षड्विंशः खण्डः
नवयज्ञकालाभिधानवर्णनम्
चरुः समशनीयो यस्तथा गोयज्ञकर्मणि
वृषभोत्सर्ज्जने चैव अश्वयज्ञे तथैव च १
श्रावण्यां वा प्रदोषे यः कृष्यारम्भे तथैव च
र्
२६८
कथमेतेषु निर्वापाः कथञ्चैव जुहोतयः २
देवता सङ्खया ग्राह्या निर्व्वापांस्तु पृथक्पृथक्
तूष्णीं द्विरेव गृह्णीयाद्धोमश्चापि पृथक्पृथक् ३
यावता होमनिर्वृत्तिर्भवेद्या यत्र कीर्तिता
शेषं चैव भवेत्किञ्चित्तावन्तं निर्वपेच्चरुम् ४
चरौ समशनीये तु पितृयज्ञे चरौ तथा
होतव्यं मेक्षणेनान्य उपस्तीर्णाभिघारितम् ५
कालः कात्यायनेनोक्तो विधिश्चैव समासतः
वृषोत्सर्गे यतो नाऽत्र गोभिलेन तु भाषितः ६
पारिभाषिक एव स्यात्कालो गोवाजियज्ञयोः
अन्यस्मादुपदेशात्तु स्वस्तरारोहणस्य च ७
अथवा मार्गपाल्येऽह्नि कालो गोयज्ञकर्मणः
नीराजनेऽह्नि वाश्वानामिति तन्त्रान्तरे विधिः ८
शरद्वसन्तयोः केचिन्नवयज्ञं प्रचक्षते
धान्यपाकवशादन्ये श्यामाकोवनिनः स्मृतः ९
आश्वयुज्यां तथा कृष्यां वास्तुकर्मणि याज्ञिकाः
यज्ञार्थतत्त्ववेत्तारो होममेवं प्रचक्षते १०
द्वे पञ्च द्वे क्रमेणैता हविराहुतयः स्मृताः
शेषा आज्येन होतव्या इति कायायनोऽब्रवीत् ११
पयोयदाज्यसंयुक्तं तत् पृषातकमुच्यते
दध्येके तदुपासाद्य कर्तव्यः पायसश्चरुः १२
व्रीहयः शालयो मुद्गा गोधूमाः सर्षपास्तिलाः
यवाश्चौषधयः सप्त विपदं घ्नन्ति धारिताः १३
संस्काराः पुरुषस्यैते स्मर्य्यन्ते गौतमादिभिः
अतोऽष्टकादयः कार्याः सर्वे कालक्रमोदिताः १४
सकृदप्यष्टकादीनि कुर्यात् कर्माणि यो द्विजः
२६९
स पंक्तिपावनो भूत्वा लोकान्प्रैति घृतश्च्युतः १५
एकाहमपि कर्मस्थो योऽग्निशुश्रूषकः शुचिः
नयत्यत्र तदेवास्य शताहं दिवि जायते १६
यस्त्वाधायाग्निमाशास्य देवादीन्नैभिरिष्टवान्
निराकर्तामरादीनां स विज्ञेयो निराकृतिः १७
इति षड्विंशः खण्डः