एकादशः खण्डः
अथ सन्ध्योपासनविधिवर्णनम्
अत ऊर्द्ध्वं प्रवक्ष्यामि सन्ध्योपासनकं विधिम्
अनर्हः कर्मणां विप्रः सन्ध्याहीनो यतः स्मृतः १
सव्ये पाणौ कुशान् कृत्वा कुर्यादाचमनक्रियाम्
ह्रस्वाः प्रचरणीयाः स्युः कुशा दीर्घास्तु वर्हिषः २
दर्भाः पवित्रमित्युक्तमतः सन्ध्यादिकर्मणि
सव्यः सोपग्रहः कार्यो दक्षिणः सपवित्रकः ३
रक्षयेद्वारिणात्मानं परिक्षिप्य समन्ततः
शिरसो माजनं कुर्यात्कुशैः सोदकविन्दुभिः ४
प्रणवो भूर्भुवःस्वश्च सावित्री च तृतीयका
अब्दैवत्यं त्र्यृचञ्चैव चतुर्थमिति मार्जनम् ५
भूराद्यास्तिस्र एवैता महाव्याहृतयोऽव्ययाः
महर्ज्जनस्तपः सत्यं गायत्री च शिरस्तथा ६
आपोज्योतीरसोमृतं ब्रह्मभूर्भुवः स्वरतिशिरः
र्
२४६
प्रतीप्रतीकं प्रणवमुच्चारयेदन्ते च शिरसः ७
एता एतां सहानेन तथैभिर्द्दशभिः सह
त्रिर्जपेदायतप्राणः प्राणायामः स उच्यते ८
करेणोद्धृत्य सलिलं घ्राणमासज्य तत्र च
जपेदनायतासुर्वा त्रिः सकृद्वाघमर्षणम् ९
उत्थायार्कं प्रतिप्रोहेत्त्रिकेणाञ्जलिनाम्भसः
उच्चित्रमृग्द्वयेनाथ चोपतिष्ठेदनन्तरम् १०
सन्ध्याद्वयेऽप्युपस्थानमेतदाहुर्मनीषिणः
मध्ये त्वह्न उपर्यस्य विभ्राडादीच्छया जपेत् ११
तदसंसक्तपार्ष्णिर्वा एकापादर्द्धपादपि
कुर्यात्कृताञ्जलिर्वापि ऊर्द्ध्वबाहुरथापि वा १२
यत्र स्यात्कृच्छ्रभूयस्त्वं श्रेयसोऽपि मनीषिणः
भूयस्त्वं ब्रुवते तत्र कृच्छ्राच्छ्रेयो ह्यवाप्यते १३
तिष्ठेदुदयनात्पूर्वां मध्यमामपि शक्तितः
आनीतोडुद्गमाच्चन्त्यां सन्ध्यां पूर्वात्रक्रं जपन् १४
एतत्सन्ध्यात्रयं प्रोक्तं ब्राह्मण्यं यत्र तिष्ठति
यस्य नास्त्यादरस्तत्र न स ब्राह्मण उच्यते १५
सन्ध्यालोपाच्च चकितः स्नानशीलश्च यः सदा
तं दोषानोपसर्पन्ति गरुत्मन्तमिवोरगाः १६
वेदमादित आरभ्य शक्तितोऽहरहर्ज्जपेत्
उपतिष्ठेत्ततो रुद्रसर्वाद्वा वैदिकाज्जपात् १७
इति एकादशः खण्डः