०२

द्वितीयो ऽध्यायः

प्रातर् उत्थाय कर्तव्यं यद् द्विजेन दिने दिने ।
तत् सर्वं सम्प्रवक्ष्यामि द्विजानाम् उपकारकम् ॥ २।१

उदयास्तमयं यावन् न विप्रः क्षनिको भवेत् ।
नित्यनैमित्तिकैर् मुक्तः काम्यैश् चान्यैर् विगर्हितैः ॥ २।२

यः स्वकर्म परित्यज्य यद् अन्यत् कुरुते द्विजः ।
अज्ञानाद् अथ वा लोभात् स तेन पतितो भवेत् ॥ २।३

दिवसस्याद्यभागे तु कृत्यं तस्योपदिश्यते ।
द्वितीये च तृतीये च चतुर्थे पञ्चमे तथा ॥ २।४

षष्ठे च सप्तमे चैव अष्टमे च पृथक् पृथक् ।
विभागेष्व् एषु यत् कर्म तत् प्रवक्ष्याम्य् अशेषतः ॥ २।५

उषःकाले तु सम्प्राप्ते शौचं कुर्याद् यथाविधि ।
ततः स्नानं प्रकुर्वीत दन्तधावनपूर्वकम् ॥ २।६

अत्यन्तमलिनः कायो नवच्छिद्रसमन्वितः ।
स्रवत्य् एव दिवारात्रौ प्रातःस्नानेन शुध्यति ॥ २।७

क्लिद्यन्ति हि प्रसुप्तस्य इन्द्रियाणि स्रवन्ति च ।
अङ्गानि समतां यान्ति उत्तमान्य् अधमैः सह ॥ २।८

लालास्वेदसमाकीर्णः शयनाद् उत्थितः पुमान् ।
अस्नात्वा नाचरेत् कर्म जपहोमादि किञ्चन ॥ २।९

प्रातर् उत्थाय यो विप्रः प्रातःस्नायी भवेत् सदा ।
समस्तजन्मजं पापं त्रिभिर् वर्षैर् व्यपोभति ॥ २।१०

उषस्य् उषसि यत् स्नानं सन्ध्यायाम् उदिते रवौ ।
प्राजापत्येन तत् तुल्यं सर्वपापप्रनाशनम् ॥ २।११

प्रातःस्नानं प्रशंसन्ति दृष्टादृष्टकरं हि तत् ।
सर्वम् अर्हति पूतात्मा प्रातःस्नायी जपादिकम् ॥ २।१२

स्नानाद् अनन्तरं तावद् उपस्पर्शनम् उच्यते ।
अनेनैव विधानेन आचान्तः शुचिताम् इयात् ॥ २।१३

प्रक्षाल्य पादौ हस्तौ च त्रिः पिबेत् अम्बु वीक्षितम् ।
संमृज्याङ्गुष्ठमूलेन द्विः प्रमृज्यात् ततो मुखम् ॥ २।१४

संहत्य तिसृभिः पूर्वम् आस्यम् एवम् उपस्पृशेत् ।
ततः पादौ समभ्युक्ष्य अङ्गानि समुपस्पृशेत् ॥ २।१५

अङ्गुष्ठेन प्रदेशिन्या घ्रानं स्पृश्याद् अनन्तरम् ।
अङ्गुष्ठानामिकाभ्यां तु चक्षुःश्रोत्रे पुनः पुनः ॥ २।१६

नाभिं कनिष्ठाङ्गुष्ठाभ्यां हृदयञ् च तलेन वै ।
सर्वाभिस् तु शिरः पश्चाद् बाहू चाग्रेण संस्पृशेत् ॥ २।१७

सध्यानाञ् च प्रभाते च मध्याह्ने च ततः पुनः ।
यो न सन्ध्याम् उपासीत ब्राह्मणो हि विशेषतः ।
जिवन्न् एव स शूद्रः स्यान् मृतः श्वा चैव जायते ॥ २।१८

