मूलम् - MUM

दक्षस्मृतिः प्रथमोऽध्यायः
श्रीगणेशाय नमः अथादौ आश्रमवर्णनम् ।
सर्वधर्मार्थतत्त्वज्ञ सर्ववेदविदां वरः
पारगः सर्व्वविद्यानां दक्षो नाम प्रजापतिः १
उत्पत्तिः प्रलयश्चैव स्थितिः संहार एव च
आत्मा चात्मनि तिष्ठेत आत्मा ब्रह्मण्यवस्थितः २
ब्रह्मचारी गृहस्थश्च वानप्रस्थो यतिस्तथा
एतेषान्तु हितार्थाय दक्षः शास्त्रमकल्पयत् ३
जातमात्रः शिशुस्तावद्यावदष्टौ समा वयः
सहि गर्भसमो ज्ञेयो व्यक्तिमात्रप्रदर्शितः ४
भक्ष्याभक्ष्ये तथा पेये वाच्यावाच्ये तथानृते
तस्मिन् काले न दोषोऽस्ति स यावन्नोपनीयते ५
उपनीतस्य दोषोऽस्ति क्रियमाणैर्विगर्हितैः
अप्राप्तव्यवहारोऽसौ यावत् षोडशवार्षिकः ६
स्वीकरोति यदा वेदं चरेद्वेदव्रतानि च
ब्रह्मचारी भवेत्तावदूर्द्ध्वं स्नातो भवेद्गृही ७
द्विविधो ब्रह्मचारी तु स्मृतः शास्त्रे मनीषिभिः
उपकुर्वाणकस्त्वाद्यो द्वितीयो नैष्ठिकः स्मृतः ८
यो गृहाश्रममास्थाय ब्रह्मचारी भवेत् पुनः
न यतिर्न वनस्थश्च सर्व्वाश्रमविवर्ज्जितः ९
अनाश्रमी न तिष्ठेत्तु दिनमेकमपि द्विजः
आश्रमेण विना तिष्ठन् प्रायश्चित्तीयते हि सः १०
जपे होमे तथा दाने स्वाध्याये च रतस्तु यः
नासौ तत्फलमाप्नोति कुर्वाणोऽप्याश्रमाच्च्युतः
४५
त्रयाणामानुलोम्यं हि प्रातिलोम्यं न विद्यते ११
प्रातिलोम्येन यो याति न तस्मात् पापकृत्तमः
मेखलाजिनदण्डेन ब्रह्मचारी तु लक्ष्यते १२
गृहस्थो देवयज्ञाद्यैर्नखलोम्ना वनाश्रितः
त्रिदण्डेन यतिश्चैव लक्षणानि पृथक्पृथक् १३
यस्यैतल्लक्षणं नास्ति प्रायश्चित्ती नचाश्रमी
उक्त कर्म क्रमोनोक्तो न कालो मुनिभिः स्मृतः
द्विजानान्तु हितार्थाय दक्षस्तु स्वयमब्रवीत् १४
इति दाक्षे धर्मशास्त्रे प्रथमोऽध्यायः
अथ द्वितीयोऽध्यायः
प्रातरुत्थाय कर्त्तव्यं यद्द्विजेन दिने दिने
तत्सर्वं संप्रवक्ष्यामि द्विजानामुपकारकम् १
उदयास्तमयं यावन्न विप्रः क्षणिकोभवेत्
नित्यनैमित्तिकैर्मुक्तः काम्यैश्चान्यैरगर्हितैः २
यः स्वकर्म परित्यज्य यदन्यत्कुरुते द्विजः
अज्ञानाद्यदि वा मोहात्स तेन पतितो भवेत् ३
दिवसस्याद्यभागे तु कृत्यं तस्योपदिश्यते
द्वितीये च तृतीये च चतुर्थे पञ्चमे तथा ४
षष्ठे च सप्तमे चैव अष्टमे च पृथक् पृथक्
विभागेष्वेषु यत्कर्म तत्प्रवक्ष्याम्यशेषतः ५
उषःकाले तु सम्प्राप्ते शौचं कृत्वा यथार्थवत्
ततः स्नानं प्रकुर्वीत दन्तधावनपूर्वकम् ६
अत्यन्तमलिनः कायो नवच्छिद्रसमन्वितः
स्रवत्येष दिवारात्रौ प्रातःस्नानं विशोधनम् ७
क्लिद्यन्ति हि प्रसुप्तस्य इन्द्रियाणि स्रवन्ति च

