लिखितस्मृतिः
अथेष्टापूर्तकर्म वृषोत्सर्गफल गयापिण्डदान षोडश श्राद्धानि
वर्णनम्
इष्टापूर्ते तु कर्तव्ये ब्राह्मणेन प्रयत्नतः
इष्टेन लभते स्वर्गं पूर्ते मोक्षमवाप्नुयात् १
एकाहमपि कर्तव्यं भूमिष्ठमुदकं शुभम्
कुलानि तारयेत्सप्त यत्र गौर्वितृषी भवेत् २
भूमिदानेन ये लोका गोदानेन च कीर्तिताः
ताल्लोँकान्प्राप्नुयान्मर्त्यः पादपानां प्ररोपणे ३
वापीकूपतडागानि देवतायतनानि च
पतितान्युद्धरेद्यस्तु स पूर्तफलमश्नुते ४
अग्निहोत्रं तपः सत्यं वेदानां चैव पालनम्
आतिथ्यं वैश्वदेवं च इष्टमित्यभिधीयते ५
इष्टापूर्ते द्विजातीनां सामान्यो धर्म उच्यते
अधिकारी भवेच्छूद्रः पूर्ते धर्मे न वैदिके ६
यावदस्थि मनुष्यस्य गङ्गातोयेषु तिष्ठति
तावद्वर्षसहस्राणि स्वर्गलोके महीयते ७
देवतानां पितॄणां च जले दद्याज्जलाञ्जलीन्
असंस्कृतमृतानां च स्थले दद्याज्जलाञ्जलिम् ८
एकादशाहे प्रेतस्य यस्य चोत्सृज्यते वृषः
मुच्यते प्रेतलोकात्तु पितृलोकं स गच्छति ९
एष्टव्या बहवः पुत्रा यद्येकोऽपि गयां व्रजेत्
यजेत वाऽश्वमेधेन नीलं वा वृषमुत्सृजेत् १०
वाराणस्यां प्रविष्टस्तु कदाचिन्निष्क्रमेद्यदि
हसन्ति तस्य भूतानि अन्योन्यं करताडनैः ११
गयाशिरे तु यत्किंचिन्नाम्ना पिण्डं तु निर्वपेत्
१५५
नरकस्था दिवं यान्ति स्वगस्था मोणमाप्नुयुः १२
आत्मनो वा परस्यापि गयाकूपे यतस्ततः
यन्नाम्ना पातयेत्पिण्डं तं नयेद्ब्रह्म शाश्वतम् १३
लोहितो यस्तु वर्णन शङ्खवर्णखुरः स्मृतः
लाङ्गूलशिरसोश्चैव स वै नीलवृषः स्मृतः १४
नवश्राद्धं त्रिपक्षं च द्वादशैव तु मासिकम्
षण्मासौ चाऽऽब्दिकं चैव श्राद्धान्येतानि षोडश १५
यस्यैतानि न कुर्वीत एकोद्दिष्टानि षोडश
पिशाचत्वं स्थिरं तस्य दत्तैः श्राद्धशतैरपि १६
सपिण्डीकरणादूर्ध्वं प्रतिसंवत्सरं द्विजः
मातापित्रोः पृथक्कुर्यादेकोद्दिष्टं मृतेऽहनि १७
वर्षे वर्षे तु कर्तव्यं मात्रापित्रोस्तु संततम्
अदैवं भोजयेच्छ्राद्धं पिण्डमेकं तु निर्वपेत् १८
संक्रान्तावुपरागे च सर्वोत्सवमहालये
निर्वाप्यास्तु त्रयः पिण्डा एकतस्तु क्षयेऽहनि १९
एकोद्दिष्टं परित्यज्य पार्वणं कुरुते द्विजः
अकृतं तद्विजानीयात्स मातृपितृघातकः २०
अमावास्यां तु क्षयो यस्य प्रेतपक्षेऽथ वा यदि
सपिण्डीकरणादूर्ध्वं तस्योक्तः पार्वणो विधिः २१
त्रिदण्डग्रहणादेव प्रेतत्वं नैव जायते
अहन्येकादशे प्राप्ते पार्वणं तु विधीयते २२
यस्य संवत्सरादर्वाक्सपिण्डीकरणं स्मृतम्
प्रत्यहं तत्सोदकुम्भं दद्यात्संवत्सरं द्विजः
पत्या चैकेन कर्तव्यं सपिण्डीकरणं स्त्रियाः २३
पितामह्याऽपि तत्तस्मिन्सत्येवं तु क्षयेऽहनि
