०७

सप्तमो ऽध्यायः

लोको वशीकृतो येन येन चात्मा वशीकृतः ।
इन्द्रियार्थो जितो येन तं योगम् प्रब्रवीम्य् अहम् ॥ ७।१

प्राणायामस् तथा ध्यानं प्रत्याहार तु धारणा ।
तर्कश् चैव समाधिश् च षडङ्गो योग उच्यते ॥ ७।२

नारण्यसेवनाद् योगो नानेकग्रन्थचिन्तनात् ।
व्रतैर् यज्ञैस् तपोभिर् वा न योगः कस्यचिद् भवेत् ॥ ७।३

न च पद्मासनाद् योगो न नासाग्रनिरीक्षणात् ।
न च शास्त्रातिरिक्तेन शौचेन स भवेत् क्वचित् ॥ ७।४

न मौनमन्त्रकुहकैर् अनेकैः सुकृतैस् तथा ।
लोकयात्राभियुक्तस्य न योगः कस्यचिद् भवेत् ॥ ७।५

अभियोगात् तथाभ्यासात् तस्मिन्न् एव तु निश्चयात् ।
पुनः पुनश् च निर्वेदाद् योगः सिध्यति योगिनः ॥ ७।६

आत्मचिन्ताविनोदेन शौचेन क्रीडनेन च ।
सर्वभूतसमत्वेन योगः सिध्यति नान्यथा ॥ ७।७

यश् चात्मनि रतो नित्यम् आत्मक्रीडस् तथैव च ।
आत्मानन्दश् च सततम् आत्मन्य् एव समाहितः ॥ ७।८

ततश् चैव स्वयं तुष्टः सन्तुष्टो नान्यमानसः ।
नित्यं चैव सुतृप्तो यो योगस् तस्य प्रसिध्यति ॥ ७।९

सुप्तो’ पि योगयुक्तः स्याज् जाग्रंश् चैव विशेषतः ।
इदृक्चेष्टः स्मृतः श्रेष्ठो वरिष्ठो ब्रह्मवादिनाम् ॥ ७।१०

यस् त्व् आत्मव्यतिरेकेण द्वितीयं नैव पश्यति ।
ब्रह्मभूतः स एवं हि दक्षपक्ष उदाहृतः ॥ ७।११

विषयासक्तचित्तो हि कश्चिद् योगं न विन्दति ।
यत्नेन विषयासङ्गं तस्माद् योगी विवर्जयेत् ॥ ७।१२

विषयेन्द्रियसंयोगं केचिद् योगं वदन्ति वै ।
अधर्मो धर्मबुद्ध्या तु गृहीतस् तैर् अपण्डितैः ॥ ७।१३

आत्मनो मनसश् चैव संयोगञ् च तथापरे ।
उत्तानमनसो ह्य् एते केवलं योगवञ्चिताः ॥ ७।१४

वृत्तिहीनं मनः कृत्वा क्षेत्रज्ञे परमात्मनि ।
एकीकृत्य विमुच्येत योगयुक्तः स उच्यते ॥ ७।१५

कषाय मोहविक्षेपलज्जा शङ्कादिचेतसः ।
व्यापारास् तु समाख्यातास् तान् जित्वा वशम् आनयेत् ॥ ७।१६

कुटुम्बैः पञ्चभिर् ग्राम्यैः षष्ठस् तत्र महत्तमः ।
देवासुरमनुष्यैश् च स जेतुं नैव शक्यते ॥ ७।१७

बलेन परराष्ट्राणि गृह्णन् शूरस् तु नोच्यते ।
जितो येनेन्द्रियग्रामः स शूरः कथ्यते बुधैः ॥ ७।१८

बहिर्मुखानि सर्वाणि कृत्वा चाभिमुखानि वै ।
सर्वञ् चैवेन्द्रियग्रामं मनश् चात्मनि योजयेत् ॥ ७।१९

सर्वभावविनिर्मुक्तः क्षेत्रज्ञं ब्रह्मणि न्यसेत् ।
एतद् ध्यानञ् च योगश् च शेषो ऽन्यो ग्रन्थविस्तरः ॥ ७।२०

त्यक्त्वा विषयभोगांश् च मनो निश्चलतां गतम् ।
आत्मशक्तिस्वरूपेण समाधिः परिकीर्तितः ॥ ७।२१

चतुर्णां सन्निकर्षेण यत् फलं तद् अशाश्वतम् ।
द्वयोस् तु सन्निकर्षेण शाश्वतं ध्रुवम् अक्षयम् ॥ ७।२२

यन् नास्ति सर्वलोकस्य तद् अस्तीति विरुध्यते ।
कथ्यमानं तदन्यस्य हृदये नावतिष्ठते ॥ ७।२३

स्वयं वेद्यं हि तद् ब्रह्म कुमारीमैथुनं यथा ।
अयोगी नैव जानाति जात्यन्धो हि यथा घटम् ॥ ७।२४

नित्याभ्यसनशीलस्य स्वयं वेद्यं हि तद् भवेत् ।
तत् सूक्ष्मत्वाद् अनिर्देश्यं परं ब्रह्म सनातनम् । ७।२५

बुधा ह्य् आभरणं भारं मलम् आलेपनं यथा ।
मन्यन्ते स्त्री च मूर्खश् च तद् एव बहु मन्यते ॥ ७।२६

सत्त्वोत्कटाः सुराः सर्वे विषयैस् तु वशीकृताः ।
किम् पुनश् च क्षुद्रसत्त्वैर् मनुष्यैर् अत्र का कथा ॥ ७।२७

तस्मात् त्यक्तकषायेन कर्तव्यं दण्डधारणम् ।
इतरस् तु न शक्नोति विषयैर् अभिभूयते ॥ ७।२८

