१५

पञ्चदशखण्डः
अथ यज्ञविधिवर्णनम्
ब्रह्मणो दक्षिणा देया यत्र या परिकीर्तिता
कर्मान्तेऽनुच्यमानापि पूर्णपात्रादिका भवेत् १
यावता बहुभोक्तुस्तु तृप्तिः पूर्णन विद्यते
नावरार्द्ध्यमतः कुर्यात् पूर्णपात्रमिति स्थितिः २
विदध्याद्धौत्रमन्यश्चेद्दक्षिणार्द्धहरो भवेत्
स्वयञ्चेदुभयं कुर्यादन्यस्मै प्रातिपादयेत् ३
कुलर्त्विजमधीयानं सन्निकृष्टं तथा गुरुम्
नातिक्रामेत्सदा दित्सन् य इच्छेदात्मनो हितम् ४
अहमस्मै ददामीति एवमाभाष्य दीयते
नैतावपृष्ट्वा ददतः पात्रेऽपि फलमस्ति हि ५
दूरस्थाभ्यामपि द्वाभ्यां प्रदाय मनसा वरम्
इतरेभ्यस्ततो देयादेष दानविधिः परः ६

२५१

सन्निकृष्टगधीयानं ब्राह्मणं यो व्यतिक्रमेत्
यद्ददाति तमुल्लङ्घ्य ततस्तेयेन युज्यते ७
यस्य त्वेक गृहे मूर्खो दूरस्थञ्च गुणान्वितः
गुणान्विताय दातव्यं नास्ति मूर्खे व्यतिक्रमः ८
ब्राह्मणाभिक्रमो नास्ति विप्रे वेदविवर्ज्जिते
ज्वलन्तमग्निमुत्सृज्य न हि भस्मनि हूयते ९
आज्यस्थाली च कर्तव्या तैजसद्रव्यसम्भवा
महीमयी वा कर्तव्या सर्वास्वाज्याहुतीषु च १०
आज्यस्थाल्याः प्रमाणं तु यथाकामन्तु कारयेत्
सुदृढामव्रणां भद्रामाज्यस्थालीं प्रचक्षते ११
तिर्यगूर्द्ध्वं समिन्मात्रा दृढा नातिवृहन्मुखी
मृन्मय्यौदुम्बरी वाऽपि चरुस्थाली प्रशस्यते १२
स्वशाखोक्तः प्रसुस्विन्नो ह्यदग्धोऽकठिनः शुभः
नचातिशिथिलः पाच्यो न चरुश्चारसस्तथा १३
इध्मजातीयमिध्मार्द्धप्रमाणं मेक्षणं भवेत्
वृत्तं चाङ्गुष्ठपृथ्वग्रमवदानक्रियाक्षमम् १४
एषैव दर्वी यस्तत्र विशेषस्तमहं ब्रुवे
दर्वी द्व्यङ्गुलपृथ्वग्रा तुरीयो नन्तमेक्षमम् १५
मुषलोलूखले वार्क्षे स्वायते सुदृढे तथा
इच्छाप्रमाणे भवतः शूर्पं वैणवमेव च १६
दक्षिणं वामतो वाह्ममात्माभिमुखमेव च
करं करस्य कुर्वीत करणे न्यञ्चकर्मणः १७
कृत्वाग्न्यभिमुखौ पाणी स्वस्थानस्थौ सुसंयतौ
प्रदक्षिणं तथासीनः कुर्यात्परिसमूहनम् १८
बाहुमात्राः परिधय ऋजवः सत्वचोऽत्रणाः
त्रयो भवन्ति शीर्णाग्रा एकेषान्तु चतुर्दिशम् १९
र्

२५२

प्रागग्रावभितः पश्चादुदग्रमथवापरम्
न्यसेत्परिधिमन्यञ्चेदुदगग्रः स पूर्वतः २०
यथोक्तवस्त्वसम्पत्तौ ग्राह्यं तदनुकारि यत्
यवानामिव गोधूमा व्रीहीणामिव शालयः २१
इति पञ्चदशखण्डः