तृतीयः खण्डः
अथ त्रिविधक्रियावर्णनम्
अक्रिया त्रिविधा प्रोक्ता विद्वद्भिः कर्मकारिणाम्
अक्रिया च परोक्ता च तृतीया चायथाक्रिया १
स्वशाखाश्रयमुत्सृज्य परशाखाश्रयञ्च यः
कर्त्तुमिच्छति दुर्मेधा मोघं तत्तस्य चेष्टितम् २
यन्नाम्नातं स्वशाखायां परोक्तमविरोधि च
विद्वद्भिस्तदनुष्ठेयमग्निहोत्रादिकर्मवत् ३
प्रवृत्तमन्यथा कुर्याद्यदि मोहान् कथञ्चन
यतस्तदन्यथाभूतं तत एव समापयेत् ४
समाप्ते यदि जानीयान्मयैतदयथाकृतम्
तावदेव पुनः कुर्यान्नावृत्तिः सर्वकर्मणः ५
प्रधानस्याक्रिया यत्र साङ्गं तत्क्रियते पुनः
तदङ्गस्याक्रियायाञ्च नावृत्तिर्नैव तत्क्रिया ६
मधुमध्वितियस्तत्र त्रिर्जपोऽशितुमच्छताम्
गायत्र्यनन्तरं सोऽत्र मधुमन्त्रविवर्जितः ७
नचाश्नत्सु जपेदत्र कदाचित्पितृसंहिताम्
अन्य एव जपः कार्यः सोमसामादिकः शुभः ८
यस्तत्र प्रकरोऽन्नस्य तिलवद्यववत्तथा
उच्छिष्टसन्निधौ सोऽत्र तृप्तेषु विपरीतकः ९
सम्पन्नमिति तृप्ताः स्थ प्रश्नस्थाने विधीयते
सुसम्पन्नमिति प्रोक्ते शेषमन्नं निवेदयेत् १०
प्रागग्रेष्वथ दर्भेषु आद्यमामन्त्र्य पूर्ववत्
अपः क्षिपेन्मूलदेशेऽवनेनिक्ष्वेति पात्रतः ११
द्वितीयञ्च तृतीयञ्च मध्यदेशाग्रदेशयोः
मातामहप्रभृतींस्त्रीनेतेवामेव वामतः १२
र्
२३६
सर्वस्मादन्नमुद्धृत्य व्यञ्जनैरुपसिच्य च
संयोज्य यवकर्कन्धूदधिभिः प्राङ्मुखस्ततः १३
अवनेजनवत्पिण्डान्दत्त्वा बिल्वप्रमाणकान्
तत्पात्रक्षालनेनाथ पुनरप्यवनेजयेत् १४
इति तृतीयः खण्डः