अथ त्रयोविंशः खण्डः
अथ विदेशस्थमृतपुरुषाणांदाहसंस्कारवर्णनम्
एवमेवाहिताग्नेषु पात्रन्यासादिकं भवेत्
कृष्णाजिनादिकश्चात्र विशेषः सूत्रचोदितः १
विदेशमरणेऽस्थीनि ह्याहृत्याभ्यज्य सर्पिषा
दाहयेदूर्णयाच्छाद्य पात्रन्यासादि पूर्ववत् २
अस्थ्नामलाभे पर्णानि सकलान्युक्तयावृता
भर्ज्जयेदस्थिसंख्यानि ततः प्रभृति सूतकम् ३
महापातकसंयुक्तो दैवात्स्यादग्निमान् यदि
पुत्रादिः पालयेदग्निं युक्त आदोष संक्षयात् ४
प्रायश्चित्तं न कुर्याद्यः कुर्वन् वा म्रियते यदि
र्
२६४
गृह्यं निर्वापयेच्छ्रौतमश्वस्येत् सपरिच्छदम् ५
सादयेदुभयं वाप्सु ह्यद्भोग्निरभवद्यतः
पात्राणि दद्याद्विप्राय दहेदप्स्वेव वा क्षिपेत् ६
अनयैवावृता नारी दग्धव्या या व्यवस्थिता
अग्निप्रदानमन्त्रोऽस्या न प्रयोज्य इति स्थितिः
अग्निनैव दहेद्भार्यां स्वतन्त्रां पतितां न चेत्
तदुत्तरेण पात्राणि दाहयेत्पृथगन्तिके ८
अपरेद्युस्तृतीये वा अस्थ्नां सञ्चयनं भवेत्
यस्तत्र विधिरादिष्ट ऋषिभिः सोऽधुनोच्यते ९
स्नानान्तं पूर्ववत्कृत्वा गव्येन पयसा ततः
सञ्चयास्थीनि सर्वाणि प्राचीनावीत्यभाषयन् १०
शमीपलाशशाखाभ्यामुद्धृत्योद्धृत्य भस्मतः
आज्येनाभ्यज्य गव्येन सेचयेद्गन्धवारिणा ११
मृत्पात्रसंपुटं कृत्वा सूत्रेण परिवेष्ट्य च
श्वभ्रं खात्वा शुचौ भूमौ निखनेद्दक्षिणामुखः १२
पूरयित्वावटं पङ्कपिण्डशैबालसंयुतम्
दत्वोपरि समं शेषं कुर्यात्पूर्वाह्णकर्मणा १३
एवमेवागृहीताग्नेः प्रेतस्य विधिरिष्यते
स्त्रीणामिवाग्निदानं स्यादथातोऽनुक्तमुच्यते १४
इति त्रयोविंशः खण्डः