२७

अथ सप्तविंशः खण्डः
अथ प्रायश्चित्तवर्णनम्
यच्छ्राद्धं कर्मणामादौ या चान्ते दक्षिणा भवेत्
आमावास्यं द्वितीयं यदन्वाहार्य्यं तदुच्यते १
एकसाध्येष्ववर्हिःषु न स्यात्परिसमूहनम्
नोदगासानञ्चैव क्षिप्रहोमाहि ते मताः २
अभावे व्रीहियवयोर्द्दध्ना वा पयसापि वा
तदभावे यवाग्वा वा जुहुयादुदकेन वा ३
रौद्रन्तु राक्षसं पित्र्यमासुरं चाभिचारिकम्
उक्त्वा मन्त्रं स्पृशेदाप आलभ्यात्मानमेव च ४
यजनीयेऽह्नि सोमश्चेद्वारुण्यां दिशि दृश्यते
तत्र व्याहृतिभिर्हुत्वा दण्डं दद्यात् द्विजातये ५
लवणं मधु मांसञ्च क्षारांशो येन हूयते
उपवासे न भुञ्जीत नोरुरात्रौ न किञ्चन ६
स्वकाले सायमाहुत्या अप्राप्तौ होतृहव्ययोः
प्राक्प्रातराहुतेः कालः प्रायश्चित्ते हुते सति ७
प्राक्सायमाहुतेः प्रातर्होमकालानतिक्रमः
प्राक्पौर्णमासाद्दर्शस्य प्राग्दर्शादितरस्य तु ८
वैश्वदेवे त्वतिक्रान्ते अहोरात्रमभोजनम्
र्

२७०

प्रायश्चित्तमथो हुत्वा पुनः सन्तनुयाद्व्रतम् ९
होमद्वयात्यये दर्शपौर्णमासात्यये तथा
पुनरेवाग्निमादध्यादिति भार्गवशासनम् १०
अनृचो माणवो ज्ञेय एणः कृष्णमृगः स्मृतः
रुरुर्गौरमृगः प्रोक्तस्तम्बलः शोण उच्यते ११
केशान्तिको ब्राह्मणस्य दण्डः कार्यः प्रमाणतः
ललाटसंमितो राज्ञः स्यात्तु नाशान्तिको विशः १२
ऋजवस्ते तु सर्वे स्युर्व्रणाः सौम्यदर्शनाः
अनुद्वेगकरा नॄणां सत्वचोऽनग्निदूषिताः १३
गौर्विशिष्टतमा विप्रैर्वेदेष्वपि निगद्यते
न ततोऽन्यद्वरं यस्मात्तस्माद्गौर्वर उच्यते १४
येषां व्रतानामन्येषु दक्षिणा न विधीयते
वरस्तत्र भवेद्दानमपि वाच्छादयेद्गुरुम् १५
अस्थानोच्छ्वासविच्छेदघोषणाध्यापनादिकम्
प्रामाणीकं श्रुतौ यत्स्याद्यातयामत्वकारि तत् १६
प्रत्यब्दं यदुपाकर्म सोत्सर्गं विधिवद्द्विजैः
क्रियते छन्दसां तेन पुनराप्यायनं भवेत् १७
अयातयामैश्छन्दोभिर्यत्कर्म क्रियते द्विजैः
क्रीडमानैरपि सदा तत्तेषां सिद्धिकारकम् १८
गायत्रीञ्च सगायत्रां वार्हस्पत्यमिति त्रिकम्
शिष्येभ्योऽनूच्य विधिवदुपाकुर्यात्ततः श्रुतिम् १९
छन्दसामेकविंशानां संहितायां यथाक्रमम्
न च्छन्दस्काभिरेवाभिर्राद्याभिर्होम इष्यते २०
पर्वभिश्चैव गानेषु ब्राह्मणेषूत्तरादिभिः
अङ्गेषु चर्च्चामन्त्रेषु इति षष्टिर्जुहोतयः २१
इति सप्तविंशतिः खण्डः

२७१