् एव यज्ञीयानां छागप्रभृतीनाम् अपहरणे बहूनां च । अन्यस् त्व् आह- अकर्मिणो ब्राह्मणस्य गवाम् एव बह्वीनाम्, अर्थाच् च क्षत्रियवैश्ययोः कर्मशीलयोः । कर्मशेषगवाम् उपसंग्रहणार्थम् इदं पुनः पशुग्रहणम् । ये पुनर् व्याख्यायन्ति “गोषु ब्राह्मणसंस्थासु” यद् दधि क्षीरं वा तदपहरणदण्डः, तत् प्रकरणाभावाद् [असंगतम् ॥ ८.३२४ ॥
सूत्रकार्पासकिष्वानां] गोमयस्य गुडस्य च ।
दध्नः क्षीरस्य तक्रस्य पानीयस्य तृणस्य च ॥ ८.३२५ ॥
वेणुवैदलभाण्डानां लवणानां तथैव च ।
मृन्मयानां च हरणे (?) मृदो भस्मन एव च ॥ ८.३२६ ॥
मत्स्यानां पक्षिणां चैव तैलस्य च घृतस्य च ।
मांसस्य मधुनश् चैव यच् चान्यत् पशुसंभवम् ॥ ८.३२७ ॥
अन्येषां चैवमादीनाम् अद्यानामोदनस्य च ।
पक्वान्नानां च सर्वेषां तन्मूल्याद् द्विगुणो दमः ॥ ८.३२८ ॥
भारुचिः ...{Loading}...
अथोक्तानां द्रव्याणां मूल्याद् द्विगुणो दमश् चतुर्भिः श्लोकैर् उच्यते । सूत्रादिश्लोकगणे चात्र यद् भस्मनो मृदश् च ग्रहणं तत्सर्वप्रदर्शनार्थं विज्ञयते । तथा च निगमयति “अन्येषां चैवमादीनाम्” इति ॥ ८.३२५–२८ ॥
पुष्पेषु हरिते धान्ये गुल्मवल्लीनगेषु च ।
अल्पेष्व् अपरिपूतेषु दण्डः स्यात् पञ्चकृष्णलः ॥ ८.३२९ ॥
भारुचिः ...{Loading}...
[हरित इत्य्] अपक्वं च धान्यानां राश्यपेक्षम् ॥ ८.३२९ ॥
परिपूतेषु धान्येषु शाकमूलफलेषु च ।
निरन्वये शतं दण्डः सान्वये ऽर्धशतं दमः ॥ ८.३३० ॥
भारुचिः ...{Loading}...
निरन्वये आरक्षानधिष्ठिते ग्रहणम् अयुक्ततरम् इति शतं दण्ड उच्यते, सान्वये तूभयत्र दोषात् साहसत्वाद् वार्धम् उच्यते । अन्यस् त्व् आह- निरन्वये निरनुगमे यदि नानुनयति ततो हरणं शतदण्ड्यो भवति । अथानुगमयति ततः पञ्चाशत् ॥ ८.३३० ॥
अन्ये त्व् आहुः ।
स्यात् साहसं त्व् अन्वयवत् प्रसभं कर्म यत् कृतम् ।
निरन्वयं भवेत् स्तेयं कृत्वापव्ययते च यत् ॥ ८.३३१ ॥
भारुचिः ...{Loading}...
यत् सारक्षं प्रसभम् अविसङ्कितेन क्रियते तत् साहसम् । निरन्वयं तु यद् अनधिष्ठितम् आरक्षे तन् न स्तेयम् । यच् च सान्वयम् अपि कृत्वापव्ययते तद् अपि स्तेयम् एव ॥ ८.३३१ ॥
यस् त्व् एतान्य् उपकॢप्तानि द्रव्याणि स्तेनयेन् नरः ।
तं शतं दण्डयेद् राजा यश् चाग्निं चोरयेद् गृहात् ॥ ८.३३२ ॥
भारुचिः ...{Loading}...
य एतानि सूत्रादीनि यथोक्तान्य् उपकॢप्तानि यथाकथंचिद् अवगुप्तान्य् अपि प्रसभं स्तेनयेत् तं राजा प्रसङ्गनिवृत्त्यर्थम् अल्पे महति वा शतम् अविशेषेण दण्डयेत् । अग्नेश् चादरार्थं पृथग्ग्रहणम् । अपि च सूत्रादौ गणे मूल्याद् द्विगुणो दम उच्यते । न चाग्नेः क्रयविक्रय्[औ, अथः तं शतं दण्ड्]अयेद् राजा यश् चाग्निं चोरयेद् गृहात् । भोगायोपकॢप्तानि- एतानि यथासंभवं भोगाभिमुखेषु यो ऽपहरेत् तस्याद्यो दण्डः, यश् च परिगृहीतो ऽग्निः तम् एव वा दौःशील्याद् उपहरेत् । साधनं वा स्रुक्स्रुवोलूखलमुसलाद्य् अग्न्यर्थत्वाद् अग्निशब्देनोच्यते गुणतः ॥ ८.३३२ ॥
येन येन यथाङ्गेन स्तेनो नृषु विचेष्टते ।
तत् तद् एव हरेद् अस्य प्रत्यादेशाय पार्थिवः ॥ ८.३३३ ॥
भारुचिः ...{Loading}...
यस्याङ्गस्य हस्तस्य वा पादस्य वा बलम् आश्रित्य स्तेनः स्तेये प्रवर्तते तत् तद् एवास्य छेत्तव्यम् । तद् यथा । ग्रन्थिच्छेदको हस्तबलं हस्ताच्छेदकः पादबलम् । यश् च दण्डितो ऽपि पौनह् पुन्येन वर्तते अपरिगणय्य पूर्वदण्डं तस्यायम् अङ्गच्छेद् उच्यते । तद् उक्तम् “वधदण्डम् अतः परम्” इति । एवं च क्वचिच् छेदनविधानम् अर्थवद् भवति । यथा सति छेदने हस्तच्छेदनम् अस्य ॥ ८.३३३ ॥
पिताचार्यः सुहृन् माता भार्या पुत्रः पुरोहितः ।
नादण्ड्यो नाम राज्ञो ऽस्ति यः स्वधर्मे न तिष्ठति ॥ ८.३३४ ॥
भारुचिः ...{Loading}...
प्रकरणात् सुवर्णस्तेयदण्डो ऽयम् । यदि त्व् अन्यत्रापि कार्यसामान्यात् कुप्यते ततो ऽयं सर्वव्यतिक्रमेषु प्रकरणानुक्रमेण दण्डः पित्रादीनां विज्ञेयः । गुरुत्वात् परिपालनीयत्वं येनैषाम् अत्यन्तम् । अतो ऽदण्ड्याशङ्कानिवृत्त्यर्थम् एषाम् इदं दण्डवचनम् । अन्ये त्व् अर्थवादम् इमं स्तेयदण्डस्यान्यपुरुषविषयस्य कल्पयन्ति । तद् अयुक्तम्, उत्तरश्लोके राजदण्डविरोधात् ॥ ८.३३४ ॥
तथा च दर्शयति ।
कार्षापणं भवेद् दण्डो यत्रान्यः प्राकृतो जनः ।
तत्र राजा भवेद् दण्ड्यः सहस्रम् इति धारणा ॥ ८.३३५ ॥
भारुचिः ...{Loading}...