न स्थिरं क्षणम् अप्य् एकम् उदकं हि यथोर्मिभिः ।
वाताहतं तथा चित्तं तस्मात् तत्र न विश्वसेत् ॥ ७।२९

त्रिदण्डिव्यपदेशेन जीवन्ति बहवो नराः ।
यस् तु ब्रह्म न जानाति त्रिदण्डार्हो भवेन् न सः ॥ ७।३०

ब्रह्मचर्यं सदा रक्षेद् अष्टधा मैथुनं पृथक् ।
स्मरणं कीर्तनं केलिः प्रेक्षणं गुह्यभाषणम् ॥ ७।३१

सङ्कल्पो ऽध्यवसायश् च क्रियानिष्पत्तिर् एव च ।
एतन् मैथुनम् अष्टाङ्गं प्रवदन्ति मनीषिनः ॥ ७।३२

न ध्यातव्यं न वक्तव्यं न श्रोतव्यं कदाचन ।
एतैः सर्वैः सुसम्पन्नो यतिर् भवति नेतरः ॥ ७।३३

पारिव्राज्यं गृहीत्वा च यस् त्व् अधर्मेण तिष्ठति ।
श्वपदेनाङ्कयित्वा तं राजा शिघ्रं प्रवासयेत् ॥ ७।३४

एको भिक्षुर् यथोक्तस् तु द्वौ चैव मिथुनं स्मृतम् ।
त्रयो ग्रामस् तथा ख्यात ऊर्ध्वन् तु नगरायते ॥ ७।३५

नगरं हि न कर्तव्यं ग्रामो वा मिथुनं तथा ।
एतत् त्रयं प्रकुर्वाणः स्वधर्माच् च्यवते यतिः ॥ ७।३६

राजवार्ता तथा तेषां भिक्षावार्त्ता परस्परम् ।
स्नेहपैशुन्यमात्सर्यं सन्निकर्षान् न संशयः ॥ ७।३७

लाभपूजानिमित्तं हि व्याख्यानं शिष्यसङ्ग्रहः ।
एते चान्ये च बहवः प्रपञ्चाः कुतपस्विनाम् ॥ ७।३८

ध्यानं शौचं तथा भिक्षा नित्यं एकान्तशीलता ।
भिक्षोश् चत्वारि कर्माणि पञ्चमो नोपपद्यते ॥ ७।३९

तपोजपैः कृशीभूतो व्याधितो ऽवसथावहः ।
वृद्धो ग्रहगृहीतश् च यश् चान्यो विकलेन्द्रियः ॥ ७।४०

नीरुजश् च युवा चैव भिक्षुर् नावसथावहः ।
स दूषयति तत् स्थानं बुधान् पीडयतीति च ॥ ७।४१

नीरुजश् च युवा चैव ब्रह्मचर्याद् विनश्यति ।
ब्रह्मचर्याद् विनष्टस् तु कुलं गोत्रञ् च नाशयेत् ॥ ७।४२

वसन्न् आवसथे भिक्षुर् मैथुनं यदि सेवते ।
तस्यावसथनाशः स्यात् कुलान्य् अपि निकृन्तति ॥ ७।४३

आश्रमे तु यतिर् यस्य मुहूर्तम् अपि विश्रमेत् ।
किं तस्यान्येन धर्मेण कृतकृत्यो ऽभिजायते ॥ ७।४४

सञ्चितं यद् गृहस्थेन पापम् आमरणान्तिकम् ।
तत् सर्वं नाशयेत् पापम् एकरात्रोषितो यतिः ॥ ७।४५

ध्यानयोगपरिश्रान्तं यस् तु भोजयते यतिम् ।
निखिलं भोजितं तेन त्रैलोक्यं सचराचरम् ॥ ७।४६

यस्मिन् देशे वसेद् योगी ध्यानयोगविचक्षणः ।
सो ऽपि देशो भवेत् पूतः किं पुनस् तस्य बान्धवाः ॥ ७।४७

द्वैतं चैव तथाद्वैतं द्वैताद्वैतं तथैव च ।
न द्वैतं नापि चाद्वैतम् इत्य् एतत् पारमार्थिकम् ॥ ७।४८

नाहं नैवान्यसम्बन्धो ब्रह्म भावेन भावितः ।
ईदृश्यायाम् अवस्थायां अवाप्यं परमं पदम् । ७।४९

द्वैतपक्षाः समाख्यातो ये ऽद्वैते तु व्यवस्थिताः ।
अद्वैतिनां प्रवक्ष्यामि यथा शास्त्रस्य निश्चयः ॥ ७।५०

अत्रात्मव्यतिरेकेण द्वितीयं नैव पश्यति ।
अतः शास्त्राण्य् अधीयन्ते श्रूयन्ते ग्रन्थविस्तरात् ॥ ७।५१

दक्षशास्त्रे पुरा प्रोक्तम् आश्रमप्रतिपादनम् ।
अधीयन्ते तु ये विप्रास् ते यान्त्य् अमरलोकताम् ॥ ७।५२

य इदं पठते भक्त्या शृणुयाद् वापि मानवः ।
स पुत्रपौत्रपशुमान् कीर्तिञ् च समवाप्नुयात् ॥ ७।५३

श्रावयित्वा त्व् इदं शास्त्रं श्राद्धकाले द्विजोत्तमः ।
अक्षयं भवति श्राद्धं पितृभ्यश् चोपजायते ॥ ७।५४

इति दाक्षे धर्मशास्त्रे सप्तमो ऽध्यायः ।
समाप्ता चेयं दक्षसंहिता ॥