षष्ठो ऽध्यायः
सूतकं तु प्रवक्ष्यामि जन्ममृत्युनिमित्तकम् ।
यावज् जीवं तृतीयं तु यथावद् अनुपूर्वशः ॥ ६।१
सद्यः शौचं तथैकाहो द्वित्रिचतुरहस् तथा ।
दशाहो द्वादशाहस् च पक्षो मासस् तथैव च ॥ ६।२
मरणार्थं तथा चान्यद् दशपक्षास् तु सूतके ।
उपन्यासक्रमेणैव वक्ष्याम्य् अहम् अशेषतः ॥ ६।३
ग्रन्थार्थं यो विजानाति वेदम् अङ्गैः समन्वितम् ।
सकल्पं सरहस्यञ् च क्रियावांश् च न सूतकी ॥ ६।४
राजर्त्विग्दीक्षितानाञ् च बाले देशान्तरे तथा ।
व्रतिनां सत्रिणञ् चैव सद्यः शौचं विधीयते ॥ ६।५
एकाहाच् छुध्यते विप्रो यो ऽग्निवेदसमन्वितः ।
हीने हीनतरे चैव द्वित्रिचतुरहस् तथा ॥ ६।६
शुध्येद् विप्रो दशाहेन द्वादशाहेन भूमिपः ।
वैश्यः पञ्चदशाहेन शूद्रो मासेन शुध्यति ॥ ६।७
अस्नात्वा चाप्य् अहुत्वा चादत्त्वा यस् तु भुञ्जते ।
एवंविधानां सर्वेषां यावज् जीवं ?? तु सूतकम् ॥ ६।८
व्याधितस्य कदर्यस्य ऋणग्रस्तस्य सर्वदा ।
क्रियाहीनस्य सर्वस्य स्त्रीजितस्य विशेषतः ॥ ६।९
व्यसनासक्तचित्तस्य पराधीनस्य नित्यशः ।
श्रद्धात्यागविहीनस्य भस्मान्तं सूतकं भवेत् ॥ ६।१०
न सूतकं कदाचित् स्याद् यावज् जीवं ?? तु सूतकम् ।
एवंगुणविशेषेण सूतकं समुदाहृतम् ॥ ६।११
सूतके मृतके चैव तथा च मृतसूतके ।
एतत् संहतशौचानां मृतशौचेन शुध्यति ॥ ६।१२
दानम् प्रतिग्रहो होमः स्वाध्यायश् च निवर्त्तते ।
दशाहात् तु परं शौचं विप्रो ऽर्हति च धर्मवित् ॥ ६।१३
दानञ् च विधिवद् देयम् अशुभात् तारकं हि तत् ।
मृतकान्ते मृतो यस् तु सूतकान्ते प्रसूयते ॥ ६।१४
एवं संहतशौचानां पूर्वाशौचेन शुध्यति ।
उभयत्र दशाहानि कुलस्यान्नं न भुज्यते ॥ ६।१५
चतुर्थे ऽहनि कर्तव्यम् अस्थिसञ्चयनं द्विजैः ।
अस्थिसञ्चयनाद् ऊर्धवम् अङ्गशौचं विधीयते ॥ ६।१६
वर्णानाम् आनुलोम्येन स्त्रीणाम् एको यदा पतिः ।
दशाहषट्त्र्यहैकाहं प्रसवे सूतकं भवेत् ॥ ६।१७
यज्ञकाले विवाहे च दैवयोगे तथैव च ।
हूयमाने तथा चाग्नौ नाशौचं नैव सूतकम् ॥ ६।१८
स्वस्थकाले त्व् इदं सर्वम् अशौचं परिकीर्तितम् ।
आपद्गतस्य सर्वस्य सूतके ऽपि न सूतकम् ॥ ६।१९
इति दाक्षे धर्मशास्त्रे षष्ठो ऽध्यायः ।