राज्ञो ऽपि धर्मव्यतिक्रमम् आसेव्य यथोक्तात् सहस्रगुणो दण्डः वरुणायाप्सु प्रवेश्यो ऽयं ब्राह्मणेभ्यो वा विद्वद्भ्यः उपपाद्यः । अन्यस्यापि च दण्डहिरण्यस्याइताम् एव तद्द्वयीं प्रतिपत्तिं वक्ष्यति । य्क्तं च यन् महादण्डो राज्ञः स्याद् अल्पे ऽप्य् अपराधे येनासौ धर्मज्ञस् तद्व्यवस्थाहेतुश् च सन् धर्मव्यतिक्रमे वर्तते । तथा [सति ऽवि]दुषो ऽतिक्रमे दण्डभूयस्तम्" ज्यायसो ऽप्य् आहुः ॥ ८.३३५ ॥
अष्टापाद्यं तु शूद्रस्य स्तेये भवति किल्बिषम् ।
षोषशैव तु वैश्यस्य द्वात्रिंशत् क्षत्रियस्य तु ॥ ८.३३६ ॥
ब्राह्मणस्य चतुः षष्टिस् तद्दोषगुणविद् धि सः ।
द्विगुणा वा चतुः षष्टिस् तद्दोषगुणविद् धि सः ॥ ८.३३७ ॥
भारुचिः ...{Loading}...
उक्तशेषाणां च द्रव्याणाम् अपहरणे एष दण्डः स्यात् । एतेषाम् एव वा स्तेयाभ्यासे सुवर्ण[स्तेये वा । विदुषो ऽतिर]मे दण्डभूयस्त्वम् । एवं राज्ञो ऽपि स्यात् । तथायं पूर्वशेषत्वाद् अर्थवाद एष, न दण्डविधिः । यदि चास्यार्थवादत्वं भवति ततो वाग्दण्डपारुष्यादिषु [यत् यत्] दण्डालपत्वम् उक्तं तत् समञ्जसं भवति । अथ श्रुतिसामर्थ्याद् यथोपदेशम् अयं दण्डविकल्प इष्यते, यथा प्रकाशरहस्यप्रायश्चित्तेषु ततो ऽस्य विधित्वम् । एवं च सति ब्राह्मणदण्डविकल्पश् च वृद्धस्वाध्याय्यपक्षया (?) वेदितव्यः, यथान्यत्र । स्तेयापवादार्थं त्व् इदम् अधुनोच्यते ॥ ८.३३७ ॥
वानस्पत्यं मूलफलं दार्व् अग्न्यर्थं तथैव च ।
तृणं च गोभ्यो ग्रासार्थम् अस्तेयं मनुर् अब्रवीत् ॥ ८.३३८ ॥
भारुचिः ...{Loading}...
अग्निग्रहणाच् च लिङ्गात् सर्वम् एतद् यज्ञार्थम् अप्रत्यवायकरम् । तथा च वक्ष्यति- “आहरेत् त्रीणि वा द्वे वा” इति । तस्करप्रतिग्रहादिकर्तुर् ब्राह्मणस्य विजानतश् चोरसमत्वप्रदर्शनार्थम् इदम् आह दण्डार्थम् ॥ ८.३३८ ॥
यो ऽदत्तादायिनो हस्ताल् लिप्सेत ब्राह्मणो धनम् ।
याजनाध्यापनेनापि यथा स्तेनस् तथैव सः ॥ ८.३३९ ॥
भारुचिः ...{Loading}...
एवं च चोरसमत्वाच् चोरवद् दण्ड्यो ऽसौ । अधुना निमित्ते स्वल्पम् अनुजानाति परादानम् ॥ ८.३३९ ॥
द्विजो ऽध्वगः क्षीनवृत्तिर् द्वाविक्षू द्वे च मूलके ।
आददानः परक्षेत्रान् न दण्डं दातुम् अर्हति ॥ ८.३४० ॥
भारुचिः ...{Loading}...
एवं च राजदण्डप्रतिषेदार्थो ऽयम् आरम्भो ऽर्थलक्षणे सति स्तेये, न तु चौर्याभ्यनुज्ञा । एतेनादोषः । शाकमत्स्यादिग्रहणं व्याख्यातम् ॥ ८.३४० ॥
असन्दितानां सन्दाता सन्दितानां च मोक्षकः ।
दासाश्वरथहर्ता च प्राप्तः स्याच् चोरकिल्बिषम् ॥ ८.३४१ ॥
भारुचिः ...{Loading}...
अश्वरथग्रहणं च वाहनसामान्याद् उष्ट्रादिप्रदर्शनार्थम् इदं द्रष्टव्यम् ॥ ८.३४१ ॥
अनेन विधिना राजा कुर्वाणः स्तेननिग्रहम् ।
यशो ऽस्मिन् प्राप्न्युयाऌ लोके प्रेत्य चानुत्तमं सुखम् ॥ ८.३४२ ॥
भारुचिः ...{Loading}...
उपसंहारार्थः श्लोकः ॥ ८.३४२ ॥
साहसम् अधुनोच्यते ।
ऐन्द्रं स्थानम् अधिप्रेप्सु यशश् चाक्षयम् अव्ययम् ।
नोपेक्षेत क्षणम् अपि राजा साहसिकं नरम् ॥ ८.३४३ ॥
भारुचिः ...{Loading}...
साहसोपन्यासार्थः श्लोकः ॥ ८.३४३ ॥
वाग्दुष्टस् तस्करश् चैव दण्डेनैव च हिंसकः ।
साहसस्य नरः कर्ता विज्ञेयः पापकृत्तमः ॥ ८.३४४ ॥
भारुचिः ...{Loading}...
यतश् चैतद् एवम् अतः ।
साहसे वर्तमानं तु यो मर्षयति पार्थिवः ।
स विनाशं व्रजत्य् आशु विद्वेषं वाधिगच्छति ॥ ८.३४५ ॥
भारुचिः ...{Loading}...
एवं च सति ।
न मित्रकारणाद् राजा विपुलाद् वा धनागमात् ।
समुत्सृजेत् साहसिकान् सर्वभूतभयावहान् ॥ ८.३४६ ॥
भारुचिः ...{Loading}...
साहसिकनिन्दैषा तन्निग्रहादरार्था विज्ञेया । अन्याय्यशस्त्रग्रहणस्य वर्णस्य शस्त्रग्रहणं साहसम् । तेन यो वर्तते स साहसिकः । एवं च सति तद्दोषप्रतिषेधार्थं निमित्ततः शस्त्रग्रहणं द्विजातेर् इदं तदपवादभूतम् आरभ्यते ॥ ८.३४६ ॥
शस्त्रं द्विजातिभिर् ग्राह्यं धर्मो यत्रोपरुध्यते ।
द्विजातीनां च वर्णानां विप्लवे कालकारिते ॥ ८.३४७ ॥
आत्मनश् च परित्राणे दक्षिणानां च सङ्गरे ।
स्त्रीविप्राभ्यवपत्तौ च घ्नन् धर्मेण न दुष्यति ॥ ८.३४८ ॥
भारुचिः ...{Loading}...
