अथैकोनत्रिंशः खण्डः
अथ श्राद्धवर्णनम्
क्षालनं दर्भकूर्चेन सर्वत्र स्रोतसां पशोः
तूष्णीमिच्छाक्रमेण स्याद्वपार्थे पार्णदारुणी १
सप्त तावन्मूर्द्धन्यानि तथा स्तनचतुष्टयम्
नाभिः श्रोणिरपानञ्च गोस्रोतांसि चतुर्द्दश २
क्षुरोमांसावदानार्थः कृत्स्ना स्विष्टकृदावृता
वपामादाय जुहुयात्तत्र मन्त्रं समापयेत् ३
हृज्जिह्वा क्रोडमस्थीनि यकृद्वृक्कौ गुदं स्तनाः
श्रोणिस्कन्धसदापार्श्वे पश्वङ्गानि प्रचक्षते ४
२७३
एकादशानामङ्गानामवदानानि सङ्ख्यया
पार्श्वस्य वृक्कसक्थ्नोश्च द्वित्वादाहुश्चतुर्दश ५
चरितार्था श्रुतिः कार्या यस्मादप्यनुकल्पतः
अतोह्यार्चेन होमः स्याच्छागपक्षे चरावपि ६
अवदानानि यावन्ति क्रियेरन् प्रस्तरेपशोः
तावतः पायसान् पिण्डान् पश्वभावेऽपि कारयेत् ७
औदनव्यञ्जनार्थन्तु पश्वभावेऽपि पायसम्
सद्रवं श्रपयेत्तद्वदन्वष्टक्येऽपि कर्मणि ८
प्राधान्यं पिण्डदानस्य केचिदाहुर्मनीषिणः
गयादौ पिण्डमात्रस्य दीयमानत्वदर्शनात् ९
भोजनस्य प्रधानत्वं वदन्त्यन्ये महर्षयः
ब्राह्मणस्य परीक्षायां महायत्नप्रदर्शनात् १०
आमश्राद्धविधानस्य विना पिण्डैः क्रियाविधिः
तदालभ्याप्यनध्यायविधानश्रवणादपि ११
विद्वन्मतमुपादाय ममाप्येतद्धृदि स्थितम्
प्राधान्यमुभयोर्यस्मात्तस्मादेष समुच्चयः १२
प्राचीनावीतिना कार्यं पित्र्येषु प्रोक्षणं पशोः
दक्षिणोद्वासनान्तञ्च चरोर्निर्वपणादिकम् १३
सन्नपश्वावदानानां प्रधानार्थो न हीतरः
प्रधानं हवनञ्चैव शेषं प्रकृतिवद्भवेत् १४
द्वीपमुन्नतमाख्यातं शादा चैवेष्टका स्मृता
कीलिनं सजलं प्रोक्तं दूरखातोदको मरुः १५
द्वारगवाक्षः सन्दर्भैः कर्द्दमभित्यन्तकोण वा
वेधैश्वानष्टं वास्तुघोरं विद्वन्मनाक्रान्तमार्ग्रैश्च १६
वशङ्गमाबिति ब्रीहीञ्छेषश्चेति यवांस्तथा
असावित्यत्र नामोक्त्वा जुहुयात्क्षिप्रहोमवत् १७
र्
२७४
साक्षतं सुमनोयुक्तमुदकं दधिसंयुतम्
अर्घ्यं दधिमधुभ्याञ्च मधुपर्को विधीयते १८
कांस्येनैवार्हणीयस्य निनयेदर्घ्यमञ्जलौ
कांस्यापिधानं कांस्यस्थं मधुपर्क्कं समर्पयेत् १९
इति कात्यायनविरचिते कर्मप्रदीपे तृतीयः प्रपाठकः
इत्येकोनत्रिंशः खण्डः
समाप्ता चेयं कात्यायनस्मृतिरितिलेख्यंनास्त्यत्र
तस्मादयंग्रन्थः समाप्तोनवेत्यत्रसंदेहः
᐀ेफेरेनचेख्
स्मउतस्ि अनदअरबहअ
ण वेलभ ीीीण्ज्ञेलहख्ि न्अगण १९८१।ण पपभ १३३५फफभ
२७५