प्रथमः खण्डः
अथाचाराध्यायः
तत्रादौ यज्ञोपवीतकर्मप्रकरणवर्णनम्
अथातो गोभिलोक्तानामन्येषां चैव कर्मणाम्
अस्पष्टानां विधिं सम्यग्दर्शयिष्ये प्रदीपवत् १
त्रिवृदूर्द्ध्ववृतं कार्यं तन्तुत्रयमधोवृतम्
त्रिवृत्तञ्चोपवीतं स्यात्तस्यैको ग्रन्थिरिष्यते २
पृष्ठवंशे च नाभ्यां च धृतं यद्विन्दते कटिम्
तद्धार्यमुपवीतं स्यान्नातोलम्बं नचोच्छ्रितम् ३
सदोपवीतिना भाव्यं सदा बद्धशिखेन च
विशिखो व्युपवातश्च यत्करोति न तत्कृतम् ४
त्रिःप्राश्यापो द्विरुन्मृज्य मुखमेतान्युपस्पृशेत्
आस्यनामाक्षिकर्णांश्च नाभिवक्षःशिरोंऽशकान् ५
संहताभिस्त्र्यङ्गुलिभिरास्यमेवमुपस्पृशेत्
अङ्गुष्ठेन प्रदेशिन्या घ्राणं चैवमुपस्पृशेत्
अङ्गुष्ठानामिकाभ्याञ्च चक्षुः श्रोत्रं पुनः पुनः ६
कनिष्ठाङ्गुष्ठयोर्न्नाभिं हृदयं तु तलेन वै
सर्वाभिस्तु शिरः पश्चाद्वाह चाग्रेण संस्पृशेत् ७
यत्रोपदिश्यते कर्म कर्तुरङ्गं न तूच्यते
दक्षिणस्तत्र विज्ञेयः कर्मणां पारगः करः ८
यत्रदिङ्नियमो न स्याज्जपहोमादिकर्मसु
तिस्रस्तत्र दिशः प्रोक्ता ऐन्द्रीसौम्यापराजिताः ९
तिष्ठन्नासीनः प्रह्वो वा नियमो यत्र नेदृशः
२३३
तदासीनेन कर्त्तव्यं न प्रह्वेण न तिष्ठता १०
गौरी पद्मा शची मेधा सावित्री विजया जया
देवसेना स्वधा स्वाहा मातरो लोकमातरः ११
हृष्टिः पुष्टिस्तथा तुष्टिरात्मदेवतया सह
गणेशेनाधिका ह्येतावृद्धौ पूज्याश्च षोडश १२
कर्मादिषु तु सर्वेषु मातरः सगणाधिपाः
पूजनीयाः प्रयत्नेन पूजिताः पूजयन्ति ताः १३
प्रतिमासु च शुभ्रासु लिखित्वा वा पटादिषु
अपिवाक्षतपुञ्जेषु नैवेद्यैश्च पृथग्विधैः १४
कुड्यलग्नां वसोर्द्धारां सप्तधारां घृतेन तु
कारयेत् पञ्चधारां वा नातिनीचां न चोच्छ्रिताम् १५
आयुष्याणि च शान्त्यर्थं जप्त्वा तत्र समाहितः
षड्भ्यः पितृभ्यस्तदनु भक्त्या श्राद्धमुपक्रमेत् १६
अनिष्ट्वा तु पितॄंच्छ्राद्धे न कुर्यात्कर्म वैदिकम्
तत्रापि मातरः पूर्वं पूजनीयाः प्रयत्नतः १७
वशिष्ठोक्तो विधिः कृत्स्नो द्रष्टव्योऽत्र निरामिषः
अतः परं प्रवक्ष्यामि विशेष इह यो भवेत् १८
इति प्रथमः खण्डः