४६

अङ्गानि समतां यान्ति उत्तमान्यधमैः सह ८
नानास्वेदसमाकीर्णः शयनादुत्थितः पुमान्
अन्नात्वा नाचरेत्कर्म जपहोमादि किञ्चन ९
प्रातरुत्थाय यो विप्रः प्रातस्नायी भवेत् सदा
समस्तजन्मजं पापं त्रिभिर्वर्षैर्व्यपोहति १०
उषस्युषसि यत्स्नानं सन्ध्यायामुदिते रवौ
प्राजापत्येन तत्तुल्यं महापातकनाशनम् ११
प्रातःस्नानं प्रशंसन्ति दृष्टादृष्टकरं हि तत्
सर्वमर्हति पूतात्मा प्रातःस्नायी जपादिकम् १२
स्नानादनन्तरं तावदुपस्पर्शनमुच्यते
अनेन तु विधानेन आचान्तः शुचिता मियात् १३
प्रक्षाल्य पादौ हस्तौ च त्रिः पिवेदम्बु वीक्षितम्
संवृत्याङ्गुष्ठमूलेन द्विः प्रमृज्यात्ततोमुखम् १४
संहत्य तिसृभिः पूर्वमास्यमेवमुपस्पृशेत्
ततः पादौ समभ्युक्ष्य अङ्गानि समुपस्पृशेत् १५
अङ्गुष्ठेन प्रदेशिन्या घ्राणं पश्चादनन्तरम्
अङ्गुष्ठानामिकाभ्याञ्च चक्षुःश्रोत्रे पुनः पुनः १६
कनिष्ठाङ्गुष्ठया नाभिं हृदयञ्च तलेन वै
सर्व्वाभिस्तु शिरः पश्चाद्वाहू चाग्रेण संस्पृशेत् १७
सन्ध्यायाञ्च प्रभाते च मध्याह्ने च ततः पुनः सन्ध्यां नोपासते यस्तु ब्राह्मणो हि विशेषतः १८
स जीवन्नेव शूद्रः स्यान्मृतः श्वा चैव जायते
सन्ध्याहीनोऽशुचिर्नित्यमनर्हः सर्वकर्मसु १९
यदन्यत्कुरुते कर्म न तस्य फलमश्नुते
सन्ध्याकर्मावसाने तु स्वयं होमो विधीयते
स्वयं होमे फलं यत्तु तदन्येन न जायते २०

४७

ऋत्विक्पुत्रो गुरुर्भ्राता भागिनेयोऽथ विट्पतिः
एभिरेव हुतं यत्तु तद्धुतं स्वयमेव हि २१
देवकार्य्यं ततः कृत्वा गुरुमङ्गलवीक्षणम्
देवकार्य्याणि पूर्व्वाह्णे मनुष्याणाञ्च मध्यमे २२
पितॄणामपराह्णे च कार्य्याण्येतानि यत्नतः
पौर्व्वाह्णिकन्तु यत् कर्म यदि तत्सायमाचरेत् २३
न तस्य फलमाप्नोति बन्ध्यास्त्रीमैथुनं यथा
दिवसस्याद्यभागे तु सर्वमेतद्विधीयते २४
द्वितीये च तथाभागे वेदाभ्यासो विधीयते
वेदाभ्यासो हि विप्राणां परमं तप उच्यते २५
ब्रह्मयज्ञः स विज्ञेयः षडङ्गसहितस्तु सः
वेदस्वीकरणं पूर्वं विचारोऽभ्यसनं जपः २६
ततोदानञ्च शिष्येभ्यो वेदाभ्यासो हि पञ्चधा
समित्पुष्पकुशादीनां स कालः समुदाहृतः २७
तृतीये चैव भागे तु पोष्यवर्गार्थसाधनम् पिता माता गुरुर्भार्य्या प्रजादीनाः समाश्रिताः २८
अभ्यागतोऽतिथिश्चान्यः पोष्यवर्ग उदाहृतः
ज्ञातिर्बन्धुजनः क्षीणस्तथानाथः समाश्रितः २९
अन्येऽप्यधनयुक्ताश्च पोष्यवर्ग उदाहृतः
भरणं पोष्यवर्गस्य प्रशस्तं स्वर्गसाधनम् ३०
नरकं पीडने चास्य तस्माद्यत्नेन तं भरेत्
सार्वभौतिकमन्नाद्यं कर्त्तव्यन्तु विशेषतः
ज्ञानविद्भ्यः प्रदातव्यमन्यथा नरकं व्रजेत् ३१
स जीवति य एवैको बहुभिश्चोपजीव्यते
जीवन्तो मृतकाश्चान्ये य आत्मम्भरयो नराः
वह्वर्थे जीव्यते कश्चित्कुटुम्बार्थे तथा परैः ३२

