त्रयोदशखण्डः
अथ पञ्चमहायज्ञविधिवर्णनम्
पञ्चानामथ सत्राणां महतामुच्यते विधिः
यैरिष्टा सततं विप्रः प्राप्नुयात्सद्म शाश्वतम् १
देवभूतपितृब्रह्ममनुष्याणामनुक्रमात्
महासत्राणि जानीयात् एवेह महामखाः २
र्
२४८
अध्यापनं ब्रह्मयज्ञः पितृयज्ञस्तु तर्पणम्
होमो दैवो वलिर्भौतो नृयज्ञोऽतिथिपूजनम् २
श्राद्धं वा पितृयज्ञः स्यात्पित्र्यो बलिरथापि वा
यश्च श्रुतिजयः प्रोक्तो ब्रह्मयज्ञः स वोच्यते ४
स चार्वाक् तर्पणात्कार्यः पश्चाद्वा प्रातराहुतेः
वैश्वदेवावसाने वा नान्यत्रर्तौ निमित्तकात् ५
अप्येकमाशयेद्विप्रं पितृयज्ञार्थसिद्धये
अदैवं नास्ति चेदन्यो भोक्ता भोज्यमथापि वा ६
अप्युद्धृत्य यथाशक्त्या किञ्चिदन्नं यथाविधि
पितृभ्योऽथ मनुष्येभ्यो दद्यादहरहर्द्विजे ७
पितृभ्य इदमित्युक्त्वा स्वधाकारमुदीरयेत्
हन्तकारं मनुष्येभ्यस्तदर्द्धे निनयेदपः ८
मुनिभिर्द्विरसनमुक्तं विप्राणां मर्त्यवासिनां नित्यम्
अहनि च तथा तमस्विन्यां सार्द्धप्रथमयामान्तः ९
सायं प्रातर्वैश्वदेवः कर्तव्यो बलिकर्म च
अनश्नतापि सततमन्यथा किल्विषी भवेत् १०
अमुष्मै नम इत्येवं बलिदानं विधीयते
बलिदानप्रदानार्थं नमस्कारः कृतो यतः ११
स्वाहाकारवषट्कारनमस्कारा दिवौकसाम्
स्वधाकारः पितृणाञ्च हन्तकारो नृणां कृतः १२
स्वधाकारेण निनयेत् पित्र्यं बलिमतः सदा
तदध्येके नमस्कारं कुर्वते नेति गौतमः १३
नावरार्द्ध्यावलयो भवन्ति महामार्ज्जारश्रवणप्रमाणात्
एकत्र चेदविकृष्टा भवन्तीतरेतरसंसक्ताश्च १४
इति त्रयोदशखण्डः
२४९