पञ्चविंशः खण्डः
नवयज्ञेनविना नवान्नभोजने प्रायश्चित्तवर्णनम्
मन्त्राम्नायेऽग्न इत्येतत्पञ्चकं लाघवार्थिभिः
पठ्यते तत्प्रयोगे स्यान्मन्त्राणामेव शिंशतिः १
अग्नेः स्थाने वायुचन्द्रसूर्य्यावहुवदूह्य च
समस्य पञ्चमीसूत्रे चतुश्चतुरितिश्रुतेः २
प्रथमे पञ्चके पापी लक्ष्मीरिति पदं भवेत्
अपि पञ्चसु मन्त्रेषु इति यज्ञविदो विदुः ३
द्वितीये तु पतिघ्नी स्यादपुत्रेति तृतीयके
चतुर्थे त्वपसव्येति इदमाहुतिविंशकम् ४
धृतिहोमे न प्रयुञ्ज्याद्योनामसु तथाष्टसु
चतुर्थ्यामध्न्य इत्येतद्गोनामसु हि हूयते ५
लताग्रपल्लवो बुध्नः शुङ्गेति परिकीर्त्यते
पतिव्रता व्रतवती ब्रह्मबन्धुस्तथाऽश्रुतः ६
शिलाटु नीलमित्युक्तं ग्रथ्नः स्तवक उच्यते
कपुष्णिकाभितः केशान् मूर्द्ध्नि पश्चात्कपुच्छलम् ७
श्वाविच्छलाका शलली तथा वीरतरः शरः
तिलतण्डुलसम्पक्वः कृषरः सोऽभिधीयते ८
नामधेये मुनिवसुपिशाचाबहुवत्सदा
यक्षाश्च पितरो देवा यष्टव्यास्तिथिदेवताः ९
आग्नेयाद्येऽथ सार्पाद्ये विशाखाद्ये तथैव च
२६७
आषाढाद्ये धनिष्ठाद्ये अश्विन्याद्ये तथैव च १०
द्वन्द्वान्येतानि बहुवद्दक्षाणां जुहुयात्सदा
द्वन्द्वद्वयं विवच्छेद्यमवशिष्टान्यथैकवत् ११
देवतास्वपि हूयन्ते बहुवत्सार्वपित्तयः
देवाश्च वसवश्चैव द्विवदेवाश्विनौ सदा १२
ब्रह्मचारी समादिष्टो गुरुणा व्रतकर्मणि
वाढमोमिति वा ब्रूयात्तत्तथैवानुपालयेत् १३
सशिखं वपनं कायमास्नानाद्ब्रह्मचारिणा
आशरीरविमोक्षाय ब्रह्मचर्य न चेद्भवेत् १४
वपनं नास्य कर्तव्यमर्वागौदानकव्रतात्
व्रतिनो वत्सरं यावत्षण्मासानिति गौतमः
न गात्रोत्सादनं कुर्यादनापदि कदाचन
जलक्रीडामलङ्कारान् व्रती दण्ड इवाप्लवेत् १५
देवतानां विपर्यास जुहोतिषु कथं भवेत्
सर्व प्रायश्चित्तं हुत्वा क्रमेण जुहुयात्पुनः १६
संस्कारा अतिपद्येरन्स्वकालाच्चेत्कथञ्चन
हुत्वैतदेव कर्तव्या ये तूपनयनादधः १७
अनिष्ट्वा नवयज्ञेन नवान्नं योत्यकामतः
वैश्वानरश्चरुस्तस्य प्रायश्चित्तं विधीयते १८
इति पञ्चविंशतिखण्डः