४८

आत्मार्थेऽन्यो न शक्नोति स्वोदरेणापि दुःखितः
दीनानाथविशिष्टेभ्यो दातव्यं भूतिमिच्छता ३३
अदत्तदाना जायन्ते परभाग्योपजीविनः
यद्ददाति विशिष्टेभ्यो यज्जुहोति दिने दिने ३४
तत्तु वित्तमहं मन्ये शेषं कस्यापि रक्षति
चतुर्थे च तथा भागे स्नानार्थं मृदमाहरेत् ३५
तिलपुष्पकुशादीनि स्नानञ्चाकृत्रिमे जले
नित्यं नैमित्तिकं काम्यं त्रिविधं स्नानमुच्यते ३६
तेषां मध्ये तु यन्नित्यं तत्पुनर्भिद्यते त्रिधा
मलापहरणं पश्चान्मन्त्रवत्तु जले स्मृतम् ३७
सन्ध्यास्नानमुभाभ्याञ्च स्नानभेदाः प्रकीर्तिताः
मार्जनं जलमध्ये तु प्राणायामो यतस्ततः ३८
उपस्थानं ततः पश्चात्सावित्र्या जप उच्यते
सविता देवता यस्या सुखमग्निस्त्रिधा स्थितः ३९
विश्वमित्रऋषिश्छन्दो गायत्री सा विशिष्यते
पञ्चमे च तथाभागे संविभागो यथार्हतः ४०
पितृदेवमनुष्याणां कीटानाञ्चोपदिश्यते
देवैश्चैव मनुष्यैश्च तिर्य्यग्भिश्चोपजीव्यते ४१
गृहस्थः प्रत्यहं यस्मात्तस्माज्ज्येष्ठाश्रमी गृही
त्रयाणामाश्रमाणान्तु गृहस्थो योनिरुच्यते ४२
तेनैव सीदमानेन सीदन्तीहेतरे त्रयः
मूलप्राणो भवेत् स्कन्दः स्कान्दाच्छाखाः सपल्लवाः ४३
मूलेनैव विनष्टेन सर्वमेतद्विनश्यति
तस्मात्सर्वप्रयत्नेन रक्षितव्यो गृहाश्रमी ४४
राज्ञा चान्यैस्त्रिभिः पूज्यो माननीयश्च सर्वदा
गृहस्थोऽपि क्रियायुक्तो न गृहेण गृहाश्रमी ४५

४९

न चैव पुत्रदारेण स्वकर्मपरिवर्ज्जितः
अस्नात्वा चाप्यहुत्वा चाजप्त्वाऽदत्त्वा च मानवः ४६
देवादीनामृणी भूत्वा नरकं प्रतिपद्यते
एक एव हि भुङ्क्तेऽन्नमपरोऽन्नेन भुज्यते ४७
न भुज्यते स एवैको योभुङ्क्तेऽन्नं ससाक्षिणा
विभागशीलो योनित्यं क्षमायुक्तोदयापरः ४८
देवतातिथिभक्तश्च गृहस्थः स तु धार्मिकः
दया लज्जा क्षमा श्रद्धा प्रज्ञा योगः कृतज्ञता ४९
एते यस्य गुणाः सन्ति स गृही मुख्य उच्यते
संविभागं ततः कृत्वा गृहस्थः शेषभुग्भवेत् ५०
भुक्त्वा तु सुखमास्थाय तदन्नं परिणामयेत्
इतिहासपुराणाद्यैः षष्ठञ्च सप्तमं नयेत् ५१
अष्टमे लोकयात्रा तु बहिः सन्ध्या ततः पुनः
होमो भोजनकञ्चैव यच्चान्यद्गृहकृत्यकम् ५२
कृत्वा चैवं ततः पश्चात् स्वाध्यायं किञ्चिदाहरेत्
प्रदोषपश्चिमौ यामौ वेदाभ्यासेन तौ नयेत् ५३
यामद्वयं शयानो हि ब्रह्मभूयाय कल्पते
नैमित्तिकानि काम्यानि निपतन्ति यथा यथा ५४
तथा तथैव कार्य्याणि न कालस्तु विधीयते
अस्मिन्नेव प्रयुञ्जानो ह्यस्मिन्नेव तु लीयते ५५
तस्मात्सर्वप्रयत्नेन कर्त्तव्यं सुखमिच्छता
सर्वत्र मध्यमौ यामौ हुतशेषं हविश्च यत्
भुञ्जानश्च शयानश्च ब्राह्मणो नावसीदति ५६
इति दाक्षे धर्मशास्त्रे द्वितीयोऽध्यायः