अर्थकारितत्वाच् छस्त्रग्रहणस्य नायं विधिः । किं तर्ह्य् अर्थप्राप्तानुवादो ऽयं दण्डप्रतिषेधार्थः । क्षत्रियस्य प्रजासंरक्षणोपदेशसामर्थ्यात् प्राप्तं शस्त्रग्रहणम् । तदितरद्विजातिविषयो ऽयम् उपदेषः प्रतीयते । शस्त्रं द्विजातिभिर् ग्राह्यम् इति तद्ग्रहस्याधुना निमित्तं दर्शयति । धर्मो यत्र देशे काले वोपरुध्यते वर्णाश्रमिणाम् । इदं च सूत्रस्थानम् । अन्यद् अस्य भाष्यं भवति । द्विजातीनां च वर्णानां विप्लवे वर्णसङ्करादौ व्यवस्थाभङ्गे, कालकारिते राजव्यसनेन केनचित् कदाचिच् च धर्मोपरोधाद् अत्र शस्त्रग्रहणम् अदोषम् । यतोप् ऽस्य न तत्र साहसिकदण्डो युज्यते । किं चात्मनश् च परित्राणे परितः सर्वतस् त्राणे सकुटुम्बद्रविणस्यात्मनः दक्षिणानां चापहारपरित्राण इति वर्तते । दक्षीणाग्रहणं सर्वयाज्ञीयद्रव्योपलक्षणार्थम् । सङ्गरे युद्धे न तु छले । स्त्रीविप्राभ्यवपत्तौ च गृहीतशस्त्रः धर्मोपरोधहेतुम् उपात्तशस्त्रः घ्नन् धर्मेण न कूटयुद्धेन न दुष्यति परत्रेह च शास्त्रोपदेशसामर्थ्यात् । तल्लक्षणत्वाच् च धर्माधर्मयोर् अनतिशङ्क्यम् एतत् । स्त्रीग्रहणं च सर्वानुग्रह्याणां बालवृद्धातुराणां प्रदर्शनार्थं कार्यसामान्याद् वि[धेः], विप्रग्रहणं च सर्वश्रेयसाम् आचार्यादीनाम् इति ॥ ८.८.३४७–४८ ॥
धर्मोपरोधे गृहीतशस्त्र आततायिनं घ्नन् धर्माण न दुष्यतीति यद् उक्तम् अस्यार्थवादः ।
गुरुं वा बालवृद्धौ वा ब्राह्मणं वा बहु[श्रुतम् ।
आततायिनम् आयान्तं हन्या]द् एवाचिवारयन् ॥ ८.३४९ ॥
भारुचिः ...{Loading}...
“आचार्यं च प्रवक्तारं पितरं मातरं गुरुम्” इत्य् एवमादिभिः शास्त्रैर् अत्यन्तापकारिणो ऽप्य् एते गुर्वादयो न वध्याः इत्य् उक्तं यतः इदं पूर्वविध्यर्थव्[आदार्थम् । गु]र्वादयो ऽप्य् आततायिनो ऽनेन निमित्तेन वध्याः स्युर् अत्यन्तावध्याः सन्तः, किं पुनस् तेभ्यो ऽन्य इत्य् अतिशयार्थवादो यथा लोके ॥ ८.३४९ ॥
तथा चेदम् आह ।
नाततायिवधे दोषो [हन्तुर् भवति] कश्चन ।
प्रकाशं वाप्रकाशं वा मन्युस् तं मन्यम् ऋच्छति ॥ ८.३५० ॥
भारुचिः ...{Loading}...
मन्युः क्रोधो वध्यस्य, तं घातकमन्युः क्रोध ऋच्छति निवर्तयति । साहसप्रशंसार्थं चेदं श्लोकद्वयम् । तत्प्रशंसा च राजदण्डनिवृत्त्यर्था । एवं चास्यानेनाततायिवधे राजदण्डाभाववत् प्रत्यवायाभावो ऽपि गम्यते । तथा च व्यासो भीष्मजामदग्न्यरामसंवादे-
> यो हन्यात् समरे क्रुद्धो युद्ध्यन्तम् अपलायिनम् ।
> ब्रह्महत्या न तस्यास्ति इति दर्मेषु निश्चयः ॥ इति ।
ईषत्प्रत्यवायायान्ये ऽत्रातत्यिनो गुर्वादयो ऽपि वध्या भवन्तीति शिष्टानाम् अप्य् आततायिनां वधम् इच्छन्ति । अपरे हीनाततायिवधं निर्विकल्पं मन्यन्ते, समे तु विकल्प आत्मनः परस्य वा विशिष्टे आत्मत्यागद एवाकुशलारम्भसामर्थाद् इति । तद् एतद् यथासंभवम् उक्तपरिहारं पूर्वश्लोकविवरण एवेति । साहसस्य च प्रतिषेध एवात्र श्रूयते, न तु दण्डविधिः कश्चिद्, यतः अल्पमध्यमोत्तमापराधेषु साहसिकस्य यथाक्रमं प्रथममध्यमोत्तमसाहसदण्डा एव यथापरिभाषिताः स्युः । अथ वा स्तेयसादृश्यात् साहसिके ऽपि तस्यानुक्तो ऽपि सामर्थ्यात् स्तेयदण्डविकल्पः स्याद् इति ॥ ८.३५० ॥
अधुना द्रमप्राप्तं स्त्रीसंग्रहणम् उच्यते ।
परदाराभिमर्शेषु प्रवृत्तान् नॄन् महीपतिः ।
उद्वेजनकरैर दण्डैश् चिह्नयित्वा प्रवासयेत् ॥ ८.३५१ ॥
भारुचिः ...{Loading}...
अधुना द्रमप्राप्तं स्त्रीसंग्रहणम् उच्यते ।
ये तु बहुशो ऽपि वार्यमाणा नावतिष्ठेरन् तत्र तेषाम् अयं प्रवासनविधि सचिह्नः । तथा चोक्तम् अपराधसमुच्चये- “वाग्दण्डं प्रथमं कुर्यात्” इत्य् एवमादि ॥ ८.३५१ ॥
यस्मात् ।
तत्समुत्थितो हि लोकस्य जायते वर्णसंकरः ।
येन मूलहरो ऽधर्मः सर्वनाशाय कल्पते ॥ ८.३५२ ॥
भारुचिः ...{Loading}...
परदारिकनिग्रहप्रशंसार्थः श्लोकः ॥ ८.३५२ ॥
परस्य पत्न्या पुरुषः संभाषं योजयेद् रहः ।
पूर्वम् आक्षारितो दोषैः प्राप्नुयात् पूर्वसाहसम् ॥ ८.३५३ ॥
भारुचिः ...{Loading}...
आक्षारितः आशङ्क्यमानदोषः । संव्यवहारार्थम् अपि न संभाषेत ॥ ८.३५३ ॥
यस् त्व् अनाक्षारितः पूर्वम् अभिभाषेत कारणात् ।
न दोषं प्राप्नुयात् किंचिन् न हि तस्य व्यतिक्रमः ॥ ८.३५४ ॥
भारुचिः ...{Loading}...
संव्यवहारार्थं प्रकाशसंभाषणम् अनाशङ्क्यमानस्याभ्यनुज्ञाते (?) ॥ ८.३५४ ॥
परस्त्रियंयो ऽभिभवेत् तीर्थे ऽरण्ये वने ऽपि वा ।
नदीनां वापि संभेदे स संग्रहणम् आप्नुयात् ॥ ८.३५५ ॥
भारुचिः ...{Loading}...