सन्ध्याहिनो शुचिर् नित्यम् अनर्हः सर्वकर्मसु ।
यद् अन्यत् कुरुते कर्म न तस्य फलभाग् भवेत् ॥ २।१९

सन्ध्याकर्मावसाने तु स्वयं होमो विधीयते ।
स्वयं होमे फलं यत् स्यात् तद् अन्येन न जायते ॥ २।२०

ऋत्विक् पुत्रो गुरुर् भ्राता भागिनेयो ऽथ विट्पतिः ।
एतैर् एव हुतं यत् तु तद् हुतं स्वयम् एव हि ॥ २।२१

देवकार्यं ततः कृत्वा कुर्यान् मङ्गलवीक्षणम् ।
देवकार्यानि पूर्वाह्णे मनुष्यानां तु मध्यमे ।
पितृणाम् अपराह्णे च कार्याण्य् एतानि यत्नतः ॥ २।२२

पौर्वाह्निकं तु यत् कर्म तद् यदा सायम् आचरेत् ।
न तस्य फलम् आप्नोति वन्ध्यास्त्रीमैथुनं यथा ॥ २।२३

दिवसस्याद्यभागे तु सर्वम् एतत् समाचरेत् ।
द्वितीये च तथा भागे वेदाभ्यासो विधीयते ॥ २।२४

वेदाभ्यासो हि विप्रानां परमं तप उच्यते ।
ब्रह्मयज्ञः स विज्ञेयः षडङ्गसहितस् तु यः ॥ २।२५

वेदस्वीकरणं पूर्वं विचारो ऽभ्यसनं जपः ।
ततो दानाञ् च शिष्येभ्यो वेदाभ्यासो हि पञ्चधा ॥ २।२६

समित्पुष्पकुशादीनां स कालः समुदाहृतः ।
तृतीये च तथा भागे पोष्यवर्गार्थसाधनम् ॥ २।२७

माता पिता गुरुर् भार्या प्रजा दीनाः समाश्रिताः ।
अभ्यागतो ऽतिथिश् चापि पोष्यवर्ग उदाहृतः ॥ २।२८

ज्ञातिर् बन्धुजनः क्षिणस् तथानाथः समाश्रितः ।
अन्ये ऽप्य् अधनयुक्तश् च पोष्यवर्ग उदाहृतः ॥ २।२९

भरणं पोष्यवर्गस्य प्रशस्तं स्वर्गसाधनम् ।
नरकं पीडनं चास्य तस्माद् यत्नेन तं भरेत् ॥ २।३०

सार्वभौतिकम् अन्नाद्यं कर्तव्यं तु विशेषतः ।
ज्ञानविद्भ्यः प्रदातव्यम् अन्यथा नरकं व्रजेत् ॥ २।३१

स जीवति य एवैको बहुभिश् चोपजीव्यते ।
जीवन्तो ऽपि मृतास् त्व् अन्ये पुरुषाः स्वोदरंभराः ॥ २।३२

बह्वर्थे जीव्यते कैश्चित् कुटुम्बार्थे तथापरे ।
आत्मार्थे ऽन्यो न शक्नोति स्वोदरेणापि दुःखितः ॥ २।३३

दीनानाथविशिष्टेभ्यो दातव्यं भूतिम् इच्छता ।
अदत्तदाना जायन्ते परभाग्योपजीविनः ॥ २।३४

यद् ददाति विशिष्टेभ्यो यज् जुहोति दिने दिने ।
तत् तु वित्तम् अहम् मन्ये शेषं कस्यापि रक्षति ॥ २।३५

चतुर्थे च तथा भागे स्नानार्थं मृदम् आहरेत् ।
तिलपुष्पकुशादीनि स्नायाच् चाकृत्रिमे जले ॥ २।३६

नित्यं नैमित्तिकं काम्यं त्रिविधं स्नानम् उच्यते ।
तेषां मध्ये तु यन् नित्यं तत् पुनर् भिद्यते त्रिधा ॥ २।३७

मलापकर्षणं पश्चान् मन्त्रवत् तु जले स्मृतम् ।
सन्ध्यास्नानम् उभाभ्याञ् च स्नानभेदाः प्रकीर्तिताः ॥ २।३८

