षोडशखण्डः
अथ श्राद्धतिथिविशेषेणविधिवर्णनम्
पिण्डान्वाहार्यकं श्राद्धं क्षीणे राजनि शस्यते
वासरस्य तृतीयांशे नातिसन्ध्यासमीपतः १
यदा चतुर्द्दशीयामं तुरीयमनुपूरयेत्
अमावास्या क्षीयमाणा तदैव श्राद्धमिष्यते २
यदुक्तं यदहस्त्वेव दर्शनं नैति चन्द्रमाः
अनयापेक्षया ज्ञेयं क्षीणे राजनि चेत्यपि ३
यच्चोक्तं दृश्यमानेऽपि तच्चतुर्द्दश्यपेक्षया
अमावास्यां प्रतीक्षेत तदन्ते वापि निर्वपेत् ४
अष्टमेंऽशे चतुर्द्दश्याः क्षीणो भवति चन्द्रमाः
अमावास्याष्टमांशे च पुनः किल भवेदणुः ५
आग्रहायण्यमावास्या तथा ज्यैष्ठस्य या भवेत्
विशेषमाभ्यां ब्रुवते चन्द्रचारविदो जनाः ६
अत्रेन्दुराद्ये प्रहरेऽवतिष्ठते चतुर्थभागो न कलावशिष्टः
तदन्त एव क्षयमेति कृत्स्नमेवं ज्योतिश्चक्रविदोवदन्ति ७
यस्मिन्नब्दे द्वादशैकश्च यव्यस्तस्मिंस्तृतीयया परिदृश्यो नोपजायते ।
एवं चारं चन्द्रमसो विदित्वा क्षीणे तस्मिन्नपराह्णे च दद्यात् ८
सम्मिश्रा या चतुर्दश्या आमावास्या भवेत् क्वचित्
खर्वितां तां विदुः केचिद्गताध्वामिति चापरे ९
२५३
वर्द्धमानाममावास्यां लभेच्चेदपरेऽहनि
यामांस्त्रीनधिकान् वापि पितृयज्ञस्ततो भवेत् १०
पक्षादावेव कुर्व्वीत सदा पक्षादिकं चरुम्
पूर्वाह्ण एव कुर्व्वन्ति विद्धेऽप्युन्ये मनीषिणः ११
स्वपितुः पितृकृत्येषु ह्यधिकारो न विद्यते
न जीवन्तमतिक्रम्य किञ्चिदद्यादिति श्रुतिः १२
पितामहे ध्रियन्ते च पितुः प्रेतस्य निर्वपेत्
पितुस्तस्य च वृत्तस्य जीवेच्चेत् प्रपितामहः १३
पितुः पितुः पितुश्चैव तस्यापि पितुरेव च
कुर्य्यात्पिण्डत्रयं यस्य संस्थितः प्रपितामहः १४
जीवन्तमपि दद्याद्वा प्रेतायान्नोदके द्विजः
पितुः पितृभ्यो वा दद्यात्स्वपितेत्यपरा श्रुतिः १५
पितामहः पितुः पश्चात्पञ्चत्वं यदि गच्छति
पौत्रेणैकादशाहादि कर्तव्यं श्राद्धषोडशम् १६
नैतत्पौत्रेण कर्त्तव्यं पुत्रवांश्चेत्पितामहः
पितुः सपिण्डनं कृत्वा कुर्य्यान्मासानुमासिकम् १७
असंस्कृतौ न संस्कार्यौ पूर्व्वौ पौत्रप्रपौत्रकैः
पितरं तत्र संस्कुर्य्यादिति कात्यायनोऽब्रवीत् १८
पापिष्ठमति शुद्धेन शुद्धं पापीकृतापि वा
पितामहेन पितरं संस्कुर्य्यादिति निश्चयः १९
ब्राह्मणादिहते ताते पतिते सङ्गवर्जिते
व्युत्क्रमाच्च मृते देयं येभ्य एव ददात्यसौ २०
मातुः सपिण्डीकरणं पितामह्या सहोदितम्
यथोक्तेनैव कल्पेन पुत्रिकया न चेत्सुतः २१
न योषिद्भ्यः पृथग्दद्यादवसानदिनादृते
स्वभर्तृपिण्डमात्राभ्यस्तृप्तिरासां यतः स्मृता २२
र्
२५४
मातुः प्रथमतः पिण्डं निर्व्वपेत्पुत्रिकासुतः
द्वितीयन्तु पितुस्तस्यास्तृतीयन्तु पितुः पितुः २३
इति षोडशखण्डः