२८

अथाष्टाविंशतिः खण्डः
अथ प्रायश्चित्तवर्णनमुपाकर्मणः फलनिरूपणवर्णनम्
अक्षतास्तु यवाः प्रोक्ता भ्रष्टाधाना भवन्ति ते
भ्रष्टास्तु व्रीहयो लाजा घटाः षण्डिक उच्यते १
नाधीयीत रहस्यानि सोत्तराणि विचक्षणः
नचोपनिषदश्चैव षण्मासान् दक्षिणायनात् २
उपाकृत्योदगयने ततोऽधीयीत धर्मवित्
उत्सर्गश्चैक एवैषां नैष्ट्यं प्रौष्ठपदेऽपि वा ३
अजातव्यञ्जना लोम्नी न तया सह संविशेत्
अयुगूः काकबन्ध्याया जातां तां न विवाहयेत् ४
संसक्तपदविन्यासस्त्रिपदः प्रक्रमः स्मृतः
स्मार्त्ते कर्मणि सर्वत्र श्रौते त्वध्वर्युणोदितः ५
यस्यां दिशि वलिं दद्यात्तामेवाभिमुखो वलिम्
श्रवणाकर्मणि भवेन्यञ्च कर्म न सर्वदा ६
बलिशेषस्य हवनमग्निप्रणयनन्तथा
प्रत्यहं न भवेयातामुल्मुकन्तु भवेत्सदा ७
वृषान्तकप्रेक्षणयोर्नवस्य हविषस्तथा
शिष्टस्य प्राशने मन्त्रस्तत्र सर्वेऽधिकारिणः ८
ब्राह्मणानामसान्निध्ये स्वयमेव पृषातकम्
अवेक्षेद्धविषः शेषं नवयज्ञेऽपि भक्षयेत् ९
सफला बदरीशाखा फलवत्यभिधीयते
धना विधिकताशङ्काः स्मृता जातशिलास्तु ताः १०
नष्टो विनष्टो मणिकः शिलानाशे तथैव च
तदैवाऽऽहृत्य संस्कार्यो न क्षिपेदाग्रहायणीम् ११
श्रवणाकर्म लुप्तञ्चेत्कथञ्चित्सूतकादिना
आग्रहायणिकं कुर्याद्वलिवर्जमशेषतः १२
र्

२७२

ऊर्द्ध्वं स्वस्तरशायी स्यान्मासमर्द्धमथापि वा
सप्तरात्रं त्रिरात्रं वा एकां वा सद्य एव वा १३
नोर्द्ध्वं मन्त्रप्रयोगः स्यान्नाग्न्यगारं नियम्यते
नाहतास्तरणञ्चैव न पार्श्वञ्चापि दक्षिणम् १४
दृढश्चेदाग्रहायण्यामावृत्तावपि कर्मणः
कुम्भौ मन्त्रवदासिञ्चेत्प्रतिकुम्भमृचं पठेत् १५
अल्पानां यो विघातः स्यात्स वाधोबहुभिः स्मृतः
प्राणसम्मित इत्यादि वाशिष्ठं बाधितं यथा १६
विरोधो यत्र वाक्यानां प्रामाण्यं तत्र भूयसाम्
तुल्यप्रमाणकत्वे तु न्याय एवं प्रकीर्तितः १७
त्रैयम्बकं करतलमपूपामण्डकाः स्मृताः
पालाशा गोलकाश्चैव लोहचूर्णञ्च चीवरम् १८
स्पृशन्ननामिकाग्रेण क्वचिदालोकयन्नपि
अनुमन्त्रणीयं सर्वत्र सदैवमनुमन्त्रयेत् १९
इत्यष्टविंशतिः खण्डः