०३

तृतीयो ऽध्यायः

सुधा नव गृहस्थस्य सद्व्ययानि नवैव च ।
तथैव नव कर्माणि विकर्माणि तथा नव ॥ ३।१

प्रछन्नानि नवान्यानि प्रकाश्यानि तथा नव ।
सफलानि नवान्यानि निष्फलानि नवैव तु ॥ ३।२

अदेयानि नवान्यानि वस्तुजातानि सर्वदा ।
नवका नव निर्दिष्टा गृहस्थोन्नतिकारकाः ॥ ३।३

सुधावस्तूनि वक्ष्यामि विशिष्टे गृहम् आगते ।
मनश् चक्षुर् मुखं वाचं सौम्यं दद्यात् चथुष्टयम् ॥ ३।४

अभ्युत्थानम् इहागच्छ पूर्वालापः प्रियान्वितः ।
उपासनम् अनुव्रज्या कार्याण्य् एतानि यत्नतः ॥ ३।५

इषद् दानानि चान्यानि भूमिर् आपस् तृणानि च ।
पादशौचं तथाभ्यङ्गम् आसनं शयनं तथा ॥ ३।६

किंचिच् चान्नं यथाशक्ति नास्यानश्नन् गृहे वसेत् ।
मृज् जलं चार्थिने देयम् एतान्य् अपि सदा गृहे ॥ ३।७

सन्ध्या स्नानं जपो होमः स्वाध्यायो देवतार्चनम् ।
वैश्वदेवं तथातिथ्यम् उदकं वा स्वशक्तितः ॥ ३।८

देवपितृमनुष्यानां दिनानाथतपस्विनाम् ।
मातापितृगुरूणाञ् च संविभागो यथार्हतः ॥ ३।९

एतानि नव कर्माणि विकर्माणि तथा पुनः ।
अनृतं पारदार्यञ् च तथाभक्ष्यस्य भक्षणम् ॥ ३।१०

अगम्यागमनापेयपानं स्तेयञ् च हिंसनम् ।
अश्रौतकर्माचरणं मित्रधर्मबहिष्कृतम् ॥ ३।११

नवैतानि विकर्माणि सततं तानि वर्जयेत् ।
आयुर् वित्तं गृहच्छिद्रं मन्त्रमैथुनभेषजम् ॥ ३।१२

तपोदानापमाने च नव गोप्यानि यत्नतः ।
प्रायोगम् ऋणशुद्धिश् च दानाध्ययनविक्रयाः ॥ ३।१३

कन्यादानं वृषोत्सर्गो रहः पापं च कुत्सितम् ।
प्रकाश्यानि नवैतानि गृहस्थाश्रमिभिः सदा ॥ ३।१४

मातापित्रोर् गुरौ मित्रे विनीते चोपकारिणि ।
दिनानाथविशिष्टेभ्यो दत्तं च सफलं भवेत् ॥ ३।१५

धूर्ते वन्दिनि मल्ले च कुवैद्ये कितवे शठे ।
चाटुचारणचौरेभ्यो दत्तं च भवति निष्फलम् ॥ ३।१६

सामान्यं याचितं न्यास आधिर् दाराः सुहृद् धनम् ।
क्रमायातं च निक्षेपः सर्वस्वाञ् चान्वये सति ॥ ३।१७

आपत्स्व् अपि न देयानि नव वस्तूनि सर्वदा ।
यो ददाति स मूढात्मा प्रायश्चित्ती भवेन् नरः ॥ ३।१८

नवनवकवेत्तारम् अनुष्ठानपरं नरम् ।
इह लोके परत्रापि श्रीस् चैनम् नैव मुञ्चति ॥ ३।१९

यथैवात्मा परस् तद्वद् द्रष्टव्यः सुखम् इच्छता ।
सुखदुःखानि तुल्यानि यथात्मनि तथा परे । ३।२०

सुखं वा यदि वा दुःखं यत् किञ्चित् क्रियते परे ।
तत् कृतं तु पुनः पश्चात् सर्वम् आत्मनि तद् भवेत् ॥ ३।२१

न क्लेशेन विना द्रव्यं द्रव्यहीने कुतः क्रिया ।
क्रियाहीने कुतो धर्मः धर्महीने कुतः सुखम् ॥ ३।२२

सुखं च वाञ्छते सर्वस् तच् च धर्मसमुद्भवम् ।
तस्माद् धर्मः सदा कार्यः सर्ववर्णैः प्रयत्नतः ॥ ३।२३

न्यायागतेन द्रव्येण कर्तव्यं पारलौकिकम् ।
दानञ् च विधिना देयं काले पात्रे गुणान्विते ॥ ३।२४

समं द्विगुणसाहस्रम् आनन्त्यञ् च यथाक्रमम् ।
दाने फलविशेषः स्याद् धिंसायां तावद् एव तु ॥ ३।२५

समम् अब्राह्मणे दानं द्विगुणं ब्राह्मणब्रुवे ।
सहस्रगुणम् आचार्ये त्व् अनन्तं वेदपारगे ॥ ३।२६

विधिहीने तथा पात्रे यो ददाति प्रतिग्रहम् ।
न केवलं तद् विनश्येच् छेषम् अप्य् अस्य नश्यति ॥ ३।२७

व्यसनप्रतिकाराय कुटुम्बार्थञ् च याचते ।
एवम् अन्विष्य दातव्यं सर्वदानेष्व् अयं विधिः ॥ ३।२८

मातापितृविहीनं तु संस्कारोद्वहनादिभिः ।
यः स्थापयति तस्येह पुण्यसंख्या न विद्यते ॥ ३।२९

न तच् छ्रेयो ऽग्निहोत्रेण नाग्निष्टोमेन लभ्यते ।
यच् छ्रेयः प्राप्यते पुंसा विप्रेण स्थापितेन वै ॥ ३।३०

यद् यद् इष्टतमं लोके यच् चापि दयितं गृहे ।
तत् तद् गुणवते देयं तद् एवाक्षयं इच्छता ॥ ३।३१

इति दाक्षे धर्मशास्त्रे तृतीयो ऽध्यायः ।