५०

अथ तृतीयोऽध्यायः
गृहस्थाश्रमवर्णनम्
सुधा नवगृहस्थस्य शब्दयामि नवैव तु
तथैव नव कर्माणि विकर्माणि तथा नव १
प्रच्छन्नानि नवान्यानि प्रकाश्यानि तथा नव
सफलानि नवान्यानि निष्फलानि नवैव तु २
अदेयानि नवान्यानि वस्तुजातानि सर्वदा
नवका नव निर्दिष्टा गृहस्थोन्नतिकारकाः ३
सुधावस्तूनि वक्ष्यामि विशिष्टे गृहमागते
मनश्चक्षुर्मुखं वाचं सौम्यं दद्याच्चतुष्टयम् ४
अभ्युत्थानमिहागच्छ पृच्छालापप्रियान्वितः
उपासनमनुव्रज्या कार्याण्येतानि यत्नतः ५
ईषद्दानानि चान्यानि भूमिरापस्तृणानि च
पादशौचं तथाभ्यङ्गमाश्रयः शयनन्तथा ६
किञ्चिच्चान्नं यथाशक्ति नास्यानश्नन् गृहे वसेत्
मृज्जलं चार्थिने देयमेतान्यपि सदा गृहे ७
सन्ध्या स्नानं जपो होमः स्वाध्यायो देवतार्च्चनम्
वैश्वदेवं तथातिथ्यमुद्धृतञ्चापि शक्तितः ८
पितृदेवमनुष्याणां दीनानाथतपस्विनाम्
मातापितृगुरूणाञ्च संविभागो यथार्हतः ९
एतानि नव कर्माणि विकर्माणि तथा पुनः
अनृतं पारदार्य्यञ्च तथाभक्ष्यस्य भक्षणम् १०
अगम्यागमनापेयपानं स्तेयञ्च हिंसनम्
अश्रौतकर्माचरणं मित्रधर्मवहिष्कृतम् ११
नवैतानि विकर्माणि तानि सर्वाणि वर्जयेत्
आयुर्वित्तं गृहच्छिद्रं मन्त्रमैथुनभेषजम् १२

५१

तपोदानावमानौ च नव गोप्यानि यत्नतः
प्रायोग्यमृणशुद्धिश्च दानाध्ययनविक्रयाः १३
कन्यादानं वृषोत्सर्गो रहः पापमकुत्सनम्
प्रकाश्यानि नवैतानि गृहस्थाश्रमिणस्तथा १४
मातापित्रोर्गुरौ मित्रे विनीते चोपकारिणि
दीनानाथविशिष्टेभ्यो दत्तन्तु सफलं भवेत् १५
धूर्त्ते वन्दिनि मन्दे च कुवैद्ये कितवे शठे
चाटुचारणचौरभ्यो दत्तं भवति निष्फलम् १६
सामान्यं याचितं न्यास आधिर्दाराश्च तद्धनम्
क्रमायातञ्च निक्षेपः सर्वस्वञ्चान्वये सति १७
आपत्स्वपि न देयानि नव वस्तूनि सर्वदा
यो ददाति स मूढात्मा प्रायश्चित्तीयते नरः १८
नवनवकवेत्तारमनुष्ठानपरं नरम्
इह लोके परे च श्रीः स्वर्गस्थञ्च न मुञ्चति १९
यथैवात्मा परस्तद्वद्द्रष्टव्यः सुखमिच्छता
सुखदुःखानि तुल्यानि यथात्मनि तथा परे २०
सुखं वा यदि वा दुःखं यत्किञ्चित् क्रियते परे
ततस्तत्तु पुनः पश्चात्सर्वमात्मनि जायते २१
न क्लेशेन विना द्रव्यं द्रव्यहीने कुतः क्रिया
क्रियाहीने न धर्मः स्याद्धर्महीने कुतः सुखम् २२
सुखं वाञ्छन्ति सर्वे हि तच्च धर्मसमुद्भवम्
तस्माद्धर्मः सदा कार्य्यः सर्ववर्णैः प्रयत्नतः २३
न्यायागतेन द्रव्येण कर्तव्यं पारलौकिकम्
दानञ्च विधिना देयं काले पात्रे गुणान्विते २४
समद्विगुणसाहस्रमानन्त्यञ्च यथाक्रमम्
दाने फलविशेषः स्याद्धिंसायां तावदेव तु २५

५२

सममब्राह्मणे दानं द्विगुणं ब्राह्मणब्रुवे
सहस्रगुणमाचार्य्ये त्वनन्तं वेदपारगे २६
विधिहीने तथा पात्रे यो ददाति प्रतिग्रहम्
न केवलं तद्विनश्येच्छेषमप्यस्य नश्यति २७
व्यसनप्रतिकाराय कुटुम्बार्थञ्च याचते
एवमन्विष्य दातव्यमन्यथा न फलं भवेत् २८
मातापितृविहीनन्तु संस्कारोद्वहनादिभिः
यः स्थापयति तस्येह पुण्यसंख्या न विद्यते ३०
न तच्छेयोऽग्निहोत्रेण नाग्निष्टोमेन लभ्यते
यच्छे्रयः प्राप्यते पुंसा विप्रेण स्थापितेन तु ३१
यद्यदिष्टतमं लोके यच्चापि दयितं गृहे
तत्तद्गुणवते देयं तदेवाक्षयमिच्छता ३२
इति दाक्षे धर्मशास्त्रे तृतीयोऽध्यायः
अथ चतुर्थोऽध्यायः
पत्नीमूलं गृहं पुंसां यदि च्छन्दोऽनुवर्तिनी
गृहाश्रमसमं नास्ति यदि भार्य्या वशानुगा १
तया धर्मार्थकामानां त्रिवर्गफलमश्नुते
प्राकाम्ये वर्त्तमाना तु स्नेहान्नतु निवारिता २
अवश्या सा भवेत्पश्चाद्यथा व्याधिरुपेक्षितः
अनुकूला नवाग्दुष्टा दक्षा साध्वी प्रियम्वदा ३
आत्मगुप्ता स्वामिभक्ता देवता सा न मानुषी ४
अनुकूलकलत्रो यस्तस्य स्वर्ग इहैव हि
प्रतिकूलकलत्रस्य नरको नात्र संशयः ५
स्वर्गेऽपि दुर्लभं ह्येतदनुरागः परस्परम्
रक्त एको विरक्तोऽन्यस्तस्मात् कष्टतरं नु किम् ६