तीर्थादिषु विजनेषु कारणाद् अप्य् अभिभाषमाणः संग्रहणम् आप्नुयाद् अनाक्षारितो ऽपि पूर्वम् ॥ ८.३५५ ॥
किं च ¦
उपकारक्रिया केलिः स्पर्शो भूषणवाससाम् ।
सह खट्वासनं चैव सर्वं संग्रहणं स्मृतम् ॥ ८.३५६ ॥
भारुचिः ...{Loading}...
भूषणवाससाम् उपदेशात् स्त्रीगतानां पुरुषगतानां च स्पर्शनाद् उभयापराधः । यच् चान्यत् स्निग्धदृष्टिनिपातनाङ्गविकारादि तद् अपि संग्रहणम् एव विज्ञेयम् ॥ ८.३५६ ॥
इदं चान्यत् ।
स्त्रियं स्पृशेद् अदेशे यः स्पृष्टो वा मर्षयेत् तया ।
परस्परस्यानुमते सर्वं संग्रहणं स्मृतम् ॥ ८.३५७ ॥
भारुचिः ...{Loading}...
सर्व एवैते संग्रहणे समावेदितव्याः यथोक्ताः परार्थाः स्त्रियश् चतुर्मात्रैः श्लोकैः, न तु संग्रहणम् एव च । यतो नैषां संग्रहणसमो दण्डः स्यात् । तदुक्तं अपराधं परिज्ञायेति । अथ तु सर्वेष्व् एतेषु संग्रहणदण्डः कल्प्यते, संपूर्णे किं करिष्यति, न विषमसमीकरणं न्याय्यम् ॥ ८.३५७ ॥
अब्राह्मणः संग्रहणे प्राणान्तं दण्डम् अर्हति ।
चतुर्णाम् अपि वर्णानां दारा रक्ष्यतमाः सदा ॥ ८.३५८ ॥
भारुचिः ...{Loading}...
संयतया अनिच्छन्त्या ब्राह्मण्या सह संग्रहणे अब्राह्मणः शूद्रः प्राणान्तं दण्डम् अर्हति । क्षत्रियवैश्याभ्यां तु वर्णवत् तदूना दण्डपरिकल्पना । एवं क्षत्रियवैश्ययोः ब्राह्मणीसंग्रहणे ऽनयाइवापेक्षया दण्डः कल्पयितव्यः, वैश्यस्य च क्षत्रियया । इच्छन्तीषु च ब्राह्मणक्षत्रियावैश्यासु असंयतासु च पूर्ववद् दण्डः कल्पनीयः । संभाषणप्रतिषेधप्रतिप्रसवार्थ्[अम् इदम् उच्यते], किंचिद् विशेषेण ॥ ८.३५८ ॥
भिक्षुका वन्दिनश् चैव दीक्षिताः कारवस् तथा ।
संभाषणं गृहे स्त्रीभिः कुर्युर् अप्रतिवारिताः ॥ ८.३५९ ॥
भारुचिः ...{Loading}...
भिक्षुकादीनाम् असत्य् अपि कारणे संभाषणं गृहेष्व् अभ्यनुज्ञायते । ताभिः सह तीर्थादिषु तु विजनेषु सत्य् अपि कारणे भिक्षुकादयो नाभिभाषेरन्, शङ्कास्थानेषु ॥ ८.३५९ ॥
न संभाषां परस्त्रीभिः [प्रतिषिद्धः समाचरेत् ।
निषिद्धो] भाषमानस् तु सुवर्णं दण्डम् अर्हति ॥ ८.३६० ॥
भारुचिः ...{Loading}...
परस्त्रिया सह संभाषणं शास्त्रेण प्रतिषिद्धम् । व्यतिक्रमे दण्डम् अर्हति ॥ ८.३६० ॥
नैष चारणदारेषु विधिर् नात्मोपजीविषु ।
सज्जयन्ति हि ते नारीर् निगूढाश् चारयन्ति च ॥ ८.३६१ ॥
भारुचिः ...{Loading}...
संभाषणानुज्ञानं चैवैतत्, नोपगमनस्य । यतो ऽत्र राजदण्डाभावमात्रम्, न त्व् अत्यन्तम् अदृष्टदोषाभावः । यतः ईषद्दोषस् तूपगन्तुः स्याद् इति । यतः नायं पूर्वप्रतिषेधविषयः । यस्माद् अपरैषा वेशजातिः । एवं च कारणाद् ऋते ऽप्य् आभिः सह संभाषमाणे न संग्रहणं प्राप्नुयात् ॥ ८.३६१ ॥
किंचिद् एव तु दाप्यः स्यात् संभाषां ताभिर् आचरन् ।
प्रेष्यासु चैकभक्तासु रहः प्रव्रजितासु च ॥ ८.३६२ ॥
भारुचिः ...{Loading}...
रह इति चैतद् विशेषणं सर्वशेषम् ॥ ८.३६२ ॥
स्त्रीप्रसङ्गाच् च कन्यागतम् अपीदम् उच्यते ।
यो ऽकामां दूषयेत् कन्यां स सद्यो वधम् अर्हति ।
सकामां दूषयन्स् तुल्यो न वधं प्राप्नुयान् नरः ॥ ८। ३६३ ॥
अत ऊर्ध्वं विधिर् उच्यमानः कन्यागतो वेदितव्यः ॥ ८.३६३ ॥
कन्यां भजन्तीम् उत्कृष्टं न किंचिद् अपि दापयेत् ।
जघन्यं सेवमानां तु संयतां वासयेद् गृहे ॥ ८.३६४ ॥
भारुचिः ...{Loading}...
ऋज्वर्थः ॥ ८.३६४ ॥
उत्तमां सेवमानस् तु जघन्यो वधम् अर्हति ।
शुल्कं दद्यात् सेवमानः समाम् इच्छेत् पिता यदि ॥ ८.३६५ ॥
भारुचिः ...{Loading}...
अविशेषाभिधानात् सकामाम् अकामां चोत्तमां सेवमानस्य जघन्यस्य वध एव । समां तु सकामां सेवमानस्य शुल्कदानं तत्समो वा दण्डः । एतच्छ्लोकनिबन्धनश् च पूर्वः संग्रहणप्रकरणे श्लोकः “अब्राह्मणः संग्रहणे प्राणान्तं दण्डम् अर्हति” इति ॥ ८.३६५ ॥
अभिषह्य तु यः कन्यां कुर्याद् दर्पेण मानवः ।
तस्याशु कल्प्ये अङ्गुल्याऊ दण्डं चार्हति षट्शतम् ॥ ८.३६६ ॥
भारुचिः ...{Loading}...
अकामां सेवमानस्याङ्गुलिच्छेदेनं दण्डं च षट्शतम् । अन्येषां तु पाठः- “अविषह्यां तु यः कन्यां कुर्याद् दर्पेण मानवः” इति ॥ ८.३६६ ॥
सकामां दूषयाणस् तु नाङ्गुलिच्छेदम् आप्नुयात् ।
द्विशतं तु दमं दाप्यः प्रसङ्गविनिवृत्तये ॥ ८.३६७ ॥
भारुचिः ...{Loading}...
असमास्व् (?) एतत् स्यात् कन्यासूत्तमस्य ॥ ८.३६७ ॥
कन्यैव कन्यां या कुर्यात् तस्याः स्याद् द्विशतो दमः ।
शुल्कं च द्विगुणं दद्याच् छिफाश् च प्राप्नुयाद् दश ॥ ८.३६८ ॥
भारुचिः ...{Loading}...
