१७

सप्तदशखण्डः
अथ श्राद्धवर्णनम्
पुरतो आत्मनः कर्षूः सा पूर्व्वा परिकीर्त्यते
मध्यमा दक्षिणेनास्यास्तद्दक्षिणतदुत्तमा १
वाय्वग्निदिङ्मुखान्तास्ताः कार्य्याः सार्द्धाङ्गुलान्तराः
तीक्ष्णान्ता यवमध्याश्च मध्यं नाव इवोत्किरेत् २
शङ्कुश्च खादिरः कार्य्यो रजतेन विभूषितः
शङ्कुश्चैवोपवेषश्च द्वादशाङ्गुल इष्यते ३
अग्न्याशाग्रैः कुशैः कार्य्यं कर्षूणां स्तरणं घनैः
दक्षिणान्तं तदग्रैस्तु पितृयज्ञो परिस्तरेत् ४
स्थगरं सुरभिर्ज्ञेयं चन्दनादि विलेपनम्
सौवीराञ्जनमित्युक्तं पिञ्जलीनां यदञ्जनम् ५
स्वस्तरे सर्व्वमासाद्य यथावदुपयुज्यते
देवपूर्वं ततः श्राद्धमत्वरः शुचिरारभेत् ६
आसनाद्यर्घपर्य्यन्तं वशिष्ठेन यथेरितम्
कृत्वा कर्म्माथ पात्रेषु उक्तं दद्यात्तिलोदकम् ७
तूष्णीं पृथगपो दत्त्वा मन्त्रेण तु तिलोदकम्
गन्धोदकञ्च दातव्यं सन्निकर्षक्रमेण तु ८
आसुरेण तु पात्रेण यस्तु दद्यात्तिलोदकम्
पितरस्तस्य नामनन्ति दश वर्षाणि पञ्च च ९
कुलालचक्रनष्पिन्नमासुरं मृण्मयं स्मृतम्
तदेव हस्तघटितं स्थाल्यादि दैविकं भवेत् १०

२५५

गन्धान्ब्राह्मणसात्कृत्वा पुष्पाण्यतु भवानि च
धूपञ्चैवानुपूर्वेण ह्यग्नौ कुर्य्यादनन्तरम् ११
अग्नौ करणहोमश्च कर्त्तव्य उपवीतिना
प्राङ्मुखेनैव देवेभ्यो जुहोतीति श्रुतिश्रुतेः १२
अपसव्येन वा कार्य्यां दक्षिणाभिमुखेन च
निरुप्य हविरन्यस्मादन्यस्मै न हि हूयते १३
स्वाहा कुर्य्यान्न चात्रान्ते न चैव जुहुयाद्धविः
स्वाहाकारेण हुत्वाग्नौ पश्चान्मन्त्रं समापयेत् १४
पित्र्ये यः पंक्तिमूर्द्धन्यस्तस्य पाणावनग्निमान्
हुत्वा मन्त्रवदन्येषां तूष्णीं पात्रेषु निःक्षिपेत् १५
नोङ्कुर्याद्धोममन्त्राणां पृथगादिषु कुत्रचित्
अन्येषाञ्चाविकृष्टानां कालेनाचमनादिना १६
सव्येन पाणिनेत्येवं यदत्र समुदीरितम्
परिग्रहणमात्रन्तत् सव्यस्यादिशति व्रतम् १७
पिञ्जूल्याद्यभिसंगृह्य दक्षिणे नेतरात् करात्
अन्वारभ्य च सव्येन कुर्यादुल्लेखनादिकम् १८
यावदर्थमुपादाय हविषोऽर्भकमर्भकम्
चरुणा सह सन्नीय पिण्डान् दातुमुपक्रमेत् १९
पितुरुत्तरकर्ष्वंशे मध्यमे मध्यमस्य तु
दक्षिणे तत्पितुश्चैव पिण्डान् पर्वणि निर्वपेत् २०
वाममावर्त्तनां केचिदुदगन्तं प्रचक्षते
सर्वां गौतमशाण्डिल्यौ शाण्डिल्यायन एव च २१
आवृत्य प्राणमायम्य पितॄन् ध्यायन् यथार्थतः
जपंस्तेनैव चावृत्य ततः प्राणं प्रमोचयेत् २२
शाकञ्च फाल्गुनाष्टम्यां स्वयं पत्न्यपि वा पचेत्
यस्तु शाकादिको होमः कार्योऽपूपाष्टकावृतः २३
र्

२५६

अन्वाष्टक्यं मध्यमायामिति गोभिलगोतमौ
वार्कषण्डिश्च सर्वासु कौत्सो मेनेऽष्टकासु च २४
स्थालीपाकं पशुस्थाने कुर्याद्यद्यानुकल्पितम्
श्रपयेत्तं सवत्सायास्तरुण्यागोः पयस्तथा २५
इति सप्तदशः खण्डः