एकोनविंशतिः खण्डः
अथ सकतव्यता स्त्रीधर्मवर्णनम्
निःक्षिप्याग्निं स्वदारेषु परिकल्प्यार्त्विजं तथा
प्रवसेत्कार्यवान् विप्रो मृषैव न चिरं क्वचित् १
मनसा नैत्यकं कर्म प्रवसन्नप्यतन्द्रितः
उपविश्य शुचिः सर्वं यथाकालमनुद्रवेत् २
पत्न्या चाप्यवियोगिन्या शुश्रूष्योऽग्निर्विनीतया
सौभाग्यवित्तावैधव्यकामया भर्तृभक्तया ३
या वा स्याद्वीरसूरासामाज्ञासम्पादिनी प्रिया
दक्षा प्रियंवदा शुद्धा तामत्र विनियोजयेत् ४
दिनत्रयेण वा कर्म यथा ज्यैष्ठं स्वशक्तितः
विभज्य सह वा कुर्युर्यथाज्ञानञ्च शास्त्रवत् ५
स्त्रीणां सौभाग्यतो ज्यैष्ठं विद्ययैव द्विजन्मनाम्
नहि ख्यात्या न तपसा भर्त्ता तुष्यति योषिताम् ६
भर्त्तुरादेशवर्त्तिन्या यथोमा बहुभिर्व्रतैः
अग्निश्च तोषितोऽमुत्र सा स्त्री सौभाग्यमाप्नुयात् ७
विनयावनताऽपि स्त्री भर्त्तुर्या दुर्भगा भवेत्
अमुत्रोमाग्निभतृणामवज्ञातिकृता तथा ८
श्रोत्रियं सुभगां गाञ्च साग्निमग्निचितिं तथा
प्रातरुत्थाय यः पश्येदापद्भ्यः स प्रमुच्यते ९
२५९
पापिष्टं दुर्भगामन्त्यं नग्नमुत्कृत्तनासिकम्
प्रातरुत्थाय यः पश्येत्स कालरुपयुज्यते १०
पतिमुल्लङ्ख्य मोहात्स्त्री कं कं न नरकं व्रजेत्
कृच्छ्रान्मनुष्यतां प्राप्य किं किं दुःखं न विन्दति ११
पतिशुश्रूषयैव स्त्री कान्न लोकान् समश्नुते
दिवः पुनरिहायाता सुखानामम्बुधिर्भवेत् १२
सदारोऽन्यान् पुनर्दारान् कथञ्चित् कारणान्तरात्
य इच्छेदग्निमान् कर्तुं द्युहोमोऽस्य विधीयते १३
स्वेऽग्नावेव भवेद्धोमो लौकिके न कदाचन
न ह्याहिताग्नेः स्वं कर्म लौकिकेऽग्नौ विधीयते १४
षडाहुतिकमन्येन जुहुयाद् ध्रुवदर्शनात्
न ह्यात्मनोऽर्थं स्यात्तावद्यावन्न परिणीयते १५
पुरस्तात्त्रिविकल्पं यत्प्रायश्चित्तमुदाहृतम्
तत्षडाहुतिकं शिष्टैर्यज्ञविद्भिः प्रकीर्तितम् १६
एकोनविंशतितमः खण्डः
इति कात्यायनविरचिते कर्मप्रदीपे द्वितीयः प्रपाठकः