चतुर्थः खण्डः
अथ श्राद्धप्रकरणवर्णनम्
उत्तरोत्तरदानेन पिण्डानामुत्तरोत्तरः
भवेदधश्चाधराणामधरश्राद्धकर्मणि १
तस्माच्छ्राद्धेषु सर्वेषु वृद्धिमत्स्वितरेषु च
मूलमध्याग्रदेशेषु ईषत्सक्तांश्च निर्वपेत् २
गन्धादीन्निः क्षिपेत्तूष्णीं तत आचामयेद्द्विजान्
अन्यत्राप्येष एव स्याद्यवादिरहितो विधिः ३
दक्षिणाप्लवने देशे दक्षिणाभिमुखस्य च
दक्षिणाग्रेषु दर्भेषु एषोऽन्यत्र विधिः स्मृतः ४
अथाग्रभूमिमासिञ्चेत्सुसंप्रोक्षितमस्त्विति
शिवा आपः सन्त्विति च युग्मानेवोदकेन च ५
सौमनस्यमस्त्विति च पुष्पदानमनन्तरम्
अक्षतञ्चारिष्टं चास्त्वित्यक्षतान् प्रतिपादयेत् ६
अक्षय्योदकदानं तु अर्घ्यदानवदिष्यते
षष्ठैव नित्यं तत्कुर्यान्न चतुर्थ्या कदाचन ७
अर्घ्येऽक्षय्योदके चैव पिण्डदानेऽवनेजने
तन्त्रस्य तु निवृत्तिः स्यात्स्वधावाचन एव च ८
प्रार्थनासु प्रतिप्रोक्ते सर्वास्वेव द्विजोत्तमैः
पवित्रान्तर्हितान् पिण्डान् सिञ्चेदुत्तानपात्रकृत् ९
२३७
युग्मानेव स्वस्ति वाच्यमङ्गुष्ठाग्रग्रहं सदा
कृत्वा धुर्यस्य विप्रस्य प्रणम्यानुव्रजेत्ततः १०
एषः श्राद्धविधिः कृत्स्न उक्तः संक्षेपतो मया
ये विन्दन्ति न मुह्यन्ति श्राद्धकर्मसु ते क्वचित् ११
इदं शास्त्रञ्च गुह्यञ्च परिसंख्यानमेव च
वशिष्ठोक्तञ्च यो वेद स श्राद्धं वेद नेतरः १२
इति चतुर्थः खण्डः