०९

नवमः खण्डः
अथ सन्ध्याकालाद्युद्दिश्यकर्मवर्णनम्
सूर्य्येऽस्तशैलमप्राप्ते षट्त्रिंशद्भिः सदाङ्गुलैः
प्रादुष्करणमग्नीनां प्रातर्भासाञ्च दर्शनात् १

२४३

हस्तादूर्द्ध्वं रविर्यावत् गिरिं हित्वा न गच्छति
तावद्धोमविधिः पुण्यो नात्येत्युदितहोमिनाम् २
यावत्सम्यग्न भाव्यन्ते नभस्पृक्षाणि सर्वतः
न च लौहित्यमापैति तावत्सायञ्च हूयते ३
रजोनीहारधूमाभ्रवृक्षाग्रान्तरिते रवौ
सन्ध्यामुद्दिश्य जुहुयाद् हुतमस्य न लुप्यते ४
न कुर्य्यात्क्षिप्रहोमेषु द्विजः परिसमूहनम्
विरुपाक्षञ्च न जपेत् प्रवदञ्च विवर्जयेत् ५
पर्य्युक्षणञ्च सर्वत्र कर्त्तव्यमदितेन्विति
अन्ते च वामदेवस्य गानं कुर्य्यादृचस्त्रिधा ६
अहोमकेष्वपि भवेद्यथोक्तं चन्द्रदर्शनम्
वामदेव्यं गणेष्वन्ते कल्पान्ते वैश्वदेविके ७
यान्यधस्तरणान्तानि न तेषु स्तरणं भवेत्
एककार्य्यार्थसाध्यत्वात्परिधीनपि वर्जयेत् ८
वर्हिः पर्य्युक्षणं चैव वामदेव्यजपस्तथा
क्रत्वाहुतिषु सर्वासु त्रिकमेतन्न विद्यते ९
हविष्येषु यवामुख्यास्तदनु व्रीहयः स्मृताः
माषकोद्रवगौरादिसर्व्वालाभेऽपि वर्जयेत् १०
पाण्याहृतिर्द्वादशपर्वपारिका कंसादिना चेत्स्रुवमात्रपावका
दैवेन तीर्थेन च हूयते हविः स्वङ्गारिणि स्वर्च्चिषि तच्च पावके ११
योऽनर्च्चिषि जुहोत्यग्नौ व्यङ्गारिणि च मानवः
मन्दाग्निरामयावी च दरिद्रश्च स जायते १२
तस्मात्समिद्धे होतव्यं नासमिद्धे कदाचन
आरोग्यमिच्छतायुश्च श्रियमात्यन्तिकीम्पराम् १३
होतव्ये च हुते चैव पाणिसूर्पस्फ्यदारुभिः
न कुर्य्यादग्निधमनं कुर्य्याद्वा व्यजनादिना १४
र्

२४४

मुखेनैके धमन्त्यग्निं मुखाद्ध्येषोऽध्यजायत
नाग्निं मुखेनेति च यल्लौकिके योजयन्ति तत् १५
इति नवमः खण्डः