५३

गृहवासः सुखार्थाय पत्नीमूलं गृहे सुखम्
सा पत्नी या विनीता स्याच्चितज्ञा वशवर्त्तिनी ७
दुःखा ह्यन्या सदा खिन्ना चित्तभेदः परस्परम्
प्रतिकूलकलत्रस्य द्विदारस्य विशेषतः ८
योषित्सर्वा जलौकेव भूषणाच्छादनाशनैः
सुभूत्यापि कृता नित्यं पुरुषं ह्यपकर्षति ९
जलौका रक्तमादत्ते केवलं सा तपस्विनी
इतरा तु धनं वित्तं मांसं वीर्यं बलं सुखम् १०
सशङ्का वालभावे तु यौवने विमुखी भवेत्
तृणवन्मन्यते पश्चाद्वृद्धभावे स्वकं पतिम् ११
अनुकूला नवाग्दुष्टा दक्षा साध्वी पतिव्रता
एभिरेव गुणैर्युक्ता श्रीरेव स्त्री न संशयः १२
या हृष्टमनसा नित्यं स्थानमानविचक्षणा
भर्त्तुः प्रीतिकरी नित्यं सा भार्य्या हीतरा जरा १३
शिष्यो भार्य्या शिशुर्भ्राता पुत्रो दासः समाश्रितः
यस्यैतानि विनीतानि तस्य लोके हि गौरवम् १४
प्रथमा धर्मपत्नी च द्वितीया रतिवर्द्धिनी
दृष्टमेव फलं तत्र नादृष्टमुपजायते १५
धर्मपत्नी समाख्याता निर्द्दोषा यदि सा भवेत्
दोषे सति न दोषः स्यादन्या भार्य्या गुणान्विता १६
अदृष्टापतितां भार्य्यां यौवने यः परित्यजेत्
स जीवनान्ते स्त्रीत्वञ्च बन्ध्यत्वञ्च समाप्नुयात् १७
दरिद्रं व्याधितं चैव भर्त्तारं यावमन्यते
शुनी गृध्री च मकरी जायते सा पुनः पुनः १८
मृते भर्तरि या नारी समारोहेद्धुताशनम्
सा भवेत्तु शुभाचारा स्वर्गलोके महीयते १९

५४

व्यालग्राही यथा व्यालं बलादुद्धरते विलात्
तथा सा पतिमुद्धृत्य तेनैव सह मोदते २०
चाण्डालप्रत्यवसितपरिव्राजकतापसाः
तेषां जातान्यपत्यानि चाण्डालैः सह वासयेत् २१
इति दाक्षे धर्मशास्त्रे चतुर्थोऽध्यायः
अथ पञ्चमोऽध्यायः
उक्तं शौचमशौचञ्च कार्य्यं त्याज्यं मनीषिभिः
विशेषार्थं तयोः किञ्चिद्वक्ष्यामि हितकाम्यया १
शौचे यत्नः सदाकार्य्यः शौचमूलोद्विजः स्मृतः
शौचाचारविहीनस्य समस्तनिष्फलाः क्रियाः २
शौचञ्च द्विविधं प्रोक्तं बाह्यमाभ्यन्तरन्तथा
मृज्जलाभ्यां स्मृतं बाह्यं भावशुद्धिस्तथान्तरम् ३
अशौचाद्धि वरं बाह्यं तस्मादाभ्यन्तरं वरम्
उभाभ्याञ्च शुचिर्यस्तु स शुचिर्नेतरः शुचिः ४
एका लिङ्गे गुदे तिस्रो दश वामकरे तथा
उभयोः सप्त दातव्या मृदस्तिस्रस्तु पादयोः ५
गृहस्थशौचमाख्यातं त्रिष्वन्येषु यथाक्रमम्
द्विगुणं त्रिगुणञ्चैव चतुर्थस्य चतुर्गुणम् ६
अर्द्धप्रसृतिमात्रन्तु प्रथमा मृत्तिका स्मृता
द्वितीया च तृतीया च तदर्द्धं परिकीर्तिता ७
लिङ्गेऽप्यत्र समाख्याता त्रिपर्वी पूर्य्यते यया
एतच्छौचं गृहस्थानां द्विगुणं ब्रह्मचारिणाम् ८
त्रिगुणन्तु वनस्थानां यतीनाञ्च चतुर्गुणम्
दातव्यमुदकन्तावन्मृदभावो यथा भवेत् ९
मृदा जलेन शुद्धिः स्यान्न क्लेशो न धनव्ययः

