अथ द्वाविंशः खण्डः
अथ दाहसंस्कारवर्णनम्
अथानवेक्षयेत्पापः सर्व एव शवस्पृशः
स्नात्वा सचैलमाचम्य दद्युरस्योदकं स्थले १
गोत्रनामानुवादान्ते तर्पयामीत्यनन्तरम्
दक्षिणाग्रान् कुशान् कृत्वा सतिलन्तु पृथक्पृथक् २
एवं कृतोदकान् सम्यक्सर्वान् शाद्वलसंस्थितान्
आप्लुत्य पुनराचान्तान् वदेयुस्तेऽनुयायिनः ३
मा शोकं कुरुतानित्ये सर्वस्मिन् प्राणधर्मणि
२६३
धर्मं कुरुत यत्नेन यो वः सह गमिष्यति ४
मानुष्ये कदलीस्तम्भे निःसारे सारमार्गणम्
यः करोति स संमूढो जलबुद्बुदसन्निभे ५
गन्त्री वसुमती नाशमुदधिर्द्दैवतानि च
फेनप्रख्यः कथं नाशं मर्त्यलोको न यास्यति ६
पञ्चधा सम्भृतः कायो यदि पञ्चत्वमागतः
कर्मभिः स्वशरीरोत्थैस्तत्र का परिदेवना ७
सर्वेऽक्षयान्ता निचयाः पतनान्ताः समुच्छ्रयाः
संयोगा विप्रयोगान्ता मरणान्तं हि जीवितम् ८
श्लेष्माश्रु बान्धवैर्मुक्तं प्रेतो भुङ्क्ते यतोऽवशः
अतो न रोदितव्यं हि क्रियाः कार्याः प्रयत्नतः ९
एवमुक्ता व्रजेयुस्ते गृहांल्लघुपुरःसराः
स्नानाग्निस्पर्शनाज्याशैः शुध्येयुरितरे कृतैः १०
इति द्वाविंशः खण्डः