शुल्कं गोमिथुनं द्विगुणं कन्यापित्रे दद्यात् द्विशतं राजदण्डम् ॥ ८.३६८ ॥
[या तु कन्यां प्रकुर्यात् स्त्री सा सद्यो मौण्ड्यं अर्हति ।
अङ्गुल्योर् एव वा छेदं करेणोद्वहनं तथा ॥ ८.३६९ ॥
भारुचिः ...{Loading}...
मौण्ड्या]ङ्गुलिच्छेदयोर् विकल्पः ॥ ८.३६९ ॥
भर्तारं लङ्घयेद् या तु स्त्री ज्ञातिगुणदर्पिता ।
तां श्वभिः खादयेद् राजा संस्थाने बहुसंस्थिते ॥ ८.३७० ॥
भारुचिः ...{Loading}...
ज्ञातिदर्पेण स्त्री गुणवद्भर्तृव्यतिक्रमे श्वभिर् असौ खादयितव्या राज्ञा । अन्यस्यास् तु यः पुंसः परदारेषु सो ऽस्या दण्डः स्यात् । तच् च दर्शयति, “यत् पुंसः परदारेषु” इति प्रायश्चित्तविधौ ॥ ८.३७० ॥
पुमांसं दाहयेत् पापं शयने तप्त आयसे ।
अभ्यादध्युश् च काष्टानि तत्र दह्येत पापकृत् ॥ ८.३७१ ॥
भारुचिः ...{Loading}...
अनयैव संगृहीतस्यायं विधिः । अन्यस्य तु यथोक्त एव दण्डः स्यात् ॥ ८.३७१ ॥
तच् च दर्शयति ।
संवत्सराभिशप्तस्य दुष्टस्य द्विगुणो दमः ।
व्रात्यया सह संवासे चाण्डाल्या तावद् एव तु ॥ ८.३७२ ॥
भारुचिः ...{Loading}...
यो यस्याम् अभिगृहीतः स चेत् संवत्सरे ऽतीते पुनस् तस्याम् एवाभिगृह्येत् तस्य यथोपदेशाद् द्विगुणो दण्डः कर्तव्यः । यस् तु संवत्सराद् अर्वाक् पुनर् अपि गृह्यते तस्य प्रथममासे द्वादशगुणो दण्डः एवं मासानुमासं भागह्रासेन तावद् दण्डप्रकॢप्तिः । यावत् संवत्सरे ऽतीते द्विगुणो दण्ड इति । एवं संवत्सराद् ऊर्ध्वं भागद्वादशभागह्रासेन मासानुमास एव दण्डः प्रकल्प्यः । यावद् एक एव भागो ऽवशिष्ट इति । एवं प्रत्यागमने यो दण्डः प्रकल्प्यते तस्याप्य् एषैव प्रकॢप्तिर् अनूद्यते । चण्डालीगमने च दण्डं वक्ष्यति “सहस्रं त्व् अन्त्यजस्त्रियम्” इति ॥ ३.३७२ ॥
शूद्रो गुप्तम् अगुप्तं वा द्वैजातं वर्णम् आवसन् ।
अगुप्तैकाङ्गसर्वस्वी गुप्ते सर्वेण हीयते ॥ ८.३७३ ॥
भारुचिः ...{Loading}...
एकाङ्गं च प्रधानम् अत्र यद् अपराधसाधनं तत् प्रगृह्यते । तेनास्य हानिः कर्तव्या । गुप्ते तूभयेन हीयते । सत्य् अपि चाविशेषवचने वर्णानाम् औत्तमाधर्यवद् दण्डो ऽपि तथा स्यात्, यथान्यत्र । विषमसमीकरणं तु दण्डसामान्याद् अन्याय्यं स्यात् ॥ ३.३७३ ॥
वैश्यः सर्वस्वदण्ड्यः स्यात् (?) संवत्सरनिरो[धतः] ।
सहस्रं क्षत्रियो दण्ड्यो मौण्ड्यम् मूत्रेण चार्हति ॥ ८.३७४ ॥
भारुचिः ...{Loading}...
अनिच्छन्त्यां ब्राह्मण्याम् एवैतयोर् उभयदण्डः सामर्थ्याद् विज्ञेयः ॥ ८.३७४ ॥
ब्राह्मणीं यद्य् अगुप्तां तु गच्छेतां वैश्यपार्थिवौ ।
वैश्यं [पञ्चशतं कुर्यात् क्षत्रियं तु सहस्रिणम्] ॥ ८.३७५ ॥
भारुचिः ...{Loading}...
क्षत्रियस्य दण्डाधिक्यप्रयोजनम् उक्तम् “विदुषो ऽतिक्रमे दण्डभूयस्त्वम्” इति । अत्रापराधाभ्यासानुबन्धाद् वैतद् अस्य स्यात् ॥ ८.३७५ ॥
उभाव् अपि हि ताव् एव ब्राह्मण्या गुप्तया सह ।
[विप्लुतौ शूद्रवद् द]ण्ड्यौ दग्धव्यौ वा कटाग्निना ॥ ८.३७६ ॥
भारुचिः ...{Loading}...
अयं तु कटाग्निना दाहः शूद्रदण्डस्य वैकल्पिकस् ततो ज्ञेयः ॥ ८.३७६ ॥
सहस्रं ब्राह्मणो दण्ड्यो विप्रां गुप्तां बलाद् व्रजन् ।
शतानि पञ्च दण्ड्यः स्याद् इच्छन्त्या सह सङ्गतः ॥ ८.३७७ ॥
भारुचिः ...{Loading}...
बलाद् इत्य् अविवक्षितम् । यो हि गुप्तां व्रजति बलाद् एवासौ गतो भवति । एवं सकामाम् अकामाम् इत्य् अन्यत्र गुप्तागुप्तव्यपदेशो विवक्षितः । ऋज्व् अन्यत् ॥ ८.३७७ ॥
मौण्ड्यम् प्र्णान्तिको दण्डो ब्राह्मणस्य विधीयते ।
इतरेषां तु वर्णानां दण्डः प्राणान्तिको भवेत् ॥ ८.३७८ ॥
भारुचिः ...{Loading}...
सर्वत्र प्राणान्तिकेषु ब्राह्मणस्य मौण्ड्यं कर्तव्यम् । मुण्डयित्वा च समग्रधनो ऽक्षतो राष्ट्राद् बहिः कर्तव्यः । एवं सर्वाङ्गच्छेदनेषु ब्राह्मणस्य मुण्डनविवासने एव कार्ये । स्मृत्यन्तरे चाविशेषेण स्मर्यते- “न शारीरो ब्राःमणदण्डः” इति ॥ ८.३७८ ॥
येनातः ।
न जातु ब्राह्मणं हन्यात् सर्वपापेष्व् अवस्थितम् ।
राष्ट्रात् त्व् एनं बहिष् कुर्यात् समग्रधनम् अक्षतम् ॥ ८.३७९ ॥
भारुचिः ...{Loading}...
अस्यार्थवादः ।
न ब्राह्मणवधाद् भूयान् अधर्मो विद्यते भुवि ।
तस्माद् अस्य वधंराजा मनसापि न चिन्तयेत् ॥ ८.३८० ॥
भारुचिः ...{Loading}...
प्रतिषिद्धस्य निन्दार्थवादो निवृत्त्यर्थः ॥ ८.३८० ॥
वैश्यश् चेत् क्षत्रियां गुप्तां वैश्यां वा क्षत्रियो व्रजेत् ।
यो ब्राःमण्याम् अगुप्तायां ताव् उभौ दण्डम् अर्हतः ॥ ८.३८१ ॥
भारुचिः ...{Loading}...