५५

यस्य शौचेऽपि शैथिल्यं चित्तं तस्य परीक्षितम् १०
अन्यदेव दिवा शौचं रात्रावन्यद्विधीयते
अन्यदापत्सु विप्राणामन्यदेव ह्यनापदि ११
दिवोदितस्य शौचस्य रात्रावर्द्धं विधीयते
तदर्द्धमातुरस्याहुस्त्वरायामर्द्धमध्वनि १२
न्यूनाधिकं न कर्तव्यं शौचे शुद्धिमभीप्सिता
प्रायश्चित्तेन युज्येत विहितातिक्रमे कृते १३
इति दाक्षे धर्मशास्त्रे पञ्चमोऽध्यायः
अथ षष्ठोऽध्यायः
सूतकं तु प्रवक्ष्यामि जन्ममृत्युसमुद्भवम्
यावज्जीवं तृतीयन्तु यथावदनुपूर्वशः १
सद्यः शौचं तथैकाहो द्वित्रिचतुरहस्तथा
दशाहो द्वादशाहश्च पक्षो मासस्तथैव च २
मरणान्तं तथा चान्यद्दशपक्षन्तु सूतके
उपन्यस्तक्रमेणैव वक्ष्याम्यहमशेषतः ३
ग्रन्थार्थं यो विजानाति वेदमङ्गैः समन्वितम्
सकल्पं सरहस्यञ्च क्रियावांश्चेन्न सूतकी ४
राजर्त्विग्दीक्षितानाञ्च बाले देशान्तरे तथा
व्रतिनां सत्रिणाञ्चैव सद्यः शौचं विधीयते ५
एकाहस्तु समाख्यातो योऽग्निवेदसमन्वितः
हीने हीनतरे चैव द्वित्रिचतुरहस्तथा ६
जातिविप्रो दशाहेन द्वादशाहेन भूमिपः
वैश्य पञ्चदशाहेन शूद्रो मासेन शुद्ध्यति ७
अस्नात्वा चाप्यहुत्वा च भुङ्क्तेऽदत्वा च यः पुनः
एवं विधस्य सर्वस्य सूतकं समुदाहृतम्

५६

व्याधितस्य कदर्य्यस्य ऋणग्रस्तस्य सर्वदा
क्रियाहीनस्य मूर्खस्य स्त्रीजितस्य विशेषतः ८
व्यसनासक्तचित्तस्य पराधीनस्य नित्यशः
श्रद्धात्यागविहीनस्य भस्मान्तं सूतकं भवेत् ९
न सूतकं कदाचित्स्याद्यावज्जीवन्तु सूतकम्
एवं गुणविशेषेण सूतकं समुदाहृतम् १०
सूतके मृतके चैव तथा च मृतसूतके
एतत्संहतशौचानां मृतशौचेन शुद्ध्यति ११
दानं प्रतिग्रहो होमः स्वाध्यायश्च निवर्तते
दशाहात्तु परं शौचं विप्रोऽर्हति च धर्मवित् १२
दानञ्च विधिना देयं अशुभात्तारकं हि तत्
मृतकान्ते मृतो यस्तु सूतकान्ते च सूतकम् १३
एतत्संहतशौचानां पूर्वाशौचेन शुद्ध्यति
उभयत्र दशाहानि कुलस्यान्नं न भुज्यते १४
चतुर्थेऽहनि कर्तव्यमस्थि सञ्चयनं द्विजैः
ततः सञ्चयनादूर्द्ध्वमङ्गस्पर्शो विधीयते १५
वर्णानामानुलोम्येन स्त्रीणामेको यदा पतिः
दशषट्त्र्यहमेकाहः प्रसवे सूतकं भवेत् १६
यज्ञकाले विवाहे च देशभङ्गे तथैव च
हूयमाने तथाग्नौ च नाशौचं मृतसूतके १७
स्वस्थकाले त्विदं सर्वमशौचं परिकीर्तितम्
आपद्गतस्य सर्वस्य सूतके न तु सूतकम् १८
इति दाक्षे धर्मशास्त्रे षष्ठोऽध्यायः
अथ सप्तमोऽध्यायः
लोको वशीकृतो येन येन चात्मा वशीकृतः