तस्यां सत्यां प्रकर्तव्यं तस्याः श्वश्व्रेति निश्चितम् २४
१५६
विवाहे चैव निर्वृत्ते चतुर्थेऽहनि रात्रिषु
एकत्वं सा गता भर्तुः पिण्डे गोत्रे च सूतके २५
स्वगोत्राद्भ्रश्यते नारी उद्बाहात्सप्तमे पदे
भर्गृगोत्रेण कर्तव्यं दानं पिण्डोदकक्रियाः २६
द्विमातुः पिण्डदानं तु पिण्डे पिण्डे द्विनामतः
षण्णां देयास्त्रयः पिण्डा एवं दाता न मुह्यति २७
अथ चेन्मन्त्रविद्युक्तः शारीरैः पङ्क्तिदूषणैः
अदूष्यं तं यमः प्राह पङ्क्तिपावन एव सः २८
अग्नौकरणशेषं तु विश्वेदेवादि हूयते
अग्न्यभावे तु विप्रस्य पाणावेवोपपादयेत् २९
यो ह्यग्निः स द्विजो विप्रैर्मन्त्रदर्शिभिरुच्यते ३०
अजस्य दक्षिणे कर्ण पाणौ विप्रस्य दक्षिणे
रजते च सुवर्ण च नित्यं वसति पावकः ३१
यत्र यत्र प्रदातव्यं श्राद्धं कुर्वीत पार्वणम्
तत्र मातामहानां च कर्तव्यमुभयं सदा ३२
अपुत्रा ये मृताः केचित्पुरुषा वा स्त्रियोऽपि वा
एभ्य एव प्रदातव्यमेकोद्दिष्टं न पार्वणम् ३३
यस्मिन्राशिगते सूर्ये विपत्तिः स्याद्विजन्मनः
तस्मिन्नहनि कर्तव्यं दानं पिण्डोदकक्रिया ३४
वर्षवृद्ध्याभिषेकादि कर्तव्यमधिके न तु
अधिमासे तु पूर्वं स्याच्छ्राद्धं संवत्सरादपि ३५
स एव हेयोद्दिष्टस्य येन केन तु कर्मणा
अभिघातान्तरं कार्यं तत्रैवाहः कृतं भवेत् ३६
शालाग्नौ पच्यते ह्यन्नं लौकिके वाथ संशयः
यस्मिन्नेव पचेदन्नं तस्मिन्होमो विधीयते ३७
वैदिके लौकिके वाऽपि नित्यं हुत्वा ह्यतन्द्रितः
१५७
वैदिके स्वर्गमाप्नोति लौकिके हन्ति किल्विषम् ३८
अन्नदानेनिषेधः
अग्नौ व्याहृतिभिः पूर्वं हुत्वा मन्त्रौस्तु शाकलैः
संविभागं तु भूतेभ्यस्ततोऽश्नीयादनग्निमान् ३९
उच्छेषणं तु नोत्तिष्ठेद्यावद्विप्रविसर्जनम्
ततो गृहबलिं कुर्यादिति धर्मो व्यवस्थितः ४०
दर्भाः कृष्णाजिनं मन्त्रा ब्राह्मणाश्च विशेषतः
नैते निर्माल्यतां यान्ति नियोक्तव्याः पुनः पुनः ४१
पानमाचमनं कुर्यात्कुशपाणिः सदा द्विजः
भुक्त्वाऽप्युच्छिष्टतां याति एष एव विधिः स्मृतः ४२
पान आचमने चैव तर्पणे दैविके सदा
कुशहस्तो न दुष्येत यथा पाणिस्तथा कुशः ४३
वामपाणौ कुशं कृत्वा दक्षिणेन उपस्पृशेत्
आचामन्ति च ये मूढा रुधिरेणाऽऽचमन्ति ते ४४
नीवीमध्येषु ये दर्भा ब्रह्मसूत्रेषु ये कृताः
पवित्रांस्तान्विजानीयाद्यथा कायस्तथा कुशाः ४५
पिण्डे कृतास्तु ये दर्भा यैः कृतं पितृतर्पणम्
मूत्रोच्छिष्टपुरीषं च तेषां त्यागो विधीयते ४६
दैवपूर्वं तु यच्छ्राद्धमदैवं चापि यद्भवेत्
ब्रह्मचारी भवेत्तत्र कुर्याच्छ्राद्धं तु पैतृकम् ४७
मातुः श्राद्धं तु पूर्वं स्यात्पितॄणां तदनन्तरम्
ततो मातामहानां च वृद्धौ श्राद्धत्रयं स्मृतम् ४८
