अथ विंशः खण्डः
अथ द्वितीयादिस्त्रीकृतेसतिवैदिकाग्निवर्णनम्
असमक्षन्तु दम्पत्योर्होतव्यं नर्त्विगादिना
द्वयोरप्यसमक्षं हि भवेद् हुतमनर्थकम् १
विहायाग्निं सभार्यश्चेत्सीमामुल्लङ्घ्य गच्छति
होमकालात्यये तस्य पुनराधानमिष्यते २
अरण्योः क्षयनाशाग्निदाहेष्वग्निं समाहितः
पालयेदुपशान्तेऽस्मिन् पुनराधानमिष्यते ३
ज्येष्ठा चेद्बहुभार्यस्य अतिचारेण गच्छति
र्
२६०
पुनराधानमत्रैक इच्छन्ति न तु गौतमः ४
दाहयित्वाग्निभिर्भार्यां सदृशीं पूर्वसंस्थिताम्
पात्रश्चाथाग्निमादध्यात्कृतदारोऽविलम्बितः ५
एवंवृत्तां सवर्णां स्त्रीं द्विजातिः पूर्वसारिणीम्
दाहयित्वाग्निहोत्रेण यज्ञपात्रैश्च धर्मवित् ६
द्वितीयाञ्चैव यः पत्नीं दहेद्वैतानिकाग्निभिः
जीवत्यां प्रथमायान्तु ब्रह्मघ्नेन समं हि तत् ७
मृतायान्तु द्वितीयायां योऽग्निहोत्रं समुत्सृजेत्
ब्रह्मोज्झं तं विजानीयाद्यश्च कामात्समुत्सृजेत् ८
मृतायामपि भर्य्यायां वैदिकाग्निं न हि त्यजेत्
उपाधिनापि तत्कर्म यावज्जीवं समापयेत् ९
रामोऽपि कृत्वा सौवर्णीं सीतां पत्नीं यशस्विनीम्
ईजे यज्ञैर्बहुविधैः सह भ्रातृभिरच्युतः १०
यो दहेदग्निहोत्रेण स्वेन भार्य्यां कथञ्चन
सा स्त्री सम्पद्यते तेन भार्य्या वास्य पुमान् भवेत् ११
भार्य्या मरणमापन्ना देशान्तरगतापि वा
अधिकारी भवेत्पुत्रो महापातकिनि द्विजे १२
मान्या चेन्म्रियते पूर्वं भार्य्या पतिविमानिता
त्रीणि जन्मानि सा पुंस्त्वं पुरुषः स्त्रीत्वमर्हति १३
पूर्वैव योनिः पूर्वावृत्पुनराधानकर्मणि
विशेषोऽत्राग्न्युपस्थानमाज्याहुत्यष्टकं तथा १४
कृत्वा व्याहृतिहोमान्तमुपतिष्ठेत पावकम्
अध्यायः केवलाग्नेयः कस्तेजामिरमानसः १५
अग्निमीले अग्न आयाह्यग्न आयाहि वीतये
तिस्रोऽग्निर्ज्योतिरित्यग्निं दूतमग्ने मृडेति च १६
इत्यष्टावाहुतीर्हुत्वा यथाविध्यनुपूर्वशः
२६१
पूर्णाहुत्यादिकं सर्वमन्यत्पूर्ववदाचरेत् १७
अरण्योरल्पमप्यङ्गं यावत्तिष्ठति पूर्वयोः
न तावत्पुनराधानमन्यारण्योर्विधीयते १८
विनष्टं स्रुक् स्रुवं न्युब्जं प्रत्यक्स्थलमुदर्च्चिषि
प्रत्यगप्रञ्च मुषलं प्रहरेज्जातवेदसि १९
इति विंशः खण्डः