५७

इन्द्रियार्थो जितो येन तं योगं प्रब्रवीम्यहम् १
प्राणायामस्तथा ध्यानं प्रत्याहारस्तु धारणा
तर्कश्चैव समाधिश्च षडङ्गो योग उच्यते २
नारण्यसेवनाद्योगो नानेकग्रन्थचिन्तनात्
व्रतैयज्ञैस्तपोभिश्च न योगः कस्यचिद्भवेत् ३
न च पथ्याशनाद्योगो न नासाग्रनिरीक्षणात्
न च शास्त्रातिरिक्तेन शौचेन स भवेत्क्वचित् ४
न मौनमन्त्रकुहकैरनेकैः सुकृतैस्तथा
लोकयात्रावियुक्तस्य योगो भवति कस्यचित् ५
अभियोगात्तथाभ्यासात्तस्मिन्नेव तु निश्चयात्
पुनः पुनश्च निर्वेदाद्योगः सिद्ध्यति नान्यथा ६
आत्मचिन्ताविनोदेन शौचक्रीडनकेन च
सर्व्वभूतसमत्वेन योगः सिध्यति नान्यथा ७
यश्चात्मनिरतो नित्यमात्मक्रीडस्तथैव च
आत्मनिष्ठश्च सततमात्मन्येव स्वभावतः ८
रतश्चैव स्वयं तुष्टः सन्तुष्टो नान्यमानसः
आत्मन्येव सुतृप्तोऽसौ योगस्तस्य प्रसिद्ध्यति ९
सुप्तोऽपि योगयुक्तः स्याज्जाग्रच्चापि विशेषतः
ईदृक्चेष्टः स्मृतः श्रेष्ठो गरिष्ठो ब्रह्मवादिनाम् १०
य आत्मव्यतिरेकेण द्वितीयं नैव पश्यति
ब्रह्मीभूय स एवं हि दक्षपक्ष उदाहृतः ११
विषयासक्तचित्तो हि यतिर्मोक्षं न विन्दति
यत्नेन विषयासक्तिं तस्माद्योगी विवर्जयेत् १२
विषयेन्द्रियसंयोगः केचिद्योगं वदन्ति हि
अधर्मो धर्मरूपेण गृहीतस्तैरपण्डितैः १३
मनसश्चात्मनश्चैव संयोगञ्च तथापरे

५८

उक्तानामधिका ह्येते केवलं योगवञ्चिताः १४
वृत्तिहीनं मनः कृत्वा क्षेत्रज्ञं परमात्मनि
एकीकृत्य विमुच्येत योगोऽयं मुख्य उच्यते १५
कषायमोहविक्षेपलज्जाशङ्कादिचेतसः
व्यापारास्तु समाख्यातास्तान् जित्वा वशमानयेत् १६
कुटुम्वैः पञ्चभिर्ग्राम्यैः षष्ठस्तत्र महत्तरः
देवासुरमनुष्यैस्तु स जेतुं नैव शक्यते १७
वलेन परराष्ट्राणि गृह्णन् शूरस्तु नोच्यते
जितो येनेन्द्रियग्रामः स शूरः कथ्यते बुधैः १८
बहिर्मुखानि सर्व्वाणि कृत्वा चाभिमुखानि वै
सर्वञ्चैवेन्द्रियग्रामं मनश्चात्मनि योजयेत् १९
सर्वभावविनिर्मुक्तः क्षेत्रज्ञं ब्रह्मणि न्यसेत्
एतद्ध्यानञ्च योगश्च शेषाः स्युर्ग्रन्थविस्तराः २०
त्यक्त्वा विषयभोगांश्च मनो निश्चलतां गतम्
आत्मशक्तिस्वरूपेण समाधिः परिकीर्त्तितः २१
चतुर्णां सन्निकर्षेण पदं यत्तदशाश्वतम्
द्वयोस्तु सन्निकर्षेण शाश्वतं ध्रुवमक्षयम् २२
यन्नास्ति सर्व्वलोकस्य तदस्तीति विरुद्ध्यते
कथ्यमानं तथान्यस्य हृदये नावतिष्ठते २३
स्वसंवेद्यं हि तद्ब्रह्म कुमारीमैथुनं यथा
अयोगी नैव जानाति जातोन्धो हि यथा घटम् २४ नित्याभ्यसनशीलस्य सुसंवेद्यं हि तद्भवेत्
तत्सूक्ष्मत्वादनिर्देश्यं परं ब्रह्म सनातनम् २५
बुधस्त्वाभरणं भावं मनसालोचनं यथा
मन्यते स्त्री च मूर्खश्च तदेव बहुमन्यते २६
सत्त्वोत्कटाः सुराश्चापि विषयेण वशीकृताः

