०७

सप्तमः खण्डः
अथशमीगर्भाद्यनेकप्रकरणवर्णनम्
अश्वत्थो यः शमीगर्भः प्रशस्तोर्वीसमुद्भवः
तस्य या प्राङ्मुखी शाखा वोदीची वोर्द्ध्वगापि वा १
अरणिस्तन्मयी प्रोक्ता तन्मय्येवोत्तरारणिः
सारवद्दारवञ्चत्रमोविली च प्रशस्यते २
संसक्तमूलो यः शम्याः स शमीगर्भ उच्यते
अलाभे त्वशमीगर्भादुद्धरेदविलम्बितः ३
चतुर्विंशतिरङ्गुष्ठदैर्घ्यं षडपि पार्थिवम्
चत्वार उच्छ्रये मानमरण्योः परिकीर्तितम् ४
र्

२४०

अष्टाङ्गुलः प्रमन्थः स्याच्चत्रं स्याद्द्वादशाङ्गुलम्
ओवीली द्वादशैव स्यादेतन्मन्थनयन्त्रकम् ५
अङ्गुष्ठाङ्गुलमानन्तु यत्र यत्र यत्रोपदिश्यते
तत्र तत्र बृहत्पर्वग्रन्थिभिर्मिनुयात् सदा ६
गोवालैः शणसंमिश्रैस्त्रिवृत्तममलात्मकम्
व्यामप्रमाणं नेत्रं स्यात् प्रमथ्यस्तेन पावकः ७
मूर्द्धाक्षिकर्णवक्त्राणि कन्धरा चापि पञ्चमी
अङ्गुष्ठमात्राण्येतानि द्व्यङ्गुष्ठं वक्ष उच्यते ८
अङ्गुष्ठमात्रं हृदयं त्र्यङ्गुष्ठमुदरं स्मृतम्
एकाङ्गुष्ठा कटिर्ज्ञेया द्वौ वस्तिर्द्वौ च गुह्यकम् ९
ऊरू जङ्घे च पादौ च चतुस्त्र्येकैर्यथाक्रमम्
अरण्यवयवाह्येते याज्ञिकैः परिकीर्तिताः १०
यत्तद्गुह्यमिति प्रोक्तं देवयोनिस्तु सोच्यते
अस्यां यो जायते वह्निः स कल्याणकृदुच्यते ११
अन्येषु ये तु मथ्नन्ति ते रोगभयमाप्नुयुः
प्रथमे मन्थने त्वेष नियमो नोत्तरेषु च १२
उत्तरारणिनिष्पन्नः प्रमन्थः सर्वदा भवेत्
योनिसङ्करदोषेण युज्यते ह्यन्यमन्थकृत् १३
आर्द्रा सशुषिरा चैव घूर्णाङ्गी पाटिता तथा
न हिता यजमानानामरणिश्चोत्तरारणिः १४
इति सप्तमः खण्डः