क्रतुर्दक्षो वसुः सत्यः कालकामौ धुरिलोचनौ
पुरूरवार्द्रवाश्चैव विश्वेदेवाः प्रकीर्तिताः ४९
आगच्छन्तु महाभागा विश्वेदेवा महाबलाः
ये यत्र विहिताः श्राद्धे सावधाना भवन्तु ते ५०
१५८
इष्टिश्राद्ध क्रतुर्दक्षो वसुः सभ्यश्च वैदिके
कालः कामोऽग्निकार्येषु काम्येषु धुरिलोचनौ ५१
पुरूरवार्द्रवश्चैव पार्वणेषु नियोजयेत् ५२
यस्यास्तु न भवेद् भ्राता न विज्ञायेत वा पिता
नोपयच्छेत तां प्राज्ञः पुत्रिकाधर्मशङ्कया ५३
अभ्रातृकां प्रदास्यामि तुभ्यं कन्यामलंकृताम्
अस्यां यो जायते पुत्रः स मे पुत्रो भविष्यति ५४
मातुः प्रथमतः पिण्डं निर्वपेत्पुत्रिकासुतः
द्वितीयं तु पितुस्तस्यास्तृतीयं तु पितुः पितुः ५५
मृण्मयेषु च पात्रेषु श्राद्धे यो भोजयेत्पितॄन्
अन्नदाता पुरोधाश्च भोक्ता च नरकं व्रजेत् ५६
अलाभे मृण्मयं दद्यादनुज्ञातस्तु तैर्द्विजैः
घृतेन प्रोक्षणं कुर्यान्मृदः पात्रं पवित्रकम् ५७
श्राद्धं कृत्वा परश्राद्धे यस्तु भुञ्जीत विह्वलः
पतन्ति पितरस्तस्य लुप्तपिण्डोदकक्रियाः ५८
श्राद्धं दत्त्वा च भुक्त्वा च अध्वानं योऽधिगच्छति
भवन्ति पितरस्तस्य तन्मासं पांसुभोजनाः ५९
पुनर्भोजनमध्वानं भाराध्ययनमैथुनम्
दानं प्रतिग्रहं होमं श्राद्धभुक्त्वाष्ट वर्जयेत् ६०
भुञ्जानस्य वर्णनम्
अध्वगामी भवेदश्वः पुनर्भोक्ता च वायसः
कर्मकृज्जायते दासः स्त्रीसङ्गेन च सूकरः ६१
दशकृत्वः पिबेदापः सावित्र्या चाभिमन्त्रिताः
ततः संध्यामुपासीत शुध्येत तदनन्तरम् ६२
आर्द्रवासास्तु यत्कुर्याद्बहिर्जानु च यत्कृतम्
तत्सर्वं निष्फलं कुर्याज्जपहोमप्रतिग्रहम् ६३
१५९
चान्द्रायणं नवश्राद्धे पराको मासिके तथा
पक्षत्रये तु कृच्छ्रं स्यात्षण्मासे कृच्छ्रमेव च ६४
ऊनाब्दिके त्रिरात्रं स्यादेकाहः पुनराब्दिके
शावे मासस्तु भुक्त्वा वा पादकृच्छ्रो विधीयते ६५
सर्पविप्रहतानां च शृङ्गिदंष्ट्रिसरीसृपैः
आत्मनस्त्यागिनां चैव श्राद्धमेषां न कारयेत् ६६
गोभिर्हतं तथोद्बद्धं ब्राह्मणेन तु घातितम्
तं स्पर्शयन्ति ये विप्रा गोजाश्वाश्च भवन्ति ते ६७
अग्निदाता तथा चान्ये पाशच्छेदकराश्च ये
तप्तकृच्छ्रेण शुध्यन्ति मनुराह प्रजापतिः ६८
त्र्यहमुष्णं पिबेदापस्त्र्यहमुष्णं पयः पिबेत्
त्र्यहमुष्णं घृतं पीत्वा वायुभक्षो दिनत्रयम् ६९
गोभूहिरण्यहरणे स्त्रीणां क्षेत्रगृहस्य च
यमुद्दिश्य त्यजेत् प्राणांस्तमाहुर्ब्रह्मघातकम् ७०
उद्यताः सह धावन्ते सर्वे ये शस्त्रपाणयः
यद्यकोऽपि हनेत्तत्र सर्वे तु ब्रह्मघातकाः ७१
बहूनां शस्त्रघातानां यद्येको मर्मघातकः
सर्वे तु शुद्धिमिच्छन्ति स एको ब्रह्मघातकः ७२
पतितान्नं यदा भुङ्क्ते भुङ्क्ते चाण्डालवेश्मनि