५९

प्रमादिभिः क्षुद्रसत्वैर्मानुषैरत्र का कथा २७
तस्मात्त्यक्तकषायेण कर्त्तव्यं दण्डधारणम्
इतरस्तु न शक्नोति विषयैरभिभूयते २८
न स्थिरं क्षणमप्येकमुदकं हि यथोर्मिभिः
वाताहतं तथा चित्तं तस्मात्तस्य न विश्वसेत् २९
त्रिदण्डव्यपदेशेन जीवन्ति बहवो नराः
यो हि ब्रह्म न जानाति न त्रिदण्डार्ह एव सः ३०
ब्रह्मचर्य्यं सदा रक्षेदष्टधा मैथुनं पृथक्
स्मरणं कीर्त्तनं केलिः प्रेक्षणं गुह्यभाषणम् ३१
सङ्कल्पोऽध्यवसायश्च क्रियानिष्पत्तिरेव च
एतन्मैथुनमष्टाङ्गं प्रवदन्ति मनीषिणः ३२
न ध्यातव्यं न वक्तव्यं कर्त्तव्यं कदाचन
एतैः सर्वैः सुसम्पन्नो यतिर्भवति नेतरः ३३
पारिव्रज्यं गृहीत्वा च यो धर्मे नावतिष्ठते
श्वपदेनाङ्कयित्वा तं राजा शीघ्रं प्रवासयेत् ३४
एको भिक्षुर्यथोक्तस्तु द्वौ चैव मिथुनं स्मृतम्
त्रयो ग्रामस्तथा ख्यात ऊर्द्ध्वन्तु नगरायते ३५
नगरं हि न कर्त्तव्यं ग्रामो वा मिथुनं तथा
एतत्त्रयं प्रकुर्व्वाणः स्वधर्माच्च्यवते यतिः ३६
राजवार्त्तादि तेषान्तु भिक्षावार्त्ता परस्परम्
स्नेहपैशून्यमात्सर्य्यं सन्निकर्षादसंशयम् ३७
लाभपूजानिमित्तं हि व्याख्यानं शिष्यसंग्रहः
एते चान्ये च बहवः प्रपञ्चाः कुतपस्विनाम् ३८
ध्यानं शौचं तथा भिक्षा नित्यमेकान्तशीलता
भिक्षोश्चत्वारि कर्माणि पञ्चमो नोपपद्यते ३९
तपोजपैः कृशीभूतो व्याधितोऽवसथावहः

६०

वृद्धो ग्रहगृहीतश्च यश्चान्यो विकलेन्द्रियः ४०
नीरुजश्च युवा चैव भिक्षुर्नावसथावहः
स दूषयति तत्स्थानं बुधान् पीडयतीति च ४१
नीरुजश्च युवा चैव ब्रह्मचर्य्याद्विनश्यति
ब्रह्मचर्य्याद्विनष्टस्तु कुलञ्चैव तु नाशयेत् ४२
वसन्नावसथे भिक्षुर्मैथुनं यदि सेवते
तस्यावसथनाथस्य मूलान्यपि निकृन्तति ४३
आश्रमे तु यतिर्यस्य मुहूर्त्तमपि विश्रमेत्
किन्तस्यान्येन धर्मेण कृतकृत्योऽभिजायते ४४
समितं यद्गृहस्थेन पापमामरणान्तिकम्
स निर्दहति तत्सर्व्वमेकरात्रोषितो यतिः ४५
योगाश्रमपरिश्रान्तं यस्तु भोजयते यतिम्
निखिलं भोजितं तेन त्रैलोक्यं सचराचरम् ४६
यस्मिन् देशे वसेद्योगी ध्यानयोगविचक्षणः
सोऽपि देशो भवेत्पूतः किंपुनस्तस्य वान्धवाः ४७
द्वैतञ्चैव तथाद्वैतं द्वैताद्वैतं तथैव च न द्वैतं नापि चाद्वैतमित्येतत्परमार्थिकम् ४८
नाहं नैवान्यसम्बन्धो ब्रह्मभावेन भावितः
ईदृशायामवस्थायामवाप्यं परमं पदम् ४९
द्वैतपक्षाः समाख्याता येऽद्वैते तु व्यवस्थिताः
अद्वैतिनां प्रवक्ष्यामि यथा धर्मः सुनिश्चितः ५०
तत्रात्मव्यतिरेकेण द्वितीयं यदि पश्यति
ततः शास्त्राण्यधीयन्ते श्रूयन्ते ग्रन्थसञ्चयाः ५१
दक्षशास्त्रं यथा प्रोक्तमशेषाश्रममुत्तमम्
अधीयन्ते तु ये विप्रास्ते यान्त्यमरलोकताम् ५२
इदन्तु यः पठेद्भक्त्या शृणुयादधमोऽपिवा

६१

स पुत्रपौत्रपशुमान् कीर्त्तिञ्च समवाप्नुयात् ५३
श्रावयित्वा त्विदं शास्त्रं श्राद्धकालेऽपि वा द्विजः
अक्षयं भवति श्राद्धं पितृभ्यश्चोपजायते ५४
इति दाक्षे धर्मशास्त्रे सप्तमोऽध्यायः
समाप्ता चेयं दक्षस्मृतिः
᐀ेफेरेनचेख्
स्मउतस्ि अनदअरबहअ
ण वेलभ ीण्ज्ञेलहख्ि न्अगण १९८१। पभ ५६९भ

६२