पञ्चमो ऽध्यायः
उक्तं शौचम् अशौचञ् च कार्यं त्याज्यं मनीषिभिः ।
विशेषार्थं तयोः किञ्चिद् वक्ष्यामि हितकाम्यया ॥ ५।१
शौचे यत्नः सदा कार्यः शौचमूलो द्विजः स्मृतः ।
शौचाचारविहीनस्य समस्ता निष्फलाः क्रियाः ॥ ५।२
शौचं तु द्विविधं प्रोक्तं बाह्यम् आभ्यन्तरं तथा ।
मृज्जलाभ्यां स्मृतं बाह्यं भावशुद्धिस् तथापरम् ॥ ५।३
अशौचाद् धि वरं बाह्यं तस्माद् आभ्यन्तरं वरम् ।
उभाभ्याञ् च शुचिर् यस् तु स शुचिर् नेतरः शुचिः ॥ ५।४
एका लिङ्गे गुदे तिस्रो दश वामकरे तथा ।
पञ्चापाने दशैकस्मिन् उभयोः सप्त मृत्तिका ॥ ५।५
गृहस्थशौचम् आख्यातं त्रिष्व् अन्येषु यथाक्रमम् ।
द्विगुणं त्रिगुणञ् चैव चतुर्थस्य चतुर्गुणम् ॥ ५।६
अर्धप्रसृतिमात्रा तु प्रथमा मृत्तिका स्मृता ।
द्वितीया च तृतीया च तदर्धं परिकीर्तिता ॥ ५।७
लिङ्गे ऽप्य् अत्र समाख्याता त्रिपर्वी पूर्यते यया ।
एतच् छौचं गृहस्थानां द्विगुणं ब्रह्मचारिणाम् । ५।८
त्रिगुणं तु वनस्थानां यतीनां च चतुर्गुणम् ।
दातव्यम् उदकं तावन् मृदभावो यथा भवेत् ॥ ५।९
मृदा जलेन शुद्धिः स्यान् न क्लेशो न धनव्ययः ।
यस्य शौचे ऽपि शैथिल्यं वृत्तं तस्य परीक्षितम् ॥ ५।१०
अन्यद् एव दिवा शौचम् अन्यद् रात्रौ विधीयते ।
अन्यद् आपदि निर्दिष्टम् अन्यद् एव ह्य् अनापदि ॥ ५।११
यद् दिवा विहितं शौचं तदर्धं निशि कीर्तितम् ।
तदर्धम् आतुरे प्रोक्तम् आतुरस्यार्धम् अध्वनि ॥ ५।१२
न्यूनाधिकं न कर्तव्यं शौचे शुद्धिम् अभीप्सता ।
प्रायश्चित्तेन युज्येत विहितातिक्रमे कृते ॥ ५।१३
इति दाक्षे धर्मशास्त्रे पञ्चमो ऽध्यायः ।