“वैश्यं पञ्चसतं कुर्यात्” इत्य् एवमाद्य् अगुप्तायां ब्राह्मण्याम् उक्तम् ॥ ८.३८१ ॥
सहस्रं ब्राह्मणो दण्डं दाप्यो गुप्ते तु ते व्रजन् ।
शूद्रायां क्षत्रियविशोः साहस्रो वै भवेद् दमः ॥ ८.३८२ ॥
भारुचिः ...{Loading}...
अवचनाद् अन्यस्य शूद्रायां गुप्तायाम् अयम् एव दण्डः स्याद् ब्राह्मणस्य ॥ ८.३८२ ॥
अगुप्ते वैश्यराजन्ये शूद्रां च ब्राह्मणो व्रजन् ।
शतानि पञ्च दाप्यः स्यात् सहस्रं त्व् अन्त्यजस्त्रियम् ॥ ८.३८३ ॥
भारुचिः ...{Loading}...
सर्वान्त्यश् चाण्डालो वर्णापसदः । तस्य स्त्री । अन्त्यजस्त्रीसंगमे ऽयं दण्डः । अविधानाच् च गुप्तागुप्तयोर् अविशेषेणायं दण्डः स्यात् । अथ वाधिकाराद् अगुप्तायाम् एव स्यात् । गुप्तायां तु विशिष्टतरः कार्यः ॥ ८.३८३ ॥
यस्य स्तेनः पुरे नास्ति नान्यस्त्रीगो न दुष्टवाक् ।
न साहसिकदण्डघ्नौ स राजा शक्रलोकभाक् ॥ ८.३८४ ॥
भारुचिः ...{Loading}...
यतश् वैतद् एवम् अतः ।
एतेषां निग्रहो राज्ञः पञ्चानां विषये स्वके ।
साम्राज्यकृत् सजात्येषु लोके चैव यशस्करः ॥ ८.३८५ ॥
भारुचिः ...{Loading}...
निग्रहस्तुतिः श्लोकद्वयेन । प्रसङ्गाच् चेदम् अपरं साहसप्रकरण एवोच्यते ॥ ८.३८५ ॥
ऋत्विजं यस् त्यजेद् याज्यो जाज्यं चर्त्विक् त्यजेद् यदि ।
शक्तं कर्मण्य् अदुष्टं च तयोर् दण्डः शतं सतम् ॥ ८.३८६ ॥
भारुचिः ...{Loading}...
ऋज्वर्थः श्लोकः ॥ ८.३८६ ॥
न माता न पिता न स्त्री न पुत्रस् त्यागम् अर्हति ।
त्यजन्न् अपतितान् एतान् राज्ञा दण्ड्यः शतानि षट् ॥ ८.३८७ ॥
भारुचिः ...{Loading}...
प्रायश्चित्तप्राप्ताव् अकुर्वन्तस् तानि त्याज्या न तु द्वेषादिना ॥ ८.३८७ ॥
आश्रमेषु द्विजातीनां कार्ये विवदतां मिथः ।
न विब्रूयान् नृपो धर्मं चिकीर्षन् हितम् आत्मनः ॥ ८.३८८ ॥
भारुचिः ...{Loading}...
तपस्विव्ध्यर्थः श्लोकः ॥ ८.३८८ ॥
यथार्हम् एतान् अभ्यर्च्य ब्राह्मणैः सह पार्थिवः ।
सान्त्वेन प्रशमय्यादौ स्वधर्मं प्रतिपादयेत् ॥ ८.३८९ ॥
प्रतिवेश्यानुवेश्यौ च कल्याणे विंसति (?) द्विजे ।
अर्हाव् अभोजयन् विप्रो दण्डं अर्हति माषकम् ॥ ८.३९० ॥
भारुचिः ...{Loading}...
पार्श्ववेश्मानाव् अप्य् अर्थगृहीतौ विज्ञेयौ । अन्यस् तु पाठान्तरे ऽर्थम् आह्आनुवेश्यस् तदनुगामी । प्रतिवेश्यस् तत्सम्मुखः ॥ ८.३९० ॥
श्रोत्रियः श्रोत्रियं साधुं भूतिकृत्येष्व् अभोजयेत् ।
तद् अन्नं द्विगुणं दाप्यो हैर्ण्यं चैव माषकम् ॥ ८.३९१ ॥
भारुचिः ...{Loading}...
> श्रोत्रियः श्रोत्रियं साधुं भूतिकृत्येष्व् अभोजयेत् ।
असमीपगृहम् अप्य् एकग्रामम् ।
> तद् अन्नं द्विगुणं दाप्यो हैर्ण्यं चैव माषकम् ॥ ८.३९१ ॥
अर्हब्राह्मणातिक्रमदण्डो ऽयम् । भूतिकृत्येष्व् इति वचनाद् आरम्भसामर्थ्याच् च पूर्वस्मात् कल्याणान् महत्तरम् इदं विज्ञायते । एतौ च दण्डाव् अर्हादाने सति स्याताम् ॥ ८.३९१ ॥
अन्धो जडः पीठसर्पी सप्तत्या स्थविरश् च यः ।
सप्तत्याः प्रभृति स्थविरो गृह्यते ।
श्रोत्रियेषूपकुर्वंश् च न दाप्यः केनचित् करम् ॥ ८.३९२ ॥
भारुचिः ...{Loading}...
अब्राह्मणा अपि सन्तः ब्राह्मणा अपि वानर्हन्तः ॥ ८.३९२ ॥
श्रोत्रियं व्याधितार्तौ च बालवृद्धाव् अकिंचनम् ।
महाकुलीनम् आर्यं च राजा संपूजयेत् सदा ॥ ८.३९३ ॥
भारुचिः ...{Loading}...
श्रोत्रियः शास्त्रप्रसिद्ध्या ब्राह्मणो गृह्यते । व्याधितार्तबालवृद्धाकिंचना अश्रोत्रिया अपि सन्तः । महाउलीनम्, [सगुणकुलजातम्], आर्यं च राजा संपूजयेत् सदा । प्रकरणात् कराग्रहेण ग्रासाच्छादनेन वा स्थित्यर्थेन । कराग्रहणादिकेन तपस्विश्रोत्रियप्रसङ्गाच् चायं व्यवहारमध्ये कारुधर्म उच्यते ॥ ८.३९३ ॥
[शाल्मलीफल]के श्लक्ष्णे निज्याद् वासांसि नेजकः ।
न च वासांसि वासोभिर् निर्हरेन् न च वासयेत् ॥ ८.३९४ ॥
भारुचिः ...{Loading}...
प्रतीतार्थः श्लोकः ॥ ८.३९४ ॥
तन्तुवायो दशपलं दद्याद् एकपलाधिकम् ।
अतो ऽन्यथा वर्तमानो दाप्यो द्वादशकं दमम् ॥ ८.३९५ ॥
भारुचिः ...{Loading}...
छिन्नं द्वादशगुणं दाप्यः । एवं सर्वद्रव्याणां लोहादीनां छेदने । साहसप्रकरणे च तत्सादृश्याद् इमौ श्लोकाव् उच्येते ॥ ८.३९५ ॥
शुल्कस्थानेषु कुशलाः सर्वपण्यविचक्षणाः ।
कुर्युर् अर्घं यथापण्यं ततो विंशं नृपो हरेत् ॥ ८.३९६ ॥
भारुचिः ...{Loading}...
