०२

द्वितीयः खण्डः
अथ नित्यनैमित्तिक कर्म वर्णनम्
प्रातरामन्त्रितान् विप्रान् युग्मानुभयतस्तथा
उपवेश्य कुशान् दद्यादृजुनैव हि पाणिना १
हरिता यज्ञिया दर्भाः पीतकाः पाकयज्ञियाः
समूलाः पितृदैवत्याः कल्माषा वैश्वदेविकाः २
हरिता वै सपिञ्जलाः शुष्काः स्निग्धाः समाहिताः
र्

२३४

रत्निमात्राः प्रमाणेन पितृतीर्थेन संस्तृताः ३
पिण्डार्थं ये स्तृता दर्भास्तर्पणार्थं तथैव च
धृतैः कृते च विण्मूत्रे त्यागस्तेषां विधीयते ४
दक्षिणं पातयेज्जानु देवान् परिचरन् सदा
पातयेदितरज्जानु पितॄन् परिचरन्नपि ५
निपातो नहि सव्यस्य जानुनो विद्यते क्वचित्
सदा परिचरेद्भक्त्या पितृनप्यत्र देववत् ६
पितृभ्य इति दत्तेषु औपवेश्य कुशेषु तान्
गोत्रनामभिरामन्त्र्य पितॄनर्घं प्रदापयेत् ७
नात्रापसव्यकरणं न पित्र्यं तीर्थमिष्यते
पात्राणां पूरणादीनि दैवेनैव हि कारयेत् ८
ज्येष्ठोत्तरकरान् युग्मान् कराग्राग्रपवित्रकान्
कृत्वार्घ्यं संप्रदातव्यं नैकैकस्यात्र दीयते ९
अनन्तर्गर्भिणं साग्रं कौशं द्विदलमेव च
प्रादेशमात्रं विज्ञेयं पवित्रं यत्र कुत्रचित् १४
एतदेव हि पिञ्जल्या लक्षणं समुदाहृतम्
आज्यस्योत्पवनार्थं यत्तदप्येतावदेव तु ११
एतत्प्रमाणमेवैके कौशीमेवार्द्रमंजरीम्
शुष्कां वा शीर्णकुसुमां पिञ्जलीं परिचक्षते १२
पित्र्यमन्त्रानु द्रवण आत्मालम्भेऽधमेक्षणे
अधोवायुसमुत्सर्गे प्रहासेऽनृतभाषणे १३
मार्ज्जारमशकस्पर्श आक्रुष्टे क्रोधसम्भवे
निमित्तेष्वेषु सर्वत्र कर्म कुर्वन्नपः स्पृशेत् १४
इति द्वितीयः खण्डः

२३५