१०

दशमः खण्डः
अथ प्रातःकालिकस्नानादिक्रियावर्णनम्
यथाहनि तथा प्रातर्नित्यं स्नायादनातुरः
दन्तान् प्रक्षाल्य नद्यादौ गृहे चेत्तदमन्त्रवत् १
नारदाद्युक्तवाक्षं यदाष्टाङ्गुलमपाटितम्
सत्वचं दन्तकाष्ठं स्यात्तदग्रेण प्रधावयेत् २
उत्थाय नेत्रे प्रक्षाल्य शुचिर्भूत्वा समाहितः
परिजप्य च मन्त्रेण भक्षयेद्दन्तधावनम् ३
आयुर्बलं यशोवर्च्चः प्रजाःपशुन् वसूनि च
ब्रह्मप्रज्ञाञ्च मेधाञ्च त्वन्नो देहि वनस्पत ४
यव्यद्वयं श्रावणादि सर्व्वा नद्यो रजस्वलाः
तासु स्नानं न कुर्व्वीत वर्जयित्वा समुद्रगाः ५
धनुःसहस्राण्यष्टौ तु गतिर्यासां न विद्यते
न ता नदीः शब्दवहा गर्त्तान्ताः परिकीर्तिताः ६
उपाकर्म्मणि चोत्सर्गे प्रेतस्नाने तथैव च
चन्द्रसूर्य्यग्रहे चैव रजोदोषो न विद्यते ७
वेदाश्छन्दांसि सर्व्वाणि ब्रह्माद्याश्च दिवौकसः
जलार्थिनोऽथ पितरो मरीच्याद्यास्तथर्षयः ८
उपाकर्मणि चोत्सर्गे स्नानार्थं ब्रह्मवादिनः
यियासूननुगच्छन्ति सन्तुष्टाः स्वशरीरिणः ९
समागमस्तु यत्रैषां तत्र हत्यादयोमलाः
नूनं सर्व्वे क्षयं यान्ति किमुतैकं नदीरजः १०

२४५

ऋषीणां सिच्यमानानामन्तरालं समाश्रितः
संपिबेद्यः शरीरेण पषेन्मुक्तजलच्छटाः ११
विद्यादीन् ब्राह्मणः कामान् वरादीन् कन्यका ध्रुवम्
आमुष्मिकान्यपि सुखान्याप्नुयात्स न संशयः १२
अशुच्यशुचिना दत्तमाममन्तर्जलादिना
अनिर्गतदशाहास्तु प्रेता रक्षांसि भुञ्जते १३
स्वर्धुन्यम्भः समानि स्युः सर्वाण्यम्भांसि भूतले
कूपस्थान्यपि सोमार्कग्रहणे नात्र संशयः १४
इति दशमः खण्डः
इति कर्मप्रदीपपरिशिष्टे कात्यायनविरचिते प्रथमः प्रपाठकः