द्रव्यस्यागमनिर्गमे देशकालापेक्षया अर्घनिपातेन विंशभागः शुल्कः ॥ ८.३९६ ॥
राज्ञः प्रख्यातभाण्डानि प्रतिषिद्धानि यानि च ।
तानि निर्हरतो लोभात् सर्वहारं हरेन् नृपः ॥ ८.३९७ ॥
भारुचिः ...{Loading}...
यद् यत्र प्रचुरं यत्र च दुर्लभं तत् तस्य राज्ञः प्रख्यातं भवति । तथोदीच्येष्व् आजानेया अश्वाः, कुंकुमं काश्मीरेषु, प्राच्येष्व् अगरुकर्पूरादि तदन्यत्र न निर्हार्यम् । अनिर्हृतं हि दुर्लभत्वात् । इतरेतरं राज्ञां कार्यप्रतिबन्धाद् उपायनं भवति । यस्य च धर्मार्थोपायनस्य धर्मजनकस्यार्थजनकस्य च क्रयविक्रयप्रतिषेधो राज्ञा कृतो भवति । यथा माक्षिकस्य मधुनः । तच् च न निर्हर्यम् । वणिग्भिर् निर्हरतो नृपः सर्वभागं हरेत् ॥ ८.३९७ ॥
शुल्कस्थानं परिहरण्ण् अकाले क्रयविक्रयी ।
मिथ्यावादी च संख्याने दाप्यो ऽष्टगुणम् अत्ययम् ॥ ८.३९८ ॥
भारुचिः ...{Loading}...
कः शक्ष्यति काले दिवा शुल्कस्थानं परिहर्तुम् इति स्वभावसिद्धं कालम् अनुवदति । न त्व् एतेन ततो ऽन्यकालो ऽभ्यनुज्ञायते, दिवाकाले परिहरतो न दोष इति । शुल्कम् अष्टगुणं दाप्यम् । तथा यावती संख्या तावतीम् अप्य् अष्टगुणां दापयेत् मिथावचनेन । आगमोपयोगौ द्रव्यस्यानियताव् इतीदम् उच्यते ॥ ८.३९८ ॥
आगमं निर्गमं स्थानं तथा वृद्धिक्षयाव् उभौ ।
विचार्य सर्वपण्यानां कारयेत् क्रयविक्रयौ ॥ ८.३९९ ॥
भारुचिः ...{Loading}...
आगमादि द्रव्यस्यापेक्ष्य क्रयिविक्रयिणोश् च वृद्धिक्षयौ तयोर् अर्घनिपातेन क्रयविक्रयौ कारयेत् ॥ ८.३९९ ॥
पञ्चरात्रे पञ्चरात्रे पक्षे पक्षे तथागते ।
कुर्वीत चैषां प्रत्यक्षम् अर्घसंस्थापनं नृपः ॥ ८.४०० ॥
भारुचिः ...{Loading}...
आगमोपयोगौ द्रव्यस्यानियताव् इत्य् अत इदम् उच्यते ।
तुला मानं प्रतीमानं सर्वं पार्थिवलक्षितम् ।
षट्सु षट्सु च माएषु पुनर् एतत् परीक्षयेत् ॥ ८.४०१ ॥
भारुचिः ...{Loading}...
त्रयम् अप्य् एतद् राजमुद्राङ्कितम् अनाधृष्यं भवति । ऋज्व् अन्यत् ॥ ८.४०१ ॥
पणं यानं तरे दाप्यं पौरुषो ऽर्धपणं भरः ।
पादं पशुश् च योषिच् च पादार्धं रक्तकः पुमान् ॥ ८.४०२ ॥
भारुचिः ...{Loading}...
रिक्तं यानं रथादि पणं दद्यात् । पुरुषवाह्यो भारो ऽर्धपणम् । प्रकृतस्य पणस्य पादं पशुश् च रिक्तका योषिच् च । पादार्धं रिक्तकः पुमान् ॥ ८.४०२ ॥
भाण्डपूर्णानि यानानि तार्यं दाप्यानि सारतः ।
रिक्तभाण्डानि यत् किंचित् पुमांसश् चापरिच्छदाः ॥ ८.४०३ ॥
भारुचिः ...{Loading}...
कर्मद्रव्यानुरूप्येण पूर्णानि यानानि दद्युः । अपरिच्छदा अपि यत् किंचिद् दद्युः । रिक्तकस्यैको ऽर्धपादः ॥ ८.४०३ ॥
दीर्घे ऽध्वनि यथाकालं यथादेशं तरो भवेत् ।
नदीतीरेषु तद् विद्यात् समुद्रे नास्ति लक्षणम् ॥ ८.४०४ ॥
भारुचिः ...{Loading}...
दीर्घे यातव्ये ऽध्वनि कल्प्यस् तरः क्षयलाभान् अवेक्ष्य । तथा नदीवैपुल्यम् अपेक्ष्य पारगमने । ऋज्व् अन्यत् ॥ ८.४०४ ॥
गर्भिणी तु द्विमासादिस् तथा प्रव्रजितो मुनिः ।
ब्राह्मणा लिङ्गिनश् चैव न दाप्यास् तारिकं तरे ॥ ८.४०५ ॥
भारुचिः ...{Loading}...
प्रतीतार्थः श्लोकः ॥ ८.४०५ ॥
यन् नावि किंचिद् दाशानां विशीर्येतापराधतः ।
तद् दाशैर् एव दातव्यं समागम्य स्वत्ॐशतः (?) ॥ ८.४०६ ॥
भारुचिः ...{Loading}...
निगदव्याख्यातः श्लोकः ॥ ८.४०७ ॥
एष नौयायिनाम् उक्तो व्यवहारस्य निर्णयः ।
दाशापराधतस् तोये दैविके नास्ति निग्रहः ॥ ८.४०७ ॥
भारुचिः ...{Loading}...
न किंचिद् वक्तव्यं स्फुटत्वाच् छ्लोकस्य ॥ ८.४०७ ॥
वाणिज्यं कारयेद् वैश्यं कुसीदं कृषिम् एव च ।
पशूनां रक्षणं चैव दास्यं सूद्रं द्विजन्मनाम् ॥ ८.४०८ ॥
भारुचिः ...{Loading}...
वैश्यशूद्रौ वाणिज्यादिस्वकर्माकुर्वाणौ बलाद् राज्ञा कारयितव्यौ । अकुर्वाणौ च दण्डदण्ड्यौ स्याताम् । एवमर्थश् च राजधर्मे[षु पु]न[रारम्भः] ॥ ८.४०८ ॥
क्षत्रियं चैव वैश्यं च ब्राह्मणो वृत्तिकर्शितौ ।
बिभृयाद् आनृशंस्येन स्वानि कर्माणि कारयन् ॥ ८.४०९ ॥
भारुचिः ...{Loading}...
न तु दासकर्मणा वासोभाण्डधावनादिना । येन दासकर्मप्रतिषेधार्थो [कारयन्] इमौ स्वानि कर्माण्य् आनृशंस्येन भरणीयाव् एव ॥ ८.४०९ ॥
दास्यं तु दारयन् मोहाद् ब्राह्मणः संस्कृतान् द्विजान् ।
अनिच्छतः प्रभावत्वाद् राज्ञा दाप्यः शतानि षट् ॥ ८.४१० ॥
भारुचिः ...{Loading}...