मार्जनं जलमध्ये तु प्राणायामो यतस् ततः ।
उपस्थानं च तत्पश्चात् सावित्र्या जप उच्यते ॥ २।३९

सविता देवता यस्या मुखम् अग्निस् त्रिपाच् च या ।
विश्वामित्र ऋषिश् छन्दो गायत्री सा विशिष्यते ॥ २।४०

पञ्चमे च तथा भागे संविभागो यथार्हतः ।
देवपितृमनुष्याणां कीर्तानाञ् चोपदिश्यते ॥ २।४१

देवैश् चैव मनुष्यैश् च तिर्यग्भिश् चोपजीव्यते ।
गृहस्थः प्रत्यहं यस्मात् तस्माज् ज्येष्ठाश्रमी गृही ॥ २।४२

त्रयाणाम् आश्रमाणां तु गृहस्थो योनिर् उच्यते ।
सीदमानेन तेनैव सीदन्त्य् अन्ये ऽपि ते त्रयः ॥ २।४३

मूलप्राणो भवेत् स्कन्धः स्कन्धाच् छाखाश् च पल्लवाः ।
मूलेनैकेन नष्टेन सर्वम् एव विनश्यति ॥ २।४४

तस्मात् सर्वप्रयत्नेन रक्षणीयो गृहाश्रमी ।
राज्ञा चान्यैस् त्रिभिः पूज्यो माननीयश् च सर्वदा ॥ २।४५

गृहस्थो ऽपि क्रियायुक्तो न गृहेण गृही भवेत् ।
न चैव पुत्रदारैश् च स्वकर्मपरिवर्जितः ॥ २।४६

अस्नात्वा चाप्य् अहुत्वा चाजप्त्वादत्त्वा च मानवः ।
देवादीनाम् ऋणीभूत्वा नरकं प्रतिपद्यते ॥ २।४७

एक एव हि भुङ्क्ते ऽन्नम् अपरो ऽन्नेन भुज्यते ।
न भुज्यते स एवैको यो भुङ्क्ते ऽन्नं ससाक्षिकम् ॥ २।४८

विभागशीलो यो नित्यं क्षमायुक्तो दयापरः ।
देवतातिथिभक्तश् च गृहस्थः स तु धार्मिकः ॥ २।४९

दया लज्जा क्षमा श्रद्धा प्रज्ञा योगः कृतज्ञता ।
एते यस्य गुणाः सन्ति स गृही मुख्य उच्यते ॥ २।५०

संविभागं ततः कृत्वा गृहस्थः शेषभुग् भवेत् ।
भूक्त्वा तु सुखम् आस्थाय तद् अन्नं परिणामयेत् ॥ २।५१

इतिहासपुराणाद्यैः षष्ठञ् च सप्तमं नयेत् ।
अष्टमे लोकयात्रा तु बहिःसन्ध्या ततः पुनः ॥ २।५२

होमो भोजनकञ् चैव यच् चान्यद् गृहकृत्यकम् ।
कृत्वा चैव ततः पश्चात् स्वाध्यायं किञ्चिद् आचरेत् ॥ २।५३

प्रदोषपश्चिमौ यामौ वेदाभ्यासेन यापयेत् ।
यामद्वयं शयानो हि ब्रह्मभूयय कल्पते ॥ २।५४

नैमित्तिकानि काम्यानि निपतन्ति यथा यथा ।
तथा तथैव कार्याणि न कालस् तु विधीयते ॥ २।५५

अस्मिन्न् एव प्रयुञ्जानो ह्य् अस्मिन्न् एव प्रलीयते ।
तस्मात् सर्वप्रयत्नेन कर्तव्यं सुखम् इच्छता ॥ २।५६

सर्वत्र मध्यमौ यामौ हुतशेषं हविश् च यत् ।
भुञ्जानश् च शयानश् च ब्राह्मणो नावसीदति ॥ २।५७

इति दाक्षे धर्मशास्त्रे द्वितीयो ऽध्यायः ।