अष्टमः खण्डः
अथ सयज्ञस्रुवसमिधलक्षणवर्णन्म्
परिधायाहतं वासः प्रावृत्य च यथाविधि
विभृयात्प्राङ्मुखो यन्त्रमावृता वक्ष्यमाणया १
२४१
चत्रवृध्ने प्रमन्थाग्रं गाढं कृत्वा विचक्षणः
कृत्वोत्तराग्रामरणिं तद्वृध्नमुपरिन्यसेत् २
चत्राधेः कीलकाग्रस्था मोविलीमुदगग्रकाम्
विष्टम्भाद्धारयेद्यन्त्रं निष्कम्पं प्रयतः शुचिः ३
त्रिरुद्वेष्ट्याथ नेत्रेण चत्रं पत्न्यो हतांशुकाः
पूर्वं मथ्नन्त्यरण्यान्त्याः प्राच्यग्नेः स्याद्यथा च्युतिः ४
नैकयापि विना कार्य्यमाधानं भार्य्यया द्विजैः
अकृतं तद्विजानीयात्सर्व्वान्वाचारभन्ति यत् ५
वर्णज्यैष्ठ्येन वह्वीभिः सवार्णाभिश्च जन्मतः
कार्य्यमग्निच्युतेराभिः साध्वीभिर्मथनं पुनः ६
नात्र शूद्रीं प्रयुञ्जीत न द्रोहद्वेषकारिणीम्
नचैवाव्रतस्थां नान्यपुंसा च सह सङ्गताम् ७
ततः शक्ततरा पश्चादासामन्यतरापि वा
उपेतानां वान्यतमा मन्थेदग्निं निकामतः ८
जातस्य लक्षणं कृत्वा तं प्रणीय समिध्य च
आधाय समिधं चैव ब्रह्माणं चोपवेशयेत् ९
ततः पूर्णाहुतिं हुत्वा सर्वमन्त्रसमन्विताम्
गां दद्याद्यज्ञवास्त्वन्ते ब्रह्मणे वाससी तथा १०
होमपात्रमनादेशे द्रवद्रव्ये स्रुवः स्मृतः
पाणिरेवेतरस्मिंस्तु स्रुचैवात्र तु हूयते ११
खादिरो वाऽथ पालाशो द्विवितस्तिः स्रुवः स्मृतः
स्रुग्वाहुमात्रा विज्ञेया वृत्तस्तु प्रग्रहस्तयोः १२
स्रुवाग्रे घ्राणवत्खातं द्व्यङ्गुष्ठपरिमण्डलस्थलम्
जुह्वाः शराववत्खातं सनिर्व्वाहं षडङ्गुलं कुर्य्यात् १३
तेषां प्राक्शः कुशैः कार्य्यः संप्रमार्गोजुहुषता
प्रतापनञ्च लिप्तानां प्रक्षाल्योष्णेन वारिणा १४
र्
२४२
प्राञ्चं प्राञ्चमुदगग्नेरुदगग्रं समीपतः
तत्तथासादयेद्द्रव्यं यद्यथा विनियुज्यते १५
आज्यं हव्यमनादेशे जुहोति च विधीयते
मन्त्रस्य देवतायाश्च प्रजापतिरिति स्थितिः १६
नाङ्गुष्ठादधिका ग्राह्या समित्स्थूलतया क्वचित्
न वियुक्ता त्वचा चैव न सकीटा न पाटिता १७
प्रादेशान्नाधिका नो न तथा न स्याद्विशाखिका
न सपर्णा न निर्व्वीर्य्या होमेषु च विजानता १८
प्रादेशद्वयमिध्मस्य प्रमाणं परिकीर्तितम्
एवंविधाः स्युरेवेह समिधः सर्वकर्म्मसु १९
समिधोऽष्टादशेध्मस्य प्रवदन्ति मनीषिणः
दर्शे च पौर्णमासे च क्रियास्वन्यासु विंशतिः २०
समिदादिषु होमेषु मन्त्रदैवतवर्जिता
पुरस्ताच्चोपरिष्टाच्च हीन्धनार्थं समिद्भवेत् २१
इध्मोऽप्येधार्थमाचार्यैर्हविराहुतिषु स्मृतः
यत्र चास्य निवृत्तिः स्यात्तत्स्पष्टीकरवाण्यह्वम् २२
अङ्गहोमसमित्तन्त्रसोष्यन्त्याख्येषु कर्मसु
येषां चैतदुपर्य्युक्तं तेषु तत्सदृशेषु च २३
अक्षभङ्गादिविपदि जलहोमादिकर्म्मणि
सोमाहुतिषु सर्व्वासु नैतेष्विध्म विधीयते २४
इति अष्टमः खण्डः