०६

षष्ठः खण्डः
अथानेककर्मवर्णनम्
आधानकाला ये प्रोक्तास्तथा यश्चाग्नियोनयः
तदाश्रयोऽग्निमादध्यादग्निमानग्रजो यदि १
दाराधिगमनाधाने यः कुर्यादग्रजाग्रिमः
परिवेत्ता स विज्ञेयः परिवित्तिस्तु पूर्वजः २
परिवित्तिपरिवेत्तारौ नरकं गच्छतो ध्रुवम्
अपि चीर्णप्रायश्चित्तौ पादोनफलभागिनौ ३
देशान्तरस्थक्लीवैकवृषणानसहोदरान्
वेश्यातिसक्तपतितशूद्रतुल्यातिरोगिणः ४
जडमूकान्धवधिरकुब्जवामनकुण्ठकान्
अतिवृद्धानभार्यांश्च कृषिसक्तान्नृपस्य च ५
धनवृद्धिप्रसक्तांश्च कामतः कारिणस्तथा
कुलटोन्मत्तचौरांश्च परिविन्दन्न दुष्यति ६
धनवार्द्धुषिकं राजसेवकं कमकस्तथा
प्रोषितञ्च प्रतीक्षेत वर्षत्रयमपि त्वरन् ७
प्रोषितं यद्यशृण्वानमब्दादूर्द्ध्वं समाचरेत्
आगते तु पुनस्तस्मिन् पादं तच्छुद्धये चरेत् ८

२३९

लक्षणे प्राग्गतायास्तु प्रमाणं द्वादशाङ्गुलम्
तन्मूलसक्ता योदीची तस्या एतन्नवोत्तरम् ९
उदग्गतायाः संलग्नाः शेषाः प्रादेशमात्रिकाः
सप्तसप्ताङ्गुलांस्त्यक्त्वाकुशेनैव समुल्लिखेत् १०
मानक्रियायामुक्तायामनुक्ते मानकर्त्तरि
मानकृद्यजमानः स्याद्विदुषामेव निश्चयः ११
पुण्यमेवादधीताग्निं स हि सर्वैः प्रशस्यते
अनर्द्धुकत्वं यत्तस्य काम्यैस्तन्नीयते शमम् १२
यस्य दत्ता भवेत्कन्या वाचा सत्येन केनचित्
सोऽन्त्यां समिधमाधास्यन्नादधीतैव नान्यथा १३
अनूढैव तु सा कन्या पञ्चत्वं यदि गच्छति
न तथा व्रतलोपोऽस्य तेनैवान्यां समुद्वहेत् १४
अथ चेन्न लभेतान्यां याचमानोऽपि कन्यकाम्
तमग्निमात्मसात्कृत्वा क्षिप्रं स्यादुत्तराश्रमी १५
इति षष्ठः खण्डः