स मासार्द्धं चरेद्वारि मासं कामकृतेन तु ७५
यो येन पतितेनैव संसर्गं याति मानवः
स तस्यैव व्रतं कुर्यात्तत्तत्सत्संसर्गविशुद्धये ७४
ब्रह्महा पातकिस्पर्शे स्नानं येन विधीयते
तेनैवोच्छिष्टसंस्पृष्टः प्राजापत्यं समाचरेत् ७५
ब्रह्महा च सुरापायी तथैव गुरुतल्पगः
महात्नि पातकान्याहुस्तत्संसर्गी च पञ्चमः ७६
१६०
स्नेहाद्वा यदि वा लोभाद्भयादज्ञानतोऽपि वा
कुर्वन्त्यनुग्रहं ये तु तत्पापं तेषु गच्छति ७७
उच्छिष्टोच्छिष्टसंस्पृष्टो ब्राह्मणस्तु कदाचन
तत्क्षणात्कुरुते स्नानमाचमेन शुचिर्भवेत् ७८
कुब्जवामनषण्डेषु गद्गदेषु जडेषु च
जात्यन्धे बधिरे मूके न दोषः परिवेदने ७९
क्लीबे देशान्तरस्थे पतिते प्रव्रजितेऽपि वा
योगशास्त्राभियुक्ते च न दोषः परिवेदने ८०
पूरणे कूपवापीनां वृक्षच्छेदनपातने
विक्रीणीते अपि ह्यश्वं गोवधं तस्य निर्दिशेत् ८१
पादेऽङ्गरोमवपनं द्विपादे श्मश्रु केवलम्
तृतीये तु शिखावर्जं शिखाछेदश्चतुर्थके ८२
चण्डालोदकसंस्पर्शे स्नानं येन विधीयते
तनैवोच्छिष्टसंस्पृष्टः प्राजापत्यं समाचरेत् ८३
चण्डालघटभाण्डस्थं यत्तोयं पिबते द्विजः
तत्क्षणात्क्षिपते यस्तु प्राजापत्यं समाचरेत् ८४
यदि न क्षिपते तोयं शरीरे तस्य जीर्यति
प्राजापत्यं न दातव्यं कृच्छ्रं सांतपनं चरेत् ८५
चरेत्सांतपनं विप्रः प्राजापत्यं तु क्षत्त्रियः
तदर्धं तु चरेद्वैश्यः पादं शूद्रे तु दापयेत् ८६
रजस्वला यदा स्पृष्टा श्वानसूकरवायसैः
उपोष्य रजनीमेकां पञ्चगव्येन शुध्यति ८७
आजानुतः स्नानमात्रमानाभेस्तु विशेषतः
अत ऊर्ध्वं त्रिरात्रं स्यान्मदिरास्पर्शने मतम् ८८
बालश्चैव दशाहे तु पञ्चत्वं यदि गच्छति
सद्य एव विशुध्येत नाशौचं नोदकक्रिया ८९
१६१
शावसूतक उत्पन्ने सूतकं तु यदा भवेत्
शावेन शुध्यते सूतिर्न सूतिः शावशोधिनी ९०
षष्ठेन शुध्येतैकाहं पञ्चमे त्वहमेव तु
चतुर्थे सप्तरात्रं स्यात्त्रिपुरुषं दशमेऽहनि ९१
मरणारब्धमाशौचं संयोगो यस्य नाग्निभिः
आदाहात्तस्य विज्ञेयं यस्य वैतानिको विधिः ९२
आममासं घृतं क्षौद्रं स्नेहाश्च फलसंभवाः
अन्त्यभाण्डस्थिता ह्येते निष्क्रान्ताः शुचयः स्मृताः ९३
मार्जनीरजमेष षाण्डं स्नानवस्त्रघटोदकम्
नवाम्भसि तथा चैव हन्ति पुण्यं दिवाकृतम् ९४
दिवा कपित्थच्छायायां रात्रौ दधिशमीषु च
धात्रीफलेषु सर्वत्र अलक्ष्मीर्वसते सदा ९५
यत्र यत्र च संकीर्णमात्मानं मन्यते द्विजः
तत्र तत्र तिलैर्होमो गायत्र्यष्टशतं जपेत् ९६
इति लिखितर्षिप्रोक्तं धर्मशास्त्रं समाप्तम्
समाप्तेयं लिखितस्मृतिः
᐀ेफेरेनचेख्
स्मउतस्ि अनदअरबहअ
ण वेलभ ीीीण्ज्ञेलहख्ि न्अगण १९८१। पभ १४५५भ
१६२