०४

चतुर्थो ऽध्यायः

पत्नीमूलं गृहं पुंसां यदि छन्दो ऽनुवर्तिनी ।
गृहाश्रमात् परं नास्ति यदि भार्या वशानुगा ।
तया धर्मार्थकामाख्यत्रिवर्गफलम् अश्नुते ॥ ४।१

प्राकाम्ये वर्तमाना तु स्नेहान् न तु निवारिता ।
अवश्या सा भवेत् पश्चाद् यथा व्याधिर् उपेक्षितः ॥ ४।२

अनुकूला ह्य् अवाग्दुष्टा दक्षा साध्वी प्रियंवदा ।
आत्मगुप्ता स्वामिभक्ता देवता सा न मानुषी ॥ ४।३

अनुकूलकलत्रो यस् तस्य स्वर्ग इहैव हि ।
प्रतिकूलकलत्रस्य नरको नात्र संशयः ॥ ४।४

स्वर्गे ऽपि दुर्लभं ह्य् एतद् अनुरागपरस्परम् ।
रक्त एको विरक्तो ऽन्यस् तस्मात् कष्टतरं तु किम् ॥ ४।५

गृहवासः सुखार्थाय पत्नीमूलं च तत् सुखम् ।
सा पत्नी या विनीता स्याच् चित्तज्ञा वशवर्त्तिनी ॥ ४।६

दुःखा ह्य् अन्या सदा खिन्ना चित्तभेदः परस्परम् ।
प्रतिकूलकलत्रस्य द्विदारस्य विशेषतः ॥ ४।७

जलौकावत् स्त्रियः सर्वाः भूषणाच्छादनाशनैः ।
सुभूत्यापि कृता नित्यं पुरुषं ह्य् अपकर्षति ॥ ४।८

जलौका रक्तम् आदत्ते केवलं रक्तकामुकी ।
अङ्गना तु धनं चित्तं मांसं वीर्यं तथा सुखम् ॥ ४।९

साशङ्का च भवेद् बाल्ये यौवने विषयोन्मुखी ।
तृणवन् मन्यते नारी वृद्धभावे स्वकं तनुम् ॥ ४।१०

अनुकूला सदा हृष्टा दक्षा साध्वी पतिव्रता ।
एतावद्गुणसंयुक्ता श्रीर् एव स्त्री न संशयः ॥ ४।११

प्रहृष्टमानसा नित्यं स्थानमानविचक्षणा ।
भर्तुः प्रीतिकरी या तु सा भार्या इतरा जरा ॥ ४।१२

शिष्यो भार्या शिशुर् भ्राता मित्रं दासः समाश्रितः ।
यस्यैते तु विनीता स्युस् तस्य लोके हि गौरवम् ॥ ४।१३

प्रथमा धर्मपत्नी स्याद् द्वितीया रतिवर्धिनी ।
दृष्टमात्रं फलं तत्र नादृष्टम् उपजायते ॥ ४।१४

धर्मपत्नी समाख्याता निर्दोषा यदि सा भवेत् ।
दोषे सति न दोषः स्याद् अन्या कार्या गुणान्विता ॥ ४।१५

अदुष्टं विनतां भार्यां यौवने यः परित्यजेत् ।
स जीवनान्ते स्त्रीवञ् च वैधव्यञ् च समाप्नुयात् ॥ ४।१६

दरिद्रं व्याधितं मूर्खं भर्तारं यावमन्यते ।
इहैव सा शुनी गृध्री शूकरी च भवेत् पुनः ॥ ४।१७

मृते भर्तरि या नारी समारोहेद् हुताशनम् ।
सारुन्धतीसमाचारा स्वर्गलोके महीयते ॥ ४।१८

व्यालग्राही यथा व्यालं बलाद् उद्धरते विलात् ।
तथा सा पतिम् उद्धृत्य तेनैव सह मोदते ॥ ४।१९

चाण्डालप्रत्यवसितपरिव्राजकतापसाः ।
तेषां जातान्य् अपत्यानि चाण्डालैः सह वासयेत् ॥ ४।२०

इति दाक्षे धर्मशास्त्रे चतुर्थो ऽध्यायः ।