द्विजग्रहणाच् चात्र ब्राह्मणो ऽपि समानत्वा[द् । न] चैते इच्छन्तो ऽनिच्छन्तो वा दास्यं कारयितव्याः । एतावांस् तु विशेषः । अनिच्छतां करणे ऽयं दण्डः । इच्छतां तु करणे कल्पयितव्यः । एवम् अर्थं च राजधर्मेषूक्तम् इदम् इति ॥ ८.४१० ॥
शूद्रं तु कारयेद् दास्यं क्रीतम् अक्रीतम् एव वा ।
दास्यायैव हि सृष्टो ऽसौ ब्राह्मणस्य स्वयंभुवा ॥ ८.४११ ॥
भारुचिः ...{Loading}...
भक्तदासक्रीतयोर् अयं कर्तव्यतायां विशेषो नास्ति । ब्राह्मणग्रहणं च द्विजातिप्रदर्शनार्थम् ॥ ८.४११ ॥
एवं च सति —
न स्वामिना निसृष्टो ऽपि शूद्रो दास्याद् विमुच्यते ।
निसर्गजं हि तत् तस्य कस् तं तस्माद् अपोहति ॥ ८.४१२ ॥
भारुचिः ...{Loading}...
यथैवाध्यापनादि ब्राह्मणादीनां निसर्गजम् एवं शूद्रस्य [दास्यम्] । यथैतत् तेन कर्तव्यम् इत्य् उक्तम् एव शास्त्रे ॥ ८.४१२ ॥
तत्प्रसङ्गेन चेमे दासयोनय उच्यन्ते ।
ध्वजाहृतो भक्तदासो गृहजः क्रीतदत्त्रिमौ ।
पैत्रिको दण्डदासश् च सप्तैते दासयोनयः ॥ ८.४१३ ॥
भारुचिः ...{Loading}...
ध्वजाहृतो युद्धनिर्जितः । भक्तदास उदरप्रविष्टः । गृहजो दासीपुत्रः । कृईतदत्त्रिमौ प्रसिद्धौ । पैत्रिको दासीपुत्रः पितृपर्यायागतः । दण्डदासस् त्व् अविद्यमानधनो दण्डितः दण्डेनात्मानं प्रवेशयति । एताः सप्त दासयोनयः । आसाम् मध्ये अन्यतमयाप्य् उपेतो दासाख्यं लभते । यस् तु विद्यमानविभवः शूद्रः स्वशक्त्या जीवति नासौ परमार्थतो दासो वेदितव्यः । इतरथास्यानर्थक्यम् अस्य दासयोन्यर्थस्य श्लोकस्य स्यात् ॥ ८.४१३ ॥
भार्या पुत्रश् च दासश् च त्रय एवाधनाः स्मृताः ।
यत् ते समधिगच्छन्ति यस्य ते तस्य तद् धनम् ॥ ८.४१४ ॥
भारुचिः ...{Loading}...
भार्यापुत्रग्रहणम् अत्र दासदृष्टान्तर्थं तत्समानत्वाद् एतत्प्रकरणे ऽस्वार्थम् । एवं च सति त्रयाणाम् अप्य् एषां निर्धनत्वं न परमार्थतः । किं तर्हि ततनुज्ञातद्र[व्य]व्यवहारार्थं विज्ञेयम् । कस्य पुनर् हेतोः । येन यद् उपार्ज्यते न तत् तस्माद् व्यावर्तयितुं शक्यते । अद्रव्यत्वे चैषां पुत्रादीनां कर्मभिर् असंबन्धः स्यात् । न चैतद् इष्टम्, शास्त्रशिष्टत्वात् तेषां कर्मणः । एवं च सति गौणम् एषां निर्धनत्वं विज्ञेयम् । उत्तरार्थं च ॥ ८.४१४ ॥
यतश् चैतद् एवम् अतः ।
विस्रब्धं ब्राह्मणः शूद्राद् द्रव्योपादानम् आचरेत् ।
न हि तस्यास्ति किंचित् स्वं भर्तृहार्यधनो हि सः ॥ ८.४१५ ॥
भारुचिः ...{Loading}...
दासाधिकाराद् दासः । शूद्रात् तस्मात् तत्स्वामिने । नाब्राह्मणस्य प्रतिग्रहपक्षो द्रष्टव्यो ब्राह्मणस्य स्वदासप्रतिग्रहः । अथ वेतरस्माच् छूद्राद् अदासाल् लघीयान् अयं प्रतिग्रहो विज्ञेयः । न ह्य् अकस्मात् ततः प्रशंसावर्षवचनं युक्तम् । न तु शूद्रस्येत्तंभूतस्यापि द्विजातिभिः साम्यं युक्तं कर्तुम् इति । यत एवमभिप्राय एवायं निर्देशो वेदितव्यः ॥ ८.४१५ ॥
वैश्यशूद्रौ प्रयत्नेन स्वानि कर्माणि कारयेत् ।
तौ हि च्युतौ स्वधर्मेभ्यः क्षोभयेताम् इदं जगत् ॥ ८.४१६ ॥
भारुचिः ...{Loading}...
“वाणिज्यं कारयेद् विश्यम्” इत्य् अस्य श्लोकस्य प्रकरणात् प्रयत्नतः स्वकर्म कारयितव्या [इति] विशेषेणादाव् उक्तस्यायम् उपसंहारार्थः श्लोकः । अथ वा शूद्रो द्वैजातं कर्म कुर्वन् धर्मसंकराज् जगतो महद् भयं विदधाति । वैश्यो ऽपि कृष्यादिष्व् अवर्तमानो ऽन्नादिक्षयात् । तस्माद् इमौ राज्ञा प्रयत्नतः स्वकर्मकारयितव्यौ विशेषेण । न च तयोर् निर्देशाद् ब्राह्मणक्षत्रिययोर् एतद् अनुपदिष्टं भवति । विशेषार्थश् चारम्भो वैश्यशूद्रयोर् विज्ञेयः ॥ ८.४१६ ॥
अहन्य् अहन्य् अवेक्षेत कर्मान्तान् वाहनानि च ।
आयव्ययौ च नियताव् आकरान् कोशम् एव च ॥ ८.४१७ ॥
भारुचिः ...{Loading}...
लोकस्थित्यर्थस्य राज्यतन्त्रहेतोश् च पौरजानपदानां व्यवहारजातस्यानुरोधेनेति व्यवहारदर्शन[ं कृत्वा] ॥ ८.४१७ ॥
एवं सर्वान् इमान् राजा व्यवहारान् समापयन् ।
व्यपोह्य किल्बिषं सर्वं प्राप्नोति परमां गतिम् ॥ ८.४१८ ॥
भारुचिः ...{Loading}...
राज्ञो यथोक्तव्यवहारदर्शनस्य शास्त्रसामर्थ्यात् फलविधिर् अयम् । तदनुष्ठा[न सामा]न्याच् चायं व्यवहारोपसंहारः पूर्वेषां व्यवहारनित्तानाम् अपरिसमाप्तेष्व् अपि व्यवहारास्पदेषु स्त्रीपुंधर्मप्रभृतिषु चतुर्ष्व् अपीति ॥ ८.४१८ ॥
इति भारुचेः कृताव् अष्टमो ऽध्यायः ।